स्वच्छन्दपद्धतिः

विकिस्रोतः तः





(प्. १) श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः । श्रीनाथाय नमः । ओं नमो
ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंश ऋषिभ्यो नमो गुरुभ्यः ।

आगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदन्तं भक्तानामेकदन्तमुपास्महे ॥

गुरुं गणपतिं वाणीं साम्बं क्षेत्राधिपं परम् ।
प्रणम्य संविन्मार्गस्थान वक्ष्ये स्वच्छन्दपद्धतिम् ॥

अमृतानन्दयोगीन्द्र बोधाद् विगत कल्मषः ।
ब्रह्मानन्दाख्ययोगीन्दश्चचार पृथिवीमिमाम् ॥

विचार्य स्वमताभिज्ञं विमलानन्दसंज्ञकम् ।
स्वशिष्यमकरोत् तस्मात् चिदानन्दो वभूव ह? ॥

चिदानन्दबोधादखण्डावबोधः स्वरूपं विदित्वा चराम्पद्वयोहम् ।
तथा शाधिमां नाथ युष्मद् गुरुणां कृपा त्वय्यखण्डा भवत् तेन शीघ्रम् ॥

(प्. २) सदानन्द सुधाराशि कुलालाख्यायणम्? ।
चिदानन्दगुरुं वन्दे त्त्वदाज्ञां शिरसा वहन् ॥

कुलधर्मस्य शास्त्राणि विचार्य परया धिया ।
साधकानां हितार्थाय वक्ष्ये स्वच्छन्दपद्धतिम् ॥

      तत्र श्रीमान् साधकेन्द्रः प्रातः सन्ध्यापूर्वदं उद्वयात्मिके रविस्तुरीययामे ब्राह्मे
मुहूर्ते चोत्थाय शुद्धः सन् स्वशिरसि श्वेतसहस्रदलकमलकर्णिकायां निजगुरुन् ध्यायेत् ।
श्रीमद्बोधघनामृतान्वितमहाचित्तेन तद्विग्रहं ध्यात्वा नित्यमहं सहस्रदलकेचिच्चन्द्रबिम्बप्रभम्
। नीत्वा तद्गुरुमेव षोडशदले मन्त्रात्मकं भावयन् ध्यायन् हृत्कमलोदरे तु तदहं त्वेवं
स्मरे च्छ्रीगुरुम् ।

      ततो मृगीमुद्रया पादुकामन्त्रेण स्वगुरुं त्रिवारं सम्पूज्य स्वनाम मूलाधारे सकृत्
सम्पूज्य गुरुं पञ्चोपचारैः पूजयेत् । तद्यथा

      लं पृथिव्यात्मकं गन्धं समर्पयामि, हं आकाशात्मकं पुष्पं समर्पयामि, यं
वायव्यात्मकं धूपं समर्पयामि, रं अग्न्यात्मकं दीपं समर्पयामि तं अमृतात्मकं
नैवेद्यं समर्पयामि यं सर्वात्मकं ताम्बुलं समर्पयामि, इति संपूज्य ।

(प्. ३) अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षून्मीलितं येन तस्मै श्रीगुरवे नमः ॥

नमोस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे ।
यस्य वाममृतं हन्ति विषं संसारसंज्ञितम् ॥

इत्याभ्यां योनिमुद्रया प्रणम्य स्वैक्येनैव शिवद्वैतगुरुं ध्यायन् गुरुस्तोत्रमुदीरयेत् -

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेक विग्रह ॥

नवाय नवरूपाय परमार्थैकरूपिणे ।
सार्वाज्ञानतमोभेदभानवे चिद्घनायते ॥

स्वतन्त्राय दयाक्लत्प्र विग्रहाय शिवात्मने ।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥

(प्. ४) विवेकीनां विवेकाय विमर्शाय विमर्शिनाम् ।
प्रकाशीनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥

पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः ।
सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥

ततस्तच्चरणारविन्दमकरन्दनिष्यन्दधाराभिः स्वात्मदेहमभिषिक्तं विभाव्य पादुकामन्त्रं
सकृज्जपित्वा क्षमस्वेति विसृजेदिति गुरोर्मानसपूजा ।

अथ मूलेन प्राणायामत्रयं कृत्वा योगध्यानं कुर्यात् । मूलकन्दाद्दण्डलग्नां
ब्रह्मनाडीं श्वेतवर्णां ब्रह्मरन्ध्रपर्यन्तं गतां स्मरेत् । तस्य मध्ये * * * * * * निभां(?)

      मूला लवाल कुहरादुदिता भवानी निर्भिद्य षट्सरसिजानि तडिल्लतेव ।
भूयोपि तत्र विशति ध्रुवमण्डलेन्दु निष्यन्दमानपरमामृतवृष्टिरूपा ॥

प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणे त्वमृतायमानाम् ।
अन्तःपदत्यागनुसञ्चरन्तीमानन्दमुद्रामवलोकयामः ॥

(प्. ५) आधारे तरुणार्कबिम्बरुचिरे हेमप्रभं वाग्भवं
बीजं मन्मथमिन्दगोपकनिभं हृत्प”न्कजे संस्थितम् ।
रन्ध्रे ब्रह्मपदस्य शाक्तमपरं सोमप्रभा भास्वरं
ये ध्यायन्ति पदत्रयं तव शिवे ते यान्ति सौख्यं परम् ॥

मूलविद्यां त्रिकूटस्थां समाहितमनाश्चिरम् ।
मूलादिब्रह्मरन्ध्रान्तं विसतन्तु तनीयसी ॥

उद्यदादित्यरुचिरां स्वतनौ परिचिन्तयेत् ।

इति मन्त्र प्रयोगः ।

अस्य श्री श्रीविद्याषोडशाक्षरीमहामन्त्रस्य दक्षिणामूर्तिरृषिः प”न्क्तिछन्दः श्रीषोढास्वरूपिणी
महात्रिपुरसुन्दरी देवता ऐ& बीजं सौः शक्तिः क्लीं कीलकं मम श्रीमहात्रिपुरसुन्दरी प्रसाद
सिद्ध्यर्थे जपे विनियोगः ।

अथ न्यासः -

शिरसि - ओं ऐं ह्रीं श्रीं दक्षिणामूर्ति-ऋषये नमः,
 मुखे - ४ प”न्क्तिछन्दसे नमः,
 हृदये - ४ श्रीमहात्रिपुरसुन्दरी देवतायै नमः,
 दक्षस्तने - ४ ऐं बीजाय नमः,
(प्. ६) वामस्तन - ४ सौं शक्तये नमः,
नाभौ - ४ क्लीं कीलकाय नमः, ४ विनियोगः पादयोः हृदये एवं न्यसेत्

त्वची - ४ ह्रीं यं ह्रीं नमः,
रक्ते - ४ ह्रीं रं ह्रीं नमः,
मांसे - ४ ह्रीं लं ह्रीं नमः,
मेदसि - ४ ह्रीं वं ह्रीं नमः,
अस्थिनि - ४ ह्रीं शं ह्रीं नमः,
मज्जायाम् - ४ ह्रीं षं ह्रीं नमः,
शुक्ले - ४ ह्रीं सं ह्रीं नमः, इति विन्यस्य

ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः श्रीं ह्रीं क्लीं ऐं सौः श्रीमहात्रिपुरसुन्दरी ह्रीं ऐं
सर्वज्ञायै ह्रां अ”न्गुष्ठाभ्यां नमः,
७ ओं ह्रीं श्रीं श्रीमहात्रिपुरसुन्दरी ह्रीं क्लीं नित्यतृप्तायै ह्रीं तर्जनीभ्यां नमः,
७ क ए ई ल ह्रीं महात्रिपुरसुन्दरी ह्रीं सौः अनादिबोधायै ह्रूं मध्यमाभ्यां नमः,
७ ह स क ह ल ह्रीं महात्रिपुरसुन्दरी ह्रीं सौः शिव स्वतन्त्रायै ह्रें अनामिकाभ्यां नमः,
७ सकल ह्रीं श्रीमहात्रिपुरसुन्दरी ह्रीं क्लीं नित्यमलुप्तायै ह्रौं कनिष्ठिकाभ्यां नमः,
७ सौः ऐं क्लीं ह्रीं श्रीं श्रीमहात्रिपुरसुन्दरी ह्रीं ऐं अनन्तायै ह्रः करतलपृष्ठाभ्यां
नमः,
एवं हृदयादिषड”न्गः ।

ध्यानम् -

सकु”न्कुमविलेपनामलिकचुम्विकरस्तारिकां(?)
समन्दहसितेक्षणां सशरचापपाशा”न्कुशाम् ।
(प्.७) अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥

चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कु”न्कुमरागशोणे ।
पुण्ड्रेक्षु पाशा”न्कुशपुष्पवाणहस्ते नमस्ते जगदेकमातः ॥

इति ध्यात्वा संक्षोभिण्यादिमुद्राः -
४ द्रां सर्वसंक्षोभिणी मुद्रां प्रदर्शयामि,
४ द्रीं सर्वविद्राविणी मुद्रां प्रदर्शयामि,
४ क्लीं सर्वाकर्षणी मुद्रां प्रदर्शयामि,
४ ब्लूं सर्ववश”न्करीमुद्रां प्रदर्शयामि,
४ सः सर्वोन्मादिनीमुद्रां०,
४ क्रों सर्वमहा”न्कुशमुद्रां प्रदर्शयामि,
४ ह्स्ख्फ्रें सर्वखेचरीमुद्रां प्रदर्शयामि,
४ ह्सौः सर्वबीजमुद्रां प्रदर्शयामि,
४ ऐं सर्वयोनिमुद्रां प्रदर्शयामि,
४ ऐं क्लीं सौः सर्वत्रिखण्डामुद्रां प्रदर्शयामि
क्रों ह्रीं द्वेषात्माभ्यां कामेश्वरकामेश्वरी अ”न्कुशमुद्रां प्रदर्शयामि,
ह्रीं रागात्माभ्यां कामेश्वर कामेश्वरी पाशमुद्रां प्रदर्शयामि,
४ द्रां द्रीं क्लीं ब्लूं सः यां रां लां वां शां शब्दस्पर्शरूपरसगन्धात्मकाभ्यां
कामेश्वर कामेश्वरी पुष्पवाणमुद्रां प्रदर्शयामि,
४ यं धं मनात्मकाभ्यां कामेश्वर कामेश्वरी इक्षुचापमुद्रां प्रदर्शयामि,
४ किरीटमुद्रां प्रदर्शयामि,
४ मकरकुण्डलमुद्रां प्रदर्शयामि । पञ्चोपचारैः सम्पूज्य सर्वं ब्रह्म ब्रह्मैवास्मि
अहमस्मि ब्रह्म हंसः सोहं शिवोहं मूलमन्त्रं यथाशक्तिं जपित्वा जपोपसंहार करिष्य इति
स”न्कल्प्य पुनसूर्यादिन्यासं करा”न्गं न्यासं विधाय ध्यात्वा मुद्रा प्रदर्श्य

(प्. ८) ओं गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात् त्वयि स्थिता ॥

इति देव्या वामहस्ते जपं समर्प्य तद”न्गत्वेन तद्दशांशमन्नपूर्णां जपेत् ।
अस्य श्रीसिद्धविद्यान्नपूर्णेश्वरीमन्त्रस्य ब्रह्मा-ऋषीः यष्टिक्छन्दः आन्नपूर्णेश्वरी देवता
ह्रीं बीजं श्रीं शक्तिः क्लीं कीलकं ममान्नपूर्णेश्वरी प्रसादसिद्ध्यर्थे जपे विनियोगः ।

ऋष्यादिन्यासं विधाय ह्रामित्यादिकरषड”न्गं न्यासः ।

ध्यायेद् देवीं सिद्धविद्यां महाक्षीरार्णवे बुधः ।
रत्नद्वीपलसत् स्वर्णप्राकारभुवनोज्ज्वले ॥

कल्पद्रुमविशोभाढ्ये सिंहासनसमन्विते ।
उद्यत्सूर्यसहस्राभां विचित्रवसो(स)नोज्वलाम् ॥

(प्. ९) चन्द्रचूडमन्त्रदाननिरतां रत्नभूषिताम् ।
सुवर्णकलशाकार स्तनभारभरोज्जताम् ॥

रुद्रताण्डवसानन्दां द्विभुजां परमेश्वरीम् ।

इति ध्यात्वा दर्वीस्रुवं मुद्रे प्रदर्श्य मानसैः पूज इ(यि)त्वा ओं ह्रीं श्रीं क्लीं नमो भगवती
माहेश्वरी अन्नपूर्णे स्वहा इति जपित्वा जपं समर्प्य चक्रदेवतागुर्वात्मानमभिन्नं विभाव्य
यथाधिकारं ब्रह्माहमस्मीति मत्वा देव्याः प्रातस्तोत्रमुदीरयेत् ।

मातर्नमामि जगतां जनन्याश्चरणाम्बुजम् ।
नमस्त्रिपुरसुन्दर्या जमिताया हरादिभिः ॥

प्रातस्त्रिपुरसुन्दर्या नमामि चरणाम्बुजम् ।
हरिर्हरो विरिञ्चिश्च सृष्ट्यादीन् कुरुते यथा ॥

प्रातस्त्रिपुरसुन्दर्या नमामि पदप”न्कजम् ।
यत्पाद्यमम्बुशिरसि भाति ग”न्गा महेशितुः ॥

(प्. १०) प्रातः पाशा”न्कुशशरचापहस्तां नमाम्यहम् ।
उद्यदादित्यस”न्काशां श्रीमत्त्रिपुरसुन्दरीम् ॥

प्रातर्नमामि पादाब्जं ययेदं भासते जगत् ।
प्रातस्त्रिपुरसुन्दर्या यत्प्रसादात् निवर्तते ॥

यः श्लोकपञ्चकमिदं प्रातर्न्नित्यं पठे नरः ।
तस्मै दद्यादात्मपदं श्रीमत्त्रिपुरसुन्दरी ॥

त्रैलोक्यचैतन्यमये परेशि श्रीनाथनित्ये भवदाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्त इ(यि)ष्ये ॥

संसारयात्रामनुवर्तमानं त्वदाज्ञाया श्रीत्रिपुरे परेशि ।
स्पर्धातिरस्कार कलिप्रमादाभयानि मामाभिभवन्तु मातः ॥

जानामि धर्मस्य च न प्रवृत्तिं जानामि धर्मस्य च नो निवृत्तिम् ।
त्वया च सर्वेशि हृदिस्थया वा यथा नियुक्तोऽस्मि तथा करोमि ॥

(प्. ११) इति देव्याः प्रातर्जपस्तुतिः ।

      अथ हंसमन्त्रेण प्राणायामत्रयं कृत्वा हंसः सोहं शिवोऽहं
पूर्वेद्युरुतराहोरात्रोच्चरितमुच्छ्वासनिश्वासात्मकं षट्शताधिकमेकविंशतिसहस्रमजपाजपं
सप्तचक्रस्थितेभ्यो देवेभ्यो यथाभागं निवेदयामीति निवेद्य मूलाधारस्थ गणपतये
षट्शतसंख्याकं जपं निवेदयामि । स्वाधिष्ठानस्थ ब्रह्मणे षट्सहस्रं जपं निवेदयामि
मणिपूरस्थ विष्णवे षट्सहस्रं जपं निवेदयामि । अनाहतस्थ रुद्राय षट्सहस्रं जपं
निवेदयामि । विशुद्धचक्रस्थजीवाय सहस्रमेकं जपं निवेदयामि । आज्ञाचक्रस्थपरमात्मने
सहस्रमेकं जपं निवेदयामि । ब्रह्मरन्ध्रस्थगुरवे सहस्रमेकं जपं निवेदयामि इति निवेद्य
अहोरात्रोच्चरितमुच्छ्वासनिश्वासात्मकं षट्शताधिकमेकविंशतिसहस्रमजपाजपं करिष्ये । इति
संकल्प्य,
      
      अस्य श्री-अजपामहामन्त्रस्य हं स-ऋषिः अव्यक्तगायत्री छन्दः श्रीपरमहंसो देवता हं
बीजं सः शक्तिः सोहं कीलकं मम मोक्षार्थे जपे विनियोगः ।

      ततो ऋष्यादिस्तत्तत्स्थानेषु यथाक्रमं विन्यस्य षट्दीर्घमासादबीजेन करषड”न्गन्यासः ।

ध्यानम् -

(प्. १२) गमागमस्थं गमनादिशून्यं चिद्दीपरूपं तिमिरान्तकारम् ।
पश्यामि ते सर्वजनां तरस्थं नमामि हंसं परमात्मरूपम् ॥

इति ध्यात्वा मानसोपचारैः पूज इ(यि)त्वा हंसगायत्रीं पञ्चविंशतिवारं जपित्वा
‘हंसंहंसाय विद्महे परमहंसाय धीमहि । तन्नो हंसः प्रचोदयात्’ जपं समर्पयेत् ।
तद्यथा - मूलाधारे चतुर्दले कमले वं शं षं सं इति वर्णयुते तत्र स्थिताय गणपतये
शाकिनीशक्तियुक्तायात्र गन्धपुष्पधूपदीपनैवेद्यपञ्चोपचार पूजां समर्पयामि । गणपतये
शाकिनीशक्तियुक्ताय षट्शतसंख्याकं जपं तुभ्यं समर्पयामि ।

स्वाधिष्ठाने षट्दलकमले अं भं मं यं रं लं इति वर्णयुते तत्र स्थिताय ब्रह्मणे
काकिनीशक्तियुक्तायात्र गन्ध० । ब्रह्मणे षट्सहस्रं जपं तुभ्यं सम० ।
मणिपूरे दशदलकमले डं १० इति दशवर्णयुत तत्रस्थाय विष्णवे लाकिनीशक्तियुक्तायात्र गन्ध० ।
विष्णवे षट्सहस्रं जपं तुभ्यं स० ।
अनाहते द्वादशदलकमले कं १२ इति वर्णयुते तत्रस्थिताय रुद्राय शाकिनीशक्तियुक्तायात्र गन्ध ० ।
रुद्राय षट्सहस्रजपं तुभ्यं स० ।
विशुद्धौ षोडशदलकमले अं १६ इति वर्णयुते तत्र स्थिताय जीवाय डाकिनीशक्तियुक्तायात्र गन्ध० ।
जीवाय सहस्रमेक जपं तुभ्यं स० ।
अ(आ)ज्ञायां द्विदलकमले हं क्षं इति वर्णयुते तत्र स्थिताय परमात्मने हाकिनीशक्तियुक्तायात्र
गन्ध० । परमात्मने सहस्रमेकं जपं तुभ्यं स० ।
ब्रह्मरन्ध्रे सहस्रदलकमले अनन्तमातृकावर्णयुते तत्रस्थाय गुरवे याकिनीशक्तियुक्तायात्र गन्ध० ।
गुरवे सहस्रमेकं जपं तुभ्यं स० ।
इति स(म)र्प्य ३ षट्शतानि गणेशस्य षट्सहस्रं प्रजापतेः षट्सहस्रं गदापाणे षट्सहस्रं
पिनाकिनः ।

सहस्रमात्मलि”न्गाय सहस्रं परमात्मनि ।
सहस्रं गुरवे चैव अजपानां निवेदनम् ॥

नानया ददृशी विद्या नानया सदृशो जपः ।
नानया सदृशो मन्त्रो न भूतो न भविष्यति ॥

अजपा नाम गायत्री योगीनां मोक्षदायिनी ।
(प्. १४) यस्याः संकल्पमात्रेण नरः सायुज्यमाप्नुयात् ॥

इति जपं समर्प्य तातो निजकृत्यं देव्यै समर्पयेत् ।

आसीनाय शयानाय गच्छते तिष्ठते क्रियाः ।
सर्वत्र गुरुरूपाय गुरवे करणे नमः ॥

समुद्रवसने देवि पर्वतस्तनमण्डिते ।
विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥

इति भूमीं प्रार्थ्य श्वासानुसारेण तत्पादपुरःसरं गृहाद्बहिर्विनिर्गच्छेत् ।

॥ इति श्रीमद्यमनिमाद्यंष्टा”न्गयोगनिरत श्रीमद्विमलानन्दभगवत्
पूज्यपादशिष्यचिदानन्दनाथविरचितायां स्वच्छन्दपद्धत्यां प्राभातिकविधिर्नाम प्रथमः
स्पन्दः ॥ १ ॥



(प्. १५) तत स्मृत्युक्तमार्गेण मलमुत्रोत्सर्गं शौचाचमनं विधाय दन्तशोधनार्थे वनस्पतिं
प्रार्थयेत् ।

आयुर्बलं यशो वचं प्रजाः पशु वसूनि च ।
ब्रह्मप्रज्ञां च मेधां च त्वन्नोदेहि वनस्पते ॥

इति प्रार्थ्य द्वादशा”न्गुलमितं विहितं दन्तकाष्ठं गृहीत्वा

मुखदुर्गन्धिनाशाय दन्तानां च विशुद्धये ।
ठीवनाय च गात्राणां कुर्वेहं दन्तधावनम् ॥

‘ओं क्लीं कामदेवाय सर्वजनप्रियाय ज्वल ज्वल प्रज्वल सर्वजनं मे वशमाना(न)य स्वाहा’ इति
दन्तान् संशोध्य मूलविद्यया मुखं प्रक्षाल्य स्नानार्थं तीर्थादिकं गच्छेत् । अस्त्रमन्त्रेण
तीरं प्रोक्ष्य वस्त्रादिकं तत्र निधाय मूलेन प्राणायामत्रयं कृत्वा उरुदध्नजले निवेश्य
तीर्थराजं प्रार्थयेत् ।

त्वं राजा सर्वतीर्थानां त्वमेव जगतां पिता ।
(प्. १६) याचितां तीर्थं मे देहि सर्वपापप्रमुक्तये ॥

इति प्रार्थ्यं

तीक्ष्णदंष्ट्रमहाकाय कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्यं मनुज्ञां दातुमर्हसि ॥

इति भैरवानुज्ञां गृहीत्वा वैदिकस्नानं विधाय ‘परदेवता प्रीत्यर्थे तान्त्रिकस्नानं करिष्ये’ इति
संकल्प्य

पृथिव्यां यानि तीर्थानि निकरैस्पृष्टानि ते रवे ।
तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥

वक्ष्यमाणा”न्कुशमुद्रया सवितृमण्डला तीर्थमावाह्यामृतेश्वरी श्रीविद्यया
चिच्चन्द्रमण्डलादमृतवृष्टिं निपात्यावाह्य

ग”न्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदा सिन्धु कावेरि जलेऽस्मिं सन्निधिं कुरु ॥

सन्निधापनमुद्रया संस्थाप्य अवगुण्ठण(न)मुद्रया हुं इति अवगुण्ठ्य अस्त्रेण चक्रमुद्रया
संरक्ष्य तत्र श्रीचक्रं विभाव्य तन्मध्ये देवीं ध्यात्वा मूलविद्यया (प्. १७) तदमृतेन
कलशमुद्रया देवीं स्नाप-इ(यि)त्वा तच्चरणाम्बुजगलितं रक्तवर्णं तीर्थमत्वा मूलेन
दशधाभिमन्त्र्य मूलविद्यां स्मरन् तत्तीर्थे त्रिनिमज्योन्मज्य योनिमुद्रया शिरस्यञ्जलित्रयं निक्षिप्य
आद्यकूटमुच्चार्य आत्मतत्त्वेन स्थूलदेहं परिशोधयामि स्वाहा । द्वितीयकूटमुच्चार्य विद्यातत्त्वेन
सूक्ष्मदेहं परिशोधयामि स्वाहा । तृतीयकूटमुच्चार्य शिवतत्त्वेन कारणदेहं परिशोधयामि
स्वाहा । सर्वतत्त्वेन हस्तौ प्रक्षाल्य स्नाना”न्गतर्पणं कुर्यात् । देवेभ्यः स्वाहा तर्पयामि ।
ऋषिभ्यो नमस्तर्पयामि । पितृभ्यो स्वधास्तर्पयामि । सर्वेभ्यो भूतेभ्यो वषट् तर्पयामि । सर्वे
भैरवास्तृप्यन्तु । सर्वे क्षेत्रपालास्तृप्यन्तु । मूलविद्यान्ते श्रीमहात्रिपुरसुन्दरि तर्पयामि ति सन्तर्प्य
पूर्ववदाचम्य निर्याणमुद्रया तां दृग्दिविसृज्य योनिमुद्रया प्रणमेदिति सामान्यत स्नानविधिः
[अथ पूर्णाषिभि(भिषि)क्तानां विशेषत स्नानविधिः । स्नानप्रकारो द्विविधो वाह्याभ्यन्तरभेदतः ॥

(प्. १८) अन्तरं स्नानमद्य त्वां रहस्यमपि सादरात् ।
कथयामि भवध्व यं च वर्गाप्त-एपि च ॥

स रि त्रयमनुस्मृत्य चरणत्रयमध्यतः ।
स्रवन्तं सच्चिदानन्दप्रवाहं भावगोचरम् ॥

विमुक्तिसाधनं पूंसां स्मरणादेव योगिनाम् ।
तेनाप्लावितमात्मानं भावयेद् भवशान्तये ॥

ततः सरित्त्रयं ध्यायेद स्पन्दस्पन्दशक्तितः ।
आनन्दवाहिनी चान्या अन्या बोधात्मिका सरित् ॥

मध्ये सत्यात्मिका चान्या चिदानन्दैकरूपिणी ।
परानन्दमयी या वै परब्रह्मस्वरूपिणी ॥

सा पद्मवामतः प्राप्य वामपादान्तवाहिनी ।
या सरिद्बोधरूपाख्या आदिशक्तिस्वरूपिणी ॥

सा पद्मदक्षभागेन स्पृशन्त्या पादवाहिनी ।
(प्. १९) या सरित्सत्यरूपाख्या आदिशम्भुस्वरूपिणी ॥

सा पद्ममध्यतः प्राप्य सुषुम्नाकाशवाहिनी ।
इडाग”न्गेति विख्याता पि”न्गला यमुना नदी ॥

मध्ये सरस्वती प्रोक्ता प्रयागमिति संस्मृतम् ।
बाह्यं पञ्चविधं स्नानं पञ्चभूतात्मकं पुनः ॥

मन्त्रस्नाने कृते यस्मात् सर्वस्नानफलं भवेत् ।
पञ्चभूतात्मबीजानि ल व र य ह इतीरिताः ॥

स बिन्दुकैस्तैः संमन्त्र्य दक्षहस्तस्थिते जलम् ।
वामा”न्गुलिछटायोगात् प्रोक्षयेत् शिरसि त्रिधा ॥

वामनासिकया पूर्वं शिष्टं ज्योतिर्मयं जलम् ।
दक्षनासिकयान्तस्थं मलक्षालनपूर्वकम् ॥

विरेच्यास्त्रमनुं जप्त्वा प्रक्षिपे च शिलोपरि ।
अघमर्षणमेतद्धि सकलाघविशोधनम् ॥

(प्. २०) इति विशेषतः स्नानविधिः । इति स्नात्वा तीरमासाद्य मूलेनाभिमन्त्रिते धौते वाससि परिधाय
मूलं सप्तवारं जप्त्वा शिखाबन्धनं कुर्यात् ।

ऊर्ध्वकेशि विरूपाक्षि मांसशोणितभोजने ।
तिष्ठदेवि शिखाबन्धे चामुण्डे ह्यपराजिते ॥

इति मन्त्रेण बालया ‘ओं ह्रीं मणिधरि वज्रिणि महा प्रति सरे रक्ष रक्ष हुं फट् स्वाहा’ शिखां
बध्वा विभूत्यादिना तिलकं विधाय

अस्य श्रीविभूतिधारणमन्त्रस्य पिप्पलाद-ऋषिः गायत्रीछन्दः
रुद्रो देवता भस्माभिधारणे विनियोगः । वामकरे विभूतिं गृहीत्वा दक्षिणकरेण विधाय ‘ओं
जातवेदसे० ऋक् । अग्निरिति भस्म जलमिति भस्म स्थलमिति भस्म वायुरिति भस्म व्योमेति भस्म
कालादि”न्मनश्चक्षूषि सर्वं ङहवा यिदं भस्म । त्रयायुषं जमदग्नेः । कस्य पस्यत्रयुषं
शतायुषं बलायुषं ओं मानस्तोके तनये ओं तत्सवितुर्वरेण्यं० ओं हरुं जूं सः ओं भूर्भुवः
स्वः त्र्यम्बकं यजामहे० स्वः वः र्भुभूः ओं सः जूं हौं ओं ओं सद्योजातं प्रपद्यामि०
वामदेवाय नमो० अघोरेभ्यो० तत्पुरुषाय विद्महे० ईशान स० ऋत”न० सत्यं परं ब्रह्म० इति
द्वादशवेदमन्त्रैरभिमन्त्र्य ‘ओं आपो हिष्टामयो भुवः०’ इत्यभिषिञ्च्य, ‘विश्वं भूतं भुवनं०’
इति मर्दयित्वा, अ”न्गुष्ठेन शिरः प्रदक्षणी कृत्य दीप्तचण्डाय नमः ललाटमध्ये रेखां कृत्वा

मध्यमानामिका चैव तर्जनी च त्रिपुण्ड्रके ।
ब्रह्मा विष्णुश्च रुद्रश्च त्रिपुण्ड्रस्याधिदेवताः ॥

वर्तुलेन भवेद् व्याधिः दीर्घेण च तपक्षयः ।
षड”न्गुलप्रमाणेन तिर्यक् पुण्ड्रं समाचरेत् ॥

मूलविद्यायां शिरसि १ ।
ऐं वद २ वाग्वादिनि ऐं क्लिन्ने क्लेदिनि क्लेदय २ मा(म)हाक्षोभं कुरु २ क्लीं सौः मोक्षं कुरु
२ सौः स्हौं ह्सौं दीपिन्यै नमः ललाटे ।
ओं नमो भगवति ज्वालामालिनि देव देवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल २ प्रज्वल २
हुं हुं हुं रं रं रं हुं फट् स्वाहा गले ।
ओं ह्री उं उत्तिष्ठपुरुषि किं स्वपिषि भयसमुपस्थितं यदि शक्यमशक्यं (प्. २२) वा तन्मे भगवति
शमय २ स्वाहा ।
ओं ह्रीं वह्निवासिन्यै नमः हृदये ।
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे स्वाहा नाभौ ।
ओं स्रूं सहस्राराय हुं फट् स्वाहा उरुमूलयोः ।
ओं श्लीं पशु हूं फट् जान्वोः ।
ओं ह्रीं स्फुर २ प्रस्फुर २ घोर घोरतर तनुरुप चट २ प्रचट २ कह २ बम २ बन्धय २
घातय २ हुं फट् स्वाहा गुल्फयोः ।
ओं ह्रीं क्लीं क्ष्रौं श्रीं ओं [उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतो मुखम् ।]

नृसिंहभीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥

क्ष्रौं ओं नमो भगवते नृसिंहाय ज्वालामालिने दीप्तदंष्ट्रायाग्निनेत्राय सर्वरक्षोघ्नाय
सर्वभूत विनाशनाय सर्वज्वरविनाशनाय दह २ पच २ रक्ष २ हुं फट् स्वाहा कूर्परयोः ।
ओं उत्तिष्ठपुरुषहरितपि”न्गललोहिताक्ष देहि मे ददापय स्वाहा मणिबन्धयोः ।
ओं ह्रीं ह्रौं नमः शिवाय महाशरभाय ओं ह्रीं ह्रौं नमः शिवायै महाशरभ्यै
विघ्नशान्त्यै नमः सर्वा”न्गे ।
अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः ककारादिक्षकारान्तं
मातृकया सर्वसन्धिषु धारयेत् ।
इति विभूतिधारणं विधाय० वैदिकसन्ध्यां विधाय परदेवता -
(प्. २३) प्रीत्यर्थं तान्त्रिकसन्ध्यां करिष्ये । इति संकल्प्य गुर्वादिवन्दनपूर्वकं प्राणानायम्य
ऋष्यादिन्यासपूर्वकं देवीरूपमात्मानं ध्यात्वा पूर्ववदाचम्य दक्षिणहस्ते जलमादाय
वामेन तत्त्वमुद्रया मूलेनाभिमन्त्र्य तज्जलं वामहस्ते गृहीत्वा मूलव्यस्तसमस्तैः
पादहृदयभ्रूमध्य सर्वा”न्गेषु संप्रोक्ष्य पुनर्दक्षहस्ते जलमादाय नासासमीपमानीय
इडयाकृष्यान्तं कुम्भितनिखिलकलमष प्रक्षालनेन कृष्णवर्णं जलं पि”न्गलया विरेच्य वामे
ज्वलितवज्रशिलायामस्त्रेण घातयेदित्यघमर्षणं कृत्वा हस्तौ प्रक्षाल्याचम्य पुनर्दक्ष(क्षि)ण हस्ते
जलमादाय मूलेन त्रिवारमभिमन्त्र्य तज्जलं पीत्वा पूर्ववदाचम्य वामहस्ते जलमादाय मूलेन
सकृदभिमन्त्र्य पूर्ववत्प्रोक्ष्य

नवग्रहावृतं भास्वद्राशिद्वादश सेवितम् ।
पद्मयुग्माभयाभीष्टधारिणं ध्वान्तहारिणम् ॥

इति ध्यात्वा
ओं ऐं ह्रीं श्रीं ह्रां ह्रीं सः मार्तण्डभैरवाय प्रकाशशक्तिसहिताय नमो द्वादशकलात्मने
सूर्याय एष तेऽर्घ्यं स्वाहा ।
३ सूर्यमण्डले देवीं ध्यात्वा सूर्यमण्डलमध्यस्थ महात्रिपुरसुन्दरी एष तेऽर्घ्यं स्वाहा ।

इत्यर्घ्यं त्रयं दत्वा

(प्. २४) भास्वद्रत्नौघमुकुटस्फुरच्चन्द्रकलाधराम् ।
सद्यः सन्तप्तहेमाभां सूर्यमण्डलरूपिणीम् ॥

पाशा”न्कुशाभयवरं स्मरन्नथ जपेत्ततः ।
गायत्रीं सुभगां मन्त्री त्रिधा बीजस्वरूपिणीम् ॥

ध्यात्वा - ऐं वागेश्वरी च विद्महे क्लीं कामेश्वरी धीमहि सौः तन्नः शक्तिः प्रचोदयात् ।
अखण्डमण्डलाय नम इति जलहस्तः सन्प्रदक्षिणी कृत्य जले श्रीचक्रं विभाव्य मूलेन नववारं
सन्तर्प्याचम्य त्रिपुरागायत्रीं यथाशक्तिं जपित्वा श्रीविद्यां च जपेत् । सन्ध्यात्रये च विशेषः ।
तत्र प्रातःसन्ध्या धर्मकामार्थसिद्धये सन्ध्यामुपासीत् । मूलाधारे वादिसन्तार्णयुतेऽब्जे
ह्लां बीजं पीतप्रभं ध्यात्वा वहत्पुटान्तस्थ वह्निः अम्बुजे निसार्य सौरे विभाव्य पीताभां
त्रिनेत्रां चतुर्भुजां अभयशूलकपालाहिंश्च बाहुभिर्बिभ्राणां बालसूर्यसमां ज्येष्ठां
ध्यात्वा एतं मनुं संजपेत् ।
ऐं ह्रीं श्रीं ह्स्ब्रें ह्सौं ह्लां ह्सौं ह्रीं ज्येष्ठा सन्ध्यायै ह्लां ह्सौं ह्लां
अनुत्तरवरा श्रीपादुकां तर्पयामि नमः ।
अर्घ्यमनुना सूर्याय त्रिरर्घ्यं क्षिपेत् ।

ततोनुक्रमतः पश्चादशिताद्यांश्च तर्पयेत् ।
म”न्गलं चर्चिकं योगं हरसिद्धं च हाटकम् ॥

कालकालं कालरात्रं भीषणं भैरवाष्टकम् ।
जलैर्वापि मृतैर्वापि हेतुभिर्वा समाहितः ॥

ओं ऐं ह्रीं श्रीं ह्सौं अम”न्गलनाथ अं असिता”न्गभैरवानन्दनाथ ५ आं म”न्गलाम्बा आं
ब्रह्माणी पराबा(म्बा) श्री० ५ इं चर्चिकानाथ इं रुरुभैरवानन्दनाथ० ५ इं चर्चिकाम्बा इं
माहेश्वरि (इतः परं अस्याः मातृकायाः १४-१७ संख्यक पृष्ठानि खण्डितानि ।) पराम्बा
श्रीपादुकां तर्पयामि नमः,
५ उं योगीशनाथ उं चण्डभैरवानन्दनाथ ५ ऊं योगीशाम्बा ऊं कौमारी पराम्बा
श्रीपादुकां तर्पयामि नमः,
५ ऋं हर सिद्धनाथ ऋं क्रोधभैरवानन्दनाथ ५ ॠं हरसिद्धाम्बा ॠं वैष्णवीपराम्बा
श्रीपादुकां तर्पयामि नमः,
५ ऌं हाटकनाथ ऌं उन्मत्तभैरवानन्दनाथ ५ ॡं हाटकाम्बा ॡं वाराहीपराम्बा
श्रीपादुकां तर्पयामि नमः,
५ एं कालिकालनाथ एं कपालीभैरवानन्दनाथ ५ औं कालिकालाम्बा ऐं इन्द्राणी पराम्बा
श्रीपादुकां तर्पयामि नमः,
५ ओं कालरात्रीनाथ ओं भीषणभैरवानन्दनाथ ५ औं कालरात्र्यम्बा औं चामुण्डा
पराम्बा श्रीपादुकां तर्पयामि नमः,
५ अं भीषणनाथ अं संहारभैरवनाथ ५ अः भीषणाम्बा अः महालक्ष्मी पराम्बा
श्रीपादुकां तर्पयामि नमः, इति सन्तर्प्य

आदित्याभिमुखस्तिष्ठन् गायत्री च शतं जपेत् ।
गायत्र्याभिनियुक्तस्य ज्ञानमुत्पद्यते चिरात् ॥

५ षडननाय विद्माहे ६ चित्रपादाय धीमहि ४ तन्नः शम्भुः प्रचोदयात् ।

रविमण्डलमध्ये तु यावत्पूर्वं परिष्कृताम् ।
तां देवीं तन्मनुं पश्चात् मूलतेजसि योजयेत् ॥

प्रस्तारसहस्राक्षर्युपस्थाय योनिमुद्रया प्रणमेत् ।
मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् ।
उद्यदादित्यस”न्काशां नित्यानन्दस्वरूपिणीम् ॥ १ ॥

विद्युत्काञ्चनकोटिकूटरुचिरं मूलाब्जके वाग्भवम् ।
ध्येये द्वादशपत्रके दिनकरप्रख्ये महामन्मथम् ॥ २ ॥

(प्. २७) हंसाब्जे शरदिन्दु हासममलं साक्तं सहस्रारके ।
लोहित्यार्णववर्णपीठकुहरे कूटं तुरीयं परम् ॥ ३ ॥

इति ध्यात्वा तस्याः ऋष्यादिकरषड”न्गध्यानपूर्वकं त्रिः प्राणानायम्य तदधिष्णनीं
श्रीपरदेवतां ध्यात्वा मानसोपचारैः सम्पूज्य मुद्रां प्रदर्श(र्श्य) मूलविद्यां यथाशक्तिं
जपित्वा ऋष्यादिकरषड”न्गपूर्वकं जपं निवेद्य कृताञ्जलिः मूलमुच्चार्य
‘ओं नमस्त्रिपुरसुन्दरि सुभगे सुप्रसन्ने सुलभे सोमवदने सुरासुरवन्दिते चरणारविन्दे
जपाकुसुमनिकासे योगिनीगणसेविते मधुमदोदितमानसे सन्ध्यादुकूलवसनासने सततमुदितमहानन्दे
माणिक्यकिरणारुणे बिन्दुनादस्वरूपिणी संविन्मात्रस्वरूपिणी ह्सैं ह्स्रीं ह्सौं स्हौं स्र्हीं स्र्हौः
स ह क ए ई ल ह्रीं स ह क ए ई ल ह्रीं स ह क ए ई ल ह्रीं नमो देवी आगच्छ आगच्छ
सांनिध्यं कुरु कुरु सर्वतो मां रक्ष रक्ष वह वह आनन्दयानन्दय मोदय मोदय स्थापय
स्थापय प्रापय प्रापय सर्वकार्याणि मनसा साधय साधय पोषय पोषय ऐं ह्रीं श्रीं
ह्स्रैं ह्स्रीं ह्स्रौं ऐं ह्रीं श्रीं स ह ए ई ल ह्रीं स ह ए क ए ई ल ह्रीं ह स (प्. २८) क ए ई
ल ह्रीं नमो भगवती भगरूपे सौभाग्यरूपे पापहारिणी राजानं मे वशमानयानय विपत्तिं
दलय दलय स्त्रियं आका(क)र्षयाकर्षय क्लेदय क्लेदय मनांसि क्षोभय क्षोभय मोहय मोहय
उल्लासयोल्लासय सौभाग्यं मे सम्पादय सम्पादय सौन्दर्यं मे जनय जनय ह्स्रं ह्स्रीं
ह्स्रौंः क ए ई ल ह्रीं ह स क ह ल ह्रीं सकल ह्रीं नमः कल्याणकारिणी
रत्नाभरणप्रभारञ्जितशरीरे रक्ताम्बुजनिषण्णे पाशा”न्कुशेक्षुचाप कुसुमबाणधारिणी चतुर्भुजे
चन्द्रशेखरे चतुरा”न्गे चतुवर्गफलप्रदे दिव्यमालाल”न्कृतदिव्यदेवदेहे मम सकलसमीहितानि
साधय साधय स्फारय स्फारय स्थिरय स्थिरय ह स क ह ल ह्रीं ह्स्रीं ह स क ह ल ह्रीं
हसकहलह्रौं हसकहलह्रीं हसकहलह्रीं सकलह्रीं नमो वरदे रेते सुरेते सत्ये नित्ये निरञ्जने
जगत्क्षोभकरे मोक्षकारिणीकमले कमनीया”न्गे कमलवति दक्षिणमार्गस्थे राज्यं प्रयच्छ प्रयच्छ
कीर्तिं विस्तारय विस्तारय सैन्यं स्तम्भय स्तम्भय भेदय भेदय मर्दय मर्दय छेदय छेदय
उत्सादयोत्सादय हसकहलह्रीं हसकहलह्रीं (प्. २९) सहकहलह्रीं हसकलह्रीं सकलह्रीं नमः
परमेश्वरि परमात्मस्वरूपे करुणामृतवर्षिणी द्रां द्रीं क्लीं ब्लूं सः मनोज्ञे म”न्गलवासे
माणिक्यमरीचिविचित्रित अखण्डकुण्डलिनी कोमला”न्गी अ”न्कुशेन आकर्षयाकर्षय पाशेन मोहय मोहय
बाणेन भिन्धि भिन्धि हसकलरडां हसकलरडीं हसकलरडौं हसकलरडैं सहकलरडीं
सहकलरडौंः सहकलह्रीं सहसकलह्रीं सकलह्रीं नमस्त्रिपुरे वह वह वादय वादय
त्रिपुरेश्वरि विद्येश्वरी वीरवन्दिते विद्याधरवीज्यमान चामरे मोदय मोदय पूर्णनेत्रत्रिनेत्रे
त्रिपुरसुन्दरी हसकलरड्रां हसकलरड्रीं हसकलरड्रौंः सहकलह्रीं हसकलह्रीं सकलह्रीं
नमस्त्रिपुरवासिनी त्रिपुराश्रये देवि त्वं प्रपद्ये सुप्रपद्ये संप्रपद्ये सदा प्रपद्ये शरणं
प्रपद्ये शरण्ये शरणागतवत्सले मदने मदनदेहे सर्वजनहृदयहारिणी सर्वसत्त्वहृदय”न्गमे
सर्वभूतवश”न्करी मम सर्वाणि भूतानि वशमानयानय कामान् पूरय पूरय कीर्तिं दापय
दापय क्लेशं नाशय नाशय शत्रूंस्त्रोटय त्रोटय बन्धय बन्धय छेदय छेदय मोक्षं
कुरु कुरु ऐं ह्रीं श्रीं हसकलरडरहैं हसकलरडहौंः हसकलरडहौः सहकलह्रीं
सहकलह्रीं (प्.३०) सहसकलह्रीं ओं नमस्ते ललिते लावण्यरूपे मदिराक्षी महारूपे अरूपे विरूपे
सुरूपे सुमनोहरे स्त्रीरूपे स्त्रीरूपे स्त्रीपुरुषवश”न्करी सौख्यं मे देहि देहि दारानावहावह
निधिं दर्शय दर्शय ऐं ह्रीं श्रीं हसकलरडरसहैं हसकलरडरसहीं हसकलरडरसहौंः
हसकलह्रीं सकलह्रीं सकलह्रीं रमलिनि चिन्तितार्थविधापिनि चित्तज्ञे
ब्रह्मविष्णुरुद्रश”न्करसदाशिवपूजिते सम्पूज्ये मम मनोरथान् पूरय पूरय
समुद्रादुत्तारयोत्तारय अरिष्टं भञ्जय भञ्जय रोधसि व्यापय व्यापय दुष्कर्माणि निकृन्तय
निकृन्तय कृत्यां कर्तय कर्तय ऐं ह्रीं श्रीं हसकलरडरसहरैं हसकलरडरसहरौंः
हसकलरडरसहरौंः हसकलरडरसहरैं हसकलरडरसहरीं क ए ई लह्रीं हसकहलह्रीं
सकलह्रीं ऐं ह्रीं श्रीं ह्सैं ह्स्क्लीं ह्सौंः त्रिपुरासिद्धे त्रिपुराम्बयोगेश्वरी कुलमहारूपे
अरुणावर्तमहारूपे हसक्षमलवरयूं हसक्षमलवरयीं सकलनृपवश”न्करी सर्वसम्पत्तिपूरिणी
सर्वैश्वर्यप्रदे सर्वदुःखहारिणी सर्वसुखदायिनी हसकलरडर सहरडैं हसकलरडर सहरडीं
हसकलरडरसहरडौः हसकलरडरसहरडौः हसकलरडरसहरडीं हसकलरडरसहरडैं क ए
ई ल ह्रीं हसकहलह्रीं सकलह्रीं ह ५ क ४ स ३

(प्. ३१) सर्वानन्दमये बिन्दुचक्रस्थे परब्रह्मस्वरूपिणी परशक्ते सर्वविद्यामये महाभैरवी
कलाकलिते सकलसर्वात्मिके बिन्दुचक्रात्मिके महाश्रीत्रिपुरे नमः स्वाहा ह्रीं ऐं ईं, इति
प्रस्तारसहस्राक्षरी सम्पूर्णमस्तु ।

इति प्रातःसन्ध्याविधिः ।

      अथ माध्याह्नसन्ध्यायामनाहते कादिठान्तार्णयुतेऽब्जके ह्लीं बीजं रक्तवर्णं
ध्यात्वा पूर्ववन्निःसार्य सूर्यमण्डलमध्यस्थां विचित्रां रक्तविग्रहां आरूढयौवनां
जपमालापुस्तकं वामे तथोत्तरे विभ्राणां च तथा वाममेव ध्यात्वा इमां जपेत् -

५ ह्रीं ह्सौं ह्रीं वामासन्ध्यायै ह्रीं ह्सौ ह्रीं श्रीपादुकां तर्पयामिनमः
पूर्ववत् तर्पणं कृत्वा स्वस्थाने विलयं नयेत् । इति माध्याह्नसन्ध्या ।

अथ सायंतनीं सन्ध्यां - भ्रूमध्ये वा ब्रह्मरन्ध्रे हं क्षं द्विवर्णयुते
वादिक्षान्तार्णयुतेऽब्जके ह्रौं बीजं स्वे(श्वे)तवर्णं ध्यात्वा पूर्ववन्निःसार्य

सोममण्डलमध्यस्थां स्वे(श्वे)तवर्णां चतुर्भुजाम् ।
बिभ्राणामभयं शूलं कपालं तर्जनीं तथा ॥

वामभागे च विभ्राणां वृद्धां नेत्रत्रयान्विताम् ।
विचित्रां भरणां रौद्रीं ध्यात्वा एतं मनुं जपेत् ॥

(प्. ३२) ह्रौं ह्सौं ह्रौं रौद्रीसन्ध्यायै ह्रौं ह्सौं ५ श्रीपादुकां तर्पयामि नमः पूर्व व
तर्पणं कृत्वा स्वस्थाने विलयं नयेत् । तां देवीं तन्मनुं पश्चान्मूल तेजसि संयोज्य
पूर्ववदुपस्थाय योनिमुद्रया प्रणमेत् । इति सन्ध्यात्रयविधिः ।

      सन्ध्यात्रयस्य ध्यानविशेषमाह -
      
      मूलाधारे पीतवर्णं वह्निमण्डलमध्यतः ।
      प्रातरवाग्भवकूटं तु जपे ध्याये तडित्प्रभाम् ॥

      मध्याह्ने कामराजाख्यं हृदये सूर्यमण्डले ।
      उद्यद् भानुसहस्राभं ध्यायन्मन्त्री समभ्यसेत् ॥

      सायं शक्तिकूटं चन्द्रमण्डलमध्यतः ।
      भ्रूमध्यं ब्रह्मरन्ध्रे वा जपे ध्यायन्समाहितः ॥

तद”न्गत्वेनान्नपूर्णां तद्दशाशं जपित्वा जपं समर्प्य, ततः प्रवाहाभिमुखो जलमानीय
तीर्थं नमस्कृत्य जलहस्तस्तोत्रं पठं नियतवचनो निजपदमात्रावलोकनो बाह्यजनानन्यान
स्पृशन्तनवलोकयन् संभाषयन् पूजाग्र(गृ)हं गच्छेत् ।

॥ इति श्रीमच्चिदानन्दनाथ विरचितायां स्वच्छन्दपद्धत्यां शौचाचमनस्नानसन्ध्याविधिर्नाम
द्वितीय स्पन्दः ॥ २ ॥




(प्. ३३) अथ यागग्रहं या या दालक्तक विभूषितम् ।
अनेकचित्रसुभगं भूमौ गोमयचर्चितम् ॥

उपरिष्ठोल्लसत्पुष्पमालाढ्यं धूपधूपितम् ।
दीपमालावलीरम्यं विकीर्णकुसुमोज्ज्वलम् ॥

तत्रागत्य यजेद् विद्वान् मौनीध्यानपरायणः ।
सर्वाभरणसम्पन्नं त्रिपुरापूजनग्रहम् ॥

त्रिपुरार्चामण्डपाय नमः । तत्र देहल्यग्रस्त्रिकोणवृत्तचतुरस्रमण्डलं विलिख्य तदुपरि अस्त्रमन्त्रेण
प्रक्षालितं साधारं सजलं ताम्रपात्रं संस्थाप्य

‘ऐं वह्निमण्डलाय धर्मप्रददशकलात्मने आधाराय नमः ।
क्लीं अर्कमण्डलाय अर्थप्रदद्वादशकलात्मने पात्राय नमः,
सौः सोममण्डलाय कामप्रदषोडशकलात्मने पात्रामृताय नमः ।’

प्रणवेन गन्धपुष्पाक्षतान् निक्षिप्य, धेनुमुद्रां प्रदर्श्य, तेन जलेन ‘सौः अस्त्राय फट्’
इति द्वारमभ्युक्ष्य द्वारदेवताः पूजयेत् । ‘ओं पूजागृहद्वाराय नमः ऊर्ध्वे, ओं द्वां
द्वारश्रियै नमः । द्वारस्य दक्षिणशाखायां ओं गं गणपतये नमः, ओं गुं गुरुभ्यो नमः ।
वामशाखायां ओं सं सरस्वत्यै नमः ओं दुं दुगायै नमः । अधः ओं देहल्यै नमः इति
द्वारपूजां कृत्वा मूलविद्यां स्मरन्

पाषाण्डकारिणो भूता भूमौ ये चान्तरिक्षगाः ।
दिवि लोके स्थिता ये च ते नश्यन्तु शिवाज्ञया ॥

पार्ष्णिघातकरा स्फोट समुद्रं चितवज्रकैः ।
तालत्रयमथो दद्यात् सशब्दं सम्प्रदायतः ॥

वामा”न्गस”न्कोचनेन दक्षिणपादपुरःसरं गृहान्तः प्रविश्यार्घ्यतोयेन मण्डपादीन् प्रोक्ष्य नै-
ऋत्यां दिशि ओं वास्त्वधिपतये ब्रह्मणे नमः । इति ब्रह्माणमभ्यर्च्य

तीक्ष्णदंष्ट्रमहाकाय कल्पान्तज्वलनोपम ।
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥

(प्. ३५) इति भैरवानुज्ञां प्राप्य जपस्थानं विशोधयेत् । मूलविद्यया निरीक्ष्यास्त्रेण प्रोक्ष्य ततो
द्वारमाच्छाद्य वेदिकायां व्याघ्राजिनकुशरक्तवस्त्रचित्रकम्बलाद्यन्यतमं वास्तीर्य
मूलेनासनमभ्युक्ष्य तत्र कर्णिका केसराष्टदलचतुरस्रात्मकं मातृकाब्जं विलिख्य

‘ओं ह्रीं आधारशक्तिकमलासनाय नम’

 इत्यासनमभिमन्त्र्य तस्मिन् स्वस्तिकादिक्रमेण प्रा”न्मुखोद”न्मुखो वोपविश्य, स्वपुरतः प्रक्षालित
पीठोपरि स्वर्णादिनिर्मितं श्रीचक्रं संस्थाप्य तस्मिन् वक्ष्यमाणक्रमेण समस्तयोगिनीचक्रविद्यान्ते
शक्तिकामवाग्भवकूटमुच्चार्य मणिमुक्तादिकं वा पुष्पं निक्ष्यप्य गन्धपुष्पाक्षतादीन्
स्वदक्षभागे निधाय

सुवासिताम्बुसम्पूर्णं सव्ये कुम्भं सुशोभनम् ।
दीपांस्तु परितः स्थाप्य पुरतः साधनान्तरम् ॥

प्रक्षालनाय करयोः पात्रं पश्चात् निधापयेत् ।

ततः कृताञ्जलिपुटो भूत्वा स्वशिरसि श्वेतसहस्राराख्याम्बुजोदर-मध्यगतपूर्णेन्दुबिम्बमध्ये
पादुकामन्त्रेण स्वगुरुचरणारविन्दं प्रणमेत् । वामे ओं गुं गुरुभ्यो नमः । (प्. ३६) दक्षे ओं
गं गणपतये नमः । पुरतः ओं श्रीपरदेवतायै नमः । ओं सौः अस्त्राय फट्, इति
करशुद्धिमात्मरक्षार्थं तालत्रयं स्फोटनमुद्रया दशदिग्बन्धनं विधाय

‘ओं त्रैलोक्यं रक्ष रक्ष हुं फट् स्वाहा’

 इत्यग्निप्राकारं स्वपरितो विचिन्त्य भूतशुद्धिं कुर्यात् । तद्यथा -

मूलाधाराद”न्गुलादूर्ध्वं वर्तुलं चतुर”न्गुलं चतुरस्रवसान्तवर्णाश्रितं चतुर्दलप”न्कजं
सकसरं पीतवर्णं ध्यात्वा तत्कर्णिकायां सोमसूर्याग्निमयं त्रिकोणं रक्तवर्णं
स्वाभिमुखं विभाव्य तन्मध्ये जपाबन्धूकसन्निभं ‘सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम्’
सत्त्वरजस्तमोगुणाक्रान्तं कामाख्यं बिन्दुं सञ्चिन्त्य तदूर्ध्वे कुण्डलनीशक्तीं चिद्रूपां
सर्वविद्यास्वरूपां तडित्कोटिप्रभादीप्तां विसतन्तुतनीयसी प्रसुप्तभुजगाकारां सार्धत्रिवलयेन
स्थितां ध्यात्वा हुंकारेण मानो दण्डेनाहातां कृत्वोत्थाप्यूर्ध्वपवनो गुरूपदिष्टविधिना
मूलाधारादिषट्चक्रभेदक्रमेण सुषुम्नान्तर्गत चित्रनाड्यां तां कुण्डलिनीं
शिरस्थिताधोमुखशुक्लसहस्रदलकर्णिकामध्यगत वात्मकं (प्. ३७) पूर्णचन्द्रं जयेत् ।
ततस्तस्माद्विगलदमृतधारया वर्णमय्यां कुण्डलिनीं सन्तर्प्य पुनः सुधास्रोतस्वरूपिणीं
अकुलामृतरूपेण सुषुम्नान्तर्गताधारवर्णधातुदेवताभिः स्वाहा
प्लावयन्तीमाज्ञादिषट्चक्रसृष्टिक्रमेण तां कुण्डलिनीं मूलाधारं नीत्वा तथैव स्थापयेत् ।

