स्वराज्यसिद्धिः /प्रकरणम् २ (अपवादप्रकरणम्)

विकिस्रोतः तः

अथ अपवादप्रकरणम्

वरमभयमुदारं पुस्तकं चाऽक्षहारं
मणि वलय मनोज्ञै: पाणिपÒैर्दधाना।
सित वसन ललामा कुन्द मुक्ताऽभिरामा
वसतु शशि निभाऽऽस्या वाचिवग्देवता न:॥ १॥

चूडाऽवतंसीकृत चन्द्रकन्दं गौरी करोल्लालित चारु शुन्डम्।
भक्तौघ विघ्न प्रशम प्रचण्डं भजे निजे चेतसि वक्रतुण्डम्॥ २॥

पङ्कोत्थं न चिरश्रि षट्पद गणैरामर्दितं चाऽङ्घ्रिभि
श्चञ्चत्कण्टक नाल मञ्चति विधौ मौनव्रतीत्यन्वहम्।
अम्भोजं हसती इवेन्दु विजयि प्रोद्यन्नखानां श्रिया
श्रीमद्देशिक वर्य चारु चरणाम्भोजे भजे नित्यश:॥ ३॥


हेतुत्वं लक्षणं यद्गदितमिदमुपादान कर्तृत्व रूपं
ताटस्थ्यादास्पदं स्वं गमयति परमं ब्रह्म शाखेव् चन्द्रम्।
एवं लक्ष्यं च सच्चित्सुखवपुरखिल द्वैतहीनं सुसूक्ष्मं
सत्य ज्ञानादि मन्त्रोदितमखिल मनो वागतीतं गुहास्थम्॥ १॥

कूटस्थं ब्रह्म विश्वं जनयति न विना मायया स च मिथ्या
तस्मिञ्छब्दप्रसिद्धे: परसम्धिगमात्तन्निवृत्तिश्रुतेश्च।
सैवाऽविद्या मृषार्था अपि समधिगथा: कार्यदक्षा: प्रपञ्च:
तस्मान्मायूरपिञ्छच्छविरिव गहनो ब्रह्मसंविद्विवर्त:॥ २॥

यस्माद्विश्वं सदुत्थं सदुपभृतमहो लियते तत्र तस्मा
त्सन्मात्रं नान्यदस्मामृद इव घटिकोदं चनादिर्विकार:।
सद्भेदे सदसत्वं सदथ यदि तदा नास्ति भेद: कथञ्चि
द्भेदाऽभेदौ विरुद्धौ न हि भवति भिदाऽभिन्नवस्तुप्रतिष्ठा॥ ३॥

भेदोऽभिन्ने प्रतितो भवति खलु मृषा चन्द्रनानात्मतावत्
भिनेऽभेदश्च तद्वत्प्रभवति हि ततो न स्वतो वस्तुभेद:।
धर्मैर्भेद: प्रसिद्ध्येद्यदि भवति भिदा धर्मिणो हन्त तेषां
भेदेऽभेदेऽपि लोके न खलु परिचिता धर्मधर्मिव्यवस्था॥ ४॥

यच्चाऽऽभिन्नं स्वतस्तन्न भवति परतो भेदभाङ्नान्यभेदा
दन्यो भ्बिद्येत धर्मा: कथमथ विविधा धर्म्यभेदादभिन्ना:।
भेदो भिन्नाश्रयश्चेदधिकरणभिदा तेन चेदात्मनिष्ठा
नोचेदन्योन्यनिष्ठास्थितिहतिरथवा तद्भिदा दुर्निरूपा॥ ५॥

भेदोंयं भिन्नधर्मिप्रतिभटविषयज्ञानजज्ञानवेद्यो
धर्म्यादेर्भेदसिद्धि: पुनरपि च तथेत्यापतेच्चाऽनवस्था।
भेदे धर्म्याद्यभेदे बत भवति मृषा भेदबुद्धिर्विभेदे
प्रादि:ष्यु: पूर्वदोषा नच गतिरपरा तेन भेदो मृषैव॥ ६॥

द्रव्ये भेदस्य योगो न भवति निरूपाख्यस्य भावस्वरूपो
नाऽभावोऽन्य: समत्वादनुभयमिलनान्नापि तत्तत्स्वरूपम्।
भावाऽभावाऽतिरिक्तं न च किमपि तयोरस्ति सम्बन्धरूपं
निस्सम्बन्धेऽपि शुक्तौ रजतमिव मृषा तेन भेद: प्रतीत:॥ ७॥

