स्वराज्यसिद्धिः /प्रकरणम् १ (अध्यारोपप्रकरणम् )

विकिस्रोतः तः


स्वाराज्यसिद्धि:
अथ अध्यारोपप्रकरणम्

गङ्गापूरप्रचलितजटा स्रस्तभोगीन्द्रभीता-
मलिङ्गन्तीमचलतनयाम् सस्मितम् वीक्षमाण:।
लीलापाङ्गै: प्रणतजनताम् नन्दयन्स्चन्द्रमौलि
र्मोहध्वान्तम् हरतु परमानन्दमुर्ति:शिवो न:॥ १॥

स्मारंस्मारं जनिमृतिभयं जातनिर्वेद वृत्ति
र्ध्यायंध्यायं पशुपतिमुमाकान्तमन्तर्निषण्णम्।
पायंपायं सपदि परमानन्दपीयूषधारां
भूयोभूयो निजगुरुपदाम्भोजयुग्मं नमामि॥ २॥

यस्माद्विश्मुदेति यत्र निवसत्यन्ते यदप्येति य
त्सत्यज्ञानसुखस्वरूपमवधिद्वैतप्रणाशोज्झितम्।
यज्जागृत्स्वपनप्रसुप्तिषु विभात्येकं विशोकम् परं
प्रत्यग्ब्रह्म तदस्मि यस्य कृपया तन्देशिकेन्द्रम् भजे॥ ३॥
अधीतेज्यादानव्रतजपसमाधाननियमै
र्विशुद्धस्वान्तानां जगदिदमसारं विमृशताम्।
अरागद्वेषाणामभयचरितानां हितमिदं
मुमुक्षूणां ह्र्द्यं किमपि निगदाम्: सुमधुरम्॥ ४॥

ज्ञात्वा देवम् सर्वपाशाऽपहानि:
नऽन्य: पन्थाश्चेति भूयोवचोभि:।
ज्ञप्ते: साक्षान्मुक्तिहेतुत्वसिद्धा
वध्यासत्वं बन्×स्याऽर्थसिद्धम्॥ ५॥

सत्यं भावं न वित्तिर्व्यपनुदति यत: कर्मनाश्यो घटादि
र्मिथ्याभूतं च कर्म क्षपयति न तथा वित्तिघात्यं यतस्तत्।
इत्थं सिद्धे विभागे श्रुतिशिखरगिरा वित्तिघात्य: प्रतीतो
बन्धो मिथ्येति सिद्धे न तदपहतये कर्मजातं समर्थम्॥ ६॥

आविद्यो ह्येषबन्धो विरमति न विना वेदनं कर्मजालै
र्मालोद्भूताऽहिरस्तं व्रजति किमु नमस्कारमन्त्रौषधाद्यै:।
एवं निश्चित्य नागस्त्वचमिव विधिना कर्मबन्धं विधूय
ज्ञानोपाये गुरुश्रीचरणमभिगत: सेवामानो यतेत॥ ७॥

केचित्कर्मैव काम्योज्झितमुदितपदप्राÞयुपायं प्रतीता
स्तच्चोपास्तिं च मुक्तौ मिलितमथ पर साधनं सङ्गिरन्ते।
अन्येतु ज्ञानकर्मोभयमिति मतिभि:स्वाभिरुत्प्रेक्षमाणा:
ज्ञानादेवेति वाक्याद्वयमिह सहसा नाऽनुमन्यामहे तान्॥ ८॥

पैत्रो लोकोऽधिगम्य: क्रतुभिरधिगतो विद्यया देवलोको
यद्वा चेत:कषायक्षपणमिह तयो: स्मार्तमेवाऽस्तु साध्यम्।
यज्ञेनेत्यादिवाक्याद्भवतु विविदिष तत्फलं वेदनं वा
ज्ञानादेवाऽमृतत्त्वं न हि शशकवधू: सिंहपोतं प्रसूते॥ ९॥