आधारपद्मवनखेलन राजहंसीमन्तर्महागगन वासवचापरेखाम् ।
आनन्दविद्युतमन”न्गरिपो पुरन्ध्रीमाब्रह्मविष्णुजननीमभिवादये त्वाम् ॥

आनन्दवल्मीकमहाभुज”न्गीमाकाशकासारविहार हंसीम् ।
आपारणीयां मणिदीपरेखामाब्रह्म विश्राणनकल्मवल्लीम् ॥

प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणे त्वमृतायमानाम् ।
अन्तःपदव्यामनुसञ्चरन्तीमानन्दमुद्रामलोकयामः ॥

अथ मन्त्रयोगः । मूलाधारे वह्निमण्डले वाग्भवकूटं स्फुरत्तडिल्लताभं
पीतवर्णमनाहतपर्यन्तं प्राप्तं नाद शिखं ध्यात्वा अनाहते सूर्यमण्डले कामराजकूटं
स्फुरद्बालार्कवर्णं आज्ञापर्यन्तं प्राप्तनादशिखं ध्यात्वा आज्ञाचक्रे (प्. ३८) सोममण्डले
शक्तिकूतं पूर्णचन्द्रसमप्रभं कामराजशिखासंज्ञं
ब्रह्मरन्ध्रान्तर्गतचिच्चन्द्रमण्डलपर्यन्तं प्राप्तनादशिखं ध्यात्वा ततः पूर्णविद्यां
त्रिकूटात्मिकां मूलादिब्रह्मरन्ध्रान्तां विसतन्तु तनीयसी ।

उद्यदादित्यरुचिरां स्मरेदशुभशान्तये ॥

सोहमिति संयोज्य, लं ब्रह्मानिवृत्ति घ्राणमण्डोपस्थानन्दादिसहितं पृथ्वीतत्त्वम् नियोजयामि ।
पादादिजानुपर्यन्तं व्यापयन् पृथ्वीतत्त्वमप्तत्वे विलापयामि । वं विष्णुप्रतिष्ठा जिह्वाख्य(?)
पायुविसर्गादिसहितमप्तत्वं तेजसि नियोजयामि । जान्वादिनाभिपर्यन्तं व्यापयन्नप्ततत्त्वं तेजसि
विलापयामि । रुं रुद्रविद्यानेत्ररूपपादगमनादिसहितं तेजस्तत्त्वं वायौ नियोजयामि ।
नाभ्यादिहृदयपर्यन्तं व्यापयन् तेजस्तत्त्वं वायौ विलापयामि ।
यमीश्वरशान्तित्वक्स्पर्शपाण्यादानादिसहितं वायुतत्त्वमाकासे नियोजयामि ।
हृदादिभ्रूमध्यपर्यन्तं व्यापयन् वायुतत्त्वमाकाशे विलापयामि । ह्सौः सदाशिव
शान्त्यतीतश्रोत्रशब्दवाग्वचनादिसहितमाकाशतत्त्वमह”न्कारे नियोजयामि । भ्रुवादिब्रह्मरन्ध्रान्तं
(प्. ३९) व्यापयन्नाकाशतत्त्वमह”न्कारे विलापयामि । तमह”न्कारमहतत्वे तन्महतत्वं प्रकृतौ ।
तां प्रकृतिं परब्रह्मणि प्रविलापयामि । सर्वं परमात्मनि विलापय्य मनसा प्राणायामक्रमेण
स पापपुरुषं

ब्रह्महत्या शिरस्कं च स्वर्णस्तेय भुजद्वयम् ।
सुरापानहृदायुक्तं गुरुतल्म कटिद्वयम् ॥

तत्संसर्गिपदद्वन्द्वम”न्गप्रत्य”न्गपातकम् ।
उपपातकरोमाणं रक्तश्मश्रु विलोचनम् ॥

खड्गचर्मधरं पाणाव”न्गुष्ठपरिमाणकम् ।
अधोमुखं कृष्णवर्णं कुक्षौ पापं विचिन्तये ॥

इति सार्द्धश्लोकद्वयेन ध्यात्वा यं बीजेन शोषितं मत्वा रंबीजेन दग्धं विचिन्त्य वं
बीजेनामृतवृष्टिं निपात्य लं बीजेन दिव्यशरीरमुत्पन्नं विभाव्य हं बीजेन चैतन्यं विचिन्त्य
सृष्टिक्रमेण ब्रह्मरन्ध्रादिकण्ठान्तं कण्ठादिहृदयान्तं हृदयादिन्या(ना)भ्यन्तं
नाभ्यादिजान्वन्तं जान्वादिपादान्तं क्रमेण (प्. ४०) हं यं रं लं वं
पाञ्चभौतिकवर्णैर्व्याप्याकाशवायुवह्नि सलिलपृथ्वीमयं स्वमूर्धादिपादान्तं व्यापयन्
परमात्मनः सकाशात् प्रकृतिः प्रकृतेर्महान्महतोऽह”न्कारः अह”न्कारादाकाशतत्त्वमुत्पन्नं
ह्सौंः सदाशिवशान्त्यतीतश्रोतशब्दवाग्वचनादिसहितमाकाशत्त्वम्-उत्पादयामि । शिरादिकण्ठान्तं
व्यापयामि । ततः आकाशाद्वायुतत्त्वम्-उत्पादयामि । यमीश्वरशान्तित्वक् स्पर्शपाण्यादानादिसहितं
वायुतत्त्वमुत्पादयामि । कण्ठादिहृदयान्तं व्यापयामि । ततो वायोरग्नितत्त्वमुत्पादयामि । रं
रुद्रविद्या नेत्ररूपपादगमनादिसहितं तेजस्तत्त्वमुत्पा० । हृदादिनाभ्यन्तं व्यापयामि ।
ततोऽग्नेरप्तत्त्वम्-उत्पादयामि । वं विष्णुप्रतिष्टा जिह्वा रसपायुविसर्गादिसहित तमप्तत्त्वम्-उत्पादयामि
। नाभ्यादिजानुपर्यन्तं व्यापयामि । ततः सलिलात् पृथ्वीतत्त्वम्-उत्पादयामि । लं
ब्रह्मनिवृत्तिघ्राणगण्डोपस्थानन्दादिसहितं पृथ्वीतत्त्वमुत्पादयामि । जान्वादिपादपर्यन्तं
व्यापयामि । इति भूतशुद्धिः ।

अथ धातुप्रतिष्ठा । तत्रादौ कण्ठे विशुद्ध्या(त्ध्या)ख्यं चक्रं अकारादिविसर्जनीयान्तं
स्वरोपेतं षोडशदलोपेतं धूम्रवर्णं तन्मध्ये डाकिनीं पूर्ववत् प्रतिष्ठापयेत् । हृदये
अनाहताख्यं चक्रं द्वादशदलपद्मं कादिठान्तार्णसहितं धूम्रवर्णं तन्मध्ये राकिलीं
पूर्ववत् प्रतिष्ठापयेत् । नाभौ मणिपूरकाख्यं चक्रदशदलपद्मं डादिफान्तार्णसहितं
इन्द्रनीलनिभं तन्मध्ये लाकिनीं पूर्ववत् प्रतिष्ठापयेत् । लि”न्गे स्वाधिष्ठानचक्रं षड्दलं
पद्मं बादिलान्तार्णसहितं बालार्कवर्णं तन्मध्ये काकिनीं पूर्ववत् प्रतिष्ठापयेत् ।
मूलाधारे चतुर्दलं पद्मं वादिसान्तार्णसहितं रक्तवर्णं तन्मध्ये शाकिनीं पूर्ववत्
प्रतिष्ठापयेत् । भ्रूमध्ये आज्ञाख्यं चक्रं द्विदलं पद्मं हं क्षं वर्णद्वयोपेतं
शुभ्रवर्णं तन्मध्ये हाकिनीं पूर्ववत् प्रतिष्ठापयेत् । हंस इति मन्त्रेण परमात्मनः सकाशात्
जीवात्मानं हृदयकमलमानीय मूलाधारे कुण्डलिनीं पूर्ववत् प्रतिष्ठापयेत् । इति धातुप्रतिष्ठा ।

अथ प्राण प्रतिष्ठा । अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मा ऋषिः विराट्छन्दः
प्राणशक्तिर्देवता आं बीजं ह्रीं शक्तिः क्रों कीलकं मम (प्. ४२) प्राणप्रतिष्ठापने विनियोगः ।
      हृदये एवं त्वचि ह्रीं यं ह्रीं नमः रक्ते,
      ह्रीं रं ह्रीं नमः मांसे,
      ह्रीं लं ह्रीं नमः मेदसि,
      ह्रीं वं ह्रीं नमः अस्थिनि,
      ह्रीं शं ह्रीं नमः सज्जायाम्,
      ह्रीं षं ह्रीं नमः शुक्ले (क्रे),
      ह्रीं सं ह्रीं नमः इति विन्यस्य यं रं अ”न्गुष्ठा०, रं लं तर्जनी०, लं बं (वं)
मध्य०, वं शं अना०, शं षं कनि०, षं सं कर० । एवं हृदयादि षड”न्ग । ध्यानम् -

ध्यायेद्देवीं प्राणशक्तिर्मरुणामरुणाम्बराम् ।
अरुणाक् मुकुटामरुणाधरपल्लवाम् ॥

अरुणायतनेत्राब्जयुगां चारु स्मिताननाम् ।
प्रसूतनपिण्डपाशं च दधानां पाणियुग्मतः ॥

इति ध्यात्वा मुद्राः प्रदर्शयेत् ।

ओं प्रसून पिण्डमुद्रां०,
ओं पाशमुद्रां०, ओं कीरीटमुद्रां०,
ओं मकरकुण्डलमुद्रां प्रद०,

पञ्चोपचारैः सम्पूज्य हृदयं स्पृष्ट्वा

ओं आं ह्रीं क्रों यं रं लं वं शं षं सं हों अमुष्य प्राण इह प्राणाः अमुष्य जीव
इह स्थितः अमुष्य सर्वेन्द्रियाणि अमुष्य वा”न्मनः प्राण इहा यां तु सुखं (प्. ४३) चिरं तिष्ठन्तु
स्वाहा, इति त्रिवारं जपेत् । पुनः पञ्चोपचारैः सम्पूज्य योनिमुद्रया प्रणमेदिति प्राणप्रतिष्ठा ।

॥ इति श्रीमच्चिदानन्दनाथ विरचितायां स्वच्छन्दपद्धत्यां भूशुद्धिभूतशुद्धिधातुप्रतिष्ठा
प्राणप्रतिष्ठाविधिर्नाम तृतीयस्पन्दः ॥ ३ ॥




(प्. ४४) ओं अस्य श्री मातृकान्यासस्य शब्दऋष्टिः विराट्छन्दः मातृकासरस्वती देवता हलों बीजानि
स्वराशक्तयः बिन्दवः कीलकं मम मातृका सरस्वती प्रसादसिद्ध्यर्थे श्रीविद्यानुष्ठानयोग्यता
सिद्ध्यर्थे न्यासे विनियोगः । ऋषये नमः शिर०, छन्दसे नमः मुखे, देवतायै नमः हृद०,
बीजाय नमः दक्षस्तने, शक्त्यै नमः वामस्तने, कीलकाय नमः नाभौ, विनियोगाय नमः
पादयोः ।

ओं अं कं ओं आं अ”न्गुष्ठा०, ओं इं चं ओं ईं तर्जनी०,
ओं उं टं ओं ऊं मध्यमा०, ओं एं तं ओं ऐं अना०,
ओं ओं पं ओं औं कनि०, ओं अं यं ओं अः करतल० । एवं हृदयादि इति न्य------ ध्यायेत् ।

तत्र कर्णिकाकेसराष्टदलचतुरस्रात्मकं स्वशिरसि मातृकाब्जं विचिन्त्य तत्कर्णिकायां
ह्सौंः तद्बहिः केसरेषु -------------- स्वरान् पत्राष्टकेषु कादीनष्टवर्गांश्चतुरस्रदिक्षु टकारं
विदिक्षु वकारं सञ्चिन्त्य तन्मध्ये मातृकां ध्यायेत् ।

महदपिमहमन्ये मातृकादिव्यरूपे सहद सहद बीजे सर्वतन्त्रप्रकाशे ।
महदपिमहनीये चोन्मनीशुद्धविद्ये सकृदपि मनसा त्वां ध्यायते यः स मुक्तः ॥

(प्. ४५) इति ध्यात्वा पञ्चोपचारैः सम्पूज्य न्यसेत् ।
अं नमः दक्षकरतले,
आं नमः वामकरतले,
इं नमः दक्षकरपृष्ठे,
ईं नमः वामकरपृष्ठे,
उं नमः दक्षकूर्परादिकराग्रान्तम्,
ओं नमः वामकूर्परादिक० ।

शिष्टान् दशस्वरान् दक्षरा”न्गुष्ठमारभ्य वामकरा”न्गुष्ठान्तं विन्यस्य कादिसान्तान्
वर्गवर्णा दक्षतर्जनीमारभ्य वामतर्जनीपर्यन्तं पर्वचतुष्टयेषु चतुरश्चतुरो वर्णान् विन्यस्य
हलाव”न्गुष्ठयोरित्य”न्गुलग्रेषु विन्यसेत् । इति भूतलिपिमातृकान्यासः ।

अर्थान्तर्मातृकाध्यानम् -

षट्चक्रान्तरसं गतां स्वरमयिं(यीं) वर्णात्मिकां चिन्मयीं
व्याप्तिव्यापकमन्त्रभावसुलभां ब्रह्मप्रबोधात्मिकाम् ।
सर्वाम्नायमयीं विचित्रवसनां माणिक्यभूषोज्वलां
तां वन्दे भवभीतिभञ्जनकरीमन्तर्महामातृकाम् ॥

इति ध्यात्वा पञ्चोपचारैः सम्पूज्य न्यसेत् । सूत्रम् -

(प्. ४६) आधारे लि”न्गनाभौ हृदयसरसिजे तालुमूले ललाटे
द्वै पत्रै षोडशारै द्विदशदशदले द्वादशार्द्धे चतुष्के ।
वासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वराणां
हंक्षं तत्वार्थयुक्तं सकलतनुमतं वर्णरूपं नमामि ॥

तत्र मूलाधारे चतुर्दलेषु

ओं वं नमः, ओं शं नमः, ओं षं नमः,
ओं सं नमः, इति प्रागादिन्यसेत् । स्वाधिष्ठाने षड्दलेषु

ओं बं नमः, ओं भं नमः, ओं मं नमः,
ओं यं नमः, ओं रं नमः, ओं लं नमः, इति प्रागादिन्यसेत् ।

नाभु मणिपूरे दशदलेषु

ओं डं नमः, ओं ढं नमः, ओं णं नमः,
ओं तं नमः, ओं थं नमः, ओं दं नमः,
ओं धं नमः, ओं नं नमः, ओं पं नमः,
ओं फं नमः, इति प्रागादिन्यसेत् ।

हृदये अनाहते द्वादशदलैषु

ओं कं नमः, ओं खं नमः, ओं गं नमः,
ओं घं नमः, ओं ङं नमः, ओं चं नमः,
ओं चं नमः, ओं छं नमः, ओं जं नमः,
ओं झं नमः, ओं ञं नमः, ओं टं नमः,
ओं ठं नमः, ओं इति प्रागादि न्यसेत् ।

कण्ठे विशुद्धे षोडशदलेषु

ओं अं नमः, ओं आं नमः, ओं इं नमः,
ओं ईं नमः, ओं उं नमः, ओं ऊं नमः,
ओं ऋं नमः, ओं ॠं नमः, ओं ऌं नमः,
ओं ॡं नमः, ओं एं नमः, ओं ऐं नमः,
(प्. ४७) ओं ओं नमः, ओं औं नमः, ओं अं नमः,
ओं अः नमः, इति प्रागादि न्यसेत् ।

भ्रूमध्ये आज्ञाचक्रे द्विदले

ओं हं नमः, ओं क्षं नमः, इति विन्यसेत् ।

इत्यन्तर्मातृकान्यासः ।

अथ बहिर्मातृकान्यासः । ध्यानम् -

पञ्चाशल्लिपिभिर्विभक्तमुखदोः मध्यवक्षस्थलां
भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतु”न्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजै
र्विभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये ॥

इति ध्यात्वा पञ्चोपचारैः सम्पूज्य न्यसेत् । सूत्रम् -

भाले वाक्त्रावृतौ नेत्रे श्रोत्रे नासा कपोलयोः ।
वोष्ठदन्तशिरो जिह्वास्त्वेकशो विन्यसेत् स्वरान् ॥

करयोः पादयोर्मूलमध्यसन्धितलाग्रतः ।
विन्यसेत् चतुरोवर्गा पञ्चमं पार्श्वपृष्ठतः ॥

(प्. ४८) नाभौ हृदि च विन्यस्य व्यापकान् दशधातुषु ।

भाले - अं नमः, मुखवृत्ते - आं नमः, दक्षनेत्रे - इं नमः,
वामनेत्रे - ईं नमः, दक्षश्रोत्रे - उं नमः, वामश्रोत्रे - ऊं नमः,
दक्षनासायाम् - ऋं नमः, वामनासायाम् - ॠं नः,
दक्षगण्डे - ऌं नमः, वामगण्डे - ॡं नमः, ऊर्ध्वोष्ठे - एं नमः, अधरोष्ठे - ऐं
नमः, ऊर्ध्वदन्ते - ओं नमः, अधोदन्ते - औं नमः, मूर्ध्नि - अं नमः, जिह्वायाम् - अः
नमः, दक्षस्कन्धे - कं नमः,
दक्षकूर्परे - खं नमः, दक्षबन्धे - गं नमः,
दक्षा”न्गुलिमूले - घं नमः, दक्षकरा”न्गुल्यग्रेषु - ङं नमः,
वामस्कन्दे - चं नमः, वामकूर्परे - छं नमः,
वाममणिबन्धे - जं नमः, वामा”न्गुलिमूले - झं नमः,
वामकरा”न्गुल्यग्रेषु - ञं नमः, दक्षोरुमूले - टं नमः,
दक्षजानौ - ठं नमः, दक्षगुल्फे - डं नमः,
दक्षपादा”न्गुलिमूले - ढं नमः, दक्षपादा”न्गुल्यग्रेषु - णं नमः,
वामोरुमूले - तं नमः, वामजानौ - थं नमः,
वामगुल्फे - दं नमः, वामपादा”न्गुलिमूले - धं नमः, वामपादा”न्गुल्यग्रेषु - नं नमः,
दशपार्श्वे - पं नमः,
वामपार्श्वे - फं नमः, पृष्ठे - बं नमः, नाभौ - भं नमः,
जठरे -मं नमः ।

हृदयादुपरिकण्ठान्तम् मुपर्युपरि न्यसेत् -

यं नमः, रं नमः, लं नमः, वं नमः,
शं नमः, (प्. ४९) षं नमः, सं नमः, हं नमः,
लं नमः, क्षं नमः, इति वर्गादिदशधातुबीजानि न्यसेत् । इति बहिर्मातृकान्यासः ।
एवं ध्यात्वा न्यसेत् पश्चा द्विधा न्यासं सुरेश्वरी ततो बालाद्यां मूलाद्यां -------------
-- कामाद्यां रमाद्यां सृष्टिं विधाय न्यसेत् -

ओं ३ ऐं क्लीं सौं अं नमः केशान्तमित्यादि, मूलं अं नमः केशान्तमित्यादि, ह्रीं अ नमः
क्लीं अं नमः श्रीं अं नमः ऐं ह्रीं श्रीं मध्यमादितलान्तम् ।
द्विरावृत्या अ”न्गुलिषु करशुद्धिः । अन्योन्य स्पर्शनाद्वामदक्षकरतलकर पृष्ठयोः ।

करशुद्धिकरी विद्यां मध्यमादितलान्तिकाम् ।
अ”न्गुलीषु द्विरावृत्या करशुद्धिरियं प्रिये ॥

      ओं ३ तत्रादौ केशवादिमातृकान्यासः । तत्र साध्यनारायण ऋषिः गायत्रीछन्दः
श्रीलक्ष्मीनारायणो देवता मम श्रीविद्या”न्गत्वेन न्यासे विनियोगः इति ऋष्यादिकं स्मृत्वा विन्यस्य
करा”न्गन्यासं कुर्यात् । तद्यथा - ओं श्री ओं नमो नारायणाय (प्. ५०) हंसः सोहं अं कं
खं गं घं ङं आं ह्रीं हंसः सोहं ओं नमो नारायणाय द्धोल्काय स्वाहा श्रीदेव्यै
हृदयाय नमः, ओं श्रीं ओं नमो नारायणाय हंसः सोहं इं चं छं जं झं ञं ईं
ह्रीं हंसः सोऽहं ओं नमो नारायणाय महोल्काय स्वाहा श्रीं पद्मिन्यै नमः शिरसे स्वाहा,
ओं श्रीं ओं नमो नारायणाय हंसः सोहं ठं टं ठं डं ढं णं ऊं ह्रीं हंसः
सोहं ओं नमो नारायणाय वीरोल्काय स्वाहा श्रूं विष्णुपत्न्यै शिखायै वषट्, - ओं श्रीं ओं नमो
नारायणाय हंसः सोहम् एं तं थं दं धं नं ऐं ह्रीं हंसः सोहं ओं नमो
नारायणाय विद्युदुल्काय स्वाहा श्रैं वरदायै कवचाय हुं, - ओं श्रीं ओं नमो नारायणाय
हंसः सोहं ओं (ओं) पं फं बं भं मं औं ह्रीं हंसः सोहं ओं नमो नारायणाय
सहस्रोल्काय स्वाहा श्रीं कामकमलरूपायै नेत्रत्रयाय वौषट्, - ओं श्रीं ओं नमो नारायणाय
हंसः सोहं अं यं रं लं वं शं षं सं हं लं क्षं अः ह्रीः हंसः सोहं ओं
नमो नारायणाय अनन्तोल्काय स्वाहा श्रः शूलिन्यै अस्त्राय फट् इति
षड”न्गमन्त्रान”न्गुष्ठदितलान्तं करयोर्विन्यस्य हृदयादिषु षड”न्गेषु विन्यस्य ध्यायेत् -

विद्यारविन्दमुकुरामृतकुम्भपद्म कौमोदकीदरसुदर्शनशोभिहस्तम् ।
सौदामिनी मुदरकान्तिविभाति लक्ष्मीनारायणात्मकमखण्डितम्-आत्ममूर्तेः ॥

(प्. ५१) वपुरिति शेषः । वामाधः करमारभ्य दक्षाधः करपर्यन्तमायुधध्यानम् ।
मुकुरोदर्पणः दरः श”न्खः इति ध्यात्वा न्यसेत् -

ओं ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं अं क्लीं श्रीं ह्रीं केशवाय कीर्त्यै नमः ललाटे,
४ ह्रीं श्रीं क्लीं आं क्लीं श्रीं ह्रीं नारायणाय कान्त्यै नमः मुखे,
४ ह्रीं श्रीं क्लीं इं क्लीं श्रीं ह्रीं माधवाय तुष्ट्यै नमः दक्षनेत्रे,
४ ह्रीं श्रीं क्लीं ईं क्लीं श्रीं ह्रीं गोविन्दाय पुष्ट्यै नमः वामनेत्रे, ४ ह्रीं श्रीं क्लीं उं
क्लीं श्रीं ह्रीं विष्णवे धृत्यै नमः दक्षकर्णे ।

एवं प्रणवत्रितारादित्रिबीजसम्पुटं च सर्वत्र

४ ऊं मधुसूदनाय शान्त्यै नमः वामकर्णे,
४-३ ऋं ३ त्रिविक्रमाय क्रियायै नमः दक्षनासापुटे,
४-३ ॠं ३ वामनाय दयायै नमः वामनासापुटे,
४-३ ऌं ३ श्रीधरायै मेधायै नमः दक्षगण्डे,
४-३ ॡं ३ हृषीकेशाय हषायै नमः वामगण्डे,
४-३ एं ३ पद्मनाभाय श्रद्धायै नमः ऊर्ध्वोष्ठे,
४-३ ऐं ३ दामोदराय लज्जायै नमः अधरोष्ठे,
४-३ ओं ३ वासुदेवाय लक्ष्म्यै नमः ऊर्ध्वदन्तप”न्क्तौ,
४-३ औं ३ स”न्कर्षणाय सरस्वत्यै नमः अधोदन्तप”न्क्तौ,
४-३ अं ३ प्रद्युम्नाय प्रीत्यै नमः मस्तके,
४-३ अः ३ अनिरुद्धाय रत्यै नमः ग्रीवायाम्,
४-३ कं ३ चक्रिणे जयायै नमः -----------------,
४-३ खं ३ गदिने दुर्गायै नमः,
४-३ गं ३ शार्”न्गिणे प्रभायै नमः,
४-३ घं ३ खड्गिने सत्यायै नमः,
४-३ ङं ३ श”न्खिणे चण्डायै नमः दक्षबाहुमूलसन्ध्यग्रेषु,
४-३ चं ३ हलिने बाण्यै नमः,
(प्. ५२) ४-३ छं ३ मुसलिने विलासिन्यै नमः,
४-३ जं ३ शूलिने विजयायै नमः,
४-३ झं ३ पाशिने विरजायै नमः,
४-३ ञं ३ अ”न्कुशिने विश्वायै नमः वामभुजमूलसन्ध्यग्रेषु,
४-३ टं ३ मुकुन्दायविनन्दायै,
४-३ ठं ३ नन्दजाय सुनन्दायै नमः,
४-३ डं ३ नन्दिने स्मृत्यै नमः,
४-३ ठं ३ नराय ऋद्ध्यै नमः,
४-३ णं ३ नरकजिते समृद्ध्यै नमः दक्षपादमूलसन्ध्यग्रेषु,
४-३ तं ३ हरये शुद्ध्यै नमः,
४-३ थं ३ कृष्णाय बुद्ध्यै नमः
४-३ दं ३ सत्याय भूत्यै नमः
४-३ धं ३ सात्वताय मत्यै नमः
४-३ नं ३ शौरये क्षमायै नमः वामपादमूलसन्ध्यग्रेषु,
४-३ पं ३ शूराय परमायै नमः दक्षपार्श्वे,
४-३ फं ३ जनार्दनाय उमायै नमः वामपार्श्वे,
४-३ बं ३ भूधराय क्लेदिन्यै नमः पृष्ठे,
४-३ भं ३ विश्वमूत्तये क्लिन्नायै नमः नाभौ,
४-३ मं ३ वैकुण्ठाय वसुधायै नमः उदरे,
४-३ यं ३ त्वगात्मने पुरुषोत्तमाय वसुदायै नमः हृदि,
४-३ रं ३ असृगात्मने बलिने परायै नमः दक्षांसे,
४-३ लं ३ मासात्मने बलानुजाय परायणायै नमः ककुदि,
४-३ वं ३ मेदात्मने वलाय सूक्ष्मायै नमः वामांसे,
४-३ शं ३ अस्थ्यात्मने वृषघ्नाय सन्ध्यायै नमः हृदादिदक्षकरे,
४-३ षं ३ मज्जात्मने वृषाय प्रज्ञायै नमः हृदादिवामकरे,
४-३ सं ३ शुक्लात्मने हंसाय प्रभायै नमः हृदादिदक्षपादे,
४-३ हं ३ प्राणात्मने वराहाय निशायै नमः हृदादिवामपादे,
(प्. ५३) ४-३ लं ३ शक्त्यात्मने विमलाय आधारायै नमः हृदाद्युदरे,
ओं ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं क्षं क्लीं श्रीं ह्रीं परमात्मने नृसिंहाय विद्युतायै नमः
हृदादिमुखे । एता मूर्तिशक्तयो मातृकास्थानेषु न्यस्तव्याः ।

केशवाद्या इमे श्यामाः श”न्खचक्रलसत्कराः ।
शक्तय रक्तप्रिया”न्केषु निषण्णा विस्मिताननाः ॥

विद्युद्दामसमानाग्यः प”न्कजा भय बाहवः ।

इति ध्यात्वा । इति केशवादिमातृकान्यासः ।

अथ श्रीकण्ठादिमातृकान्यासः । तत्र दक्षिणामूर्ति ऋषिः गायत्री छन्दः श्री-अर्धनारीश्वरो देवता
श्रीविद्या”न्गत्वेन न्यासे विनियोगः

इति ऋष्यादि स्मृत्वा विन्यस्य ‘ओं ऐं ह्रीं श्रीं अं कं खं गं घं ङं आं ह्सां हृदयाय
नमः,
४ इं चं छं जं झं ञं ईं ह्सीं शिरसे स्वाहा,
४ उं टं ठं डं ढं णं ऊं ह्सुं शिखायै वषट्,
४ एं तं थं दं धं नं ऐं ह्सैं कवचाय हुं,
४ ओं पं फं बं भं मं औं ह्सौं नेत्रत्रयाय वौषट्,
४ अं यं रं लं वं शं षं सं हं लं क्षं अः हस्ः अस्त्राय फट्, इति करषड”न्गेषु
विन्यस्य

बन्धूककाञ्चननिभं रुचिराक्षमालां
पाशा”न्कुशौ च वरदं निजबाहुदण्डैः ।
विभ्राणमिन्दुशकलाभरणं त्रिनेत्रम्
अर्धाम्बिकेशमनिशं वपुराश्रयामः ॥

(प्. ५४) दक्षाधः करमारभ्य दक्षोर्ध्वकरपर्यन्तं आयुधध्यानम् । न्यसेत् -

ओं ऐं ह्रीं श्रीं ह्सौं अं श्रीकण्ठेशाय पूर्णोदर्यै नमः लालाटे,
४ ह्सौं आं अनन्तेशाय विरजायै नमः मुखे, एवं
४ ह्सौंः इं सूक्ष्मेशाय शाल्मल्यै नमः दक्षनेत्रे,
४ ह्सौं ईं त्रिमूर्तीशाय लोलाक्ष्यै नमः वामनेत्रे,
४ ह्सौं उं अमरेशाय वर्तुलाक्ष्यै नमः दक्षकर्णे,
४ ह्सौं ऊं अर्घीशाय दीर्घघोणायै नमः वामकर्णे,
४ ह्सौं ऋं भरभूतीशाय सुदीर्घमुख्यै नमः दक्षनासापुटे,
४ ह्सौं ॠं अतिथीशाय गोमुख्यै नमः वामनासापुटे,
४ ह्सौं ऌं स्थाण्वीशाय दीर्घजिह्वायै नमः दक्षगण्डे,
४ ह्सौं ॡं हरेशाय कुण्डोदर्यै नमः वामगण्डे,
४ ह्सौं एं झण्टीशाय ऊर्ध्वकेश्यै नमः ऊर्ध्वोष्ठे,
४ ह्सौं ऐं भौतिकेशाय विकृतमुख्यै नमः अधरोष्ठे,
४ ह्सौं ओं सद्योजातेशाय ज्वालामुख्यै नमः ऊर्ध्वदन्तप”न्क्तौ,
४ ह्सौं औं अनुग्रहेशाय उल्कामुख्यै नमः अधोदन्तप”न्क्तौ,
४ ह्सौं अं अक्रूरेशाय श्रीमुख्यै नमः मस्तके,
४ ह्सौं अः महासेनेशाय विद्यामुख्यै नमः ग्रीवायाम्,
४ ह्सौं कं क्रोधीशाय महाकाल्यै नमः
४ ह्सौं खं चण्डेशाय सरस्वत्यै नमः
४ ह्सौं गं पञ्चान्तकेशाय सर्वसिद्धिगौर्यै नमः
४ ह्सौं घं शिवोत्तमेशाय त्रैलोक्यविधायै नमः
४ ह्सौं ङं एकरुद्रेशाय मन्त्रशक्त्यै नमः दक्षभुजमूलसन्ध्यग्रेषु,
(प्. ५५) ४ ह्सौं च कूर्मशाय आत्मशक्त्यै नमः
४ ह्सौं छं एकनेत्रेशाय भूतमात्रे नमः
४ ह्सौं जं चतुराननेशाय लम्बोदर्यै नमः
४ ह्सौं झं अजेशाय द्राविण्यै नमः
४ ह्सौं ञं सर्वेशाय नागर्यै नमः वामभुजमूलसन्ध्यग्रेषु,
४ ह्सौं टं सोमेशाय खेचर्यै नमः
४ ह्सौं ठं ला”न्गलीशाय मञ्जर्यै नमः
४ ह्सौं डं रुद्रकेशायरूपिण्यै नमः
४ ह्सौं ढं अर्धनारीश्वराय वीरिण्यै नमः
४ ह्सौं णं उमाकान्तेशाय काकोदर्यै नमः दक्षपादमूलसन्ध्यग्रेषु,
४ ह्सौं तं आषाढीशाय पूतनायै नमः
४ ह्सौं थं दण्डीशाय भद्रकाल्यै नमः
४ ह्सौं दं अत्रीशाय योगिन्यै नमः
४ ह्सौं धं मीनेशाय श”न्खिन्यैः नमः
४ ह्सौं नं मेषेशाय गर्जिन्यै नमः वामपादमूलसन्ध्यग्रेषु,
४ ह्सौं पं लोहितेशाय कालरात्र्यै नमः दक्षपार्श्वे,
४ ह्सौं फं शिखीशाय कुब्जिन्यै नमः वामपार्श्वे,
४ ह्सौं बं छगलण्डेशाय कपर्दिन्यै नमः पृष्ठे,
४ ह्सौं भं द्विरण्डेशाय वज्रायै नमः नाभौ,
४ ह्सौं मं महाकालेशाय जयायै नमः उदरे,
४ ह्सौं यं त्वगात्मने बालीशाय सुमुख्यै नमः हृदि,
४ ह्सौं रं असृगात्मने भुज”न्गेशाय रेवत्यै नमः दक्षांसे,
४ ह्सौं लं मांसात्मने पिनाकीशाय माधव्यै नमः ककुदि,
४ ह्सौं वं मेदात्मने खड्गीशाय वारुण्यै नमः वामांसे,
४ ह्सौं शं अस्थ्यात्मने बकेशाय वायव्यै नमः हृदादिदक्षकरे,
४ ह्सौं षं मज्जात्मने श्वेतेशाय रक्षो विदारिण्यै नमः हृदादिवामकरे,
४ ह्सौं सं भुक्तात्मने भृग्वीशाय सहजायै नमः हृदादिदक्षपादे,
४ ह्सौं हं प्राणात्मने नकुलीशाय महालक्ष्म्यै नमः
हृदादिवामपादे,
४ ह्सौं लं शक्त्यात्मने शिवेशाय व्यापिन्यै नमः हृदाद्युदरे,
४ ह्सौं क्षं परमात्मने संवर्तेशाय महामायायै नमः
हृदादिमुखे, इति मातृकास्थानेषु न्यसेत् ।

ओं ऐं ह्रीं श्रीं क्लीं सौः आत्मासनाय नमः - पादयोः,
४ हैं ह्स्क्लीं हसौः चक्रासनाय नमः - जङ्घयो,
४ ह्सैं ह्स्क्लीं ह्सौः सर्वमन्त्रासनाय नमः - जान्वोः,
४ ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः - लिङ्गेऽ इति चतुरासनन्यासः ।
ओं ऐं ह्रीं श्रीं अं आं सौः त्रिपुरार्णवासनाय नमः - पादयोः,
ओं ३ ऐं क्लीं सौः त्रिपुरेश्वरी पीताम्बुजासनाय नमः - जङ्घयोः,
ओं ३ ह्रीं क्लीं सौः आत्मासनाय नमः - जान्वोः,
ओं ३ हैं ह्स्क्लीं ह्सौः चक्रासनाय नमः - स्फिजौ,
ओं ३ ह्सैं ह्स्क्लीं ह्सौः सर्वमन्त्रासनाय नमः - गुह्ये,
ओं ३ ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः - मूलाधारे, इति षडासनन्यासः ।

ओं अस्याः श्रीश्रीविद्याषोडशाक्षरी महामन्त्रस्य दक्षिणामूति-ऋषिः शिरसि,
(प्. ५७) पंक्तिछन्दसे नमः - मुखे,
श्रीमहात्रिपुरसुन्दरी देवतायै नमः - हृदि,
ओं ऐं ह्रीं श्रीं ऐं क ए ई ल ह्रीं बीजाय नमः - गुह्ये,
ओं ३ सौं सकल ह्रीं शक्तये नमः - पादयोः,
ओं ३ क्लीं ह स क ह ल ह्रीं कीलकाय नमः - नाभौ,
सर्वाङ्गे मम साम्बशिवप्रित्यर्थे जपे विनियोगः - करसम्पुटे ।

ओं ऐं ह्रीं श्रीं ऐं क ए ई ल ह्रीं - नाभ्यादिपादान्तम्,
ओं ३ क्लीं हसकहलह्रीं मलादिनाभ्यन्तम्,
ओं ३ सौः सकलह्रीं - मूर्धादिकण्ठान्तम्,
ओं ३ ऐं क ए ई ल ह्रीं - दक्षकरतले,
ओं ३ क्लीं हसकहलह्रीं - वामकरतले,
ओं ३ सौः सकलह्रीं - हृदये,
ओं ३ ऐं क ए ई ल ह्रीं - दक्षपाणिमणिबन्धे,
ओं ३ क्लीं हसकहलह्रीं - तले,
ओं ३ सकल ह्रीं - अग्रे, ओं ३ ऐं क ए ई ल ह्रीं - वामपाणिमणिबन्धे,
ओं ३ क्लीं हसकहलह्रीं - तले, ओं ३ सौः सकलह्रीं - अग्रे,
ओं ३ ऐं क ए ई ल ह्रीं - दक्षकक्षायाम्,
ओं ३ क्लीं हसकहलह्रीं - कूर्परे,
ओं ३ सौः सकलह्रीं - हस्ते, ओं ३ ऐं क ए ई ल ह्रीं - वामकक्षायाम्,
ओं ३ क्लीं ह स क ह ल ह्रीं कूर्परे, ओं ३ सौः सकलह्रीं - हस्ते इति हस्तद्वये,

ओं ३ ऐं क ए ई ल ह्रीं - दक्षपादगुल्फे, ओं ३ क्लीं हसकहलह्रीं - तले,
ओं ३ सौः सकलह्रीं - अग्रे, ओं ३ ऐं क ए ई ल ह्रीं - वामपादगुल्फे,
ओं ३ क्लीं हसकहलह्रीं - तले, ओं ३ सौः सकलह्रीं - अग्रे,
ओं ३ ऐं क ए ई ल ह्रीं - दक्षपादमूले,
(प्. ५८) ओं ३ क्लीं हसकहल ह्रीं - ऊरौ, ओं ३ सौः सकल ह्रीं - जानुनि,
ओं ३ ऐं क ए ई ल ह्रीं - वामपादमूले, ओं ३ क्लीं हसकहल ह्रीं - ऊरौ,
ओं ३ सौः सकलह्रीं - जानुनि - ।

एवमङ्गेषु देवेशि संहारक्रमतो न्यसेत् ।
विद्या सृष्टिक्रमेणैव जाना हि परमेश्वरी ॥

ओं ऐं ह्रीं श्रीं ऐं - सर्वज्ञतायै हृदयाय नमः,
क्लीं नित्यतृप्तायै शिरसे स्वाहा, सौः अनादिबाधतायै शिखायै वषट,
ऐं स्वतन्त्रतायै कवचाय हुं, क्लीं नित्यमलुप्ततायै नेत्रत्रयाय वौषट्,
सौः अनन्तशक्तितायै अस्त्राय फट् । इति षडङ्गः ।

ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः नमः श्रीमहात्रिपुरसुन्दरी मां रक्ष हृदयाय नमः,

ओं ३ ऐं क्लीं सौः नमः श्रीमहात्रिपुरसुन्दरी मां रक्ष शिरसे स्वाहा,

९ श्रीमहात्रिपुरसुन्दरी मां रक्ष शिखायै वषट्,

९ श्रीमहात्रिपुरसुन्दरी मां रक्ष कवचाय हुं,

९ श्रीमहात्रिपुरसुन्दरी मां रक्ष नेत्रत्रयाय वौषट्,

९ श्रीमहात्रिपुरसुन्दरी मां रक्ष अस्त्राय फट् इति षडङ्गान्तरम् ।

(प्. ५९) ओं ऐं ह्रीं श्रीं क ए ई ल ह्रीं श्रीमहात्रिपुरसुन्दरी सर्वज्ञताशक्तिधाम्ने हृदयाय
नमः,

४ हसकहल ह्रीं श्रीमहात्रिपुरसुन्दरी नित्यतृप्तताशक्तिधाम्ने शिरसे स्वाहा,

४ सकल ह्रीं श्रीमहात्रिपुरसुन्दरी बोधताशक्तिधाम्ने शिखायै वषट्,

४ क ए ई ल ह्रीं श्रीमहात्रिपुरसुन्दरी स्वतन्त्रताशक्तिधाम्न कवचाय हुं,

४ हसकहलह्रीं श्रीमहात्रिपुरसुन्दरी नित्यमलुप्तताशक्तिधाम्ने नेत्रत्रयाय वौषट्,

४ सकल ह्रीं श्रीमहात्रिपुरसुन्दरी अनन्तशक्तिधाम्ने अस्त्राय फट् ।

षडङ्गमाचरेद् देवी द्विरावृत्या क्रमेण च ।
त्रिद्वयेकदशक त्रिद्विसंख्यया शैलसम्भवे ॥

षडङ्गान्तरम् -

अस्त्राय फडिति मन्त्रमहोदधौ । मूलाधार-स्वाधिष्ठान-मणिपूर- अनाहत-विशुद्धि- आज्ञाचक्र-
ललाट- सीमन्त- ब्रह्मरन्ध्रेषु चतुरस्र वृत्ताः नवयोनीः स्वाभिमुखाः परिकल्प्य स्वाग्रादि
प्रादक्षिण्य क्रमेण प्रागुक्तबीजत्रयं मनसा ध्यायेत् ।

(प्. ६०) अथ पञ्चयोनिन्यासः -

मूर्ध्नि - ओं ऐं ह्रीं श्रीं क ए ई ल ह्रीं नमः,
गुह्ये - ४ हसकहलह्रीं नमः,
हृदि - ४ सकल ह्रीं नमः,
दक्षनेत्रे - ४ क ए ई ल ह्रीं नमः,
वामनेत्रे - ४ हसकहलह्रीं नमः,
ललाटे - ४ सकलह्रीं नमः,
दक्षश्रोत्रे - ४ क ए ई ल ह्रीं नमः,
वामश्रोत्रे - ४ हसकहलह्रीं नमः,
मुखे - ४ सकलह्रीं नमः,
दक्षभुजे - ४ क ए ई ल ह्रीं नमः,
वामभुजे - ४ हसकहलह्रीं नमः,
पृष्ठे - ४ सकलह्रीं नमः,
दक्षजानौ - क ए ई ल ह्रीं नमः,
वामजानौ - ४ हसकहलह्रीं नमः,
नाभौ - ४ सकलह्रीं नमः इति पञ्चयोनिन्यासः ।

अथ चतुस्तत्त्वन्यासः -

ओं ऐं ह्रीं श्रीं ऐं क ए ई ल ह्रीं नमः आत्मतत्त्वव्यापिकायै श्रीमहात्रिपुरसुन्दर्यै नमः
पादादिनाभ्यन्तं नाभ्यादिपादान्तं व्यापयेत् ।

४ क्लीं हसकहलह्रीं नमः विद्यातत्त्वव्यापिकायै श्रीमहात्रिपुरसुन्दर्यै नमः नाभ्यादिकण्ठान्तं
कण्ठादिनाभ्यन्तं व्यापयेत् ।

४ सौः सकलह्रीं नमः शिवतत्त्वव्यापिकायै श्रीमहात्रिपुरसुन्दर्यै नमः कण्ठादि शिरोन्तं
शिरादिकण्ठान्तं व्यापयेत् ।

४ ऐं क ए ई ल ह्रीं क्लीं हसकहलह्रीं सौः सकलह्रीं नमः सर्वतत्त्वव्यापिकायै
श्रीमहात्रिपुरसुन्दर्यै नमः पादादिकेशान्तं केशादिपादान्तं व्यापयेत् । इति चतुस्तत्त्वन्यासः ।

(प्. ६१) अथ शृङ्खलान्यासः -

तद्वाह्याङ्गम् स्पृशेदित्यन्तर्नवयोनिन्यासः

अथ वक्ष्ये महेशानि श्रीविद्यान्यासमुत्तमम् ।
सम्पूर्णां चिन्तयेद्विद्यां ब्रह्मरन्ध्रेऽरुणप्रभाम् ।

स्रवत्सुधाषोडशार्णां महासौभाग्यदां स्मरेत् ।
(प्. ६२) वामांसदशसौभाग्यदण्डिनी भ्रामयेत् ततः ।

रिपुजिह्वा ग्रहां मुद्रां पादमूले न्यसेत् प्रिये ।
त्रैलोकस्य त्वहं कर्ता ध्यात्वैवं तिलकं न्यसेत् ।

इति महासौभाग्यं न्यसेत् ।

पुनः सम्पूर्ण या देहे गलोर्ध्वं विन्यसे ततः । पुन सम्पूर्णया देहे वेष्टनत्वेन
मलादिपादान्तं विन्यसेत् । व्यापकान्ते योनिमुद्रां मुखे क्षिप्त्वाऽभिवन्द्य च इति
त्रिलोकक्षोभकन्यासः ।

श्रीविद्यापूर्णरूपोयं न्यासः सौभाग्यवर्धनः ।
परिभ्राम्यानामिके तु मूर्धान्तं परिता प्रिये ॥

ब्रह्मरन्ध्रे क्षिपेद् देवि मणिबन्धे न्यसेत् ततः ।
ललाटेऽनामिके कुर्यात् षोडशार्णां स्मरन् बुधः ॥

सम्मोहनाख्यो देवेशि न्यासोऽयं क्षोभकारकः ।
त्रैलोक्यमरुणं ध्यायन् श्रीविद्यां मनसि स्मरन् ॥

(प्. ६२) त्रुटिः पत्र अग्रे लिखितम् ।

अथ संहारन्यासः सन्यासीनामधिकारः - श्रीं पादयोः, ह्रीं जङ्घयोः, क्लीं जान्वोः,
ऐं कट्योः, सौः लिङ्गे, ओं पृष्ठे, ह्रीं नाभौ, श्रीं पार्श्वयोः, क ए ई ल ह्रीं स्तनयोः,
हसकहलह्रीं अंसयोः, सकलह्रीं कर्णयोः सौः ब्रह्मरन्ध्रे, ऐं वदने, क्लीं अक्ष्णोः, ह्रीं
लिङ्गे, श्रीं कर्णप्रदेशयोः सर्वसंहर्ताहमिति भावयेदिति संहारन्यासः ।

ओं ऐं ह्रीं श्रीं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं ए ऐं ओं औं अं अः रब्लूं
वशिनीवाग्देवतायै नमः - शिरसि,
४ कं खं गं घं ङं कलह्रीं कामेश्वरीवाग्देवतायै नमः - भाले,
४ चं छं जं झं ञं न्क्ली भोदिनीवाग्देवतायै नमः - मुखे,
४ टं ठं डं ढं णं य्लूं विमलावाग्देवतायै नमः - कण्ठे,
४ तं थं दं धं नं ज्म्रीं अरुणावाग्देवतायै नमः - हृदि,
४ पं फं बं भं मं जयिनीवाग्देवतायै नमः - नाभौ,
४ यं रं लं वं झ्म्र्यू सर्वेश्वरीवाग्देवतायै नमः - आधारे,
४ शं षं सं हं लं क्षं क्ष्म्रीं कौलिनीवाग्देवतायै नमः - ब्यूहके मूलादिपादान्तम्
इत्यष्टौ वाग्देवता न्यासः ।

ओं ऐं ह्रीं श्रीं क ए ई ल ह्रीं अङ्गुष्ठाभ्यां नमः,
४ हसकहलह्रीं तर्जनीभ्यां नमः,
(प्. ६४) ४ सकलह्रीं मध्यमाभ्यां नमः,
४ क ए ई ल ह्रीं अनामिकाभ्यां नमः,
४ हसकहलह्रीं कनिष्ठिकाभ्यां नमः,
४ सकलह्रीं करतलाभ्यां नमः एवं हृदयादि । इति करषडङ्गः ।

अथ षोढान्यासः -

ओं अस्य श्रीगणेशादिषोढान्यासस्य दक्षिणामूर्तिऋषिः गायत्रीछन्दः श्रीमातृकासुन्दरीदेवता
श्रीविद्याङ्गत्वेन न्यासे विनियोगः ।

ओं ऐं ह्रीं श्रीं अं कं खं गं घं ङं आं ऐं हृदयाय नमः,
४ इं चं छं जं झं ञं ईं क्लीं शिरसे स्वाहा,
४ उं टं ठं डं ढं णं ऊं सौः शिखायै वषट्,
४ एं तं थं दं धं नं ऐं सौः कवचाय हुं,
४ ओं पं फं बं भं मं औं क्लीं नेत्रत्रयाय वौषट्,
४ अं यं रं लं वं शं षं सं हं लं क्षं अः ऐं अस्त्राय फट् ।

उद्यत्सूर्यसहस्राभां पीनोन्नतपयोधराम् ।
रक्तमाल्याम्बरालेप रक्तभूषणभूषिताम् ॥

पाशाङ्कुशधनुर्बाण भास्वत् पाणिचतुष्टयम् ।
रक्तनेत्रत्रयो स्वर्णमुकुटोद्भासि चन्द्रिकाम् ॥

(प्. ६५) गणेशग्रहनक्षत्रयोगिनी राशिरूपिणीम् ।
देवीं पीठमयीं नौमि मातृकां सुन्दरीं पराम् ॥

इति समष्टिरूपं ध्यात्वा [अस्य श्री] गणेशन्यासस्य गणक ऋषिः निचृद्गायत्रीछन्दः
शक्तिर्गणपतिर्देवता गणेशन्यासे विनियोगः ।

गां गीं इति षडङ्गः ।

अरुणादित्यसङ्काशान् गजवक्त्रान् त्रिलोचनान् ।
पाशाङ्कुशवराभीतिकरान् शक्तिसमन्वितान् ।
तास्तु सिन्दूरवर्णाभाः सर्वालङ्कारभूषिताः ॥

इति ध्यात्वा, ओं ऐं ह्रीं श्रीं गं अं विघ्नेश्वराय श्रियै नमः - शिरसि,
५ आं विघ्नराजाय ह्रियै नमः - मुखवृत्ते,
५ इं विनायकाय तुष्ट्यै नमः - दक्षनेत्रे,
५ ईं शिवोत्तमाय शान्त्यै नमः - वामनेत्रे,
५ उं विघ्नहृते पुष्ट्यै नमः - दक्षकर्णे,
५ ऊं विघ्नकर्त्रे सरस्वत्यै नमः - वामकर्णे,
५ ऋं विघ्नराजाय रत्यै नमः - दक्षनासापुटे,
५ ॠं गणनाथाय मेधायै नमः - वामनासापुटे,
५ ऌं एकदन्ताय कान्त्यै नमः - दक्षगण्डे,
५ ॡं द्विदन्ताय कामिन्यै नमः - वामगण्डे,
५ एं गजवक्त्राय मोहिन्यै नमः - ऊर्ध्वोष्ठे,
५ ऐं निरञ्जनाय जटायै नमः - अधरोष्ठे,
(प्. ६६) ५ ओं कपर्दिने तीब्रायै नमः - ऊर्ध्वदन्तपङ्क्तौ,
५ औं दीर्घवक्त्राय ज्वालिन्यै नमः - अधोदन्तपङ्क्तौ,
५ अं शङ्कुकर्णाय नन्दायै नमः - शिरसि,
५ अः वृषध्वजाय सुरसायै नमः - कण्ठे,
५ कं गणनाथाय कामरूपिण्यै नमः - दक्षबाहुमूले,
५ खं गजेन्द्राय शुभ्रायै नमः - कूर्परे,
५ गं शूर्पकर्णाय जयिन्यै नमः - मणिबन्धे,
५ घं त्रिनेत्राय सत्यायै नमः - अङ्गुलिमूले,
५ ङं लम्बोदराय विघ्नेश्यै नमः - अङ्गुल्यग्रे,
५ चं महानादाय सुरूपिण्यै नमः - वामबाहुमूले,
५ छं चतुर्मूर्तये कामदायै नमः - कूर्परे,
५ जं सदाशिवाय मदविह्वलायै नमः - मणिबन्धे,
५ झं अमोदाय विकटायै नमः - अङ्गुलिमूले,
५ ञं दुर्मुखाय घूर्णायै नमः - अङ्गुल्यग्रे,
५ टं सुमुखाय भूत्यै नमः - दक्षपादमूले,
५ ठं प्रमोदाय भूम्यै नमः - जानुनि,
५ डं एकपादाय मत्यै नमः - गुल्फे,
५ ढं द्विजिह्वाय रमायै नमः - अङ्गुलिमूले,
५ णं शूराय मानुष्यै नमः - अङ्गुल्यग्रे,
५ तं वीराय मकरध्वजायै नमः - वामपादमूले,
५ थं षण्मुखाय विकर्णायै नमः - जानुनी,
५ दं वरदाय भृकुट्यै नमः - गुल्फे,
५ धं वामदेवाय लज्जायै - अङ्गुलिमूले,
५ नं वक्रतुण्डाय दीर्घघोणायै नमः - अङ्गुल्यग्रे,
५ पं द्विरण्डाय धनुर्धरायै नमः - दक्षपार्श्वे,
५ फं सेनान्ये यामिन्यै नमः - वामपार्श्वे,
५ बं ग्रामण्यै रात्र्यै नमः - पृष्ठे,
५ भं मत्ताय चन्द्रिकायै नमः - नाभौ,
(प्. ६७) ५ मं विमत्ताय शशिप्रभायै नमः - उदरे,
५ यं मत्तवाहनाय लोलायै नमः - हृदि,
५ रं जटिन चपलायै नमः - अंसयोः,
५ लं मुण्डिने ऋद्ध्यै नमः - ककुदि,
५ वं खड्गिने दुर्भगायै नमः - कक्षयोः ,
५ शं वरेण्याय सुभगायै नमः - हृदादिदक्षकरान्तम्,
५ षं वृषकतव शिवाय नमः - हृदादिवामकरान्तम्,
५ सं भक्षप्रियाय दुर्धरायै नमः - हृदादिदक्षपादान्तम्,
५ हं गणपाय गुहकायै नमः - हृदादिवामपादान्तम्,
५ लं मेघनादाय कालिकायै नमः - उदरे, ५ क्षं गणेश्वराय अनलजिह्वायै नमः - व्यापकम्


इति गणेशन्यासः समाप्तः ।

अथ ग्रहन्यासः -

रक्तं श्वेतं तथा रक्तं श्यामं पीतं च पाण्डुरम् ।
धूम्रकृष्णं कृष्णधूम्रं धूम्रधूम्रं विचिन्तयेत् ॥

रविमुख्यान् कामरूपान् सर्वाभरणभूषितान् ।
वामोरु न्यस्त हस्तांश्च दक्षिणेन वरप्रदान् ॥

