हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४ हरिवंशपुराणम्
अध्यायः २५
वेदव्यासः
अध्यायः २६ →
चन्द्रमसः उत्पत्तिः एवं राजसूयानुष्ठानम्, देवासुरसंग्रामः एवं बुधस्योत्पत्ति

पञ्चविंशतितमोऽध्यायः

वैशम्पायन उवाच
पिता सोमस्य वै राजन् जज्ञेऽत्रिर्भगवानृषिः ।
ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः ।। १ ।।
तत्रात्रिः सर्वभूतानां तस्थौ स्वतनयैर्युतः ।
कर्मणा मनसा वाचा शुभान्येव चचार सः ।। २ ।।
अहिंस्रः सर्वभूतेषु धर्मात्मा संशितव्रतः ।
काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः ।। ३ ।।
अनुत्तरं नाम तपो येन तप्तं महत् पुरा ।
त्रीणि वर्षसहस्त्राणि दिव्यानीति हि नः श्रुतम् ।। ४ ।।
तत्रोर्ध्वरेतसस्तस्य स्थितस्यानिमिषस्य ह ।
सोमत्वं तनुरापेदे महासत्त्वस्य भारत ।। ५ ।।
ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः ।
नेत्राभ्यां वारि सुस्राव दशधा द्योतयद् दिशः ।। ६ ।।
तं गर्भं विधिना हृष्टा दश देव्यो दधुस्तदा ।
समेत्य धारयामासुर्न च ताः समशक्नुवन् ।। ७ ।।
स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः ।
पपात भासयँल्लोकाञ्छीतांशुः सर्वभावनः ।। ८ ।।
यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ।
ततस्ताभिः सहैवाशु निपपात वसुंधराम् ।। ९ ।।
पतितं सोममालोक्य ब्रह्मा लोकपितामहः ।
रथमारोपयामास लोकानां हितकाम्यया ।। 1.25.१० ।।
स हि वेदमयस्तात धर्मात्मा सत्यसंग्रहः ।
युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ।। ११ ।।
तस्मिन् निपतिते देवाः पुत्रेऽत्रेः परमात्मनि ।
तुष्टवुर्ब्रह्मणः पुत्रा मानसाः सप्त ये श्रुताः ।। १२ ।।
तथैवाङ्गिरसस्तत्र भृगुरेवात्मजैः सह ।
ऋग्भिर्यजुर्भिर्बहुलैरथर्वाङ्गिरसैरपि ।। १३ ।।
तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः ।
आप्यायमानं लोकांस्त्रीन् भासयामास सर्वशः ।। १४ ।।
स तेन रथमुख्येन सागरान्तां वसुंधराम् ।
त्रिःसप्तकत्वोऽतियशाश्चकाराभिप्रदक्षिणम् ।। १५ ।।
तस्य यच्च्यावितं तेजः पृथिवीमन्वपद्यत ।
ओषध्यस्ताः समुद्भूतास्तेजसा प्रज्वलन्त्युत ।। १६ ।।
ताभिर्धार्यास्त्रयो लोकाः प्रजाश्चैव चतुर्विधाः ।
पोष्टा हि भगवान् सोमो जगतो जगतीपते ।। १७ ।।
स लब्धतेजा भगवान् संस्तवैस्तैश्च कर्मभिः ।
तपस्तेपे महाभाग पद्मानां दशतीर्दश ।। १८ ।।
हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत्।
निधिस्तासामभूद्देवः प्रख्यातः स्वेन कर्मणा ।। १९ ।।
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ।
बीजौषधीनां विप्राणामपां च जनमेजय ।। 1.25.२० ।।
सोऽभिषिक्तो महाराज राजराज्येन राजराट् ।
लोकांस्त्रीन् भासयामास स्वभासा भास्वतां वरः ।। २१ ।।
सप्तविंशतिमिन्दोस्तु दाक्षायण्यो महाव्रताः ।
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ।। २२ ।।
स तत् प्राप्य महद्राज्यं सोमः सोमवतां वरः ।
समाजह्रे राजसूयं सहस्रशतदक्षिणम् ।। २३ ।।
होतास्य भगवानत्रिरध्वर्युर्भगवान् भृगुः ।
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् ।। २४ ।।
सदस्यस्तत्र भगवान् हरिर्नारायणः स्वयम् ।
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ।। २५ ।।
दक्षिणामददात्सोमस्त्रील्लोकानिति नः श्रुतम् ।
