स्वात्मनिरूपणम् (समूलम्)
स्वात्मनिरूपणम् (समूलम्)) शङ्कराचार्यः १९१० |
श्रीगुरुचरणद्वद्व वदेऽह मथितदु'सहद्वद्वम् ।
भ्रांतिग्रहोपशांती पांसुमय यस्य भसितमातनुते ।।१॥
देशिकवर दयालु वदेऽह निहतनिखिलसदेहम् ।।
यच्चरणद्वयमद्वयमनुभवमुपदिशति तत्पदस्यार्थम् ||२॥
संसारदावपाक्कपंतप्तः सकलसाधनोपेतः ।
स्वात्मनिरूपणनिपुणैर्वाक्यैः शिष्यः प्रबोध्यते गुरुणा ।। ३ ।।
अस्ति स्वयमित्यस्मिन्नर्थे कस्यास्ति सशयः पुसः ॥
अत्रापि संशयश्चेत् सशायता यः स एव भवसि त्वम् ॥ ४ ॥
नाहमिति वेत्ति योऽसौ सत्य ब्रह्मैव वेत्ति नास्तीति ॥
अहमस्मीति विजानन्ब्रह्मैवासौ स्वय विजानाति ॥ ५ ॥
ब्रह्म त्वमेव तस्मान्नाह ब्रह्मेति मोहमात्रमिदम् ।।
मोहेन भवति भेदः क्लेशाः सर्वे भवन्ति तन्मूलाः ॥ ६ ॥
न क्लेशपचकमिदं भजते कृतकोशपंचकविवेकः ।
अत एव पच कोशान् कुशलधियः सतत विचिन्वन्ति ॥ ७ ॥
अन्नप्राणमनोमयविज्ञानानदपंचकोशानाम् ।।
एकैकान्तरभाजा भजति विवेकात्प्रकाश्यतामात्मा ।। ८॥
वपुरिदमन्नमयाख्यः कोशो नात्मा जडो घटप्रायः ।।
प्रागुत्पत्तेः पश्चात्तदभावस्यापि दृश्यमानत्वात् ॥ ९ ॥
कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवन्छिन्नः ।।
अस्य कथमात्मता स्यात् क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ।। १० ॥
कुरुते वपुष्यहतां गेहादौ यः करोति ममतां च ।।
रागद्वेपविधेयो नासावात्मा मनोमयः कोशः ॥ ११ ॥
सुप्तौ स्वय विलीना बोधे व्याप्ता कलेवर सकलम् ।।
विज्ञानशब्दवाच्या चित्प्रतिबिंबा न बुद्धिरप्यात्मा ।। १२ ॥
सुप्तिगतैः सुखलेशैरभिमनुते यः सुखी भवामीति ।।
आनदकोशनामा सोऽहकारः कथं भवेदात्मा ।। १३ ।।
यः स्फुरति बिंबभूतः स भवेदानन्द एव सकलात्मा !!
प्रागूर्ध्वमपि च सत्त्वादविकारित्वादबाध्यमानत्वात् ।। १४ ।।
अन्नमयादेरस्मादपर यदि नानुभूयते किंचित् ।।
अनुभविताऽन्नमयादेरस्तीत्यस्मिन्न कश्चिदपलापः ॥ १५ ॥
स्वयमेवानुभवत्वाद्यद्यप्येतस्य नानुभाव्यत्वम् ।।
सकृदप्यभावशंका न भवेद्बोधस्वरूपसत्ताया. ॥ १६ ।।
अनुभवति विश्वमात्मा विश्वनासौ न चानुभूयेत ॥
न खलु प्रकाश्यतेऽसौ विश्वमशेप प्रकाशयन्भानुः ॥ १७ ॥
तदिद तादृशमीदृशमेतावत्तावदिति च यन्न भवेत् ।।
ब्रह्म तदित्यवधेय नो चेद्विषयो भवेत्परोक्षे च ॥ १८ ॥
इदमिदमिति प्रतीते वस्तुनि सर्वत्र बाध्यमानेऽपि ॥
अनिढमवाध्य तत्त्व सत्वादेतस्य न च परोक्षत्वम् ।। १९ ।।
नावेद्यमपि परोक्ष भवति ब्रह्म स्वयप्रकाशत्वात् ।।
सत्य ज्ञानमनत ब्रह्मेत्यतस्य लक्षण प्रथते ।। २० ॥
सति कोशशक्त्युपाधौ सभक्तस्तस्य जीवतेश्वरते ॥
नो चेत्तयोरभावाद्विगतविशेष विभानि निजरूपम् ॥ २१ ॥
