हरिनामामृतव्याकरणम् /आख्यातप्रकरणम्

विकिस्रोतः तः
         [तृतीयम्]
       आख्यातप्रकरणम्

[१] प्रवर्त्तन्ते क्रियाः सर्व्वा यतोऽर्व्वाचीनवस्तुषु।

   हरेस्तस्यैव लीलास्ता निरूप्यन्ते यथामति।।
        अथ धातुजानि विष्णुपदानि

१।भूसनन्ताद्या धातव:। भू सत्यायामित्यादय: सनादिप्रत्यान्ताश्च धातु संज्ञा: स्यु:।१।।