तेभ्यो ब्रह्मर्षिमुख्येम्यः सदस्येभ्यश्च भारत ।। २६ ।।
तं सिनिश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः ।
कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ।। २७ ।।
प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ।
विरराजाधिराजेन्द्रो दशधा भासयन् दिशः ।। २८ ।।
तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यं मुनिसत्कृतम् ।
विबभ्राम मतिस्तात विनयादनयाऽऽहता ।। २९ ।।
बृहस्पतेः स वै भार्या तारां नाम यशस्विनीम् ।
जहार तरसा सर्वानवमत्याङ्गिरःसुतान् ।। 1.25.३० ।।
स याच्यमानो देवैश्च तथा देवर्षिभिः सह ।
नैव व्यसर्जयत् तारां तस्मा आङ्गिरसे तदा ।
स संरब्धस्ततस्तस्मिन् देवाचार्यो बृहस्पतिः ।। ३१ ।।
उशना तस्य जग्राह पार्ष्णिमाङ्गिरसस्तदा ।
स हि शिष्यो महातेजाः पितुः पूर्वो बृहस्पतेः ।। ३२ ।।
तेन स्नेहेन भगवान् रुद्रस्तस्य बृहस्पतेः ।
पार्ष्णिग्राहोऽभवद् देवः प्रगृह्याजगवं धनुः ।। ३३ ।।
तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।
उद्दिश्य दैत्यानुत्सृष्टं येनैषां नाशितं यशः ।। ३४ ।।
तत्र तद् युद्धमभवत् प्रख्यातं तारकामयम् ।
देवानां दानवानां च लोकक्षयकरं महत् ।। ३५ ।।
तत्र शिष्टास्तु ये देवास्तुषिताश्चैव भारत।
ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ।।३६।।
ततो निवार्योशनसं रुद्रं ज्येष्ठं च शङ्करम् ।
ददावङ्गिरसे तारां स्वयमेव पितामहः ।। ३७ ।।
तामन्तःप्रसवां दृष्ट्वा तारां प्राह बृहस्पतिः ।
मदीयायां न ते योनौ गर्भो धार्यः कथंचन ।। ३८ ।।
अयोनावुत्सृजत् तं सा कुमारं दस्युहन्तमम्।
इषीकास्तम्बमासाद्य ज्वलन्तमिव पावकम् ।। ३९ ।।
जातमात्रः स भगवान् देवानामक्षिपद् वपुः ।
ततः संशयमापन्ना इमामकथयन् सुराः ।। 1.25.४० ।।
सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ।
पृच्छ्यमाना यदा देवैर्नाह सा साध्वसाधु वा ।। ४१ ।।
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ।
तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् ।। ४२ ।।
यदत्र तथ्यं तद् ब्रूहि तारे कस्य सुतस्त्वयम् ।
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् ।। ४३ ।।
सोमस्येति महात्मानं कुमारं दस्युहन्तमम् ।
ततस्तं मूर्ध्न्युपाघ्राय सोमो धाता प्रजापतिः ।। ४४ ।।
बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ।
प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ।। ४५ ।।
उत्पादयामास ततः पुत्रं वै राजपुत्रिका ।
तस्यापत्यं महाराजो बभूवैलः पुरूरवाः ।। ४६ ।।
उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः ।
प्रसह्य धर्षितस्तत्र सोमो वै राजयक्ष्मणा ।। ४७ ।।
ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ।
जगाम शरणार्थाय पितरं सोऽत्रिमेव तु ।। ४८ ।।
तस्य तत्तापशमनं चकारात्रिर्महातपाः ।
स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्वतः ।। ४९ ।।
एवं सोमस्य वै जन्म कीर्तितं कीर्तिवर्धनम् ।
वंशमस्य महाराज कीर्त्यमानं च मे शृणु ।। 1.25.५० ।।
धन्यमारोग्यमायुष्यं पुण्यं संकल्पसाधनम् ।
सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते । ५१।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि सोमोत्पत्तिकथने पञ्चविंशोऽध्यायः ।। २५ ।।