सति सकलदृश्यबाधे न किमप्यरतीति लोकासिद्ध चेत् ॥
यन्न किमपीति सिद्ध ब्रह्म तदेवेति वेदतः सिद्धम् ॥ २२ ॥
एव मतिरहिताना तत्त्वमसीत्यादिवाक्यचिंतनया ।।
प्रतिभात्येष परोक्षवदात्मा प्रत्यक्प्रकाशमानोऽपि ॥ २३ ।।
तस्मात्पदार्थशोधनपूर्वं वाक्यस्य चिंतयन्नर्थम् ॥
देशिकदयाप्रभावादपरोक्षयति क्षणेन चात्मानम् ।। २४ ॥
देहेंद्रियादिधर्मानात्मन्यारोपयन्नभेदेन ॥
कर्तृत्वाद्यभिमानी बोधः स्यात्त्वंपदस्य वाच्योऽर्थः ॥ २५ ॥
देहस्य चेद्रियाणां साक्षी तेभ्यो विलक्षणत्वेन ॥
प्रतिभाति योऽवबोधः प्रोक्तोऽसौ त्वंपदस्य लक्ष्योऽर्थः ॥ २६ ॥
वेदावसानवाचा संवेद्य सकलजगदुपादानम् ।।
सर्वज्ञताद्युपेत चैतन्य तत्पदस्य वाच्योऽर्थः ॥ २७ ॥
विविधोपाधिविमुक्तं विश्वातीतं विशुद्धमद्वैतम् ॥
अक्षरमनुभववेद्य चैतन्य तत्पदस्य लक्ष्योऽर्थः ॥ २८ ॥
सामानाधिकरण्यं तदनु विशेषणविशेष्यता चेति ।।
अथ लक्ष्यलक्षकत्व भवति पदार्थात्मना च संबंधः ।। २९ ।।
एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनाम् ।।
सामानाधिकरण्यं भवतीत्येव, वदन्ति लाक्षणिकाः ॥ ३० ॥
प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्व च सद्वितीयत्वम् ।
इतरेतर विरुद्ध तत इह भवितव्यमेव लक्षणया ॥ ३१ ॥
मानान्तरोपरोधे मुख्यार्थस्यापरिग्रहे जाते ।
मुख्याविनाकृतेऽर्थे वृत्तिः सैव लक्षणा प्रोक्ता ।। ३२ ।।
निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे ।
जहतीति लक्षणा स्यात् गगायां घोषवादिह न ग्राह्या ।। ३३ ॥
वाच्यार्थमत्यजन्त्या यस्या वृत्तेः प्रवृत्तिरन्यार्थे ।
इहमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥ ३४ ॥
जहदजहतीति सो स्याद्या वाच्यार्थैकदेशमपहायः ।
बोधयति चैकदेश सोऽय द्विज इतिवदाश्रयेदेनाम् ॥ ३५ ॥
सोऽयं द्विज इति वाक्य त्वक्त्वा प्रत्यक्परोक्षदेशाद्यम् ।
द्विजमात्रलक्षकत्वात्कथयत्यैक्य पदार्थयोरुभयोः ।। ३-६-१
तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि ।
चिद्वस्तु लक्षयित्वा बोधयति स्पेष्टमसिपदेनैक्यम् ॥ ३७॥
इत्थं बोधितमर्थं महता वाक्येन दर्शितैक्येन ।
अहमित्यपरोक्षयता वेदो वेदयति वीतशोकत्वम् ॥ ३८ ॥
प्रायः प्रवर्तकत्वं विधिवचसा लोकवेदयोर्दृष्टम् ।
सिद्ध बोधयतोऽर्थं कथमिव तद्भवति तत्त्वमस्यादेः ॥ ३९ ॥
विधिरेव न प्रवृत्तिं जनयत्यभिलषितवस्तुबोधोऽपि ।
राजा याति सुतोऽभूत् इति बोधेन-प्रवर्तते लोकः ॥ ४० ॥
ऐक्यपरैः श्रुतिवाक्यैरात्मा शश्वत्प्रकाश्यमानोऽपि ।
देशिकदयाविहीनैरपरोक्षयितुं न शक्यते पुरुषैः ।। ४१ ॥
विरहितकाम्यनिषिद्धो विहितानुष्ठाननिर्मलस्वान्तः । .
