स्वराज्यसिद्धिः /प्रकरणम् ३ (कैवल्यप्रकरणम् )

विकिस्रोतः तः

अथ कैवल्यप्रकरणम्

अपरोक्षवस्तुविषयेति शब्दजाप्यपरोक्षतां न विजहात्यखण्डधी:।
निपुणं निशम्य दशमस्त्वमित्यादो वचनं नहि स्वमुपलब्धुमिच्छति॥ १॥

नच शब्दजन्यमतिमात्रत: स्वतोप्यपरोक्षवस्तु भजते परोक्षताम्।
न खलु प्रदीपतरणिप्रकाश्यो: प्रतिभासतोऽस्ति विषये पृथग्विधा॥ २॥

अपरोक्षवस्तुविषया परोक्षधीर्नच मानाभावमुपगन्तुमर्हति।
स्वत एव शश्वदवभातनात्मन: कुशलोऽपि न स्वमपि गूहितुं क्षम:॥ ३॥

सुखदु:खरागयतनेष्वसंमतेस्तिमिरप्रसुप्तिविषयेष्वदर्शनात्।
अपि हेतुरस्य विषयस्य योग्यस्य योग्यतेत्यपरोक्षता न करनैर्नियम्यते॥ ४॥

अपिचाऽऽवृतार्थविषयस्य परोक्षधीर्वचसा च भग्नमनुभूयते तम:।
उपदेशमात्रमुपवर्ण्य तत्पुन: श्रुतिराह दर्शयति पारमित्यपि॥ ५॥

विदधाति यच्च परमात्मदृष्टये श्रवणं विमृष्टनिगमान्तगोचरम्।
श्रुतिमात्रतीर्णतमसो यदब्रुवन् जनकोऽपि तारयसि पारमित्यपि॥ ६॥

चैतन्यस्याऽऽपरोक्ष्यं स्वरसनिजदृशो मुख्यमन्याऽनपेक्षं
गौणं तद्गोचरेष्वावरणविरहिते तत्र तादात्म्यवत्सु।
बाह्ये चैतन्ययोगं घटयितुमुचिता वृत्तिरक्षप्रसूता
वाक्योत्था मोहमात्रं विघटयति चितस्स्फूर्तिरन्याऽनपेक्षा॥ ७॥

विषयऽप्रबोधदलनाय संविदो विषयोपरागजननाय वा धियम्।
विषयाऽऽकृतित्वमुपनेतुमिष्यते विषयाऽक्षयोगसरणिस्तनोर्बहि:॥ ८॥

यन्नेक्ष्यं चक्षुराद्यै: प्रतिविष्यममी येन संधुक्षितार्था:
यद्वागादे: पदं न व्यवहरति मुहुर्येन वागादिवर्ग:।
येन प्राण प्रणीतस्तनुकरणमनोबुद्धयो येन चेद्ध:
तच्छुद्धं स्वेन सिद्धं निरुभयमभयं बोधसत्सौख्यमात्मा॥ ९॥

इत्थं सम्बोधितस्याप्यनवहितमतेर्यस्य बोधो न वृत्त:
स स्याद्भूयोविचारव्यसनवशमना: सत्सहाय: स्वतश्च।
अक्षान्विक्षेपशान्त्यै चपलमपि मनो लालनैर्वा हठाद्वा
रुध्वा ध्यायेदनन्तं परमसुखचिदात्मानमेकं विविक्ते॥ १०॥

मुक्त्वा सङ्गं सहिष्णु: शुचिहितमितभुग्योगशास्त्रार्थदर्शी
पुण्ये निर्दोषदेशे यमनियमदृढ: स्वासनस्थ: प्रसन्न:।
प्राणायामक्रमेणाहृतचलमन: स्थूलसूक्ष्मे निरुध्य
ध्यायन्नैकात्म्यसौख्यस्थिरगलितमना मोहबन्धं छिनत्ति॥ ११॥

निरवधिसुख भूमाऽनन्त संवित्परात्मन्यनुभवमधिरूढे वाक्यतो वा।
भवतु दृढसमाधि: लोकसङ्ग्राहको वा भजतु विषयजातं भूयोऽपिबन्धम्॥ १२॥

अपि भूपरमाणुभूरिसंख्येष्वपयातेषु चतुर्मुखेष्वलब्धात्।
अपदु:खनिरन्तंसौख्यसिंधो: न च लाभोऽस्ति परो निजात्मलाभात्॥ १३॥

बाधितं स्यादसत् ध्वस्तवैधर्म्यतो मोहबाधोऽपि न ध्वंसरूपोऽपर:।
बाधबुद्धिश्च नाऽभावमात्रप्रथा स्यादभावोऽप्यधिष्ठानरूपोऽथवा॥ १४॥

कर्मजातं समारब्धदेहेतरत्सत्वरं भस्मतामेति बोधाग्निना।
श्लिष्यते नैष्यताप्येष बोधोज्वल: कर्मणा जीवनेनेव पÒच्छद:॥ १५॥