शक्तयोरपि तथा ज्ञेया वरदाभयपाणयः ।

इति ध्यात्वा न्यसेत् -

(प्. ६८) ओं ऐं ह्रीं श्रीं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः
सूर्याय रेणुकाम्बायै नमः - हृदयादधः,
४ यं रं लं वं चन्द्राय अमृताम्बायै नमः - भ्रूमध्ये,
४ कं खं गं घं ङं मङ्गलाय धर्माम्बायै नमः - नेत्रयोः,
४ चं छं जं झं ञं बुधाय ज्ञानरूपाम्बायै नमः - हृदयोपरि,
४ टं ठं डं ढं णं बृहस्पतये यशश्विन्यम्बायै नमः - कण्ठे,
४ तं थं दं धं नं शुक्राय शाकम्भर्यै नमः - हृन्मध्ये,
४ पं फं बं भं मं शनैश्चराय शक्त्यम्बायै नमः - नाभौ,
४ शं षं सं हं राहवे कृष्णाम्बायै नमः - मुखे,
४ लं क्षं केतवे धूम्राम्बायै नमः - पादयोः । इति ग्रहन्यासः ।

अथ नक्षत्रन्यासः -

ज्वलत्कालाग्निसङ्काशाः सर्वाभरणभूषिताः ।
नतिपाण्योश्विनीमुख्या वरदाभयपाणयः ॥

इति ध्यात्वा न्यसेत् -

ओं ऐं ह्रीं श्रीं अं आं अश्विन्यै नमः - ललाटे,
४ इं भरण्यै नमः - दक्षनेत्रे,
४ ईं उं ऊं कृत्तिकायै नमः - वामनेत्रे,
४ ऋं ॠं ऌं ॡं रोहिण्यै नमः - दक्षकर्णे,
४ एं मृगशीर्षाय नमः - वामकर्णे,
४ ऐं आर्द्रायै नमः - दक्षनासापुटे,
४ ओं औं पुनर्वसवे नमः - वामनासापुटे,
४ कं पुष्याय नमः - कण्ठे,
४ खं गं आश्लेषायै नमः - दक्षस्कन्धे,
(प्. ६९) ४ घं ङं मघायै नमः - वामस्कन्धे,
४ चं पूर्वाफाल्गुन्यै नमः - दक्षकूर्परे,
४ छं जं उत्तराफाल्गुन्यै नमः - वामकूर्परे,
४ झं ञं हस्तायै नमः - दक्षमणिबन्धे,
४ टं ठं चित्रायै नमः - वाममणिबन्धे,
४ डं स्वात्यै नमः - दक्षहस्ते,
४ ढं ण्ऽं विशाखायै नमः - वामहस्ते,
४ तं थं दं अनुराधायै नमः - नाभौ,
४ धं ज्येष्ठायै नमः - दक्षकट्याम्,
४ नं पं फं मूलायै नमः - वामकट्याम्,
४ बं पूर्वाषाधायै नमः - दक्षोरौ,
४ भं उत्तराषाढायै नमः - वामोरौ,
४ मं श्रवणायै नमः - दक्षजानुनी(नि),
४ यं रं धनिष्ठायै नमः - वामजानुनि,
४ लं शतभिषायै नमः - दक्षजङ्घायाम्,
४ वं शं पूर्वाभाद्रपदायै नमः - वामजङ्घायाम्,
४ षं सं हं उत्तराभाद्रपदायै नमः - दक्षपादे,
४ लं क्षं अं अः रेवत्यै नमः - वामपादे ।

इति नक्षत्रन्यासः ।

अथ योगिनिन्यासः -

शिता शितारुणा वभ्रूः चित्राः पीताश्च चिन्तयेत् ।
चतुर्भुजाः समैर्वक्रैः सर्वाभरणभूषिताः ॥

इति ध्यात्वा न्यसेत् -

ओं ऐं ह्रीं श्रीं डां डीं डमलवरयूं डाकिन्यै नमः अं आं इं ईं उं ऊं ऋं ॠं
ऌं ॡं एं ऐं ओं औं अं अः यं रक्ष रक्ष त्वगात्मने नमः - कण्ठे,
४ रां रीं रमलवरयुं राकिन्यै नमः (प्. ७०) कं खं गं घं ङं चं छं जं झं
ञं टं ठं रं रक्ष रक्ष असृगात्मने नमः - हृदि,
४ लां लीं लमलवरयूं लाकिन्यै नमः डं ढं णं तं थं दं धं नं पं फं
लं रक्ष रक्ष मांसात्मने नमः - मणिपूरे,
४ कां कीं कमलवरयूं काकिन्यै नमः बं भं मं यं रं लं वं रक्ष रक्ष
मेदात्मने नमः - स्वाधिष्ठाने,
४ शां शीं शमलवरयूं शाकिन्यै नमः वं शं षं सं शं रक्ष रक्ष अस्थ्यात्मने
नमः - मूलाधारे,
४ हां हीं हमलवरयूं हाकिन्यै नमः हं क्षं षं रक्ष रक्ष मज्जात्मने नमः -
भ्रूमध्ये, ४ यां यीं यमलवरयूं याकिन्यै अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं
ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं
णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं
हं लं क्षं सं रक्ष रक्ष शुक्रात्मने नमः - ब्रह्मरन्ध्रे

इति योगिनी न्यासः ।

अथ रासी(शि) न्यासः -

रक्तं श्वेतं हरिद्वर्णं पाण्डुचित्रयुतान् स्मरेत् ।
पिशङ्गपिङ्गलौ बभ्रूकर्बुराशित धूम्रकान् ॥

इति मेषादीन् ध्यात्वा न्यसेत् -

ओं ऐं ह्रीं श्रीं अं आं इं ईं मेषाय नमः - दक्षगुल्फे,
४ उं ऊं ऋं वृषभाय नमः - दक्षजानुनी,
४ ॠं ऌं ॡं मिथुनाय नमः - दक्षवृषणे,
४ एं ऐं कर्काय नमः - दक्षकुक्षौ,
(प्. ७१) ४ ओं औं सिंहाय नमः - दक्षस्कन्धे,
४ अं अः शं षं सं हं लं कन्यायै नमः - दक्षशिरोभागे,
४ कं खं गं घं ङं तुलायै नमः - वामशिरोभागे,
४ चं छं जं झं ञं वृश्चिकाय नमः - वामस्कन्धे,
४ टं ठं डं ढं णं धन्विने नमः - वामकुक्षौ,
४ तं थं दं धं नं मकराय नमः - वामवृषणे,
४ पं फं बं भं मं कुम्भाय नमः - वामजानुनि,
४ यं रं लं वं क्षं मीनाय नमः - वामगुल्फे । इति राशिन्यासः ।

अथ पीठन्यासः -

शिताशितारुणश्यामा हरित्पीतान्यनुक्रमात् ।
पुनः पुनः क्रमाद्देवी पञ्चाशत् स्थान संचये ।
पीठानां हि स्मरेद्विद्वान् सर्वकामार्थसिद्धये ॥

इति ध्यात्वा मातृकास्थानेषु न्यसेत् -

ओं ऐं ह्रीं श्रीं अं कामरु पीठाय नमः - मूर्ध्नि,
४ आं वाराणसीपीठाय नमः - मुखवृत्ते,
४ इं नेपालपीठाय नमः - दक्षकर्णे,
४ ईं पौण्ड्रवर्धनपीठाय नमः - वामनेत्रे,
४ उं पुरस्थिरपीठाय नमः - दक्षकर्णे,
४ ऊं कान्यकुब्जपीठाय नमः - वामकर्णे,
४ ऋं पूर्णगिरिपीठाय नमः - दक्षनासापुटे,
४ ॠं अर्बुदाचलपीठाय नमः - वामनासापुटे,
४ ऌं आम्रातकेश्वरपीठाय नमः - दक्षगण्डे,
४ ॡं एकाम्रपीठाय नमः - वामगण्डे,
(प्. ७२) ४ एं तिस्रोतः पीठाय नमः - ऊर्ध्वोष्ठे,
४ ऐं कामकोटपीठाय नमः - अधरोष्ठे,
४ ओं कैलासपीठाय नमः - ऊर्ध्वदन्तपङ्क्तौ,
४ औं भृगुनगरपीठाय नमः - अधोदन्तपङ्क्तौ,
४ अं केदारपीठाय नमः - नाभौ,
४ अः चन्द्रपुरपीठाय नमः - मुखे,
४ कं श्रीपीठाय नमः,
४ खं ओंकारपीठाय नमः
४ गं जालन्धरपीठाय नमः
४ घं मालवपीठाय नमः
४ ङं कुलान्तकपीठाय नमः - दक्षभुजमूलसन्ध्यग्रेषु,
४ चं देवीकोटपीठाय नमः
४ छं माकर्णपीठाय नमः
४ जं मारुतेश्वरपीठाय नमः
४ झं अट्टहासपीठाय नमः
४ ञं विरजपीठाय नमः - वामभुजमूलसन्ध्यग्रेषु,
४ टं राजग्रहपीठाय नमः
४ ठं महापथपीठाय नमः
४ डं कोल्लगिरिपीठाय नमः
४ ढं एलापुरपीठाय नमः
४ णं कालेश्वरपीठाय नमः - दक्षपादमूलसन्ध्यग्रेषु,
४ तं जयन्तिकापुरपीठाय नमः
४ थं उज्जयनीपीठाय नमः
४ दं विचित्रपीठाय नमः
४ नं हस्तिनापुरपीठाय नमः - वामपदमूलसन्ध्यग्रेषु,
४ पं ओड्डिशपीठाय नमः - दक्षपार्श्वे,
४ फं प्रयागपीठाय नमः - वामपार्श्वे,
४ बं षष्ठीशपीठाय नमः - पृष्ठे,
४ भं मायापुरपीठाय नमः - नाभौ,
४ मं जलेश्वरपीठाय नमः - जठरे,
४ यं मलयगिरिपीठाय नमः - हृदि,
४ रं श्रीशैलपीठाय नमः - दक्षांसे,
(प्. ७३) ४ लं मेरुगिरिपीठाय नमः - वामांसे,
४ वं गिरिवरपीठाय नमः - अपरमले,
४ शं महेन्द्रपीठाय नमः - दक्षकक्ष्याम्,
४ षं वामनपुरपीठाय नमः - वामकक्षायाम्,
४ सं हिरण्यपुरपीठाय नमः - दक्षपाणिपादान्तम्,
४ हं महालक्ष्मीपुरपीठाय नमः - वामपाणिपादान्तम्,
४ लं महोड्यानपीठाय नमः - जठराननयोः,
४ क्षं छायाछत्रपीठाय नमः - व्यापकम्, इति पीठन्यासः ।

षोढान्यासस्त्वयं प्रोक्तः सर्वे सर्वत्र योगिभिः ।
नास्त्यस्य पूज्या लोकेषु पितृमातृमुखो जनः ।

स एव पूज्योः सर्वेषां स स्वयं परमेश्वरः ।
षोढान्यासविहीनं यं प्रणमेदेव पार्वती(ति) ।

सोऽचिरान्मृत्युमाप्नोति नरकं प्रतिपद्यते । (यो० हृ० ३/१०-१३)

इति पूर्वषोढान्यासः ।

ऐं हृदयाय नमः,
क्लीं शिरसे स्वाहा,
सौः शिखायै वषट्,
सौः कवचाय हुं,
क्लीं नेत्रत्रयाय वौषट्,
ऐं अस्त्राय फट्, इति षडङ्गः । ततो मूलेन व्यापकम्, (प्. ७४) मूलेन प्राणानायम्य द्रां द्रीं
क्लीं ब्लूं सः क्रों ह्स्ख्फ्रें ह्सौं ऐं संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशा
खेचरीबीजयोन्याख्या नवमुद्राः प्रदर्शयेत् ।

अथ ध्यानम् -

अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावयेद् भवानीम् ॥ १ ॥

जपाकुसुमभासुरां त्रिनयनां त्रिकोणान्
तरनिवासिनीं त्रिपुरसुन्दरीं सेन्दुकाम् ।
कराम्बुजचतुष्टयां मधुरचापपाशाङ्
कुशां प्रसूनशरशोभिनीं ललितवेशभूषां भजे ॥ २ ॥

अथ कामा न्यसेद् देवि दाडिमीकुसुमोपमान् ।
वामाङ्कशक्तिसहितान् पुष्पबाणेक्षुकार्मुकान् ॥

शक्तयः कुङ्कुमनिभाः सर्वाभरणभूषिताः ।
नीलोत्पलकरा ध्येयास्त्रैलोक्याकर्षणक्षमाः ॥

ओं ऐं ह्रीं श्रीं अं कामरतिभ्यां नमः - मूर्ध्नि,
४ आं कामप्रीतिभ्यां नमः - मुखवृत्ते,
४ इं कान्तकामिनीभ्यां - दक्षनेत्रे,
४ ईं भ्रान्तमोहिनीभ्यां नमः - वामनेत्रे,
(प्. ७५) ४ उं कामज्ञकमलाभ्यां नमः - दक्षकर्णे,
४ ऊं कामचारविलासिनीभ्यां नमः - वामकर्णे,
४ ऋं कामकल्पलताभ्यां नमः - दक्षनासापुटे,
४ ॠं कोमलशामलाभ्यां नमः - वामनासापुटे,
४ ऌं कामवर्धकसुस्मिताभ्यां नमः - दक्षगण्डे,
४ ॡं कामविस्मिताभ्यां नमः - वामगण्डे,
४ एं यमविशालाक्षीभ्याम् नमः ऊर्ध्वरोष्ठे,
४ ऐं रमणलेलिहाभ्यां नमः - अधरोष्ठे,
४ ओं नाथदिगम्बराभ्यां नमः - ऊर्ध्वदन्तप”न्क्तौ,
४ औं रतिप्रियवामाभ्यां नमः - अधोदन्तपङ्क्तौ,
४ अं रात्रिनाथकुब्जिकाभ्यां नमः - तालौ,
४ अः स्मरकान्ताभ्यां नमः - मुखे,
४ कं रमणसत्याभ्यां नमः
४ खं निशाचरकल्याणीभ्यां नमः
४ गं नन्दभोगिनीभ्यां नमः
४ घं नन्दीशकामदाभ्यां नमः
४ ङं मदनसुलोचनाभ्यां नमः - दक्षभुजमूलसन्ध्यग्रेषु,
४ चं आनन्दयितसुलावणाभ्यां नमः
४ छं पञ्चशरमर्दिणीभ्यां? नमः
४ जं रतिहंसकलप्रियाभ्यां नमः
४ झं पुष्पधन्वकाङ्क्षिणीभ्यां नमः
४ ञं महाधनुसुमुखीभ्यां नमः - वामभुजमूलसन्ध्यग्रेषु,
४ टं ग्रामणीनलनीभ्यां नमः
४ ठं भीमजटिनीभ्यां नमः
४ डं भ्रामणपालिनीभ्यां नमः
४ ढं भ्रमरशिखिनीभ्यां नमः
४ णं शान्तमुग्धाभ्यां नमः - दक्षपादमूलसन्ध्यग्रेषु,
(प्. ७६) ४ तं भ्रमणरमाभ्यां नमः
४ थं भृगुभौमाभ्यां नमः
४ दं भ्रान्तमरलोलाभ्यां नमः
४ धं भ्रमावहसुचलाभ्यां नमः
४ नं मोहनदीर्घजिह्वाभ्यां नमः - वामपादमूलसन्ध्यग्रेषु,
४ पं मोचकरतिप्रियाभ्यां नमः - दक्षपार्श्वे,
४ फं मुग्धलोलाक्षीभ्यां नमः - वामपार्श्वे,
४ बं मोहवर्धकभृङ्गिणीभ्यां नमः - पृष्ठे,
४ भं मोहकचपेटाभ्यां नमः - नाभौ,
४ मं मन्मथनाथाभ्यां नमः - जठरे,
४ यं मतङ्गमालिनीभ्यां नमः - हृदि,
४ रं शृङ्गनायकहंसिनीभ्यां नमः - दक्षांसे,
४ लं गायकविश्वतोमुखीभ्यां नमः - वामांसे,
४ वं गीतज्ञनन्दिनीभ्यां नमः - अपरगले,
४ शं नर्तकरञ्जनीभ्यां नमः - दक्षकक्षायाम्,
४ षं खेलकान्तिभ्यां नमः - वामकक्षायाम्,
४ सं उन्मत्तकलकण्ठिभ्यां नमः - दक्षपाणिपादान्तम्,
४ हं मत्तवृकोदरीभ्यां नमः - वामपाणिपादान्तम्,
४ लं मेघाशामाभ्यां नमः - जठराननयोः,
४ क्षं विमलश्रीभ्यां नमः - व्यापकम् । इति कामन्यासस्त्रैलोक्यक्षोभकारकः ।

मातृकर्णैर्न्यसेद् देवि मातृकावत् सदानघे ।
अनेन न्यासयोगेन त्रैलोक्यक्षोभको भवेत् ॥

(प्. ७७) बालायाः त्रिपुरेशान्या नवयोन्यङ्कितं न्यसेत् ।
ऐं क्लीं सौः श्रोत्रयोश्चुबुके चैव ३ शङ्खयोर्मुखमण्डले ॥

३ नेत्रयोर्नासिकायां च ३ न्यसेद् देवि ततः परम् ।
३ अंसद्वये च हृदये ३ न्यसेत् कूर्परनाभिषु ॥

३ जान्वं धु पादगुह्येषु ३ पार्श्ववक्षस्तनद्वये ।
३ कण्ठे च नवयोन्याख्यं न्यसेद् बीजत्रयात्मकम् ॥

पुनर्बालास्थले देवि षोडशार्णां प्रविन्यसेत् ।
पुनर्बालां समुच्चार्य चतुरस्रं च विन्यसेत् ॥

४ ऐं क्लीं सौः वामकर्णे,

(प्. ७८) अस्य श्रीचक्रन्यासगोलकं न्यासयोगेन श्रीचक्रं परिचिन्तयेत् ।

षट्चक्रेषु ललाटे च सीमन्ते च शिरो बिले ।
नवस्थानानि सङ्कल्प्य न्यसेद् देवि ततः परम् ॥

श्रीविद्यां ब्रह्मरन्ध्रे च पृष्ठतो गुरवः क्रमात् ।

ओं ऐं ह्रीं श्रीं परप्रकाशानन्दनाथ श्रीपादुकां पूजयामि नमः,
४ परशिवोत्तमानन्दनाथ श्रीपादुकां पूजयामि नमः
४ परशक्तिपराम्बा श्रीपादुकां पूजयामि नमः,
४ कौलेश्वरानन्दनाथ श्रीपादुकां पूजयामि नमः,
४ शुक्लादेवीपराम्बा श्रीपादुकां पूजयामि नमः,
४ कुलेश्वरानन्दनाथ श्रीपादुकां पूजयामि नमः,
४ श्रीकामेश्वरीपराम्बा श्रीपादुकां पूजयामि नमः,
४ भोगानन्दनाथ श्रीपादुकां पूजयामि नमः,
४ क्लिन्नानन्दनाथ श्रीपादुकां पूजयामि,
४ समयानन्दनाथ श्रीपादुकां पूजयामि नमः,
४ सहजानन्दनाथ श्रीपादुकां पूजयामि,
४ गगनानन्दनाथ श्रीपादुकां पूजयामि,
४ विश्वानन्दनाथ श्रीपादुकां पूजयामि,
४ विमलानन्दनाथ श्रीपादुकां पूजयामि नमः,
४ मदनानन्दनाथ श्रीपादुकां पूजयामि नमः,
(प्. ७९) ४ भुवनानन्दनाथ श्रीपादुकां पूजयामि नमः,
४ लीलानन्दनाथ श्रीपादुकां पूजयामि नमः,
४ स्वात्मानन्दनाथ श्रीपादुकां पूजयामि नमः,
४ प्रियानन्दनाथ श्रीपादुकां पूजयामि नमः,
४ स्वगुरुभ्यो नमः,
४ परमगुरुभ्यो नमः,
४ परमेष्ठीगुरुभ्यो नमः,
४ परापरगुरुभ्यो नमः, ४ इति गुरुन्यासः ।

४ आधारचक्रे ओं ऐं ह्रीं श्रीं अणिमासिध्यै नमः,
४ लघिमासिद्ध्यै नमः,
४ महिमासिद्ध्यै नमः,
४ ईशित्वसिद्ध्यै नमः,
४ वशित्वसिद्ध्यै नमः,
४ प्राकाम्यसिद्ध्यै नमः,
४ भुक्तिसिद्ध्यै नमः,
४ इच्छाशक्त्यै नमः,
४ प्राप्तिसिद्ध्यै नमः,
४ सर्वकामसिद्ध्यै नमः ४ ।

ओं ऐं ह्रीं श्रीं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं ऽं अः
ब्राह्मीमातृकायै नमः ।
केचित् आदौ मातृका पश्चात् ।
श्रीं ह्रीं क्लीं बीजत्रयमुच्चार्य नामानि न्यसन्ति पाशुपतः ।

४ ओं कं खं गं घं ङं ब्राह्मीश्वरीमातृकायै नमः,
४ चं छं जं झं ञं माहेश्वरीमातृकायै नमः,
४ टं ठं डं ढं णं कौमारीमातृकायै नमः,
४ तं थं दं धं नं वैष्णवीमातृकायै नमः,
(प्. ८०) ४ पं फं बं भं मं वाराहीमातृकायै नमः,
४ यं रं लं वं इन्द्राणीमातृकायै नमः,
४ शं षं सं चामुण्डामातृकायै नमः,
४ हं लं क्षं महालक्ष्मीमातृकायै नमः ।

ओं ऐं ह्रीं श्रीं दां सर्वसंक्षोभिणीमुद्रायै नमः,
४ दीं सर्वविद्राविणीमुद्रायै नमः,
४ क्लीं सर्वाकर्षिणीमुद्रायै नमः,
४ ब्लूं सर्ववशंकरीमुद्रायै नमः,
४ सः सर्वोन्मादिनीमुद्रायै नमः,
४ क्रों महाङ्कुशामुद्रायै नमः,
४ ह्स्ख्फ्रें सर्वखेचरीमुद्रायै नमः,
४ ह्सों सर्वबीजमुद्रायै नमः,
४ ऐं सर्वयोनिमुद्रायै नमः,
४ ह्स्रैं ह्स्रीं ह्स्रौः सर्वत्रिखण्डामुद्रायै नमः ।
४ अं आं सौः त्रिपुराचक्रेश्वर्यै नमः ।
४ द्रां सर्वसंक्षोभिणीमुद्रां प्रदर्शयेत् ।

स्वाधिष्ठाने लिङ्गे -

ओं ऐं ह्रीं श्रीं अं कामाकर्षिणी नित्याकलायै नमः,
४ आं बुध्याकर्षिणीनित्यानन्दायै नमः,
४ इं अहङ्काराकर्षिणीनित्याकलायै नमः,
४ ईं शब्दाकर्षिणीनित्याकलायै नमः,
४ उं स्पर्शाकर्षिणीनित्याकलायै नमः,
४ ऊं रूपाकर्षिणीनित्याकलायै नमः,
४ ऋं रसाकर्षिणीनित्याकलायै नमः,
४ ॠं गन्धाकर्षिणीनित्याकलायै नमः,
४ ऌं चित्ताकर्षिणीनित्याकलायै नमः,
४ ॡं धैयाकर्षिणीनित्याकलायै नमः,
(प्. ८१) ४ ऐं स्मृत्याकर्षिणीनित्याकलायै नमः,
४ ऐं नामाकर्षिणीनित्याकलायै नमः,
४ ओं बीजाकर्षिणीनित्याकलायै नमः,
४ औं आत्माकर्षिणीनित्याकलायै नमः,
४ अं अमृताकर्षिणीनित्याकलायै नमः,
४ अः शरीराकर्षिणी नित्याकलायै नमः ।
४ ऐं क्लीं सौः त्रिपुरेशीचक्रेश्वर्यै नमः ।
४ द्रीं सर्वविद्राविणीमुद्रां प्रदर्शयेत् ।

मणिपूरे नाभौ -

ओं ऐं ह्रीं श्रीं कं खं गं घं ङं अनङ्गकुसुमादेव्यै नमः,
४ चं छं जं झं ञं अनङ्गमेखलादेव्यै नमः,
४ टं ठं डं ढं णं अनङ्गमदनादेव्यै नमः,
४ तं थं दं धं नं अनङ्गमदनातुरादेव्यै नमः,
४ पं फं बं भं मं अनङ्गरेखादेव्यै नमः,
४ यं रं लं वं अनङ्गवेगिनीदेव्यै नमः,
४ शं षं सं अनङ्गवङ्कुशादेव्यै नमः,
४ हं लं क्षं अनङ्गमालिनीदेव्यै नमः ।
४ ह्रीं क्लीं सौः त्रिपुरसुन्दरीचक्रेश्वर्यै नमः ।
४ क्लीं सर्वाकर्षिणीमुद्रां प्रदर्शयेत् ।

अनाहते हृदये -

ओं ऐं ह्रीं श्रीं कं सर्वसंक्षोभिणीशक्त्यै नमः,
४ खं सर्वविद्राविणीशक्त्यै नमः,
४ गं सर्वाकर्षणीशक्त्यै नमः,
४ घं सर्वाह्लादिनीशक्त्यै नमः,
४ ङं सर्वसम्मोहिनीशक्त्यै नमः,
४ चं सर्वस्तम्भिनीशक्त्यै नमः,
४ छं (प्. ८२) सर्वजृम्भिणीशक्त्यै नमः,
४ जं सर्ववशङ्करीशक्त्यै नमः,
४ झं सर्वरञ्जनीशक्त्यै नमः,
४ ञं सर्वोन्मादिनीशक्त्यै नमः,
४ टं सर्वार्थसाधिनीशक्त्यै नमः,
४ ठं सर्वसम्पत्प्रपूरिणीशक्त्यै नमः,
४ डं सर्वमन्त्रमयीशक्त्यै नमः,
४ ढं सर्वद्वन्द्वक्षयङ्करीशक्त्यै नमः ।
४ हैं ह्क्लीं हसौः त्रिपुरवासिनीचक्रेश्वर्यै नमः ।
४ ब्लूं सर्ववशङ्करीमुद्रां प्रदर्शयेत् ।

विशुद्धचक्रे कण्ठे - ओं ऐं ह्रीं श्रीं णं सर्वसिद्धिप्रदादेव्यै नमः,
४ तं सर्वसम्पत्प्रदादेव्यै नमः,
४ थं सर्वप्रियङ्करीदेव्यै नमः,
४ दं सर्वमङ्गलकारिणीदेव्यै नमः,
४ धं सर्वकामप्रदे(दा)देव्यै नमः,
४ नं सर्वदुःखविमोचनीदेव्यै नमः,
४ पं सर्वमृत्युप्रशमनीदेव्यै नमः,
४ फं सर्वविघ्ननिवारिणीदेव्यै नमः,
४ बं सर्वाङ्गसुन्दरीदेव्यै नमः,
४ भं सर्वसौभाग्यदायिनीदेव्यै नमः ।
४ ह्सैं ह्स्क्लीं ह्सौं त्रिपुराश्रीचक्रेश्वर्यै नमः ।
४ सः सर्वोन्मादिनीमुद्रां प्रदर्शयेत् ।

आज्ञाचक्रे भ्रूमध्ये - ओं ऐं ह्रीं श्रीं मं सर्वज्ञादेव्यै नमः,
४ यं सर्वशक्तिदेव्यै नमः,
४ रं सर्वैश्वर्यप्रदायिनीदेव्यै नमः,
४ लं सर्वज्ञानमयीदेव्यै नमः,
(प्. ८३) ४ वं सर्वव्याधिविनाशिनीदेव्यै नमः,
४ शं सर्वाधारस्वरूपादेव्यै नमः,
४ षं सर्वपापहरादेव्यै नमः,
४ सं सर्वानन्दमयीदेव्यै नमः,
४ हं सर्वरक्षास्वरूपिणीदेव्यै नमः,
४ क्षं सर्वेप्सितफलप्रदादेव्यै नमः ।
४ ह्रीं क्लीं ब्लें त्रिपुरमालिनीचक्रेश्वर्यै नमः ।
४ क्रों महाङ्कुशमुद्रां प्रदर्शयेत् ।

ललाटे - ओं ऐं ह्रीं श्रीं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः
रब्लूं वशिनीवाग्देवतायै नमः,
४ कं खं गं घं ङं कलह्रीं कामेश्वरीवाग्देवतायै नमः,
४ चं छं जं झं ञं न्ब्लीं मोदिनीवाग्देवतायै नमः,
४ टं ठं डं ढं णं य्लूं विमलावाग्देवतायै नमः,
४ तं थं दं धं नं ज्म्रीं अरुणावाग्देवतायै नमः,
४ पं फं बं भं मं ह्स्ल्ब्यूं जयनीवाग्देवतायै नमः,
४ यं रं लं वं झ्म्र्यूं सर्वेश्वरीवाग्देवतायै नमः,
४ शं षं सं हं लं क्षं क्ष्म्रीं कौलिनीवाग्देवतायै नमः ।
४ ह्रीं श्रीं सौः त्रिपुरासिद्धाचक्रेश्वर्यै नमः ।
४ ह्स्ख्फ्रें सर्वखेचरीमुद्रां प्रदर्शयेत् ।

सीमन्ते - ४ ह्रीं क्लीं ऐं स्त्रीं जृम्भणकामेश्वरबाणदेवतायै नमः,
४ द्रां द्रीं क्लीं ब्लूं सः जृम्भणकामेश्वरीबाणदेवतायै नमः,
४ यं मोहनकामेश्वरचापदेवतायै नमः,
(प्. ८४) ४ धं मोहनकामेश्वरी चापदेवतायै नमः,
४ आं वशङ्करकामेश्वरपाशदेवतायै नमः,
४ ह्रीं वशङ्करकामेश्वरीपाशदेवतायै नमः,
४ क्रों स्तम्भनकामेश्वराङ्कुशदेवतायै नमः,
४ क्रों स्तम्भनकामेश्वर्यङ्कुशदेवतायै नमः,

ओं ऐं ह्रीं श्रीं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अःअ क ए ई ल
ह्रीं कामेश्वरीरुद्रशक्त्यै नमः,
४ कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं
हसकहलह्रीं वज्रेश्वरीविष्णुशक्त्यै नमः,
४ थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं सकलह्रीं
भगमालिनीब्रह्मशक्त्यै नमः,
४ ह्स्रैं ह्स्क्लीं ह्स्रौंः त्रिपुराम्बा चक्रेश्वर्यै नमः ।
४ ह्सौं सर्वबीजमुद्रां प्रदर्शयेत् ।

ब्रह्मरन्ध्रे सहस्रदलकमले - ओं ऐं ह्रीं श्रीं हं क्षं क ए ई ल ह्रीं हसकहलह्रीं
सकलह्रीं महात्रिपुरसुन्दर्यै नमः,
४ क ए ई ल ह्रीं हसकहलह्रीं सकलह्रीं श्रीमहात्रिपुरसुन्दरीचक्रेश्वर्यै नमः,
४ ऐं सर्वयोनिमुद्रां प्रदर्शयेत् । इति चक्रन्यासः ।

अथ स्थितिन्यासः -

श्रीं - अङ्गुष्ठयोः,
ह्रीं - तर्जिन्ययोः,
क्लीं - मध्यमयोः,
ऐं - अनामिकयोः,
सौः - कनिष्ठयोः,
उं - ब्रह्मरन्ध्रे,
ह्रीं - मुखे,
श्रीं - हृदि,
क ए ई ल ह्रीं नमः - नाभ्यादिपादान्तम्,
हसकहलह्रीं नमः - गलादिनाभ्यन्तम्,
सकलह्रीं नमः - ब्रह्मरन्ध्रादिकण्ठातम्,
(प्. ८५) सौः - अङ्गुष्ठयोः,
ऐं - तर्जन्ययोः,
क्लीं - मध्यमयोः,
ह्रीं - अनामिकयोः,
श्रीं - कनिष्ठिकयोः ।
सुभगार्चारन्ते संहारसृष्टिस्हितिरिति क्रमः । इति स्थितिन्यासः ।

सृष्टिन्यासं ततः कुर्यात् सर्वसिद्धिप्रदायकम् ।

श्रीं - ब्रह्मरन्ध्रे,
ह्रीं - भाले,
क्लीं - नेत्रयोः,
ऐं - श्रोत्रयोः,
सौः - घ्राणे,
ऊं - ओष्ठयोः,
ह्रीं - दन्तपंक्त्योः,
श्रीं - रसनायाम्,
क ए ई ल ह्रीं - चोरकूपे,
ह स क ह ल ह्रीं - प्ष्ठे,
सकलह्रीं - सर्वाङ्गे,
सौः - हृदि,
ऐं - स्तनयोः,
क्लीं - कुक्षौ,
ह्रीं - लिङ्गे,
श्रीं - व्यापकम् ।

      श्रीविद्यार्णै न्यसेद्देवी मन्त्री सर्वसमृद्धये । इति सृष्टिन्यासः त्रिःमूलेन व्यापयेत् ।
सर्वाङ्गेषु त्रिःमूलेन प्राणानायम्य । तथा तन्त्रे -

त्रिपुरान्यासं ततः कुर्यात् सर्वकामार्थसिद्धये ।
अस्य विज्ञानमात्रेण सदाशिवो भवेन्नरः ॥

अथ त्रिपुरान्यासः -

ओं ऐं ह्रीं श्रीं अं कामिनीत्रिपुरायै नमः - मूर्ध्नि,
४ आं मालिनीत्रिपुरायै नमः - मुखवृत्ते,
४ इं मदनात्रिपुरायै नमः - दक्षनेत्रे,
४ ईं उन्मादिनीत्रिपुरायै नमः - वामनेत्रे,
(प्. ८६) ४ उं द्राविणीत्रिपुरायै नमः - दक्षकर्णे,
४ ऊं खेचरीत्रिपुरायै नमः - वामकर्णे,
४ ऋं घटिकात्रिपुरायै नमः - दक्षनासायाम्,
४ ॠं कुलावलीत्रिपुरायै नमः - वामनासायाम्,
४ ऌं क्लेदिनीत्रिपुरायै नमः - दक्षगण्डे,
४ ॡं शिवदूतीत्रिपुरायै नमः - वामगण्डे,
४ एं सुभगात्रिपुरायै नमः - ऊर्ध्वोष्ठे,
४ ऐं भगावहा त्रिपुरायै नमः - अधरोष्ठे,
४ ओं विद्येश्वरीत्रिपुरायै नमः - ऊर्ध्वदन्तपङ्क्तौ,
४ औं महालक्ष्मीत्रिपुरायै नमः - अधोदन्तपङ्क्तौ,
४ अं कौलिनीत्रिपुरायै नमः - तालौ,
४ अः कामेश्वरीत्रिपुरायै नमः - मुखे,
४ कं कुलमालिनीत्रिपुरायै नमः - दक्षबाहुमूले,
४ खं व्यापिनीत्रिपुरायै नमः - कूर्परे,
४ गं सुभगात्रिपुरायै नमः - मणिबन्धे,
४ घं वागेश्वरीत्रिपुरायै नमः - अङ्गुलिमूले,
४ ङं कालिकात्रिपुरायै नमः - अङ्गुल्यग्रेषु,
४ चं पिङ्गलात्रिपुरायै नमः - वामबाहुमूले,
४ छं भगसर्पिणीत्रिपुरायै नमः - कूर्परे,
४ जं सुन्दरीत्रिपुरायै नमः - मणिबन्धे,
४ झं नीलपताकात्रिपुरायै नमः - अङ्गुलिमूले,
४ ञं सिद्धेश्वरीत्रिपुरायै नमः - अङ्गुल्यग्रेषु,
४ टं महासिद्धेश्वरीत्रिपुरायै नमः - दक्षपादमूले,
४ ठं अमोघात्रिपुरायै नमः - जान्वोः,
४ डं रत्नमालात्रिपुरायै नमः,
४ ढं मङ्गलात्रिपुरायै नमः - अङ्गुलिमूले,
(प्. ८७) ४ णं भगमालिनीत्रिपुरायै नमः - अङ्गुल्यग्रेषु,
४ तं रौद्रीत्रिपुरायै नमः - वामपादमूले,
४ थं योगेश्वरीत्रिपुरायै नमः - जान्वोः,
४ दं अम्बिकात्रिपुरायै नमः - गुल्फे,
४ धं अट्टहासात्रिपुरायै नमः - अङ्गुलिमूले,
४ नं व्योमव्यापिनीत्रिपुरायै नमः - अङ्गुल्यग्रेषु,
४ पं वज्रेश्वरीत्रिपुरायै नमः - दक्षपार्श्वे,
४ फं क्षोभिणीत्रिपुरायै नमः - वामपार्श्वे,
४ बं शाम्भवीत्रिपुरायै नमः - पृष्ठे,
४ भं अङ्गनानङ्गात्रिपुरायै नमः - नाभौ,
४ मं लोकेश्वरीत्रिपुरायै नमः - जठरे,
४ यं रक्तात्रिपुरायै नमः - हृदि,
४ रं सुस्थात्रिपुरायै नमः - दक्षांसे,
४ लं शुक्लात्रिपुरायै नमः - वामांसे,
४ वं अपराजितात्रिपुरायै नमः - अपरगले,
४ शं शर्वात्रिपुरायै नमः - दक्षस्कन्धे,
४ षं विमलात्रिपुरायै नमः - वामस्कन्धे,
४ सं अघोरत्रिपुरायै नमः - दक्षपाणिपादान्तम्,
४ हं भैरवीत्रिपुरायै नमः - वामपाणिपादान्तम्,
४ लं अमोघात्रिपुरायै नमः - जठराननयोः,
४ क्षं सर्वकारिणीत्रिपुरायै नमः - व्यापकम् । इति प्रत्येकपञ्चाशत्त्रिपुरान्यासं मातृकास्थानेषु
विन्यसेत् ।

ओं श्रीगुरुमूर्तये नमः हेरम्ब ।

अथ परासम्पुटितकुङ्कुमन्यासः -

ओं ऐं ह्रीं श्रीं सौः लं इन्द्राय सुराधिपतये वज्रहस्ताय (प्. ८८) ऐरावतवाहनाय
त्रिपुरसुन्दरीसपरिवाराय नमः सौः - पादाङ्गुष्ठद्वयोः,
४ सौः रं अग्नये तेजाधिपतये शक्तिहस्ताय मेषवाहनाय त्रिपुरसुन्दरीसपरिवाराय नमः सौः -
दक्षजान्वोः,
४ सौः यं यमाय प्रेताधिपतये दण्डहस्ताय महिषवाहनाय श्रीत्रिपुरसुन्दरीसपरिवाराय नमः
- दक्षपार्श्वे,
४ सौः क्षं निरृते रक्षोधिपतये खड्गहस्ताय प्रेतवाहनाय श्रीत्रिपुरसुन्दरीसपरिवाराय नमः
सौः - दक्षांसे,
४ सौः वं वरुणाय जलाधिपतये पाशहस्ताय करवाहनाय श्रीत्रिपुरसुन्दरीसपरिवाराय नमः
सौः - मूर्ध्नि,
४ सौः यं वायवे प्राणाधिपतये अङ्कुशहस्ताय गन्धवाहनाय श्रीत्रिपुरसुन्दरीसपरिवाराय
नमः सौः - वामांसे,
४ सौः कुं कुबेराय गदाहस्ताय शिविकवाहनाय यक्षोधिपतये श्रीत्रिपुरसुन्दरीसपरिवाराय नमः
सौः - वामपार्श्वे,
४ सौः हं ईशानाय वियदधिपतये त्रिशूलहस्ताय वृषभवाहनाय श्रीत्रिपुरसुन्दरी सपरिवाराय
नमः सौः - वामजानुनि,
४ सौः ऊं ब्रह्मणे लोकाधिपतये पद्महस्ताय हंसवाहनाय श्रीत्रिपुरसुन्दरीसपरिवाराय नमः
सौः - मूर्ध्नि,
४ सौः वं विष्णवे पातालाधिपतये चक्रहस्ताय गरुडवाहनाय श्रीत्रिपुरसुन्दरीसपरिवाराय नमः
सौः - आधारे ।
तत्र सूत्रम् -

(प्. ८९) पादाङ्गुष्ठद्वये जानुपार्श्वेषु च समूर्ध्निषु ।
वामांसे पार्श्वजान्वौ च मूर्ध्न्याधारेषु लोकपान् ॥

इति कुङ्कुमन्यासः -

श्रीगणेशाय नमः । हेरम्ब प्रसन्न ।

लयाङ्गं कल्पयेद् देहे देव्यास्तु परमेश्वरी ।
ध्यायेत् निरामयं ------------- जगत्रय विमोहिनीम् ॥ १ ॥

ओं ऐं ह्रीं श्रीं

उद्यत्सूर्यसहस्राभां दाडिमीकुसुमप्रभाम् ।
अशेषव्यवहाराणां षड्विधां स्वामिनीं पराम् ॥ २ ॥

जपाकुसुमसङ्काशां पद्मरागमणिप्रभाम् ।
तडित्पुञ्जप्रभां तप्तकाञ्चनाभां परमेश्वरीम् ॥ ३ ॥

रक्तोत्पलदलाकार पादपद्मविराजिताम् ।
अनर्घ्यरत्नघटितमञ्जीरचरणद्वयान् ॥ ४ ॥

(प्. ९०) पादाङ्गुलीयकक्षिप्त रत्नतेजोविराजिताम् ।
कदलीललितस्तम्भसुकुमारोरुकोमलाम् ॥ ५ ॥

नितम्बबिम्बविलसद् रक्तवस्त्रपरि ---- ताम् ।
मेखलाबद्धमाणिक्य किङ्किणीनादविभ्रमाम् ॥ ६ ॥

अलक्षमध्यमां निम्ननाभिपङ्कजशोभिताम् ।
रोमराजिलताभूतमहाकुचफलान्विताम् ॥ ७ ॥

सुवृत्तं निबडोत्तुङ्गकुचमण्डलमण्डितम् ।
अनर्घ्यमौक्तिकस्फारहारभारविराजिताम् ॥ ८ ॥

नवरत्नप्रभाराजद् ग्रैवेयवरभूषणाम् ।
श्रुतिभूषामनोरम्य सुगण्डस्थलमञ्जुलाम् ॥ ९ ॥

उद्यदादित्यसङ्काशां ताटङ्कसुमुखप्रभाम् ।
पूर्णचन्द्रमुखीपद्मवदनाम्बरनासिकाम् ॥ १० ॥

स्फुरन्मदनकोदण्डसुभ्रुवं पद्मलोचनाम् ।
ललाटपट्टसंराजत सद्रत्नतिलकाङ्किताम् ॥ ११ ॥

(प्. ९१) मुक्तामाणिक्यघटितगुगुटस्थलकिङ्किणीम् ।
स्फुरच्चन्द्रकलाराजत मुकुटां लोचनत्रयाम् ॥ १२ ।

प्रवालवल्लिविलसद् बाहुवल्लिचतुष्टयाम् ।
इक्षुकोदण्डपुष्पेषु पाशाङ्कुशचतुभुजाम् ॥१३ ॥

सर्वदेवमयीमम्बां सर्वसौभाग्यसुन्दरीम् ।
सर्वतीर्थमयीं दिव्यां सर्वकामप्रपूरिणीम् ॥ १४ ॥

सर्वक्षेत्रमयीं देवीं सर्वायतनशोभताम् ।
सर्वानन्दमयीं ज्ञानगह्वरां सिद्धिदां पराम् ॥ १५ ॥

रक्तपुष्पनिविष्टां तु रक्ताभरणशोभिताम् ।
ब्रह्मविष्णुशिरोरत्ननीराजितपदाम्बुजाम् ॥ १६ ॥

एवं ध्यायन्महादेवीं कदम्बवनवासिनीम् ।
कामेश्वरशिवस्याङ्के स्थापयेत् परमेश्वरीम् ॥ १७ ॥

विद्ययाह्वानरूपिण्या नमस्कारयुतां प्रिये ।
गन्धपुष्पाक्षतादीनि देव्यै सम्यक् निवेदयेत् ॥ १८ ॥

(प्. ९२) उपचारैः षोडशभिः सम्पूज्य परदेवताम् ।

इति ध्यात्वा पञ्चदशमुद्राः प्रदर्शयेत् ।

श्रीगणेशाय नमः ।

ऊर्ध्वाम्नायं प्रकूर्वीत ब्रह्मादीनां च दुर्लभाम् ।
श्रीप्रासादपरान्यासं पराप्रासादमेव च ॥

ततः परं महाशक्तिन्यासं कुर्यात् । एवं तीर्थस्नानं विधाय शक्तिन्यासं कुर्यात् ।

अथ महाशक्तिन्यासः -

अस्य श्रीमहाशक्तिन्यासमन्त्रस्य आदिप्रकृतिऋषिः, अनुष्टुपछन्दः, श्री-आदिशक्तिर्देवता, प्रणवो
बीजम्, अजपाशक्तिः, नादकीलकम्, मम श्रीगुरुदेवप्रसादसिध्यर्थे जपे विनियोगः ।

तारत्रयेण प्राणायामं अङ्गुल्यादिषडङ्गन्यासं कृत्वा । तदुक्तं शक्तिकुलार्णवे -

श्रीदेव्युवाच

अथातः संप्रवक्ष्यामि शक्तिन्यासं सुरेश्वर ।
ए(ये)न देहे नियुक्तेन शक्तितुल्य भवेन्नरः ॥ १ ॥

ए(ये) * * *? न्यासमात्रेण दिव्यदेह प्रजायते ।
कुपितः कुरुते योगि त्रैलोक्यस्यापि पातनम् ॥ २ ॥

(प्. ९३) शक्तिन्यासयुतो वीरो नमस्कारेण शङ्कर ।
स्फोटनं कुरुते साक्षात् पाषाणप्रतिमादिषु ॥ ३ ॥

त्रिकोणं हस्तमात्रं तु शक्तिन्यासराग भवेत् ।
रक्तचन्देन काष्ठेन निर्मितं विधिपूर्वकम् ॥ ४ ॥

चतुरस्रं च षट्कोणं तस्योपरि त्रिकोणकम् ।
शक्तिन्यासासनं प्रोक्तं रक्तचन्दननिर्मितम् ॥ ५ ॥

आलाभे चन्दनस्यापि कर्तव्यं तिलकेन तु ।
नो चेत्क्षौमादिभिः कार्यं शक्तिन्यासे महासनम् ॥ ६ ॥

जया च विजया चैव जयन्ती चापराजिता ।
अजिता सङ्गमारम्भा एताः सन्तु ममासने ॥ ७ ॥

सप्तधा पूजयेद् देहे रक्तपुष्पैः स्वमस्तकम् ।
आत्मीयं करबीरैश्च नो चेत्कौसुम्भकेसरैः ॥ ८ ॥

पूजको मस्तकेप्येवं कृत्वा विग्रहधूपनम् ।
अथ तत्र निविष्टस्तु मन्त्री ध्यानपरो भवेत् ॥ ९ ॥

(प्. ९४) उत्तराभिमुखो मन्त्री रक्ताम्बरविभूषणः ।
रक्तचन्दनकर्पूरे तथा सिन्दूरकुङ्कुमैः ॥ १० ॥

लिप्ताङ्गो रक्तपुष्पैश्च त्रिमालालङ्कृतः सुधीः ।
कण्ठदेशे महादेव तथा रुद्रेण भाषितम् ॥ ११ ॥

अथातः संस्थितो योगी जायते शङ्करोपमः ।
द्वादशान्ते चिदाकाशे शिवशक्त्यात्मकं गुरुम् ॥ १२ ॥

परं तेजोमयं ध्यायेद् भोगमोक्षसुखाप्तये ।
नगुरोः सदृशस्त्राता न देवः शङ्करात्परः ॥ १३ ॥

न कौलात् परमो योगो न विद्या त्रैपुरी समा ।
न दीक्षातः परं ज्ञानं न शान्तेः परमं सुखम् ॥ १४ ॥

न शक्तेः च समं न्यासं न विद्या षोडशी समा ।
अथातः संप्रवक्ष्यामि शक्तिन्यासं सुरेश्वर ॥ १५ ॥

शक्तिन्यासस्तथा मन्त्र नामबीजाक्षरैर्भवेत् ।
पूर्वबीजाक्षरैर्न्यासो नामभिस्तदनन्तरम् ॥ १६ ॥

(प्. ९५) नामस्यात् पल्लवस्थाने बीजस्थाने तु बीजकम् ।
बीजपल्लवतो लोके फलावाप्तिः प्रदृश्यते ॥ १७ ॥

तथाहि - ऐं भगवती त्रिकोणाय नमः ॥

इत्याधारे विन्यस्य यौनौ ह्रां ह्रीं ह्रुं नाभिमण्डले ।
क्लां क्लीं क्लुं भुजयोर्न्यस्य ल्हां ल्हीं ल्हुं चरणे न्यसेत् ॥

कपोलयोश्च सां सीं सूं ह्रां ह्रीं ह्रुं कर्णयोर्द्वयोः ।
द्रां द्रीं द्रूं नेत्रयोर्न्यस्य लां लीं लुं नासिकद्वयोः ॥

सां सीं सूं चुबुकं न्यस्य ततो मूर्ध्नि प्रविन्यसेत् ।
अकारबीजं कुरु हंसमण्डले समस्तवर्णान् कुरु देह जीविते ।
ते देव लीनं कुरु यत्र वीक्षते तां विद्धि सा कामकला षडाश्रया ॥

यथा दुग्धे स्थितं सर्पिर्यथा तैलं तिलेषु च ।
तथा वर्गेषु सर्वेषु अकारः परिकीर्त्यते ॥

अकारः कथ्यते लोके मातृकां विश्वमातृकाम् ।
अकारादि क्षकारान्तं यो जानाति स देशिकः ॥

(प्. ९६) वाङ्माया कमलापूर्व सर्वमन्त्राः प्रकीर्तिताः ।

ओं ऐं ह्रीं श्रीं अं नमः - ब्रह्मरन्ध्रे,
४ आं नमः - तालुके, ४ इं नमः - नसि,
४ ईं नमः - लिङ्गे, ४ उं नमः - गुदि,
४ ऊं नमः - पृष्ठे, ४ ऋं नमः - कटिसन्धौ,
४ ॠं नमः - वृषणान्तरे, ४ ऌं नमः - पृष्ठवंशे,
४ ॡं नमः लम्बिकायाम्, ४ एं नमः - राजदन्ते,
४ ऐं नमः - सर्वाङ्गे व्यापकम् , ४ ओं नमः - ब्रह्माण्डे,
४ औं नमः - नादे, ४ अं नमः - नादान्ते,
४ अः नमः - कण्ठे, ४ कं नमः - हृत्पद्मे,
४ खं नमः - चिदाकाशे, ४ गं नमः - जङ्घयोः,
४ घं नमः - स्तनयोः, ४ ङं नमः - नासादौ,
४ चं नमः - --------- , ४ छं नमः - वामकुक्षौ,
४ जं नमः - दक्षकुक्षौ, ४ झं नमः - पादमूले,
४ ञं नमः - दन्तपङ्क्तौ, ४ टं नमः - जिह्वायाम्,
४ ठं नमः - मुखमध्ये, ४ डं नमः - जठरे,
४ ढं नमः - अस्थिसन्धौ, ४ णं नमः - वक्षसि,
४ तं नमः - कूर्परे, ४ थं नमः - कपोले,
४ दं नमः - हानुमूले, ४ धं नमः - कर्णकोटरे,
४ नं नमः - नयनोः (नयोः), ४ पं नमः - ऊर्ध्वपद्मे,
४ फं नमः - मध्यपद्मे, ४ बं नमः - अधःपद्मे,
४ भं नमः - भ्रुयुगे, ४ मं नमः - गण्डयुग्मके,
४ यं नमः - चन्द्रमण्डले, ४ रं नमः - तालुनि,
४ वं नमः - जिह्वायाम्, ४ शं नमः - शङ्खिनीमध्ये,
(प्. ९७) ४ षं नमः - रोमकूपे, ४ सं नमः - सप्तसन्धौ,
४ हं नमः - ब्रह्मरन्ध्रे, ४ लं नमः - सर्वगात्रे,
४ क्षं नमः - अङ्गुलिषु ।

ओं कार कुण्डली वक्त्रे कुण्डल्यपि महाकुले ।
लीयमाना प्रकर्तव्या वर्णोच्चारेण शङ्कर ॥ १ ॥

लीयमाना विजानी हि निरालम्बे महापदे ।
अप्रमेये विरुपाक्ष ककारे कुण्डलीं कुरु ॥ २ ॥

आदिक्षान्तं समुच्चार्य प्रणवं चान्तरे न्यसेत् ।
एवं विन्यस्य बीजानि रक्ष रक्षतु शूलिनी ॥ ३ ॥

वक्तव्यं साधकेन्द्रेण त्रैलोक्यानन्ददायिनी ।
रक्ष मां त्रिपुरे देवि रक्ष मां त्रिपुरेश्वरी ॥ ४ ॥

रक्ष मां रक्ष मां देवि अस्मदीयमिदं वपुः ।

ओं ऐं ह्रीं श्रीं ह्स्फ्रें श्रीं ह्रीं ऐं समयिनि मदिरानन्दसुन्दरि सकलसुरासुरवन्दिते श्रीं
ह्रीं ऐं भुजगभूपालमौलिमालार्चितचरणकमले विकटदन्ते जटाटोपनिवासिनि मदीयं शरीरं
रक्ष रक्ष परमेश्वरि हुं फट् स्वाहा ओं भू स्वाहा ओं भुव स्वाहा (प्. ९८) ओं स्व स्वाहा ओं
भुर्भुवस्वस्वाहा नरान्त्रं मालाभरणविभूषिते महाकौलिनि ब्रह्मवादिनि महाधनोन्मादकारिणि
महाभोगप्रदे अस्मदीय शरीरं वजमयं कुरु कुरु दुर्जनान् हन् हन् महीपालान् क्षोभय
क्षोभय परचक्रं भञ्जय भञ्जय जयङ्करि गमनगामिनि त्रैलोक्यस्वामिनि समलवरयरूं
रमलवरयरूं यमलवरयरूं भमलवरयरूं क्षमलवरयरूं श्रीभैरवि प्रसीद प्रसीद
स्वाहा इति व्याप्य

एषा विद्या महाविद्या समया बलवत्तरा ।
अतिवीर्यतरा तीब्रसूर्यकोटिसमप्रभा ॥

कुलाङ्गना कुलं सर्वं मदीयं परमेश्वरी ।
देवि रक्षतु दिव्याङ्गं दिव्याङ्गी भोगदायिनी ॥

रक्ष मां रक्ष मां देवि शरीरं परमेश्वरी ।
मदीयं मदिरानन्दमापादतलमस्तक ॥

निरालम्बे महातत्त्वे लीयमाना सुरेश्वर ।
हुंकारं च ततः कृत्वा पूजयेद् भूमिमण्डले ॥

(प्. ९९) पूजान्ते वामहस्तेन ह्रींकारत्रिविधं जपेत् ।
पश्चात् त्रैपुरमन्त्राणां मूलमन्त्रेण शङ्कर ॥

मालामन्त्रविधानेन क्रमेणोच्चारणं भवेत् ।

ऐं ह्रीं श्रीं ओं नमस्त्रिपुरसुन्दरि हृदयदेवि शिरोदेवीत्यादि महाश्रीचक्रनगरसाम्राज्ञी नमस्ते
नमस्ते स्वाहा इत्यन्तश्च इति शुद्धशक्तिमालामन्त्रः ।

कामराजभुक्त्वा ऐं भगवति त्रिकोणाय नमः

त्रिपुराख्या महादेवी भुक्तिमुक्तिफलप्रदा ।
दर्शनेषु समस्तेषु पाषाण्डेषु विशेषतः ॥

