स्वरूपानुसन्धानाष्टकम्

विकिस्रोतः तः


तपोयज्ञदानादिभिः शुद्धबुद्धि-
   र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या .
परित्यज्य सर्वं यदाप्नोति तत्त्वं
   परं ब्रह्म नित्यं तदेवाहमस्मि .. १..

दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
   समाराध्य मत्या विचार्य स्वरूपम् .
यदाप्नोति तत्त्वं निदिध्यास विद्वान्-
   परं ब्रह्म नित्यं तदेवाहमस्मि .. २..

यदानन्दरूपं प्रकाशस्वरूपं
   निरस्तप्रपञ्चं परिच्छेदहीनम् .
अहंब्रह्मवृत्त्यैकगम्यं तुरीयं
   परं ब्रह्म नित्यं तदेवाहमस्मि .. ३..

यदज्ञानतो भाति विश्वं समस्तं
   विनष्टं च सद्यो यदात्मप्रबोधे .
मनोवागतीतं विशुद्धं विमुक्तं
   परं ब्रह्म नित्यं तदेवाहमस्मि .. ४..

निषेधे कृते नेति नेतीति वाक्यैः
   समाधिस्थितानां यदाभाति पूर्णम् .
अवस्थात्रयातीतमद्वैतमेकं
   परं ब्रह्म नित्यं तदेवाहमस्मि .. ५..

यदानन्दलेशैः समानन्दि विश्वं
   यदाभाति सत्त्वे तदाभाति सर्वम् .
यदालोकने रूपमन्यत्समस्तं
   परं ब्रह्म नित्यं तदेवाहमस्मि .. ६..

अनन्तं विभुं निर्विकल्पं निरीहं
   शिवं सङ्गहीनं यदोङ्कारगम्यम् .
निराकारमत्युज्ज्वलं मृत्युहीनं
   परं ब्रह्म नित्यं तदेवाहमस्मि .. ७..

यदानन्द सिन्धौ निमग्नः पुमान्स्या-
   दविद्याविलासः समस्तप्रपञ्चः .
तदा नः स्फुरत्यद्भुतं यन्निमित्तं
   परं ब्रह्म नित्यं तदेवाहमस्मि .. ८..

स्वरूपानुसन्धानरूपां स्तुतिं यः
   पठेदादराद्भक्तिभावो मनुष्यः .
श्रुणोतीह वा नित्यमुद्युक्तचित्तो
   भवेद्विष्णुरत्रैव वेदप्रमाणात् .. ९..

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
स्वरूपानुसन्धानाष्टकम् संपूर्णम् ..