चोरबाधेऽपि तज्जन्यभीत्यादिवच्चेलदाहेऽपि भस्मेव चेलाकृति।
ज्ञानिनां विश्वमादेहपातं स्वतो बाधितत्वेऽपि चाऽऽरब्धभोगक्षमम्॥ १७॥

जीवतोऽप्यस्य नह्यात्मबुद्धिस्तनौ वामलूरेऽप्यहेर्निल्वयिन्यामिव।
मोहमात्रात्परे कल्पयन्त्स्य चेद्देहितामस्तु तद्धनिरस्येह का॥ १८॥

ईशते ज्ञाततत्त्वस्य नाऽभूतये यत्नवन्तोऽपि सर्वेऽपि देवाऽसुरा:।
को हि नामाऽऽत्मनोऽभिष्टकारी भवेदात्मभूतो यतिस्त्वेष तेषामपि॥ १९॥

राग लोभ प्रमादादि दोषक्षयान्नायमाज्जते दुश्चरित्रे क्वचित्।
साधुवत्साधुचारित्र्यरक्षापर: साधुमार्गेण संस्कारतो वर्तते॥ २०॥

न प्रहृषत्यसौ प्राप्य भूय: प्रियं मेरुवन्निश्चलो भूरिकृच्छ्रेष्वपि।
भावयन्नत्मनाऽऽत्मानमानन्दितो देववत्सञ्चरत्येव विश्वम्भराम्॥ २१॥

केऽपि वर्णाश्रमाचारनिष्ठापरा मुग्धबालप्रमत्तोपमाश्चाऽपरे।
रागिणो भोगिनो योगिनश्चेतरे ज्ञानिनां लक्ष्यते नैकरूपा स्थिति:॥ २२॥

स्वाऽऽनन्दे सहजे सदा विहरतां स्वच्छन्दलीलाजुषां
निस्सङ्गा च निरर्गला च जगतां कल्याणसंदोहनी।
मत्स्यानां सलिलेऽम्बरे च वयसां वायोरिवाऽऽशामुखे
दुर्लक्ष्ये पथि योगिनां बहुविधा गूढा विचित्रा गति:॥ २३॥

योगिध्येयपदाम्बुजस्त्रिजगतां नथो हरिर्यं स्वयं
शान्तं नित्यमनुव्रजामि रजसा पूयेयमित्यब्रवीत्।
तस्माद्विश्वगुरो: सुरासुरनरैरानम्यपादाम्बुजा
दात्मानन्दनिमग्ननिश्चलमतेरन्योऽत्र धन्योऽस्ति क:॥ २४॥

सोऽयं पूर्णमनोरथोऽपि सहजात्कौतूहलात्पर्यट
न्नुर्वीं सर्वहिते रत: प्रतिपदं स्वानन्दमास्वादयन्।
साश्चर्यं सकुतूहलं सकरुणं सानन्दमुत्कण्ठया
धीर: पारमवाप्य मोहजालधेरेवं मुहुर्गायति॥ २५॥

चिरान्मग्नेनाऽन्त: प्रकृतिविषमे जन्मजलधौ
मया पुण्यैर्लब्धो गुरुरमृतचिन्तामणिरहो।
यदीयाभिर्गोभिर्विशदमधुराभिर्वितिमिरे
स्वसंपूर्णे यस्मान्निरवधिसुखे धामनि रमे॥ २६॥

यथा पूर्वं मायापरिकलितदृष्टिर्निजसुखं
स्वयं भातं पश्यन्नपि नपरिपश्यामि सहजम्।
तथेदानीं ज्ञानाञ्जनविमलचक्षुर्जगदिदं
चिदाकाशे पश्यन्नपि न परिपश्यामि वितथम्॥ २७॥

न वेद्यो नाऽवेद्य: स्वरसमतिहृद्य: सुखघनो
न गद्यो नाऽपोद्यो न पुनरुपरिध्य: कथमपि।
न हेयो नाऽऽदेयो न पुनरपिधेय: क्षणमहो
स्फुतन्नाऽऽत्माऽस्माकं जगदिदमकस्मात्तिरयति॥ २८॥

किमस्तं किंध्वस्तं किमु विलुलितं किन्नु गलितं
विशीर्णं वा गीर्णं ननु सपदि जीर्णं किमथवा।
अमन्दे स्वच्छन्दे निरुपमनिजानन्दजलधौ
मयि स्वान्ते शान्ते जगदिदमशेषं न कलये॥ २९॥

कथमिदमभवत्कथंनु तिष्ठत्यथ कथमेति लयं प्रतिचि विश्वम्।
विमलदृशि निजे निरस्तसङ्गे पटु परिमृश्य मृषेति निर्वृतोऽस्मि॥ ३०॥

निराधाराऽऽकारं निरवयवसंस्थानमचलं
निरीहं निर्द्वन्द्वं निरुपम निजानन्द विभवम्।
विनोपायं स्वीयं करणसमुदायं च परमं
कथं तन्निर्मायं त्रिभुवननिकायं रचयति॥ ३१॥