भजति स्वमेव बोध गुरुणा किमिति त्वया न मतव्यम् ॥ ४२ ।।
कर्मभिरेव न बोधः प्रभवति गुरुणा विना दयानिधिना ।
आचार्यवान्हि पुरुषो वेदेत्यर्थस्य वेदसिद्धत्वात् ।। ४३ ।।
वेदोऽनादितया वा यद्वा परमेश्वरप्रणीततया ।
भवति परम प्रमाण बोधो नास्ति स्वतश्च परतो वा ॥ ४४ ।।
नापेक्षते यदन्यद्यदपेक्षन्तेऽखिलानि मानानि ।
वाक्य तन्निगमाना मान ब्रह्माद्यतींद्रियावगतौ ॥ ४५ ॥
मान प्रबोधयन्त बोध मानेन ये बुभुत्सन्ते ।।
एधोभिरेव दहन दग्धु वाछन्ति ते महात्मान. ॥ ४६ ॥
वेदोऽनादिरमुष्य व्यजक ईशः स्वयप्रकाशात्मा ॥
तदभिव्यक्तिमुदीक्ष्य प्रोक्तोऽसौ सूरिभिं प्रमाणमिति || ४७ ।।
रूपाणामवलोके चक्षुरिवान्यन्न कारणं दृष्टम् ।।
तद्वददृष्टावगतौ वेदवदन्यो न वेदको हेतुः || ४८ ॥
निगमेषु निश्चितार्थं तत्रे कश्चिद्यदि प्रकाशयति ।।
तदिदमनुवादमात्रं प्रामाण्यं तस्य सिध्यति न किंचित् ।। ४९ ।।
अंशद्वयवति निगमे साधयति द्वैतमेव कोऽप्यंशः ॥
अद्वैतमेव वस्तु प्रतिपादयति प्रसिद्धमपरोऽशः ॥ ५० ॥
अद्वैतमेव सत्यं तस्मिन्द्वैतं न सत्यमध्यस्तम् ।।
रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम् ॥ ५१ ।।
आरोपित यदि स्यादद्वैत वस्त्ववस्तुनि द्वैते ॥
तदयुक्तमेव यस्मात्सत्येऽध्यासो भवत्यसत्यानाम् ॥ ५ ॥
यद्यारोपणमुभयोस्तद्व्यतिरिक्तस्य कस्यचिदभावात् ।।-
आरोपण न, शून्ये तस्मादद्वैतसत्यता ग्राह्या ॥ ५३ ॥
प्रत्यक्षाद्यनवगतं श्रुत्या प्रतिपादनीयमद्वैतम् ।।
द्वैत न प्रतिपाद्य तस्य स्वत एव लोकसिद्धत्वात् ।।५४ ।।
अद्वैत सुखरूप दुस्सहदुःखं सदा भवेद्द्वैतम् ॥
यत्र प्रयोजनं स्यात्प्रतिपादयति श्रुतिस्तदेवासौ ।। ५५ ॥
निगमगिरा प्रतिपाद्य वस्तु यदानदरूपमद्वैतम् ॥
स्वाभाविक स्वरूप जीवत्व तस्य केचन ब्रुवते ॥ ५६ ॥
स्वाभाविक यदि स्या जीवत्व तस्य विशदविज्ञप्तेः ।
सकृदपि न तद्विनाश गच्छेदुष्णप्रकाशवद्वह्नः ॥ ५७ ।।
यद्वदयो रसविद्ध काचनतां याति तहदेवासौ ।
जीवः साधनशक्त्या परता यातीति केचिदिच्छन्ति ॥ ५८ ॥
तदिद भवति न युक्त गतवति तस्मिंश्चिरेण रसवीर्ये ॥
प्रतिपद्यते प्रणाश हैमो वर्णोऽप्ययस्समारूढः ॥ ५९ ॥
जीवत्वमपि तथेदं बहुविधसुखदुःखलक्षणोपेतम् ।।
गतमिव साधनशक्त्या प्रतिभात्येव प्रयाति न विनाशम् ॥ ६०
