हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०५९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५८ हरिवंशपुराणम्
अध्यायः ०५९
वेदव्यासः
अध्यायः ०६० →
श्रीकृष्णेन रुक्मिण्याः हरणम्, यादववीराणां जरासंधेन एवं शिशुपालेन सह घोरयुद्धम्

एकोनषष्टितमोऽध्यायः

वैशम्पायन उवाच
एतस्मिन्नेव काले तु जरासंधः प्रतापवान् ।
नृपानुद्योजयामास चेदिराजप्रियेप्सया ।। १ ।।
सुताया भीष्मकस्याथ रुक्मिण्या रुक्मभूषणः ।
शिशुपालस्य नृपतेर्विवाहो भविता किल ।। २ ।।
दन्तवक्त्रस्य तनयं सुवक्त्रममितौजसम् ।
सहस्राक्षसमं युद्धे मायाशतविशारदम् ।। ३ ।।
पौण्ड्रस्य वासुदेवस्य तथा पुत्रं महाबलम् ।
सुदेवं वीर्यसम्पन्नं पृथगक्षौहिणीपतिम् ।। ४ ।।
एकलव्यस्य पुत्रं च वीर्यवन्तं महाबलम् ।
पुत्रं च पाण्ड्यराजस्य कलिङ्गाधिपतिं तथा ।। ५ ।।
कृताप्रियं च कृष्णेन वेणुदारिं नराधिपम् ।
अंशुमन्तं तथा क्राथं श्रुतधर्माणमेव च ।। ६ ।।
निवृत्तशत्रुं कालिङ्गं गान्धाराधिपतिं तथा ।
प्रसह्य च महावीर्यं कौशाम्ब्यधिपमेव च ।। ७ ।।
भगदत्तो महासेनः शलः शाल्वो महाबलः ।
भूरिश्रवा महासेनः कुन्तिवीर्यश्च वीर्यवान् ।
स्वयं वरार्थं सम्प्राप्ता भोजराजनिवेशने ।। ८ ।।
जनमेजय उवाच--
कस्मिन् देशे नृपो जज्ञे रुक्मी वेदविदां वरः ।
कस्यान्ववाये द्युतिमान् सम्भूतो द्विजसत्तम ।। ९ ।।
वैशम्पायन उवाच
राजर्षेर्यादवस्यासीद् विदर्भो नाम वै सुतः ।
विन्ध्यस्य दक्षिणे पार्श्वे विदर्भायां न्यवेशयत् ।। 2.59.१० ।।
क्रथकैशिकमुख्यास्तु पुत्रास्तस्य महाबलाः ।
बभूवुर्वीर्यसम्पन्नाः पृथग्वंशकरा नृपाः ।। ११ ।।
तस्यान्ववाये भीमस्य जज्ञिरे वृष्णयो नृपाः ।
क्रथस्य त्वंशुमान् वंशे भीष्मकः कैशिकस्य तु ।। १२ ।।
हिरण्यरोमेत्याहुर्यं दाक्षिणात्येश्वरं नृपाः ।
अगस्त्यगुप्तामाशां यः कुण्डिनस्थोऽन्वशान्नृपः।। १३।।
रुक्मी तस्याभवत्पुत्रो रुक्मिणी च विशाम्पते ।
रुक्मी चास्त्राणि दिव्यानि द्रुमात्प्राप महाबलः ।। १४।।
जामदग्न्यात्तथा रामाद्ब्राह्ममस्त्रमवाप्तवान् ।
प्रास्पर्द्धत स कृष्णेन नित्यमद्भुतकर्मणा ।। १५ ।।
रुक्मिणी त्वभवद्राजन् रूपेणासदृशी भुवि ।
चकमे वासुदेवस्तां श्रवादेव महाद्युतिः ।। १६ ।।
स तया चाभिलषितः श्रवादेव जनार्दनः ।
तेजोवीर्यबलोपेतः स मे भर्ता भवेदिति ।। १७ ।।
तां ददौ न च कृष्णाय द्वेषाद्रुक्मी महाबलः ।
कंसस्य वधसंतापात् कृष्णायामिततेजसे ।। १८ ।।