न भूत्या नामात्या न खलु विषया नैव च हया
न चाऽशून्या: कोशा न च पुरनिवेशा न सुहृद:।
तथाप्यात्मैकाकी निजबलवराकीमरिचमूं
विजित्यैतद्विश्वं भुवनमवतीत्यद्भुतमिदम्॥ ३२॥

असङ्गोदासीन: स्वरस परमानन्द सुहितो
जिघत्सानिर्मुक्तश्चितितनुरपाण्यङ्घ्रिजटर:।
अमायोऽप्यात्मसौ स्वयमनवकाशोऽपि सहसा
समायं त्रैलोक्यं कबलयति कस्मात्कथमहो॥ ३३॥

मुहुर्मूढौर्न्यस्तं भृशमपलपाम्यर्थनिचयं
नकश्चिद्विश्वास्यो न मम यमदण्डादपि भयम्।
गुणद्वेषी स्वार्थप्रिय इति जगद्वञ्चनपरं
चरित्रं मे चित्रं क्वचिदपि न कश्चिकलयति॥ ३४॥

न तातो नो माता सुहृदपि न मे धाम निधनं
नचान्नं पानं वा न सततगतिर्नाम्बरमपि।
चरन्तं कृत्स्नं मामहह न हि लोकोऽपि विमृश
त्यहो मे दौर्गत्यं तदपि सुखसाम्राज्यमतुलम्॥ ३५॥

न सत्यो मे लोको न खलु पुनरोक: सरसिजं
रज:सङ्गो दूरे न मयि निधिशब्द:प्रभवति।
नवाग्भि: संसर्गो न च विषमसर्गव्यसनिता
तथापि ब्रह्माहं निगमनिकुरुम्बं गदति तत्॥ ३७॥

अहं न मायि न च भोगिशायी न चक्रधारी न दशावतारी।
न मे प्रपन्ञ्च: परिपालनीयस्तथापि विष्णु: प्रभविष्णुरस्मि॥ ३८॥

न मूर्तयोऽष्टौ विषमा न दृष्टि: न भूतिलेपो न गतिर्वृषेण।
न भोगिसङ्गो न च कामभङ्ग: तथापि साक्षात्परम: शिवोऽहम्॥ ३९॥

जागृत्सुप्तिस्वपनविपिने गाहमानोऽप्यसङ्ग:
सत्त्वोत्कर्षात्करणहरिणैर्नेक्षणीय: पराग्भि:।
लीलावृत्ति प्रशमित महामोह मत्तेभजाल:
कालातीते विलसति पदे स्वात्मकण्ठीरवो न:॥ ४०॥

इत्याभिर्भुवनजाड्यहरै: सुगोभि: सत्योज्वलै: श्रुतिसुखैरमृतप्रबोधै:।
आनन्दयन्प्रतिपदं प्रणतान्सभाग्या नाशा: पवित्रयति भानुरिव प्रबुद्ध:॥ ४१॥

धन्य: स एव कृतकृत्यतम: समस्तमान्य: स एव कुलमस्य च धन्यधन्यम्।
संन्यस्य कर्मनिगडं श्रुतिसारसौख्ये विन्यस्य चित्तमभयाऽऽत्मनि निर्वृतोय:॥ ४२॥

एवं विहृत्य सुचिरं परिपूर्णकाम: कारुण्यपूरपतितोद्धरण प्रवीण:।
प्रारब्धशेषविगमे गतसर्वशोक: स्वाराज्यसौख्यजलधिर्निरुपाधिरास्ते॥ ४३॥

नोदेति नाऽस्तमुपयाति न वृद्धिमेति नाऽपक्षयं च भजते निजतेजसेद्ध:।
पूर्ण: सदैव सहजेन सुखाऽमृतेन निर्लञ्छन: स्फुरतिकोऽपि निजाऽऽत्मचन्द्र:॥ ४४॥

विश्वाऽनन्दतुषारसिन्धुरखिलज्ञानस्फुलिङ्गानल:
प्रच्छन्नाऽसिलता च कोशकुहरे द्वैतभ्रमच्छेदिनी।
मोहध्वान्तविभाकर: परिलसन्वेदान्तसीमन्तिनी
मौलिस्थानमणि। सदा विजयते संविन्मय: पूरुष:॥ ४५॥

शान्त्यादि दिव्यमणिभूषण मण्डितानां वेदान्तवारिधि सुधारस लालसानाम्।
कैवल्यकल्पतरुमूलमुपाश्रितानां स्वाराज्यसिद्धिरियमस्तु मुदे बुधानाम्॥ ४६॥

वाक्यपुष्पाञ्जलि: सेयं भक्त्या न्यस्ता पदâयो:।
धिय: प्रेरकयोरस्तु शिवयो: प्रीतिसिद्धये॥ ४७॥

कैवल्यप्रकरणं सम्पूर्णम्।