अर्थी दक्षो द्विजोऽहम् बुध इति मतिमान् कर्मसूक्तोऽधिकारी
शान्तो दान्त: परिव्राडुपरमपरमो ब्रह्मविद्याऽधिकारी।
इत्थं भेदे विवक्षन् समुदितमुभयं मुक्तिहेतुं सुशीतं
नीरं वैश्वानरं चोभयमहह तृषोच्छेद्काम: पिबेत्स:॥ १०॥

ज्ञानं चाप्यद्वितीयस्वरससुखघनानन्तचिन्मात्ररूप
ब्रह्मात्मैकत्वबोध: स भवति सुमतेस्तत्त्वमस्यादिवाक्यात्।
देहाद्यध्यासदार्ढ्याच्छुतमपि सहसा नैव संभावनीयं
ब्रह्मत्वं स्वस्य तस्मान्नयगुरुवचनै: साधु मीमंसनीयम्॥ ११॥

देहं केऽपि वदन्ति खानि तु परे प्राणान्मनश्चापरे
बुद्धिं च क्षणिकां स्थिरामत परे केचिच्चितं निस्सुखाम्।
आत्मानं जडचित्स्वभावमपरे चिद्वज्जडम् चेतरे
सत्यज्ञानसुखाद्वितीयमपरे तत्राऽस्य को निश्चय:॥ १२॥

आहु: केचिदणुं शरीरसदृशं केचिद्विभुं तं परे
ते तं मानसगोचरं तदपरे नित्याऽनुमेयं जगु:।
अन्ये चिद्विषयं परेतु परमस्वज्योतिराभ्यन्तरं
सत्येवं श्रुतियुक्तिभिर्विविदिषोर्युक्तो विचारो मुहु:॥ १३॥

एवं विश्वस्य हेतुं प्रकृतिमभिदधु: केऽपि केचित्पराणू
नीशेनाधिष्ठितांस्तान् कतिचन कतिचिन्नश्वरं ज्ञानमेव।
अन्ये शुन्यं विरिंचिं कतिचन समयं केऽपि केचिद्यदृच्छां
कर्माऽन्ये ब्रह्म मायाशबलितमपरे सोऽपि तस्माद्विमृश्य:॥ १४॥

यस्मादुत्पत्तिगुप्ती क्षतिरपि जगतां यच्च शास्त्रैकयोनि:
सर्वज्ञं मायया यत् सहजसुखसदद्वैतसंवित्स्वरूपम्।
तत् ब्रह्म स्वप्रकाशं श्रुतिशिखरगिरां सैवतात्पर्यभूमि:
स्वात्माऽसौ यं विदित्वा जनिमृतिजलधिं निस्तरन्तीह सन्त:॥ १५॥

साङ्ख्यै: प्रख्यापितम् न क्षममिह जगतां निर्मितौतत्प्रधानं
हेतुर्नैतादृशेऽर्थे प्रभवति गदितस्तार्किकैरीश्वरोऽपि।
नाणु: काणादबौद्धक्षपणकभनितो नापि निस्साक्षिशून्यं
तस्मादास्माकमेव श्रुतिगदितपरब्रह्मसिद्धं निदानम्॥ १६॥

नाचैतन्याप्रधानं प्रभवति चलितुं तन्निसर्गक्रियं चेत्
नित्यं सर्गप्रसङ्गो नियतिरपि यत: सर्गपूर्वा न पूर्वम्।
बन्धो निर्हेतुक: स्यात्कथमथ न भवेद्बन्धमोक्षाव्यवस्था
नि:सौख्यंनापि मोक्षंस्पृहयति मतिमान्कापिलं तेनदुष्टम्॥ १७॥

किञ्चाऽकर्तैव भोक्ता यदि तव कृतहानाकृताभ्यागम: स्या
त्कीदृग्भोगोऽप्यसङ्गेऽनतिशयिनि भवेत्तेन भोग्यस्य कोऽर्थ:।
किदृक्कस्याविवेक: कथमत स भवेद्भोगहेतुर्विवेक:
कस्य स्यत्तेन किम् स्यादिति हि विमृशतो दुर्वचं ब्रह्मणोऽपि॥ १८॥