संयोगादेरयोगान्न हि भवति भिदा गोचरश्चेन्द्रियाणां
व्याप्तिर्नासङ्गताया न भवति सदृशी वक्यतात्पर्यदूरा।
मानाभावो न मानं न च पुनरपरं मानमस्यां तथापि
प्रत्यक्षा स्वाßमाया नगरमिव भवेत्साधु सैषा मृषैव॥ ८॥

बाह्योऽर्थो बुद्धिमत्रान्न भवति स भवन्गोचर: स्यात्परेषा
मेकैकं न द्वयंचेदुभयमिति मृषा तद्विशिष्टप्रथा च।
द्वित्वादेस्सङ्कर: स्यान्न खलु भवति ते प्रागभावा™वस्था
नापेक्षाबुद्धिक्लृप्ति: सकलमपि शनैर्योज्यमेतत्पृथक्त्वे॥ ९॥

कार्यं नाऽन्यन्निदानात्पृथगनधिगमान्न ह्युपादानहेत्वो
र्वैलक्षण्यं तथात्वे न भवति समवाया™वस्थाऽनुपेतात्।
नोचेत्स्वर्णादिकार्ये द्विगुणगुरुतया मूल्यवृद्धिप्रसङ्गो
ऽवस्थाभेदाद्विभेदे स्थितिगतिभिदया भेदिन: स्युर्नराश्च॥ १०॥

पिण्डाऽवस्थाघटत्वे मनसि विमृशतो हेतुकार्यत्वधी: स्या
न्मृन्मात्रं यद्वदेकं स्फुटमभिमृशतो नैव हेतुर्नकार्यम्।
तद्वन्मायिप्रपञ्चौ मनसि कलयतो ब्रह्म विश्वस्य हेतु:
सन्मात्रन्त्वेकरूपं पटुपरिमृशतो नैव मायी न विश्वम्॥ ११॥

सन्कुम्भ: सत्कुसूलं सदखिलमिति यद्भवति यच्च श्रुतं प्राक्
तत्सत्यं व्याप्य विश्वं घतपिठरमुखं मृत्तिकेवाऽवभाति।
तस्मिन्रज्जाविवऽहिर्निखिलमपि जगत्कल्पितं तत्स्वभावा
त्तन्मात्रं तत्पृथक्त्वे ह्यसदिदमखिलं स्यात्तदेव ह्यभेदे॥ १२॥

एकैव ब्रह्मसत्ता व्यवहृतिविषये शुक्तिरूप्यादिके च
ख्यात्याऽद्ये सत्यमेतज्जगदिति धियमाभ्रमबोधाद्विधत्ते।
यावत्स्फूर्ति द्वितीये प्रथितमिव पटस्फाटिके रक्तरूपं
माञ्जिष्ठं साधु रक्त: पट इति न मृषा स्फाटिके तन्मृषेति॥ १३॥

सच्चित्सौख्यैकरस्येऽप्यनृतजडमहादु:खमोहाऽन्यभावा
त्सत्यज्ञानादिवाक्यव्यवहृतिविषये कल्पिते रूपभेदे।
शुक्तीदंतेव सत्ता स्फुरति समरसा कल्पितेनाऽनुविद्धा
शुक्तित्वादीवमायाऽऽवरणपरिभवाच्चित्सुखत्वेनभात:॥ १४॥

पृष्टे कोऽस्मिन्समाजे नरपतिरिति यो मत्तमातङ्गपृष्ठे
मुक्ताजालान्तराले शशिधवललसच्छत्रमूले स्फुरन्स:।
इत्युक्त: पुंविशेषं सपदि परिचिनोत्येष राजेति सर्व
मुक्त्वैकं येन पश्यन्नमुमपरविधं शैष राजेति वेत्ति॥ १५॥

वर्णिता विविदिषदि यन्त्रणात्पुंविशेषमिव लक्षणोक्तय:।
विश्वसर्गविषयाऽऽगमा: परं लक्षयन्ति निरवद्यचिद्घनम्॥ १६॥