दिव्यरूपा महादेवी सर्वत्र परमेश्वरी ।
अथातः संप्रवक्ष्यामि मन्त्रराजमिमं परम् ॥

ऐं ह्रीं श्रीं पीठोपपीठमध्येस्था गगनगिरिभुवनगोकुलनिवासिनि ओं कुलकौलविभेदिनि
सकलजनमनानन्दकारिणि करोतु मम चिन्तितकार्य शतमेकभैरवी पुनातु परमेश्वरी
मदनमण्डलनन्दिनि सप्तकोटिमन्त्राणां परमेश्वरी स्वाहा ॥

(प्. १००) त्रिपुरोऽयं महामन्त्रः कथ्यते सर्वयोगिभिः ।
मन्त्रोद्य देवदेवेशी जनानन्दस्वरूपिणी ॥

वीरशायनलोकानां सर्वसिद्धिफलप्रदा ।
सिद्धि योगाश्च यानि कर्माणि भूतले ॥

तानि सर्वाणि सिध्यन्ति मन्त्रेणानेन शङ्कर ।
अनेनापि च संव्याप्य ततो मन्त्रान्तरं न्यसेत् ॥

ऐं नमो भगवती त्रिकोणे त्रिधावर्णे महालिङ्गालङ्कृते त्रैलोक्योत्पत्तिस्थिति प्रलयकारिणि सहल ह्रीं
कन्दर्पानन्ददायिनि ----------- ब्रह्मदण्डरेखे ------------- विद्युत्पद्मे ------------- पाशाङ्कुशालङ्कृते वद
वद वाग्वादिनि श्रीं भ्रष्टमहीपालराज्यप्रदे ऐं वरदाश्रितहस्ते समस्तजनानन्दकारिणि क्लीं क्लीं
कामराजबीजाश्रये द्रां द्रीं क्लीं ब्लूं सः? क्षोभय क्षोभय क्षोभिणि ह्स्रौंः * *? ह्सौः
ह्स्रा दह दह सौः मथ मथ अभयप्रदायिनि चतुर्भुजे त्रिनेत्रे प्रेतासनस्थायिनि
कपालमालालङ्कृते चन्द्रार्धकृतशेखरे त्रिपुरे भुक्तिमुक्तिफलप्रदे ऐं ओं नमः सिद्धं
आदिक्षान्तान् क्षादिचान्तान् वर्णोनुचार्य अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं
औं अं अः (प्. १०१) कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं
णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं
हं लं क्षं क्षं लं हं सं षं शं वं लं रं यं मं भं बं फं पं नं
धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं
कं अः अं औं ओं ऐं एं ॡं ऌं ॠं ऋं ऊं उं ईं इं आं अं हं स्यै नमः इति
सर्वाङ्गे व्यापकं न्यसेत् ।

ओं ऐं सर्वबीजमातः श्रीसमयिनि मम मनोरथं देहि देहि स्वाहा श्रीमन्त्रराजाय नमः इति
ब्रह्मरन्ध्रे ।
ऐं स्हीं स्हीं सकलह्रीं स्ह्रीं ह्स्रौं त्रिपुरभैरव्यै नमः इति - भ्रूमध्ये ।
ऐं ह्रीं सौः ऐं क्रों त्रिपुरायै नमः - हृदये ।
ह्स्रौं क्लीं मोहिन्यै नमः - नाभौ ।
ऐं क्लीं ब्लूं सः भ्रामरी त्रिपुरायै नमः - लिङ्गे ।
ह्स्रौं ऐं ह्रीं श्रीं प्रें त्रैलोक्यस्वामिन्यै नमः - मूलाधारे ।
ऐं क्लीं सौः चण्डिकायै नमः - कट्योः ।
ऐं ऐं सौः कपालांकुरवासिन्यै त्रिपुरायै नमः - पादयोः ।

एवं विन्यस्य यथाशक्त्या ऐं ह्रीं श्रीं हं सं इति जपित्वा ऐं ऐं सौः

श्वेतबीजानिमान्येवं ध्यानयुक्तो विचिन्तयेत् ।
ध्यानान्ते श्रीमहारुद्र मन्त्री श्लोकशतं जपेत् ॥

(प्. १०२) शक्तिरुद्रमयं देहं मदीयं त्रिपुरे कुरु ।
देहि मे देव देवेशि नित्ये नित्यमभीप्सितम् ॥ १ ॥

मस्तकं मङ्गलादेवी ललाटं कुलसुन्दरि ।
नेत्रयुग्मं महाकाली कर्णौ रक्षतु कुण्डली ॥ २ ॥

कपाली कर्णरन्ध्रे च कपोलौ कमलावली ।
दन्तान् रक्षतु चामुण्डा चुबुकं मेरुवासिनी ॥ ३ ॥

भ्रूमध्ये कण्ठदेशं तु रक्षन्मे भुवनेश्वरी ।
जिह्वां सरस्वती रक्षेत् तद्दुकं तालुवासिनी ॥ ४ ॥

स्थातु मे कमला स्कन्धे स्कन्धा ते कुलमालिनी ।
कुक्षौ विनायकी स्था तु जया नन्दास्तनद्वये ॥ ५ ॥

कण्ठकूपे महालक्ष्मी हृदये चण्डभैरवि ।
ब्रह्माणी नाभिदेशे तु स्थातु ज्वालावली गुदे ॥ ६ ॥

लिङ्गे लिङ्गप्रभा चैव मुण्डिनी मेदमण्डले ।
नाडिचक्रे महावेगा उद्भटा दक्षिणे करे ॥ ७ ॥

(प्. १०३) वामहस्ते महामाया विद्या हस्ताङ्गुलीषु च ।
वैष्णवी वामपादे च स्थातु चक्रायुधान्विता ॥ ८ ॥

तथा दक्षिणपादे तु एकपात्परमेश्वरी ।
पादाङ्गुलिषु कौबेरी रोमकूपे महोद्भवा ॥ ९ ॥

मण्डली नखमूलेषु वाराहि मेढ्रमूलके ।
जालन्धरी जलस्थाने कामाक्षी काममध्यगा ॥ १० ॥

उद्भटानामिलिङ्गान्ते नासाग्रे पूर्णपीठगा ।
पृष्ठवंशे जया देवी अस्थिसन्धिषु चर्चिका ॥ ११ ॥

चर्मधारी त्वचा मेढ्रं स्थातु नित्यं महायशा ।
रक्तमध्ये नमोन्ता च स्थातु मे हंसिनी सदा ॥ १२ ॥

माहेश्वरी कुमारी द्वौ ममैं ते स्थातु चाङ्गके ।
वामदक्षिणयोश्चैव धीराक्षी कटिसन्धिषु ॥ १३ ॥

देवी रक्षतु मे गात्रं मस्तकं कुलगामिनी ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ १४ ॥

(प्. १०४) पञ्चभूतात्मभूतेशी सदा रक्षतु मे कुलम् ।
राज्यं ददातु मे चैन्द्री प्रजां चैव प्रजापति ॥ १५ ॥

माया ददातु मे नित्यं धनं धान्यं यशस्तथा ।
रणे राजकुले चैव शत्रुमध्ये महावने ॥ १६ ॥

रक्तनेत्र महादेवी करोतु मम चिन्तितम् ।
समयं समया रक्षेत् विद्यां विद्या कुलागमे ॥ १७ ॥

साधकानां जगन्नाथ भुक्तिमुक्तिफलप्रदा ।
पूर्णाकरोतु मे सिद्धिं त्रैलोक्यपि जया सुखम् ॥ १८ ॥

घण्टाली च महाविद्या सा मे रक्षतु घण्टिकाम् ।
सप्तकोटिसहस्राणां मन्त्राणां नायिका तु या ॥ १९ ॥

सा मे सुरेश्वरी देवी सदा सिद्धिं प्रयच्छतु ।
उल्कामुखी मुखे स्थातु मार्जारि देहसन्धिषु ॥ २० ॥

भद्रकाली तु या विद्या सा मे स्थातु शिवालये ।
त्रिकोणं च त्रिधा वृत्तं त्रैपुरं चक्रमुत्तमम् ॥ २१ ॥

(प्. १०५) मस्तके स्थातु मे नित्यं तस्यान्ते बहुरूपिणी ।
पूर्वोक्ता त्रिपुराशक्ति स्थातु मे मन्मथोत्थिता ॥ २२ ॥

क्षोभयन्ति जगत्सर्वं मदिरानन्दविह्वला ।
निवासं कुरु मे देहे साम्प्रतं दिव्ययोगिनी ॥ २३ ॥

एह्येहि त्वं महादेवी सिद्धयोगिनि मे कुलम् ।
शत्रूणां घातनार्थाय जन्तूनां भोगदायिनी ॥ २४ ॥

महायोगिनि देहेस्मिन् सर्वदा निलयं कुरु ।
माहेन्द्री मे शिखायां च योनिमध्ये गणेश्वरी ॥ २५ ॥

प्रेताक्षी नाम विख्याता करोतु कुशलं मम ।
डाकिनी पूर्वभागे च मम सौख्यं प्रयच्छतु ॥ २६ ॥

साकिनी पश्चिमे भागे दक्षिणे चापि राकिनी ।
वामभागे महामाया करोतु कुशलं मम ॥ २७ ॥

सास्मदीयं शिरस्थातु सदा रक्षतु भैरवी ।
स्थातु भाले विशालाक्षी निर्मलामलवर्जिता ॥ २८ ॥

(प्. १०६) सा योगिनी महायोगा स्थातु श्रीर्मस्तके मम ।
या कालकल्पिता काली कालरात्रीति कथ्यते ॥ २९ ॥

सा योगिनी महायोगा स्थातु श्रीर्मस्तके मम ।
निशाचरा च राज पूजिता च निशाचरी ॥ ३० ॥

सा योगिनी महायोगा स्थातु श्रीर्मस्तके मम ।
सुन्दरी चोर्ध्वकेशी च कोपना मुक्तकेशिका ॥ ३१ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या वीरेति समाख्याता वीराणां जयदायिनी ॥ ३२ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या मालिनी समाख्याता नासाग्रे बिन्दुमालिनी ॥ ३३ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या कङ्काल करालाङ्गी चन्द्रकङ्कालकुण्डला ॥ ३४ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
प्रचण्डा च विरूपाक्षी विरूपा विश्वरूपिणी ॥ ३५ ॥

(प्. १०७) सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
खट्वाङ्गी कथ्यते या च रौद्री रुद्रेण पूजिता ॥ ३६ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
कुलयोगिनि प्रसिद्धा च या लोके श्रूयते कलौ ॥ ३७ ॥

सा योगिनि महामाया स्थातु श्रीर्मस्तके मम ।
प्रेताक्षी कथ्यते या च फूत्कारोत्करगर्जिता ॥ ३८ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
धूम्राक्षी या समाख्याता शास्त्रेस्मिन् योगिनीमते ॥ ३९ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
घोररूपा महादेवी कथ्यते या कुलागमे ॥ ४० ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
विश्वरूपा विशेषेण करोति च गत्र्यम् ॥ ४१ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
भयं क्षयि महादेवि या चोक्ता वैष्णवागमे ॥ ४२ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
(प्. १०८) कपालमालिका युक्ता या देवी मुण्डधारिणी ॥ ४३ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
भीषणा भैरवी नाम या देवी भिमविक्रमा ॥ ४४ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
न्यग्रोधवासिनी या च कथ्यते च सुरार्चिता ॥ ४५ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
भीषणा भैरवी या च भैरवाष्टकवन्दिता ॥ ४६ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
प्रेताक्षी दीर्घलम्बोष्ठी महामाया महाबला ॥ ४७ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
खट्वाङ्गी या महाशक्तिः संसारार्णव तारिणी ॥ ४८ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या समस्तेषु मन्त्रेषु प्रोच्यते मन्त्रवादिनि ॥ ४९ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
(प्. १०९) कालघ्नी कथ्यते या च युगान्ते परमेश्वरी ॥ ५० ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
गृहिणीति समाख्याता सुरासुर महोरगैः ॥ ५१ ॥

सा योगिनी महामाया स्थार्तु श्रीर्मस्तके मम ।
चक्रिणी गद्यते या च एकपादात्त्रिलोचना ॥ ५२ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
या विश्वबाहुका देवी विश्वनाथप्रिया सती ॥ ५३ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
दर्शनेषु समस्तेषु वन्दिता भुवनेश्वरी ॥ ५४ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
कण्टकद्देदनार्थाय शास्त्रे या कण्टकी स्मृता ॥ ५५ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
कीलकी कथ्यते या च सप्तहस्ता महाबला ॥ ५६ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
संग्रामे या महादेवी महामारीति कथ्यते ॥ ५७ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
यमदंष्ट्रेति विख्याता सुरासुरसुपूजिता ॥ ५८ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
करालिनी तु या देवी महामाया महाबला ॥ ५९ ॥

सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ।
ललिताम्बा महादेवी सर्वचक्रैकनायका ॥ ६० ॥

सा योगिनी महायोगा स्थातु श्रीर्मस्तके मम ।
नासाग्रे कौलिनी स्थातु मदनाक्षी तथा मुखे ॥ ६१ ॥

रोमकूपे कपोले तु तालुके चापधारिणी ।
द्राविणी क्षोभिणी चैव स्तम्भिनी मोहिनी तथा ॥ ६२ ॥

रौद्रकर्म महाघण्टा डामरी त्वरिता मतिः ।
ऐं ह्रीं श्रीं कुलमाता च काकदृष्टिरधोमुखी ॥ ६३ ॥

कपालकुण्डला चैव कपाली कुलमालिनी ।
(प्. १११) देवी रक्षतु मे गात्रं मस्तकं कुलमालिनी ॥ ६४च्

भूमिरापस्तथा तेजो वायुराकाशमेव च ।
पञ्चभूतेषु भूतेशी सदा रक्षतु मे कुलम् ॥ ६५ ॥

राज्यं ददातु मे चैन्द्रीं प्रजां चैव प्रजावती ।
माया ददातु मे नित्यं धनं धान्यं महद्यशः ॥ ६६ ॥

रणे राजकुले वापि शत्रुमध्ये महाजले ।
रक्तनेत्रा महादेवी करोतु मम चिन्तितम् ॥ ६७ ॥

समयं समया रक्षेद् विद्यां विद्या कुलागमे ।
साधकानां जगन्नाथ सा मे सिद्धिफलप्रदा ॥ ६८ ॥

द्विजटी त्रिजटी चैव कन्दली ललिताखिला ।
गायत्री चाम्बिका तारा पार्वती कमला प्रभा ॥ ६९ ॥

मोदिनी मदनोन्मादा सुन्दरी मदनातुरा ।
विषणा भीषणा नाम प्रेतसिद्धविभीषणी ॥ ७० ॥

क्षुधा तृषा तथा निद्रा कान्ति वृद्धिस्तथा द्युतिः ।
(प्. ११२) सन्ध्या रति क्षान्तिस्त्वनिशं परिपठ्यते ॥ ७१ ॥

सुरनाथेति विख्याता नगरे नगदेवता ।
ग्रामदेवी ह्यधिष्ठात्री पीठे पीठेश्वरी विदुः ॥ ७२ ॥

कावेरी नर्मदा चैव गङ्गेति यमुनेति च ।
गोदावरी महापुण्या प्रोच्यते चाप्यरुन्धती ॥ ७३ ॥

त्रैलोक्येऽपि महादेवी स्त्रीनाम्नी या प्रकीर्तिता ।
सा देवीत्युपलक्षेत स्थातु श्रीर्मस्तके मम ॥ ७४ ॥

सुवर्णलेखिनी प्रोक्ता विद्या सा प्रोच्यते किल ।
निर्मूलिनि भुजङ्गानां सा करोतु सुखं मम ॥ ७५ ॥

कुरुकुल्लेति विख्याता पक्षिराजकुलोद्भवा ।
या विद्या सा महारूपा जिह्वाग्रे स्थातु सर्वदा ॥ ७६ ॥

ओंकारिणीति विख्याता देहे स्थातु सदा मम ।
विघ्नापहारिणी विद्या कलिरूप विदारिणी ॥ ७७ ॥

भेरुण्डा पातु मे कण्ठे तोतला स्थातु मस्तके ।
तथा सुबलरेखापि मूले स्थातु सदा मम ॥ ७८ ॥

जाङ्गली विषनाशाय वाचासिद्धिं करोतु मे ।
सर्वसिद्धिकरी विद्या भुक्तिमुक्तिफलप्रदा ॥ ७९ ॥

ललाटे मङ्गला स्थातु विजया स्थातु मस्तके ।
एकाक्षी दक्षिणस्कन्धे वामे चैव त्रिलोचना ॥ ८० ॥

जयन्ती स्थातु मे कुक्षौ कट्यां कन्दर्पमोहिनी ।
मालिनी लिङ्गसन्धौ च हृदि स्थातु समाधिनी ॥ ८१ ॥

अम्बिका पृष्ठवंशे च पार्श्वयो स्थातु मेदिनी ।
दिग्गजाङ्गी कराग्रेषु नागेन्द्री नखसन्धिषु ॥ ८२ ॥

व्याघ्री चक्री च जङ्घायां स्थातु पादतले मही ।
अमृता शङ्खिनी रन्ध्रे लोचने च विलासिनी ॥ ८३ ॥

कालिन्दी मूलजिह्वा च रक्तं रक्षतु रक्तिनी ।
लाङ्गली जाङ्गुलं रक्षेदस्थिनी चास्थिसन्धिषु ॥ ८४ ॥

मज्जिनी देहमज्जां च शुक्रं शुक्रेश्वरी तथा ।
(प्. ११४) त्वचं रक्षतु वेताली मम रोगप्रनाशिनी ॥ ८५ ॥

उद्भटा कुरुतां शान्तिं सदैव मम विग्रहे ।
पद्मापादतले स्थातु पथि रक्षतु पन्थिनी ॥ ८६ ॥

चोराग्निराजसर्पेभ्यो भयाद् रक्षतु भैरवी ।
दुष्टानां दृष्टिबन्धं च सदा करोतु बन्धिनी ॥ ८७ ॥

चपेटा नाम या विद्या सा मे करोतु मङ्गलाम् ।
मर्कटी घटकर्णा च हनुमन्ती च रावणी ॥ ८८ ॥

घुर्घुरीति च विख्याता वन्दे विद्याचतुष्टयम् ।
चेटका ज्ञानदा विद्या कौमारी चरणावली ॥ ८९ ॥

विघ्नराजैः सुता नाम तुष्टा सन्तानरूपिणी ।
मूलाकाशस्थिता हंसी पातकीदलनोद्धृता ॥ ९० ॥

दशैता मन्त्रविद्यास्तु तिष्ठन्तु मम मस्तके ।
शुभा मे चाग्रतस्थातु योगिनी स्थातु दक्षिणे ॥ ९१ ॥

वामाङ्गे रतिकाले च पश्चमे स्थातु शृ”न्खला ।
(प्. ११५) शिखा मे शङ्खिनी रयोदस्तं वस्त्रवती शुभा ॥ ९२ (९३)॥

कवचे कवचाङ्गी च नेत्रे नेत्रकृतोत्सवा ।
प्रकटा गोपिताः सर्वा भीषणा भैरवी शिवा ॥ ९३ (९४)॥

संभ्रमा जयिनी हम्सा सुभगा जलदेवता ।
यक्षिणी चूडकन्या च तथा चाकाशगामिनी ॥ ९४ ॥

भूचरी चरकुम्भी च सकलागमदेवता ।
रङ्गिणी देव मैत्री च प्रसिद्धा मदिरालिका ॥ ९५ ॥

पूजिता सर्वसिध्यर्थं शास्त्रेऽस्मिन् योगिनीमते ।
स्थायिनी गद्यते सद्भिः सानन्दावनवासिनी ॥ ९६ ॥

चतुषष्ठ्याश्रया देवी त्रिवर्गार्थप्रदायिनी ।
नमोस्तु ते जगन्नाथे नमोस्तु भुवनेश्वरी ॥ ९७ ॥

नमो भोगप्रदे देवि नमो देवि महेश्वरी ।
नमः संहारपारस्थे नमो निर्वाणदायिनी ॥ ९८ ॥

नमोस्तु ते महादेवी नमः संसारतारिणी ।
(प्. ११६) इत्येतास्तु महाशम्भो योगिन्यो येन चिन्तिताः ॥ ९९ ॥

आधारे लीयमानस्तु स योगी योगविद् भवेत् ।
तिष्ठन्ति योगिनीरूपाः त्रैलोक्य सचराचरे ॥ १०० (१०१)॥

योगिन्यो यास्तु ताः सर्वा दृढं कुर्वतु मे वपुः ।
अहं ब्रह्माद्यहं विष्णुरहमेव महेश्वरः ॥ १०१ ॥

सर्वभूतनिवासोहं लोके शक्तिविचिन्तकः ।
शक्तिन्यासकृतेनात्र शरीरेण सुरासुराः ॥ १०२ ॥

प्रदिद्धोद्देशमात्रेण आज्ञां कुर्वतु मे सदा ।
यत्किञ्चिद् योगिनीरूपं त्रैलोक्ये चास्ति शङ्कर ॥ १०३ ॥

तत्सर्वं तिष्ठते देहे शक्तिन्यासे कृते सति ।
कामिनी कुरुते वापि यं न्यासं शक्तिनिर्मितम् ॥ १०४ ॥

तां देवीं दिव्यरूपस्थां संसार त्रिपुरां विदुः ।
पुत्राणां च तथा देयं भक्तानां च विशेषतः ॥ १०५ ॥

शक्तिन्यासमिदं देयं न देयं यस्य कस्यचित् ।
(प्. ११७) मनुष्याणां महीलोके चिन्तितार्थफलप्रदम् ॥ १०६ ॥

यः करोति मम न्यासं षोढान्यासाधिकं विभो ।
स जीवेत् शक्तिरूपेण त्रैलोक्योन्मूलन क्षम ॥ १०७ ॥

शक्तिन्यासकृते जीवे यः कश्चित् क्षोभको भवेत् ।
कर्मणा मनसा वाचा तस्य मूर्धा पतिष्यति ॥ १०८ ॥

एवं शक्तिन्यासं विधाय महाचक्रेश्वरीन्यासं कुर्यात् ।

पूर्ववत् हृदिकरषडङ्गध्यानपूर्वं यथा शक्तिं जपित्वा जपं पूर्ववत्समर्पयेत् ।

अस्य श्रीप्रासाद परापरप्रासादमन्त्रस्य सच्चिदानन्दभैरवऋषिः चिन्मयछन्दः
श्रीपराम्बा देवता हं बीजं औं शक्तिः सः कीलकं मम पराम्बाप्रसादसिध्यर्थे जपे
विनियोगः ।

शिरसि - ऋषये नमः, मुखे - छन्दसे नमः,
हृदये - देवतायै नमः, दक्षस्तने - बीजाय नमः,
वामस्तने - शक्तये नमः, नाभौ - कीलकाय पादयो विनियोगः । ह्सा स्हामित्यादिकरषडङ्गन्यासः


(प्. ११८) ओं ऐं ह्रीं श्रीं ह्सौंः स्हौंः ईशानाय नमः - अङ्गुष्ठाभ्यां नमः,
६ तत्पुरुषाय नमः - तर्जनीभ्यां नमः,
६ अघोराय नमः - मध्यमाभ्यां नमः,
६ वामदेवाय नमः - अनामिकाभ्यां नमः,
६ सद्योजाताय नमः - कनिष्ठिकाभ्यां नमः ।

मूर्ध्नि - ६ हं नमः, मुखे - ६ यं नमः,
हृदि - ६ रं नमः, नाभौ - ६ वं नमः,
मूलाधारे - ६ लं नमः, इति द्विवारं कुर्यात् ।

शिरसि - ६ ईशानाय नमः, मुखे - ६ तत्पुरुषाय नमः,
हृदये - ६ अघोराय नमः, नाभौ - ६ वामदेवाय नमः,
मूलाधारे - ६ सद्योजाताय नमः ।
मूलाधारे - ६ सद्योजाताय नमः, नाभौ - ६ वामदेवाय नमः,
हृदि - ६ अघोराय नमः, मुखे - ६ तत्पुरुषाय नमः,
शिरसि - ६ ईशानाय नमः, सहस्रदलपङ्कजे ध्यात्वा

६ ईशानाय नमः ऊर्ध्ववक्त्राय नमः,
६ तत्पुरुषाय नमः पूर्ववक्त्राय नमः,
६ अघोराय नमः दक्षिणवक्त्राय नमः,
६ सद्योजाताय नमः पश्चिमवक्त्राय नमः,
६ वामदेवाय नमः उत्तरवक्त्राय नमः,
६ ह्सां स्हामित्यादिषडङ्गन्यासं विधाय महाषोढान्यासं कुर्यात् । तदुक्तं कुलप्रकाशतन्त्रे
-

(प्. ११९) महाषोढाह्वयं न्यासं ततः कुर्यात् समाहितः ।
वक्ष्यमाणेन विधिना देवताभावसिद्धये ॥

यस्य कस्यापि नैवोक्तं तव स्नेहाद् वदाम्यहम् ।
प्रपञ्चो भुवनं मूर्तिमन्त्रदैवतमातरः ॥

महाषोढाह्वयो न्यासः सर्वन्यासोत्तमोत्तमः ।

अस्य प्रयोगो यथा -

ओं ऐं ह्रीं श्रीं ह्सौंः स्हौंः अं प्रपञ्चरूपायै श्रियै नमः - मूर्ध्नि,
४ ह्सौंः स्हौंः आं द्वीपरूपायै मायायै नमः - मुखे,
४ ह्सौंः स्हौंः इं जलधिरूपायै कमलायै नमः - दक्षनेत्रे,
४ ह्सौंः स्हौंः ईं गिरिरूपायै विष्णुवल्लभायै नमः - वामनेत्रे,
४ ह्सौं स्हौं उं पत्तनरूपायै पद्मधारिण्यै नमः - दक्षकर्णे,
४ ह्सौं स्हौं ऊं पीठरूपायै समुद्रतनयायै नमः - वामकर्णे,
४ ह्सौं स्हौं ऋं क्षेत्ररूपायै लोकमात्रे नमः - दक्षनासायाम् ।

प्रासादपरा पराप्रासादबीजं आदौ योजनीयम् ।

६ ॠं वनरूपायै कमलवासिन्यै नमः - वामनासायाम्,
६ ऌं आश्रमरूपायै इन्दिरायै नमः - दक्षगण्डे,
६ ॡं गुहारूपायै मायै नमः - वामगण्डे,
६ एं नदीरूपायै रमायै नमः - ऊर्ध्वोष्ठे,
६ ऐं चत्वररूपायै पद्मायै नमः - अधरोष्ठे,
६ ओं उद्भिजरूपायै नारायणप्रियायै नमः - ऊर्ध्वदन्ते,
(प्. १२०) ६ औं स्वेदजरूपायै सिद्धलक्ष्म्यै नमः - अधोदन्ते,
६ अं अण्डजरूपायै राजलक्ष्म्यै नमः - मुखे,
६ अः जरायुजरूपायै महालक्ष्म्यै नमः - मुखे ।
६ कं कालरूपायै आर्यायै नमः - दक्षकक्षायाम्,
६ खं तुटिरूपायै अनायै नमः - कूर्परे,
६ गं कलारूपायै चण्डिकायै नमः - मणिबन्धे,
६ घं काट्यारूपायै दुर्गायै नमः - अङ्गुलिमूले,
६ ङं निमिषरूपायै शिवायै नमः - अङ्गुल्यग्रे,
६ चं श्वासरूपायै अपर्णायै नमः - वामकक्षायाम्,
६ छं घटिकारूपायै अम्बिकायै नमः - कूर्परे,
६ जं मूहूर्तरूपायै सत्यै नमः - वाममणिबन्धे,
६ झं प्रहररूपायै ईश्वर्यै नमः - अङ्गुलिमूले,
६ ञं दिवसरूपायै शाम्भव्यै नमः - वाम-अङ्गुल्यग्रे,
६ टं सन्ध्यारूपायै ईशान्यै नमः - दक्षपादमूले,
६ ठं रात्रिरूपायै पार्वत्यै नमः - जानौ,
६ डं तिथिरूपायै सर्वमङ्गलायै नमः - गुल्फे,
६ ढं वाररूपायै दाक्षायिण्यै नमः - अङ्गुलिमूले,
६ णं नक्षत्ररूपायै हैमवत्यै नमः - अङ्गुल्यग्रे,
६ तं योगरूपायै महामायायै नमः - वामपादमूले,
६ थं करणरूपायै माहेश्वर्यै नमः - जानुनि,
६ दं पक्षरूपायै मृडान्यै नमः - गुल्फे,
६ धं मासरूपायै रुद्राण्यै नमः - अङ्गुलिमूले,
६ नं राशिरूपायै शर्वाण्यै नमः - अङ्गुल्यग्रे,
४ पं रुतुरूपायै परमेश्वर्यै नमः - दक्षपार्श्वे,
(प्. १२१) ६ फं अयनरूपायै काल्यै नमः - वामपार्श्वे,
६ बं संवत्सररूपायै कात्यायिन्यै नमः - पृष्ठे,
६ भं युगरूपायै गौर्यै नमः - नाभौ,
६ मं प्रलयरूपायै भवान्यै नमः - जठरे,
६ यं पञ्चभूतरूपायै ब्राह्म्यै नमः - हृदि,
६ रं पञ्चतन्मात्ररूपायै वागीश्वर्यै नमः - दक्षांसे,
६ लं पञ्चकर्मेन्द्रियरूपायै वाण्यै नमः - वामदक्षांसे,
६ वं पञ्चज्ञानेन्द्रियरूपायै सावित्र्यै नमः - अपरगले,
६ शं पञ्चप्राणरूपायै सरस्वत्यै नमः - दक्षकक्षायाम्,
६ षं गुणत्रयरूपायै गायत्र्यै नमः - वामकक्षायाम्,
६ सं अन्तःकरणचतुष्टयरूपायै वाक्प्रदायै नमः - दक्षपाणिपादान्तम्,
६ हं अवस्थात्रयरूपायै शारदायै नमः - वाक्पाणिपादान्तम्,
६ लं सप्तधातुरूपायै भारत्यै नमः - जठराननयोः,
६ ह्सौंः स्हौः क्षं त्रिदोषायायै विधात्मिकायै नमः व्यापकम्, इति मातृकास्थानेषु न्यसेत् । ततो
ओं ऐं ह्रीं श्रीं ह्सौंः स्हौंः अं आं इत्यादि क्षमित्यन्तमातृकामुच्चार्य
सकलप्रपञ्चाधिरूपायै पराम्बादेव्यै नमः ह्सौंः स्हौंः इति व्यापकं कुर्यात् । इति
प्रपञ्चन्यासः ।

(प्. १२२) अथ भुवनन्यासः -

ओं ऐं ह्रीं श्रीं ह्सौंः स्हौंः अं आं इं अतललोकनिलयशतकोटिगुह्याद्ययोगिनी
मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः - पादयोः,
६ ईं उं ऊं वितललोकनिलयशतकोटिगुह्यतरानन्तयोगिनी मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः -
गुल्फयोः,
६ ऋं ॠं ऌं सुतललोकनिलयशतकोट्यातिगुह्याचिन्त्ययोगिनी मूलदेवतायुताधारशत्यम्बादेव्यै नमः -
जङ्घयोः,
६ ॡं एं ऐं महातललोकनिलयशतकोटिमहागुह्यस्वतन्त्रयोगिनी
मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः - जान्वोः,
६ ओं औं तलातललोकनिलयशतकोटिपरमगुह्य-इच्छायोगिनी मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः
- उर्वोः,
६ अं अः रसातललोकनिलयशतकोटिरहस्यज्ञानयोगिनी मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः -
स्फिचौ,
६ कं खं गं घं ङं पाताललोलनिलयशतकोटिरहस्यतरक्रियायोगिनी
मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः - मूलाधारे,
६ चं छं जं झं ञं भूर्लोकनिलयशतकोटि-अतिरहस्यडाकिनीयोगिनी
मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः - स्वाधिष्ठाने,
६ टं ठं डं ढं णं भूवर्लोकनिलयशतकोटिमहारहस्य राकिनीयोगिनी
मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः - मणिपूरे,
६ तं थं दं धं नं स्वर्लोकनिलयशतकोटिपरमरहस्यलाकिनीयोगिनी
मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः - अनाहते,
६ पं फं बं भं मं महर्लोकनिलये शतकोटिगुप्तकाकिनीयोगिनी
मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः - विशुद्धौ,
६ यं रं लं वं जनोलोकनिलयशतकोटिगुप्ततरशाकिनीयोगिनी मूलदेवतायुताधारशक्त्यम्बादेव्यै
नमः - आज्ञायाम्,
६ शं षं सं हं तपोलोकनिलयशतकोटि-अतिगुप्तहाकिनीयोगिनी मूलदेवतायुताधारशक्त्यम्बादेव्यै
नमः - भाले,
६ लं क्षं सत्यलोकनिलयशतकोटिमहागुप्तयाकिनीयोगिनी मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः -
ब्रह्मरन्ध्रे ।
ह्सौंः स्हौंः अकारादिक्षान्तं मातृकामुच्चार्य चतुर्दशभुवनाधिपायै श्रीपराम्बादेव्यै
नमः व्यापकं कुर्यात् । इति भुवनन्यासः ।

अथ मूर्तिन्यासः -

ओं ऐं ह्रीं श्रीं ह्सौंः स्हौंः अं केशव अक्षर्याभ्यां नमः - शिरसि,
६ आं नारायण आद्याभ्यां नमः - मुखे,
६ इं माधव इष्टदाभ्यां नमः - दक्षस्कन्धे,
(प्. १२४) ओं ईं गोविन्द ईशानीभ्यां नमः - वामस्कन्धे,
६ उं विष्णु उमाभ्यां नमः - दक्षपार्श्वे,
६ ऊं मधुसूदन ऊर्ध्वनयनाभ्यां नमः - वामपार्श्वे,
६ ऋं * * * *(?) ऋद्धिभ्यां नमः - दक्षकटौ,
६ ॠं वामनरूपिणीभ्यां नमः - वामकटौ,
६ ऌं श्रीधरलुप्ताभ्यां नमः - दक्षोरौ,
६ ॡं हृषीकेशलूनदोषाभ्यां नमः - वामोरौ,
६ एं पद्मनाभ एकनायकाभ्यां नमः - दक्षजानौ,
६ ऐं दामोदर ऐंकारिणीभ्यां नमः - वामजानौ,
६ ओं वासुदेव ओघवतीभ्यां नमः - दक्षजङ्घायाम्,
६ औं सङ्कर्षण अर्कमालाभ्यां नमः - वामजङ्घायाम्,
६ अं प्रद्युम्न अञ्जनप्रभाभ्यां नमः - दक्षपादे,
६ अः अनिरुद्ध अस्थिमालाधराभ्यां नमः - वामपादे,
६ कं भं भवकरभद्राभ्यां नमः - दक्षपादाग्रे,
६ खं बं शर्वखगबलाभ्यां नमः - वामपादाग्रे,
६ गं फं रुद्रगरिमादिफलप्रदाभ्यां नमः - दक्षपार्श्वे,
६ घं पं पशुपतिघण्टापद्मधराभ्यां नमः - वामपार्श्वे,
६ ङं नं उग्रानन्दाभ्यां नमः - दक्षबाहुमूले,
६ चं धं महादेवचन्द्रधराभ्यां नमः - वामबाहुमूले,
६ छं दं भीमछन्दोमयीभ्यां नमः - कण्ठे,
६ जं थं ईशानजगत्स्थानाभ्यां नमः - ऊर्ध्ववक्त्रे शिरसि,
६ झं तं तत्पुरुषबलभाराभ्यां नमः - पूर्ववक्त्रे मुखे,
६ ञं णं अघोरज्ञानाभ्यां नमः - दक्षवक्त्रे,
(प्. १२५) ६ दक्षकर्णे टं ढं सद्योजात धराभ्यां नमः पश्चिमवक्त्रे
६ चूडाधः ठं डं वामदेव ठंकारकृतिडामरीभ्यां नमः उत्तरवक्त्रे,
६ वामकर्णे ६ यं ब्रह्मयक्षिणीभ्यां नमः - मूलाधारे,
६ रं प्रजापतिरञ्जनीभ्यां नमः - स्वाधिष्ठाने,
६ लं वेधालक्ष्मीभ्यां नमः - मणिपूरे,
६ वं परमेष्ठिवज्रिणीभ्यां नमः - अनाहते,
६ शं पितामहशशिधराभ्यां नमः - विशुद्धौ,
६ षं विधातृषडाधारलयाभ्यां नमः - आज्ञायाम्,
६ सं विरिञ्चिसर्वनायिकाभ्यां नमः - भाले,
६ हं स्रष्टाहसिताननाभ्यां नमः - सीमन्ते,
६ लं चतुराननललिताभ्यां नमः - सिरसि,
६ शं हिरण्यगर्भक्षमाभ्यां नमः - ब्रह्मरन्ध्रे,
ह्सौंः स्हौंः सम्पूर्णमातृका उच्चार्य त्रिमूर्त्यात्मिकायै परादेव्यम्बायै नमः व्यापकं
कुर्यात् । इति मूर्तिन्यासः ।

अथ मन्त्रन्यासः -

ओं ऐं ह्रीं श्रीं ह्सौंः स्हौंः अं आं इं
एकलक्षकोटिभेदप्रणवाद्येकाक्षरात्माखिलमन्त्राधिदेवतायै सकलफलप्रदायै
एककूटेश्वयम्बादेव्यै नमः - मूलाधारे
६ ईं उं ऊं द्विलक्षकोटिभेदहंसादिद्व्यक्षरात्माखिलमन्त्राधिदेवतायै सकलफलप्रदायै
द्विकूटेश्वर्यम्बादेव्यै नमः - स्वाधिष्ठाने,
६ ऋं ॠं ऌं त्रिलक्षकोटिभेदवह्न्यादित्र्यक्षरात्माखिलमन्त्राधिदेवतायै (प्. १२६) सकलफलप्रदायै
त्रिकूटेश्वर्यम्बादेव्यै नमः - मणिपुरे,
६ ॡं एं ऐं चतुलक्षकोटिभेदचन्द्रादिचतुरक्षरात्माखिलमन्त्राधिदेवतायै सकलफलप्रदायै
चतुःकूटेश्वर्यम्बादेव्यै नमः - अनाहते,
६ ओं औं अं अः पञ्चलक्षकोटिभेदसूर्यादिपञ्चाक्षरात्माखिलमन्त्राधिदेवतायै
सकलफलप्रदायै पञ्चकूटेश्वर्यम्बादेव्यै नमः - विशुद्धौ,
६ कं खं गं षट्लक्षकोटिभेदस्कन्दादिषडाक्षरात्माखिलमन्त्राधिदेवतायै सकलफलप्रदायै
षट्कूटेश्वर्यम्बादेव्यै नमः - आज्ञायाम्,
६ घं ङं चं सप्तलक्षकोटिभेदगणेशादिसप्ताक्षरात्माखिलमन्त्राधिदेवतायै सकलफलप्रदायै
सप्तकूटेश्वर्यम्बादेव्यै नमः - बिन्दौ,
६ छं जं झं अष्टलक्षकोटिभेदवटुकाधष्टासरात्माखिलमन्त्राधिदेवतायै सकलफलप्रदायै
अष्टकूटेश्वर्यम्बादेव्यै नमः - अर्धेन्दौ,
६ ञं टं ठम् नवलक्षकोटिभेदब्रह्मादिनवाक्षरात्माखिलमन्त्राधिदेवतायै सकलफलप्रदायै
नवकूटेश्वर्यम्बादेव्यै नमः - रोधिन्याम्,
६ डं ढं णं दशलक्षकोटिभेदविष्ण्वादिदशाक्षरात्माखिलमन्त्राधिदेवतायै सकलफलप्रदायै
दशकूटेश्वर्यम्बादेवतायै (-व्यै) नमः - नादे,
६ तं थं दं एकादशलक्षकोटिभेदशैवाद्येकादशाक्षरात्माखिलमन्त्राधिदेवतायै
सकलफलप्रदायै एकादशकूटेश्वर्यम्बादेव्यै नमः - नादान्ते,
(प्. १२७) ६ धं नं पं द्वादशलक्षकोटिभेदवाण्यादिद्वादशाक्षरात्माखिलमन्त्राधिदेवतायै
सकलफलप्रदायै द्वादशकूटेश्वर्यम्बादेव्यै नमः - शक्तौ,
६ फं बं भं त्रयोदशलक्षकोटिभेदलक्ष्म्यादित्रयोदशाक्षरात्माखिलमन्त्राधिदेवतायै
सकलफलप्रदायै त्रयोदशकूटेश्वर्यम्बादेव्यै नमः - व्यापिकायाम्,
६ मं यं रं चतुर्दशलक्षकोटिभेदगौर्यादिचतुर्दशाक्षरात्माखिलमन्त्रदेवतायै
सकलफलप्रदायै चतुर्दशकूटेश्वर्यम्बादेव्यै नमः - समानास्थाने,
६ लं वं शं पञ्चदशलक्षकोटिभेददुर्गादिपञ्चदशाक्षरात्माखिलमन्त्राधि-देवतायै
सकलफलप्रदायै पञ्चदशकूटेश्वर्यम्बादेव्यै नमः - उन्मन्याम्,
६ ह्सौंः स्हौंः षं सं हं लं क्षं
षोडशलक्षकोटिभेदत्रैपुरादिषोडशाक्षरात्माखिलमन्त्राधिदेवतायै सकलफलप्रदायै
षोडशकूटेश्वर्यम्बादेव्यै नमः - शिवस्थाने,
ध्रुवमण्डले बिन्द्वादीनां दशचक्राणां स्थानानि आज्ञाचक्रादूर्ध्वं एकैकाङ्गुलमानेन
उपर्युपरि तिष्ठन्ति । ध्रुवमण्डले ब्रह्मरन्ध्रावसानभूमिः सदाशिवस्थानं महाबिन्दुरित्यर्थः ।
ततो ह्सौंः स्हौंः अं आं इत्यादिक्षान्तं सर्वमन्त्राधिपायै पराम्बादेव्यै नमः व्यापकं
कुर्यात् । इति मन्त्रन्यासः ।

(प्. १२८) अथ दैवतन्यासः -

ओं ऐं ह्रीं श्रीं ह्सौंः स्हौंः अं आं सहस्रकोटिऋषिकुलसेवितायै निबृत्यम्बादेव्यै नमः -
दक्षपादाङ्गुष्ठे,
६ इं ईं सहस्रकोटियोगिकुलसेवितायै प्रतिष्ठाम्बादेव्यै नमः - वामपादाङ्गुष्ठे,
६ उं ऊं सहस्रकोटितपस्विकुलसेवितायै विद्याम्बादेव्यै नमः - दक्षगुल्फे,
६ ऋं ॠं सहस्रकोटिशान्तकुलसेवितायै शान्त्यम्बादेव्यै नमः - वामगुल्फे,
६ ऌं ॡं सहस्रकोटिमुनिकुलसेवितायै शान्त्यतीताम्बादेव्यै नमः - दक्षजङ्घायाम्,
६ एं ऐं सहस्रकोटिदेवकुलसेवितायै हृल्लेखाम्बादेव्यै नमः - वामजङ्घायाम्,
६ ओं औं सहस्रकोटिराक्षसकुलसेवितायै गगनाम्बादेव्यै नमः - दक्षजानुनि,
६ अं अः सहस्रकोटिविद्याधरकुलसेवितायै रक्ताम्बादेव्यै नमः - वामजानुनि,
६ कं खं सहस्रकोटिसिद्धकुलसेवितायै महोच्छुष्माम्बादेव्यै नमः - दक्षोरौ,
६ गं घं सहस्रकोटिसाध्यकुलसेवितायै करालिकाम्बादेव्यै नमः - चामोरौ,
६ ङं चं सहस्रकोटि-अप्सरकुलसेवितायै जयाम्बादेव्यै नमः - दक्षकट्याम्,
६ छं जं सहस्रकोटिगन्धर्वकुलसेवितायै विजयाम्बादेव्यै नमः - वामकट्याम्,
६ झं ञं सहस्रकोटिगुह्यककुलसेवितायै अजिताम्बादेव्यै नमः - दक्षपार्श्वे,
६ टं ठं सहस्रकोटियक्षकुलसेवितायै अपराजिताम्बादेव्यै नमः - वामपार्श्वे,
६ डं ढं सहस्रकोटिकिन्नरकुलसेवितायै वामाब्मादेव्यै नमः - दक्षस्तने,
(प्. १२९) ६ णं तं सहस्रकोटिपन्नगकुलसेवितायै ज्येष्ठाम्बादेव्यै नमः - वामस्तने,
६ थं दं सहस्रकोटिपितकुलसेवितायै रौद्र्यम्बादेव्यै नमः - दक्षकक्षे,
६ धं नं सहस्रकोटिगणेशकुलसेवितायै मायाम्बादेव्यै नमः - वामकक्षे,
६ पं फं सहस्रकोटिभैरवकुलसेवितायै कुण्डलिन्यम्बादेव्यै नमः - दक्षभुजे,
६ बं भं सहस्रकोटिबटुककुलसेवितायै काल्यम्बादेव्यै नमः - वामभुजे,
६ मं यं सहस्रकोटिक्षेत्रपालकुलसेवितायै कालरात्र्यम्बादेव्यै नमः - दक्षस्कन्धे,
६ रं लं सहस्रकोटिप्रमथकुलसेवितायै भगवत्यम्बादेव्यै नमः - वामस्कन्धे,
६ वं शं सहस्रकोटिब्रह्मकुलसेवितायै सर्वेश्वर्यम्बादेव्यै नमः - दक्षकण्ठभागे,
६ षं सं सहस्रकोटिविष्णुकुलसेवितायै सर्वज्ञाम्बादेव्यै नमः - वामकण्ठभागे,
६ हं लं सहस्रकोटिरुद्रकुलसेवितायै सर्वकर्त्र्यम्बादेव्यै नमः - दक्षशिरोभागे,
६ ह्सौंः स्हौंः क्षं चराचरकुलसेवितायै कुलशक्त्यम्बादेव्यै नमः - वामशिरोभागे,
६ ह्सौंः स्हौंः अं आं इत्यादिक्षान्तं सकलदेवताधिपायै पराम्बादेव्यै नमः इति व्यापकं
कुर्यात् । इति दैवत न्यासः ।

अथ मातरन्यासः -

(प्. १३०) ओं ऐं ह्रीं श्रीं ह्सौंः स्हौंः कं खं गं घं ङं अनन्तकोटिभूचरीकुलसेवितायै
आं आं मङ्गलाम्बादेव्यै आं शां ब्रह्माण्यम्बादेव्यै अनन्तकोटिभूतकुलसहितायै अं क्षं
मङ्गलनाथाय अं क्षं असिताङ्गभैरवनाथाय नमः - मूलाधारे,

६ चं छं जं झं ञं अनन्तकोटिखेचरीकुलसहितायै ईं लां चर्चिकाम्बादेव्यै ईं लां
माहेश्वर्यम्बादेव्यै अनन्तकोटिवेतालकुलसहिताय ईं लं चर्चिकानाथाय इं लं रुरुभैरवनाथाय
नमः - स्वाधिष्ठाने,

६ टं ठं डं ढं णं अनन्तकोटि ------------ कुलसहितायै उं हां कौमार्यम्बादेव्यै
अनन्तकोटिपिशाचकुलसहिताय उं हं योगीश्वरनाथाय उं हं चण्डभैरवनाथाय नमः -
मणिपूरे,

६ तं थं दं धं नं अनन्तकोटिदिक्चरीकुलसहितायै ॠं सां हरसिध्यम्बादेव्यै ॠं सां वै


व्यम्बादेव्यै अनन्तकोटि-अपस्मारकुलसहिताय ऋं सं हरसिद्धनाथाय ऋं सं

क्रोधभैरवनाथाय नमः - अनाहते,

६ पं फं बं भं मं अनन्तकोटिसहचरीकुलसहितायै ॡं षां भव्यम्बादेव्यै ऌं षां
वाराह्यम्बादेव्यै अनन्तकोटिब्रह्मराक्षकुलसहिताय ऌं षं भट्टनाथाय ऌं षं
उन्मत्तभैरवनाथाय नमः - विशुद्धौ,

६ यं रं लं वं अनन्तकोटिगिरिचरीकुलसहितायै ऐं शां किलकिलाम्बादेव्यै ऐं शां
इन्द्राण्यम्बादेव्यै अनन्तकोटिचेटककुलसहिताय एं शं किलिकिलानाथाय एं शं
कपालीभैरवनाथाय नमः - आज्ञायाम्,

(प्. १३१) ६ शं षं सं हं अनन्तकोटिवनचरीकुलसहितायै औं वां कालरात्र्यम्बादेव्यै औं
वां चामुण्डादेव्यै अनन्तकोटिप्रेतकुलसहिताय ओं वं कालरात्रिनाथाय ओं वं
भीषणभैरवनाथाय नमः - भाले,

६ लं क्षं अनन्तकोटिजलचरीकुलसहितायै अः लां भीषणाम्बादेव्यै अः लां महालक्ष्म्यम्बादेव्यै
अनन्तकोटिकूष्माण्डकुलसहिताय अं लं भीषणनाथाय अं लं संहारभैरवनाथाय नमः -
ब्रह्मरन्ध्रे,

६ अं आं इत्यादिक्षान्तं समस्तमातृभैरवाधिपायै पराम्बादेव्यै नमः व्यापकं कुर्यात् । इति
मातृकान्यासः ।

ततो ह्सां स्हौं ह्सीं स्हीं षट्दीर्घबीजेन षडङ्गं विधाय देवं ध्यायेत्

ध्यान महाकुलप्रकाशतन्त्रे -

एवं न्यस्त तनुर्देवी ध्यायेद् देवमनन्यधीः ।
अमृतार्णवमध्यस्थ रत्नदीपे मनोरमे ॥

कल्पवृक्षवनान्तस्थे नवमाणिक्यमण्डपे ।
नवरत्नमयं श्रीमत् सिंहासनागताम्बुजे ॥

(प्. १३२) त्रिकोणान्तः समासीनं चन्द्रसूर्ययुतं प्रभम् ।
अर्धाम्बिकासमायुक्तं प्रविभक्तविभूषणम् ॥

कोटिकन्दर्पलावण्यं सदा षोडशवार्षिकम् ।
मन्दस्मितमुखाम्भोजं त्रिनेत्रं चन्द्रशेखरम् ॥

दिव्याम्बरस्रगालेप दिव्याभरणभूषितम् ।
पानपात्रं च चिन्मुद्रां त्रिशूलं पुस्तकं करैः ॥

विद्या सं सदि बिभ्राणं सदानन्दमुखेक्षणम् ।
महाषोढोदिताशेषदेवतागणसेवितम् ॥

एवं चित्ताम्बुजे ध्यायेदर्धनारीश्वरं शिवम् ।
पुरुषं वा स्मरेद् देवीं स्त्रीरूपं वा विचिन्तयेत् ॥

अथवा निष्कलं ध्यायेत् सच्चिदानन्दविग्रहम् ।
सर्वतेजोमयं दिव्यं सचराचरविग्रहम् ॥

ततः सन्दर्शयेत् मुद्रादशकं परमेश्वरी ।
योनिलिङ्गं च सुरभिं हेति मुद्राचतुष्टयम् ॥

(प्. १३३) वनमालां महामुद्रां नभोमुद्रामपि क्रमात् ।
यथाशक्तिजपेत् मूलमन्त्रं श्रीपादुकामपि ॥

हेतिमुद्रा कपालज्ञानत्रिशूलं पुस्तकमिति । इति मुद्राः प्रदर्श प्रासाद
परापराप्रासादात्मकं मूलमन्त्रं श्रीगुरुपादुकां च यथा शक्तिजपित्वा शिरसि श्रीगुरुं स्मरेत्
। उक्तं च तत्रैव -

मूर्ध्नि संचिन्तयेद् देवी श्रीगुरुं शिवरूपिणम् ।
सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम् ॥

वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् ।
प्रसन्नवदनेक्षणं सकलदेवतारूपिणम् ॥

स्मरेच्छिरसि --------- तदभिधानपूर्वं गुरुम् ।

इति ध्यात्वा प्रणम्य स्वगुरुकृतस्वनाम मूलाधारे स्मृत्वा शिवरूपं स्वात्मानं विचिन्तयेत् ।

एवं न्यासकर्तुः फलमाह -

(प्. १३४) एवं न्यासे कृते देवी साक्षात् परशिवो भवेत् ।
मन्त्री न चात्र सन्देहो निग्रहानुग्रहे क्षमः ॥

महाषोढाह्वयं न्यासं यः करोति हि पार्वती ।
दिव्यक्षेत्रं समुद्दिष्टं समन्ताद् दशयोजनम् ॥

कृत्वा न्यासमिमं देवी यत्र गच्छति मानवः ।
तत्र स्याद् द्विजयो लाभः सम्मानं पौरुषं प्रिये ॥

महाषोढाकृतन्यासस्तदज्ञं यदि बन्दते ।
मासान्मृत्युमवाप्नोति यदि त्राता शिव स्वयम् ॥

वज्रपञ्जरनामानमेवं न्यासं करोति यः ।
दिव्यन्तरिक्षभूशैलजलारन्यनिवासिनः ॥

उद्दण्डभूतवेताल देवरक्षोग्रहादयः ।
भयत्रस्तेन मनसा नेक्षन्ते तं कुलेश्वरी ॥

महाषोढाह्वयं न्यासं ब्रह्मविष्णुशिवादयः ।
देवाः सर्वेऽपि कुर्वन्ति ऋषीयोगीमुनीश्वराः ॥

(प्. १३५) बहुनोक्तेन किं देवी न्यासमेतत् मम प्रियम् ।
नापुत्राय वदेद् देवी नाशिष्याय प्रकाशयेत् ॥

आज्ञासिद्धिमवाप्नोति रहसि न्यासमाचरेत् ।
अस्मात्परतरा रक्षा देवताभावसिद्धिदा ॥

लोके नास्ति न सन्देहो सत्यं सत्यं वरानने ।

अयं न्यासस्त्वनेकजन्मार्जितपुण्यै प्राप्यत इत्यत आह -

ऊर्ध्वाम्नाय प्रवेशश्च पराप्रासादचिन्तनम् ।
महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् ॥

इति महाषोढान्यासः समाप्तः । श्रीसरस्वतीमर्पणमस्तु ।

अस्य श्रीमहापादुकामन्त्रस्य हंसऋषिः अव्यक्तगायत्रीछन्दः श्रीमहापादुकादेवता
हंसबीजं सः शक्तिः सोऽहं कीलकं मम महापादुकादेवताप्रसादसिध्यर्थे जपे विनियोगः ।

ऋष्यादिन्यासं विधाय ह्सामित्यादिकरषडङ्गन्यासः । ध्यानम् -

(प्. १३६) सहस्रदलपङ्कज

ब्रह्मानन्दं परमसुखदं

स्वप्रकाशशिवमूर्ति

सक्तिन्तयाणि च

इति ध्यात्वा अभयवरदकिरिटमकरकुण्डलमुद्राः प्रदर्श पञ्चोपचारैः सम्पूज्य

ऐं ह्रीं श्रीं ह्स्ख्फ्रें ह्सौं हसक्षमलवरयऊं सहक्षमलवर ईं परमेष्टिगुरु
अमुकानन्दनाथ (सचिदानन्द) ह्सौं ह्स्ख्फ्रें श्रीं ह्रीं ऐं श्री-अमुकाम्बापादुकां पूजयामि
तर्पयामि नमः ।

ऐं ह्रीं श्रीं ह्स्ख्फ्रें ह्सौं हसक्षमलवरय ऊं सहक्षमलवरय ईं परमगुरु
अमुकानन्दनाथ (ब्रह्मानन्द) ह्सौं ह्स्ख्फ्रें श्रीं ह्रीं ऐं श्रीं अमुकाम्बा श्रीपादुकां
पूजयामि तर्पयामि नमः ।

