स्वप्नवासवदत्तम्/तृतीयोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search

<poem> अथ तृतीयोऽङ्कः (ततः प्रविशति विचिन्तयन्ती वासवदत्ता) वासवदत्ता - विवाहामोदसंकुले अन्तेउरचउस्साले परित्तजिअ पदुमावदिं आअदम्हि पमदवणं। जाव दाणिं भाअधेअणिव्वुत्तं दुक्खं विणोदेमि। (परिक्रम्य) अहो अच्चाहिदं। अय्यउत्तो वि णाम परकेरओ संवुत्तो। जाव उवविसामि। (उपविश्य) धण्णा खु चक्कवाअवहू, जा अण्णोण्णविरहिदा ण जीवइ। ण खु अहं पाणाणि परित्तजामि। अय्यउत्तं पेक्खामि ति एदिणा मणोरहेण जीवामि मन्दभाआ ।। (विवाहामोदसङ्कुले अन्तःपुरचतुःशाले परित्यज्य पद्मावतीमिहागतास्मि प्रमदवनम्। यावदिदानीं भागधेयनिर्वृत्तं दुःखं विनोदयामि। अहो अत्याहितम्। आर्यपुत्रोऽपि नाम परकीयः संवृत्तः। यावदुपविशामि। धन्या खलु चक्रवाकवधूः यान्योन्यविरहिता न जीवति। न खल्वहं प्राणान् परित्यजामि। आर्यपुत्रं प्रेक्षे इत्यनेन मनोरथेन जीवामि मन्दभागा) (ततः प्रविशति पुष्पाणि गृहीत्वा चेटी) चेटी - कहिं णु खु गदा अय्या आवन्तिआ। (परिक्रम्यावलोक्य) अम्मो इअं चिन्तासुञ्जहिअआ णीहारपडिहदचंदलेहा विअ अमंडिदभद्दअं वेसं धारअन्दी पिअंगुसिलापट्टए उवविट्ठा। जाव उवसप्पामि। (उपसृत्य) अय्ये! आवन्तिए! को कालो, तुमं अण्णेसामि। (क्व नु खलु गता आर्यावन्तिका? अम्मो इयं चिन्ताशून्यहृदया नीहारप्रतिहतचन्द्रलेखेवामण्डितभद्रकं वेषं धारयन्ती प्रियङगु शिलापट्टके उपविष्टा । यावदुपसर्पामि। आर्ये! आवन्तिके! कः कालः, त्वामन्विष्यामि।) वासवदत्ता - किण्णिमित्तं। (किंनिमित्तम्?) चेटी - अम्हाअं भट्टिणी भणादि महाकुलप्पसूदा सिणिद्धा णिउणा त्ति । इमं दाव कोदुअमालिअं गुम्हदु अय्या । (अस्माकं भट्टिनी भणति महाकुलप्रसूता स्निग्धा निपुणेति । इमां तावत् कौतुकमालिकां गुम्फत्वार्या ।) वासवदत्ता - अह कस्स किल गुम्हिदव्वं? (अथ कस्मै किल गुम्फितव्यम्?)15 चेटी - अम्हाअं भट्टिदारिआए । (अस्माकं भर्तृदारिकायै ।।) वासवदत्ता - (आत्मगतम्) एदं पि मए कत्तव्वं आसी । अहो अकरुणा खु इस्सरा । (एतदपि मया कर्तव्यमासीत् । अहो अकरुणाः खल्वीश्वराः ।) चेटी - अय्ये! मा दाणिं अञ्ञं चिन्तिअ । एसो जामादुओ मणिभूमीए ण्हाअदि। सिग्घं दाव गुम्हदु अय्या । (आर्ये! मेदानीमन्यच्चिन्तयित्वा । एष जामातृकः मणिभूमौ स्नाति । शीघ्रं तावद् गुम्फत्वार्या ।) वासवदत्ता - (आत्मगतम्) ण सक्कुणोमि अण्णं चिन्तेदुं । (प्रकाशम्) हला! किं