हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०९३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९२ हरिवंशपुराणम्
अध्यायः ९३
वेदव्यासः
अध्यायः ०९४ →
नटवेशधारिणां यादवानां सुपुरे एवं वज्रपुरे सफलं अभिनयं, दानवानां तोषयित्वा तेभ्यः उपायनानां प्राप्तिः, प्रद्युम्नस्य प्रभावत्याः गृहे प्रवेशः

त्रिनवतितमोऽध्यायः

वैशम्पायन उवाच
ततः सुपुरवासीनामसुराणां नराधिप ।
ददावाज्ञां वज्रनाभो दीयतां गृहमुत्तमम् ।। १ ।।
आतिथ्यं क्रियतामेषां बहुरत्नमुपायनम् ।
वासांसि सुविचित्राणि सुखाय जनरञ्जनम् ।। २ ।।
भर्तुराज्ञां समालभ्य तथा चक्रुश्च सर्वशः ।
पूर्वश्रुतो नटः प्राप्तः कौतूहलमजीजनत् ।। ३ ।।
नटस्याथ ददुर्दैत्याः सत्कारं परया मुदा ।
पर्यायार्थे ददुश्चापि रत्नानि सुबहून्यथ ।। ४ ।।
ततः स ननृते तत्र वरदत्तो नटस्तथा ।
सुपुरे पुरवासीनां परं हर्षं समादधत् ।। ५ ।।
रामायणं महाकाव्यमुद्दिश्य नाटकं कृतम् ।
जन्म विष्णोरमेयस्य राक्षसेन्द्रवधेप्सया ।। ६ ।।
लोमपादो दशरथ ऋष्यशृङ्गं महामुनिम् ।
शान्तामप्यानयामास गणिकाभिः सहानघ ।। ७ ।।
रामलक्ष्यणशत्रुघ्ना भरतश्चैव भारत ।
ऋष्यशृङ्गश्च शान्ता च तथारूपैर्नटैः कृताः ।। ८ ।।
तत्कालजीविनो वृद्धा दानवा विस्मये गताः ।
आचचक्षुश्च तेषां वै रूपतुल्यत्वमच्युत ।। ९ ।।
संस्फाराभिनयौ तेषां प्रस्तावानां च धारणम् ।
दृष्ट्वा सर्वे प्रवेशं च दानवा विस्मयं गताः ।। 2.93.१० ।।
ते रक्ता विस्मयं नेदुरसुराः परया मुदा ।
उत्थायोत्थाय नाट्यस्य विषयेषु पुनः पुनः ।। ११ ।।
ददुर्वस्त्राणि तुष्टाश्च ग्रैवेयवलयानि च ।
हारान् मनोहरांश्चैव हेमवैडूर्यभूषितान् ।। १२ ।।
पृथगर्थेषु दत्तेषु लोकैस्ते तुष्टुवुर्नटाः ।
असुरांश्च मुनींश्चैव गोत्रैरभिजनैरपि ।। १३ ।।
प्रेषितं वज्रनाभस्य शाखानगरवासिभिः ।
नटस्य दिव्यरूपस्य नरेन्द्रागमनं तदा ।। १४ ।।।
पुरा श्रुतार्थो दैत्येन्द्रः प्रेषयामास भारत ।
आनीयतां वज्रपुरं नटोऽसाविति हर्षितः ।। १५ ।।
दानवेन्द्रवचः श्रुत्वा शाखानगरवासिभिः ।
नीता वज्रपुरं रम्यं नटवेषेण यादवाः ।। १६ ।।
आवासश्च ततो दत्तः सुकृतो विश्वकर्मणा ।
एष्टव्यं यश्च तत् सर्वं दत्तं शतगुणोत्तरम् ।। १७ ।।
अथ कालोत्सवं चक्रे वज्रनाभो महासुरः ।
कारयामास रम्यं च चमूवाटं प्रहृष्टवान् ।। १८ ।।
ततस्तान् परिविश्रान्तान् प्रेक्षार्थाय प्रचोदयत् ।
दत्त्वा रत्नानि भूरीणि वज्रनाभो महाबलः ।। १९ ।।