तत्त्वमर्थवदत्र यद्यपि नाऽन्वयानुपपत्तिधी
र्नाप्यभिन्नपदार्थकत्वमथ: पदेषु न लक्षणा।
भेदसङ्गतिकानि तानि समेत्य सत्यचिदद्वयं
तत्पराणि हि लक्षयेयुरुपक्रमाद्यनुसारत:॥ १७॥

अक्षजादिबहि:प्रमाणा समेधितद्वयविभ्रमे
जाग्रति श्रुतिरद्वयप्रतिबोधने सहसाऽक्षमा।
व्यावहारिकवस्तुजातमिदं मृषेति विवक्षया
प्रक्रियां रचयांबभूव विसृष्टिसंहृतिलक्षणाम्॥ १८॥

ब्रह्म सच्चिदानन्दमेमशेषवाङ्मनसाऽतिगं
पञ्चकोशगुहान्तरं च निगद्य शश्वदलौकिकम्।
तद्विसृज्य विवेश सत्यमसत्यमित्युभयं स्वत:
सत्यमित्यभिधायिनी श्रुतिरद्वयं स्फुटमभ्यधात्॥ १९॥

ब्रह्मवित्परमेति तत्खलु सच्चिदद्वयलक्षणं
वेदनं च गुहान्तरं निजस्वरूपतदाऽऽप्तये।
इत्युदीयं सदद्वयत्वसमर्थनाय समाददे
विश्वसृष्टिमिमां श्रुतिर्न हि तत्समर्थनमन्यथा॥ २०॥

एक एव पुरा बभूव न चापरं स किलाऽखिलं
वीक्ष्य विश्वमिदं ससर्ज तनुं प्रविश्य निरीक्षते।
स्वßमावसथत्रयं सविचरत: प्रतिबुद्धवान्
स्वाऽऽत्मनैव समस्तकाममवाßुवन्नमृतोऽभवत्॥ २१॥

स्थूलसूक्ष्मविभागि मूर्तममूर्तमित्यखिलं जगत्
ब्रह्मणो द्विविधं हि रूपमिति प्रकल्प्य विभागत:।
आदिशन्त्यथ नेति नेति निषिध्य रूपमशेषत:
काण्व वाजसनेयक श्रुतिरप्यशेषयदद्वयम्॥ २२॥

यत्प्रभोधवशादशेषमिदं जगद्विदितं भवे
तद्विवक्तुमुपक्रमोऽत्र सदेव सोम्यगिरा तत:।
सृष्टिनिरीक्षणपूर्विका जगतस्तदैक्यविवक्षया
मृत्तिकादिनिदर्शनानि तथाहि सङ्गतिमाßुयु:॥ २३॥

सत्प्रसूतमिदं सति स्थितमस्तमेति सति स्वत:
सत्तया परिहीणमित्यखिलं सदेव पृथङ्मृषा।
कल्पितं हि पृथङ्नसन्मृगतृष्णिकोदकवन्मरो
स्तत्सदद्वयमेव वस्त्विति सृष्टिवाक्यसमीहितम्॥ २४॥

विद्यया परयाऽधिगम्यमुदीर्य धर्मविवर्जितं
सूक्ष्ममक्षरतस्तत: प्रभवत्यशेषं जगन्मृषा।
तद्धि सत्यमिति स्फुटं परिशेष्य वेदनमात्रत
स्तत्स्वयं भवतीति नित्यमवाप्तमाह तुरीयगी:॥ २५॥

भूत भावि भवज्जगत्परं च सत्प्रणवात्मकं
पादश: प्रविभज्य निह्नुत वाच्य वाचक भेदकम्।
पूर्व पूर्वम्थोत्तरत्र विलाप्य तुर्यमलक्षणं
स्वात्मरूपमथर्वणश्रुतिरभ्यधाच्छिवमद्वयम्॥ २६॥

इत्थमेव ततस्तत: श्रुतसृष्टिवाक्यकदम्बकं
प्रक्रियाद्यभिशीलनेन सदद्वयेन समानयेत्।
युक्तिभि: श्रुतिभिश्च सैष तटस्थलक्षणसङ्गृह
स्तत्फले खलु लक्ष्यसत्त्वपरिच्छिदात्रयवारणे॥ २७॥

सच्चिदद्वयसौख्यरूपममुष्य वास्तवलक्षणं
नाऽनृतेऽस्फुरणेऽसुखे पुरुषार्थतेति तदात्मता।
वारणीयविधाप्रकल्पितभेदलब्धपदै: पदै
र्नैकरस्यहतिस्तथैव हि साधु पूर्वमवादिषम्॥ २८॥