नेशोऽधिष्ठातुमीशोऽतनुकरणगुणस्तार्किकाणां प्रधानं
स्यच्चेत्तन्वक्षवत्त्वं सुचरितदुरोद्भूतभोगप्रसङ्ग:।
दु:खाढ्यं कुर्वतोऽस्य प्रसरति विषमाचारनैर्घृण्यदोष:
कर्मेप्सोश्चक्रकऽवस्थितिहतिविफलत्वाऽन्यथासिद्धय:स्यु:॥१९॥

सर्वज्ञ: सर्वलिप्सु: सकलकृतियुतो नित्यमीशो यदिस्या
त्सर्वं कार्यं सदास्यादुदयभृतिलया यौगपद्येन च स्यु:।
बाह्योपादानवत्स्यत्तनुकरणधियां विश्वसर्गे व्यपेक्षा
निस्तर्क चानुमानं कृतिरपिहियतश्चेष्टयऽर्थं विधत्ते॥ २०॥

कस्मादण्वो: क्रियास्यात्कथमथ मिलितौ निष्प्रतिकौकथं वा
कार्यं ताभ्यां तृतीयं किमिति च न महत्पारिमाण्डल्यत: स्यत्।
तेभ्य: कस्मान्महान्स्यात्किमिति पुनरसावेव नित्यो न तेस्या
न्नित्यश्चाणु: कथं व निरवयव इति ब्रूह्यसत्कार्यवादिन्॥ २१॥

बाह्यं भोग्यं प्रजल्पन्क्षणिकमणुचयं भोक्तृ संघातमन्त:
स्कंधानां पंचकञ्चेदृशमिति सुगत: पृच्च्यतां वेदबाह्य:।
किन्ते मानान्तरेण प्रमितमिदमुत प्रौढिरेषा त्वदिया
किं वा मोहात्प्रलाप: किमथ जद जगद्विप्रलिप्सा कुबुद्धे॥ २२॥

संघीभाव: कथ्ंवा चलनविरहिणां भङ्गुराणामणूनां
संघोऽनन्य: कथंव विषयपदमियात्कश्च संघं विधत्ते।
स्कंधान सन्निपात: कथमिव कियतां भोक्तृता काच धारा
कस्य स्तां भोगमोक्षौ वद जद सफलं केन वा दर्शनं ते॥ २३॥

नाविद्यादिप्रवृत्तेर्द्विविधसमुदयस्ते यदैकैकसन्ना
नश्यन्नुत्पादने न प्रभवति किमरे हेत्वसंबन्धि कार्यम्।
तच्चेन्निर्हेतुकं स्यत्करणविफलता स्वप्रतिज्ञाविरोधौ
त्रैविध्यं चाप्यभावे कथमिति वितथोबुद्धबंधो: प्रलाप:॥ २४॥

नापोद्यं मानसिद्धं कथमिवविविधंज्ञानमर्थापलापे
बाधोऽर्थानां न दृष्टो बहिरिति च पदं न प्रसिद्धार्थमृच्छेत्।
वेद्या विज्ञानभेदा: कथमथ विविधा वासना व कुतस्स्यु:
किंच प्रगुक्तदोषा: क्षणिकचिति हतस्तेन विज्ञानवाद:॥ २५॥

नापोद्यं मानसिद्धं कथमिवविविधंज्ञानमर्थापलापे
बाधोऽर्थानां न दृष्टो बहिरिति च पदं न प्रसिद्धार्थमृच्छेत्।
वेद्या विज्ञानभेदा: कथमथ विविधा वासना वा कुतस्स्यु:
किंच प्रागुक्तदोषा: क्षणिकचिति हतस्तेन विज्ञानवाद:॥२५॥

