हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५ हरिवंशपुराणम्
अध्यायः ०६
वेदव्यासः
अध्यायः ०७ →
पृथोरुपाख्यानम् - पृथोः दुहिता भूत्वा पृथिव्या अनेक प्रकाराणां दुग्धानां दानं, अनेक पात्राणां एवं दोग्धॄणां वर्णनम्

पृथुरुवाच
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा।
बहून् वै प्राणिनो लोके भवेत् तस्येह पातकम् ।।१।।
सुखमेधन्ति बहवो यस्मिंस्तु निहतेऽशुभे ।
तस्मिन्नास्ति हते भद्रे पातकं चोपपातकम् ।। २ ।।
एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेम तत्र पुण्यप्रदो वधः ।। ३ ।।
सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुंधरे ।
यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ।। ४
त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम्।
आत्मानं प्रथयित्वाहं प्रजा धारयिता चिरम् ।। ५ ।।
सा त्वं शासनमास्थाय मम धर्मभृतां वरे ।
संजीवय प्रजाः सर्वाः समर्था ह्यसि धारणे ।। ६ ।।
दुहितृत्वं च मे गच्छ तत एनमहं शरम् ।
नियच्छेयं त्वद्वधार्थमुद्यतं घोरदर्शनम् ।। ७ ।।
पृथिव्युवाच
सर्वमेतदहं वीर विधास्यामि न संशयः ।
ण समारब्धाः सर्वे द्वि ।। ८ ।।
उपायं पश्य येन त्वं धारयेथाः प्रजा इमाः ।
वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ।। ९ ।।
समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर ।
यथा विस्पन्दमान्ं मे क्षीरं सर्वत्र भावयेत् ।। 1.6.१० ।।
वैशम्पायन उवाच
तत उत्सारयामास शैलाञ्छतसहस्रशः ।
धनुष्कोट्या तदा वैन्यस्तेन शैला विवर्द्धिताः ।। ११
इत्थं वैन्यस्तदा राजा महीं चक्रे समां ततः ।
मन्वन्तरेष्वतीतेषु विषमासीद् वसुंधरा ।। १२।।
स्वभावेनाभवन् ह्यस्याः समानि विषमाणि च ।
चाक्षुषस्यान्तरे पूर्वमासीदेव तदा किल ।। १३ ।।
न हि पूर्वविसर्गे वै विषमे पृथिवीतले ।
प्रविभागः पुराणां च ग्रामाणां वा तदाभवत् ।। १४ ।।
न सस्यानि न गोरक्षा न कृषिर्न वणिक्पथः ।
नैव सत्यानृतं तत्र न लोभो न च मत्सरः ।। १५ ।।
वैवस्वतेऽन्तरे चास्मिन् साम्प्रतं समुपस्थिते ।
वैन्यात् प्रभृति राजेन्द्र सर्वस्यैतस्य सम्भवः ।। १६ ।।
यत्र यत्र समं त्वस्या भूमेरासीदिहानघ ।
तत्र तत्र प्रजाः सर्वाः संवासं समरोचयन् ।। १७ ।।
आहारः फलमूलानि प्रजानामभवत् तदा ।
कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम।। १८ ।।
संकल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् ।
स्वपाणौ पुरुषश्रेष्ठ दुदोह पृथिवीं ततः ।
सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रतापवान् ।। १९ ।।
तेनान्नेन प्रजास्तात वर्तन्तेऽद्यापि नित्यशः ।
ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा ।। 1.6.२० ।।
वत्सः सोमोऽभवत्तेषां दोग्धा चाङ्गिरसः सुतः।
बृहस्पतिर्महातेजाः पात्रं छन्दांसि भारत ।
क्षीरमासीदनुपमं तपो ब्रह्म च शाश्वतम् ।। २१ ।।
पुनर्देवगणैः सर्वैः पुरंदरपुरोगमैः ।
काञ्चनं पात्रमादाय दुग्धेयं श्रूयते मही ।। २२।।
वत्सस्तु मघवानासीद्दोग्धा च सविता प्रभुः ।
क्षीरमूर्जस्करं चैव वर्तन्ते येन देवताः ।। २३ ।।
पितृभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा ।
राजतं पात्रमादाय स्वधाममितविक्रमैः ।।२४।।
यमो वैवस्वतस्तेषामासीद् वत्सः प्रतापवान् ।
अन्तकश्चाभवद् दोग्धा कालो लोकप्रकालनः ।। २५ ।।
नागैश्च श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् ।
अलाबुं पात्रमादाय विषं क्षीरं नरोत्तम ।। २६ ।।
तेषामैरावतो दोग्धा धृतराष्ट्रः प्रतापवान् ।
नागानां भरतश्रेष्ठ सर्पाणां च महीपते ।। २७ ।।
तेनैव वर्तयन्त्युग्रा महाकाया विषोल्बणाः ।