तस्मात्स्वतो यदि स्याज्जीवस्सतत स एव जीवः स्यात् ॥
एव यदि परमात्मा परमात्मैवायमिति भवेद्युक्तम् ।। ६१ ॥
यदि वा परेण साम्य जीवश्चेद्भजति साधनबलेन ।।
कालेन तदपि कियता नश्यत्येवेति निश्चित सकलैः ॥ १२ ॥
तस्मात्पर स्वकीय मोह मोहात्मक च ससारम् ॥
स्वज्ञानेन जहित्वा पूर्णाः स्वयमेव शिष्यते नान्यत् ॥ ६३ ॥
सत्य ज्ञानमनत प्रकृत परमात्मरूपमद्वैतम् ॥
अवबोधयन्ति निखिलाः श्रुतयः स्मृतिभिः समं समरताभिः ६४ ।।
एकत्वबोधकाना निखिलाना निगमवाक्यजालानाम् ॥
वाक्यान्तराणि सकलान्यभिधीयन्तेऽस्य शेषभूतानि ॥ ६५ ।।
यस्मिन्मिहिरवदुदिते तिमिरवदपयान्ति कर्तृताऽऽदीनि ।
ज्ञान विरहितभेद कथमिव तद्भवति तत्त्वमस्यादे ॥ ६६ ॥
कर्मप्रकरणनिष्ठं ज्ञान कर्मांगमिष्यते प्राज्ञैः ।
भिन्नप्रकरणमाजः कर्मांगत्व कथ भवेज्ज्ञप्ते ॥ ६७ ॥
अधिकारिविषयभेदौ कर्मज्ञानात्मकाबुभौ काडौ ।
एव सति कथमनयोरगागित्वं परस्पर घटते ॥ ६८ ।।
ज्ञान कर्मणि न स्याज्ज्ञाने कर्मेदमपि तथा न स्यात् ।
तत्कथमनयोरुभयोस्तपनतमोवत्समुच्चयो घटते ॥ ६९ ।।
तस्मान्मोहनिवृत्तौ ज्ञान न सहायमन्यदथर्यते ।
यद्वद्धनतरतिमिरप्रकरपरिष्वसने सहस्त्राशु ॥७०॥
ज्ञान तदेवममल साक्षी विश्वस्य भवति परमात्मा ।
सबध्यते न धर्मै साक्षी तैरेव सन्चिदानदः ॥७॥
रज्चादेरुरगाद्यैः सबधवदस्य दृश्यसबध ।
सततमसगोऽयमिति श्रुतिरप्यमुमर्थमेव साधयति ॥७२॥
कर्तृ च कर्म च यस्य स्फुरति ब्रह्मैव तन्न जानाति ।
यस्य न कर्तृ न कर्म स्फुटतरमयमेव वेदितु क्रमते ॥७३॥
कर्तृत्वादिकमेतन्मायाशक्त्या प्रतीयते निखिलम् ।
इति केचिदाहुरेषा भ्रान्तिब्रह्मातिरेकतो नान्यत् ||७४||
४
तस्मिन्ब्रह्मणि विदिते विश्वमशेषं भवेदिदं विदितम् ।
कारणमृदि विदितायां घटकरकाद्या यथाऽवगम्यन्ते ॥७५॥
तदिद कारणमेक विगतविशेष विशुद्धचिद्रूपम् ।
तस्मात्सदेकरूपान्मायोपहितादभूदिदं विश्वम् ।।७६॥
कारणमसदिति केचित्कथयन्त्यसतो भवेन्न कारणता ।
अंकुरजननी शक्तिः सति खलु बीजे समीक्ष्यते सकलै' ||७७॥
कारणमसदिति कथयन् वध्यापुत्रेण निर्वहेत्कार्यम् ।
किंच मृगतृप्णिकाभः पीत्वोदन्यां महीयसीं शमयेत् ॥७८॥
यस्मान्न सोऽयमसतो वादः सभवति शास्त्रयुक्तिभ्याम् ।