नाऽभावाद्भावजन्म क्वचिदपि कलितं निर्विशेषाद्विचित्रं
न स्यात्तेनानुविद्धेऽह्यसदिति च प्रत्ययस्स्यादशेषे।
केनाऽभावप्रथा ते किमिति न सकलं सर्वतस्स्यादभीष्टं
सर्वेषां स्यादयत्नं किमिति जड भवानात्मघाते प्रवृत्त:॥ २६॥

नैकोऽर्थ: सप्तधा स्याद्भवति यदि भवेत्साप्तविध्यं च तद्व
ज्जीवाजीवादयोऽर्था:किमिति च न तथास्याज्जगच्चाव्यवस्थम्।
संदेहस्स्याद्विरोधादवधृतिरथ ते बंधमोक्षाऽव्यवस्त्था
सर्वाऽनैकान्त्यवादो गतवसन ततो भाति मत्तप्रलाप:॥ २७॥

एवं हैरण्यगर्भाद्युदितमपि जगत्कारणं नाऽऽदरार्हं
यस्मात्कस्य प्रसूति: श्रुतिभिरधिगता क्लृप्तमायुर्मितं च।
अस्य ज्ञानादियोगं गमयति च यतो ब्रह्मवाणी
तस्मद्बरह्मैव मायशबलितमुचितं श्रौतमेकं निदानम्॥ २८॥

कश्चिद्दु:खी स्वजन्मप्रभृति सुखयुतश्चापर: कस्य हेतो:
कस्मादद्या प्रवृत्तिस्तनुरपि च कुत: किं नवेत्ति प्रमीत:
स्वाभाव्यं हेतुसाम्ये सममिति विदितं दीपबीजाङ्कुरादौ
वैषम्यं कर्मजन्यं यदि गदसि जने: पूर्वमप्यात्मसिद्धि:॥ २९॥

मानं प्रत्यक्षमेकं यदि कथय कथं भाषितं ते प्रमाणं
संभाव्यार्थं सदोषं यदि तदपि बली किं न वेदो विदोष:।
न ह्यध्यक्षं विनाक्षैर्नच तव सुगमा मानताऽध्यक्षमात्रे
ज्ञानं नान्यस्य बोद्धुं प्रभवति च भवांस्तेन मिथ्याप्रलापी॥ ३०॥

गौर: स्थूलो युवाऽहं पटुरिति च तनावात्मबुद्धिर्जनानां
स्वाभाव्यादेव सिद्धेत्यधिगमयदिदं निष्फलं दर्शनं ते।
वेदद्वेषात्प्रवृत्तं यदि बत न तरां द्वेषमूलं प्रमाणं
दैवान्नष्टस्त्वमेक: किमिति शठ परान्हन्त हन्तुं प्रवृत्त:॥ ३१॥

रेतोरक्तप्रसूतं जडमशनचितं षड्विकारं त्वगस्थि
स्नायुक्रव्याऽऽन्त्रमज्जारुधिरमयमतिस्वल्पमाध्यामयाढ्यम्।
प्राणापाये मृदादिप्रमितमपि च बिड्कीटभस्माऽवशेषं
देहं तं मूढ कस्मादहमिति मनुषे केन वा वंचितोऽसि॥ ३२॥

खानामात्मत्ववादे प्रतिनियतगतौ स्वामिनानात्वदोषा
द्देहोन्मन्थप्रसङ्गस्समुदितविषये त्वंधमूका म्रियेरन्।
उक्तिर्दृष्टश्रुतानामपि च न घटते नापि संघो निरूप्य
स्स्वßद्रष्टैव नस्याच्छयनमरणयोर्निर्विशेषाद्भयं स्यात्॥ ३३॥

प्राणो नाऽऽत्मा जदत्वादशनसिततया वृत्तिलाभात्सुषुप्ता
वेतस्मिन्त्संचरत्यहमचल इति प्रत्ययादम्मयत्वात्।
स्रष्टा स्वोत्क्रान्तयेऽस्याऽऽमरणमपि धृतेर्जीवशब्दाभिधेय
स्तस्मादन्योऽस्ति रक्षन्स्वनिलयममुना दीप्तिमानेकहंस:॥ ३४॥

