स्वप्नवासवदत्तम्/षष्ठोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search

<poem> अथ षष्ठोऽङ्कः (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः - क इह भो ! काञ्चनतोरणद्वारमशून्यं कुरुते । (प्रविश्य) प्रतीहारी - अय्य! अहं विजआ। किं करीअदु। (आर्य! अहं विजया । किं क्रियताम् ।) काञ्चुकीयः - भवति! निवेद्यतां निवेद्यतां वत्सराज्यलाभप्रवृद्धोदयायोदयनाय "एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतीहारमुपस्थिताविति । प्रतीहारी - अय्य! अदेसकाऴो पडिहारस्य (आर्य! अदेशकालः प्रतीहारस्य ।) काञ्चुकीयः - कथमदेशकालो नाम। प्रतीहारी - सुणादु अय्यो । अज्ज भट्टिणो सुयामुणप्पासादगदेण केण वि वीणा वादिता । तं च सुणिअ भट्टिणा भणिअं "घोसवदीए सद्दो विअ सुणीअदि" त्ति । (श्रुणोत्वार्यः । अद्य भर्तुः सुयामुनप्रासादगतेन केनापि वीणा वादिता । तां च श्रुत्वा भत्र्रा भणितं "घोषवत्याः शब्द इव श्रूयत" इति।) काञ्चुकीयः - ततस्ततः । प्रतीहारी - तदो तहिं गच्छिअ पुच्छिदो "कुदो इमाए वीणाए आगमो"त्ति । तेण भणिदं "अम्मेहिं णम्मदातीरे कुरयगुम्मऴग्गा दिट्ठा । जइ प्पओअणं इमाए, उवणीअदु भट्ठणो"त्ति । तं च उवणीदं अंके करिअ मोहं गदो भट्टा । तदो मोहप्पच्चगदेण बप्फपय्याउऴेण मुहेण भट्टिणा भणिअं "दिट्ठासि घोसवदि! सा हु ण दिस्सदि" त्ति । अय्य! ईदिसो अणवसरो। कहं णिवेदेमि। (ततस्तत्र गत्वा पृष्टः "कुतोऽस्या वीणाया आगम" इति। तेन भणितं "अस्माभिर्नर्मदातीरे कूर्चगुल्मलग्ना दृष्टा। यदि प्रयोजनमनया, उपनीयतां भत्र्रा" इति। तां चोपनीतामङ्के कृत्वा मोहं गतो भर्ता। ततो मोहप्रत्यागतेन बाष्पपर्याकुलेन मुखेन भत्र्रा भणितं "दृष्टासि घोषवति! सा खलु न दृश्यते" इति । आर्य! ईदृशोऽनवसरः । कथं निवेदयामि।) काञ्चुकीयः - भवति! निवेद्यताम् । इदमपि तदाश्रयमेव । प्रतीहारी - अय्य! इअंं णिवेदेमि। एसो भट्टा सुयामुनप्पासादादो ओदरइ । ता इह एव्व णिवेदइस्सं। (आर्य! इयं निवेदयामि । एषा भर्ता सुयामुनप्रासादादवतरति । तदिहैव निवेदयिष्यामि) काञ्चुकीयः - भवति ! तथा । (उभौ निष्कान्तौ) इति मिश्रविष्कम्भकः28 (ततः प्रविशति राजा विदूषकश्च) राजा - श्रुतिसुखनिनदे! कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता । विहगगणरजोविकीर्णदण्डा प्रतिभयमध्युषितास्यरण्यवासम् ।। 1 ।। अपि च, अस्निग्धासि घोषवति! या तपस्विन्या न स्मरसि, श्रोणीसमुद्वहनपाश्र्वनिपीडितानि खेदस्तनान्तरसुखान्युपगूहितानि। उद्दिश्य मां च विरहे परिदेवितानि वाद्यान्तरेषु कथितानि च सस्मितानि ।। 2 ।। विदूषकः - अलं दाणिं भवं अदिमत्तं सन्तप्पिअ । (अलमिदानीं भवानतिमात्रं संतप्य ।) राजा - वयस्य! मा मैवं, चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः। तां तु देवीं न पश्यामि यस्या घोषवती प्रिया।। 