तस्मात्सदेव तत्त्व सर्वेषां भवति कारणं जगताम् ॥७९॥
जगदाकारतयाऽपि प्रथते गुरुशिष्यविग्रहतयाऽपि ।
ब्रह्माकारतयाऽपि प्रतिभातीदं परात्पर तत्त्वम् ॥८॥
सत्यं जगदिति भानं संसृतये स्यादपक्वचित्तानाम् ।
तस्मादसत्यमेतन्निखिल प्रतिपादयन्ति निगमान्ताः ॥८१||
परिपकमानसाना पुरुषवराणां पुरातनैः सुकृतैः ।
ब्रह्मैवेद सर्वं जगदिति भूयः प्रबोधयत्येपः ॥८२॥
अनवगतकाचनाना भूषणधीरेव भूपणे हैमे ।
एवमविवेकभाजा जगति जनाना न तात्त्विकी धिषणा ||८३||
अहमालवनसिद्ध कस्य परोक्षं भवेदिदं ब्रह्म ।
तदपि विचारविहीनैरपरोक्षयितुं न शक्यते मुग्धैः ।।८४||
अहमिदमिति च मतिभ्यां सततं व्यवहरति सर्वलोकोऽपि ।
प्रथमा प्रतीचि चरमा निवसति वपुरिंन्द्रियादिबाह्येऽर्थे 11८५||
वपुरिन्द्रियादिविषये याऽहबुर्द्धिमहत्यसौ भ्रान्तिः ।
तद्बुद्धिस्तस्मिन्नित्यध्यासत्वेन शास्यमानत्वात् ॥८६॥
तस्मादशेषसाक्षी परमात्मैवाहमर्थ इत्युचितम् ।
अजडवदेव जडोऽय सत्संबधाद्भवत्यहंकारः ||८७॥
तस्मात्सर्वशरीरेष्वहमहमित्येव भासते स्पष्टः ।
यः प्रत्ययो विशुद्धः तस्य ब्रह्मैव भवति मुख्योऽर्थः ॥८८
गोशब्दार्थो गोत्वं तदपि व्यक्तिः प्रतीयतेऽर्थतया ।
अहमर्थः परमात्मा तद्वद्भ्रान्त्या भवत्यहकारः ।।८९॥
दग्धृत्वादिकमयस पावकसगेन भासते यद्वत् ।
तद्वच्चेतनसंगादहमि प्रतिभान्ति कर्तृताऽऽदीनि ॥९॥
देहेंद्रियादिदृश्यव्यतिरिक्तं विमलमतुलमद्वैतम् ।
अहमर्थ इति विदित्वा तब्द्यतिरिक्त न कल्पयेत्किंचित् ।।९१॥
यद्वत्सुखदुःखानामवयवभेदादनेकता देहे ।
तद्वदिहासति भेदेऽप्यनुभववैचित्र्यमात्मनामेषाम् ||९२॥
किभिद किमस्य रूप कथभिदमासीदमुष्य को हेतुः ।
इति न कदाऽपि विचिंत्यं चिन्त्य मायेति धीमता विश्वम् ॥९॥
दंतिनि दारुविकारे दारु तिरोभवति सोऽपि तत्रैव-
जगति तथा परमात्मा परमात्मन्यपि जगत्तिरोधत्ते ॥९४
आत्मामये महति पटे विविधजगच्चित्रमात्मना लिखितम् ।
स्वयमेव केवलमसौ पश्यन्प्रसुद प्रयाति परमात्मा ॥१४॥
चिन्मात्रममलमक्षयमद्वयमानन्दमनुभवारूढम् ।
ब्रह्मैवास्ति तदन्यन्न किमप्यस्तीति निश्चयो विदुषाम् ॥ ९६ ॥
व्यवहारस्य दशेय विद्याऽविद्येति भेदपरिभाषा |
नास्त्येव तत्त्वदृष्टया तत्त्व ब्रह्मैव नान्यदस्त्यस्मात् ॥ ९७ ।।