दिट्ठो जामादुओ । (न शक्नोम्यन्यच्चिन्तयितुम्। हला किं दृष्टो जामाता?) चेटी - आम दिट्ठो भट्टिदारिआए सिणेहेण अम्हाअं कोदूहलेण अ । (आम् दृष्टो भर्तृदारिकायाः स्नेहेनास्माकं कौतूहलेन च ।) वासवदत्ता - कीदिसो जामादुओ । (कीदृशो जामाता?) चेटी - अय्ये ! भणामि दाव, ण ईरिसो दिट्ठपुव्वो । (आर्ये! भणामि तावद्, नेदृशो दृष्टपूर्वः।) वासवदत्ता - हला भणाहि, भणाहि किं दंसणीओ ? (हला! भण भण, किं दर्शनीयः?) चेटी - सक्कं भणिदुं सरचावहीणे खामदेवो त्ति । (शक्यं भणितुं शरचापहीनः कामदेव इति।) वासवदत्ता - होदु एत्तअं ।। (भवत्वेतावत्।) चेटी - किण्णिमित्तं वारेसि? ।। (किंनिमित्तं वारयसि?) वासवदत्ता - अजुत्तं परपुरुससंकित्तणं सोदुं । (अयुक्तं परपुरुषसंकीर्तनं श्रोतुम् ।) चेटी - तेण हि गुम्हदु अय्या सिग्घं । (तेन हि गुम्फत्वार्या शीघ्रम् ।) वासवदत्ता - इअं गुम्हामि । आणेहि दाव । (इयं गुम्फामि । आनय तावत् ।) चेटी - गण्हदु अय्या । (गृह्णात्वार्या ।) वासवदत्ता - आणेहि (आत्मगतं) इअं गुहममामि मन्तभाआ।। (वर्जयित्वा विलोक्य) इमं दाव ओसहं किं णाम (आनय।। इमं गुंफामि मन्दभागा।। (इदं तावदौषधं किं नाम?) चेटी - अविहवाकरणं णाम । (अविधवाकरणं नाम ।) वासवदत्ता - (आत्मगतम्) इदं बहुसो गुम्हितव्वं मम अ पदुमावदीए अ। (प्रकाशम्) इदं दाव ओसहं किं णाम?।। (इदं बहुशो गुम्फिव्यं मम च पद्मावत्याश्च । इदं तावदौषधं किं नाम?) चेटी - सवत्तिमद्दणं णाम । (सपत्नीमर्दनं नाम ।) वासवदत्ता - इदं ण गुम्हिदव्वं । (इदं न गुम्फितव्यम् ।) चेटी - कीस? (कस्मात्)? वासवदत्ता - उवरदा तस्य भय्या । तं णिप्पओअणं त्ति । (उपरता तस्य भार्या। तन्निष्प्रयोजनमिति।) (प्रविश्यापरा) चेटी - तुवरदु तुवरदु अय्या । एसो जामादुओ अविहवाहि अब्भन्तरचउस्साळं पवेसीअदि । (त्वरतां त्वरतामार्या । एष जामाता अविधवाभिरभ्यन्तरचतुःशालं प्रवेश्यते ।) वासवदत्ता - अइ! वदामि, गण्ह एदं । (अयि! वदामि गृहाणैतत् ।) चेटी - सोहणं । अय्ये! गच्छामि दाव अहं । (शोभनम् । आर्ये! गच्छामि तावदहम् ।) (उभे निष्कान्ते)16 वासवदत्ता - गदा एसा । अहो अच्चाहिदं । अय्यउत्तो वि णाम परकेरओ संवुत्तो । अवि दाव सय्याए मम दुक्खं विणोदेमि, जदि णिद्दं ऴभाणइ । (गतैषा । अहो अत्याहितम् । आर्यपुत्रोऽपि नाम परकीयः संवृतः। अपि तावद् शय्यायां मम दुःखं विनोदयामि, यदि निद्रां लभे।) (निष्क्रान्ता) इति तृतीयोऽङ्कः