हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३२ हरिवंशपुराणम्
अध्यायः ३३
वेदव्यासः
अध्यायः ३४ →
यदोःवंशस्य वर्णनम्, कार्तवीर्यस्य उत्पत्तिः चरित्रं च, ययातेः पञ्चानां पुत्राणां वंशवर्णनस्य श्रवणस्य महिमा

त्रयस्त्रिंशोऽध्यायः

वैशम्पायन उवाच
बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ।
सहस्रदः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा ।। १ ।।
सहस्रदस्य दायादास्त्रयः परमधार्मिकाः ।
हैहयश्च हयश्चैव राजन् वेणुहयस्तथा ।। २ ।।
हैहयस्याभवत् पुत्रो धर्मनेत्र इति स्मृतः ।
धर्मनेत्रस्य कार्तस्तु साहञ्जस्तस्य चात्मजः ।। ३ ।।
साहञ्जनी नाम पुरी येन राज्ञा निवेशिता ।
साहञ्जस्य तु दायादो महिष्मान् नाम पार्थिवः ।। ४ ।।
माहिष्मती नाम पुरी येन राज्ञा निवेशिता ।
आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् ।। ५ ।।
वाराणस्यधिपो राजा कथितः पूर्वमेव तु ।
भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः ।। ६ ।।
दुर्दमस्य सुतो धीमान्कनको नाम वीर्यवान् ।
कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ।। ७ ।।
कृतवीर्यः कृतौजाश्च कृतवर्मा तथैव च ।
कृताग्निस्तु चतुर्थोऽभूत्कृतवीर्यात्तथार्जुनः ।। ८ ।।
यस्तु बाहुसहस्रेण सप्तद्वीपेश्वरोऽभवत् ।
जिगाय पृथिवीमेको रथेनादित्यवर्चसा ।। ९ ।।
स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
दत्तमाराधयामास कार्तवीर्योऽत्रिसम्भवम् ।। 1.33.१० ।।
तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः ।
पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद्वरम् ।। ११ ।।
अधर्मे वर्तमानस्य सद्भिस्तत्र निवारणम् ।
उग्रेण पृथिवीं जित्वा स्वधर्मेणानुरञ्जनम् ।। १९ ।।
संग्रामान् सुबहून्कृत्वा हत्वा नारीन्सहस्रशः।
संग्रामे वर्तमानस्य वधं चाप्यधिकाद् रणे ।। १३ ।।
तस्य बाहुसहस्रं तु युध्यतः किल भारत ।
योगाद् योगेश्वरस्येव प्रादुर्भवति मायया ।। १४ ।।
तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
ससमुद्रा सनगरा उग्रेण विधिना जिता । १५ ।।
तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि वै ।
प्राप्तानि विधिना राज्ञा श्रूयन्ते जनमेजय ।। १६ ।।
सर्वे यज्ञा महाबाहोस्तस्यासन् भूरिदक्षिणाः ।
सर्वे काञ्चनयूपाश्च सर्वे काञ्चनवेदयः ।। १७ ।।
सर्वैर्देवैर्महाराज विमानस्थैरलंकृताः ।
गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ।। १८ ।।
यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा ।
वरीदासात्मजो विद्वान् महिम्ना तस्य विस्मितः ।। १९ ।।
नारद उवाच
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन च ।। 1.33.२० ।।
स हि सप्तसु द्वीपेषु खङ्गी चर्मी शरासनी ।
रथी द्वीपाननुचरन् योगी संदृश्यते नृभिः ।। २१ ।।
अनष्टद्रव्यता चैव न शोको न च विभ्रमः ।
प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ।। २२ ।।
पञ्चाशीतिसहस्राणि वर्षाणां वै नराधिपः ।
स सर्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह ।। २२ ।।
स एव यज्ञपालोऽभूत् क्षेत्रपालः स एव च ।
स एव वृष्ट्यां पर्जन्यो योगित्वादर्जुनोऽभवत्।। २४ ।।
स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ।
भाति रश्मिसहस्रेण शरदीव दिवाकरः ।। २५ ।।
स हि नागान् मनुष्येषु माहिष्मत्यां महाद्युतिः ।
कर्कोटकसुताञ्जित्वा पुर्यां तस्यां न्यवेशयत् ।। २६ ।।
स वै वेगं समुद्रस्य प्रावृट्कालेऽम्बुजेक्षणः ।
क्रीडन्निव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह ।। २७ ।।
लुण्ठिता क्रीडिता तेन फेनस्रग्दाममालिनी ।
चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा ।। २८ ।।
तस्य बाहुसहस्रेण क्षुभ्यमाणे महोदधौ ।
भयान्निलीना निश्चेष्टाः पातालस्था महासुराः ।। २९ ।।
चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ।
मारुताविद्धफेनौघमावर्तक्षोभदुःसहम् ।। 1.33.३० ।।
प्रावर्तयत् तदा राजा सहस्रेण च बाहुना ।
देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः ।। ३१ ।।
मन्दरक्षोभचकिता अमृतोद्भवशङ्किताः ।
सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् ।। ३२ ।।
नता निश्चलमूर्धानो बभूवुस्ते महोरगाः ।
सायाह्ने कदलीखण्डाः कम्पितास्तस्य वायुना ।। ३३९
स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः ।
लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ।
निर्जित्यैव समानीय माहिष्मत्यां बबन्ध तम् ।। ३४ ।।
श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्जुनेन तु ।
ततो गत्वा पुलस्त्यस्तमर्जुनं ददृशे स्वयम् ।
मुमोच रक्षः पौलस्त्यं पुलस्त्येनानुयाचितः ।। ३५ ।।
यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ।
युगान्ते त्वम्बुदस्येव स्फुटतो ह्यशनेरिव ।। ३६ ।।
अहो बत मृधे वीर्यं भार्गवस्य यदच्छिनत् ।
राज्ञो वाहुसहस्रं तु हैमं तालवनं यथा ।। ३७ ।।
तृषितेन कदाचित् स भिक्षितश्चित्रभानुना ।
स भिक्षामददाद् वीरः सप्तद्वीपान्विभावसोः ।। ३८ ।।
पुराणि ग्रामघोषांश्च विषयांश्चैव सर्वशः ।
जज्वाल तस्य सर्वाणि चित्रभानुर्दिधक्षया ।। ३९ ।।
स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ।
ददाह कार्तवीर्यस्य शैलांश्चैव वनानि च ।। 1.33.४० ।।
स शून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै ।
ददाह वनवद् भीतश्चित्रभानुः सहैहयः ।। ४१ ।।
यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ।
वसिष्ठं नाम स मुनिः ख्यात मापव इत्युत ।। ४२ ।।
यत्रापवस्तु तं क्रोधाच्छप्तवानर्जुनं विभुः ।
यस्मान्न वर्जितमिदं वनं ते मम हैहय ।। ४३ ।।
तस्मात् ते दुष्करं कर्म कृतमन्यो हनिष्यति ।
रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान् ।। ४४ ।।
छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा वली ।
तपस्वी ब्राह्मणश्च त्वां वधिष्यति स भार्गवः ।। ४५ ।।
वैशम्पायन उवाच
अनष्टद्रव्यता यस्य बभूवामित्रकर्शन ।
प्रभावेण नरेन्द्रस्य प्रजा धर्मेण रक्षतः ।। ४६ ।।
रामात्ततोऽस्य मृत्युर्वै तस्य शापान्मुनेर्नृप ।
वरश्चैव हि कौरव्य स्वयमेव वृतः पुरा ।। ४७ ।।
तस्य पुत्रशतस्यासन् पञ्च शेषा महात्मनः ।
कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः ।। ४८ ।।
शूरसेनश्च शूरश्च धृष्टोक्तः कृष्ण एव च ।
जयध्वजश्च नाम्नाऽऽसीदावन्त्यो नृपतिर्महान् ।। ४९ ।।
कार्तवीर्यस्य तनया वीर्यवन्तो महारथाः ।
जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः ।। 1.33.५० ।।
तस्य पुत्राः शतं ख्यातास्तालजङ्घा इति श्रुताः ।।
तेषां कुले महाराज हैहयानां महात्मनाम् ।। ५१ ।।
वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः ।
तौण्डिकेरा इति ख्यातास्तालजङ्घास्तथैव च ।। ५२ ।।
भरताश्च सुता जाता बहुत्वान्नानुकीर्तिताः ।
वृषप्रभृतयो राजन् यादवाः पूर्णकर्मिणः ।। ५३ ।।
वृषो वंशधरस्तत्र तस्य पुत्रोऽभवन्मधुः ।
मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक्।। ५४ ।।
वृषणाद् वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः ।
यादवा यदुना चाग्रे निरुच्यन्ते च हैहयाः ।। ५५ ।।
न तस्य वित्तनाशोऽस्ति नष्टं प्रतिलभेच्च सः ।
कार्तवीर्यस्य यो जन्म कीर्तयेदिह नित्यशः ।। ५६ ।।
एते ययातिपुत्राणां पञ्च वंशा विशाम्पते ।
कीर्तिता लोकवीराणां ये लोकान्धारयन्ति वै।। ५७ ।।
भूतानीव महाराज पञ्च स्थावरजङ्गमान् ।
श्रुत्वा पञ्चविसर्गं तु राजा धर्मार्थकोविदः ।। ५८ ।।
वशी भवति पञ्चानामात्मजानां तथेश्वरः ।
लभेत् पञ्च वरांश्चैव दुर्लभानिह लौकिकान् ।। ५९ ।।
आयुः कीर्तिं तथा पुत्रानैश्वर्यं भूमिमेव च ।
धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भारत ।। 1.33.६० ।।
क्रोष्टोस्तु शृणु राजेन्द्र वंशमुत्तमपौरुषम्
यदोर्वंशधरस्याथ यज्वनः पुण्यकर्मणः ।। ६१ ।।
क्रोष्टुर्हि वंशं श्रुत्वेमं सर्वपापैः प्रमुच्यते ।
यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः ।। ६२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।