अस्त्यन्यवदिति मत चेत्तदपि ब्रह्मैव चास्तितारूपम् ।
व्यतिरिक्तमस्तिताया नास्तितया शून्यमेव तत्सिद्धम् ॥ ९८
तत्त्वावबोधशक्त्या सुस्थितया बाधिता हि सा माया,
आदेहपातमेषा आभात्यात्माऽप्यय निजी विदुषाम् ।। ९९ ॥
एष विशेषो विदुषां पश्यन्तोऽपि प्रपचसंसारम् ।
पृथगात्मनो न किंचित् पश्येयुः सकलनिगमनिर्णीतात् ॥ १..।
किं चिंत्यं किमचिंत्यं किं कथनीयं किमप्यकथनीयम् |
कि कृत्यं किमकृत्यं निखिलं ब्रह्मेति जानतां विदुषाम् ॥ १०१ ॥
निखिलं दृश्यविशेष दृग्रूपत्वेन पश्यतां विदुषाम् ।
बंधो नाऽपि न मुक्तिर्न परात्मत्व न चाऽपि जीवत्वम् ॥ १०२ ॥
असकृदनुचिंंतितानामव्याहततरनिजोपदेशानाम् ।
'प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥ १० ॥
इति बोधितः स गुरुणा शिष्यो हृष्ट' प्रणम्य त पदयोः ।
स्वानुभवसिद्धमर्थं स्वयमेवान्तर्विचारयामास ।। १०४ ।।
अजरोऽहमक्षरोऽहं प्राज्ञोऽह प्रत्यगात्मबोधोऽहम् ।
परमानंदमयोऽहं परमशिवोऽहं भवामि परिपूर्णः ॥ १०५ ॥
आद्योऽहमात्मभाजामात्मानंदानुभूतिरसिकोऽहम् ।
आबालगोपमखिलैरहमित्यनुभूयमानमहिमाऽहम् ॥ १०६ ॥
इंद्रियसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् |
इतिमतिदूरतरोऽहं भावेतरसुखनिषिक्तचित्तोऽहम् ।। १०७ ।।
ईशोऽहमीश्वराणा ईर्ष्याद्वेषानुपगरहितोऽहम् ।
ईक्षणविषयमतीनामीप्सितपुरुषार्थसाधनपरोऽहम् ॥ १०८ ॥
उदयोऽहमेव जगतामुपनिपदुद्यानकृतविहारोऽहम् ।।
उद्वेलंशोकसागरवाडवमुखहव्यवाहनार्चिरहम् ॥ १०९ ॥
ऊर्जस्वलनिजविभवैरूर्ध्वमधस्तिर्यगश्नुवानोऽहम् ।।
ऊहापोहविचारैरुररीकृतवत्प्रतीयमानोऽहम् ॥ ११० ॥
ऋषिरहमृषिगणकोऽह सृष्टिरह सूयमानमहमेव ||
ऋद्धिरह वृद्धिरह तृप्तिरह तृप्तिदीपदीप्तिरहम् ॥ १११ ॥
एकोऽहमेतदीदृशमेवमिति स्फुरितभेदरहितोऽहम् ||
एष्टव्योऽहमनीहैरतस्सुकृतानुभूतिरहितोऽहम् ॥ ११२ ॥ ---
ऐक्यावभासकोऽह वाक्यपरिज्ञानपावनमतीनाम् ।।
ऐशमहमेव तत्त्व नैशतम.प्रायमोहमिहिरोऽहम् ॥ ११३ ॥
ओजोऽहमोषधीनामोतप्रोतायमानभुवनोऽहम् ।।
ओकारसारसोल्लसदात्मसुखामोदमत्तभृंगोऽहम् ॥ ११४ ।
औषधमहमशुभानामौपाधिकधर्मजालरहितोऽहम् ॥
औदार्यातिशयोऽह विविधचतुर्वगतारणपरोऽहम् ॥ ११५ ।
अकुशमहमखिलानां महत्तया मत्तवारणेंद्राणाम् ।