सत्यत्वं तस्य सौक्ष्म्यान्नभस इव जगन्नीलिमाधारभावा
दव्यावृत्तेरवृत्तेरखिलदृशितया सर्वबाधाऽवधित्वात्।
निस्सङ्गत्वाऽविरोधात्सकलगततयाऽऽत्मत्वत: साक्षिभावा
दन्यद्रष्टुर्निषेधात्स्फुटवचनशतै: स्वानुभूत्या च सिद्धम्॥ २९॥

आत्मत्वादीक्षितृत्वादखिलवशितया शास्त्रयोनित्ववादात्
कामाऽभिध्योपदेशाच्छशितपनमुखद्योतिभारूपतोक्ते:।
साक्षादेवाऽपरोक्षादसुकृतसुकृताऽऽध्यक्ष्यसाक्षित्ववादात्
सर्वज्ञ ज्ञादिशब्दात्स्फुटवचनशतैश्चापि सच्चित्स्वभावम्॥ ३०॥

सौख्योत्कर्षाऽवधित्वान्निखिलसुखकणाऽम्भोनिधित्वश्रुतिभ्यो
मुक्तप्राप्यत्ववादान्निरवधिपरमाऽऽनन्दभूमात्मकत्वात्।
सर्वप्रत्यक्त्ववादान्निधि निलय वधू सम्यवादात्सुषुप्ता
वानन्दे ब्रह्मतोक्तेरपि च रसतया तत्सदाऽऽनन्दरूपम्॥ ३१॥

सच्चित्सौख्यैकरस्यं निगदितमिह यद्बरह्मणो लक्षणं त
त्प्रत्यक्तत्वेऽपि जैवे सममखिलदृशस्तस्य बाधाद्ययोगात्।
मुख्यप्रेमाऽऽस्पदत्वादुपधिविभिदया वस्तुभेदाद्यसिद्धे
र्ब्रह्मांऽशत्वप्रवादात्तनुकरणदृश: स्वप्रकाशत्वतश्च॥ ३२॥

स्वाßार्त्थैबाध्यमानैरयमपि सह यद्बाध्यमानो न दृष्टो
बाधद्रष्टा स्वयं सन्कथमिव कलयेदात्मबाधं दृगात्मा।
दृग्भेदे यन्नमानं यदपि न च समा दृग्दृशेर्गोचरो वा
यच्चाऽसौ निर्विकारस्तदयमनवधि: प्रत्यगात्मा सदात्मा॥ ३३॥

यद्बाल्यादिष्ववस्थास्वहमहमिति भात्येकरूपो विभिन्ना
स्वध्यक्षंजागृदर्थानिव निजमहस यच्च सुप्तोऽपि वेत्ति।
यच्चऽहङ्कारमोषेऽप्यपरिमुषितचित्सुप्तिसौख्यादिसाक्षी
द्रष्टुर्दृष्टेरलोपे श्रुतिरपि तदसौ प्रत्यगात्मा दृगात्मा॥ ३४॥

यच्चऽऽत्मान्यद्बरुवाणं प्रियमिति तव तद्रोत्स्यतीति ब्रवीति
प्राज्ञेनैक्यं सुषुप्तौ निगदति च यदाऽऽनन्दसंविन्मयेन।
इच्छा यत्स्वाऽनुकूले त्रिजगति विदिता स्वप्रतीपे जिहासा
यच्च स्यां सर्वदेति स्पृहयति तदसौ प्रत्यगात्मा सुखात्मा॥ ३५॥

इत्थं मीमांस्यमाने श्रुतिगुरुवचनैर्युक्तिभिश्चाऽनुभूत्या
शश्वजीवेशतत्वे निपुणमधिगते वस्तुतो लक्षणैक्ये।
निष्प्रत्यूहं निजार्थं समधिगमयितुं तत्वमस्यादिवाक्या
न्याद्यन्ताऽवेक्षणाद्यैरधिगतहृदयान्यञ्जसैव क्षमन्ते॥ ३६॥

