हंसोपनिषद्

विकिस्रोतः तः


॥ हंसोपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


गौतम उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥ १ ॥


सनत्कुमार उवाच । विचार्य सर्ववेदेषु मतं ज्ञात्वा पिनाकिनः । पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम ॥ २ ॥


अनाख्येयमिदं गुह्यं योगिनां कोशसन्निभम् । हंसस्याकृतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥ ३ ॥


अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः । ब्रह्मचारिणे शान्ताय दान्ताय गुरुभक्ताय । हंसहंसेति सदा ध्यायन् ॥ ४ ॥


सर्वेषु देहेषु व्याप्तो वर्तते । यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा मृत्युमत्येति ॥ ५ ॥


गुदमवष्टभ्याधाराद्वायुमुत्थाप्यस्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं च गत्वा अनाहतमतिक्रम्य विशुद्धौ प्राणान्निरुध्याज्ञामनुध्यायन्ब्रह्मरन्ध्रं ध्यायन् त्रिमात्रोऽहमित्येव सर्वदा पश्यत्यनाकारश्च भवति ॥ ६ ॥


एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदं सर्वं व्याप्तम् ॥ ७ ॥


तस्याष्टधा वृत्तिर्भवति । पूर्वदले पुण्ये मतिः । आग्नेये निद्रालस्यादयो भवन्ति । याम्ये क्रौर्ये मतिः । नैर्ऋते पापे मनीषा । वारुण्यां क्रीडा । वायव्यां गमनादौ बुद्धिः । सौम्ये रतिप्रीतिः । ईशान्ये द्रव्यादानम् । मध्ये वैराग्यम् । केसरे जाग्रदवस्था । कर्णिकायां स्वप्नम् । लिङ्गे सुषुप्तिः । पद्मत्यागे तुरीयम् । यदा हंसे नादो विलीनो भवति तत् तुरीयातीतम् ॥ ८ ॥


अथो नादमाधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसङ्काशः । स वै ब्रह्म परमात्मेत्युच्यते ॥ १ ॥


अथ हंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हमिति बीजम् । स इति शक्तिः । सोऽहमिति कीलकम् ॥ १० ॥


षट् सङ्ख्यया अहोरात्रयोरेकविंशतिसहस्राणि षट् शतान्यधिकानि भवन्ति । सूर्याय सोमाय निरञ्जनाय निराभासायतनुसूक्ष्मं प्रचोदयादिति ॥ ११ ॥


अग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः ॥ १२ ॥


एवं कृत्वा हृदये अष्टदले हंसात्मानं ध्यायेत् ॥ १३ ॥


अग्नीषोमौ पक्षावोङ्कारः शिरो उकारो बिन्दु स्त्रिनेत्रं मुखं रुद्रो रुद्राणी चरणौ । द्विविधं कण्ठतः कुर्यादित्युन्मनाः अजपोपसंहार इत्यभिधीयते ॥ १४ ॥


एवं हंसवशात्तस्मान्मनो हंसो विचार्यते ॥ १५ ॥


अस्येव जपकोट्यां नादमनुभवति एवं सर्वं हंसवशान्नादो दशविधो जायते । चिणीति प्रथमः । चिञ्चिणीति द्वितीयः । घण्टानादस्तृतीयः । शङ्खनादश्चतुर्थः । पञ्चमस्तन्त्रीनादः । षष्ठस्तालनादः । सप्तमो वेणुनादः । अष्टमो मृदङ्गनादः । नवमो भेरीनादः । दशमो मेघनादः ॥ १६ ॥


नवमं परित्यज्य दशममेवाभ्यसेत् ॥ १७ ॥


प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्जनम् । तृतीये खेदनं याति चतुर्थे कम्पते शिरः ॥ १८ ॥


पञ्चमे स्रवते तालु षष्ठेऽमृतनिषेवणम् । सप्तमे गूढविज्ञानं परा वाचा तथाष्टमे ॥ १९ ॥


अदृश्यं नवमे देहं दिव्यं चक्षुस्तथामलम् । दशमे परमं ब्रह्म भवेद्ब्रह्मात्मसन्निधौ ॥ २० ॥


तस्मिन्मनो विलीयते मनसि सङ्कल्पविकल्पे दग्धे पुण्यपापे सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति वेदानुवचनं भवतीत्युपनिषत् ॥ २१ ॥


ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


॥ इति हंसोपनिषत्समाप्ता ॥

अधिकाध्ययनाय[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=हंसोपनिषद्&oldid=38138" इत्यस्माद् प्रतिप्राप्तम्