अबरमिव विमलोऽह शबररिपुजातविकृतिरहितोऽहम् ।। ३१6 ॥
आत्मविकल्पमतीनामस्खलदुपदेशगम्यमानोऽहम् ।
अस्थिरसुखविमुखोऽहं सुस्थिरसुखबोधसंपदुचितोऽहम् ॥ ११७ ॥
करुणारसभरितोऽहं कवलितकमलासनादिलोकोऽहम् ।
कलुषाकृतिरहितोऽहं कल्मषसुकृतोपलेपरहितोऽहम् ॥ ११८ ।।
खानानगोचरोऽहं खातीतोऽह खपुष्यभवगोऽहम् ।
खलजनदुरासदोऽहं खंडज्ञानापनोदनपरोऽहम् ॥ ११९ ।।
गलितद्वैतकथोऽह गेहीभवदखिलमूलहृदयोऽहम् ।
गन्तव्योऽहमनीहेर्गत्यागतिरहितपूर्णबोधोऽहम् ॥ १२० ॥
घनतरविमोहतिमिरप्रकरप्रध्वंसभानुनिकरोऽहम् ।
घटिकावासररजनीवत्सरयुगकल्पकालभेदोऽहम् ॥ १२१ ॥
चरदचरदात्मकोऽह चतुरमतिश्लाघनीयचरितोऽहम् ।
चपलजनदुर्गमोऽहं चंचलभवजलधिपारदेशोऽहम् ।। १२२ ।।
छदस्सिधुनिगूढज्ञानसुखाह्लादमोदमानोऽहम् ।
छलपदविहितमतीना छन्नोऽहं शान्तिमार्गगम्योऽहम् ॥ १२३ ॥
जलजासनादिगोचरपंचमहाभूतमूलभूतोऽहम् ।
जगदानंदकरोऽहं जन्मजरामरणरोगरहितोऽहम् ॥ १४ ॥
झंकृतिहुकृतिशिंजितबृंहितमुखविविधनादभेदोऽहम् ।
झटितिघटितात्मवेदनदीपपरिरफुरितहृदयभवनोऽहम् ।। १२५ ॥
ज्ञानमहं ज्ञेयमहं ज्ञाताऽहं ज्ञानसाधनगणोऽहम् ।
ज्ञातज्ञानज्ञेयविनाकृतमस्तित्वमात्रमेवाहम् ॥ १२६ ॥
तत्त्वातीतपदोऽहं तनुरहमस्मीतिभावरहितोऽहम् ।
तामसदुरधिगमोऽहं तत्त्वपदबोधबोध्यहृदयोऽहम् ॥ १२७ ॥
"दैवतदैत्यनिशाचरमानवतिर्यड्महीधरादिरहम् ।
देहेंद्रियरहितोऽहं दक्षिणपूर्वादिदिद्विभागोऽहम् ।। १२८ ॥
धर्माधर्ममयोऽहं धर्माधर्मादिबधरहितोऽहम् ।
धार्मिकजनसुलभोऽहं धन्योऽहं धातुरादिभूतोऽहम् ॥ १२९ ॥
नामादिविरहितोऽहं नरकस्वर्गापवर्गरहितोऽहम् ।
नादान्तवेदितोऽह नानागमनिखिलविश्वसारोऽहम् ॥ १३० ॥
परजीवभेदबाधकपरमार्थज्ञानशुद्धचित्तोऽहम् ।
प्रकृतिरहं विकृतिरहं परिणतिरहमस्मि भागधेयानाम् ॥ १३१
फणधरभूधरवारणविग्रहविधृतप्रपचसारोऽहम् ।
फालतलोदितलोचनपावकपरिभूतपंचबाणोऽहम् ।। १३२ ।।
बद्धो भवामि नाह बधान्मुक्तस्तथापि नैवाहम् ।
बोध्यो भवामि नाह बोधोऽह नैव बोधको नाहम् ॥ १३३ ॥
भक्तिरहं भजनमहं मुक्तिरहं मुक्तियुक्तिरहमेव ।
भूतानुशासनोऽह भूतभवद्भव्यमूलभूतोऽहम् ॥ १३४ ।।
मान्योऽहमस्मि महतां मंदमतीनाममाननीयोऽहम् ।
मदरागमानमोहितमानसदुर्वासनादुरापोहम् ।। १३५ ॥
यजनयजमानयाजकयागमयोऽह यमादिरहितोऽहम् ।