प्राक्सर्गाद्यत्सदासीदसृजदथ च यत्तेज आदि प्रविष्टं
जीवस्तस्मिन्यदासिद्यदखिलमनृतं नामरूपं वितेने।
तत्स्त्तच्छब्दवेद्यं त्वमिति निगदितह् श्वेतकेत्वाऽऽख्यजीवो
वाक्यार्थं नित्यसिद्धं गमयदसिपदं वर्तमानं ब्रवीति॥ ३७॥

बाधाऽध्यासविशेषणैक्यविषयं नाम्नोश्चतुर्धर्मा मतं
सामानाधिकरण्यमाद्यमिह न व्यर्थोद्यमा स्याच्छ्रुति:।
ध्यानाद्यश्रवणादनित्यफलतादोषाच्च नाऽध्यासधी:
तदात्म्यं न विरुद्धयोरिति बलाद्वस्त्वैक्यपक्षस्थिति:॥ ३८॥

अभिधेयमत्र पदयोरसङ्गतं न विरुद्धधर्मियुगमैक्यमेति यत्।
उपयोग मूलघटनाद्ययोगतो न परस्परार्थघटितेऽपि लक्षणा॥ ३९॥

न च गाङ्गतीरमिव वाच्यसङ्गि वा प्रथितं तृतीयमिह योग्यमन्वये।
पदयोर्नचैकतर भगलक्षणाऽध्यवसानलिङ्गमुपपद्यतेऽपि वा॥ ४०॥

नतु मानसिद्धमपरं परोपमं निजरूपमस्य नच भाविनोऽस्तिता।
श्रुतहानिरश्रुतगतिश्च नोचितेत्युचिता द्वयोरपि हि भागलक्षणा॥ ४१॥

अपहाय धर्मनिचयं विरोधिनं तनुबुद्धिसाक्षि सदनन्तचिद्घनम्।
उपलक्ष्य सोऽयमिति वाक्यवत्ततो घटयेदखण्डविषये पदद्वयम्॥ ४२॥

परोक्षाऽनवाप्तत्वबुद्धिं परस्मिन्नपूर्णत्व दु:खित्व मोहे प्रतीचि।
निहन्तुं निजाऽलौकिकं चाऽऽत्मतत्त्वं पदे वक्तुमन्योऽन्यत: साऽभिलाषे॥ ४३॥

असंसर्गिसत्यार्थता स्यात्पदानामनन्यार्थतावाऽप्यखण्डार्थताऽत्र।
प्रसिद्धा ह्यसौ चन्द्रमात्रप्रबोधात् प्रकृष्टप्रकाश: शशीत्यादिवाक्ये॥ ४४॥

प्रकर्षप्रकाशत्वचन्द्रत्वयोगव्यवच्छेदभेदादयो नैव पृष्टा:।
न वा शाब्दधीरस्त्यजिज्ञासितेऽर्थे ततो वाक्यतश्चन्द्रमात्रप्रबोद:॥ ४५॥

य: प्राग्विसृज्य भुवनं तनुमाविवेश य: पञ्चभूत सुर मानुष तिर्यगाऽऽत्मा।
येनाऽवलोकयति वक्त्यभिमन्यते च प्रज्ञानमात्र विभवोऽहमसौ पराऽऽत्मा॥ ४६॥

य™ाकृतं जगदभूत्तमसाऽऽनखाग्राद्यच्च प्रविष्टतनु कृत्स्नमकृत्स्नमासीत्।
प्रेयस्तदेव परमं परमार्थतोऽहं ब्रह्मास्मि तद्विदितवद्धि तदेव सर्वम्॥ ४७॥

यश्चाऽयमत्र पुरुषे प्रथते गुहान्तर्यश्चाऽप्रमेयसुखभू: सवितुश्च बिम्बे।
एक: स इत्यभिदधु: स्फुटमैक्यमेके तद्वेदनाच्च विलयं जगतश्च तत्र॥ ४८॥

आसीत्सदेव हि भवाननृतं विधाय तेजोमुखं तदभिमत्य बभूव जीव:।
देहान्तशुङ्गमवधूय विलोकय स्वं सद्बरह्म तत्त्वमसि बोधसुखाऽद्वितीयम्॥ ४९॥

सम्पद्य यत्रमधुनीव रसा: सुषुप्तौ सौख्यैकरस्यमधिगम्य जना न विद्यु:।
यत्प्रच्युता: पुनरमी बहुदु:खभाज: सद्बरह्म तत्त्वमसि नाऽसि कदापि दु:खी॥ ५०॥