3 ।। वसन्तक! शिल्पिजनसकाशान्नवयोगां घोषवतीं कृत्वा शीघ्रमानय । विदूषकः - जं भवं आणवेदि । (वीणां गृहीत्वा निष्कान्तः) (यद् भवानाज्ञापयति।) (प्रविश्य) प्रतीहारी - जेदु भट्टा। एसो खु महासेणस्स सआसादो रेभसगोत्तो कंञ्चुईओ देवीए अङ्गरवदीए पेसिदा अय्या वसुन्धरा णाम वासवदत्ताधत्ती अ पडिहारं उवठिठदा। (जयतु भर्ता। एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयो देव्याङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थितौ!) राजा - तेन हि पद्मावती तावदाहूयताम्। प्रतीहारी - जं भट्टा आणवेदि (निष्क्रान्ता) (यद् भर्ताज्ञापयति।) राजा - किं नु खलु शीघ्रमिदानीमयं वृत्तान्तो महासेनेन विदितः। (ततः प्रविशति पद्मावती प्रतीहारी च) प्रतीहारी - एदु एदु भट्टिदारिआ । (एत्वेतु भर्तृदारिका।) पद्मावती - जेदु अय्यउत्तो । (जयत्वार्यपुत्रः।) राजा - पद्मावति! कि श्रुतं महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थिताविति। पद्मावती - अय्यउत्त! पिअं मे जदिकुलस्स कुसलवुत्तन्तं सोदुं। (आर्यपुत्र! प्रियं मे ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम्।) राजा - अनुरूपमेतद् भवत्याभिहितं "वासवदत्तास्वजनो मे स्वजन" इति । पद्मावति! आस्यताम्। किमिदानीं नास्यते। पद्मावती - अय्यउत्त! किं मए सह उवविठठो एवं जणं पेक्खिस्सदि। (आर्यपुत्र! किं मया सहोपविष्ट एतं जनं प्रेक्षिष्यते।) राजा - कोऽत्र दोषः। पद्मावती - अय्यउत्तस्स अवरो परिग्गहो त्ति उदासीणं विअ होदि। (आर्यपुत्रस्यापरः परिग्रह इत्युदासीनमिव भवति।) राजा - कलत्रदर्शनार्हं जनं कलत्रदर्शनात् परिहरतीति बहुदोषमुत्पादयति। तस्मादास्यताम्। पद्मावती - जं अय्यउत्तो आणवेदि। (उपविश्य) अय्यउत्त! तादो वा अम्बा वा किं णु खु भणिस्सदि त्ति आविग्गा विअ संवुत्ता । (यदार्यपुत्र आज्ञापयति। आर्यपुत्र! तातो वाम्बा वा कि नु खलु भणिष्यतीत्याविग्नेव संवृत्ता।)29 राजा - पद्मावति! एवमेतत् । किं वक्ष्यतीति हृदयं परिशङ्कितं मे कन्या मयाप्यपहृता न च रक्षिता सा। भाग्यैश्चलैर्महदवाप्य गुणोपघातं पुत्रः पितुर्जनितरोष इवास्मि भीतः।। 4 ।। पद्मावती - णं किं सक्कं रक्खिदुं पत्तकाले। (ननु किं शक्यं रक्षितुं प्राप्तकाले।) प्रतीहारी - एसो कञ्चुईओ धत्ती अ पडिहारं उवठ्ठिदा। (एष काञ्चुकीयो धात्री च प्रतिहारमुपस्थितौ।) राजा - शीघ्रं प्रवेश्यताम्। प्रतीहारी - जं भट्टा आणवेदि । (निष्क्रान्ता) (यद् भर्ताज्ञापयति।) (ततः प्रविशति काञ्चुकीयो धात्री प्रतिहारी च।) काञ्चुकीयः - भोः! संबन्धिराज्यमिदमेत्य महान् प्रहर्षः स्मृत्वा पुनर्नृपसुतानिधनं विषादः। किं नाम दैव! भवता न कृतं यदि स्याद् राज्यं परैरपहृतं कुशलं च देव्याः ।। 5 ।। प्रतीहारी - एसो भट्टा, उवसप्पदु अय्यो । (एष भर्ता, उपसर्पत्वार्यः।) काञ्चुकीयः - (उपेत्य) जयत्वार्यपुत्रः । धात्री - जेदु भट्टा । (जयतु भर्ता।) राजा - (सबहुमानम्) आर्य! पृथिव्यां राजवंश्यानामुदयास्तमयप्रभुः। अपि राजा स कुशली मया काङ्क्षितबान्धवः।। 