(प्. १३७) ऐं ह्रीं श्रीं ह्स्ख्फ्रें ह्सौं हसक्षमलवरय ऊं सहक्षमलवरय ईं गुरु
अमुकानन्दनाथ (विश्वेश्वरानन्द) ह्सौं ह्स्ख्फ्रें श्रीं ह्रीं ऐं श्रीं अमुकाम्बा श्रीपादुकां
पूजयामि तर्पयामि नमः मूर्ध्नि न्यसेत् ।

मूलाधारे स्वपादुकाम् -

ऐं ह्रीं श्रीं ह्स्ख्फ्रें ह्सौं हसक्षमलवरय ऊं सहक्षमलवरय ईं अमुकानन्दनाथ
(गुहानन्दनाथ) ह्सौं ह्स्ख्फ्रें श्रीं ह्रीं ऐं श्रीं हंसः शिवं सोऽहं स्वाहा
श्रीपादुकां पूजयामि तर्पयामि नमः ।

श्री-अमृतरुद्रः ओं ह्रीं वं ठं अमृतरुद्राय आं ह्रीं क्रों प्रतिकूलं मे नस्य त्वनुकूलं मे
वशमानय वशमानय स्वाहा ओं ह्रीं श्रीं ह्सौंः स्हौंः नमः शिवाय प्रसन्नपारिजाताय
स्वाहा जपेत् । महापादुकामन्त्र यथाशक्तिं जपित्वा जपं समर्पयेत् । पुनः
ऋष्यादिकरषडङ्गन्यासं विधाय ध्यात्वा मुद्राः प्रदर्श्य जपोपसंहारं करिष्य इति सङ्कल्प्य,

गुह्यादिगुह्यगोप्त्री त्वं

इति देव्या वामहस्ते जपं समर्प्य

(प्. १३८) देवा नाथ गुरोः स्वामिन्

इति योनिमुद्रया प्रणमेत् । शिवादिगुरुवन्दनं कृत्वा स्वगुरुं प्रणम्य पात्रासादनं कुर्यात् ।

इति श्रीमच्चिदानन्दनाथविरचितायां स्वच्छन्दपद्धत्यां मातृकान्यासादिमहापादुकानत्रकथनं
नाम चतुर्थः स्पन्दः ॥


(प्. १३९) श्रीगणेशाय नमः । श्री-अर्घ्यादिस्थापनं कुर्यात् -

तत्र स्ववाग्रे वक्ष्यमाण विशेषार्घमण्डलवन्मण्डलं विलिख्य तथैव सम्पूज्य तत्र
वक्ष्यमाण विधिना प्रक्षालितमाधारं संस्थाप्य तथैव संपूज्य सुवर्णादिरचितं कलशं
धूपवासितं

हूं हूं ब्रह्माण्डचषकाय स्वाह

इति वामकरेण प्रक्षालितं

ऐं सन्दीपिणी ज्वालामालिनि ह्रीं

इति सन्दीपिनी विद्यया योनिमुद्रया सन्दीपितं कवचेनावगुण्ठितं

ओं नमः ह्रीं नमः ह्रुं नमः श्लूं नमः हं नमः सः नमः

इति विन्यस्य पञ्चमन्त्रं

उं ऊं श्रीमहात्रिपुरसुन्दर्याः महाकलशं स्थापयामि

इति तत्र कलशं संस्थाप्य तत्र वक्ष्यमाण विशेषार्घ्यपात्रवत् सूर्यकलान्तं सम्पूज्य तत्र
वक्ष्यमाण विधिनैव कर्पूरादिसुवासितापर्युषित परिस्रुतपयस्समापूरये तत्राब्जादिकं निक्षिप्य
तन्मध्ये विशेषार्घ्य वक्ष्यमाणमण्डलं विभाव्य वक्ष्यमाण विधिना सोमकलान्तं सम्पूज्य
तच्चतुरस्रपरितः

ओं ऐं ह्रीं श्रीं हसखफ्रें दृष्टिचण्डालिनी हुं फट् स्वाहा,
ओं [ऐं ह्रीं श्रीं] ह्स्ख्फ्रें ------ चण्डालिनी हुं फट् स्वाहा,
५ सृष्टिचण्डालिनी हुं फट् स्वाहा,
५ घटचाण्डालिनी हुं फट् स्वाहा,
५ तपनवेध चण्डालिनी हुं फट् स्वाहा,
५ निष्थावचाण्डालिनी हुं फट् स्वाहा,
ओं [ऐं ह्रीं श्रीं] ह्स्ख्फ्रें सर्वजनदृष्टिस्पर्शदोषचाण्डालिनी हुं फट् स्वाहा,

इति स्वाग्रादिप्रादक्षिण्येन सम्पूजयेदित्येवं दशदोषान् निरस्य

ओं ऐं ह्रीं श्रीं कां कीं कूं कैं कौं कः विकारशोषिण अस्य द्रव्यस्य विकारान् हन् हन्
स्वाहा

इति हेतुमध्ये सम्पूज्य ----------------


पञ्चभिरादरात् ।

विष्णुर्योनि त्रयेणैव त्रिभिष्टवादित्रयेण च ॥


इति च द्वाभ्यां तामदैत्येकया तथा ।

श्रोणामेकेति चैकेन शुक्रशापविमोचयेत् ॥

इति कुलार्णववचनात् । उक्त पञ्चदशमन्त्रैः सकृत्सकृदभिमन्त्रयेत् ।

मन्त्रास्तु - ऋग्वेदे यथा -

स्वा दि ष्ट या म दि ष्ट या प व स्व सो म धा र या इ न्द्रा य पा त वे सु तः ।
(प्. १४१) र क्षो हा वि श्व च र्ष णि र भि यो नि म यो ह तं
द्रु णा स ध ---- मा स द त् ।
व रि वो धा त्त मो भ व मं हि ष्टो वृ त्र हं त मः प र्षि रा धो म धो नां ।

अ भ्य र्ष म हा नां दे वा नां वी ति मं ध सा । अ भि वा ज मु त श्र वः ।

त्वा म छ च रा म सि त दि द र्थं दि वे दि वे । इ न्दो त्वे न आ श सः ।

वि ष्णु र्यो निं क ल्प य तु त्व ष्टा रू पा णि पि श तु ।

आ सिं च तु प्र जा प ति र्धा ता ग र्भं द धा तु ते ।

ग र्भं धे हि सि नी वा लि ग र्भं धे हि स र स्व ती ।

ग र्भं ते अ श्वि नौ दे वा वा ध त्तां पु ष्क र स्र जा ।

हि र ण्य यी अ र णी य नि र्म थ तो अ श्वि ना ।

तं ते ग र्भं ह वा म हे द श मे मा सि सू त वे ।

त्रि भि ष्टं व दे व स वि त र्व र्षि ष्ठैः सो म धा म भिः अ ग्ने द क्षैः पु नी हि नः पु
नं तु मां दे व ज नाः पु नं तु व स वो धि या ।

(प् १४२) वि श्वे दे वाः पु नी त मा जा त वे दः पु नी हि मा ।

प्र प्या य स्व प्र स्थं द स्व सो म वि श्वे भि र शु भिः दे वे भ्य उ त्त मं ह विः ।

इ मं मे गं गे य मु ने स र स्व ती शु तु द्रि स्तो मं स च ता प रु ---- ।

अ सि क्र्या म रु द्वृ धे वि त स्त या ----- ये शृ णु --- सु षो म या ।

सि ता सि ते स रि ते य त्र सं ग ते त त्रा प्लु ता सो दि व मु त्प त्तं ति ।

ए वै त न्वां वि सृ ज न्ति धि रा स्ते न ना सो अ मृ त त्वं भ जं ते ।

ता मं द सा ना म नु षो दु रो ण आ ध त्तं र यिं स ह वी रं व च स्य वे ।

कृ तं ती र्थं सु प्र पा णं शु भ स्य ती स्था णु य थे ष्ठा म प दु र्म तिं ह तं ।

श्रो णा मे क मु द कं गा म वा ज ति मां स मे कः पिं श ति सू न या भृ तं ।

आ नि गृ चः श कृ दे को अ पा भ र णि *? *? भ्यः पि व श *? पा व तुः ।

इत्यभिमन्त्र्य

ओं कां कीं कूं कैं कौं कः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणी अमृतस्वरूपिणी अमृतं
स्रावय स्रावय शुक्रशापात् सुरां मोचय मोचय मोचिकायै नमः ओं जूं सः स्वाहा

इति विद्ययाऽष्टवारमभिमन्त्र्य

ओं सिद्धायै नमः ओं ३ रक्तायै नमः

(प्. १४३) ओं शुक्लायै णमः ओ उं उत्पलायै नमः इति चतुरस्रस्य चतुर्दिक्षु प्रादक्षिण्येन स्वाग्रादितुः
सम्पूज्य तन्मध्ये त्रिकोणं विशेषार्घे वक्ष्यमाण रूपं विभाव्य

ओं ऐं ह्रीं श्रीं हसक्षमलवरयूं आनन्दभैरवाय वौषट् आनन्दभैरव श्रीपादुकां
पूजयामि तर्पयामि नमः ।
ओं सहक्षमलवरयीं आनन्दभैरव्यै वषट् आनन्दभैरवीश्रीपादुकां पूजयामि तर्पयामि नमः ।

एवं सर्वत्र

ओं ऐं ह्रीं श्रीं सुरानन्दभैरवाय वौषट् ओं ऐं ह्रीं श्रीं सुरानन्दभैरव्यै वषट् ।
ओं अमृतानन्दभैरवाय वौषट् ओं अमृतानन्दभैरव्यै वषट् ।
ओं तरुणानन्दभैरवाय वौषट् ओं ऐं ह्रीं श्रीं तरुणानन्दभैरव्यै वषट् ।
ओं उमानानन्दभैरवाय वौषट् ओं ऐं ह्रीं श्रीं उन्मनानन्दभैरव्यै वषट् ।
ओं ऐं ह्रीं श्रीं ज्ञानानन्दभैरवाय वौषट् ओं ऐं ह्रीं श्रीं ज्ञानानन्दभैरव्यै वषट् ।
ओं मुक्त्यानन्दभैरवाय वौषट् ओं ऐं ह्रीं श्रीं मुक्त्यानन्दभैरव्यै वषट् ।
ओं ऐं ह्रीं श्रीं परमानन्दभैरवाय वौषट् ओं ऐं ह्रीं श्रीं परमानन्दभैरव्यै वषट् ।
ओं कालभैरवाय वौषट् ओं कालभैरव्यै वषट् इति भैरवमिथुननवकं मध्ये ऽष्टदिक्षु च
सम्पूज्य सन्तर्प्य मूलविद्यया वीक्षणमुद्रया संवीक्ष्यास्त्रमन्त्रेण प्रोक्ष्यास्त्रमन्त्रेण कुशैः
त्रिःसन्ताड्य कवचमन्त्रेणाभ्युक्ष्याघ्राय वामनासारन्ध्रेण प्रविश्य ब्रह्मरन्ध्रं नीत्वा
तत्रस्थ चिच्चन्द्रमण्डलमध्यगतं परमामृतवारिधौ मिलित्वा तन्मयेन
राजदन्तविवरान्नेत्रमार्गेण विनिर्गतं तज्जलं विभाव्य रोधनमुद्रया परमामृति(?) कृत्य संरुध्य
कवचमन्त्रेणावगुण्ठनमुद्रयावगुण्ठ्य वमिति धेनुमुद्रयामृतीकृत्य परमीकृत्य
परमीकरणमुद्रया परमामृतीकृत्य तत्र देवीं ध्यात्वा गन्धपुष्पाक्षतादिभिः सम्पूज्य
मूलविद्ययाष्टवारमभिमन्त्र्य

ओं नमो भगवति ग्रामेश्वरी वारुणिजलमूर्ते ऊर्ध्वबिन्दुग्राहिणि महालक्ष्मीश्वरी परमधाम्नि
परमाकाशभासुरि सोमसूर्याग्निभक्षिणि आगच्छागच्छ विश विश स्वभोगद्रव्यं गृह्ण गृह्ण
स्वाहा

इति तत्कलशाद्बिन्दुवामाङ्गुष्ठानामिकाभ्यां धृत द्वितीयखण्डे नादायोर्ध्वमुक्षिपेत् ।

ततः कलशबन्दनं पात्रान्तरणाच्छाद्योद्धारणपात्रमादाय

ओं ऐं ह्रीं श्रीं अमोघायै नमः,
४ सूक्ष्मायै नमः, ४ ओं आनन्दायै नमः,
४ शान्त्यै नमः इति शक्तिचतुष्टयेन सम्पूज्य कुम्भस्याच्छादनपात्रोपरि स्थापयेदिति (प्. १४५)
कलशस्थापनं विधाय ततः कलशदक्षिणभागाग्रे शुद्धोदकेन चतुरस्र वृत्तत्रिकोणात्मकं
मण्डलं चन्दनालिप्तभूमौ वहन्नासा करोर्ध्वपुटाभ्यां कराभ्यां त्रितारमुच्चरन् निर्माय
प्रणवत्रितारादिनमोंतया मूलविद्यया त्रिकोणमध्यं सम्पूज्य कूटत्रयेण त्रिषु कोणेषु स्वाग्रादि
प्रादक्षिण्येन सम्पूज्य चतुरस्रे अग्निशनि ऋतिवायुकोणेषु हृदयाद्यङ्गचतुष्टयं मध्ये नेत्रं
प्रागादिचतुदिक्ष्वस्त्रमिति षडङ्गमन्त्रः सम्पूज्य तत्र मूलेन क्षालितमाधारं संस्थाप्य

ओं ऐं ह्रीं श्रीं प्रथमकूटमुच्चार्य बह्निमण्डलाय धर्मप्रददशकलात्मने श्रीपरदेवतायाः
सामान्यार्घाधाराय नमः इति सम्पूज्य तत्र वक्ष्यमाण प्रकारेण वह्नेर्दशकलाः पूजयित्वा
तत्रास्त्रेण क्षालितं शङ्खं निधाय द्वितीयकूटमुच्चार्य

अर्कमण्डलायार्थप्रदद्वादशकलात्मने श्रीपरदेवतायाः सामान्यार्घपात्राय नमः

इति सम्पूज्य तत्र वक्ष्यमाण प्रकारेण सूर्यस्य द्वादशकलाः सम्पूज्य
गन्धादिसुवासितशुद्धतोयेन प्रणवत्रितारं मूलविद्यान्ते विलोममातृकामुच्चरन् तत्पात्रमापूर्य
तृतीयकूटं

ओं ऐं ह्रीं श्रीं सोममण्डलाय कामप्रद षोडसकलात्मने श्रीपरदेवतायाः
सामान्यार्घामृताय नमः

(प्. १४६) इति सम्पूज्य तत्र वश्यमाणप्रकारेण सोमस्य षोडशकलाः सम्पूज्य तत्र
प्राग्वत्सवितृमण्डलात्तीर्थमावाह्य कलशामृतबिन्दुं दत्वा तत्र मूलेन गन्धपुष्पादिकं निक्षिप्य
प्रागवत् षडङ्गैः सम्पूज्य हसक्षमलवरयूं सहक्षमलवरयीमिति नवात्मकमिथुनमन्त्रेण
त्रिरभिमन्त्र्य ह्सौं वारुणीदेव्यै नम इति वरुणमिथुनमन्त्रेण त्रिरभिमन्त्र्य मूलेनाष्टधाभिमन्त्र्य
धेनुयोनिमुद्रे प्रदर्शयेदिति सामान्यार्घं विधाय तत् समीपे सामान्यार्घजलेन
यक्षकर्दमादिगन्धद्रव्यमिश्रितेन भूमि विलिप्य तत्र वहन्नासोर्ध्वपुटहस्ताभ्यां
चतुरस्रवृत्तषट्कोणात्मकं मण्डलं विधाय तन्मण्डलं शङ्खमुद्रामुद्रितवामकरेणावष्टभ्य
तन्मध्ये त्रिकोणं मध्ये सबिन्दुतुर्यस्वररूपां कामकलां विलिख्य

ओं ऐं ह्रीं श्रीं श्रीपरदेवतायाः विशेषार्घाधारमण्डलाय नमः

इति मण्डलं सम्पूज्य ४ नमोन्तमूलेन त्रिकोणमध्यं सम्पूज्य त्रिकोणाग्रकोणे ४ प्रथमकूटं
नमः, वामे ४ द्वितीयं कूटं नमः, दक्षिणे ४ तृतीयकूटं नमः इति त्रिकोणं प्रादक्षिण्येन
सम्पूज्य षट्कोणकोणेषु प्रादक्षिण्येन स्वाग्रमारभ्य मूलकूटत्रयस्य द्विरावृत्या पूजयित्वा
चतुरस्रे प्राग्वत् षडङ्गानि सम्पूज्य चतुरस्रे स्वाग्रादि चतुर्दिक्षु (प्. १४७) मध्ये च प्रादक्षिण्येन

ग्लूं गगनलोकरत्नाय नमः, स्लूं स्वर्गलोकरत्नाय नमः,
म्लूं मर्त्यलोकरत्नाय नमः, प्लूं पाताललोकरत्नाय नमः,
न्लूं नागलोकरत्नाय नमः

इति पञ्चरत्नानि सम्पूज्य पुनः षट्कोणेषु स्वाग्रादिप्रादक्षिण्येन न्यासोक्तषडासनानि सम्पूज्य
चतुरस्रवृत्तषट्कोणत्रिकोणेषु

४ कामरूपपीठाय नमः, ४ जालन्धरपीठाय नमः,
४ पूर्णगिरिपीठाय नमः, ४ ओड्याणपीठाय नमः,

४ इति पीठचतुष्टयं सम्पूज्य शाम्भवदीक्षावांश्चेत् चतुरसे स्वाग्रादि चतुर्दिक्षुमध्ये च
पञ्चप्रणवपुटितैः प्रणवपञ्चकैः पूजयेत् । तद्यथा -

ऐं ह्रीं श्रीं ह्स्ख्फ्रें ह्सौं ऐं ह्सौं ह्स्ख्फ्रें श्रीं ह्रीं ऐं नमः । एवं

५ ह्रीं ५ नमः, ५ श्रीं ५ नमः, ५ ह्स्ख्फ्रें ५ नमः,
५ ह्सौं ५ नमः,

इति सम्पूजयेत् । ४ मूलं सर्वशक्तिमयी श्रीपरदेवतायाः पीठचतुष्टयात्मकार्घमण्डलाय नमः
। प्रथमकूटमुच्चार्य मं वह्निमण्डलाय धर्मप्रददशकलात्मने श्रीविशेषार्घपात्राधाराय
नमः

प्रक्षालितमाधारमण्डलोपरि निधाय इत्याधारं पूज्य तदुपरि स्वाग्रादि प्रादक्षिण्येन
वह्नेर्दशकलाः समावाह्य तासां प्राणप्रतिष्ठां कुर्यात् ।
      तत्र पूर्वोक्त प्राणप्रतिष्ठामन्त्रैः मम पदस्थाने (प्. १४८) धूम्रार्चेयदीनामेति पदं
निक्षिप्य प्राणप्रतिष्ठामन्त्रमाधारं स्पृशेत् पठेदिति प्राणप्रतिष्ठां विधाय

ओं ऐं ह्रीं श्रीं सं धूम्राचिषे नमः,
४ रं उष्मायै नमः, ४ लं ज्वलिन्यै नमः,
४ वं ज्वालिन्यै नमः, ४ शं विस्फुलिङ्ग्यै नमः,
४ षं सुश्रियै नमः, ४ सं सुरुपायै नमः,
४ हं कपिलायै नमः, ४ लं हव्यवाहायै नमः,
 ४ क्षं कव्यवाहायै नमः,

इति ताः सम्पूज्य स्वर्णादिरचितं पात्रमस्त्रेण प्रक्षाल्य् ४ श्रीपरदेवताया विशेषार्घपात्रं
संस्थापयामि इति तत्र संस्थाप्य ४ द्वितीयकूटमुच्चार्य अं
अर्कमण्डलायार्थप्रदद्वादशकलात्मने श्रीपरदेवताया विशेषार्घपात्राय नमः इति पात्रमध्ये
सम्पूज्य तत्र पूर्वोक्तमण्डलं विभाव्य पूर्ववत्पञ्चरत्नान्तं सम्पूज्य तथैव
पञ्चप्रणवैरभ्यर्च्य तत्र सूर्यस्य द्वादशकलाः समावाह्य प्राग्वत्तं नामपुरःसरं तासां
प्राणप्रतिष्ठा विधाय वृत्ताकारण प्रादक्षिण्येन ताः पूजयेत् । तद्यथा -

ओं ऐं ह्रीं श्रीं कं भं तपिन्यै नमः,
४ खं बं तापिन्यै नमः, ४ गं फं धूम्रायै नमः,
४ घं पं मरीच्यै नमः, ४ ङं नं ज्वालिन्यै नमः,
४ चं धं रुच्यै नमः, ४ छं दं सुषुम्नायै नमः,
४ जं थं भोगदायै नमः, ४ झं तं विश्वायै नमः,
४ ञं णं बोधिन्यै नमः, ४ टं दं धारिण्यै नमः,
४ ठं डं क्षमायै नमः, (प्. १४९) ४ इति सम्पूज्य कलशस्थ जलमुद्धरणपात्रेणोधृत्य
मूलविद्यान्ते विलोममातृकामुच्चार्य तत्र पात्रस्थजलादिकं निक्षिप्य रमित्यङ्गुष्ठानामिकाभ्यां
पुष्पेण तत्र पात्रस्थजलमालोड्य तत्पुष्पं निरस्य क्लीमिति चन्दनागरुकर्पूर
चोरकुङ्कुमरोचनाजटामसीसिलारसात्मकगन्धाष्टकपङ्कलोलितं चन्दनपुष्पं निक्षिप्य सौरिति
गालिनीमुद्रया निरीक्ष्य

ओं ऐं ह्रीं श्रीं तृतीयकूटं ओं सोममण्डलाय कामप्रद षोडशकलात्मने श्रीपरदेवतायाः
चतुष्टयात्मकार्घमण्डलाय नमः,
४ प्रथमं विशेषार्घ्यामृताय नमः इति पात्रस्थ हेतुमध्ये सम्पूज्य तर पूर्वोक्तमण्डलं
विभाव्य पूर्ववत्पञ्चरत्नान्तं सम्पूज्य शाम्भवदीक्षायुक्तश्चैत् तथैव प्रणवैः सम्पूजयेत् ।
तत्र सोमस्य षोडशकलाः समावाह्य प्राग्वत्तन्नामपुरःसरं तासां प्राणप्रतिष्ठां विधाय
वृत्ताकारेण स्वाग्रादिप्रादक्षिण्येन ताः पूजयेत् । तद्यथा -

ओं ऐं ह्रीं श्रीं अं अमृतायै नमः,
४ आं मानन्दायै नमः, ४ इं पूषायै नमः,
४ ईं तुष्ट्यै नमः, ४ उं प्ष्ट्यैनमः,
४ ऊं रत्यै नमः, ४ ऋं धृत्यै नमः,
४ ॠं शशिन्यै नमः, ४ ऌं चन्द्रिकायै नमः,
४ ॡं कान्त्यै नमः, ४ एं ज्योत्स्नायै नमः,
४ ऐं श्रियै नमः, ४ ओं प्रीत्यै नमः,
४ औं अङ्गदायै नमः, ४ अं पूर्नायै नमः,
(प्. १५०) ४ अः पूर्णामृतायै नमः, ४ इति सम्पूज्य पूर्वपूजितमण्डलमध्यत्रिकोणमकथादिष्टिसं?
विभाव्य तत्कोण त्रये मूलविद्यायाः कूटत्रयमप्यस्य बिन्दौ कामकला तत्पार्श्वयोः सबिन्दुं
हंक्षौ तत्पृष्ठे लकारं तत्पार्श्वयो हंसः वर्णौ विभाव्य पुष्पाक्षतमभितो योनिमुद्रां
बध्वा गुरुपदिष्टप्रकारेण मूलाधारात् कुण्डलिनीमुत्थाप्य षट्चक्रभेदक्रमेण सुषुम्नावर्त्मना
ब्रह्मरन्ध्रस्य चिच्चन्द्रमण्डलं नीत्वा

ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतम् ।
आपूरितं महापात्रं पीयूषरसमावह ॥

ऐं प्लूं ह्सौं जूं सः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय
स्वाहा इति तस्मिन्नर्घामृते पुष्पाक्षतप्रक्षेपेण तदमृतधारा संयोज्य वमिति धेनुमुद्रां
प्रदर्श्य

ओं ह्रीं हंसः सोहं स्वाहा

इत्यात्माष्टाक्षरमन्त्रेण त्रिरबिमन्त्र्य पुनः प्रणवमुच्चार्य परनिष्कलशाम्भवी श्री पादुकां
पूजयामीति हेतुमध्ये सम्पूज्य पुनर्हंस इति मन्त्रेण त्रिरभिमन्त्र्य हंसः अजपाशक्तिः श्री
पादुकां पूजयामि इति सम्पूज्य मातृकया बिन्दुरहितया त्रिरभिमन्त्र्य पुनस्तामुच्चार्य मातृका (प्.
१५१) सरस्वती श्री पादुकां पूजयामि इति हेतुमध्ये सम्पूज्य मूलतार्तीयकूटेन दशधाभिमन्त्र्य
पुनस्तातीर्यकूटमुच्चार्य त्रिपुरामृतेश्वरी श्री पादुकां पूजयामि इति हेतु मध्ये सम्पूज्य

ओं ऐं ह्रीं श्रीं हसक्षमलवरयूं

सम्पूज्य

सहक्षमलवरयीं

इत्यानन्दभैरवमिथुनविद्याभ्यां त्रिरभिमन्त्र्य

हसक्षमलवरयूं आनन्दभैरवाय वौषट् आनन्दभैरव श्रीपादुकां पूजयामि

इति त्रिः सम्पूज्य सन्तर्प्य

४ सहक्षमलवरयीं सुधादेव्यै वषट् सुधादेवी श्रीपादुकां पूजयामि

इति त्रिःसम्पूज्य सन्तर्प्य

ह्सौं वरुणाय नमः स्हौं वारुणी देव्यै नमः

इति वरुणमिथुनविद्याभ्यां त्रिरभिमन्त्र्य तद्दिने नित्याविद्यया तत्तत्तिथिनित्या विद्यया त्रिस्त्रिरभिमन्त्र्य
प्रासादपरा पराप्रासाद मन्त्राभ्यामूर्ध्वाम्नाय दीक्षितश्चेत्

ह्सौंः स्हौंः

इति मन्त्राभ्यां त्रिरभिमन्त्र्य ततश्चरणादिदीक्षितश्चेच्चरणकुलयोगिनी विद्याभ्यां त्रिस्त्रिरभिमन्त्र्य
ततः सौरित्यनुत्तरपराविद्यया दीक्षितश्चेत् तया त्रिरभिमन्त्र्य पूर्णाभिषिकश्चेत् कामकलाविद्यया
त्रिरभिमन्त्र्य षडन्वय शाम्भवदिक्षायुक्तश्चेत् तद्विद्याभिस्त्रिरभिमन्त्र्य ततो वक्ष्यमाणा
पाञ्चभोक्तिकमन्त्रैस्त्रिरभिमन्त्र्य सृष्ट्यादिदशकला
(प्. १५२) हेतुमध्ये समावाह्य प्राग्वत्तं[त]न्नाम पुरःसरं तासां प्राणप्रतिष्ठां विद्याय

ओं हं सः शु चि ष द्व सु र न्त रि क्ष स द्धो ता वे दि ष द ति थि र्दु रो ण स त् नृ ष द्ध
र स द्धृ त स द् व्यो म स द न्जा गो जा ऋ त जा अ दि जा ऋ तं बृ ह त् ॥

इत्यनया श्रुत्या सकृदभिमन्त्र्य पुनरुच्चार्य ब्रह्मणे नम इति हेतुमध्ये सम्पूज्य कं सृष्ट्यै
नमः इति प्रागुक्तकलामातृकान्यासोक्तप्रकारेण कचवर्गो कला सम्पूज्य ततष्ट तवर्गो
जरादिदशकलाः समावाह्य प्राग्वत्तासां प्राणप्रतिष्ठां विधाय

प्र त द्वि ष्णु स्त व ते वी र्ये ण मृ गो न भी मः कु च रो गि रि ष्टाः ।
य स्यो रु षु त्रि षु वि क्र म णे ष्व धि क्षि य न्ति भु व ना नि वि श्वा ॥

इत्यनया ऋचा सकृदभिमन्त्र्य पुनरुच्चार्य विष्णवे नमः इति सम्पूज्य जरायै नमः इत्यादिताः
सम्पूज्य पुनः पयवर्गो कलास्तीक्ष्णाद्या समाबाह्य पाग्वत्तासां प्राणप्रतिष्ठां विधाय

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
ऊर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् ॥

(प्. १५३) इत्यभिमन्त्र्य पुनरुच्चार्य रुद्राय नम इति सम्पूज्य पं तीक्ष्णायै नमः इत्यादिभिः
सम्पूज्य षकारादिक्षकारान्तं पञ्चवर्णो पीतादिपञ्चकलाः समावाह्य प्राग्वत्तासां
प्राणप्रतिष्ठां विधाय गायत्र्याभिमन्त्र्य पुनरुच्चार्य ईश्वराय नम इति सम्पूज्य षं पीतायै
नम इत्यादिताः सम्पूज्य ततः स्वरो निवृत्यादिषोडशकलाः समावाह्य प्राणप्रतिष्ठां विधाय
विष्णुर्योनि कल्पये तु इति मन्त्रस्य त्वष्टागर्भकर्ता ऋषिः अनुष्टुपछन्दः श्रीविष्णुर्देवता
सद्यशिवपूजार्थे जपे विनियोगः ।

(प्. १५४) तत्रादौ स्ववामभागे त्रिकोणवृत्तं चतुरस्रमण्डलं विलिख्य मूलेन गन्धाक्षतैरभ्यर्च्य
त्रिकोणे अग्रादिप्रादक्षिण्येन खण्डत्रयैरभ्यर्च्य चतुरस्रे अग्निशासुरवायव्यमध्यदिक्षु
षडङ्गैरभ्यर्च्य तदुपरि सजलं ताम्रादिपात्रं संस्थाप्याधारपात्रजलेषु अग्निसूर्यसोमकलः
समष्टिरूपेण सम्पूज्य तज्जले प्रणवेन गन्धपुष्पाक्षतादि निक्षिप्य पूर्ववत्षडङ्गैरभ्यर्च्य
धेनुमुद्रां प्रदर्शयेदिति सामान्यकलशपूजाविधिः ।

अथ महाकलशस्थापनं कुर्यात् । स्वदक्षिणभागे तत्कलशजलेन भूमिं प्रोक्ष्य
वहतत्कराभ्यां मत्स्यमुद्रया गन्धेनार्धचन्द्रत्रिकोणवृत्तचतुरस्रमण्डलं विलिख्य तन्मध्ये
गन्धपुष्पाक्षतान्निक्षिप्य

ओं ऐं ह्रीं श्रीं नारायण्यै च विद्महे महादेव्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात्

इति मध्ये सम्पूज्य त्रिकोणे अग्रादिप्रादक्षिण्येन खण्डत्रयैरभ्यर्च्य वृत्ते -

४ कामरूपपीठाय नमः
अर्द्धचन्द्रे - ४ जालन्धरपीठाय नमः,
चतुरस्रे - ४ ओड्याणपीठाय नमः

४ अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् ।
त्रैलोक्यं मण्डितं येन मण्डलं तत्सदाशिवम् ॥

(प्. १५५) ४ व्यापकमण्डलाय नमः इत्यभ्यर्च्य तदुपरि स्वर्णादिनिर्मितमस्त्रेण क्षालितं आधारं
संस्थाप्य ४ ऐं वह्निमण्डलाय धर्मप्रददशकलात्मने कलशाधाराय नमः इति सम्पूज्य
तदुपर्यग्रादि प्रादक्षिण्येन वह्नेर्दशकलाः पूजयेत् । तद्यथा -

४ यं धूम्रार्चिषायै नमः, ४ रं उष्मायै नमः,
४ लं ज्वलिन्यै नमः , ४ वं ज्वालिन्यै नमः,
४ शं विस्फुलिङ्गिन्यै नमः, ४ षं सुश्रियै नमः,
४ सं सुरुपायै नमः, ४ हं कपिलायै नमः,
४ लं हव्यवाहायै नमः, ४ क्षं कव्यवाहायै नमः,

४ इति सम्पूज्य तदुपर्यस्त्रेण क्षालितं स्वर्णादीनिर्मितं सुधूपवासितं पात्रं संस्थाप्य
तन्मध्ये ४ क्लीं अर्कमण्डलाय अर्थप्रदद्वादशकलात्मने महाकलशाय नमः इति सम्पूज्य
तदुपर्यग्रादिप्रादक्षिण्येन स्वेर्द्वादशकलाः पूजयेत्

ओं ऐं ह्रीं श्रीं कं भं तपिन्यै नमः,
४ खं बं तापिन्यै नमः, ४ गं फं धूम्रायै नमः,
४ घं पं मरीच्यै नमः, ४ डं नं ज्वालिन्यै नमः,
४ चं धं रूच्यै नमः, ४ छं दं सुषुम्नायै नमः,
४ जं थं भोगदायै नमः, ४ झं तं विश्वायै नमः,
४ ञं णं बोधिन्यै नमः, ४ टं ढं धारिण्यै नमः,
४ ठं डं क्षमायै नमः, ४ इत्यभ्यर्च्य पश्चात् कर्पूरादिसुगन्धवासितमपर्युषितं
शुद्धद्रव्यमानीय मूलमन्त्रेण विक्ष्यास्त्रेण प्रोक्ष्य ओं ऐं ह्रीं श्रीं क्लीं * * * * * * * * * *
(प्. १५६) आणवादिमलपाशमोचनीमात्मभैरवसुखप्रबोधिनीम् -

गद्यपद्यमयवाग्विलासिनीं मद्यमध्य परमेश्वरीं भजे ॥

इति ध्यात्वा मूलेनाष्टवारमभिमन्त्र्य दशदोषनिवारणं कुर्यात् ओं ह्रीं ग्रामचाण्डालिनि
अग्निजनितदोषनिवारय निवारय स्वाहा । ओं ऐं क्रों ह्सौं उच्छिष्टचाण्डालिनि एहि एहि अस्मिन् द्रव्ये
सान्निध्यं कुरु कुरु दशदोषनिवारणं कुरु कुरु स्वाहा इत्यक्षतैः सन्ताड्य योनिमुद्रया
संशोध्य ४ पशुपाशाय हुं फट् स्वाहा, ४ पशुपाशाय आनन्दभैरवाय हुं फट् नमः इति
सम्पूज्य मूलेनाष्टवारभिमन्त्र्य ह्रां ह्रीं जूं सः द्रां द्रीं द्रूं दमलवरय ऊं ऐं
क ए इ? ई व? ह्रीं शुक्रशापं विमोचयामि नमः,
४ ह्रां ह्रीं जूं सः यां यीं यूं यमलवरय ऊं क्लीं हसकहलह्रीं शुक्रशापं
विमोचयामि नमः,
४ ह्रां ह्रीं जूं सः सां सीं सूं समलवरय ऊं सौः सकल ह्रीं शुक्रशापं विमोचयामि
नमः,
४ ओं ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं बटुकशापं विमोचयामि नमः,
४ हसक्षमलवरय ऊं आनन्दभैरवाय नमः ४ सहक्षमलवरय ईं आनन्दभैरवयै नमः (प्.
१५७) इति सम्पूज्य मूलमन्त्र स्मरन् तदमृतं महाकलशे पूरयित्वा तत्पात्रं त्यजेत्

तदमृते ४ सौः सोममण्डलाय कामप्रदषोडशकलात्मने श्रीमहात्रिपुरसुन्दर्याः
कलशामृताय नम इति सम्पूज्य तत्रैवाग्रादि प्रादक्षिण्येन इन्दोः षोडशकलाः पूजयेत् -

ओं ऐं ह्रीं श्रीं अं अमृतायै नमः, ४ आं मानन्दायै नमः,
४ इं पूषायै नमः, ४ ईं तुष्ट्यै नमः,
४ उं पुष्ट्यै नमः, ४ ऊं रत्यै नमः,
४ ऋं धृत्यै नमः, ४ ॠं शशिन्यै नमः,
४ ऌं चन्द्रिकायै नमः, ४ ॡं कान्त्यै नमः,
४ एं ज्योत्स्नायै नमः, ४ ऐं श्रियै नमः,
४ ओं प्रीत्यै नमः, ४ औं अङ्गदायै नमः,
४ अं पूर्णायै नमः, ४ अः पूर्णामृतायै नमः, इति सम्पूज्य पूर्वे -
४ ग्लूं गगनलोकरत्नाय नमः,
दक्षिणे - ४ स्लूं स्वर्गलोकरत्नाय नमः,
पश्चिमे - ४ प्लूं पाताललोकरत्नाय नमः,
उत्तरे - ४ म्लूं नागलोकरत्नाय नमः,
मध्ये - ४ न्लूं ( ) मर्त्यलोकरत्नाय नमः इति पञ्चरत्नैः सम्पूज्य तत्र
बालार्कसङ्काशकमथादि त्रिरेखात्मकं हलक्ष पार्श्वं हंस मध्य विचिन्त्य तन्मध्य

४ हसक्षमलवरय ऊं आनन्दभैरवाय नमः,
४ सहक्षमलवरय ईं आनन्दभैरव्यै नमः, ४ इति सम्पूज्य धेनुमुद्रा प्रदर्शनपूर्वकं
अखण्डादिमन्त्रान् जपेत् ।
(प्. १५८) तद्यथा -

ओं ऐं ह्रीं श्रीं अखण्डैकरसानन्दकरे परसुधात्मनि ।
स्वच्छन्दस्फुरणा मात्र निधेह्यकुलरूपिणी ॥

४ अकुलस्थामृताकारे सिद्धिज्ञानकरे परे ।
अमृतत्वं निधेह्यस्मिन् वस्तूनि क्लिन्नरूपिणि ॥

४ त्वद्रूपिण्यैकरस्य त्वं कृत्वार्घ्ये तत्स्वरूपिणी । शोध० ४
भूत्वा कुलामृताकारं मयि चित्स्फुरणं कुरु ॥

ओं ऐं ह्रीं श्रीं ऐं क्लीं ह्सौंः जूं सः अमृते अमृतोद्भवे अमृतेश्वरी अमृतवर्षिणि अमृतं
स्रावय स्रावय स्वाहा ।
४ ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु क्लीं सौः मोक्षं
कुरु कुरु । सौंः ह्सौं ४ ओं क्लीं कुलकामधेनो कामदुधे शुद्धममृतं स्रावय स्रावय जूं
सः स्वाहा ।

ओं ऐं ह्रीं श्रीं ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतम् ।
आपूरितं महापात्रं पीयूषरसमाहवे? ॥

ओं ऐं ह्रीं श्रीं संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे ।
भैरवाणां च तृप्त्यर्थं पवित्रा भव सर्वदा ॥

आवाहनादिसप्तमुद्रा प्रदर्श्य आवाहिता भव, संस्थापिता भव, सन्मुखी भव, सन्निरुद्धा
भव, अवगुण्ठिता भव, वरदा भव, प्रसीदा भव, ।

(प्. १५९) तत्र देवीं ध्यात्वा मूलेनाष्टवारमभिमन्त्र्य गन्धादिभिः सम्पूज्य तत्समीपे पूर्ववत्
मण्डलोपरि शुद्धिपात्रं संस्थाप्य मूलेन विक्ष्यास्त्रेण प्रोक्ष्य धेनुमुद्रया
मूलेनाष्टवारमभिमन्त्र्य क्लीं नमः स्वाहा इति मन्त्रेण माषमात्रं शुद्धि शकलं
कलशमध्ये निक्षिप्य वामाङ्गुष्ठानामिकाभ्यां द्वितीय शकलं धृत्वा ४ ओं नमो भगवति
ग्रामेश्वरि वारुणि जलमूर्ते ऊर्ध्वबिन्दुग्राहिणि महालक्ष्मीश्वरि परिधाम्नि परमाकाशभासुरे
सोमसूर्याग्निभक्षिणि आगच्छागच्छ विश विश स्वभोगद्रव्य गृह्ण गृह्ण स्वाहा इति बिन्दुमूर्ध्वं
क्षिपेत् । ततः कलशवन्दनं पात्रान्तरेणाच्छाद्य उद्धरणपात्रं हस्ते गृहीत्वा

४ अघोरायै नमः, ४ सूक्ष्मायै नमः,
४ आनन्दायै नमः, ४ शान्त्यै नमः ४ इति सम्पूज्याच्छादनपात्रोपरिस्थापयेत् । इति
महाकलशस्थापनं विधिः ।

कलशात्पुरोभागे पूर्ववन्मण्डलं विलिख्य पूर्ववत्सम्पूज्य तन्मण्डलोपर्यस्त्रेण
क्षालितमाधारं प्रतिष्ठाप्य ४ ऐं वह्निमण्डलाय धर्मप्रददशकलात्मने आधाराय नमः
इत्याधारं सम्पूज्य तदुपर्यस्त्रेण क्षालितं शङ्खं प्रतिष्ठाप्य ४ क्लीं अर्कमण्डलाय (प्. १६०)
अर्थप्रदद्वादशकलात्मने सामान्यार्घ्य पात्राय नमः इति सम्पूज्य तत्पात्रं सुवासितं
शुद्धतोयेनापूर्य ४ सौः सोममण्डलाय कामप्रदषोडशकलात्मने अर्घ्यामृताय नमः इति
सम्पूज्य तस्मिन्प्राग्वत्सवितृमण्डलात्तीर्थमावाह्य प्रणवेन गन्धपुष्पाक्षतान्निक्षिप्य
कलशामृतबिन्दुं च निक्षिप्य प्राग्वत्षडङ्गैः सम्पूज्य मूलेनाष्टवारमभिमन्त्र्य
शङ्खधेनुयोनिमुद्राः प्रदर्शयेदिति सामान्यार्घ्यस्थापनम् ।

अथ विशेषार्घ्यस्थापनम् । तत्र कलशाधः स्वदक्षिणभागादि देवतात्मनोर्मध्ये
पङ्क्त्याकारेण वा मण्डलाकारेण मण्डलसप्तकं च विलिख्य पूर्ववत्सम्पूज्य तत्र
स्वर्णादिनिर्मितमस्त्रेण क्षालितम् आधारपात्रसप्तकं संस्थाप्य कलशामृतेनापूर्य
आधारपात्रजलेषु बह्निसूर्यसोमकलाः सम्पूज्य प्रणवकलाः श्रीपात्रे पूजयेत् । तद्यथा -

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरसदाशिवः ।
एताश्च देवताः पञ्च कलानां परिकीर्तिताः ॥

प्रथमं प्रकृतेर्हंसः प्रतद्विष्णुरनन्तरम् ।
त्रियम्बकं तृतीयं स्यात् चतुर्थं तत्पदादिकम् ॥

(प्. १६१) विष्णुयोनिं पञ्चमं स्यात् पञ्चधा कल्पतां मनुः ।
तारत्रयं कुमारीं च भैरवीं भैरवी मनुम् ॥

अखण्डां चामृतेशीं च दीपनीं मूलमेव च ।
एक द्वि त्रिचतुःपञ्च द्वि चतुर्वारतः क्रमात् ॥

संस्पृष्ट्वार्चनपात्रं तु पूजयेद् धेनुमुद्रया ।

ओं ऐं ह्रीं श्रीं क्लीं नम इति श्रीपात्रगुरुपात्र शक्तिपात्र भोगपात्र शान्तिपात्रात्मपात्र
बलिपात्रेषु प्रत्येकं माषमात्रं शुद्धिशकलं निक्षिप्य श्रीपात्रे धेनुमुद्रा प्रदर्शनपूर्वकं
सृष्ट्यादिकला यजेत् । तद्यथा -

४ हंसः शुचिषः दिति ऋचं पठेत् । ४ कं सृष्ट्यै ४ खं ऋध्यै ४ गं स्मृत्यै ४ घं मेधायै
४ ङं कान्त्यै ४ चं लक्ष्म्यै ४ छं द्युत्यै ४ जं स्थिरायै ४ झं स्थित्यै ४ ञं सिध्यै ४
अकारप्रभवकलाभ्यो नमः ।

प्रतद्विष्णुस्तवेतिवीर्येण मृगो न भीमः कु च रोगिरिष्टाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥

४ टं जरायै ४ ठं पालिन्यै ४ डं शांत्यै ४ ढं ईश्वर्यै ४ णं रत्यै ४ तं कामिकायै ४
यं वरदायै (प्. १६२) ४ दं अह्लादिन्यै ४ धं प्रीत्यै ४ नं दीर्घायै ४
उकारप्रभवविष्णुकलाभ्यो नमः

४ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् ॥

४ पं तीक्ष्णायै नमः ४ फं रौद्रायै ४ बं भयायै ४ भं निद्रायै ४ मं तन्द्रयै, ४ यं
क्षुधायै ४ रं क्रोधिन्यै ४ लं क्रियायै ४ वं उल्कारिण्यै ४ शं मृत्यवे ४
मकारप्रभवरुद्रकलाभ्यो नमः

४ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥

४ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयाः ।

दिवी चक्षुराततम् ॥

तद्विप्रासोविपन्यवोजागृवांस समिन्धते । विष्णोर्यत्परमं पदं ४ षं पीतायै ४ सं स्वेतायै ४
हं अरुणायै ४ लं असितायै ४ क्षं अनन्तायै ४ बिन्दुप्रभव ईश्वरकलाभ्यो नमः ।

४ विष्णुर्योनिं कल्पयतु त्वष्टारूपाणि पिंशतु ।
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥

(प्. १६३) गर्भं धेहि सनी वालिगर्भं धेहि सरस्वती ।
गर्भं ते अश्विनौ देवा वा धतां पुष्करस्रजाम् ॥

४ अं निवृत्यै नमः ४ आं प्रतिष्ठायै नमः
४ इं विद्यायै नमः ४ ईं शान्त्यै नमः
४ उं इन्धिकायै नमः ४ ऊं दीपिकायै नमः
४ ऋं रेचिकायै नमः ४ ॠं मोचिकायै नमः
४ ऌं परायै नमः ४ ॡं सूक्ष्मायै नमः
४ एं सूक्ष्मामृतायै नमः ४ ऐं ज्ञानामृतायै नमः
४ ओं आप्यायिन्यै नमः ४ औं व्यापिन्यै नमः
४ अं व्योमरूपायै नमः ४ अः आनन्दायै नमः
४ नादप्रभवशिवकलाभ्यो नमः इत्यभ्यर्च्य अकारादिक्षकारान्तमु धेनुमुद्रां बध्वा
आनन्दभैरवादि दीपिनीमन्त्रपर्यन्तं जपित्वा मूलेनाष्टवारमभिमन्त्र्य ४ क्लीं कुलकामधेनो
कामदुधे शुद्धममृतं स्रावय स्रावय जूं सः स्वाहा इत्यभिमन्त्र्य तस्मिन् देवीं ध्यात्वा
गन्धादिभिः सम्पूज्य धेनुयोनिमुद्रे प्रदर्श्य ब्रह्माण्डखण्डसम्भूतं इति पठित्वा
तदमृतबिन्दुभिरन्यपात्रस्थ द्रव्यं संस्कृत्यात्मानं पूजाद्रव्याणि प्रोक्ष्येदिति
श्रीपात्रस्थापनविधिः ।

शङ्खस्य दक्षिणे श्रीपात्रं तद्दक्षिणे गुरुपात्र-शक्तिपात्र-शान्तिपात्र-भोगपात्र-बलिपात्र,
(प्. १६३) श्रीपात्रपुरतः आत्मपात्रं संस्थाप्य तेषु द्रव्येषु वह्निसूर्यसोममण्डलानि
समष्टिरूपेण सम्पूज्य माषमात्रं शुद्धिं निक्षिप्य ओं ऐं ह्रीं श्रीं ओं ह्रीं हं सः सोहं
स्वाहा इत्यष्टवारमात्मपात्रमभिमन्त्र्य तद्दक्षिणे वारचतुष्टयेन मूलेन शान्तिपात्रमभिमन्त्र्य
गुरुपात्रे ४ हं सः शिवः सोहं स्वाहा इत्यष्टवारमभिमन्त्र्य शक्तिपात्रे ४ सौः
इत्यष्टवारमभिमन्त्र्य भोगपात्रे ४ वालयाष्टवारमभिमन्त्र्य बलिपात्रे ४
बटुकमन्त्रेणाष्टवारमभिमन्त्र्य गुरुपात्रादमृतं किञ्चिदात्मपात्रे संयोज्ये तेनात्मपूजां
कुर्यात् ।

इति श्रीमच्चिदानन्दनाथविरचितायां स्वच्छन्दपद्धत्यां पात्रासादनविधिनामपञ्चमस्पन्दः ॥ ५



(प्. १६४) अथ यागद्वारे तिरस्कारिणी जपेत् -

अस्य श्रीतिरस्करिणीमन्त्रस्य भगवान् दुर्वास-ऋषिः अनुष्टुप्छन्दः श्रीतिरस्करिण्यम्बा देवता
ईं बीजं नमः शक्तिः स्वाहा कीलकं मम तिरस्करिण्यम्बा प्रसादसिध्यर्थे जपे विनियोगः ।

ऋषये नमः - शिरसि, छन्दसे नमः -मुखे,
देवतायै नमः - हृदये, बीजाय नमः - दक्षस्तने,
शक्तये नमः - वामस्तने, कीलकाय नमः - नाभौ,
विनियोगः - पादयोः ।

ओं ऐं ह्रीं श्रीं ईं अङ्गुष्ठाभ्यां नमः,
४ नमः तर्जनीभ्यां नमः, ४ भगवती मध्यमाभ्यां नमः,
४ महामाये अनामिकाभ्यां नमः, ४ सर्वजनमनश्चक्षुतिरस्करणं कुरु कुरु कनिष्ठिकाभ्यां
नमः,
स्वाहा करतलपृष्ठाभ्यां नमः ।
४ एवं हृदयादिषडङ्गः ।

ध्यानम् -

मुक्तकेशीं विवसनां सर्वाभरणभूषिताम् ।
स्वयोनिदर्शनात् मुह्यत् पशुवर्गामुपास्महे ॥ १ ॥

नीलं तुरङ्गमधिरुह्य विराजमाना नीलांशुकाभरणमाल्यविलेपनाढ्या ।
निद्रापटेन भुवनानि तिरोदधाना
खड्गायुधा भगवती परिपातु सा माम् ॥ २ ॥

(प्. १६५) श्यामवर्णां मदाघूर्णां मदाकुलितलोचनाम् ।
मनोहराभ्यां दोर्भ्यां च खर्जूरीकुम्भधारिणीम् ॥ ३ ॥

इति ध्यात्वा मुद्राः प्रदर्शयेत् -

ओं ऐं ह्रीं श्रीं खङ्गमुद्रायै नमः, ४ कुम्भमुद्रायै नमः,
४ किरीटमुद्रायै नमः, ४ मकरकच्छप(?)मुद्रायै नमः । पञ्चोपचारैः सम्पूज्य जपेत् - ईं नमो
भगवती महामाये सर्वजनमनश्चक्षुतिरस्करणं कुरु कुरु स्वाहा जपित्वा जपं समर्प्य ततः
स्वात्मानं गन्धाक्षतकुसुमैरलङ्कृत्य देवीरूपमात्मानं ध्यात्वा गुरुगणपतिपरदेवताः
पूर्ववत्प्रणम्य

मूलादिब्रह्मरन्ध्रान्तं विसतन्तु तनीयसीम् ।
चन्द्रकोटिप्रतीकाशां सम्यक् कुण्डलिनीं स्मरेत् ॥

स्वशिरसि गुरुं ध्यात्वा पादुकामन्त्रेण त्रिवारं सम्पूज्य सन्तर्प्य हृदये मूलेन देवीं त्रिवारं
सन्तर्प्य शिरस्थत्रिकोणस्य पृष्ठभागे रेखात्रयं विभाव्य प्रथमरेखायाम् ४ पराख्येभ्यः
सप्तसंख्यादि दिव्यौघगुरुभ्यो नमः इति सम्पूज्य ४ परप्रकाशानन्दनाथ श्रीपादुकां
पूजयामि तर्पयामि नमः,
४ पर शिवानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
४ परशक्तिदेव्यम्बा श्रीपादुकां पूजयामितर्पयामि नमः,
४ कौलेश्वरानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः,
४ शुक्लादेव्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः,
(प्. १६६) ४ कुलेश्वरानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः,
४ कामेश्वरीदेव्यम्बाश्रीपादुकां पूजयामि तर्पयामि नमः इति दिव्यौघः ।

दक्षादिवामान्तं सम्पूज्य सन्तर्प्य मध्ये रेखायाम्
४ परापराख्येभ्यः स्वतुसंख्यादिसिद्धौघगुरुभ्यो नमः इति सम्पूज्य
४ भोगानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
क्लिन्नानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
४ समयानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
४ सहजानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, इति सिद्धौघः ।

अन्त्यरेखायाम्,
४ अपराख्येभ्योऽष्टसंख्यादिमानौ(नवौ)घगुरुभो नमः इति सम्पूज्य
४ गगनानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
४ विश्वानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
४ विमलानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
४ मदनानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
४ भुवनानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
४ लीलानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
४ स्वात्मानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
४ प्रियानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः इति सम्पूज्य सन्तर्प्य ----------------------------
हंसस्वरूपनिर्गुणहेतवे अद्वैतानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
(प्. १६७) परमानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः,
सिद्धयोगीश्वरानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, कवल्यानन्दनाथश्रीपादुकां
पूजयामि तर्पयामि नमः, हंसानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
अमृतानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, ब्रह्मानन्दनाथश्रीपादुकां पूजयामि
तर्पयामि नमः, हंस शिवः सोहं स्वात्मारामपञ्जरविलीनतेजसे विमलानन्दनाथश्रीपादुकां
पूजयामि तर्पयामि नमः,
सोहं स्वच्छप्रकाशविमर्शनहेतवे चिदानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः,
महापादुकामुच्चार्य स्वच्छप्रकाशपरिपूर्णपरप्रकाशविमर्शात्मक विमलानन्दनाथश्रीपादुकां
पूजयामि तर्पयामि नमः,
इति रेखात्रयं सम्पूज्य सन्तर्प्य मूलाधारे स्वपादुकां सकृत्सम्पूज्य सन्तर्प्य मूलविद्यान्ते ऐं
क ए ई ल ह्रीं आत्मतत्त्वेन स्थूलदेहं परिशोधयामि स्वाहा,
क्लीं ह स क ह ल ह्रीं विद्यातत्त्वेन सूक्ष्मदेहं परिशोधयामि स्वाहा,
सौः सकलह्रीं शिवतत्त्वेन कारणदेहं परिशोधयामि स्वाहा,
ऐं क्लीं सौः क ए ई ल ह्रीं हसकहलह्रीं सकलह्रीं सर्वतत्त्वेन महाकारणदेहं
परिशोधयामि स्वाहा ।

ओं प्राणापानव्यान-उदानसमाना मे शुद्ध्यन्तां ज्योतिरहं विरजा ------- भूयास ग्वं स्वाहा ।

(प्. १६८) ओं पृथिव्यप्तेजावायव्याकाशानि मे शुद्ध्यन्तां ज्योतिरहं विरजा वि ------ भूयास स्वाहा ॥
३ ॥
ओं प्रकृत्यहङ्कारमनश्रोत्राणि मे शुद्ध्यन्तां ज्योतिरहं विरजा वि ------ भूयास स्वाहा ॥ ४ ॥
ओं वाक्चर्मजिह्वाघ्राणवचांसि मे शुद्ध्यन्तां ज्योतिरहं विरजा वि ------ भूयास स्वाहा ॥ ५ ॥
ओं पाणिपादयूपस्थशब्दा मे शुद्ध्यन्तां ज्योतिरहं विरजा वि ------ भूयास स्वाहा ॥ ६ ॥
ओं स्पर्शरूपरसगन्धाकाशानि मे शुद्ध्यन्तां ज्योतिरहं विरजा वि ------ भूयास स्वाहा ॥ ७ ॥
ओं वायुस्तेजसलिलभूम्यात्मनि मे शुद्ध्यन्तां ज्योतिरहं विरजा वि ------ भूयास स्वाहा ॥ ८ ॥
मूलविद्यान्ते

धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुवा ।
सुषुम्ना वर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् ॥

स्वात्ममूलत्रिकोणस्थे कोटिसूर्यसमप्रभे ।
कुण्डल्याकृति चिद्रूपे हुने द्रव्यं समन्त्रकम् ॥ स्वाहा ।

इति भावनया स्वात्मपात्रं चिद्वह्नौ हुत्वा क्षणं स्वात्मसुखं भावयेदित्यात्मपूजाविधिः ।

अथ गुरुपूजा -

द्वादशान्ते बिन्दुत्रिकोणषट्कोणवृत्तमष्टदलचतुद्वारोपेत चतुरस्रात्मकं
(प्. १६९) चक्रमध्ये स्वगुरुं ध्यात्वा गन्धादिभिः सम्पूज्य प्रणम्य गुरुपात्रस्थद्रव्यं
पात्रान्तरेणादाय पादुकामन्त्रेण त्रिवारं सन्तर्प्य

ओं ऐं ह्रीं श्रीं ऐं क ए ई ल ह्रीं क्लीं ह स क ह ल ह्रीं सौः सकल ह्रीं

प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनी स्रुचा ।
धर्माधर्मकलास्नेहं पूर्णवह्नौ जुहोम्यहम् ॥ स्वाहा ।

अहन्तापात्रभरितमिदन्ता परमामृतम् ।
पराहन्तामये वह्नौ जुहोमि शिवरूपकः ॥

इति भावनया पराहन्तात्मकवह्नौ श्रीगुरुस्मरणपूर्वकं द्रव्यं हुत्वा स्वात्मानं विश्वातीतं
भावयेदिति गुरुपूजाविधिः ।

देवनाथ गुरुस्वामिन् देशिक स्वात्मनायक ।
त्राहि त्राहि कृपासिन्धो जपं पूर्णतरं कुरु ॥

इति प्रार्थ्य श्रीगुरु नुज्ञामादाय कुलपूजां समारभेत् -

श्रीगुरो दक्षिणामूर्ते भक्तानुग्रहविग्रह ।
(प्. १७०) अनुज्ञां देहि भगवन् श्रीचक्रयजनाय मे ॥

यस्यार्चनेन विधिना किमपीहलोके
कर्मप्रसिद्धिमतुलं च वरप्रसूते ।
तच्चिन्तितं सकलसाधकचित्तवृत्तिं
चिन्तामणिं सुरगणाधिपतिं नमामि ॥

करकलितकपालः कुण्डली दण्डपाणि-
स्तरुणतिमिरनीलव्यालयज्ञोपवीति ।
क्रतुसमयसपर्या विघ्नविच्छेदहेतु -
र्जयति बटुकनाथः सिद्धिदः साधकानाम् ॥

कालव्यालकपालमण्डितकरं व्यालालिमाला कुलं
कण्ठाधिष्ठितकालकूटगरलं कङ्कालवीणाधरम् ।
रक्षन्तं कुलशासनैकनिरतं तद्वेषिणां शाशितं
तं बन्दे सुरमौलिमण्डितप्रदं श्रीक्षेत्रपालं बटुम् ॥

(प्. १७१) रक्ताम्बरं कनकपिङ्गजटाकलापं
व्यालावली कुटिलदण्डधरं प्रचण्डम् ।
सूर्याशुधौता चलशृङ्गगौरं
गौरीसुतं बटुकनाथमहं नमामि ॥

स्फुरच्चण्डोग्ररूपाय पक्षक्षिप्तभूभृते ।
अष्टपादाय रूद्राय नमः शरभमूर्तये ॥

अमृतान्धौ मणिद्वीपे कल्पवृक्षवनोज्वले ।
वज्रप्रकारसन्दीप्तं स्मरेत् माणिक्यमण्डपम् ॥

पुष्पमालावितानाढ्यं प्रच्छन्नपटसंयुतम् ।
कर्पूरदीपभास्वन्तं धूपामोदसुगन्धितम् ।
मण्डपाग्रस्थमात्मानं ध्यात्वा नाकुलचेतसा ॥

इति ध्यात्वा तदनन्तरं प्राणायामं कुर्यात् । मूलविद्यामुच्चार्य वामनासापुटेन वायुमाकृष्य
कनिष्ठानामिकाङ्गुष्ठैर्नासापुटौ विधृत्य कुम्भकेन मूलविद्यां चतुर्वारं
जपन्मूलादिब्रह्मरन्ध्रान्तं विसतन्तु तनीयसी कुण्डलिनीं ध्यात्वा पुनद्विवारमुच्चार्य जपन् तं
वायुं (प्. १७२) पिङ्गलया च विरेचयेदित्येकः । पुनस्तथैव पिङ्गलया
वायुमाकृष्य कुम्भकं कृत्वा इडया विरेचयेदित्यन्यः । एवं वैपरीत्येन
षोडशद्वात्रिंशच्चतुःषष्ठि(षष्ट्युप)चारं यथाशक्तिं वा कुर्यादिति
प्राणायामः ।

अथ योगपीठपूजां कुर्यात् -

मूलाधारे - ओं ऐं ह्रीं श्रीं महामण्डूकाधाराय नमः,
स्वाधिष्ठाने - ४ कालाग्निरुद्राय नमः,
मणिपूरे - ४ मूलप्रकृत्यै नमः,
हृदये - ४ आधारशक्तयै नमः,

४ कूर्माय नमः, ४ अनन्ताय नमः,
४ साराहाय नमः, ४ पृथिव्यै नमः,
४ सहस्रकोटियोजनविस्तीर्णसुधाम्भोनिधये [नमः],
४ शतकोटियोजनविस्तीर्णनवखण्डविराजितनवरत्नद्वीपाय नमः,
४ पुष्परागरत्नप्राकाराय नमः,
४ पद्मरागरत्नप्राकाराय नमः,
४ गोमेदरत्नप्राकाराय नमः,
४ वज्ररत्नप्राकाराय नमः,
४ वैडूर्यरत्नप्राकाराय नमः,
४ इन्द्रनीलरत्नप्राकाराय नमः,
४ मुक्ताफलरत्नप्राकाराय नमः,
४ मरकतरत्नप्राकाराय नमः,
४ विद्रुमरत्नप्राकाराय नमः,
४ कालचक्रेश्वर्यै नमः, ४ मुद्राचक्रेश्वर्यै नमः,
४ मातृचक्रेश्वर्यै नमः, ४ रत्नचक्रेश्वर्यै नमः,
४ देशचक्रेश्वर्यै नमः, ४ तत्त्वचक्रेश्वर्यै नमः,
४ ग्रहचक्रेश्वर्यै नमः, ४ गुरुचक्रेश्वर्यै नमः,
४ मूर्तिचक्रेश्वर्यै नमः, ४ स्वर्णपर्वताय नमः,
४ नन्दनोद्यानाय नमः, ४ नानावृक्षमहोद्यानाय नमः,
४ सन्तानवाटिकायै नमः, (प्. १७३) ४ कल्पवृक्षवाटिकायै नमः,
४ हरिचन्दनवाटिकायै नमः, ४ पारिजातवाटिकायै नमः,
४ कदम्बवाटिकायै नमः, ४ बिल्ववाटिकायै नमः,
४ ऋतुभ्यो नमः, ४ इन्द्रियाश्वेभ्यो नमः,
४ इन्द्रियार्थगजेभ्यो नमः, महाशृङ्गारपरिखायै नमः,
४ माण्डिक्यमण्डपाय नमः, ४ सहस्रस्तम्भमण्डपाय नमः,
४ कालरूपिणीशक्त्यै नमः, ४ देशरूपिणीशक्त्यै नमः,
४ आकाशरूपिणीशक्त्यै नमः, ४ शब्दरूपिणीशक्त्यै नमः,
४ सङ्गितयोगिनीभ्यो नमः, ४ समस्तप्रकटसिद्धियोगिनीभ्यो नमः,
४ अमृतवापिकायै नमः, ४ आनन्दवापिकायै नमः,
४ विमर्शवापिकायै नमः, ४ बालातपोद्गराय नमः,
४ चन्द्रिकोद्गाराय नमः, ४ महाशृङ्गारपरिखायै नमः,
४ त्रिलक्षयोजनविस्तीर्णमहापद्मादेव्यै नमः,
४ सहस्रयोजनविस्तीर्णचिन्तामणिग्रहराजाय नमः,
४ पूर्वाम्नायमयपूर्वद्वाराय नमः,
४ दक्षिणाम्नायमयदक्षिणद्वाराय नमः,
४ पश्चिमाम्नायमयपश्चिमद्वाराय नमः,
४ उत्तराम्नायमय-उत्तरद्वाराय नमः,
४ ऊर्ध्वाम्नायमय ऊर्ध्वशिखराय नमः,
४ महामणिमयवेदिकायै नमः,
४ रत्नसिंहासनाय नमः, ४ श्वेतदनाय नमः,
४ सितचामराभ्यां नमः, तस्य पादचतुष्टये आग्नेयादिचतुष्कोणेषु -
४ धर्माय नमः, ४ ज्ञानाय नमः,
४ वैराग्याय नमः, (प्. १७४) ४ ऐश्वर्याय नमः,

पूर्वादिचतुदिक्षु -

४ अधर्माय नमः, ४ अज्ञानाय नमः,
४ अवैराग्याय नमः, ४ अनैश्वर्याय नमः,
४ मायायै नमः, ४ विद्यायै नमः,
४ सप्ततिवलयोपेताय सहस्रफणराजितशेषाय नमः,
४ आनन्दकन्दाय नमः, ४ संविन्नालाय नमः,
४ षड्त्रिंशतत्त्वात्मकमहापद्माय नमः,
४ प्रकृतिमयपत्रेभ्यो नमः, ४ विकारमयकेसरेभ्यो नमः,
४ पञ्चाशद्वर्णबीजाढ्यसर्वतत्त्वरूपायै कर्णिकायै नमः,
४ अं अर्कमण्डलाय नमः, ४ उं सोममण्डलाय नमः,
४ मं बह्निमण्डलाय नमः, ४ सं सत्वाय नमः,
४ रं रजसे नमः, ४ तं तमसे नमः,
४ आं आत्मने नमः, ४ अं अन्तरात्मने नमः,
४ पं परात्मात्मने नमः, ४ ह्रीं ज्ञानात्मने नमः,
४ विद्यातत्त्वात्मने नमः, ४ परतत्त्वात्मने नमः, ४ ।

तद्योगपीठोपरि केसरेषु अष्टदिक्षु मध्ये च -

(प्. १७५) शरीरं चिन्तयेदादौ निजश्रीचक्ररूपकम् ।
त्वगाद्याकारनिर्मुक्तं ज्वलत्कालाग्निसन्निभम् ॥

बैन्दवं ब्रह्मरन्ध्रे च तत्संवृत्या त्र्यस्रकम् ।
ललाटेऽष्टारचक्रं च भ्रुवोर्मध्ये दशारकम् ॥

बहिर्दशारं कण्ठे च हृदये मनुपत्रकम् ।
नाभोत्वष्टदलं पद्मं स्वाधिष्ठाने कलास्रकम् ॥

आधारे चतुरस्रं स्यात् श्रीचक्रे परिभावयेत् ।
बिन्दुत्रिकोणकाष्ठावतारयुग्लोकपत्रयुवृत्तयुतम् ।
वसुदलं कलास्रवृत्तं त्रिमहीगृहं भजे चक्रम् ॥

४ समस्तप्रकट गुप्ततर सम्प्रदाय कुलकौलनिगर्भरहस्य
परमरहस्यातिरहस्ययोगिनी श्रीचक्रगतसमस्त देवता श्रीपादुकां
पूजयामि तर्पयामि नमः ।

तद्बिन्दौवृत्तचतुरस्रपद्मकर्णिकायां चतुरस्रगर्भितषट्कोणं विचिन्त्य

४ लां ब्रह्मणे पृथिव्यधिपतये निवृत्तिकलात्मने नमो ब्रह्म प्रेतासन
श्रीपादुकां पूजयामि तर्पयामि नमः,
४ वां विष्णवे अपामधिपतये प्रतिष्ठाकलात्मने नमो विष्णुप्रेतासन
श्रीपादुकां पूजयामि तर्पयामि नमः,
(प्. १७६) ४ रां रुद्राय तेजोधिपतये विद्याकलात्मने नमो रुद्रप्रेतासन
श्रीपादुकां पूजयामि तर्पयामि नमः,
४ ईश्वराय वायव्याधिपतये शान्तिकलात्मने नमो ईश्वरप्रेतासन
श्रीपादुकां पूजयामि तर्पयामि नमः,
४ ह्सौंः सदाशिवाय वियदधिपतये शान्त्यतीतकलात्मने नमो
सदाशिवमहाप्रेतपद्मासन श्रीपादुकां पूजयामि तर्पयामि नमः ।

तदुपरि षट्कोणपीठे अग्रादिप्रादक्षि ---------------

४ अं आं सौः त्रिपुरासुधार्पवासन श्रीपादुकां पूजयामि तर्पयामि
नमः,
४ ऐं क्लीं सौः त्रिपुरेश्वरी पोताम्बुजासन श्रीपादुकां पूजयामि
तर्पयामि नमः,
४ ह्रीं क्लीं सौः त्रिपुरसुन्दरीदेव्यात्मासन श्रीपादुकां पूजयामि
तर्पयामि नमः,
४ हैं ह्क्लीं ह्सौंः त्रिपुरवासिनीसर्वचक्रासनश्रीपादुकां पूजयामि
तर्पयामि नमः,
४ ह्सैं ह्स्क्लीं ह्सौः त्रिपुराश्रीसर्वमन्त्रासनश्रीपादुकां पूजयामि
तर्पयामि नमः,
४ ह्रीं क्लीं ब्लें त्रिपुरमालिनी साध्यसिद्धासन श्रीपादुकां पूजयामि
तर्पयामि नमः ।

अथ मध्यपीठचतुरस्रे चतुष्पीठसहितचतुरासनं पूजयेत् ।

ईशान्ये - ऐं क ए ई ल ह्रीं अग्निचक्रे कामगिर्यालये मित्रीशनाथात्मिके
जाग्रद्दशाधिष्ठायिके (प्. १७७) इच्छाशक्त्यात्मकरुद्रात्मशक्ति
कामेश्वरीदेवी ह्रीं क्लीं सौः त्रिपुरसुन्दरी देव्यात्मासन श्रीपादुकां
पूजयामि तर्पयामि नमः ।
वायव्ये - ४ क्लीं हसकहलह्रीं सूर्यचक्रे जालन्धरपीठे
षष्ठीशनाथात्मिके स्वप्नदशाधिष्ठायिके
ज्ञानशक्त्यात्मकविष्ण्वात्मशक्तिवज्रेश्वरी देवी हैं ह्क्लीं ह्सौंः
त्रिपुरवासिनी सर्वचक्रासन श्रीपादुकां पूजयामि तर्पयामि नमः ।
नैऋत्ये - ४ सौः सकलह्रीं सोमचक्रे पूर्णगिरिगह्वरे ओड्डीसनाथात्मके
सुषुप्तिदशाधिष्ठायके क्रियाशक्त्यात्मकब्रह्मात्मशक्तिभगमालिनी देवी
ह्सैं ह्स्क्लीं ह्सौंः त्रिपुराश्रीसर्वमन्त्रासन श्रीपादुकां पूजयामि
तर्पयामि नमः ।
अग्नेये - ४ ऐं क ए ई ल ह्रीं क्लीं ह स क ह ल ह्रीं सौः सकलह्रीं
परब्रह्मचक्रे महोड्याणपीठे श्रीचर्यानाथात्मिके तुर्यदशाधिष्ठायके
जाग्रत्स्वप्नसुषुप्तितुरयावस्थातीतं इच्छाज्ञानक्रियाशक्तिशान्त्यतीत
शक्त्यात्मकत्रिपुरसुन्दरी देवी ह्रीं क्लीं ब्लें त्रिपुरमालिनी देवी
साध्यसिद्धासन श्रीपादुकां पूजयामि तर्पयामि नमः

मध्ये मन्त्रमहोदधौ विशेषमाह

(प्. १७८) अकारादिक्षकारान्तं सबिन्दुकमुच्चार्य मूलविद्यान्ते शिवशक्ति
सदाशिव ईश्वरशुद्धविद्या मायाकलाविद्या रागकालनियतिपुरुषप्रकृति
अहङ्कारबुद्धिमनःश्रोत्रत्वक्चक्षुजिह्वाघ्राणवाक्पाणि पादपायुस्थ
शब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलभूम्यात्मक
श्रीमहात्रिपुरसुन्दर्याः योगपीठ श्रीपादुकां पूजयामि तर्पयामि नमः


मन्त्रमहोदधौ ऐं परायै

(प्. १७९) पूर्ववत्करषडङ्गन्यासं विधाय ततस्त्रिखण्डामुद्रया पुष्पाणि
गृहीत्वा मूलादिब्रह्मरन्धान्तं विसतन्तु तनीयसी देवीं
त्रिखण्डाग्रस्थपुष्पेषु समागतां विभाव्यम् । नमो भगवति
श्रीमहात्रिपुरसुन्दरि

एह्येहि देवदेवेशि त्रिपुरे देवपूजिते ।
मद्यमांस प्रिये शीघ्रं सान्निध्यं कुरु सिद्धये ॥

महापद्मवनान्तस्थे कारणानन्दविग्रहे ।
सर्वभूता हिते मातेरेह्ये हि परमेश्वरी ॥

ऐं वागीश्वरी च विद्महे क्लीं कामेश्वरी धीमहि । सौः तन्नः शक्ति
प्रचोदयात् ॥ श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह
ल ह्रीं सकल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं हसकलर डैं ह स क ल र
डीं ह स क ल र डौं ह्स्रैं ह्स्क्लीं ह्स्रौः स्ह्रीं भगवती
श्रीमहात्रिपुरसुन्दरि आगच्छागच्छास्मिन् श्रीचक्रमध्ये सान्निध्यं कुरु
कुरु स्वाहा । एकैकखण्डमुच्चार्यैकैकखण्डस्थपुष्पं निक्षिपेत् ।

देवेशि भक्तिसुलभे सर्वावरणसंयुते --------- ।
यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव ॥

(प्. १८०) आवाहनादिसप्तमुद्राः प्रदर्श्य पूर्ववत्षडङ्गेन
सकलीकृत्यास्त्रेण दशदिग्बन्धनं विधाय मूलेन शिरादिपादान्तं
व्यापकत्रयं विधाय देवतामूर्ध्नि धेनुमुद्रयाऽमृतीकृत्य
महामुद्रया परमीकुर्यात् । मूलविद्यादीपिनीमालिनीं चोच्चार्य
सामान्यार्घ्योदकेन प्रोक्षयेदिति देवशुद्धिः ।

अथ प्राणप्रतिष्ठा - ४ आं ह्रीं क्रौं य र ल व श ष स हो हंसः सोहं
स्वाहा त्रिपुरसुन्दर्याः सर्वेन्द्रियाणि इहायान्तु सुखं चिरं तिष्ठन्तु
स्वाहा, य र ल व श ष स हों स्वाहा, क्रों ह्रीं आं इति हृदयं स्पृष्ट्वा
त्रिवारं जपेत् ।

अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावयेद्भवानीम् ॥

इति स्वैक्ये नैव ध्यात्वा संक्षोभिण्यादित्रयोदशमुद्राः प्रदर्शयेत् -

४ द्रां सर्वसंक्षोभिणीमुद्रां प्रदर्शयामि,
४ द्रीं सर्वविद्राविणीमुद्रां प्रदर्शयामि,
४ क्लीं सर्वाकर्षिणीमुद्रां प्रदर्शयामि,
४ ब्लुं सर्ववशङ्करीमुद्रां प्रदर्शयामि,
४ सः सर्वोन्मादिनीमुद्रां प्रदर्शयामि,
४ क्रों सर्वमहाङ्कुशामुद्रां प्रदर्शयामि,
४ ह्स्ख्फ्रें सर्वखेचरीमुद्रां प्रदर्शयामि,
(प्. १८१) ४ ह्सौः सर्वबीजमुद्रां प्रदर्शयामि,
४ ऐं सर्वयोनिमुद्रां प्रदर्शयामि,
क्रों ह्रीं द्वेषात्माभ्यां कामेश्वरकामेश्वरी अङ्कुशमुद्रां
प्रदर्शयामि,
४ आं ह्रीं रागात्माभ्याअं कामेश्वरकामेश्वरी पाशमुद्रां
प्रदर्शयामि,
४ द्रां द्रीं क्लीं ब्लूं सः यां रां लां वां शां
शब्दस्पर्शरूपरसगन्धात्माभ्यां कामेश्वरकामेश्वरी
पुष्पबाणमुद्रां प्रदर्शयामि,
४ यं धं मोहनाभ्यां कामेश्वरकामेश्वरी इक्षुचापमुद्रा
प्रदर्शयामि,
४ किरीटमुद्रां प्रदर्शयामि,
४ मकरकुण्डलमुद्रां प्रदर्शयामि ।

मूलेन श्रीपात्रामृतेन त्रिः सन्तर्प्य

लोहितां ललिताम्बा या चापपाशसृणिः करैः ।
दधानां कामराजाङ्के यन्त्रितां मुदितां स्मरेत् ॥

श्रीमहात्रिपुरसुन्दरीपादुकायै आसनं कल्पयामि ।

४ स्वागतं कल्पयामि, ४ पाद्यं कल्पयामि,
४ अर्घ्यं कल्पयामि, ४ आचमनं कल्पयामि,
४ मधुपर्कं कल्पयामि, ४ पुनराचमनं कल्पयामि,
४ पञ्चामृतस्नानं कल्पयामि, ४ शुद्धोदकस्नानं कल्पयामि,
४ वस्त्रं कल्पयामि, ४ यज्ञोपवीतं कल्पयामि,
४ मङ्गलसूत्रादिसर्वाभरणानि कल्पयामि,
(प्. १८२) ४ किरीटं कल्पयामि, ४ मकरकुण्डले कल्पयामि,
४ गन्धं कल्पयामि, ४ अक्षतां कल्पयामि, ४ पुष्पं कल्पयामि ।

धूपग्राहिण्यामाङ्गारान्निक्षिप्य ४ क्लीं तत् तेजसे नमः
इत्यगरुगुग्गुलदशाङ्गं निक्षिप्यास्त्रेण घण्टां सम्पूज्य ४
जगध्वनिमन्द्रमातः स्वाहा इत्यभिमन्त्र्य घण्टावादनपूर्वकं मीचै
धूपं कल्पयामि इति देव्या वामभागे निवेश्य दीपग्राहिण्यां
कर्पूरगर्भिणीं घृताक्तां वर्ति निक्षिप्य मूलमुच्चरन्
श्रीमहात्रिपुरसुन्दर्याः दीपं कल्पयामि इति देव्या दक्षिणभागे नि ---- प्य
देव्यग्रे सामान्यार्घ्योदकेनास्त्रेण चतुरस्रमण्डलं कृत्वा तदुपरि
नानाविधान्नफलापूपादिभक्ष्यभोज्यलेह्यपेयचोष्यादि साधारेण
स्वर्णादिपात्रे निधायास्त्रेण सामान्यार्घोदकेन नैवेद्यं संप्रोक्ष्य
देवसवितु प्रसवा सत्यं त्वर्त्तेन परिषिंचामी ते नैव चक्रमुद्रया
संरक्ष्य तार्क्ष्यमुद्रया निर्विषीकृत्य मूलेनाष्टवारमभिमन्त्र्य
धेनुमुद्रा बध्वा ४ क्लीं कामदुघे वरदे विच्चे स्फुर स्फुर अमृतेश्वरी
विद्यया नैवेद्यममृतीकृत्य महामुद्रया परमीकृत्य देव्याः
प्राग्वत्पाद्यादि आचमनं कृत्वा चुलकेनोदकमादाय (प्. १८३) मूलमुच्चार्य
श्रीमहासुन्दर्याः नैवेद्यं कल्पयामि इति चुलकोदक निक्षिप्य नैवेद्यं
हस्ताभ्यां स्पष्ट्वा

हेमपात्रे गतं दिव्यं परमान्नं सुसंस्कृतम् ।
पञ्चधा षड्रसोपेतं गृहाण परमेश्वरी ॥

इति पठित्वा पात्रान्तरेण जलममृतीकृत्य अमृतोपस्तरणमसी स्वाहा इति दत्वा
प्राणादिपञ्चमुद्राः प्रदर्श्य पुष्पमादाय

सत्पात्रे सद्धविः सौख्यं विविधानेकभक्षणम् ।
निवेदयामि ते देवि सानुगायै जुषाण तत् ॥

इति पुष्पं देव्यै समर्प्य मूलेन देवीं त्रिः सन्तर्प्य ऐं क ए ई ल ह्रीं
आत्मतत्त्वव्यापिकायै श्रीमहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि
तर्पयामि नमः, क्लीं हसकहलह्रीं विद्यातत्त्वव्यापिकायै
श्रीमहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि तर्पयामि नमः, सौः
सकलह्रीं शिवतत्त्वव्यापिकायै श्रीमहात्रिपुरसुन्दरीश्रीपादुकां
पूजयामि तर्पयामि नमः ।

(प्. १८४) पात्रान्तरे जलममृतीकृत्य

नमस्ते देव देवेशि सर्वतृप्तिकरं परम् ।
पानं निवेदितं शुद्धं प्रकृतिस्थं सुशीतलम् ॥

परमानन्दसम्पूर्णं गृहाण जलमुत्तमम् ।

इति पानीयं दत्वास्त्रेण दशदिग्बन्धनं विधाय वस्त्रेण
दृष्टिपन्थानमाच्छाद्य वामहस्तेन घण्टां वादयन् देवीं भुञ्जनां
ध्यायेत् -

ब्रह्मेशाद्यैः सरसमभितः सूपविष्टैः समन्तात्
सिञ्जन्पालव्यजननिकरै व ज्यमाना सखिभिः ।
वर्मक्रिडाप्रहसमप पङ्क्ति भो हसन्ती (?)
भुक्ते पात्रे कनकघटिते षडरसान् विश्वयोनिः ॥

इति भुक्तवती ध्यात्वा मूलमन्त्रं दशधा जपित्वा जपं समर्प्य पूर्ववत्
जलममृतीकृत्य अमृतापिधानमसीत्युत्तरापोशनं दत्वा मूलेन
शेषकृत्यं समाप्य मूलेन (प्. १८५) ताम्बूलं कल्पयामि । योनिमुद्रया
प्रणमेत् ।

पूर्ववत्षडङ्गन्यासं कृत्वा संक्षोभिण्यादिपञ्चदशमुद्राः
प्रदर्श्य मूलेन त्रिः सन्तर्प्य कुर्यात् ऐं ह्रीं श्रीं

संविन्मये परे देवि परामृतरस प्रिये ।
अनुज्ञां त्रिपुरे देहि परिवारार्चनाय मे ॥

तामेव स्वस्य रश्मिरूपाः श्रीचक्रदेवतारूपेण परिणतां ध्यात्वा
तद्देवताः पूजयेत् ।

इति श्रीमच्चिदानन्दनाथविरचितायां स्वच्छन्दपद्धत्यां
लघुपूजाविधिर्नाम षष्ठस्पन्दः ॥ ६ ॥



(प्. १८६) तारत्रयं मम्बादौ सर्वत्र योज्य ओं ऐं ह्रीं श्रीं अः
मूलविद्यामुच्चार्य श्रीमहात्रिपुरसुन्दरीपादुकां पूजयामि तर्पयामि
नमः इति त्रिवारं सन्तर्प्य तत्र त्रिकोणरेखासु तिथिनित्यापूजायां
शुक्लप्रतिपदामारभ्य पौर्णिमान्तं कामेश्वर्यादिचित्रान्तां सु
पञ्चदशनित्यासु एकैकस्यां तिथावेकैकां नित्यां तिथिनित्यात्वेन
मण्डलं पूजयेत् । तत्र तिथि नित्या प्रोक्ता विधिना पूजयेत् । कृष्णपक्षे
तथैवानुलोमेन चित्रादिकामेश्वर्यान्तं पूजयेत् । अत्र तिथिवृद्धौ एकां
नित्यां तिथिद्वये पूजयेत् । तिथिक्षये एकस्यां तिथौ नित्याद्वयं पूजयेत् । अत्र
सूर्योदयव्यापिनीतिथिरेवाहोरात्रव्यापिनीति तान्त्रिकसिद्धान्तः ।

तत्र बिन्दौ तिथिनित्यापूजां विधाय त्रिकोणे वामावर्तेन
दक्षिणरेखायाम् - अं आं इं ईं उं इति पञ्च, पूर्वरेखायाम् - ऊं ऋं
ॠं ऌं ॡं इति पञ्च, उत्तररेखायाम् - एं ऐं ओं औं अं इति पञ्च इति
रेखात्रये पञ्चदशस्वरान् विभाव्य तेषु स्वरेषु कामेश्वर्यादि
पञ्चदशनित्यास्तत्तद्विद्यया पूजयेत् । तद्यथा -

ओं ऐं ह्रीं श्रीं अं ऐं सकलह्रीं नित्यक्लिन्ने मदद्रवे सौः अं
श्रीकामेश्वरीनित्याश्रीपादुकां पूजयामि तर्पयामि नमः,
(प्. १८७) ४ आं ऐं भगभुगे भगिनि भगोदरि भगमाले भगावहे भगगुह्ये
भगयोनि भगनिपातिनि सर्वभगवशङ्करि भगरूपे नित्यक्लिन्ने भगस्वरूपे
सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवे क्लेदय
द्रावय अमोघे भगविच्चे क्षुभः क्षोभय सर्वसत्त्वान् भगेश्वरि ऐं ब्लूं
जं ब्लूं भें मों ब्लूं हें क्लिन्ने सर्वाणि भगानि मे वशमानये
स्त्रीं --------- ह्रीं आं भगमालिनीनित्याश्रीपादुकां पूजयामि तर्पयामि
नमः,
४ इं ह्रीं नित्यक्लिन्ने मदद्रवे स्वाहा इं नित्यक्लिन्ना नित्या श्रीपादुकां
पूजयामि तर्पयामि नमः,
४ ईं ऊं क्रों भ्रों क्रौं ध्रौं ह्रौं? ज्रौं? स्वाहा ईं भेरुण्डा
नित्या श्रीपादुकां पूजयामि तर्पयामि नमः,
४ उं ऊं ह्रीं वह्निवासिन्यै नमः उं वह्निवासिनी नित्या श्रीपादुकां
पूजयामि तर्पयामि नमः,
४ ऊं ह्रीं क्लिन्ने ऐं क्रों नित्यमदद्रवे ह्रीं ऊं महावज्रेश्वरी नित्या
श्रीपादुकां पूजयामि तर्पयामि नमः,
४ ऋं ह्रीं शिवदूत्यै नमः ऋं शिवदूतीनित्या श्रीपादुकां पूजयामि
तर्पयामि नमः,
४ ॠं ऊं ह्रीं हुं खे च छे क्षः स्त्रीं हुं क्षे ह्रीं फट् ॠं त्वरिता
नित्या श्रीपादुकां पूजयामि तर्पयामि नमः,
४ ऌं ऐं क्लीं सौः ऌ कुलसुन्दरी नित्या श्रीपादुकां पूजयामि तर्पयामि
नमः,
(प्. १८८) ४ ॡं ह स क ल र डैं ह स क ल र डीं ह स क ल र डौंः ॡं
नित्या नित्या श्रीपादुकां पूजयामि तर्पयामि नमः,
४ ऐं एं ह्रीं फ्रें स्रूं क्रों आं क्लीं ऐं ब्लूं नित्यमदद्रवे हुं
फ्रें ह्रीं एं नीलपताका नित्या श्रीपादुकां पूजयामि तर्पयामि नमः,
४ ऐं भमरयूं ऐं विजया नित्या श्रीपादुकां पूजयामि तर्पयामि
नमः,
४ ओं स्वौं ओं सर्वमङ्गला नित्या श्रीपादुकां पूजयामि तर्पयामि
नमः,
४ औं ऊं नमो भगवति ज्वालामालिनि देव देवि सर्वभूतसंहारकारिके
जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल ह्रां ह्रीं ह्रूं र र र र र र र
ज्वालामालिनि हुं फट् स्वाहा औं ज्वालामालिनी नित्या श्रीपादुकां
पूजयामि तर्पयामि नमः,
४ अं च कौं अं चित्रा नित्या श्रीपादुकां पूजयामि तर्पयामि नमः ४ इति
पञ्चदशनित्या वामावर्तेन सम्पूज्य श्रीपात्रबिन्दुभिः सन्तर्प्य ४ अः
मूलेन श्रीमहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि तर्पयामि नमः, इति
पञ्चदशनित्या वामावर्तेन सम्पूज्य सन्तर्प्य तन्मध्ये बिन्दौ ४ अः
तुर्यविद्यामुच्चार्य ह स क ल ह स क ह ल स क ल ह्रीं श्रीमहात्रिपुरसुन्दरी
श्रीपादुकां पूजयामि तर्पयामि नमः ।
(प्. १८९) पुनः प्राग्वत्तिथिनित्यायै गन्धपुष्पधूपदीपनैवेद्य तत् तत्
तिथिनैवेद्यं समर्पयेत् सन्तर्पयेत् ।

अथ गुरुपङ्क्तीः पूजयेत् । तद्यथा - शिरसि त्रिकोणस्य पृष्ठान्तराले
विमला जयिन्योर्मध्ये अरुणाग्ररेखायां रेखात्रयं विभाव्य पूर्ववद्
औघत्रयं सम्प्रदायगुरुन् सन्तर्प्य मूलेन देवीं त्रिःसन्तर्प्य
कामराजगुरुपारम्पर्यक्रमेण त्रिकोणाद्बहिरग्नीशासुरवायव्यमध्ये
दिक्षु सर्वज्ञादि षडङ्गयुवतीः सम्पूज्य तर्पयेत् -
[यहां से श्री०, के स्थान पर श्रीपादुकां पूजयामि तर्पयामि नमः
होगा ]
४ ऐं सर्वज्ञा देवी श्री०,
४ क्लीं नित्यतृता देवि श्री०,
४ सौः अनादिबोधा देवि श्री०,
४ सौः स्थतन्त्रा(?) देवि श्री०,
४ क्लीं नित्यमलुप्ता देवि श्री०,
४ ऐं अनन्ता देवि श्री०,

मूलेन देवीं त्रिःसन्तर्प्य समस्तप्रकटेति पुष्पाञ्जलि निक्षिप्य
४ अं आं सौः त्रैलोक्यमोहनचक्राय नमः ।
४ चतुरस्राद्यरेखायै नमः इति सम्पूज्य अथ पूर्वाम्नायः -
४ ऐं क्लीं सौः बाला श्री०,
४ ह्सैं ह्स्क्लीं ह्सौंः सम्पत्प्रदा भैरवी श्री०,
४ स्हैं सकलह्रीं स्र्हौंः चैतन्यभैरवी श्री०,
४ स्हैं सकलह्रीं नित्यक्लिन्ने मदद्रवे स्र्हौंः कामेश्वरी रुद्राणी श्री०,
४ ह्स्रईं स्र्हीं श्रीं सकलह्रीं ऊर्मिणी श्री० ।

(प्. १९०) त्रैलोक्यमोहने चक्रे सर्वाशापरिपूरके ।
सर्वसंक्षोभणे चक्रे पूर्वाम्नायं प्रपूजयेत् ॥

अथ दक्षिणाम्नायः -

४ ह्स्ख्फ्रें ह्स्क्लीं ह्सौं रुद्रभैरवी श्री०,
४ अघोरे ऐं अघोरे ह्रीं घोर घोरतरेरभ्ये सर्वे सर्वाधिदेवते नमस्ते
द्ररूपे ह्सौं अघोरभैरवी श्री०,
४ ऐं क्लीन्ने क्लीं मदद्रवे कुले ह्सौं भोगिनी श्री० ।

सर्वसौभाग्यदे चक्रे तथा सर्वार्थसाधके ।
सर्वरक्षाकरे चक्रे दक्षिणाम्नायमर्चयेत् ॥

अथ पश्चिमाम्नायः -

४ डरलकसहैं डरलकसहीं डरलकसहौंः षट्कूटभैरवी श्री०,
४ ह स क ल र डैं ह स क ल र डीं ह स क ल र डौंः नित्याभैरवी श्री०,
४ ऐं ह्रीं श्रीं ह्स्फ्रें भगवत्यम्ब ह्स्फ्रें ह्स्ख्फ्रें कुब्जिके ह्स्रीं
स्र्हीं ह्स्रूं स्र्हूं अघोरे घोरे अघोरमुखि छ्रां छ्रीं किणि किणि विच्चे
ह्स्रौं ह्स्फ्रें श्रीं ह्रीं ऐं कुब्जिका श्री०,

मध्यचक्रे, अथ उत्तराम्नायः -

४ ह्सैं ह स क ल ह्रीं ह्सौं भुवनेश्वरभैरवी श्री०,
(प्. १९१) ४ ओं ह्रीं श्रीं क्लीं नमो भगवती माहेश्वरि अन्नपूर्णे स्वाहा
अन्नपूर्णा श्री०,
४ स्हैं सकलह्रीं स्हौं सकलेश्वरभैरवी श्री०,
स्रहैं(?) ***? स्हौं सिद्धकौलेश्वरभैरवी श्री०,
४ स्हैं स्ह्क्लीं स्हौं रसभैरवी श्री०,
४ ऊं ख्फ्रें महाचण्डयोगेश्वरी कालिकायै नमः कालिका श्री० ४ ।

नवचक्रेषु देवेशि कौबेराम्नायमर्चयेत् । अथ ऊर्ध्वाम्नायः -

श्रीं ह्रीं क्लीं ऐं सौः ऊं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं
सौः ऐं क्लीं ह्रीं श्रीं श्रीकामराजविद्या श्री० ॥ १ ॥
श्रीं ह स क ल ह्रीं ह स क ह ल ह्रीं सकलह्रीं सौः लोपामुद्रा श्री० ॥ २ ॥
श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं क ह ए ई ल ह्रीं ह ह स क ह ल ह्रीं
स स स स क ह ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं मनुविद्या श्री० ॥ ३ ॥
४ श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं स ह क ए ई ल ह्रीं स ह क ह ल
ह्रीं स ह सकलह्रीं सौः ऐं क्लीं ह्रीं श्रीं चन्द्रविद्या श्री० ॥ ४ ॥
४ श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं ह स क ए ई ल ह्रीं ह स क ह ह ल
ह्रीं ह स स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं कुबेरविद्या श्री० ॥ ५ ॥
४ श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स
ह सकलह्रीं सौः ऐं क्लीं ह्रीं श्रीं अगस्त्यविद्या श्री० ॥ ६ ॥
४ श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं स ए ई ल ह्रीं स ह क ह ल ह्रीं
सकलह्रीं सौः ऐं क्लीं ह्रीं श्रीं नन्दिकेश्वरविद्या श्री० ॥ ७ ॥
(प्. १९२) ४ श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल
ह्रीं सकलह्रीं सौः ऐं क्लीं ह्रीं श्रीं इन्द्रविद्या श्री० ॥ ८ ॥
४ श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं ह स क ह ल ह्रीं ह क ह ल ह्रीं
सकलह्रीं सौः ऐं क्लीं ह्रीं श्रीं सूर्यविद्या श्री० ॥ ९ ॥
४ श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं ह स क ल ह्रीं ह स क ह ल ह्रीं
सकलह्रीं ह स क ल ह स क ह ल स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं
शङ्करविद्या श्री० ॥ १० ॥
४ श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं ह स क ल ह्रीं ह स क ह ल ह्रीं
सकलह्रीं स ए ई ल ह्रीं स ह क ह ल ह्रीं सकलह्रीं सौः ऐं क्लीं ह्रीं
श्रीं विष्णुविद्या श्री० ॥ ११ ॥
४ श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं क ए ई ल ह रीं ह स क ह ल ह रीं
स क ल ह रीं सौः ऐं क्लीं ह्रीं श्रीं दुर्वासविद्या श्री० ॥ १२ ॥

इति द्वादशमूलविद्या भेदः । बैन्दवे मध्यसिंहासनं पूजयेत् ।
धूपदीपौ नैवेद्यं च किं च प्रथमरेखायामणिमाद्याः मध्ये
रेखायां ब्राह्म्याद्यास्तृतीयरेखायां सर्वसंक्षोभिण्याद्याः इति
अर्चनक्रमश्च ।

(प्. १९३) स्थितिचक्रे

एवं सम्पूज्य सकलं श्रीविद्यां परितोषयेत् ।
तर्पणानि पुनर्दद्यात् त्रिवारं मूलविद्यया ॥

अथाङ्गावरणं कुर्यात् श्रीविद्यामनुसम्भवम् ।

ओं ऐं ह्रीं श्रीं ऐं क ए ई ल ह्रीं हृदयाय नमः, हृदये देवी श्री० -
आग्नेये,
४ क्लीं ह स क ह ल ह्रीं शिरसे स्वाहा शिरोदेवी श्री० - ईशान्ये,
४ सौः सकलह्रीं शिखायै वषट् शिखादेवी श्री० - नैरृत्ये,
४ क ए ई ल ह्रीं कवचाय हुं कवचदेवी श्री० - वायव्ये,
४ ह स क ह ल ह्रीं नेत्रत्रयाय वौषट् नेत्रे देवी श्री० - मध्ये,
४ स क ल ह्रीं अस्त्राय फट् अस्त्रदेवी श्री० - इति दिक्षु ।

धूपदीपौ निवेद्य द्वारस्य दक्षिणप्रादक्षिणेन -

४ अणिमासिद्धि श्री०,
४ लघिमासिद्धि श्री०,
४ महिमासिद्धि श्री०,
४ इशित्वसिद्धि श्री० ।

अग्न्यादिकोणेषु -

४ वशित्वसिद्धि श्री०,
४ प्राकाम्यसिद्धि श्री०,
४ भुक्तिसिद्धि श्री०,
४ इच्छासिद्धि श्री० ।

निऋतिवरुणयोर्मध्ये -

४ सर्वकामसिद्धि श्री० ।
(प्. १९४) चतुरस्रमध्यरेखायै नमः इति पुष्पाञ्जलिमुत्क्षिप्य -
४ आं ब्राह्मी श्री०,
४ ईं माहेश्वरी श्री०,
४ ऊं कौमारी श्री०,
४ ॠं वैष्णवी श्री०,
४ ॡं वाराही श्री०,
४ ऐं इन्द्राणी श्री०,
४ औं चामुण्डा श्री०,
४ अः महालक्ष्मी श्री० ।

४ चतुरस्रान्त्यरेखायै नमः इति पुष्पाञ्जलिं निक्षिप्य -
४ द्रां सर्वसंक्षोभिणी मुद्रादेवी श्री०,
४ द्रीं सर्वविद्राविणीमुद्रादेवी श्री०,
४ क्लीं सर्वाकर्षणीमुद्रादेवी श्री०,
४ ब्लूं सर्ववशङ्करिमुद्रादेवी श्री०,
४ सः सर्वोन्मादिनिमुद्रादेवी श्री०,
४ क्रों सर्वमहाङ्कुशामुद्रादेवी श्री०,
४ ह्स्ख्फ्रें सर्वखेचरीमुद्रादेवी श्री०,
४ ह्सौः सर्वबीजमुद्रादेवी श्री०,
४ ऐं सर्वयोनिमुद्रादेवी श्री०,
४ ऐं क्लीं सौः सर्वत्रिखण्डामुद्रादेवी श्री० ४ ।

तस्य दक्षिणे - ४ अं आं सौः त्रिपुराचक्रेश्वरी श्री० ।

तद्दक्षिणे - ४ अणिमासिद्धिश्री० ।

वामे - ४ द्रां सर्वसंक्षोभिणिमुद्रादेवी श्री०,
४ वर्णाध्वा श्री०,
४ बौद्धदर्शन श्री० ।

मूलेन देवीं त्रिःसन्तर्प्य ४ द्रां सर्वसंक्षोभिणीं मुद्रां प्रदर्श्य
गन्धाक्षतकुसुमान्वितं सामान्यार्घ्योदकं गृहीत्वा ४ एताः
प्रकटयोगिन्यः त्रैलोक्यमोहनचक्रे समुद्राः ससिद्धयः सशक्तयः
सायुधाः सवाहनाः सपरिवाराः सचक्रेश्वरिकाः (प्. १९५)
श्रीमहात्रिपुरसुन्दरी सर्वोपचारैः पूजिताः तर्पिताः सन्तु नम इति चक्रेश्वरी
वामहस्ते तज्जलदानेन पूजां समर्प्य

अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

प्रकटयोगिनिमयूखायै श्रीमहात्रिपुरसुन्दर्यै नमः इति योनिमुद्रया
प्रणमेत् । इति प्रथमावरणम् ।

४ ऐं क्लीं सौः सर्वाशापरिपूरकचक्राय नमः इति पुष्पाञ्जलिं निक्षिप्य
देव्यग्रदलमारभ्य वामावर्तेन षोडशनित्याकलाः पूजयेत् -

४ अं कामाकर्षणी नित्याकला श्री०,
४ आं बुद्ध्याकर्षणी नित्याकला श्री०,
४ इं अहङ्काराकर्षिणी नित्याकला श्री०,
४ ईं शब्दाकर्षणी नित्याकला श्री०,
४ उं स्पर्शाकर्षिणी नित्याकला श्री०,
४ ऊं रूपाकर्षणी नित्याकला श्री०,
४ ऋं रसाकर्षणी नित्याकला श्री०,
४ ॠं गन्धाकर्षणी नित्याकला श्री०,
४ ऌं चित्ताकर्षणी नित्याकला श्री०,
४ ॡं धैर्याकर्षणी नित्याकला श्री०,
४ एं स्मृत्याकर्षणी नित्याकला श्री०,
४ ऐं नामाकर्षणी नित्याकला श्री०,
(प्. १९६) ४ ओं बीजाकर्षणी नित्याकला श्री०,
४ औं आत्माकर्षणी नित्याकला श्री०,
४ अं अमृताकर्षणी नित्याकला श्री०,
४ अः शरीराकर्षणी नित्याकला श्री०,
४ इति सम्पूज्य सन्तर्प्य ४ ऐं क्लीं सौः त्रिपुरेश्वरी चक्रेश्वरी श्री० ।

तद्दक्षिणे - ४ लघिमासिद्धि श्री०,
वामे - ४ द्रीं सर्वविद्राविणी मुद्रादेवी श्री०,
४ कलाद्या श्री०,
४ ब्राह्म्यदर्शन श्री०,
सौरदर्शन श्री० ।
मूलेन देवीं त्रिःसन्तर्प्य ४ द्रीं सर्वविद्राविणी मुद्रां प्रदर्श्य
गन्धाक्षतकुसुमान्वितं सामान्यार्घ्योदकं गृहीत्वा ४ एताः
गुप्तयोगिन्याः सर्वाशापरिपूरकचक्रे समुद्रा इत्यादि पूजां समर्प्य

अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

गुप्तयोगिनीमयूखायै श्रीमहात्रिपुरसुन्दर्यै नम इति योनिमुद्रां
प्रणमेत । इति द्वितीयावरणम् ।

ह्रीं क्लीं सौः सर्वसंक्षोभणचक्राय नमः इति पुष्पाञ्जलिं
निक्षिप्य देव्यग्रदलमारभ्य दिग्दलचतुरष्टके -

४ कं खं गं घं ङं अनङ्गकुसुमादेवि श्री०,
(प्. १९७) ४ चं छं जं झं ञं अनङ्गमेखलादेवि श्री०,
४ टं ठं डं ढं णं अनङ्गमदनादेवि श्री०,
४ तं थं दं धं नं अनङ्गमदनातुरादेवि श्री०,
आग्नेयादिचतुष्कोणेषु -
४ पं फं बं भं मं अनङ्गरेखादेवि श्री०,
४ यं रं लं वं अनङ्गवेदि(गि)नीदेवि श्री०,
४ शं षं सं हं अनङ्गाङ्कुशादेवि श्री०,
लं क्षं अनङ्गमालिनीदेवि श्री० ।
४ ह्रीं क्लीं सौः त्रिपुरसुन्दरीचक्रेश्वरी श्री०,
तद्दक्षिणे - ४ महिमासिद्धि श्री०,
वामे - ४ क्लीं सर्वाकर्षणीमुद्रादेवी श्री०,
मात्राध्वा श्री०,
शाक्तदर्शन श्री० ।

मूलेन देवीं त्रिः सन्तर्प्य ४ क्लीं सर्वाकर्षणीमुद्रां प्रदर्श्य
गन्धाक्षतकुसुमान्वितं सामान्यार्घ्योदकं गृहीत्वा ४ एताः
गुप्ततरयोगिन्यः सर्वक्षोभणकारकचक्रे समुद्रा० इत्यादि पूजां समर्प्य

४ अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

[ओं ऐं ह्रीं श्रीं] गुप्ततरयोगिनीमयूखायै श्रीमहात्रिपुरसुन्दर्यै नमः
इति योनिमुद्रया प्रणमेत् ।

इति तृतीयावरणम् ।

४ हैं ह्स्क्लीं ह्सौः सर्वसौभाग्यदायकचक्राय नमः इति पुष्पाञ्जलीं
निक्षिप्य देव्यग्रकोणमारभ्य वामावर्तेन -

(प्. १९८) ४ कं सर्वसंक्षोभिणीशक्ति श्री०,
४ खं सर्वविद्राविणीशक्ति श्री०,
४ गं सर्वाकर्षणीशक्ति श्री०,
४ घं सर्वाह्लादिनीशक्ति श्री०,
४ ङं सर्वसम्मोहिनीशक्ति श्री०,
४ चं सर्वस्तम्भिनीशक्ति श्री०,
४ छं सर्वजृम्भिणीशक्ति श्री०,
४ जं सर्ववशङ्करिशक्ति श्री०,
४ झं सर्वरञ्जनीशक्ति श्री०,
४ ञं सर्वोन्मादिनीशक्ति श्री०,
४ टं सर्वार्थसाधनशक्ति श्री०,
४ ठं सर्वसम्पत्प्रपूरिणीशक्ति श्री०,
४ डं सर्वमन्त्रमयीशक्ति श्री०,
४ ढं सर्वद्वन्द्वक्षयङ्करिशक्ति श्री० ।
हैं ह्क्लीं ह्सौः त्रिपुरवासिनी चक्रेश्वरी श्री० ४ ।
तद्दक्षिणे - ४ इशित्वसिद्धि श्री०,
वामे - ४ ब्लूं सर्ववशङ्करिमुद्रा श्री०,
४ तत्त्वाध्वा श्री०,
४ शैवदर्शन श्री० ।
मूलेन देवीं त्रिःसन्तर्प्य ४ ब्लूं सर्ववशङ्करीमुद्रां प्रदर्श्य
गन्धाक्षतकुसुमादि [गृहीत्वा ओं ऐं ह्रीं श्रीं] एताः सम्प्रदाययोगिन्यः
सर्वसौभाग्यदायकचक्रे समुदा० इत्यादि पूजां समर्प्य ओं ऐं ह्रीं
श्रीं

अभिष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥

४ सम्प्रदाययोगिनीमयूखायै श्रीमहात्रिपुरसुन्दर्यै नम इति योनिमुद्रया
प्रणमेत् । इति चतुर्थावरणम् ।

(प्. १९९) ओं ऐं ह्रीं श्रीं ह्सैं ह्स्क्लीं ह्सौः सर्वार्थसाधकचक्राय नमः
इति पुष्पाञ्जलिं निक्षिप्य देव्यग्रकोणमारभ्य वामावर्तेन
४ णं सर्वसिद्धिप्रदादेवि श्री०,
४ तं सर्वसम्पत्प्रदादेवि श्री०,
४ थं सर्वप्रियङ्करीदेवि श्री०,
४ दं सर्वमङ्गलकारिणीदेवि श्री०,
४ धं सर्वकामप्रदादेवि श्री०,
४ नं सर्वदुःखविमोचनीदेवि श्री०,
४ पं सर्वमृत्युप्रशमनीदेवि श्री०,
४ फं सर्वविघ्ननिवारिणीदेवि श्री०,
४ बं सर्वाङ्गसुन्दरीदेवि श्री०,
४ भं सर्वसौभाग्यदायिनीदेवि श्री० ।
४ ह्सैं ह्स्क्लीं ह्सौः त्रिपुरा श्रीचक्रेश्वरी श्री०, ।
तद्दक्षिणे - ४ वशित्वसिद्धि श्री०,
वामे - ४ सः सर्वोन्मादिनीमुद्रादेवि श्री०,
पदाध्वा श्री०,
गणेशदर्शन श्री० ।

मूलेन देवीं त्रिःसन्तर्प्य ४ सः सर्वोन्मादिनीं मुद्रां प्रदर्श्य
गन्धाक्षतकुसुमान्वितं सामान्यार्घ्योदकं गृहीत्वा ४ एता
कुलकौलयोगिन्यः सर्वार्थसाधकचक्रे समुद्रा० इत्यादि पूजां समर्प्य

४ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

४ कुलकौलयोगिनीमयूखायै श्रीमहात्रिपुरसुन्दर्यै नमः इति योनिमुद्रया
प्रणमेत् ।

(प्. २००) इति पञ्चमावरणम् ।

४ ह्रीं क्लीं ब्लें सर्वरक्षाकरचक्राय नमः इति पुष्पाञ्जलिं निक्षिप्य
देव्यग्रकोणमारभ्य वामावर्तेन -
४ मं सर्वज्ञादेवि श्री०,
४ यं सर्वशक्तिदेवि श्री०,
४ रं सर्वैश्वर्यप्रदादेवि श्री०,
४ लं सर्वज्ञानमयीदेवि श्री०,
४ शं सर्वाधारस्वरूपिणीदेवि श्री०,
४ षं सर्वपापहरादेवि श्री०,
४ सं सर्वानन्दमयीदेवि श्री०,
४ हं सर्वरक्षास्वरूपिणीदेवि श्री०,
४ क्षं सर्वेप्सितफलप्रदादेवि श्री० ।
४ ह्रीं क्लीं ब्लें त्रिपुरमालिनी चक्रेश्वरी श्री०,
तद्दक्षिणे - ४ प्राक्राम्यसिद्धि श्री०,
वामे - क्रों सर्वमहाङ्कुशमुद्रादेवि श्री०,
४ भुवनाध्वा श्री०,
४ वैष्णवदर्शन श्री० ।
मूलेन देवीं त्रिःसन्तर्प्य गन्धाक्षतकुसुमान्वितं सामान्यार्घ्योदकं
गृहीत्वा ४ एताः निगर्भयोगिन्यः सर्वरक्षाकरचक्रे समुद्रा० इत्यादि पूजां
समर्प्य ओं ऐं ह्रीं श्रीं

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं षष्ठाष्टमावरणार्चनम् ॥

४ निगर्भयोगिनीमयूखायै श्रीमहात्रिपुरसुन्दर्यै नमः इति योनिमुद्रया
प्रणमेत् । इति षष्ठाष्टमावरणम् ।