अब्धिर्यथा जलधरैरपनीय नीतो नद्यादिभावमुदधित्वमतिं जहौ स्वाम्।
एवं भवानुपधिभि: खलु विस्मृत: स्वं सद्बरह्म तत्त्वमसि संस्मर पूर्णभावम्॥ ५१॥

जीवप्रहीण तरु शोषविशेष लिङ्गादात्मा परोऽस्ति तनुत: सच नित्य एक:।
विद्ध्यैतदात्म्यमखिलं वितथद्वितीयं सद्बरह्म तत्त्वमसि मुञ्च विभेदमोहम्॥ ५२॥

धानान्तरुन्नततरोरुवट: पुनरेव यस्मिन्निदं जगदवस्थितमाविरासीत्।
श्रद्धावता समधिगम्यमणोरणीय: सद्बरह्म तत्त्वमसि सत्यमसत्यमन्यत्॥ ५३॥

अप्सु प्रलीनमिव सैन्धवखिल्यमक्ष्णा पश्यन्ति यन्न करणैरपि हृद्विभातम्।
विन्दन्ति यद्रसनयेव रसं गुरुक्त्या सद्बरह्म तत्त्वमसि दृश्यमिदं तु न त्वम्॥ ५४॥

चोरैरिवाऽसि पुरुषो विपिने विसृष्टो रागादिभिस्तनुषु नद्धविशुद्धदृष्टि:।
पान्थैरिवैष गुरुणाऽसि विमुक्तबन्ध: सद्बरह्म तत्त्वमसि याहि सुखं स्वधाम्॥ ५५॥

सम्पद्य यत्र करणादिलयक्रमेण मूढो मृत: पुनरुपैति जनिप्रबन्धम्।
प्राज्ञस्तु वञ्चयति मृत्युमुदस्तमोह: सद्बरह्म तत्त्वमसि निस्तर मृत्युबन्धम्॥ ५६॥

स्तेन: प्रतप्तपरशोरिव दाहबन्धावाßोति मूढमतिरप्यनृताऽभिसंध:।
सत्याभिसंधिरथ न व्यथते यदाऽत्मा सद्बरह्म तत्त्वमसि निर्णुद बन्धशङ्काम्॥ ५७॥

पित्रा सुत: सुवचनैरिति बोधित: स्वं सत्याऽद्वितीय सुख बोधघनं विजज्ञौ।
एतद्विमृश्य विदिताऽद्वयदृक्परोऽपि स्वाराज्यसौख्यमधिगम्य भवेत्कृतार्थ:॥ ५८॥

ऐक्यं प्रकल्प्य प्रणवेखिलस्य पादान्विभज्य प्रविलाप्य शिष्ट:।
एक: स आत्मा जगदेऽयमात्मा भ्रमेति विस्पष्टमथर्ववाण्या। ५९॥

नित्यं शुद्धं विबुद्धं विकृतिविरहितं नित्यमुक्तस्वभावं
सत्यं सूक्ष्मं निरस्तद्वयमनवयवं पूर्णमानन्दरूपम्।
प्रत्यग्ब्रह्माऽहमस्मि स्वरसदृशि रवौ ध्वान्तवद्विश्वमेत
न्नासीदास्ते भविष्यत्यपि मयि सुखसज्ज्योतिरात्मन्यसङ्गे॥ ६०॥

इत्थं वाक्याद्विमृष्टादरणिविमथनाद्वह्निकीलेव सद्य:
संभूताऽखण्दवृत्तिस्तृणमिव निखिलद्वैतजालं समोहम्।
दग्ध्वा निर्वाणसंज्ञै निरतिशयसुखे नित्यसिद्धाऽऽत्मतत्त्वे
सद्यो याति प्रणाशं कतरजैवोदस्यपङ्कं जलस्य॥ ६१॥

इतेषाऽनादि त्रितापज्वर विषमथभवव्याधिसम्यक् चिकित्सा
ह्येषा स्वारज्यसम्पन्निरधिपरमानन्दसंदोहदोग्ध्री।
भस्मीभूतं तथाऽस्यां प्रभवति न पुन: कर्मबीजं प्ररिढुं
सन्देहग्रन्थिभेदवपि च निगदितावेतदाऽऽसादनेन॥ ६२॥

अपवादप्रकरणं सम्पूर्णम्।