6 ।। काञ्चुकीयः - अथ किम् । कुशली महासेनः। इहापि सर्वगतं कुशलं पृच्छति। राजा - (आसनादुत्थाय) किमाज्ञापयति महासेनः। काञ्चुकीयः - रादृशमेतद् वैदेहीपुत्रस्य। नन्वासनस्थेनैव भवता श्रोतव्यो महासेनस्य संदेशः। राजा - यदाज्ञापयति महासेनः। (उपविशति) काञ्चुकीयः - दिष्टया परैरपहृतं राज्यं पुनः प्रत्यानीतमिति। कुतः, कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते। प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते।। 7 ।। राजा - आर्य! सर्वमेतन्महासेनस्य प्रभावः। कुतः, अहमवजितः पूर्वं तावत् सुतैः सह लालितो दृढमपहृता कन्या भूयो मया न च रक्षिता। निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ।। 8 ।। काञ्चुकीयः - एष महासेनस्य संदेशः । देव्याः संदेशमिहात्रभवती कथयिष्यति। राजा - हा अम्ब!30 षोडशान्तः पुरज्येष्ठा पुण्या नगरदेवता। मम प्रवासदुःखार्ता माता कुशलिनी ननु।। 9 ।। धात्री - अरोआ भट्टिनी भट्टारं सव्वगदं कुशलं पुच्छदि । (अरोगा भत्र्री भर्तारं सर्वगतं कुशलं पृच्छति।) राजा - सर्वगतं कुशलमिति । अम्ब! ईद्दशं कुशलम्। धात्री - मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं। (मेदानीं भर्तातिमात्रं संतप्तुम्।) काञ्चुकीयः - धारयत्वार्यपुत्रः। उपरताप्यनुपरता महासेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण। अथवा, कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति। एवं लोकस्तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च।। 10 ।। राजा - आर्य! मा मैवं, महासेनस्य दुहिता शिष्या देवी च मे प्रिया। कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि।। 11 ।। धात्री - आह्ण भट्टिणी उद्वरदा वासवदत्ता । मम वा महासेणस्स वा जादिसा गोवालअपालआ, तादिसो एव्व तुमं पुढमं एव्व अभिप्पेदो जामादुअत्ति। एदण्णिमित्तं उज्जइणिं आणीदो। अणग्गिसक्खिअं वीणाववदेसेण दिण्णा । अत्तणो चवलदाए अणिव्वुत्तविवाहमङ्गलो एव्व गदो। अह अ अम्हेहिं तव अ वासवदत्ताए अ पडिकिदिं चित्तफलआए आलिहिअ विवाहो णिवृत्तो । एसा चित्तफलआ तव सआसं पेसिदा। एदं पेक्खिअ णिव्वुदो होहि। (आह भत्र्री ‘उपरता वासवदत्ता। मम वा महासेनस्य वा यादृशौ गोपालकपालकौ, तादृश एव त्वं प्रथममेवाभिप्रेतौ जामाते’ ति। एतन्निमित्तमुज्जयिनीमानीतः। अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता। आत्मनश्चपलतयानिर्वृत्तविवाहमङ्गल एव गतः। अथ चावाभ्यां तव च वासवदत्तायाश्च प्रतिकृतिं चित्रफलकायामालिख्य विवाहो निर्वृत्तः। एषा चित्रफलका तव सकाशं प्रेषिता। एतां प्रेक्ष्य निर्वृतो भव) राजा - अहो अतिस्निग्धमनुरूपं चाभिहितं तत्रभवत्या। वाक्यमेतत् प्रियतरं राज्यलाभशतादपि। अपराद्धेष्वपि स्नेहो यदस्मासु न विस्मृतः।। 12 ।। पद्मावती - अय्यउत्त! चित्तगदं गुरुअणं पेक्खिअ अभिवावेदुं इच्छामि। (आर्यपुत्र! चित्रगतं गुरुजनं प्रेक्ष्याभिवादयितुमिच्छामि) धात्री - पेक्खदु पेक्खदु भट्टिदारिआ (चित्रफलकां दर्शयति) (प्रेक्षतां प्रेक्षतां भर्तृदारिका।) पद्मावती - (दृष्ट्वा आत्मगतम्) हं अदिसदिसी खु इअ अय्याए आवन्तिआए। (प्रकाशम्) अय्यउत्त! सदिसी खु इअं अय्याए (हम् अतिसदृशी सल्वियमार्याया आवन्तिकायाः । आर्यपुत्र! सदृशी खल्वियमार्यायाः।) राजा - न सदृशी । सैवेति मन्ये। भोः कष्टम्, अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम्। इदं च मुखमाधुर्यं कथं दूषितमग्निना ।। 