उद्भूतेस्साधनत्वादशनमयतया शुद्ध्यशुद्धिप्रतीते
र्हेतुत्वात्बंधमुक्त्योस्तदनु तनुभृतेस्तन्मयत्वश्रुतेश्च।
जागृत्स्वßप्रशान्तौ करणागणलये तत्प्रशान्तेस्सुषुप्ते
रुत्थानेसुप्तिसौख्यस्मृतिभिरपि मितं मानसंचापि नाऽऽत्मा।३५॥

विज्ञानं स्थायि यत्तत्सममिह मनसा किंच नानाऽऽत्मतास्या
त्तस्याऽनेकात्मकत्वात्तदभिमतिवशादात्मबंधश्रुतेश्च।
सारथ्यं तस्य क्लृप्तं यदपि तनुरथे स्वात्मनो भोगमुक्त्यो
स्तस्मादन्योऽस्य साक्षी तदुपहिततनुश्चिन्मयोऽस्त्यन्तरात्मा॥ ३६॥

अण्वात्मा चित्स्वरूपो यदि सकलतनौ शैत्यबोधो न ते स्या
न्नावैधर्म्येऽस्यबोध: सकलतनुगतग्राहकोऽन्यो गुणश्च।
वैधर्म्येऽणोर्गुणश्चित्कथमखिलतनुं व्याßुयादाणवं वा
सिद्धं केनाऽऽत्मनस्ते श्रुतिभिरिति न यत्तास्तदानन्त्यनिष्ठा:॥ ३७॥

नैकस्स्याच्चिज्जदात्मा कथमथ विषय:सस्स्वयं स्वस्य कौ ता
वंशौ योगस्तथात्मा किमिति च जडता केन वा चेतनस्य।
कर्तृत्वं तस्य कीदृक्करणसमुदयं सैष धत्ते कथं वा
तत्त्वं जीवस्य देवप्रियपशुभिरिदं कर्मटैर्दुर्निरूपम्॥ ३८॥

जीवानां वैभवं चेत्तनुकृतिकरणाऽदृष्टसाधारणत्वा
न्नस्याद्भोग व्यवस्था व्यक्तिकरमयते येन सर्वैर्मनोऽपि।
नानात्म्यं निष्प्रमाणं गदसि यदि तनूपाधिभिस्त्वं व्यवस्थां
सिद्धेऽसिद्धेऽपि भेदे यत इह विफला: कल्पनीया विशेषा:॥ ३९॥

किञ्चात्मन्यनवयवे न संप्रयोग
स्संभाव्यो निरवयवस्य मानसस्य।
न द्रव्यं निरवयवं न शाश्वतं वा
तद्धर्मो नच धिषणा यतो जडा स्यात्॥ ४०॥

अज्ञानं स्वमथ सुखं सुषुÞयबुद्धं
बुद्धस्त्वं स्मरसि कथं स्वतो जडात्मा।
विज्ञानान्ययमयमित्यनेकसंख्या
न्यद्राक्षं चिरमिति केन वेत्स्यसाक्षी॥ ४१॥

इच्छादेरुदयविनाश सन्ततीना
मक्षाणामसुमनसां धियश्चतस्मात्।
द्रष्टाऽन्योस्त्यविपरिलुप्तदृक्तत्त्वो
निस्सङ्गो विहरति य: पुरत्रयेऽपि॥ ४२॥

संशान्तो रवि शशि वह्नि वाक्प्रकाशे
निर्वाणे करणगणे निरस्तसङ्ग:।
स्वज्योति: प्रकतित वासनामयार्थ
श्चिद्धातुश्श्रुतिभिरुदीरितोऽन्तरात्मा॥ ४३॥

बाह्यार्थान्करणगणेन तं च बुद्ध्या
बुद्धिं य: प्रथयति सन्ततं स्वभासा।
आत्माऽसाऽवनधिगत: पराग्भिरेभि
र्विज्ञेय स्तनुभवनाऽऽन्तरप्रदीप:॥ ४४॥