याचमानाय कंसस्य द्वेष्योऽयमिति चिन्तयन् ।
चैद्यस्यार्थे सुनीथस्य जरासंधस्तु भूमिपः ।
वरयामास तां राजा भीष्मकं भीमविक्रमम् ।। १९ ।।
चेदिराजस्य तु वसोरासीत्पुत्रो बृहद्रथः ।
मगधेषु पुरा येन निर्मितोऽसौ गिरिव्रजः ।। 2.59.२० ।।
तस्यान्ववाये जज्ञेऽसौ जरासंधो महाबलः ।
वसोरेव तदा वंशे दमघोषोऽपि चेदिराट् ।। २१ ।।
दमघोषस्य पुत्रास्तु पञ्च भीमपराक्रमाः ।
भगिन्यां वसुदेवस्य श्रुतश्रवसि जज्ञिरे ।। २२ ।।
शिशुपालो दशग्रीवो रैभ्योऽथोपदिशो बली ।
सर्वास्त्रकुशला वीरा वीर्यवन्तो महाबलाः ।। २३ ।।
ज्ञातेः समानवंशस्थ सुनीथः प्रददौ सुतम् ।
जरासंधस्तु सुतवद् ददर्शैनं जुगोप च ।। २४ ।।
जरासंधं पुरस्कृत्य वृष्णिशत्रुं महाबलम् ।
कृतान्यागांसि चैद्येन वृष्णीनां चाप्रियैषिणा ।। २५ ।।
जामाता त्वभवत्तस्य कंसस्तस्मिन् हते युधि ।
कृष्णार्थं वैरमभवज्जरासंधस्य वृष्णिभिः ।। २६ ।।
भीष्मकं वरयामास सुनीथार्थे च रुक्मिणीम् ।
तां ददौ भीष्मकश्चापि शिशुपालाय वीर्यवान् ।। २७ ।।
ततश्चैद्यमुपादाय जरासंधो नराधिपः ।
ययौ विदर्भान् सहितो दन्तवक्त्रेण यायिना ।। २८ ।।
अनुज्ञातश्च पौण्ड्रेण वासुदेवेन धीमता ।
अङ्गवङ्गकलिङ्गानामीश्वरः स महाबलः ।। २९ ।।
मानयिष्यंश्च तान्रुक्मी प्रत्युद्गम्य नराधिपान् ।
परया पूजयोपेतांस्तान् निनाय पुरीं प्रति ।। 2.59.३० ।।
पितृष्वसुः प्रियार्थं च रामकृष्णावुभावपि ।
प्रययुर्वृष्णयश्चान्ये रथैस्तत्र बलान्विताः ।। ३१ ।।
क्रथकैशिकभर्ता तान् प्रतिगृह्य यथाविधि ।
पूजयामास पूजार्हान् बहिश्चैव न्यवेशयत् ।। ३२ ।।
श्वोभाविनि विवाहे च रुक्मिणी निर्ययौ बहिः ।
चतुर्युजा रथेनैन्द्रे देवतायतने शुभे ।। ३३ ।।
इन्द्राणीमर्चयिष्यन्ती कृतकौतुकमङ्गला ।
दीप्यमानेन वपुषा बलेन महता वृता ।। ३४ ।।
तां ददर्श तदा कृष्णो लक्ष्मीं साक्षादिव स्थिताम्।
रूपेणाग्र्येण सम्पन्नां देवतायतनान्तिके ।। ३५ ।।
वह्नेरिव शिखां दीप्तां मायां भूमिगतामिव ।
पृथिवीमिव गम्भीरामुत्थितां पृथिवीतलात् ।। ३६ ।।
मरीचिमिव सोमस्य सौम्यां स्त्रीविग्रहां भुवि ।
श्रीमिवाग्र्यां विना पद्मं भविष्यां श्रीसहायिनीम् ।
कृष्णेन मनसा दृष्टां दुर्निरीक्ष्यां सुरैरपि ।। ३७ ।।
श्यामावदाता सा ह्यासीत्पृथुचार्वायतेक्षणा ।
ताम्रौष्ठनयनापाङ्गी पीनोरुजघनस्तनी ।। ३८ ।।
बृहती चारुसर्वाङ्गी तन्वी शशिसितानना ।
ताम्रतुङ्गनखी सुभ्रूर्नीलकुञ्चितमूर्धजा ।। ३९ ।।
अत्यर्थं रूपतः कान्ता पीनश्रोणिपयोधरा ।
