हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०१४

विकिस्रोतः तः
← अध्यायः ०१३ हरिवंशपुराणम्
अध्यायः ०१४
वेदव्यासः
अध्यायः ०१५ →
बलरामेण प्रलम्बासुरस्य वधम्

चतुर्दशोऽध्यायः

वैशम्पायन उवाच
अथ तौ जातहर्षौ तु वसुदेवसुतावुभौ ।
तत् तालवनमुत्सृज्य भूयो भाण्डीरमागतौ ।। १ ।।
चारयन्तौ विवृद्धानि गोधनानि शुभानि च ।
स्फीतसस्यप्ररूढानि वीक्षमाणौ वनानि च ।। २ ।।
क्ष्वेडयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान् ।
नामभिर्व्याहरन्तौ च सवत्सा गाः परंतपौ ।। ३ ।।
निर्योगपाशैरासक्तैः स्कन्धाभ्यां शुभलक्षणौ ।
वनमालाकुलोरस्कौ बालशृङ्गाविवर्षभौ ।। ४ ।।
सुवर्णाञ्जनचूर्णाभावन्योन्यसदृशाम्बरौ ।
महेन्द्रायुधसंसक्तौ शुक्लकृष्णाविवाम्बुदौ ।। ५ ।।
कुशाग्रकुसुमानां च कर्णपूरौ मनोरमौ ।
वनमार्गेषु कुर्वाणौ वन्यवेषधरावुभौ ।। ६ ।।
गोवर्धनस्यानु चरौ वने सानुचरौ तु तौ ।
चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ ।। ७ ।।
तावेवं मानुषीं दीक्षां वहन्तौ सुरपूजितौ ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ।। ८ ।।
तौ तु भाण्डीरमाश्रित्य बालक्रीडानुवर्तिनौ ।
प्राप्तौ परमशाखाढ्यं न्यग्रोधं शाखिनां वरम् ।। ९ ।।
तत्र त्वान्दोलिकाभिश्च युद्धमार्गविशारदौ ।
अश्मभिः क्षेपणीयैश्च तौ व्यायाममकुर्वताम् ।। 2.14.१० ।।
युद्धमार्गैश्च विविधैर्गोपालैः सहितावुभौ ।
मुदितौ सिंहविक्रान्तौ यथाकामं विचेरतुः ।। ११ ।।
तयो रमयतोरेव तल्लिप्सुरसुरोत्तमः ।
प्रलम्बोऽभ्यागमत्तत्र च्छिद्रान्वेषी तयोस्तदा ।। १२ ।।
गोपालवेषमास्थाय वन्यपुष्पविभूषितः ।
लोभयानः स तौ वीरौ हास्यैः क्रीडनकैस्तथा ।। १३ ।।
सोऽवगाहत निश्शङ्कस्तेषां मध्यममानुषः।
मानुषं वपुरास्थाय प्रलम्बो दानवोत्तमः ।। १४ ।।
प्रक्रीडिताश्च ते सर्वे सह तेनामरारिणा ।
गोपालवपुषं गोपा मन्यमानाः स्वबान्धवम्।। १५ ।।
स तु च्छिद्रान्तरप्रेप्सुः प्रलम्बो गोपतां गतः ।
दृष्टिं प्रणिदधे कृष्णे रौहिणेये च दारुणाम् ।। १६ ।।
अविषह्यं ततो मत्वा कृष्णमद्भुतविक्रमम् ।
रौहिणेयवधे यत्नमकरोद् दानवोत्तमः ।। १७ ।।
हरिणाक्रीडनं नाम बालक्रीडनकं ततः ।
प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपदुत्पतन् ।। १८ ।।
कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना ।