(प्. २०१) ओं ऐं ह्रीं श्रीं ह्रीं श्रीं सौः सर्वरोगहरचक्राय नमः इति
पुष्पाञ्जलिं निक्षिप्य देव्यग्रकोणमारभ्य वामावर्तेन ४ अं आं इं ईं
उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः रब्लूं वशिनीवाग्देवता
श्री०,
४ कं खं गं घं ङं कलह्रीं कामेश्वरीवाग्देवता श्री०,
४ चं छं जं झं ञं न्व्लीं मोदिनीवाग्देवता श्री०,
४ टं ठं डं ढं णं य्लूं विमलावाग्देवता श्री०,
४ तं थं दं धं नं ज्म्रीं अरुणावाग्देवता श्री०,
४ पं फं बं भं मं ह्स्ल्र्यूं जयिनीवाग्देवता श्री०,
४ यं रं लं वं झ्म्र्यूं सर्वेश्वरीवाग्देवता श्री०,
४ शं षं सं हं लं क्षं क्ष्म्रीं कौलिनीवाग्देवता श्री० ।
४ ह्रीं श्रीं सौः त्रिपुरासिद्धा चक्रेश्वरी श्री०,
तद्दक्षे - ४ भुक्तिसिद्धि श्री०,
वामे - ४ ह्स्ख्फ्रें सर्वखेचरीमुद्रादेवी श्री० ।
४ मूलेन देवीं त्रिःसन्तर्प्य गन्धाक्षतकुसुमान्वितं सामान्यार्घ्योदकं
गृहीत्वा ४ एताः रहस्ययोगिन्यः सर्वरोगहरचक्रे समुद्रा ० इत्यादि पूजां
समर्प्य ओं ऐं ह्रीं श्रीं

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥

४ रहस्ययोगिनीमयूखायै श्रीमहात्रिपुरसुन्दर्यै नमः इति योनिमुद्रया
प्रणमेत् । इति सप्तमावरणम् ।

(प्. २०२) ओं ऐं ह्रीं श्रीं ह्स्रैं ह्स्क्लीं ह्स्रौः सर्वसिद्धिप्रदचक्राय नमः
इति पुष्पाञ्जलिं निक्षिप्य त्रिकोणाष्टकोणान्तराले वायव्यादीशानान्तं
कोणचतुष्टये बहिरायुधदेवताः पूजयेत् ।

४ द्रां द्रीं क्लीं ब्लूं सः जृम्भनेभ्य कामेश्वरबाणेभ्यो नमः ।

४ कामेश्वरवाणदेवता श्री०,

४ यां रां लां वां शां जृम्भनेभ्यः कामेश्वरीबाणदेवताभ्यो
नमः ४ कामेश्वरीवाणदेवता श्री०,

४ यं धं मोहनाभ्यां कामेश्वरचापाय नमः ४
कामेश्वरचापदेवता श्री०,

४ यं धं मोहनाभ्यां कामेश्वरी चापाय नमः ४ कामेश्वरी
चापदेवता श्री०,

४ आं ह्रीं वशीकरणाय कामेश्वर पाशाय नमः ४ कामेश्वर
पाशदेवता श्री०,

४ आं ह्रीं वशीकरणाय कामेश्वरी पाशाय नमः ४ कामेश्वरी
पाशदेवता श्री०,

४ क्रों ह्रीं स्तम्भनाय कामेश्वराङ्कुशाय नमः कामेश्वराङ्कुश
देवता श्री०,

४ क्रों ह्रीं स्तम्भनाय कामेश्वर्याङ्कुशाय नमः ४ कामेश्वर्यङ्कुश
देवता श्री०,

त्रिकोणे अग्रादिवामावर्तेन ४ क ए ई ल ह्रीं अग्निचक्रे कामगिर्यालये
मित्रीशनाथात्मिके जाग्रद्दशाधिष्ठायिके इच्छात्मिक-रुद्रात्मशक्ति-
कामेश्वरीदेवी श्री० ।

४ हसकहलह्रीं सूर्यचक्रे जालन्धरपीठे षष्ठीशनाथात्मिके
स्वप्नदशाधिष्ठायिके ज्ञानशक्त्यात्मकविष्ण्वात्मशक्ति वज्रेश्वरी देवी
श्री० ।

(प्. २०३) ४ सकलह्रीं सोमचक्रे पूर्णगिरिगह्वरे उड्डीशनाथात्मिके
सुषुप्तिदशाधिष्ठायिके क्रियाशक्त्यात्मक-ब्रह्मात्मशक्ति-भगमालिनी श्री०

४ ह्स्रैं ह्स्क्लीं ह्स्रौः त्रिपुराम्बाचक्रेश्वरी श्री० ।

तद्दक्षे - ४ इच्छाशक्ति श्री०,
वामे - ४ ह्सौंः सर्वबीजमुद्रा श्री० ।
मूलेन देवीं त्रिःसन्तर्प्य ४ ह्सौंः सर्वबीजमुद्रा प्रदर्श्य
गन्धाक्षतकुसुमान्वितं सामान्यार्घ्योदकं गृहीत्वा ४ एताः
परमरहस्ययोगिन्यः सर्वसिद्धिप्रदचक्रे समुद्रा ० इत्यादि पूजां सन्तर्प्य ओं
ऐं ह्रीं श्रीं

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥

४ परमरहस्ययोगिनीमयूखायै श्रीमहात्रिपुरसुन्दर्यै नमः इति
योनिमुद्रया प्रणमेत् । इत्यष्टमावरणम् ।

ओं ऐं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं सकलह्रीं
सर्वानन्दमयनैन्दवचक्राय नम इति पुष्पाञ्जलिं निक्षिप्य परब्रह्मचक्रे
महोड्याणपीठे श्रीचर्यानाथात्मिके तुर्यदशाधिष्ठायिके
जाग्रत्स्वप्नसुषुप्तितुर्यतुर्यातीतावस्थेच्छाज्ञानशक्तिक्रियाशान्ति
(प्. २०४) शान्त्यतीतशक्त्यात्मक परब्रह्मात्मकशक्ति
श्रीमहात्रिपुरसुन्दरीदेवी श्री०, इति सन्तर्प्य मूलमुच्चार्य
श्रीमहात्रिपुरसुन्दरीचक्रेश्वरी श्री०,
४ ऐं योनिमुद्रा देव्यम्बा श्री०, इति श्रीपात्रबिन्दुभिः सन्तर्प्य ४ ऐं
योनिमुद्रां प्रदर्श्य गन्धाक्षतकुसुमान्वितं सामान्यार्घ्योदकं
गृहीत्वा ४ एताः परापररहस्ययोगिन्योः सर्वानन्दमये बैन्दवे चक्रे
परब्रह्मस्वरूपिणी परामृतशक्तिस्वरूपिणी सर्वमन्त्रेश्वरी सर्वचक्रेश्वरी
सर्वविद्येश्वरी सर्वयोगेश्वरी सर्वसिध्येश्वरी सकलजगदुत्पत्ति
स्थितिसंहारमातृकाः सचक्राः स देवताः समुद्राः ससिध्ययः सशक्तयः
सायुधाः सवाहनाः सपरिवाराः सचक्रेश्वरिकाः सालङ्काराः
सर्वोपचारैः पूजितास्तर्पिताः सन्तु नम इति चक्रेश्वरी वामहस्ते तज्जलं
समर्प्य मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरी श्री० ।
४ ह्स्रैं ह्स्रीं ह्स्रौंः सर्वत्रिखण्डमुद्रादेवि श्री० इति पात्रबिन्दुभिः
सम्पूज्य सन्तर्प्य ४ ह्स्रैं ह्स्रीं ह्स्रौंः सर्वत्रिखण्डमुद्रां प्रदर्श्य
मूलेन देवीं त्रिःसन्तर्प्य मूलेन देवीं संबोध्य पुष्पाञ्जलिमादाय ओं
ऐं ह्रीं श्रीं

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥

(प्. २०५) इति देव्याश्चरणयोः पुष्पाञ्जलिं निक्षिप्य ४
परापररहस्ययोगिनीमयूखायै श्रीमहात्रिपुरसुन्दर्यै नम इति
योनिमुद्रया प्रणमेत् । इति नवमावरणम् ।

नवचक्रमेकरूपेण ध्यायन् संक्षोभिण्यादित्रयोदशमुद्राः
प्रदर्श्य विशेषार्घ्यबिन्दुभिः सन्तर्प्य योनिमुद्रया प्रणमेदिति
नवमावरणं नित्यमवश्यकम् ।

अथावरणसहस्राक्षरिं पठित्वा - ऐं ह्रीं श्रीं हं सः ओं नमो
भगवति अक्षोभ्ये रुक्षकर्णि राक्षसि क्षपणे क्षपे पिङ्गलाक्षि हुङ्कारि
वडवामुखि हाहारावे महाक्रोधे क्रोधिनि खरास्ये सर्वज्ञे तरले तारे
हृष्टे हृल्लेखे दशकन्धरे सारसि रससंग्राहिणि तालजङ्घे रक्ताक्षि
विद्युज्जिह्वे करङ्किणि मेघनादे प्रचण्डोग्रे कालाकर्षिणि कंबलप्रदे चम्पे
चम्पावलि प्रपञ्चे प्रलयान्तके पिचुवक्त्रे पिशिताक्षि पिशिताक्षिनि लोलुपे वामनि
वानरि वासवि निकृतास्ये वायुवेगे बृहत्कुक्षिविकृते विश्वरूपिणि यमं जिह्वे
जयन्ति दुर्जयि यमान्तकि बिडालि रेवति पूजने विजये अनन्ते क्रन्दिनि चण्डे
(प्. २०६) टङ्किणि तरुणि परारुणि युगान्ते शान्ते अणिमे लघिमे महिमे इशित्वे
वशित्वे प्राकाम्ये भुक्तिदे इच्छे रसेन्द्रे मोक्षदे सर्वसंक्षोभिणि
सर्वविद्राविणि सर्वाकर्षिणि सर्ववशङ्कारिणि सर्वोन्मादिनि सर्वमहाङ्कुशे
खेचरी खचक्रधारिणि सर्वबीजरूपे महायोनिरूपे त्रिखण्डे
अनङ्गब्रह्माणि अनङ्गमाहेशि अनङ्गकौमारि अनङ्गवैष्णवि
अनङ्गवाराहि अनङ्गेन्द्राणि अनङ्गचामुण्डे अनङ्गमहालक्ष्मि
प्रकटयोगेशि बौद्धदर्शनाङ्गि त्रैलोक्यमोहनचक्रस्वामिनि कामाकर्षणि
बुध्याकर्षणि अहङ्काराकर्षणि शब्दाकर्षणि स्पर्शाकर्षणि रूपाकर्षणि
रसाकर्षणि गन्धाकर्षणि चित्ताकर्षणि धैर्याकर्षणि स्मृत्याकर्षणि
नामाकर्षणि बीजाकर्षिणि आत्माकर्षिणि अमृताकर्षिणि शरीराकर्षिणि
गुप्तयोगेशि वैदिकदर्शनाङ्गि सर्वाशापरिपूरकचक्रस्वामिनि अनङ्गकुसुमे
अनङ्गमेखले अनङ्गमदने अनङ्गमदनातुरे अनङ्गरेखे अनङ्गवेगिनि
अनङ्गाङ्कुशे अनङ्गमालिनि गुप्ततरयोगेशि शैवदर्शनाङ्गि
सर्वसंक्षोभणचक्रस्वामिनि पूर्वाम्नायेशि सृष्टिप्रदे सर्वसंक्षोभिणि
सर्वविद्राविणि सर्वाकर्षिणि सर्वाह्लादिनि सर्वसम्मोहिनि सर्वस्तम्भिनि
सर्वजृम्भिणि (प्. २०७) सर्ववशङ्करि सर्वरञ्जनि सर्वोन्मादिनि
सर्वार्थसाधकि सर्वसम्पत्तिपूरिणि सर्वमन्त्रमयि सर्वद्वन्द्वक्षयङ्करि
सम्प्रदायचक्रयोगिनि सौरदर्शनाङ्गि सर्वसौभाग्यदायकचक्रस्वामिनि
सर्वसिद्धिप्रदे सर्वसम्पत्प्रदे सर्वप्रियङ्करि सर्वमङ्गलकारिणि
सर्वकामप्रदायिनि सर्वदुःखविमोचनि सर्वमृत्युप्रशमनि
सर्वविघ्ननिवारिणि सर्वाङ्गसुन्दरि सर्वसौभाग्यदायिनि कुलकौलयोगेशि
सर्वार्थसाधकचक्रस्वामिनि सर्वज्ञे सर्वशक्ते सर्वैश्वर्यप्रदायिनि
सर्वज्ञानमयि सर्वव्याधिविनाशिनि सर्वाधारस्वरूपे सर्वपापहरे
सर्वानन्दमयि सर्वरक्षास्वरूपे सर्वेप्सितफलप्रदे निगर्भयोगेशि
वैष्णवदर्शनाङ्गि सर्वरक्षाकरचक्रस्वामिनि दक्षिणाम्नायेशि स्थितिप्रदे
रब्लूं वशिनि क्ल्ह्रीं कामेशिः न्क्लीं मोदिनि य्लूं विमले ज्म्रीं अरुणे
ह्स्ल्र्यूं जयनि झ्म्र्यूं सर्वेश्वरि क्ष्म्रीं कौलिनि रहस्ययोगेशि
शाक्तदर्शनाङ्गि सर्वरोगहरचक्रस्वामिनि द्रां क्लिन्ने मोहनकामबाण
द्रीं रक्ते शोषण कामबाण क्लीं नित्ये सन्दीपनकामबाण ब्लूं सत्ये
सन्तापनकामबाण सः द्रव्ये उन्मादन कामबाण द्रां द्रीं क्लीं ब्लूं
सः जम्भिनि जम्भय जम्भय धं (प्. २०८) मोहनि मोहय मोहय आं
आकर्षिणि आकर्षय आकर्षय क्रों स्तम्भिनि स्तम्भय स्तम्भय ऐं कामेशि
क्लीं वज्रेशि सौः भगमाले अतिरहस्ययोगेशि सर्वसिद्धिप्रदचक्रस्वामिनि
ह्स्क्ल्रौं ह्स्क्ल्रीं ह्स्क्ल्रौं कामराजविद्याश्रय श्रीमहात्रिपुरसुन्दरि मातः
परापररहस्ययोगेशि शाम्भवदर्शनाङ्गि सर्वानन्दमयचक्रस्वामिनि
पश्चिमाम्नायेशि संहारनिष्ठे अं आं सौः त्रिपुरे ऐं क्लीं सौः
त्रिपुरेश्वरि ह्रीं क्लीं सौः त्रिपुरसुन्दरि हैं ह्क्लीं ह्सौः त्रिपुरावासिनि
ह्सैं ह्स्क्लीं ह्सौः त्रिपुरा श्रीं ह्रीं क्लीं ब्लें त्रिपुरमालिनि ह्रीं श्रीं
सौः त्रिपुरासिद्धे ह्स्रैं ह्स्क्ल्रीं ह्स्रौंः त्रिपुराम्बिके ह स क ल र डैं ह स
क ल र डीं ह स क ल र डौः महात्रिपुरभैरवि अं कामेशि आं भगमाले
इं नित्यक्लिन्ने ईं भेरुण्डे उं बह्निवासिनि ऊं महावज्रेश्वरी ऋं शिवदूति
ॠं त्वरिते ऌं कुलसुन्दरि ॡं नित्ये एं नीलपताके ऐं विजये ओं सर्वमङ्गले
औं ज्वालामालिनि अं चित्रे अः कामेश्वरि विद्ये कुले अकुले कुलाकुले
सर्वोत्तरप्रपञ्चार्थे ज्ञानप्रदे सर्वदर्शनाङ्गि सर्वदर्शनोत्तिर्णस्वरूपे
सर्वाध्वशोधकि कालकालेशि अवर्णे ख्प्रूं महाचण्डयोगेश्वरि
नवाक्षरीविद्या षोडशाधिका च नवकूटद्वयं ह्स्फ्र्यूं आनन्देश्वरि
घोरकपालिनि अम्बा श्रीपादुकां पूजयामि हंसः सोहं ह्सौंः श्रीं
ह्रीं ऐं । इति अ[अं] वरण सहस्राक्षरीस्तत्क्रमान्तर ज्ञेया ।

(प्. २०९) अथ पञ्चपञ्चिकाः पूजयेत् । तद्यथा -

बैन्दवे परमेशानि मध्यसिंहासने तथा ।
मध्य ईशाग्निनैऋत्य वायव्येषु यथा क्रमम् ॥

अनेनैव प्रकारेण पूजयेत् पञ्चपञ्चिकाः ।
पञ्चलक्ष्मीं पञ्चकोशा पञ्चकल्पलतास्तथा ॥

तथा पञ्चैकरत्नानि पञ्चकामदुधा स्मृताः ।
श्रीविद्या च तथा लक्ष्मी महालक्ष्मीस्तथैव च ॥

त्रिशक्तिसर्वसाम्राज्य पञ्चलक्ष्मीः प्रकीर्तिताः ।
श्रीविद्या च परं ज्योति परा निष्कला शाम्भवी ॥

अजपा मातृका चेति पञ्चकोशाः प्रकीर्तिताः ।
श्रीविद्या त्वरिता चैव पारिजातेश्वरी तथा ॥

(प्. २१०) त्रिपुरा पञ्चबाणेशी पञ्चकल्पलताः स्मृताः ।
श्रीविद्या सिद्धलक्षी च मातङ्गी भुवनेश्वरी ॥

वाराही चेति विख्याता पञ्चरत्नाः प्रकीर्तिताः ।

श्रीविद्या पू ------------ स्थाने चक्रराजे महेश्वरी मध्ये
श्रीविद्यामुच्चार्य श्रीमहात्रिपुरसुन्दरी पञ्चलक्ष्मी वृन्दम --------- श्री० ।
ईशान्ये श्रीं महालक्ष्मीं वृन्दमण्डितासनसंस्थितां
सर्वसौभाग्यजननी श्रीमहालक्ष्मी त्रिपुरसुन्दरी श्री-अग्नेये ४ ओं ह्रीं श्रीं
कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ओं श्रीमहालक्ष्म्यै
नमः श्रीमहालक्ष्मी वृन्दमण्डिता श्रीमहात्रिपुरसुन्दरी श्री० ।
नैऋत्ये - ४ ओं श्रीं ह्रीं क्लीं त्रिशक्तिलक्ष्मीश्वरी
वृन्दमण्डितासनसंस्थितां त्रिशक्तिलक्ष्मी त्रिपुरसुन्दरी श्री० ।
वायव्ये - ४ श्रीं स्ह्क्लीं श्रीं सकलह्रीं सर्वसाम्राज्यलक्ष्मी
वृन्दमण्डितासनसंस्थितां सर्वसाम्राज्यलक्ष्मी त्रिपुरसुन्दरी श्री० इति
पञ्चलक्ष्मीः श्रीविद्यामुच्चार्य देवीं मध्ये सम्पूज्य
विशेषार्घ्यबिन्दुभिः सन्तर्पयेत् ।

(प्. २११) अथ पञ्चकोशाः मध्ये श्रीविद्यामुच्चार्य
श्रीमहाकामेश्वरी महात्रिपुरसुन्दरी श्री ० ।
ईशान्ये - ओं ह्रीं हंसः सोहं स्वाहा पञ्चकोशेश्वरी वृन्दमण्डिता
परंज्योति कोशाम्बा त्रिपुरसुन्दरी श्री० ।
आग्नेये - ४ओं पञ्चकोशेश्वरी वृन्दमण्डिता परं निष्कलकौशाम्बा श्री० ।
नैऋत्ये - ४ ओं ह्रीं हंसः सोहं स्वाहा पञ्चकोशेश्वरी वृन्दमण्डिता
अजपाकोशाम्बा त्रिपुरसुन्दरी श्री ० ।
वायव्ये - ४ ऽं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः
कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं
णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं
शं षं सं हं क्षं पञ्चकोशेश्वरी वृन्दमण्डिता मातृका
कोशाम्बा त्रिपुरसुन्दरी श्री० ।
मध्ये - ४ मूलेन देवीं सम्पूज्य सन्तर्पयेदिति पञ्चकोशाः ।

अथ पञ्चकल्पलताः मध्ये श्रीविद्यामुच्चार्य पञ्चकल्पलता
वृन्दमण्डिता कल्पलतेश्वरी त्रिपुरसुन्दरी श्री० ।
ईशान्ये - ४ ओं ह्रीं हूं खे च छे क्ष स्त्रीं हुं क्षें ह्रीं फट्
पञ्चकल्पलता वृन्दमण्डिता -------------- त्वरिता कल्पलता त्रिपुरसुन्दरी श्री० ।
आग्नेये - ४ ओं ह्रीं ह्स्क्लैं सरस्वत्यै नमः ह्रीं ओं पञ्चकल्पलतेश्वरी
वृन्दमण्डिता ------------------------------------लता त्रिपुरसुन्दरी श्री० ।
नैऋत्ये - ४ ओं ह्रीं श्रीं क्लीं (प्. २१२) पञ्चकल्पलता वृन्दमण्डिता
त्रिपुरकल्पलता त्रिपुरसुन्दरी श्री० ।
वायव्ये - ४ द्रां द्रीं क्लीं ब्लूं सः मूलविद्यामुच्चार्य पञ्चकल्पलता
वृन्दमण्डिता पञ्चबाणेश्वरी कल्पलता त्रिपुरसुन्दरी श्री० । ४ मूलेन
देवीं सम्पूज्य सन्तर्पयेदिति पञ्चकल्पलताः ।

अथ पञ्चकामदुधाः मध्ये ४ श्रीविद्यामुच्चार्य
पञ्चकामदुधावृन्दश्रीमहात्रिपुरसुन्दरी कामदुधेश्वरी श्री० ।
इशान्ये - ४ ओं ह्रीं जूं सः सञ्जीविनि जीवं प्राणग्रन्थिस्थं कुरु कुरु
स्वाहा पञ्चकामदुधावृन्द अमृतपीठेश्वरी कामदुधा त्रिपुरसुन्दरी
श्री० ।
आग्नेये - ४ ओं श्रीं वदवाग्वादिनि ह्सौंः क्लिन्ने क्लेदिनि महाक्षोभं कुरु
कुरु ह्सौ पञ्चकामदुधावृन्द सुधाकामदुधेश्वरी त्रिपुरसुन्दरी श्री० ।
नैऋत्ये - ओं ह्रीं ऐं अमृते अमृतोद्भवे अमृतेश्वरी अमृतवर्षिणि अमृतं
स्रावय स्रावय ह्रीं जूं सः स्वाहा पञ्चकामदुधावृन्द
अमेश्वरी कामदुधेश्वरी त्रिपुरसुन्दरी श्री० ।
वायव्ये - ४ ओं ह्रीं श्रीं क्लीं नमो भगवति माहेश्वरी अन्नपूर्णे स्वाहा
पञ्चकामदुधावृन्द (प्. २१३) अन्नपूर्णा कामदुधा त्रिपुरसुन्दरी श्री० ।
मूलेन देवीं सम्पूज्य सन्तर्पयेत् । इति पञ्चकामदुधाः ।

अथ पञ्चरत्नानि । मध्ये - श्रीविद्यामुच्चार्य पञ्चरत्नेश्वरी
वृन्दमण्डिता --------- पञ्चरन्तेश्वरी त्रिपुरसुन्दरी श्री० ।
ईशान्ये - ४ ओं फ्रें फ्रें ह्स्रैं ऐं क्लीं महाचण्डतेजसङ्कर्षिणि ह्रीं
ह्स्रीं सः स्वाहा फ्रें ह्रीं श्रीं सर्वसिद्धियोगिन्यै ह्स्ख्फ्रें ह्रीं श्रीं
सर्वसिद्धिमन्त्रे ह्स्ख्फ्रें ह्रीं श्रीं नित्योदिता नन्दनन्दितायै
सकलकुलचक्रनायिकायै भगवत्यै चण्डकालिन्यै ह्रां ह्रीं ह्रुं फ्रें
औं ह्रां ह्रीं ह्रुं फ्रें क्रों नमः क्लिन्ने फ्रें परमहंसी
निर्वाणमार्गप्रदे परमो ---------- वशमानि ---------------------------------------------


आगच्छागच्छ हन हन बला बलान

ररुधिरान्त्रवसा भक्षिणि मम शत्रून् भक्षय भक्षय खाहि खाहि
शूलेन भिन्धि भिन्धि छिन्धि छिन्धि खड्गेन तार्क्ष्य तार्क्ष्य भेदय भेदय
नय रह कबल ह्रीं ह स क्ष म ल व र य-ऊं तावद्यावन् मम
सकलमनोरथान् साधय साधय परमकारुणिके देवि भगवति
महाभैरवरूपधारिणि त्रिदशवरनमिते (प्. २१४) सकलमन्त्रमातः
प्रणतजनवत्सले देवि महाकालि कालनाशिनि ह्रूं ह्रूं ह्रूं प्रसीद
मदनातुरे आं ह्रीं क्रों कुरु कुरु सुरासुरकन्यके ह्रीं श्रीं क्रों हुं
फट् स्वाहा । ह्स्ख्फ्रें फ्रें पञ्चरन्तेश्वरी वृन्दमण्डिता ------------------
सिद्धलक्ष्मीरत्नेश्वरी त्रिपुरसुन्दरी श्री० ।
आग्नेये - ४ ऐं क्लीं सौः नमो भगवति राजमातङ्गेश्वरी सर्वजनमनोहारि
सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि
सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्ववशङ्करि
सर्वलोकवशङ्करि सर्वजनं मे वशमानय स्वाहा । स्रौः? क्लीं? ऐं श्रीं
ह्रीं क्लीं पञ्चरत्नेश्वरी वृन्दमण्डिता -------------------- राजमातङ्गीश्वरी
त्रिपुरसुन्दरी श्री० ।
नऋत्ये - ४ ओं ह्रीं नमः पञ्चरत्नेश्वरी वृन्दमण्डिता ----------------
भुवनेश्वरीश्वरी त्रिपुरसुन्दरी श्री० ।
वायव्ये - ४ ओं ऐं ग्लौं ओं नमो भगवति वार्तालिवाराहि वाराहि वराहमुखि
अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि
नमः स्तम्भे स्तम्भिनि नमः सर्वदुष्टप्रदुष्टानां सर्वेषाम्
वाक्चित्तचक्षुमुखगतिजिह्वा स्तम्भं कुरु कुरु शीघ्रं वशं कुरु कुरु
ठः ठः ठः हुं फट् स्वाहा ।
ग्लौं ऐं पञ्चरत्नेश्वरि वृन्दमण्डिता (प्. २१५) --------------------- वाराही
पञ्चरत्नेश्वरी त्रिपुरसुन्दरी श्री० ।


ऐं ग्लौं ऐं नमो भगवति वार्तालि वाराहि वाराहमुखि ऐं ग्लौं ऐं

अन्धे अन्धिनि नमः रुन्धे रुधिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि
नमः स्तम्भे स्तम्भिनि नमः ऐं ग्लौं ऐं सर्वदुष्ट प्रदुष्टानां
सर्वेषां सर्ववाक्यदं चित्तचक्षुमुखगति जिह्वा स्तम्भं कुरु कुरु
शिघ्रं वश्यं कुरु कुरु ऐं ग्लौं ऐं ठः ठः ठः ठः हुं फट्
स्वाहा वाराही पञ्चरत्नेश्वरी त्रिपुरसुन्दरी श्री० । इति पञ्चरत्नानि ।

इति पञ्चपञ्चिका पूजाविधिः ।

अथाम्नायदीक्षितश्चेत् क्रमो विलिख्य - श्रीचक्रपूजान्ते
प्रासादपरापरा प्रासाद ऋष्यादि करषडङ्गन्यासं विधाय
अमृतार्णवमध्योद्यदिति ध्यात्वा दशमुद्राः प्रदर्श्य पूर्ववत्
त्रिपुरसुन्दरीमेव परास्वरूपेण ध्यात्वा श्रीपात्रस्थद्रव्येण त्रिःसन्तर्प्य
प्रासादपरापरा प्रासादमूलेनाष्टाविंशतिवारं सन्तर्प्य तद्विन्दु परि
प्रथमनुत्तरामष्टदलं तद्बहिः षड्विंशद्दलं षोडशदलम्
अष्टत्त्रिंशदलं चतुर्दशदलमेकपञ्चाशदलं षट्सरोरुहात्मकं
महाचक्रं (प्. २१६) ध्यात्वा वृत्तिरूपेण पूजयेत् । तद्यथा -
ओं ऐं ह्रीं श्रीं ह्सौः स्हौंः अं प्रपञ्चरूपायै नमः [श्री]पादुकां
पूजयामि नमः,
६ आं द्वीपरूपायै मयायै नमः श्रीपादुकां पूजयामि नमः,
६ इं जलधिरूपायै कमलायै नमः श्रीपादुकां पूजयामि नमः,
६ ईं गिरिरूपायै पद्मधारिण्यै नमः श्रीपादुकां पूजयामि नमः,
६ उं पत्तनरूपायै पद्मधारिण्यै नमः [श्रीपादुकां पूजयामि नमः],
६ ऊं पीठरूपायै समुद्रतनयायै नमः [श्रीपादुकां पूजयामि
नमः],
६ ऋं क्षेत्ररूपायै लोकमात्रे नमः । प्रासादपरापरा प्रसादबीजं आदौ
योजनीयम् ।
६ ॠं वनरूपायै कमलवासिन्यै नमः श्रीपादुकां पूजयामि नमः,
६ ऌं आश्रमरूपायै इन्दिरायै नमः श्रीपादुकां पूजयामि नमः,
६ ॡं गुहारूपायै मायायै नमः श्रीपादुकां पूजयामि नमः,
६ एं नदीरूपायै रमायै नमः श्रीपादुकां पूजयामि नमः,
६ ऐं चत्वररूपायै पद्मायै नमः श्रीपादुकां पूजयामि नमः,
६ ओं उद्भिजरूपायै नारायणप्रियायै नमः श्रीपादुकां पूजयामि
नमः,
६ औं स्वेदजरूपायै राजलक्ष्म्यै नमः श्रीपादुकां पूजयामि नमः,
६ अं अण्डजरूपायै राजलक्ष्म्यै नमः श्रीपादुकां पूजयामि नमः,
६ अः जरायुजरूपायै महालक्ष्म्यै नमः श्रीपादुकां पूजयामि नमः,
६ कं कालरूपायै आर्यायै नमः श्रीपादुकां पूजयामि नमः,
६ खं त्रुटिरूपायै उमायै नमः श्रीपादुकां पूजयामि नमः,
६ गं कलारूपायै चन्द्रिकायै नमः श्रीपादुकां पूजयामि नमः,
६ घं काष्ठारूपायै दुर्गायै नमः श्रीपादुकां पूजयामि नमः,
६ ङं निमिषरूपायै शिवायै नमः श्रीपादुकां पूजयामि नमः,
६ चं श्वासरूपायै अपर्णायै नमः श्रीपादुकां पूजयामि नमः,
६ छं घटिकारूपायै अम्बिकायै नमः श्रीपादुकां पूजयामि नमः,
(प्. २१७) ६ जं मुहूर्तरूपायै सत्यै नमः श्रीपादुकां पूजयामि नमः,
६ झं प्रहररूपायै ईश्वर्यै नमः श्रीपादुकां पूजयामि नमः,
६ ञं दिवसरूपायै शाम्भव्यै नमः श्रीपादुकां पूजयामि नमः,
६ टं सन्ध्यारूपायै ईशान्यै नमः श्रीपादुकां पूजयामि नमः,
६ ठं रात्रिरूपायै पावत्यै नमः श्रीपादुकां पूजयामि नमः,
६ डं तिथिरूपायै सर्वमङ्गलायै नमः श्रीपादुकां पूजयामि नमः,
६ ढं वाररूपायै दाक्षायिण्यै नमः श्रीपादुकां पूजयामि नमः,
६ णं नक्षत्ररूपायै हैमवत्यै नमः श्रीपादुकां पूजयामि नमः,
६ तं योगरूपायै महामायायै नमः श्रीपादुकां पूजयामि नमः,
६ थं कर्णरूपायै माहेश्वर्यै नमः श्रीपादुकां पूजयामि नमः,
६ दं पक्षरूपायै मृडान्यै नमः श्रीपादुकां पूजयामि नमः,
६ धं मासरूपायै रुद्राण्यै नमः श्रीपादुकां पूजयामि नमः,
६ नं राशिरूपायै शर्वाण्यै नमः श्रीपादुकां पूजयामि नमः,
६ पं ऋतुरूपायै परमेश्वर्यै नमः श्रीपादुकां पूजयामि नमः,
६ फं अयनरूपायै काल्यै नमः श्रीपादुकां पूजयामि नमः,
६ बं संवत्सररूपायै कात्यायिन्यै नमः श्रीपादुकां पूजयामि नमः,
६ भं युगरूपायै गौर्यै नमः श्रीपादुकां पूजयामि नमः,
६ मं प्रलयरूपायै भवान्यै नमः श्रीपादुकां पूजयामि नमः,
६ यं पञ्चभूतरूपायै ब्राह्म्यै नमः श्रीपादुकां पूजयामि नमः,
६ रं पञ्चतन्मात्ररूपायै वागीश्वर्यै नमः श्रीपादुकां पूजयामि
नमः,
६ लं पञ्चकर्मेन्दियरूपायै वाण्यै नमः श्रीपादुकां पूजयामि
नमः,
६ वं पञ्चज्ञानेन्द्रियरूपायै सावित्र्यै नमः श्रीपादुकां पूजयामि
नमः,
६ शं पञ्चप्राणरूपायै सरस्वत्यै नमः श्रीपादुकां पूजयामि नमः,
६ षं गुणत्रयरूपायै गायत्र्यै नमः श्रीपादुकां पूजयामि नमः,
६ सं अन्तःकरणचतुष्टयरूपायै वाक्प्रदायै नमः श्रीपादुकां
पूजयामि नमः,
(प्. २१८) ६ हं अवस्थात्रयरूपायै भारत्यै नमः श्रीपादुकां पूजयामि
नमः,
६ लं सप्तधातुरूपायै भारत्यै नमः श्रीपादुकां पूजयामि नमः,
६ क्षं त्रिदोषरूपायै विद्यात्मिकायै नमः श्रीपादुकां पूजयामि नमः ।
६ स्फपञ्चाशद्दलमण्डितसकलदेवतात्मकपराम्बा श्रीपादुकां
पूजयामि नमः ।
६ योनिमुद्रां प्रदर्श्य गन्धाक्षतकुसुम

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

इति सम्पूज्य ६ सकलप्रपञ्चदेवतामयूखायै श्रीपराम्बादेव्यै नमः इति
योनिमुद्रया प्रदर्शयेत् । इति प्रथमावरणम् ।

चतुर्दशदलचक्राय नम इति पुष्पाञ्जलिं दद्यात् ।
६ अं आं इं
अतललोकनिलयशतकोटिगुह्याद्ययोगिनीमूलदेवतायुताधारशक्त्यम्बा देव्यै
नमः श्रीपादुकां पूजयामि नमः,
६ ईं उं ऊं वितललोकनिलय
शतकोटिगुह्यतरानन्तयोगिनीमूलदेवतायुताधारशक्त्यम्बा देव्यै नमः
श्रीपादुकां पूजयामि नमः,
६ ऋं ॠं ऌं
सुतललोकनिलयशतकोट्यातिगुह्याचिन्त्ययोगिनीमूलदेवतायुताधारशक्त्यम्बा
देव्यै नमः श्रीपादुकां पूजयामि नमः,
(प्. २१९) ६ ॡं एं ऐं महातललोकनिलयशतकोटिमहागुह्यस्वतन्त्रयोगिनी
मूलदेवतायुताधारशक्त्यम्बा देव्यै नमः श्रीपादुकां पूजयामि
नमः,
६ ओं औं तलातललोकनिलयशतकोटिपरमगुह्य
इच्छायोगिनीमूलदेवतायुताधारशक्त्यम्बादेव्यै नमः श्रीपादुकां
पूजयामि नमः,
६ अं अः रसातललोकनिलयशतकोटिरहस्यज्ञानयोगिनीमूलदेवतायुताधार-
शक्त्यम्बा देव्यै नमः श्रीपादुकां पूजयामि नमः,
६ कं खं गं घं ङं पाताललोकनिलयशतकोटिरहस्यतरक्रियायोगिनी-
मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः श्रीपादुकां पूजयामि
नमः,
६ चं छं जं झं ञं भूर्लोकनिलयशतकोटि-अतिरहस्यडाकिनी योगिनी
मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः श्रीपादुकां पूजयामि
नमः,
६ टं ठं डं ढं णं भुवर्लोकनिलयशतकोटिमहारहस्यराकिनी-
योगिनीमूलदेवतायुताधारशक्त्यम्बादेव्यै नमः श्रीपादुकां पूजयामि
नमः,
६ तं थं दं धं नं स्वर्लोकनिलयशतकोटिपरमरहस्यलाकिनी-
योगिनीमूलदेवतायुताधारशक्त्यम्बादेव्यै नमः श्रीपादुकां पूजयामि
नमः ।
६ पं फं बं भं मं महर्लोकनिलयशतकोटिगुप्तकाकिनीयोगिनी-
मूलदेवतायुताधारशक्त्यम्बादेव्यै नमः श्रीपादुकां पूजयामि
नमः,
६ यं रं लं वं जनोलोकनिलयशतकोटिगुप्ततरशाकिनीयोगिनीमूलदेवता-
युताधारशक्त्यम्बादेव्यै नमः श्रीपादुकां पूजयामि नमः,
६ शं षं सं हं तपोलोकनिलयशतकोटि-अतिगुप्तहाकिनीयोगिनीमूलदेवता-
युताधारशक्त्यम्बादेव्यै नमः श्रीपादुकां पूजयामि नमः,
(प्. २२०) ६ लं क्षं सत्यलोकनिलयशतकोटिमहागुप्तयाकिनीयोगिनीमूलदेवता-
युताधारशक्त्यम्बादेव्यै नमः श्रीपादुकां पूजयामि नमः,
६ अकारादिक्षकारान्त मातृकामुच्चार्य चतुर्दशभुवनाधिपायै
श्रीपराम्बादेव्यै नमः ६ चतुर्दशदलमण्डित चतुर्दशभुवनात्मक
श्रीपराम्बा श्रीपादुकां पूजयामि नमः ।
६ लिङ्गमुद्रा प्रदर्श्य गन्धाक्षतकुसुम

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

६ चतुर्दशभुवनमयूखायै पराम्बायै नमः इति योनिमुद्रया प्रणमेत् ।
इति द्वितीयावरणम् ।

६ अष्टत्रिंशदलचक्र श्रीपादुकां पूजयामि नमः,
६ अं केशव-अक्षर्याभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ आं नारायण आद्याभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ इं माधव इष्टदाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ ईं गोविन्द-ईशानीभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ उं विष्णु-उग्राभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ ऊं मधुसूदन ऊर्ध्वनयनाभ्यां नमः श्रीपादुकां पूजयामि
नमः,
(प्. २२१) ६ ऋं त्रिविक्रम ऋद्धिभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ ॠं वामनरूपिणीभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ ऌं श्रीधरलुप्ताभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ ॡं हृषीकेश ------- दोषाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ एं पद्मनाभ एकनायकाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ ऐं वामोदर ऐङ्कारिणीभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ ओं वासुदेव ओघवतीभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ औं सङ्कर्षण अर्कमालाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ अं प्रद्युम्न अञ्जनप्रभाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ अः अनिरुद्ध अस्थिमालाधराभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ कं भं भवकरभद्राभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ खं बं शर्वखगबलाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ गं फं रुद्रगरिमादिफलप्रदाभ्यां नमः श्रीपादुकां पूजयामि
नमः,
६ घं पं पशुपतिघण्टापद्मधराभ्यां नमः श्रीपादुकां
पूजयामि नमः,
६ ङं नं उग्रानन्दाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ चं धं महादेवचन्द्रधराभ्यां नमः श्रीपादुकां पूजयामि
नमः,
६ छं दं भीमछन्दोमयीभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ जं थं ईशानजगस्थानाभ्यां नमः,
६ झं तं तत्पुरुषबलभाराभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ ञं णं अघोरज्ञानदाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ टं ढं सद्योजातटङ्क* *?राभ्यां नमः श्रीपादुकां पूजयामि
नमः,
६ डं *? वामदेवटङ्कारकृति डामरीभ्यां नमः श्रीपादुकां
पूजयामि नमः,
६ यं ब्रह्मयक्षिणीभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ रं प्रजापतिरञ्जनीभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ लं वेघालक्ष्मीभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ वं परमेष्टिवज्रिणीभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ शं पितामहपाशिधराभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ षं विधातृषडाधारलयाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ सं विरिञ्चिसर्वनायिकाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ हं स्रष्टाहसिताननाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ लं चतुराननललिताभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ क्षं हिरण्यगर्भक्षमाभ्यां नमः श्रीपादुकां पूजयामि नमः,
६ अष्टत्रिंशदलमण्डितमूर्तिदेवतात्मक श्रीपराम्बा श्रीपादुकां
पूजयामि नमः ।
६ सुरभिमुद्रां प्रदर्श्य गन्धाक्षतकुसुम

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

इति समर्प्य ६ त्रिमूर्तिदेवतामयूखायै श्रीपराम्बादेव्यै नमः इति
योनिमुद्रया प्रणमेत् । इति तृतीयावरणम् ।

६ षोडशदलचक्र श्रीपादुकां पूजयामि नमः,
६ अं आं इं एकलक्षकोटिभेदप्रणवाद्येकाक्षरात्माखिल-
मन्त्राधिदेवतायै सकलफलप्रदायै एककूटेश्वर्यम्बादेव्यै नमः
श्रीपादुकां पूजयामि नमः,
६ ईं उं ऊं द्विलक्षकोटिभेदहंसादिद्व्यक्षरात्माखिलमन्त्राधि-
देवतायै सकलफलप्रदायै द्विकूटेश्वर्यम्बादेव्यै नमः श्रीपादुकां
पूजयामि नमः,
६ ऋं ॠं ऌं त्रिलक्षकोटिभेदब्रह्मादि सकलफलप्रदायै * * * * * * * **
(प्. २२२) ६ * * * * * * * * * * * * * * दि द्वादशाक्षरात्माखिलमन्त्राधिदेवतायै
सकलफलप्रदायै द्वादशकूटेश्वर्यम्बादेव्यै नमः श्रीपादुकां
पूजयामि नमः,
६ फं बं भं त्रयोदशलक्षकोटिभेदलक्ष्म्यादित्रयोदसाक्षरात्माखिल-
मन्त्राधिदेवतायि सकलफलप्रदायै त्रयोदशकूटेश्वर्यम्बादेव्यै नमः
श्रीपादुकां पूजयामि नमः,
६ मं यं रं चतुर्दशलक्षकोटिभेदगौर्यादि चतुर्दशाक्षरात्माखिल-
मन्त्राधिदेवतायै सकलफलप्रदायै चतुर्दशकूटेश्वर्यम्बादेव्यै नमः
श्रीपादुकां पूजयामि नमः,
६ लं वं शं पञ्चदशलक्षकोटिभेददुर्गादिपञ्चदशाक्षरात्माखिल-
मन्त्राधिदेवतायै सकलफलप्रदायै पञ्चदशकूटेश्वर्यम्बादेव्यै
नमः श्रीपादुकां पूजयामि नमः, ६ स्हौंः ह्सौंः? षं सं हं लं
क्षं षोडशलक्षकोटिभेदत्रैपुरादि षोडशाक्षरात्माखिलमन्त्राधि-
देवतायै सकलफलप्रदायै षोडशकूटेश्वर्यम्बादेव्यै नमः
श्रीपादुकां पूजयामि नमः,
६ षोडशदलमण्डित सर्वदेवतात्मक श्रीपराम्बा श्रीपादुकां पूजयामि
नमः ।
६ वनमालामुद्रां प्रदर्श्य गन्धाक्षतकुसुम

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥

इति समर्प्य ६ सर्वमन्त्रदेवतामयूखायै श्रीपराम्बादेव्यै नमः इति
योनिमुद्रया प्रणमेत् । इति चतुर्थावरणम् ।

(प्. २२३) ६ षड्विंशदलचक्र श्री०,
६ अं आं सहस्रकोटिऋषिकुलसेवितायै निवृत्याम्बादेव्यै नमःश्री०,
६ इं ईं सहस्रकोटियोगिकुलसेवितायै प्रतिष्ठाम्बादेव्यै नमः श्री०,
६ उं ऊं सहस्रकोटितपस्विकुलसेवितायै विद्याम्बादेव्यै नमः श्री०,
६ ऋं ॠं सहस्रकोटिशान्तकुलसेवितायै शान्त्यम्बादेव्यै नमः श्री०,
६ ऌं ॡं सहस्रकोटिमुनिकुलसेवितायै शान्त्यतितीताम्बादेव्यै नमः श्री०,
६ एं ऐं सहस्रकोटिदेवकुलसेवितायै हृल्लेखाम्बादेव्यै नमः श्री०,
६ ओं औं सहस्रकोटिराक्षसकुलसेवितायै गगनाम्बादेव्यै नमः श्री०,
६ अं अः सहस्रकोटिविद्याधरकुलसेवितायै रक्ताम्बादेव्यै नमः श्री०,
६ कं खं सहस्रकोटिसिद्धकुलसेवितायै महोछुष्माम्बादेव्यै नमः श्री०,
६ गं घं सहस्रकोटिसाध्यकुलसेवितायै करालिकाम्बादेव्यै नमः श्री०,
६ ङं चं सहस्रकोटि-अक्षरकुलसेवितायै जयाम्बादेव्यै नमः श्री०,
६ छं जं सहस्रकोटिगन्धर्वकुलसेवितायै विजयाम्बादेव्यै नमः श्री०,
६ झं ञं सहस्रकोटिगुह्यककुलसेवितायै अजिताम्बादेव्यै नमः श्री०,
६ टं ठं सहस्रकोटियक्षकुलसेवितायै अपराजिताम्बादेव्यै नमः श्री०,
६ डं ढं सहस्रकोटिकिन्नरकुलसेवितायै वामाब्मादेव्यै नमः श्री०,
६ णं तं सहस्रकोटिपन्नगकुलसेवितायै ज्येष्ष्ठाम्बादेव्यै नमः श्री०,
(प्. २२४) ६ थं दं सहस्रकोटिपितृकुलसेवितायै मायाम्बादेव्यै नमः श्री०,
६ धं नं सहस्रकोटिगणेशकुलसेवितायै मायाम्बादेव्यै नमः श्री०,
६ पं फं सहस्रकोटिभैरवकुलसेवितायै कुण्डलिन्यम्बादेव्यै नमः श्री०,
६ बं भं सहस्रकोटिबटुककुलसेवितायै काल्यम्बादेव्यै नमः श्री०,
६ मं यं सहस्रकोटिक्षेत्रपालकुलसेवितायै कालरात्र्यम्बादेव्यै नमः
श्री०,
६ रं लं सहस्रकोटिप्रमथकुलसेवितायै भगवत्यम्बादेव्यै नमः श्री०,
६ वं शं सहस्रकोटिब्रह्मकुलसेवितायै सर्वेश्वर्यम्बादेव्यै नमः श्री०,
६ षं सं सहस्रकोटिविष्णुकुलसेवितायै सर्वज्ञाम्बादेव्यै नमः श्री०,
६ हं लं सहस्रकोटिरुद्रकुलसेवितायै सर्वकर्त्र्यम्बादेव्यै नमः श्री०,
६ क्षं चराचरकुलसेवितायै फुलशक्त्यम्बादेव्यै नमः श्री०,
६ षड्विंशदलमण्डितसर्वदेवतात्मक श्रीपराम्बा श्री० ।
६ महामुद्रां प्रदर्श्य गन्धाक्षतकुसुम

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

इति समर्प्य ६ सर्वदेवतामयूखायै श्रीपराम्बादेवतायै नमः इति
योनिमुद्रया प्रणमेत् । इति पञ्चमावरणम् ॥

(प्. २२५) ६ अष्टदलचक्र श्री०,
६ कं खं गं घं ङं अनन्तकोटिभूचरीकुलसेवितायै आं क्षां
मङ्गलाम्बादेव्यै आं क्षां ब्राह्माण्यम्बादेव्य
अनन्तकोटिभूतकुलसेवितायै अं क्षं मङ्गलनाथाय अं क्षं
असिताङ्गभैरवनाथाय नमः श्री०,
६ चं छं जं झं ञं अनन्तकोटिखेचरीकुलसेवितायै ईं लां
चर्चिकाम्बादेव्यै ईं लां माहेश्वर्यम्बादेव्यै
अनन्तकोटिवेतालकुलसेविताय इं लं चर्चिकानाथाय इं लं
रुरुभैरवनाथाय श्री०,
६ टं ठं डं ढं णं अनन्तकोटिपातालचरीकुलसेवितायै ऊं हां
योगेश्वर्यम्बादेव्यै ऊं हां कौमार्यम्बादेव्यै
अनन्तकोटिपिशाचकुलसेविताय उं हं योगीश्वरनाथाय उं हं
चण्डभैरवनाथाय नमः श्री०,
६ तं थं दं धं नं अनन्तकोटिदिक्चरीकुलसेवितायै ॠं सां
हरसिध्यम्बादेव्यै ॠं सां वैष्णव्यम्बादेव्यै अनन्तकोटि-
अपस्मारकुलसेविताय ऋं सं हरसिद्धनाथाय ऋं सं
क्रोधभैरवनाथाय नमः श्री०,
६ पं फं बं भं मं अनन्तकोटिसहचरी कुलसेवितायै ॡं षां
भव्यम्बादेव्यै ॡं षां वाराह्यम्बादेव्यै
अनन्तकोटिब्रह्मराक्षसकुलसेविताय ऌं षं भट्टनाथाय ऌं षं
उन्मत्तभैरवनाथाय नमः श्री०,
६ यं रं लं वं अनन्तकोटिगिरिवारी कुलसेवितायै ऐं शां किलि
किलाम्बादेव्यै ऐं शां इन्द्राण्यम्बादेव्यै अनन्तकोटिचेटककुलसेविताय एं
शं किलकिलनाथाय एं शं कपालीभैरवनाथाय नमः श्री०,
६ शं षं सं हं अनन्तकोटिवनचरीकुलसेवितायै औं वां
कालरात्र्यम्बादेव्यै औं वां चामुण्डादेव्यै अनन्तकोटिप्रेतकुलसेविताय
ओं वं कालिरात्रिनाथाय ओं वं भीषणभैरवनाथाय नमः श्री०,
६ ह्सौंः स्हौंः? लं क्षं अनन्तकोटिजलचरीकुलसेवितायै अः लां
भीषणाम्बादेव्यै अः लां महालक्ष्म्यम्बादेव्यै
अनन्तकोटिकुष्माण्डकुलसेविताय अं लं भीषणनाथाय अं लं
संहारभैरवनाथाय नमः श्री० ।
६ तर्पयामि नमः । अष्टदलमण्डितमातृभैरवात्मक श्रीपराम्बा श्री० ।
६ नभोमुद्रां प्रदर्श्य गन्धाक्षतकुसुम

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं षष्टमावरणार्चनम् ॥

इति समर्प्य ६ मातृभैरवदेवतामयूखायै श्रीपराम्बादेव्यै नमः इति
योनिमुद्रया प्रणमेत् । इति षष्ठमावरणम् ।

(प्. २२७) चक्रदेवतागुर्वात्मनमभिन्नं विभाव्यम् । सहस्रदलं पङ्कजेति
ध्यात्वा पादुकामन्त्रेण स्वगुरुं सम्पूज्य सन्तर्प्य
ऊर्ध्वाम्नायगुरुक्रमं शिरसि सम्पूजयेत् । तद्यथा -

मूर्ध्नि श्रीगुरुपङ्क्तिं च मूलाधारे स्वपादुकां स्मर्तव्याः ।
पादुकाः पूर्वं चरणं तदनन्तरम्

प चाम्बा नवनाथाश्च मूलविद्याश्च षोडश ।
आधारषट्कं देवेशि पुनरङ्घ्रिद्वयं क्रमः ॥

कराभ्यां चिन्मुद्रां समधुनृकपालं च दधतीं
धृतस्वर्ण प्रख्यामरुणकुसुमालेपवसनाम् ।
कृपापूर्णापाङ्गीमरुणनयनां वर्षरकचामुपेतां(?)
दिव्यौघैर्यजत गुरुपंक्ति कृतमतिः ॥

६ आदिनाथपरमशिवानन्दनाथ श्री० ६ अदिनाथपरमशिवानन्दनाथाम्बा
श्री०,
६ सदाशिव परमशिवानन्दनाथ श्री० ६ सदाशिवानन्दनाथाम्बा श्री०,
६ ईश्वरपरमशिवानन्दनाथ श्री० ६ ईश्वरपरमशिवानन्दनाथाम्बा
श्री०,
(प्. २२८) ६ रुद्रपरमशिवानन्दनाथ श्री० रुद्रपरमशिवानन्दनाथाम्बा
श्री०,
६ विष्णुपरमशिवानन्दनाथ श्री० विष्णुपरमशिवानन्दनाथाम्बा श्री०,
६ ब्रह्मपरमशिवानन्दनाथ श्री० ब्रह्मपरमशिवानन्दनाथाम्बा श्री० ।
इति दिव्यौघः ।

६ कराभ्यां चिन्मुद्रां समधुनृकपालं च दधतीं
धृतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम् ।
कृपापूर्णा पाङ्गीमरुणनयनां बर्बरक चा-
मुपेतां सिद्धौघैर्यजत गुरुपङ्क्तिं कृत मतिः ॥

६ सनकमहाशिवानन्दनाथ श्री०,
६ सनन्दनमहाशिवानन्दनाथ श्री०,
६ सनातनमहाशिवानन्दनाथ श्री०,
६ सनत्कुमारमहाशिवानन्दनाथ श्री०,
६ सनत्सुजातमहाशिवानन्दनाथ श्री०,
६ ऋभुक्षकमहाशिवानन्दनाथ श्री०,
६ दत्तात्रेयमहाशिवानन्दनाथ श्री०,
६ त्रैवर्तकमहाशिवानन्दनाथ श्री०,
६ वामदेवमहाशिवानन्दनाथ श्री०,
६ व्यासमहाशिवानन्दनाथ श्री०,
६ शुकमहाशिवानन्दनाथ श्री०,
६ इति सिद्धौघः

(प्. २२९) ६ कराभ्यां चिन्मुद्रां समधुनृकपालं च दधतीं
धृतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम् ।
कृपापूर्णापाङ्गीमरुणनयनां बर्बरकचा-
मुपेतां मन्वौघैर्यजत गुरुपङ्क्तिं कृत मतिः ॥

६ नृसिंहसदाशिवानन्दनाथ श्री०,
६ महेशसदाशिवानन्दनाथ श्री०,
६ भास्करसदाशिवानन्दनाथ श्री०,
६ महेन्द्रसदाशिवानन्दनाथ श्री०,
६ माधवसदाशिवानन्दनाथ श्री०,
६ विष्णुसदाशिवानन्दनाथ शी०,
६ । इति मानवौघः ।

६ हंस स्वरूपनिर्गुणहेतवे इत्यादि महान्तं पारम्पर्य गुरु सम्पूज्य
सन्तर्प्य गुरुकृत्स्वपादुकां मूलाधारे सम्पूज्य शिरसि देवीं त्रिःसन्तर्प्य
६ आत्मानन्दनाथ श्री०,
६ परमानन्दनाथ श्री०, ६ शाम्भवानन्दनाथ श्री०,
६ वाग्भवानन्दनाथ श्री०, ६ नीलकण्ठानन्दनाथ श्री०,


नन्दनाथश्री०, (प्. २३०) ६ चिदानन्दनाथ श्री०,

६ चिन्मुद्रानन्दनाथ श्री०, ६ सिद्धप्रसन्नानन्दनाथ श्री०,
६ विश्वात्मिकानन्दनाथ श्री०, ६ अप्रकाशानन्दनाथ श्री० ६ ।