उपविष्टश्च तान् द्रष्टुं सह ज्ञातिभिरात्मवान् ।
छन्ने चान्तःपुरं स्थाप्य चक्षुर्दृश्ये नराधिप ।। 2.93.२० ।।
भैमापि बद्धनेपथ्या नटवेषधरास्तथा ।
कार्यार्थे भीमकर्माणो नृत्यार्थमुपचक्रमुः ।। २१ ।।
ततो घनं ससुषिरं मुरजानकभूषितम् ।
तन्त्रीस्वरगणैर्विद्धानातोद्यानन्ववादयन् ।। २२ ।।
ततस्तु देवगान्धारं छालिक्यं श्रवणामृतम् ।
भैमस्त्रियः प्रजगिरे मनःश्रोत्रसुखावहम् ।। २३ ।।
आगान्धारग्रामरागं गङ्गावतरणं तथा ।
विद्धमासारितं रम्यं जगिरे स्वरसम्पदा ।। २४ ।।
लयतालसमं श्रुत्वा गङ्गावतरणं शुभम् ।
असुरांस्तोषयामासुरुत्थायोत्थाय भारत ।। २५ ।।
नान्दिं च वादयामासुः प्रद्युम्नो गद एव च ।
साम्बश्च वीर्यसम्पन्नः कार्यार्थं नटतां गतः ।। २६ ।।
नान्द्यन्ते च तदा श्लोकं गङ्गावतरणाश्रितम् ।
रौक्मिणेयस्तदोवाच सम्यक् स्वभिनयान्वितम् ।। २७।।
रम्भाभिसारं कौबेरं नाटकं ननृतुस्ततः ।
शूरो रावणरूपेण रम्भावेषा मनोवती ।। २८ ।।
नलकूबरस्तु प्रद्युम्नः साम्बस्तस्य विदूषकः ।
कैलासो रूपितश्चापि मायया यदुनन्दनैः ।। २९ ।
शापश्च दत्तः क्रुद्धेन रावणस्य दुरात्मनः ।
नलकूबरेण च यथा रम्भा चाप्यथ सान्त्विता ।। 2.93.३० ।।
एतत् प्रकरणं वीरा ननृतुर्यदुनन्दनाः ।
नारदस्य मुनेः कीर्तिं सर्वज्ञस्य महात्मनः ।। ३१ ।।
पादोद्धारेण नृत्येन तथैवाभिनयेन च ।
तुष्ढुवुर्दानवा वीरा भैमानामतितेजसाम् ।। ३२ ।।
ते ददुर्वस्त्रमुख्यानि रत्नान्याभरणानि च ।
हारांस्तरलविद्धांश्च वैडूर्यमणिभूषितान् ।। ३३ ।।
विमानानि विचित्राणि रथांश्चाकाशगामिनः ।
गजानाकाशगांश्चैव दिव्यनागकुलोद्भवान् ।। ३४ ।।
चन्दनानि च दिव्यानि शीतानि रसवन्ति च ।
गुरूण्यगुरुमुख्यानि गन्धाढ्यानि च भारत ।। ३५ ।।
चिन्तामणीनुदारांश्च चिन्तिते सर्वकामदान् ।
प्रेक्षासु तासु बह्वीषु ददन्तो दानवास्तथा ।। ३६ ।।
धनरत्नैर्विरहिताः कृताः पुरुषसत्तम ।
स्त्रियो दानवमुख्यानां तथैव च जनेश्वर ।। ३७ ।।
ततो हंसी प्रभावत्याः सखी प्राह प्रभावतीम् ।
गतास्मि द्वारकां रम्यां भैमगुप्तामनिन्दिते ।। ३८ ।।
प्रद्युम्नश्च मया दृष्टो विविक्ते चारुलोचने ।
भक्तिश्च कथिता तस्य मया तव शुचिस्मिते ।। ३९ ।।
तेन हृष्टेन कालश्च कृतः कमललोचने ।
अद्य प्रदोषसमये त्वया सह समागमे ।। 2.93.४०।।
तदद्य रुचिरश्रोणि तव प्रियसमागमः ।
न ह्यात्मवति भाषन्ति मिथ्या भैमकुलोद्भवाः ।। ४१ ।।
ततः प्रभावती हृष्टा हंसीं तामिदमब्रवीत् ।
उषितासि ममावासे स्वप्तुमर्हसि सुन्दरि ।। ४२ ।।