प्रेयान्यस्सदन धनाऽऽत्मज प्रियादे
र्यत्प्रेम्णा प्रियमिति मन्यते परा च:।
पारार्थ्याऽवधिरवधीरितैतरार्थ्यो
विज्ञेयस्स खलु सुखाऽब्धिरन्तरात्मा॥ ४५॥

शुद्धोऽसावहमिदमित्युपाधिधर्मा
नध्यासादभिमनुते परस्परेण।
वृद्ध्यादीनिव सलिलप्रभेदधर्मा
न्ब्र×ेऽम्बुप्रतिपलिते मृषैव मोहात्॥ ४६॥

अज्ञोऽस्मीत्यनुभवनादनाद्यबोध
श्चिन्निष्ठश्चिति विषयस्तमो यथेन्दुम्।
प्रच्छाद्य स्फुरति चित्तं चितैव भूयो
विक्षिप्य भ्रमयति हन्त दुर्निरूप:॥ ४७॥

चिद्भाने चितरिव या भिदेव भेदे
निर्वाहे निजपरयोस्स्वतस्समर्था।
संभाव्येतर घटनापटीयसी सा
संमोहं जनयति विभ्रमेण माया॥ ४८॥

अद्ध्यासोऽनधिगतवस्तुनि ह्यतस्मिं
स्तद्बुद्धिस्स्फुटमनुभूयते प्रतीचि।
अज्ञोऽहं गलितबलो नरो दरिद्रो
जीवेयुर्मम तनया: कथं बतेति॥ ४९॥

शुद्धो हृष्टस्स्थिरोऽहं बुध इति च तनावात्मधर्मान्युवाहं
स्थूलो गौरोऽभिरूप: पटुरिति च निजे देहधर्मान्मिमीते।
अन्योऽन्याऽध्यस्त सत्यानृत वलितवपुर्लोहपिण्डप्रविष्टो
वह्नि: कूटाऽभिघातानिव विविधभवाऽनर्थजातं प्रपन्न:॥ ५०॥

दृष्ट: प्रत्यक्पराचोर्विषययोर्भास्तमोवद्विरोधे
ऽप्यध्यासोऽहंममेति स्फुटमिति सुधियां नास्त्यसंभावनाऽत्र।
स्वßादौ गत्यभावाद्गगनमलिनिमाऽध्यासदृष्टेर्बुधानां
पश्वादीनां च साम्या™वहृतिरखिलाऽध्यासमूलेति सिद्धम्॥ ५१॥

धर्माद्देवत्वमेति व्रजति पुनरध: पातकैस्स्थावरादी
न्देहान्प्राप्या प्रणश्यन्क्वचिदपि लभते मानुषत्वं च ताभ्याम्।
कर्मज्ञानोभयेन व्रजति विधिपदं मुच्यते कोऽपि तस्मिन्
रागी प्रत्येति भूयो जनिमिति विषमं बंभ्रमीतीह लोक:॥ ५२॥

दु:खं स्वर्हात्प्रपाते बहुविधनरके गर्भवासेऽति दु:खं
निस्स्वातन्त्र्याऽशनाया ग्रह गद रुधिरतैश्शैशवे दु:खमेव।
तारुन्येऽमर्षलोभ व्यसन परिभवोद्वेग दारिद्र्य दु:खं
वार्धक्ये शोकमोहेन्द्रियविलयगदैर्दु:खमनन्तेऽतिदु:खम्॥ ५३॥

इत्थं य: कर्मबद्धो भ्रमति परवश: प्राणभृज्जन्मसङ्घै:
र्दु:खस्याऽन्तं न वेत्ति स्मरति न च जनिव्रातमज्ञानयोगात्।
तं सर्वांऽनर्थमूलप्रशमनविधिना स्वात्मराज्येऽभिषेक्तुं
तात्पर्येण प्रवृत्ताश्स्रुतिशिखरगिरस्सूत्रभाष्यादयश्च॥ ५४॥

अध्यारोपप्रकरणं सम्पूर्णम्