यमवरुणयक्षवासवराक्षसमरुदीशवह्निरूपोऽहम् ॥ १३६ ॥
रक्षाविधानशिक्षावाक्षितलीलावलोकमहिमाऽहम् ।
रजनीदिवसविरामस्फुरदनुभूतिप्रमाणसिद्धोऽहम् ।। १३७ ॥
लक्षणलक्ष्यमयोऽहं लाक्षणिकोऽहं लयादिरहितोऽहम् ।
लाभालाभमयोऽहं लब्धव्यानामलभ्यमानोऽहम् ॥ १३८ ।।
वर्णाश्रमरहितोऽह वर्णमयोऽह वरेण्यगण्योऽहम् ।
वाचामगोचरोऽहं वचसामर्थेन गम्यमानोऽहम् ॥ १३९ ।।
शमदमविरहितमनसा शास्त्रगतैरप्यगम्यमानोऽहम् ।
शरणमहमेव विदुषां शकलीकृतविविधसशयगणोऽहम् ॥ १४० ॥
षड्भावविरहितोऽहं षड्गुणरहितोऽहमाहितरहितोऽहम् ।
पदकोशविरहितोऽहं षडत्रिंशत्तत्त्वजालरहितोऽहम् ॥ १४१ ।।
सवित्सुग्वात्मकोऽहं समाधिसकल्पकल्पवृक्षोऽहम् ।
ससारविरहितोऽहं साक्षात्कारोऽहमात्मविद्यायाः ।। १४२ ॥
हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् ।
हरिरहमस्मि हरोऽहं विधिरहमेवास्मि कारण तेषाम् ।। १४३ ॥
क्षालितकलुषभयोऽह क्षपितभवक्लेशजालहृदयोऽहम् ।
क्षान्ताद्यक्षरसुघटितविविधव्यवहारमूलमहमेव ॥ १४४ ॥
बहुभिः किमेभिरुक्तैरहमेवेद चराचर विश्वम् ।
शीकरफेनतरगा' सिंधोरपराणि न खलु वस्तूनि ॥ १४५ ॥
शरण न भवति जननी न पिता न सुता न सोदरा नान्ये ।
परम शरणमिद स्याच्चरण मम मूर्ध्नि देशिकन्यस्तम् ॥ १४६ ।।
आस्ते देशिकचरण निरवधिरास्ते तदीक्षणे करुणा ।
आस्ते किमपि तदुक्त किमत परमस्ति जन्मसाफल्यम् ॥ १४७ ।।
कारुण्यसारसान्द्राः काक्षितवरदानकल्पकविशेपाः ।
श्रीगुरुचरणकटाक्षाः शिशिराः शमयन्ति चित्तसतापम् ॥ १४८ ॥
कवलितचचलचेतोगुरुतरमडूकजातपरितोपा ।
शेते हृदयगुहाया चिरतरमेकैव चिन्मयी भुजगी ।। १४९ ।।
मयि सुखबोधपयोधौ महति ब्रह्मांडबुद्बुदसहस्रम् ।
मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥ १५० ॥
गुरुकरुणयैव नावा प्राक्तनभान्यानुकूलमारुतया ।
दुस्सहदुःखतरगस्तुंगः ससारसागरस्तीर्णः ॥ १५१ ॥
सति तमसि मोहरूपे विश्वमपश्य तदेतदित्यखिलम् |
उदितवति बोधभानौ किमपि न पश्यामि कि न्विद चित्रम्।।१५२
इत्यात्मबोधलाभ मुहुरनुचिंत्य प्रमोदमानेन ।
प्रारब्धकर्मणोऽन्ते परं पदं प्राप्यते हि कैवल्यम् ॥ १५३ ॥
मोहांधकारहरण ससारोद्वेलसागरोत्तरणम् ।
स्वात्मनिरूपणमेतत्प्रकरणमतविंचिंत्यतां सद्भिः ॥ १५४ ।।
॥ इति स्वात्मनिरूपणं सपूर्णम् ।।
---