13 ।। पद्मावती - अय्यउत्तस्स पडिकिदिं पेक्खिअ जाणामि इअं अय्याए सदिसी ण वेत्ति। (आर्यपुत्रस्य प्रतिकृतिं दृष्ट्वा जानामीयमार्यया सदृशी न वेति।) धात्री - पेक्खदु पेक्खदु भट्टिदारिआ। (प्रेक्षतां प्रेक्षतां भर्तृदारिका।) पद्मावती - (दृष्ट्वा) अय्यउत्तस्स पडिकिदीए सदिसदाए जाणामि इअं अय्याए सदिसी त्ति। (आर्यपुत्रस्य प्रतिकृतेः सदृशतया जानामीयमार्यया सदृशीति ।) राजा - देवि! चित्रदर्शनात् प्रभृति प्रहृष्टोद्विग्नामिव त्वां पश्यामि । किमिदम् । पद्मावती - अय्यउत्त! इमाए पडिकिदीए सदिसी इह एव्व पडिवसदि । (आर्यपुत्र! अस्य प्रतिकृतेः सदृशीहैव प्रतिवसति ।)31 राजा - किं वासवदत्तायाः । पद्मावती - आम । (आम् ।) राजा - तेन हि शीघ्रमानीयताम् । पद्मावती - अय्यउत्त! मम कण्णाभावे केणवि बम्हणेद् मम भइणिअत्ति ण्णासो णिक्खितो । पोसिदभत्तुआ परपुरुसदसणं परिहरदि । ता अय्यां मए सह आअदं पेक्खिअ जाणादु अय्यउत्तो (आर्यपुत्र! मम कन्याभावे केनापि ब्राह्मणेन मम भगिनिकेति न्यासो निक्षिप्तः । प्रोषितभर्तृका परपुरुषदर्शनं परिहरति। तदार्यां मया सहागतां प्रेक्ष्य जानात्वार्यपुत्रः ।) राजा - यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यति । परस्परगता लोके द्दश्यते रूपतुल्यता ।। 14 ।। (प्रविश्य) प्रतीहारी - जेदु भट्टा । एसो उज्जइणीओ बह्मणो, भट्टिणीए हत्थे मम भइणिअत्ति ण्णासो णिक्खित्तो, तं पडिग्गहिदुं पडिहारं उवट्टिदो । (जयतु भर्ता । एष उज्जयिनीयो ब्राह्मणः, भट्टिन्या हस्ते मम भगिनिकेति न्यासो निक्षिप्तः, तं प्रतिग्रहीतुं प्रतिहारमुपस्थितः ।) राजा - पद्मावती ! किं नु स ब्राह्मणः । पद्मावती - होदव्वं ।। (भवितव्यम् ।) राजा - शीघ्रं प्रवेश्यतामभ्यन्तरसमुदाचारेण स ब्राह्मणः । प्रतीहारी - जं भट्टा आणवेदि (निष्क्रान्ता) । (यद् भर्ताज्ञापयति ।) राजा - पद्मावति! त्वमपि तामानय । पद्मावती - जं अय्यउत्तो आणवेदि । (निष्क्रान्ता) । (यदार्यपुत्र आज्ञापयति ।) (ततः प्रविशति यौगन्धरायणः प्रतीहारी च) यौगन्धरायणः - भोः! (आत्मगतम्) प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं कामं मया कृतमिदं हितमित्यवेक्ष्य । सिद्धेऽपि नाम मम कर्मणि पार्थिवोऽसौ कि वक्ष्यतीति हृदयं परिशङ्कितं मे ।। 15 ।। प्रतीहारी - एसो भट्टा । उपसप्पदु अय्यो । (एष भर्ता । उपसर्पत्वार्यः।) यौगन्धरायणः - (उपसृत्य) जयतु भवान् जयतु । राजा - श्रुतपूर्व इव स्वरः! भो ब्राह्मण! किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता । योगन्धरायणः - अथ किम् राजा - तेन हि त्वर्यतां त्वर्यतामस्य भगिनिका । प्रतीहारी - जं भट्टा आणवेदि । (निष्क्रान्ता) (यद् भर्ताज्ञापयति।) (ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च) पद्मावती - एदु एदु अय्या । पिअं दे णिवेदेमि । (एत्वेत्वार्या । प्रियं ते निवेदयामि ।) आवन्तिका - किं किं । (किं किम्।) पद्मावती - भादा दे आअदो । (भ्राता ते आगतः ।) आवन्तिका - दिट्ठिआइदाणिं पि सुमरदि । (दिष्टयेदानीमपि स्मरति ।)