त्वयाहं सहिताऽऽवासे द्रष्टुमिच्छामि कैशविम् ।
निःसाध्वसा भविष्यामि त्वया सह विहङ्गमे ।। ४३ ।।
हंसी तथेति चोवाच सखीं कमललोचनाम् ।
आरुरोह च तद्धर्म्यं प्रभावत्या विहङ्गमा ।। ४४ ।।
विश्वकर्मकृते तत्र हर्म्यपृष्ठे प्रभावती ।
संविधानं चकाराशु प्रद्युम्नागमनक्षमम् ।। ४५ ।।
तस्मिन् कृते संविधाने काममानयितुं ययौ ।
प्रभावतीमनुज्ञाप्य हंसी वायुसमा गतौ ।। ४६ ।।
नटवेषधरं कामं गत्वोवाच शुचिस्मिता ।
अद्य भूतः स भगवन् समयो वर्तते निशि ।। ४७ ।।
तथेति प्राह तां कामः सा निवृत्ताथ पक्षिणी ।
अभ्यागता च सा हंसी प्रभावतिमथाब्रवीत् ।
अभ्येति रौक्मिणेयोऽसावाश्वसायतलोचने ।। ४८ ।।
प्रद्युम्नो नीयमानं तु ददृशे माल्यमात्मवान् ।
भ्रमरैरावृतं वीरः सुगन्धमरिमर्दनः ।। ४९ ।।
निलिल्ये तत्र माल्ये तु भूत्वा मधुकरस्तदा ।
प्रभावत्या नीयमाने विदितार्थः प्रतापवान् ।। 2.93.५० ।।
प्रवेशितं च तन्माल्यं स्त्रीभिर्मधुकरायुतम् ।
उपनीतं प्रभावत्यै स्त्रीभिस्तद् भ्रमरावृतम् ।। ५१ ।।
अविदूरे च विन्यस्तं प्रभावत्या जनाधिप ।
भ्रमरास्ते ययुः सौम्य संध्याकाले ह्युपस्थिते ।। ५२ ।।
स भैमप्रवरो वीरस्तैः सहायैर्विहीनतः ।
कर्णोत्पले प्रभावत्या निलिल्ये शनकैरिव ।। ५३ ।।
ततः प्रभावती हंसीमुवाच वदतां वरा ।
उद्यतं पूर्णचन्द्रं सा समीक्ष्यातिमनोहरम् ।। ५४ ।।
सखि दह्यन्ति मेऽङ्गानि मुखं च परिशुष्यति ।
औत्सुक्यं हृदि चातीव कोऽयं व्याधिरनौषधः ।। ५५ ।।
दधद् द्विगुणमौत्सुक्यमसौ पूर्णनिशाकरः ।
नवोदितः शीतरश्मिः सख्यं हरति च प्रियः ।। ५६ ।।
न दृष्टपूर्वो हि मया श्रुतमात्रेण काङ्क्षितः ।
अहो धूमयतेऽङ्गानि स्त्रीस्वभावस्य धिक् खलु ।। ५७ ।।
कल्पयामि यथाबुद्ध्या यदि नाभ्येति मे प्रियः ।
कुमुद्वतीगतं मार्गं हा गमिष्याम्यकिंचना ।। ५८ ।।
मदनाशीविषेणास्मि हा हा दष्टा मनस्विनी ।
शीतवीर्याः प्रकृत्यैव जगतो ह्रादनाः सुखाः ।
दहन्ति मम गात्राणि किं नु चन्द्रगभस्तयः ।। ५९ ।।
प्रकृत्या शीतलो वायुर्नानापुष्परजोवहः ।
दावाग्निसदृशो मेऽद्य दन्दहीति शुभां तनुम् ।। 2.93.६० ।।
ततः संकल्पये एव स्थैर्यं कार्यमिवात्मनः ।
नावतिष्ठति निर्वीर्यं मनः सकल्पधर्षितम् ।। ६१ ।।
विमनस्कास्मि मुह्यामि वेपथुर्मे महान् हृदि ।
बम्भ्रमीति च मे दृष्टिर्हा हा यामि ध्रुवं क्षयम् ।। ६२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रद्युम्नगमने त्रिनवतितमोऽध्यायः।।९३।।