तीक्ष्णशुक्लैः समैर्दन्तैः प्रभासद्भिरलंकृता ।। 2.59.४० ।।
अनन्या प्रमदा लोके रूपेण यशसा श्रिया ।
रुक्मिणी रूपिणी देवी पाण्डुरक्षौमवासिनी ।। ४१ ।।
तां दृष्ट्वा ववृधे कामः कृष्णस्य प्रियदर्शनाम् ।
हविषेवानलस्यार्चिर्मनस्तस्यां समादधत् ।। ४२ ।।
रामेण सह निश्चित्य केशवस्तु महाबलः ।
तत्प्रमाथेऽकरोद्बुद्धिं वृष्णिभिः प्रणिधाय च ।। ४३ ।।
कृते तु देवताकार्ये निष्क्रामन्तीं सुरालयात् ।
उन्मथ्य सहसा कृष्णः स्वं निनाय रथोत्तमम् ।। ४४ ।।
वृक्षमुत्पाट्य रामोऽपि जघानापततः परान् ।
समनह्यन्त दाशार्हास्तदाज्ञप्ताश्च सर्वशः ।। ४५ ।।
ते रथैर्विविधाकारैः समुच्छ्रितमहाध्वजैः ।
वाजिभिर्वारणैश्चैव परिवव्रुर्हलायुधम् ।। ४६ ।।
आदाय रुक्मिणीं कृष्णो जगामाशु पुरीं प्रति ।
रामे भारं तमासज्य युयुधाने च वीर्यवान् ।। ४७ ।।
अक्रूरे विपृथौ चैव गदे च कृतवर्मणि ।
चक्रदेवे सुदेवे च सारणे च महाबले ।। ४८ ।।
निवृत्तशत्रौ विक्रान्ते भङ्गकारे विदूरथे ।
उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः ।। ४९।।
राजाधिदेवे मृदुरे प्रसेने चित्रके तथा ।
अतिदान्ते बृहद्दुर्गे श्वफल्के सत्यके पृथौ ।। 2.59.५० ।।
वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः ।
गुरुमासज्य तं भारं ययौ द्वारवतीं प्रति ।। ५१ ।।
दन्तवक्त्रो जरासंधः शिशुपालश्च वीर्यवान् ।
संनद्धा निर्ययुः क्रुद्धा जिघांसन्तो जनार्दनम् ।। ५२ ।।
अङ्गवङ्गकलिङ्गैश्च सार्द्धं पौण्ड्रैश्च वीर्यवान् ।
निर्ययौ चेदिराजस्तु भ्रातृभिः स महारथैः ।। ५३ ।।
तान् प्रत्यगृह्णन् संरब्धा वृष्णिवीरा महारथाः ।
संकर्षणं पुरस्कृत्य वासवं मरुतो यथा ।। ५४ ।।
आपतन्तं हिं वेगेन जरासंधं महाबलम् ।
षड्भिर्विव्याध नाराचैर्युयुधानो महामृधे ।। ५५ ।।
अक्रूरो दन्तवक्त्रं तु विव्याध नवभिः शरैः ।
तं प्रत्यविद्ध्यत् कारूषो बाणैर्दशभिराशुगैः ।। ५६ ।।
विपृथुः शिशुपालं तु शरैर्विव्याध सप्तभिः ।
अष्टभिः प्रत्यविद्ध्यत् तं शिशुपालः प्रतापवान्।। ५७ ।।
गवेषणस्तु चैद्यं तु षडभिर्विव्याध मार्गणैः ।
अतिदान्तस्तथाष्टाभिर्बृहद्दुर्गश्च पञ्चभिः ।। ५८ ।।
प्रतिविव्याध तांश्चैद्यः पञ्चभिः पञ्चभिः शरैः ।
जघानाश्वांश्च चतुरश्चतुर्भिर्विपृथोः शरैः ।। ५९ ।।
बृहद्दुर्गस्य भल्लेन शिरश्चिच्छेद चारिहा ।
गवेषणस्य सूतं तु प्राहिणोद् यमसादनम् ।। 2.59.६० ।।
हताश्वं तु रथं त्यक्त्वा विपृथुस्तु महाबलः ।