32 पद्मावती - (उपसृत्य) जेदु अय्य् उत्तो । एसो णासो (जयत्वार्यपुत्रः । एष न्यासः ।) राजा - निर्यातय पद्मावति! । अथवा साक्षिमन्न्यासो निर्यातयितव्यः । इहात्र भवान् रैभ्यः, अत्रभवती चाधिकरणं भविष्यतः । पद्मावती - अय्य! णीअदां दाणिं अय्या (आर्य! नीयतामिदानीमार्या) धात्री - (आवन्तिकां निर्वण्र्य) अम्मो ! भट्टिदारिआ वासवदत्ता । (अम्मो! भर्तृदारिका वासवदत्ता) राजा - कथं महासेनपुत्री । देवि! प्रविश त्वमभ्यन्तरं पद्मावत्या सह । यौगन्धरायण - न खलु न खलु प्रवेष्टव्यम् । मम भगिनी खल्वेषा । राजा - किं भवानाह । महासेनपुत्री खल्वेषा । यौगन्धरायणः - भो राजन् । भारतानां कुले जातो विनीतो ज्ञानवाञ्छुचिः । तन्नार्हसि बलाद्धर्तुं राजधर्मस्य देशिकः ।। 16 ।। राजा - भवतु, पश्यामस्तावद् रूपसाद्दश्यम् । संक्षिप्यतां यवनिका । यौगन्धरायणः - जयतु स्वामी । वासवदत्ता - जेदु अय्यउत्तो (जयत्वार्यपुत्रः । ) राजा - अये! असौ यौगन्धरायणः । इयं महासेनपुत्री । किं नु सत्यमिदं स्वप्नः सा भूयो द्दश्यते मया । अनयाप्येवमेवाहं दृष्टया वञ्चितस्तदा ।। 17 ।। यौगन्धरायणः - स्वामिन् ! देव्यपनयेन कृतापराधः खल्वहम् । तत् क्षन्तुमर्हति स्वामी । (इति पादयोः पतति) राजा - (उत्थाप्य) यौगन्धरायणो भवान् ननु । मिथ्योन्मादैश्च युद्धैच्च शास्त्रदृष्टैश्च मन्त्रितैः । भवद्यत्नैः खलु वयं मज्जमानाः समुद्घृताः ।। 18 ।। यौगन्धरायणः - स्वामिभाग्यानामनुगन्तारो वयम् । पद्मावती - अम्महे अय्या खु इअं । अय्ये! सहीजणसमुदाआरेण अजाणन्तीए अदिक्कन्दो समुदाआरो। ता सीसेण पसादेमि । (अहो आर्या खल्वियम् । आर्ये! सखीजनसमुदाचारेणाजानन्त्यातिक्रान्तः समुदाचारः । तच्छीर्षेण प्रसादयामि।) वासवदत्ता - (पद्मावतीमुत्थाप्य) उट्ठेहि उट्ठेहि अविहवे! उट्ठेहि! अत्थिसअं णाम सरीरं अवरद्धइ। (उत्तिष्ठोत्तिष्ठाविधवे! उत्तिष्ठ । अर्थित्वं नाम शरीरमपराध्यति ।) पद्मावती - अणुग्गहिदिह्मि । (अनुगृहीतास्मि।) राजा - वयस्य यौगन्धरायण ! देव्यपनये का कृता ते बुद्धिः । यौगन्धरायणः - कौशम्बीमात्रं परिपालयामीति । राजा - अथ पद्मावत्या हस्ते र्कि न्यासकारणम् । यौगन्धरायणः - पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति । राजा - इदमपि रुमण्वता ज्ञातम् । यौगन्धरायणः - स्वामिन्! सर्वेरेव ज्ञातम् । राजा - अहो शठः खलु रुमण्वान् । यौगन्धरायणः - स्वामिन् ! देव्याः कुशलनिवेदनार्थमद्यैव प्रतिनिवर्ततामत्र भवान् रैभ्योऽत्रभवती च ।33 राजा - न, न । सर्वं एव वयं यास्यामो देव्या पद्मावत्या सह । यौगन्धरायणः - यदाज्ञापयति स्वामी।) (भरतवाक्यम्) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ।। 19 ।। (निष्क्रान्ताः सर्वे) इति षष्ठोऽङ्कः । । स्वप्नवासवदत्तं संपूर्णम् ।