तदाहारास्तदाचारास्तद्वीर्यास्तदुपाश्रयाः ।। २८ ।।
असुरैः श्रूयते चापि पुनर्दुग्धा वसुंधरा ।
आयसं पात्रमादाय मायां शत्रुनिबर्हिणीम् ।। २९ ।।
विरोचनस्तु प्राह्रादिर्वत्सस्तेषामभूत् तदा ।
ऋत्विग्द्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः ।। 1.6.३० ।।
तथैते माययाद्यापि सर्वे मायाविनोऽसुराः ।
वर्तयन्त्यमितप्रज्ञास्तदेवाममितं बलम्।। ३१ ।।
यक्षैश्च श्रूयते तात पुनर्दुग्धा वसुंधरा ।
आमपात्रे महाराज पुरान्तर्द्धानमक्षयम् ।। ३२ ।।
वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तदा ।
दोग्धा रजतनाभस्तु पिता मणिवरस्य यः ।। ३३ ।।
यक्षानुजो महातेजास्त्रिशीर्षः सुमहातपाः ।
तेन ते वर्तयन्तीति परमर्षिरुवाच ह ।। ३४ ।।
राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुंधरा ।
शावं कपालमादाय प्रजा भोक्तुं नरर्षभ ।। ३५ ।।
दोग्धा रजतनाभस्तु तेषामासीत् कुरूद्वह ।
वत्सः सुमाली कौरव्य क्षीरं रुधिरमेव च ।। ३६ ।।
तेन क्षीरेण यक्षाश्च राक्षसाश्चामरोपमाः ।
वर्तयन्ति पिशाचाश्च भूतसंघास्तथैव च ।। ३७ ।।
पद्मपत्रे पुनर्दुग्धा गन्धर्वैः साप्सरोगणैः ।
वत्सं चित्ररथं कृत्वा शुचीन् गन्धान्नरर्षभ ।। ३८ ।।
तेषां च सुरुचिस्त्वासीद्दोग्धा भरतसत्तम ।
गन्धर्वराजोऽतिबलो महात्मा सूर्यसंनिभः ।। ३९ ।।
शैलैश्च श्रूयते राजन् पुनर्दुग्धा वसुंधरा ।
औषधीर्वै मूर्तिमती रत्नानि विविधानि च ।। 1.6.४० ।।
वत्सस्तु हिमवानासीन्मेरुदोंग्धा महागिरिः ।
पात्रं तु शैलमेवासीत्तेन शैला विवर्धिताः ।। ४१ ।।
वीरुद्भिः श्रूयते राजन् पुनर्दुग्धा वसुंधरा ।
पालाशं पात्रमादाय दग्धच्छिन्नप्ररोहणम्। ४२ ।।
दुदोह पुष्पितः सालो वत्सः प्लक्षोरऽभवत्तदा ।
सेयं धात्री विधात्री च पावनी च वसुंधरा ।। ४३ ।।
चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ।
सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहिणी ।। ४४ ।।
आसीदियं समुद्रान्ता मेदिनीति परिश्रुता ।
मधुकैटभयोः कृत्स्ना मेदसाभिपरिप्लुता ।
तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवादिभिः ।।४५।।
ततोऽभ्युपगमाद् राज्ञः पृथोर्वैन्यस्य भारत ।
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ।
पृथुना प्रविभक्ता च शोधिता च वसुंधरा ।। ४६ ।।
सस्याकरवती स्फीता पुरपत्तनमालिनी ।
एवंप्रभावो वैन्यः स राजासीद् राजसत्तमः ।। ४७
नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः ।
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।। ४८ ।।
पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः।
पार्थिवैश्च महाभागैः पार्थिवत्वमभीप्सुभिः ।। ४९।
आदिराजो नमस्कार्यः पृथुर्वैन्यः पृप्रवेभ्यः प्रतापवान् ।
योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि ।
पृथुरेव नमस्कार्यो योधानां प्रथमो नृपः ।। 1.6.५०।।
यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् ।
स घोररूपान् संग्रामान् क्षेमी तरति कीर्तिमान् ।। ५१ ।।
वैश्यैरपि च वित्ताख्यैः पण्यवृत्तिमनुष्ठितैः ।
पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः । ५२।।
तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः ।
आदिराजो नमस्कार्यः श्रेयः परमभीप्सुभिः ।। ५३ ।।
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च ।
पात्राणि च मयोक्तानि किं भूयो वर्णयामि ते ।। ५४ ।।
य इदं शृणुयान्नित्यं पृथोश्चरितमादितः ।
पुत्रपौत्रसमायुक्तो मोदते सुचिरं भुवि ।। ५५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पृथूपाख्याने षष्ठोऽध्यायः ।। ६ ।।