आरुरोह रथं शीघ्रं बृहद्दुर्गस्य वीर्यवान् ।। ६१ ।।
विपृथोः सारथिश्चापि गवेषणरथं द्रुतम् ।
आरुह्य जवनानश्वान् नियन्तुमुपचक्रमे ।। ६२ ।।
ते क्रुद्धाः शरवर्षेण सुनीथं समवाकिरन् ।
नृत्यन्तं रथमार्गेषु चापहस्ताः कलापिनः ।। ६३ ।।
चक्रदेवो दन्तवक्त्रं बिभेदोरसि पत्रिणा ।
षड्रथं पञ्चभिश्चैव विव्याध युधि मार्गणैः ।। ६४ ।।
ताभ्यां स विद्धो दशभिर्बाणैर्मर्मातिगैः शितैः ।
ततो बली चक्रदेवं बिभेद दशभिः शरैः ।। ६५ ।।
पञ्चभिश्चापि विव्याध सोऽपि दूराद्विदूरथम् ।
विदूरथोऽपि तं षड्भिर्विव्याधाजौ शितैः शरैः ।। ६६ ।।
त्रिंशता प्रत्यविध्यत् तं बली बाणैर्महाबलम् ।
कृतवर्मा बिभेदाजौ राजपुत्रं त्रिभिः शरैः ।। ६७ ।।
न्यहनत् सारथिं चास्य ध्वजं चिच्छेद सोच्छ्रितम् ।
प्रतिविव्याध तं क्रुद्धः पौण्ड्रः षड्भिः शिलीमुखैः ।।६८।।
धनुश्चिच्छेद चाप्यस्य भल्लेन कृतवर्मणः ।
निवृत्तशत्रुः कालिङ्गं बिभेद निशितैः शरैः ।
तोमरेणांसदेशे तं निर्बिभेद कलिङ्गराट् ।। ६९ ।।
गजेनासाद्य कङ्कस्तु गजमङ्गस्य वीर्यवान् ।
तोमरेण बिभेदाङ्गं बिभेदाङ्गश्च तं शरैः ।। 2.59.७० ।।
चित्रकश्च श्वफल्कश्च सत्यकश्च महारथः ।
कलिङ्गस्य तथानीकं नाराचैर्बिभिदुः शतैः ।। ७१ ।।
तं निसृष्टद्रुमेणाजौ वङ्गराजस्य कुञ्जरम् ।
जघान रामः संक्रुद्धो वङ्गराजं च संयुगे ।। ७२ ।।
तं हत्वा रथमारुह्य धनुरादाय वीर्यवान् ।
संकर्षणो जघानोग्रैर्नाराचैः कैशिकान् बहून् ।। ७३ ।।
षड्भिर्निहत्य कारूषान् महेष्वासान् स वीर्यवान् ।
शतं जघान संक्रुद्धो मागधानां महाबले ।। ७४ ।।
निहत्य तान् महाबाहुर्जरासंधं ततोऽभ्ययात् ।
तमापतन्तं विव्याध नाराचैर्मागधस्त्रिभिः ।। ७५ ।।
तं बिभेदाष्टभिः क्रुद्धो नाराचैर्मुसलायुधः ।
चिच्छेद चास्य भल्लेन ध्वजं हेमपरिष्कृतम् ।। ७६ ।।
तद् युद्धमभवद् घोरं तेषां देवासुरोपमम् ।
सृजतां शरवर्षाणि निघ्नतामितरेतरम् ।। ७७ ।।
गजैर्गजा हि संक्रुद्धाः संनिपेतुः सहस्रशः ।
रथै रथाश्च संरब्धाः सादिनश्चापि सादिभिः ।। ७८ ।।
पदातयः पदातींश्च शक्तिचर्मासिपाणयः ।
छिन्दन्तश्चोत्तमाङ्गानि विचेरुर्युधि ते पृथक् ।। ७९ ।।
असीनां पात्यमानानां कवचेषु महास्वनः ।
शराणां पततां शब्दः पक्षिणामिव शुश्रुवे ।। 2.59.८० ।।
भेरीशङ्खमृदङ्गानां वेणूनां च मृधे ध्वनिम् ।
जुगूह घोषः शस्त्राणां ज्याघोषश्च महात्मनाम् ।। ८१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीहरणे एकोनषष्टितमोऽध्यायः ।। ५९ ।।