संकर्षणस्तु प्लुतवान् प्रलम्बेन सहानघ ।। १९ ।।
गोपालास्त्वपरे द्वन्द्वं गोपालैरपरैः सह ।
प्रद्रुता लङ्घयन्तो वै तेऽन्योन्यं लघुविक्रमाः ।। 2.14.२० ।।
श्रीदाममजयत् कृष्णः प्रलम्बं रोहिणीसुतः ।
गोपालैः कृष्णपक्षीयैर्गोपालास्त्वपरे जिताः ।। २१ ।।
ते वाहयन्तस्त्वन्योन्यं संहर्षात् सहसा द्रुताः ।
भाण्डीरस्कन्धमुद्दिश्य मर्यादां पुनरागमन् ।। २२ ।।
संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
द्रुतं जगाम विमुखः सचन्द्र इव तोयदः ।। २३ ।।
स भारमसहंस्तस्य रौहिणेयस्य धीमतः ।
ववृधे सुमहाकायः शक्राक्रान्त इवाम्बुदः ।। २४ ।।
स भाण्डीरवटप्रख्यं दग्धाञ्जनगिरिप्रभम् ।
स्वं वपुर्दर्शयामास प्रलम्बो दानवोत्तमः ।। २५ ।।
पञ्चस्तबकयुक्तेन मुकुटेनार्कवर्चसा ।
दीप्यमानाननो दैत्यः सूर्याक्रान्त इवाम्बुदः ।। २६ ।।
महाननो महाग्रीवः सुमहानन्तकोपमः ।
रौद्रः शकटचक्राक्षो नमयंश्चरणैर्महीम् ।। २७ ।।
स्रग्दामलम्बाभरणः प्रलम्बाम्बरभूषणः ।
वीरः प्रलम्बः प्रययौ लम्बतोय इवाम्बुदः ।।२८ ।।
स जहाराथ वेगेन रौहिणेयं महासुरः ।
सागरोपप्लवगतं कृत्स्नं लोकमिवान्तकः ।। २९ ।।
ह्रियमाणः प्रलम्बेन स तु संकर्षणो बभौ ।
उह्यमान इवाकाशे कालमेघेन चन्द्रमाः ।। 2.14.३० ।।
स संदिग्धमिवात्मानं मेने संकर्षणस्तदा ।
दैत्यस्कन्धगतः श्रीमान् कृष्णं चेदमुवाच ह ।। ३१ ।।
ह्रियेऽहं कृष्ण दैत्येन पर्वतोदग्रवर्ष्मणा ।
प्रदर्शयित्वा महतीं मायां मानुषरूपिणीम्।। ३२ ।।
कथमस्य मया कार्यं शासनं दुष्टचेतसः ।
प्रलम्बस्य प्रवृद्धस्य दर्पाद् द्विगुणवर्चसः ।। ३३ ।।
तमाह सस्मितं कृष्णः साम्ना हर्षाकुलेन वै ।
अभिज्ञो रौहिणेयस्य वृत्तस्य च बलस्य च ।। ३४ ।।
अहोऽयं मानुषो भावो व्यक्तमेवानुपाल्यते ।
यस्त्वं जगन्मयं देवं गुह्याद् गुह्यतरं गतः ।। ३५ ।।
स्मर नारायणात्मानं लोकानां त्वं विपर्यये ।
अवगच्छात्मनाऽऽत्मानं समुद्राणां समागमे ।। ३६ ।।
पुरातनानां देवानां ब्रह्मणः सलिलस्य च ।
आत्मवृत्तप्रभावाणां संस्मराद्यं च वै वपुः ।। ३७ ।।
शिरः खं ते जलं मूर्त्तिः पादौ भूर्दहनो मुखम्।
वायुर्लोकायुरुछ्वासो मनः सोमो ह्यभूत्तव ।। ३८ ।।
सहस्रास्यः सहस्राङ्गः सहस्रचरणेक्षणः ।
सहस्रपद्मनाभस्त्वं सहस्रांशुधरोऽरिहा ।। ३९ ।।
यत्त्वया दर्शितं लोके तत् पश्यन्ति दिवौकसः ।