मूलेन देवीं त्रिःसन्तर्प्य ६ हंसः ह्सौंः सोहं ह स क ल ह स क ह ल स
क ल ह्रीं सच्चिदानन्दज्योतिरहमेव सोहं ह्सौंः हंसः श्री०,
६ हंसः ह्सौंः सोहं ह स क ल ह स क ह ल स क ल ह्रीं
सच्चिदानन्दज्योतिरहमेव सोहं ह्सौंः हंस श्री० । मूलेन देवीं
त्रिःसन्तर्प्य सच्चिदानन्दस्वरूपं स्वात्मानं विभाव्य क्षणं विश्रम्य ६
योहमस्मि ब्रह्माहमस्मि प्रकाशचरण श्री०,
६ अहमस्मि ब्रह्माहमस्मि विमर्शचरण श्री०, सोहं प्रकाशविमर्शचरण
श्री०,
६ योहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि, सोहं
स्वच्छप्रकाशपरिपूर्णानन्द निर्वाणचरण श्री० । ६ मूलेन देवीं
त्रिःसन्तर्प्य ६ आदिनाथ व्योमातीताम्बा श्री०, ६ कुलेश्वरानन्दनाथ
व्योमव्यापिन्यम्बा श्री०, ६ अनामयानन्दनाथ व्योमगाम्बा श्री०, ६
अनन्तानन्दनाथ व्योमचारिण्यम्बा श्री०, ६ चिदाभासानन्दनाथ
व्योमस्थाम्बा श्री०, ६ इति पञ्चाम्बा ।

(प्. २३१) मूलेन देवीं त्रिःसन्तर्प्य ६ हं उन्मनाकाशानन्दनाथ श्री०,
६ क्षं व्यापकाकाशानन्दनाथ श्री०,
६ मं शक्त्याकाशानन्दनाथ श्री०,
६ वं ध्वनिमात्राकाशानन्दनाथ श्री०,
६ रं इन्द्वाकाशानन्दनाथ श्री०,
६ यं बिन्द्वाकाशानन्दनाथ श्री०,
६ ऊं न्यूताकाशानन्दनाथ श्री०,
६ ह स क्ष म ल व र य ऊं समस्ताकाशानन्दनाथ श्री०, इति नवनाथाः ।

मूलेन देवीं त्रिःसन्तर्प्य ६ स्वच्छप्रकाशपरिपूर्ण
परापरसिद्धविद्याकुलयोगिनी ह्रीं मूलविद्याम्बा श्री०,
६ ह्सौंः स्वात्मानं बोधय बोधय स्हौंः प्रासादपरामूलविद्याम्बा
श्री०,
६ ऐं क्लिन्ने क्लेदिनि महामदद्रवे क्लीं क्लेदय क्लेदय क्लीं क्लीं मोहय
मोहय ------- क्लीं नमः स्वाहा अतिरहस्य योगिनी मूलविद्याम्बा श्री०,
६ हंसः स्वच्छन्दानन्दपरमहंस परमात्मने स्वाहा ह्सौं क्लौं
शाम्भवीमूलविद्याम्बा श्री०,
६ ह्रीं नित्यस्फुरच्चैतन्यानन्दमयमहाबिन्दुव्यापकमातृकास्वरूपिणी
ऐं ह्रीं श्रीं ह्रीं हृल्लेखामूलविद्याम्बा श्री०,
६ स्वच्छप्रकाशात्मककुलमालिनि ऐं कुलमहामातृके ह्रीं ऐं समय
विमलामूलविद्याम्बा श्री०,
(प्. २३२) ६ हंसः नित्यप्रकाशात्मिके कुण्डलिनि आज्ञासिद्धभैरवि आत्मानं
बोधय बोधय आं भगवति ह्रीं ह्रूं पराबोधिनीमूलविद्याम्बा श्री०,
६ ऊं मोक्षं कुरु कुरु पञ्चाक्षरीमूलविद्याम्बा श्री०,
६ ह स क ल ह्रीं स क ह ल ह्रीं सकलह्रीं चैतन्य त्रिपुरामूलविद्याम्बा
श्री०,
६ शुद्धसूक्ष्म्निराकारनिर्विकल्पपरब्रह्मरूपिणी क्लीं परमानन्दशक्ति
सौः शाम्भवानन्दनाथानुत्तरकौलिनीमूलविद्याम्बा श्री०,
६ हंसः सोहं स्वच्छानन्दपरमहंसपरमात्मने स्वाहा
गुरुतमविमर्शनी मूलविद्याम्बा श्री०,
६ अनामाख्यव्योमातीत नाथपरमव्योमातीत व्योमेश्वर्यम्बा श्री०,
६ ऐं इं ईं ऊं सङ्केतसारमूलविद्याम्बा श्री०,
६ ह्रीं भगवती विच्चे वाग्वादिनि क्लीं महाहृदयमायामातङ्गिनि ऐं
क्लिन्ने ब्लूं स्त्रीं अनुतरवाग्वादिनी मूलविद्याम्बा श्री०, ६ स्हौंः ह्सौंः
ह्स्ख्फ्रें ह्स्क्लीं ह्सौंः अनुतरशाङ्करी --------------------------,
६ ह्सौंः स्हौंः ह स क ल ह स क ह ल स क ल ह्रीं स्रवानन्दमये बैन्दवे
चक्रे परब्रह्मस्वरूपिणी परामृतशक्ति सर्वमन्त्रेश्वरि सर्वयन्त्रेश्वरी
सर्वचक्रेश्वरी सर्वपीठेश्वरी सर्वविद्येश्वरी सर्ववागीश्वरी
सर्वयोगीश्वरी सर्वसिद्धेश्वरी सकलजगदुत्पत्तिस्थितिसंहारमातृकाः (प्. २३३)
सचक्राः सदेवताः समुद्राः ससिद्धयः सायुधाः सवाहनाः
सपरिवाराः सचक्रेश्वरिकाः सर्वोपचारैः पूजितास्तर्पिताः सन्तु नमः
श्रीमहात्रिपुरसुन्दरी मूलविद्याम्बा श्री०, इति षोडशमूलविद्याः मूलेन
देवीः सम्पूज्य सन्तर्प्य मूलाधारे - ६ हंसः स्वात्मानन्दविभूत्यै
स्वाहा मूलाधारविद्याम्बा श्री०, स्वाधिष्ठाने - ६ सोहं
परमहंसविभूत्यै स्वाहा स्वाधिष्ठानविद्याम्बा श्री०, मणिपूरे - ६
हंसः सोहं स्वच्छानन्दपरमहंस परमात्मने स्वाहा
मणिपूरकविद्याम्बा श्री०, ६ अनाहते - ६ हं सः स्वात्मानं बोधय
बोधय अनाहतात्मविद्याम्बा श्री०, ६ विशुद्धौ - ६ हंस
स्वरूपविमर्शनहेतवे विशुद्धविद्याम्बा श्री०, ६ आज्ञायाम् - ६ हं सः
सोहं स्वाहा स्वच्छानन्दचित्प्रकाशामृतहेतवे स्वाहा आज्ञाविद्याम्बा
श्री० ६ इति षडाधारामूलेन देवीं त्रिःसन्तर्प्य ६ योहमस्मि ब्रह्माहमस्मि
प्रकाशचरण श्री० ६ अहमस्मि ब्रह्माहमस्मि विमर्शचरण श्री०, ६ सोहं
प्रकाशविमर्शचरण श्री०, ६ योहमस्मि ब्रह्माहमस्मि अहमस्मि
ब्रह्माहमस्मि स्वच्छप्रकाशपरिपूर्णनिर्वाणचरण श्री० । मूलेन देवीं
त्रिःसन्तर्प्य सर्वकर्मसमाराध्य उन्मनीमवल -----------------------
(प्. २३४) निरालम्बपदं शून्यं सोहमस्मीति चिन्तयेत् । इति स्वात्मानं
विश्वातीतं स्वप्रकाशात्मकं शिवरूपं ध्यायन् मूलेन देवीं
यथाशक्तिं सन्तर्प्य पूर्ववत्पाद्यादिधूपदीपनैवेद्यान्तं पूजयित्वा
चक्रस्येशानभागे पूर्ववन्मण्डलं विलिख्य ४ व्यापकमण्डलाय नमः
इति सम्पूज्य तस्मिन् पूर्वदक्षिणपश्चिमोत्तरमध्ये च उक्तपञ्चकमण्डलानि
संस्थाप्य भाव्य सव्यञ्जनकवलं जलमिश्रितं साधारं
पात्रपञ्चकं संस्थाप्य वह्निसूर्यसोममण्डलानि आधारपात्रद्रव्येषु
सम्पूज्य पश्चिमे - ४ बां बटुकनाथाय नमः इति सम्पूज्य
कपालयोनिमुद्रे प्रदर्श्य ४ देवीपुत्रबटुकनाथ-कपिलजटाभारभासुर-
पिङ्गलत्रिनेत्र इमां पूजां बलिं गृह्ण गृह्ण स्वाहा । बलिपात्रामृतेन
वामाङ्गुष्ठानामिकाभ्यां धारारूपेण सन्तर्प्य पुष्पाञ्जलिमादाय

बलिदानेन सन्तुष्टो बटुकः सर्वसिद्धिदः ।
शान्तिं करोतु मे नित्यं भूतवेताल सेवितः ॥

इति पुष्पाञ्जलिमुत्क्षिप्य योनिमुद्रया प्रणमेत् इति बटुकबलिः ।

(प्. २३५) उत्तरे - ४ यां योगिनीभ्यो नमः इति सम्पूज्य ४ यां योगिनीभ्यः
सर्वभूतेभ्यः सर्वभूताधिपतिवन्दिनीभ्यः शाकिनीभ्यः
त्रैलोक्यवासिनीभ्यः इमां पूजां बलिं गृह्ण गृह्णन्तु स्वाहा ।
वामाङ्गुष्ठतर्जनीमध्यमानामिकाभिर्बलिपात्रामृतधारया सन्तर्प्य
पुष्.पाञ्जलिमादाय ओं ऐं ह्रीं श्रीं

याः काश्चिद्योगिनी रौद्राः सौम्या घोरतराः पराः ।
खेचरी भूचरी व्योमचरी प्रीतास्तु मे सदा ॥

इति पुष्पाञ्जलिमुत्क्षिप्य योनिमुद्रया प्रणमेत् इति योगिनीबलिः ।

पूर्वे - सां सर्वभूतेभ्यो नमः इति सम्पूज्य ४ सां सर्वभूतेभ्यो नमः
सर्वभूतपतिभ्यः स्वाहा । इमां पूजां बलिं गृह्ण गृह्णन्तु स्वाहा ।
वामकरसर्वाङ्गुलिभिर्बलिपात्रामृतधारया सन्तर्प्य पुष्पाञ्जलिमादाय

भूता ये विविधाकारा दिव्या भौमान्तरिक्षगाः ।
पातालतलसंस्थाश्च शिवयोगेन भाविता ॥

ध्रुवाद्याः सत्यसन्धाश्च इन्द्राद्याशाव्यवस्थिताः ।
तृप्यन्तु प्रीतमनसो भूता गृह्णन्त्विमं बलिम् ॥

(प्. २३६) इति पुष्पाञ्जलिमुत्क्षिप्य योनिमुद्रया प्रणमेत् इति भूतबलिः ।

दक्षिणे - ४ क्षां क्षेत्रपालाय नमः इति सम्पूज्य ४ क्षां क्षीं
क्षूं क्षैं क्षौं क्षः एह्येहि देवी पूत्रबटुकनाथ उच्छिष्टहारिणे
मुहुर्मुहुः क्षपणकक्षेत्रपालसर्वविघ्नान् नाशय नाशय
सर्वोपचारसहितामिमां पूजां बलिं गृह्ण गृह्ण स्वाहा
वामाङ्गुष्ठतर्जनीभ्यां बलिपात्रामृतधारया सन्तर्प्य
पुष्पाञ्जलिमादाय

योऽस्मिन् क्षेत्रे निवासी च क्षेत्रपालकिङ्करः ।
प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे ॥

इति पुष्पाञ्जलिमुत्क्षिप्य योनिमुद्रया प्रणमेत् इति क्षेत्रपालबलिः ।

मध्ये - ४ राजराजेश्वराय नमः इति सम्पूज्य ४ ऐं ह्सौंः ह्रां
ह्रीं ह्रूं युगान्तभैरवांधिष्ठिताय
अक्षोभ्यानन्दहृदयाभीष्टसिध्यर्थमवतरावतरक्षेत्रपालमहाशास्त-
बटुकनाथदेवीपुत्र कुलपुत्रमातृपुत्रसिद्धपुत्रास्मिन्
स्थानाधिपतेऽस्मिन्देशाधिपतेऽस्मिन् ग्रामाधिपते इमां पूजां बलिं
गृह्ण गृह्ण कुरु मुरु मुरु चूर्णय चूर्णय ज्वल ज्वल प्रज्वल प्रज्वल
सर्वविघ्नान् नाशय नाशय ह्रां ह्रीं ह्रूं क्षेत्रपालाय वौषट्
अमुकक्षेत्रपालराजराजेश्वर इमां पूजां बलिं गृह्ण गृह्ण स्वाहा ।
(प्. २३७) वामाङ्गुष्ठमध्यमाभ्यां बलिपात्रामृतधारया सन्तर्प्य
पुष्पाञ्जलिमादाय ओं ऐं ह्रीं श्रीं

अनेन बलिदानेन बटुकुलसमन्वितः ।
राजराजेश्वरो देवो मे प्रसीदतु सर्वदा ॥

इति पुष्पाञ्जलिमुत्क्षिप्य योनिमुद्रया प्रणमेत् इति राजराजेश्वरबलिः ।

मूलेन देवीं त्रिःसन्तर्प्य पूर्ववत् पानीय नैवेद्यविसर्जनं कृत्वा
मूलेन ताम्बुलं निवेद्य

अथ विशेषारार्तिकविधिः -

स्वर्णादिनिर्मिते पात्रे मध्ये चक्रं लिखेद् बुधः ।
तण्डुलोपचितान् कृत्वा नवधा कारयेत् ततः ॥

नवगोलांश्चक्ररूपान् विरच्य तदनन्तरम् ।
शर्करागर्भरचितान् मण्डकान् युग्मरूपकान् ॥

(प्. २३८) विषिष्ट घटिकाः कार्या * * * * * * * तु * * * । (?)
सप्त सप्त प्रकारेण घटिका नव योजयेत् ॥

अष्टकोणेषु संस्थाप्य गोलकानुपरि क्षिपेत् ।
चक्रमुद्रां प्रकीर्याथ दीपकान् घृतपाचितान् ॥

स्वस्तिकाकृति मुष्टिंश्च स्थापयेत् तत्र तत्र तुः ।

ओं ह्रीं भुवनश्वर्या दीपान् प्रज्वाल्य पश्चात्तु नवरत्नैः प्रपूजयेत् । ह्रीं
श्रीं ह्रीं ग्लूं स्लुं म्लूं प्लूं न्लूं ह्रीं श्रीं पञ्चरत्नविद्यां
चतुर्दिक्षु मध्ये च सम्पूजयेत् ।
पूर्वे पूजयेत् - ह्स्रीं स्ह्रीं श्रीं ऊर्मिण्यै नमः ।
दक्षिणे - ऐं क्लिन्ने क्लीं मदद्रवे कुले ह्स्रौं? भोगिन्यै नमः ।
पश्चिमे कुब्जिकां पूजयेत् - ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं भगवत्यम्ब
ह्स्फ्रें ह्स्ख्फ्रें कुब्जिके -------------- ह्स्रूं स्र्हूं अघोरे घोरे अघोरमुखि
छ्रां छ्रीं किणि किणि --------- ह्र्सौं ह्स्फ्रें श्रीं ह्रीं ऐं कुब्जिकायै
नमः ।
उत्तरे कालिकां पूजयेत् - ख्फ्रें महाचण्डयोगेश्वरी कालिकायै नमः इति
पूजयेत् ।

पञ्चसिंहासनविद्यास्तत्र प्रपूजयेत् । तस्य पुरतो देव्या गणस्तवं
पठेत् -

आमस्तकं समुधृत्य नववारं पुनः ।
स्थापयेत् पश्चाद् दीपमालामयं महः ॥

मूलमन्त्रान्ते,

समस्तचक्रचक्रेशीयुते देवि नवात्मिके ।
आरार्त्रिकमिदं देवि गृहाण मम सिद्धये ॥

इति मन्त्रः ।

नेत्रयोः सुस्थिरं ध्यायेद् आरार्त्रिकविधिं प्रिये । इति
सर्वकामप्रदविशेषारार्त्रिकविधिः । पुष्पाञ्जलिमादाय

भवाजहरिभिर्न ते विविधभूषणोद्भासिनि
प्रसीद परदेवते विमलमङ्गले सुन्दरी ।
सुररत्नमणिपादुकानिकटवर्त्तिदिव्यस्व-
भूर्विरिञ्चिविहितस्तवे रचित एष पुष्पाञ्जलिः ॥

इति देव्याः पादे पुष्पाञ्जलिं दत्वा
अथान्दोलनछत्रचामररथगजतुरगनारदादि ऋषिगणैर्देवदानवगन्धर्व-
किन्नर किम्पुरुष यक्षसिद्ध-साध्यविधाधराप्सरो
गणैर्नृत्यगीतवाद्यनटमहोत्सवैः श्रीमहात्रिपुरसुन्दरी साधकानां
त्वमवधारयेति देव्यै राजोपचारान्निवेद्य योगिनीपूजां कुर्यात् ।

स्ववामभागे षट्कोणमण्डलं विलिख्य गन्धाक्षतकुसुमैर्-
अलङ्कृत्य संक्षेपतो योगपीठपूजां विधाय तस्मिन् पूर्ववद्
देवीमावाह्यावाहनादि सर्वोपचारैः सम्पूज्य मूलेन योगिनीं
पञ्चवारं सन्तर्प्य ध्यायेत् -

केशे पिच्छमयी मुखे शशिमयी दन्तेषु मुक्तामयी
सल्लापेषु सुधामयी भुजयुगे मन्दारमालामयी ।
कण्ठे शङ्खमयी कुचे गिरिमयी या ते मरालीमयी
मध्ये व्योममयी धिपसुते चित्ते मदीये वस ॥

अलिपात्रमिदं तुभ्यं दीयते पिशितान्वितम् ।
स्वीकृत्ये शुभगे देवि जयं देहि रिपुं दह ॥

इति योगिन्यै शक्तिपात्रं दद्यात् ।
(प्. २४०) स्वतन्त्र्य नत्वा गिरिजां प्रसूनै -------- मश्यर्व? निदर्श्य मुद्राः ।
हेतुं समादाय गुरुं भवानीं ------------------------------ जुहुयात् समन्त्रम् ॥

पुनः कलशस्थद्रव्येण तत्त्वचतुष्टयं दद्यात् -

परेशि भक्तिसुलभे परामृत रसप्रिये ।
कटाक्षभरितं पात्रं शेषं देहि दयां कुरु ॥

इति प्रार्थ्य

वत्स तुभ्यं मया दत्तं पीतशेषं कुलामृतम् ।
त्वच्छत्रून् संहरिष्यामि सर्वाभीष्टं ददामि ते ॥

इति योगिनीहस्तात्कटाक्षपात्रं गृहीत्वा स्वीकृत्य नैवेद्यशेषभक्ष्यं
ताम्बूलं च तस्यै दत्वा

भूमौ स्खलितपादानां भूमिरेवावलम्बनम् ।
त्वयि जाता पराधानां त्वमेव शरणं मम ॥

इति प्रार्थ्य पञ्चमुद्राः प्रदर्श्य देवीं शिरस्थपीठे समागतां मत्वा
पादपुष्पं (प्. २४१) शिरसि धृत्वा तां विसृजेत् । ततः स्वगुरुं
पादुकामन्त्रेण त्रिःसन्तर्प्य तदीयं तस्मै निवेदयेत् । आत्मपात्रेणात्मानं
त्रिःसन्तर्प्य-अत्मानि योजयेत् । इति योगिनीपूजाः ।

इति श्रीमच्चिदानन्दनाथविरचितायां स्वच्छन्दपद्धत्यां सप्तमस्पन्दः ॥



अथ सामयिकान् सम्पूज्य यथा शास्त्रं यथागुरुपदेशं सम्भाव्य
सन्तर्पयेद्यथा - नमो ज्ञानादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो
वंशऋषिभ्यो नमो गुरुभ्यः ।

श्रीनाथादिगुरुत्रयं
सहस्रदलपङ्कजे
ब्रह्मानन्दं परम ।
जगदं गुरु कन्दाय
कदा योगी कदा भोगी
वाराणसीपुर
दयालि
श्रीमद्विमलानन्दं
नमामि विमलानन्दं
अमृतानन्दयो
विचार्य स्वमताभिज्ञं
(प्. २४७) शिवे मङ्गलशीले मे
चिदानन्दपदा
त्वमेव गुरु
चिदंशादहं
चिदम्भोधि
चिदानन्दं
(प्. २४८) यस्य प्रसादादह
अलं विकल्पैरहं
बन्दे गुरुचरणं
खं वायुमग्नि
हरिरेव
कुलधर्मं
दृश्यवर्जित
(प्. २४९) समस्तप्रकटगुप्तगुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्य
परमरहस्यातिरहस्ययोगिनी श्रीचक्रगतसमस्तदेवताश्री०,
४ श्रीगुरु श्री०, ४ परमगुरु श्री०,
४ परमेष्ठिगुरु श्री०, ४ परात्परगुरु श्री०,
४ शुद्धविद्याम्बा श्री०, ४ बालात्रिपुरसुन्दरी श्री०,
४ श्रीमहात्रिपुरसुन्दरी श्री०, ४ राजमातङ्गी श्री०,
४ तिरष्करिण्यम्बा श्री०, ४ लोपामुद्राम्बा श्री०,
४ सौभाग्यविद्याम्बा श्री०, ४ तुर्याम्बा श्री०,
४ तुर्याम्बाश्री०, ४ राजराजेश्वर्यम्बा श्री०,
४ पराश्रिर्यम्बा श्री०, ४ पराप्रासादाम्बा श्री०,
४ प्रासाद पराम्बा श्री०, ४ पराभट्टारिकाम्बा श्री०,
४ शूलिनीदुर्गाम्बा श्री०, ४ पराशाम्भव्यम्बा श्री०,
४ लघुशामलाम्बा श्री०, ४ अनुत्तरपराम्बा श्री०,
४ वासुदेवानन्द श्री०, ४ परमहंसानन्द श्री०,
४ दत्तात्रये श्री०, ४ गोपालकृष्ण श्री०,
चिदानन्देश्वर श्री०, ४ महाबलेश्वर श्री०,
४ महाकाली श्री०, ४ श्रीचक्रगतसमस्तदेवता श्री०,
४ सर्वेभ्यो देवेभ्यो श्री०, ४ सर्वेभ्यो ब्राह्मणेभ्यो श्री०,
४ सकलदेवतास्वरूपिणी पराम्बा श्री०,
(प्. २५०) नमो ब्रह्मादिभ्यो श्री० इत्यौघत्रयं सम्पूज्य

गन्धपुष्पाक्षतैर्गुरुवन्दनं कृत्वा र्गुर्वनुज्ञयया
स्वगुरुपदिष्टमन्त्रान् जपन्नुपविशेयुः अथ अचार्यः

मूलेन देवीं त्रिःसन्तर्प्य पूर्ववत् प्राणायामं ऋष्यादि
करषडङ्गन्यासं विधाय देवीरूपमात्मानं ध्यात्वा यथाशक्तिं
जपित्वार्पयेत् । गुरुस्तोत्रं देवीस्तोत्रं पथित्वा ।

सर्वशक्तिक्रमोद्भूत प्रभुं मोहमहात्मिकाम् ।
देवतां देवतां काचित् संवित्सुखमयां श्रये ॥

इति योनिमुद्रया

यानि कानि च पापानि ।
प्रदक्षिण पदे पदे ॥
जानुभ्यां च तथा पद्भ्यामुरसा शिरशा दृशा ।
कराभ्यां मनसा वाचा प्रणामोऽष्ताङ्ग ईरितः ॥

(प्. २५१) जानुभ्यां च सपाणिभ्यामुरसा शिरसा गिरा ।
पञ्चाङ्गतः प्रणाम स्यात् पूजासौ प्रवरो विधौ ॥

इति प्रणम्य

स्तम्भनं चतुरस्रं च मत्स्यगोखुरमेव च ।
योनिमुद्रेति पञ्चैताः पूजान्ते संप्रदर्शयेत् ॥

अपराधो भवत्येव साधकस्य पदे पदे ।
कः परः सहते लोके केवलं स्वामिनीं विना ॥

इति बहुधा प्रणतिपूर्वकं क्षमाप्य सामान्यार्घ्योदकं
पात्रान्तरेणादाय ४ इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो
जाग्रत्स्वप्नसुषुप्तिषु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण
शिस्न्या(श्ना) यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं श्रीगुरुदेवतार्पणमस्तु
स्वाहा ।

ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे ।
तव कृत्यमिदं सर्वमिति मत्वा क्षमस्व मे ॥

(प्. २५२) साधु वा साधु वा कर्म यद्यदाचरितं मया ।
तत्सर्वं कृपया देवी गृहाणाराधनं मया ॥

इति शङ्खं देव्युपरिभ्राम्य ईशा ------- किञ्चित् क्षिपेत् । तदवशिष्टजलं हस्ते
गृहीत्वा पूजा ---------------- मालोड्य मूलेनाभिमन्त्र्य तेनात्मानमभ्युक्ष्य
सामैकान् प्रोक्षयेत् ।

रश्मिरूपा महादेव्यः चक्रे पूजितदेवताः ।
श्रीसुन्दर्यङ्गलग्नस्ताः सन्तु नित्यं शुभावहाः ॥

इति पुष्पं शिरसि धृत्वा देवीरूपमात्मानं ध्यात्वा खेचरी -------- तद्बीजेन
देवीं प्रणम्य मूलविद्यान्ते श्रीमहात्रिपुरसुन्दरी क्षमस्वेति तालत्रयेण
देवीं संबोध्य तेजोमयीं विचिन्त्य

गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वरी ।
यत्र ब्रह्मादयो देवा न विदुः परमं पदम् ॥

तां संहारमुद्रया शिरस्थ सहस्रदलकमलं प्रापयेत् । ४ ऐं हृदयाय
नमः
(प्. २५३) इति सुषुम्नावर्त्मनाहृदयकमले आनीय

तिष्ठ तिष्ठ परस्थाने स्वस्थाने परमेश्वरी ।
यत्र ब्रह्मादयः सर्वे सुरास्तिष्ठन्ति मे हृदि ॥

यथोक्तश्रीचक्रमध्यगतां परदेवतां हृदि पञ्चोपचारैः संपूज्य
मूलाधारे स्थापयेत् । ततः इशान्ये त्रिकोणमण्डलोपरि

वीणा वाद्य विनोदगीतनिरतां नीलांसुकोज्जाशिनीं?
बिब्मोष्ठीं नव यावकार्द्रचरणामाकीर्णकेशालिकाम् ।
तन्वङ्गीं सितशङ्खकुण्डलधरां माणिक्यभूषोज्वलां
मातङ्गीं प्रणतोऽस्मि सस्मितमुखीं देवीं शुकस्यामलाम् ॥

इति ध्यात्वा निर्माल्यपुष्पैरभ्यर्च्य ४ ऐं नमः उच्छिष्टचाण्डालिनी
मातङ्गी सर्ववशङ्करी स्वाहा । ४ शेषिकाश्रीपादुकां ------------- इति
निमाल्योदकाभिः सम्पूज्य सन्तर्प्य नैवेद्य शेषं निवेद्य
निर्माल्यपुष्पमादाय

४ लेह्य चोष्यान्नपानादि ताम्बुलं स्रग्विलेपनम् ।
निर्माल्यभोजनं तुभ्यं ददामि श्रीशिवाज्ञया ॥

(प्. २५४) इति पुष्पाञ्जलिं दत्वा योनिमुद्रया प्रणमेत् । इति शेषिकापूजाविधिः ।

तत्रैव ४ देव्याः परिचारिकेभ्यो नम इति पूजावशिष्टजलं पुष्पाक्षतादिकं
भूमौ विकीरेत् । ततस्तालत्रयपूर्वकं ऊं ऐं ह्रीं श्रीं

देवनाथ गुरु स्वामिन् देशिकस्वात्मनायक ।
त्राहि त्राहि -------- पूजां पूर्णतरां कुरु ॥

इति प्रार्थ्य श्रीपात्रमामस्तकान्तमुद्धृत्य शिरस्थं गुरुं सन्तर्प्य
तत्पात्रमाधारे स्थापयेत् । तज्जलं किञ्चिञ्छान्तिपात्रे निक्षिप्य
कराभ्यामात्मपात्रं गृहीत्वा तत्त्वचतुष्टयं कुर्यात् ।

इति श्रीमच्चिदानन्दनाथविरचितायां स्वच्छन्दपद्धत्यामष्टमस्पन्दः ॥ ८




(प्. २५५) ततः शास्त्रसमायितेषु(?) सामयिकेषु तत्त्वचतुष्टयं दद्यात् ।
तध्यथा -

४ ऐं क ए ई ल ह्रीं क्लीं ह स क ह ल ह्रीं सौंः सकलह्रीं

धर्माधर्महविर्दीप्ते आत्मानौ मनसा स्रुचा ।
सुषुम्ना वर्त्मना नित्यमक्षवृत्तिं जुहोम्यहम् ॥ स्वाहा ।

इत्याचार्य आत्मपात्रं गुरुपात्रमात्मनी हुत्वा सामयिकाः आचार्याय
प्रसादं याचेयुः ।

४ श्रीनाथ श्रीमतान्नाथ दयालो भक्तवत्सल ।
त्वत्पाददर्शनात् मह्यं त्राहि त्वं भवसागरात् ॥

श्रीगुरोश्चरणद्वन्द्वं सर्वदा शिरसि स्थितम् ।
प्रकाशविमर्शाख्यं च नमः सर्वात्मकं गुरुम् ॥

देव नाथ गुरो स्वामिन् गुरुदेव्यर्पितं शुभम् ।
भवत्प्रसादमस्माकं दीयतां न शुभावहम् ॥

ततः सर्वेषामात्मपात्रस्थशेषं प्रसादं दद्यात् । ४
प्रकृत्यहङ्कारबुद्धिमनश्रोत्रत्वक्चक्षुजिह्वाघ्राणवाक्पाणि
(प्. २५६) पादपायुस्थ शब्दस्पर्शरूपरसं गन्धाकाशवायुवह्नि ---------
भ्यात्मना अशुद्धतत्त्वेन अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं
ओं औं अं अः ऐं क ए ई ल ह्रीं आत्मतत्त्वं स्थूलदेहं परिशोधयामि
स्वाहा । चतुदशेन्द्रिय विषयसाम्यसाक्षित्व स्थुलनामको देहः ।
धर्मप्रददशकलातत्त्व ऐंकारात्मकवह्निना शोध्यः ऐं क ए ई ल ह्रीं

अखण्डैकारसानन्दकरे परसुधात्मनि ।
स्वछन्दस्फुरणामत्र निधेह्य कुलरूपिणी ॥

ऐंकारात्मकाय धर्मप्रददशकलात्मने वह्निमण्डलरूपाय
सर्वसत्त्वग्रन्थि विदलनप्रवीणाय विश्ववैश्वानर विराटस्थूलशरीर
रूपाय प्रथमखण्डनिवासाय कुण्डलिनी मूलकन्दाय मुकुन्दाय स्वाहा ।
मुकुन्दाय इदं नमः ।

आधारं भुजगाधिराजवलयं पात्रं महीमण्डलं
द्रव्यं सप्तसमुद्रवारिपिसित्तं चाष्टौ च दिग्दन्तिनः ।
सोहं भैरवमर्चयेत् प्रतिदिनं तारागणै रक्षतै-
रादित्यादि नवग्रहैश्च कुसुमैरिष्टार्थ संसिद्धये ॥

(प्. २५७) ४ माया विद्या कलारागकालनियति पुरुषात्मना शुद्धाशुद्धत्वेन
कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं
णं तं थं दं धं नं पं फं बं भं मं क्लीं हसकहलह्रीं
विद्यातत्त्वेन सूक्ष्मदेहं परिशोधयामि शोधय ।
चतुर्दशेन्द्रियसाम्यजीवत्वाकारसूक्ष्मनामको देहः
अर्थप्रदद्वादशकलातत्त्व क्लींकारात्मकसूर्यतेजसा शोध्यः क्लीं
हसकहलह्रीं

अकुलस्थामृताकारे शिद्धिज्ञानकरे परे ।
अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणी ॥

क्लींकारात्मकाय अर्थप्रदद्वादशकलात्मने सूर्यमण्डलरूपाय
राजसग्रन्थिविदलनप्रविणाय तैजससूत्रात्मक
हिरण्यगर्भसूक्ष्मशरीररूपाय द्वितीयखण्डनिवासाय कुण्डलिनीरूपाय
ब्रह्मणे स्वाहा ब्रह्मणेदं नमम ४

स्वा -------- कोणस्थे कोटिसूर्यसमप्रभे ।
कुण्डल्याकृतिचिद्रूपे हुने ------------- कम् ॥

अहन्तापात्रभरितमिदन्ता परमामृतम् ।
पराहन्ता मये वह्नौ जुहोमि शिवरूपकः ॥

(प्. २५८) ४ शिवशक्तिसदाशिव ईश्वरशुद्धविद्यात्मना विद्यातत्त्वेन यं रं
लं वं शं षं सं हं लं क्षं सौः सकलह्रीं शिवतत्त्वेन
कारणदेहं परिशोधयामि शोधय । भूतगुणत्रय साम्य ------
कारणनामको देहः कामप्रदषोडशकलातत्त्व सौः कारात्मकं ------------
--- शोध्यः सौः सकलह्रीं

त्वद्रूपिण्यै कर त्वं कृत्वार्घ्यै तत्स्वरूपिणी ।
भूत्वा कुलामृताकारं मयि चित्स्फुरणं कुरु ॥

सौःकारात्मकाय कामप्रदषोडशकलात्मने तामसग्रन्थि विदलन
प्रवीणाय सोममण्डलरूपाय प्रज्ञाक्षरा व्याकृतकारणशरीररूपाय
तृतीयखण्डनिवासाय कुण्डलिनी शिखान्तविद्योतमानमहाप्रकारारूपाय
भद्रमूर्तिपशुपतये स्वाहा । पशुपतय इदं न मम्

जागृत्स्वप्नसुषुप्तीनामागमापायबोधिनीम् ।
घोरशान्तिं विमूढादि पञ्चावस्थातिगां शिवाम् ॥

नेति नेतीति वाक्योक्त निषेढावधिरूपिणीम् ।
नानाविधमतावेद्यां वेद्यामाचार्यसेवया ॥

(प्. २५९) बिन्दुनादकलातीतामखण्डानन्दरूपिणीम् ।
विकल्पौघविनिर्मुक्तामनुभूतिमयी कलाम् ॥

आनन्दान्तरमध्यस्थां भावयन्नैव सर्वदा ।
तदाकारो भविष्यामि सद्दैशिकवराज्ञया ॥

४ प्रकृत्यहङ्कारबुद्धिमनश्रोत्रत्वक्चक्षुजिह्वाघ्राणवाक्पाणि
पादपायुपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलभूमि माया
कलाविद्या रागकालनियतिपुरुष शिवशक्ति सदाशिव ईश्वर शुद्धविद्यात्मना
सर्वतत्त्वेन अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः
कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं
णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं
शं षं सं हं क्षं ऐं क ए ई ल ह्रीं क्लीं हसकहलह्रीं सौः
सकलह्रीं षट्त्रिंशत्तत्त्वात्मकं स्थूलसूक्ष्मकारणतनुत्रयाश्रयं
जीवं सर्वतत्त्वेन परिशोधयामि शोधय । सच्चित्सुखसाम्यैकाद्वय
दिव्याननन्दतुरीयनामको देहः कारणत्रितय -------- सर्वज्ञत्वादिचेतसा
शोध्यः ऐं क ए ई ल ह्रीं क्लीं हसकहलह्रीं सौः सकलह्रीं

(प्. २६०) या चिदुल्लसित विश्वसत्तया सा शिवोहमिति विश्व स च त्तया ।
ईश्वरोमिति शश्वदा श्वसन्निर्भयोस्मि निरङ्कुशोस्म्यहम् ॥

अन्तर्निरन्तरं निरिधनमेघमाने
मोहान्धकारपरिपन्थिनि संविदग्नौ ।
क -------------- श्चिदद्भुतमरीचि विकासभूमौ
विश्वं जुहोमि वसुधा दिशिवावसानम् ॥

प्रज्ञामन्दरमर्दिता सवमहाभेदो दधेरुधृता
मक्षाक्षेपविवर्त्तनाभिरभितो दुग्धामृतान्यादरात् ।
वाञ्चित्वादि विदैत्यदर्पनिवहं भूतेरनादृत्यये
पायं पायमलिं पिबन्ति जगति श्लाध्यास्त एवामराः ॥

सर्वतत्त्वात्मने सर्वकलात्मने सर्वमण्डलात्मने ४ सर्वग्रन्थिविदलनं
प्रविणाय सर्वखण्डनिवासाय सर्वशरीररूपाय कुण्डलिनी
आदिमध्यान्तावसानरूपाय पञ्चप्रणवरूपी सदाशिवाय स्वाहा ।
सदाशिवाय इदं नमम् ।

(प्. २६१) हंसः शिवोहमनिशश्रुतिनिष्कलोह -
मानन्दसंविदनुभूतिचिदुज्वलोहम् ।
ईशोहमी दृढमति श्रुतिपादितोहं
सोहं समस्तमिति सर्वमिदं शिवोहम् ॥ १ ॥

श्रीमद्बोधघनामृतान्वितमहा चित्तेन तद्विग्रहं
ध्यात्वा नित्यमहं सहस्रदल केचिच्चन्द्रबिम्बप्रभम् ।
नीत्वा तद्गुरुमेव षोडशदले मन्त्रात्मकं भावयन्
ध्यायन् हृत्कमलोदरे तु तदहं त्वेवं स्मरेत् श्रीगुरुम् ॥ २ ॥

तुरङ्गमारु ----------------- त्मकं यो
विलङ्घ्य शब्दादिजनात्मकं वनम् ।
तेनात्मना युद्धमभूद् भयङ्करं
रागादिरक्षो गणमाशु नश्यति ॥ ३ ॥

(प्. २६२) शरीरसेतु च विरच्य मानसं
संसारसिन्धु त्वरितो विलङ्घ्य ।
हत्वा ह्ययं राग वणादिकान्
शान्त्या समेतः स्वसुखे विराजते ॥ ४ ॥

श ------------ त्वधिरुद्धृतत्क्ष-
णात् संसारसिन्धुं त्वरितेन तीर्त्वा ।
हत्वा मया रावणमज्ञसम्भवं
सेवेत्सुखं ---------- समाधिजं मुदा ॥ ५ ॥

मनो मधिरु सद्रसतरङ्गिणी लङ्घ्यतां
विलंघ्यजनकानूनं गुरुगिरा समाश्रित्य च ।
मया भवरणां गणे विजितषण्महावैरिणः
पुरारि पुरावेशने विजयदुन्दुभिस्ताड्यते ॥ ६ ॥

(प्. २६३) सच्चित्तत्वमसीति वाक्यविदितं ब्रह्माहमस्मीति स -
त्सत्तामात्रमगोचराद्वयमहं चित्तैकसाक्षी सदा ।
सत्यं ज्ञानमनादिबोधममलं प्रज्ञानरूपं महद्
ब्रह्मानन्दघनं परात्परतरं चेत्थं समाधिस्थितिः ॥ ७ ॥

जीवन्नेव शिवोऽस्मि सद्गुरुगिरा ज्ञानक्रियाशक्तिभि-
र्ज्ञानेन प्रतिभासितेन जनवत् संचेष्ठयमानोस्म्यहम् ।
प्रारब्धाखिलकर्मजालसदसद्भोगोपभोगक्षये
देहेष्मिन् पतिते चराचरजगत्स्वात्मा स एवेश्वरः ॥ ८ ॥

अन्तस्फटिकदण्डश्च बहिर्विर्द्रुमदण्डवत् ।
अन्तर्बहिरहं ज्योतिः सन्तः पश्यन्ति सन्तता ॥ ९ ॥

बहिरन्तः परः साक्षाद् चिदानन्दात्मकं परम् ।
तदहं न तु सन्देहः श्रीगुरोत्वदनुग्रहात् ॥ १० ॥

ज्ञानरूपपरानन्द स्फुरद्रूपसदात्मक ।
त्व कृपा बलतः साक्षात् चिदानन्दो भवाम्यहम् ॥ ११ ॥

(प्. २६४) नमो वेदान्तवेधाय गुरवे सर्वसाक्षिणे ।
प्रत्यग्ज्योतिस्वरूपाय जगदाधारमूर्त्तये ॥ १२ ॥

देहभ्रान्तिपरित्यागादनन्तानन्दमव्ययम् ।


स्वरूपत्वा चिदानन्दोहमव्ययः ॥ १३ ॥


ब्रह्मानन्दरसास्वादस्यानुभूतिरसात्मकः ।
जगतामुपकाराय चिदानन्देन निर्मितम् ॥ १४ ॥

चिदानन्दमुखाम्भोजाद् गलितं चाद्वयामृतम् ।
को न तृप्येत् पिवन्मर्त्यो भवार्णव सुतारणम् ॥ १५ ॥


नन्दयोगीन्द्र पादपङ्कजषट्पदम् ।

चिदानन्दस्य बोधार्थ शरीरधृतवानहम् ॥ १६ ॥

प्रातः प्रभृतिसायन्तं सायादिप्रातरन्ततः ।
यत्करोमि जगद्योने तदस्तु तव पूजनम् ॥ १७ ॥

इतः पूर्वं प्राणबुद्धिर्देहधमाधिकारितो जाग्रत्स्वप्नसुषुप्तीषु मनसा
वाचा कर्मणा (प्. २६५) हस्ताभ्यां पदभ्यामुदरेण शिश्ना यत्स्मृतं
यत्कृतं यद्धां यज्जप्तं तत्सर्व श्रीगुरुदेवतार्पणमस्तु स्वाहा । ओं ऐं
ह्रीं श्रीं

तृप्त्यर्थं सर्वदेवानां ब्रह्मज्ञानस्थिराय च ।
सेवयन् मधुमांसानि तृष्णाया चेत्स पातकी ॥ स्वाहा ।

तमः परिवृतं वेश्म यथा दीपेन दृश्यते ।
तथा मायावृतो ह्यात्मा दिव्यपानेन दृश्यते ॥ स्वाहा ।

४ आनन्दब्रह्मणो रूपं तच्च देहे व्यवस्थितम् ।
तस्याभिव्यञ्जकं मद्यं योगिभिस्तेन पीयते ॥ स्वाहा ।

४ ओं आर्द्रं ज्वलतिज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योहमस्मि
ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा ।

शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् ।
कालाज्ञादिशिवान्तं च जगद्यज्ञेन तृप्यतु ॥

ओं पूर्णमतः पूर्णमिदं पुर्णात्पूर्णमदच्युते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

(प्. २६६) ओं शान्तिः शान्तिः शान्तिः इति संभाव्य ------------- बलिविसर्जनं
कुर्यात् ।

तत्र स्थापितबलिपात्रद्रव्यमेकस्मिन् पात्रे गृहीत्वा सोदकपात्रहस्तः
गृहाद्बहिर्गत्वा शुचौ देशे पूर्ववन्मण्डलं कृत्वा ओं ऐं ह्रीं श्रीं

गदा त्रिशूलडमरुपात्रहस्तं त्रिलोचनम् ।
कृष्णाभं भैरवं ध्यायेत् ---- निवारणम् ॥

इति ध्यात्वा ओं ह्रीं ४ उच्छिष्टभैरव एह्येहि बलिं गृह्ण गृह्ण स्वाहा इति
पात्रस्थबलिं विसृज्य तत्पात्रं त्यक्त्वा हस्तौ पादौ प्रक्षाल्य
पूजागृहद्वारमागत्य उदयोस्त्विति ब्रुवन् गृहान्तः प्रविश्य
शान्तिपात्रस्थद्रव्ये किञ्चिज्जलं संयोज्य तेनात्मानं शक्तिं सामयिकान्
शान्तिस्तवेन प्रोक्षयेत् -

जयन्तु देव्यो हरपादपङ्कजं
प्रसन्न वामामृतमोक्षदायकम् ।
अनन्तसिद्धान्तमतिप्रबोधकं
नमामि चाष्टाष्टक योगिनीकुलम् ॥ १ ॥

(प्. २६७) योगिनीचक्रमध्यस्थं मातृभैरववेष्टितम् ।
नमामि शिरसां नाथं भैरवं भैरवीप्रियम् ॥ २ ॥

आपदोदुरितं रोगाः समयाचारलङ्घनात् ।
सर्वेपि ते व्यपोहन्तु दिव्यश्रीचक्रमेलनात् ॥ ३ ॥

आयुरारोग्यमैश्वर्यं कीर्तिर्लक्ष्मी सुखं जयः ।
कान्तिर्मनोरथाः सन्तु पातु सर्वाश्च देवताः ॥ ४ ॥

सम्पूजकानां प्रतिपालकानां जितेन्द्रियाणां च तपोधनाम् ।
देशस्य राष्ट्रस्य कुलस्य राज्ञः करोतु शान्तिं भगवान् कुलेशः ॥ ५ ॥

नन्दन्तु साधकाः सर्वे विनश्यन्तु विदूषकाः ।
अवस्था शाम्भवी मेस्तु प्रसन्नोस्तु गुरुः सदा ॥ ६ ॥

नन्दन्तु साधककुलान्वय देशिकाये
सृष्ट्याद्यनेककरणप्रमुखान्व---------ये ।
नन्दन्तु सर्वकुलकोलरताः परा ये
चान्ये विशेषपदभेद -------- भवाये ॥ ७ ॥

(प्. २६८) नन्दन्तु सिद्धगुरवः तदनुक्रमौघा
ज्येष्ठानुगाः समयिनो बटुकाः कुमार्यः ।
षड्योगिनी प्रवरमुख्यकुलप्रसूता
नन्दन्तु भूमिपतयो द्विजसाधुलोकाः ॥ ८ ॥

नन्दन्तु नीतिनिपुणाः निरवद्यनिष्ठा
निर्मत्सरानिरूपमानिरू ---------------- ।
नित्या धिरञ्जनरता? गुरवो निरीहाः
शान्ताश्च शान्तमनसो हृतशोकशङ्का ॥ ९ ॥

नन्दन्तु योगनिरताः कुलयोगयुक्ता
आचार्य सामयिक साधकपुत्रकाश्च ।
गावो द्विजा योवतयो यतयः कुमार्यो
धर्मे भवं त्वविचला गुरुभक्तिरेकाः ॥ १० ॥

नन्दन्तु साधककुलान्यणिमादिनिष्ठाः
शापाः पतन्तु समयद्रुहि योगिनीनाम् ।
या शाम्भवी स्फुरतु कापि * * * * *
यस्याङ्गुरोश्चरणपङ्कजमेव लभ्यम् ॥ ११ ॥

याश्चक्रक्रमभूमिकावसथयो नाडीषु याः संस्थिता
याः कायोद्गमरोमकूपनिलया या संस्थिता धातुषु ।
निश्वासोर्मिमरुत्तरङ्गनिलया उच्छ्वासवातायिता
स्ता देव्यो रिपुपक्षभक्षणपराः तृप्यन्तु कौलार्चिताः ॥ १२ ॥

या देव्यः कुलसंभवा क्षितिगता या देवतास्तोयगा
या नित्यं प्रथितप्रभा शिखिगता या मातरि श्रयाः ।
या व्योमा हितमण्डलामृतमया याः सर्वगाः सर्वदा
स्ताः सर्वाः कुलमार्गपालनपराः शान्तिं प्रयच्छन्तु मे ॥ १३ ॥

ऊर्ध्वे ब्रह्माण्डतो वा दिवि गगनतले भूतले निस्थले वा
पाताले वानले वा सलिलपवनयो यत्र कुत्र स्थिता वा ।
क्षेत्रोपक्षेत्रपीठेष्वपि च कृत पदा धूपदीपालिमांसैः
प्रीता देव्याः सदा नः कृत बलि विधिना पान्तु वीरेन्द्रवन्द्याः ॥ १४ ॥

(प्. २७०) ब्रम्हाश्री शेषदुर्ग गुहगणबटुका भैरवा क्षेत्र दिक्पा
वेतालादित्यरुद्रा ग्रहवसुमनुजा ।
भूता गन्धर्व विद्याप्सर सऋषिसुरा
॥ १५ ॥

देहस्थाखिलदेवतागजमुखा क्षत्राधिपा भैरवा
योगिन्यो बटुकाश्च यक्षपितरो भूताः पिशाचाग्रहाः ।
अन्ये भूचरदिक्चराश्च खचरा बेतालकाश्चेटका
कुलपुत्रकस्य पिबतः पानं सदीपं चरुम् ॥ १६ ॥

सत्यं चेद्गुरुवाक्यमेव पितरो वेदागमा योगिनी
प्रीता चेत्परदेवता हि यदि चे मं प्रमाणं हि चेत् ।
कौलीयं यदि दर्शनं भवति चेदाशाप्यमोधा*ई चेत्
सत्या सुर्यादिकौलिका भुवितले स्यान्मे जयः सर्वदा ॥ १७ ॥

तृप्यन्तु मातरः सर्वाः समुद्राः सगणाधिपाः ।
योगिन्यः क्षेत्रपालाश्च मम देहे व्यवस्थिताः ॥ १८ ॥

शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तम्ब संयुतम् ।
कालाज्ञादिशिवान्तं च जगद्यज्ञेन तृप्यतु ॥ १९ ॥

(प्. २७१) इति शान्तिं पठित्वा शिष्याय तत्त्वत्रयं दत्त्वा सौभाग्यहृदयं
पठेत् -

ओं तन्महं परमं नौमि कृत्यैः पञ्चभिरङ्कितम् ।
अशेषविश्वभेदात्मा पूर्णाहन्तात्मकं शिवम् ॥ १ ॥

त्रिधा विभक्तं यद्वस्तु स्तोत्रं स्तुत्य स्तुतिक्रमात् ।
एतस्मै महसे तस्मै नमः परमचक्षूषे ॥ २ ॥

स्मरामितां परां वाचां पश्यन्यादिक्रियाश्रयाम् ।
नानाविधमताकारां महानुभवरूपिणीम् ॥ ३ ॥

देशकालपदार्थात्मा यद्यद् वस्तु यथा यथा ।
तत्तद् रूपेण या भाति तां श्रये संविदं कलाम् ॥ ४ ॥

मूलादिबिलपर्यन्तं महात्रिपुरसुन्दरीम् ।
या तनुस्तत्प्रतिख्यातां तां बन्दे भवभक्षिणीम् ॥ ५ ॥

योनौ कनकपुञ्जाभं हृदि विद्युच्छटोज्ज्वलम् ।
आज्ञायां चन्द्रसङ्काशं महस्तव महेश्वरी ॥ ६ ॥

(प्. २७२) प्रसृरामृतरश्म्यौघ सन्तर्पितचराचरम् ।
भवानीं भवशान्त्यर्थं भावयाम्यमृतेश्वरीम् ॥ ७ ॥

वर्णः कलामातृतत्त्वं पदं भुतनमेव च ।
इत्यध्वषट्कं देवेशि भाति त्वयि चिदात्मनि ॥ ८ ॥

अनाश्रितादिकालान्तं रुद्रान्तं चित्रमद्भुतम् ।
उन्मीलयसि मातस्त्वं प्रकाशवपुषि त्वयि ॥ ९ ॥

यदिदं भासते देवि नामरूपक्रियात्मकम् ।
प्रकाशवपुषि त्वत्तस्तत्सर्वं नातिरिच्यते ॥ १० ॥

नेत्रादिजालकोपां ते हृत्पद्मासनलीलया ।
वारं वारं मया देवी रूपादि मधु सेव्यते ॥ ११ ॥

संविद्देवि समाक्रम्य विषयानमृतासनम् ।
योगिनां प्रेषयत्यार्ये त्वत्पूजार्थं हि सर्वदा ॥ १२ ॥

नाहमिष्टमनिष्टं वा मन्ये त सनानि च ।
य तं मम देवेशि त्वमेव कुरु पार्वती ॥ १३ ॥

(प्. २७३) सौभाग्यहृदयं स्तोत्रं चिदानन्देन योगिना ।
समाराधनपूर्त्यर्थं स्मृतं सकलकामदम् ॥ १४ ॥

इति विरचितमेतत् त्रैपुरं स्तोत्रमात्रं
प्रकटितपरमार्थं योगिवर्योपजुष्टम् ।
सकलडरितरोगध्वंसनान्यकार्यं
प्रतियजनविधानं सेव्यतां भक्तियुक्तैः ॥ १५ ॥

इति पठित्वा श्रीपात्रमुधृत्य प्रागवत्पादुकामन्त्रेण त्रिःसन्तर्प्य
मूलविद्यान्ते

अन्तर्निरन्तरनिरन्धनमेधमाने
मोहान्धकारपरिपन्थिनि संविद्ग्नौ ।
कस्मिंश्चिदद्भुतमरीचिविकासभूमौ
विश्वं जुहोमि वसुधा दिशि वावसानम् ॥

मूलाधारस्थ कुण्डल्यात्मकपरदेवतामुखे पूर्णाहुति बुध्यात्
तद्रव्यं पात्रान्तरे कृत्वा स्वीकुर्यादिति श्रीपात्रोद्वासनविधिः ।

ततो गुरुपदिष्टविधिना शेषकृत्यं निर्वर्त्यं समापयेत् । तदुक्तं
स्वच्छन्दपद्धत्याम् -

(प्. २७४) तत्त्वत्रयेण श्रीपात्रं संविदग्नौ हुनेद्गुरुः ।
गुरुपात्रं गुरोर्दद्यात् शिष्यस्यात्मीयपात्रकम् ॥

शक्त्यै दद्यात् शक्तिपात्रं भोगपात्रं तथात्मनि ।
परिचारकवर्याय बलिपात्रं तथाऽर्पयेत् ॥

शङ्खोदकेन सर्वत्र स्थलं मन्त्रेण शोधयेत् ।
पूर्णाभिषेकयुक्तस्य पानं सम्यगुदीरितम् ॥

कराभ्यां कुम्भमुधृत्य सद्वितीयमलिं पिवेत् ।
करेण घटमादाय स्मरेत् मूलं च पादुकाम् ॥

आमलान्तं पिवेन्मद्यं स मुक्तो नात्र संशयः ।

इति पात्रोद्वासनविधिः ।

ततस्ताम्रपात्रे गन्धाक्षतकुसुमान्वितं जलमापूर्य
ओं ऐं ह्रीं श्रीं नमो विवस्वते ब्रह्मन् भास्वते विश्वतेजसे ।
नमः सवित्रे रुद्राय भानवे कर्मसाक्षिणे ॥

(प्. २७५) ओं ह्रीं क्लीं सः सूर्याय एष तेऽर्घ्यं स्वाहा इति सूर्यायार्घ्य
दत्त्वा

यज्ञछिद्रं तपछिद्रं य छिद्रं पूजने मम ।
सर्वं तदछिद्रमस्तु भास्करस्य प्रसादतः ॥

ततो मूलेन प्राणायामत्रयं कृत्वा श्रीं गुरुं प्रणम्य द्वितीयकूटेन
निर्माल्य पुष्पं शिरसि स्पृष्ट्वा परदेवताभक्तेभ्यो नैवेद्यादिकं
दत्त्वाऽन्यैः सुहृद्भिः सह स्वयमपि भुक्त्वा स्वात्मानं विश्वातीतं
भावयन् यथा सुखं विहरेत् शिवम् ।

इति श्रीमच्चिदानन्दनाथविरचितायां स्वच्छन्दपद्धत्यां नवमस्पन्दः ॥
९ ॥

ओं ओं शुभं भवतु स्वच्छन्दपद्धतीः समाप्तः ९९ ।

"https://sa.wikisource.org/w/index.php?title=स्वच्छन्दपद्धतिः&oldid=210770" इत्यस्माद् प्रतिप्राप्तम्