यत् त्वया नोक्तपूर्वं हि कस्तदन्वेष्टुमर्हति ।। 2.14.४० ।।
यद् वेदितव्यं लोकेऽस्मिंस्तत्त्वया समुदाहृतम् ।
विदितं यत् तवैकस्य देवा अपि न तद् विदुः ।। ४१ ।।
आत्मजं ते वपुर्व्योम्नि न पश्यन्त्यात्मसम्भवम् ।
यत् तु ते कृत्रिमं रूपं तदर्चन्ति दिवौकसः ।। ४२ ।।
देवैर्न दृष्टश्चान्तस्ते तेनानन्त इति स्मृतः ।
त्वं हि सूक्ष्मो महानेकः सूक्ष्मैरपि दुरासदः ।। ४३ ।।
त्वय्येव जगतः स्तम्भे शाश्वती जगती स्थिता ।
अचला प्राणिनां योनिर्धारयत्यखिलं जगत् ।। ४४ ।।
चतुःसागरभोगस्वंः चातुर्वर्ण्यविभागवित् ।
चतुर्युगेषु लोकानां चातुर्होत्रफलाशनः ।।४५ ।।
यथाहमपि लोकानां तथा त्वं तच्च मे मतम् ।
उभावेकशरीरौ स्वो जगदर्थे द्विधाकृतौ ।। ४६ ।।
अहं वा शाश्वतः कृष्णस्त्वं वा शेषः पुरातनः ।
लोकानां शाश्वतो देवस्त्वं हि शेषः सनातनः ।
आवयोर्देहमात्रेण द्विधेदं धार्यते जगत् ।। ४७ ।।
अहं यः स भवानेव यस्त्वं सोऽहं सनातनः ।
द्वावेव विहितौ ह्यावामेकदेहौ महाबलौ ।। ४८ ।।
तदास्से मूढवत् त्वं किं प्राणेन जहि दानवम् ।
मूर्ध्नि देवरिपुं देव वज्रकल्पेन मुष्टिना ।। ४९ ।।
वैशम्पायन उवाच
संस्मारितस्तु कृष्णेन रौहिणेयः पुरातनम् ।
बलेनापूर्यत तदा त्रैलोक्यान्तरचारिणा ।। 2.14.५० ।।
ततः प्रलम्बं दुर्वृत्तं स बद्धेन महाभुजः ।
मुष्टिना वज्रकल्पेन मूर्ध्नि चैनं समाहनत् ।। ५१ ।।
तस्योत्तमाङ्गं स्वे काये विकपालं विवेश ह ।
जानुभ्यां चाहतः शेते गतासुर्दानवोत्तमः ।। ५२ ।।
जगत्यां विप्रकीर्णस्य तस्य रूपमभूत् तदा ।
प्रलम्बस्याम्बरस्थस्य मेघस्येव विदीर्यतः ।। ५३ ।।
तस्य भग्नोत्तमाङ्गस्य देहात् सुस्राव शोणितम् ।
बहुगैरिकसंयुक्तं शैलशृङ्गादिवोदकम् ।। ५४ ।।
तं निहत्य प्रलम्बं तु संहृत्य बलमात्मनः ।
पर्यष्वजत वै कृष्णं रौहिणेयः प्रतापवान् ।। ५५ ।।
तं तु कृष्णश्च गोपाश्च दिविस्थाश्च दिवौकसः ।
तुष्टुवुर्निहते दैत्ये जयाशीर्भिर्महाबलम् ।। ५६ ।।
बलेनायं हतो दैत्यो बालेनाक्लिष्टकर्मणा।
विवदन्त्यशरीरिण्यो वाचः सुरसमीरिताः ।। ५७ ।।
बलदेवेति नामास्य देवैरुक्तं दिवि स्थितैः ।
बलं तु बलदेवस्य तदा भुवि जना विदुः ।। ५८ ।।
कर्मजं निहते दैत्ये देवैरपि दुरासदे ।। ५९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां प्रलम्बवधे चतुर्दशोऽध्यायः ।। १४ ।।