सामग्री पर जाएँ

स्मरदीपिका

विकिस्रोतः तः
स्मरदीपिका
[[लेखकः :|]]


हरकोपानलेनैव भस्मीभूयाकरोत्स्मरः ।
अर्द्धं नारीशरीरं हि यश्च तस्मै नमोऽस्तु ते ॥ १ ॥

सम्यगाराधितः कामः सुगन्धिकुसुमादिभिः ।
विदधाति वरस्त्रीणां मानग्रन्थिविमोचनम् ॥ २ ॥

स्मरन्निर्जित्य रुद्रेण पश्चादुद्दीपितः स्मरः ।
तेन तन्नामधेयेन निर्मिता स्मरदीपिका ॥ ३ ॥

अनेककामशास्त्राणां सारमाकृष्य यत्नतः ।
बालव्युत्पत्तये स्त्रीणां चित्तसन्तोषणाय च ।
प्रबोधाय वरस्त्रीणां तुष्ट्यै रतिसुखाय च ॥ ४ ॥

गर्गेणाभाषितां सम्यग्वक्ष्यामि स्मरदीपिकाम् ।
यस्य विज्ञानमात्रेण मूर्खोऽपि रतिरङ्गधीः ॥ ५ ॥

बालिका तरुणी प्रौढा वृद्धा चेति विशेषतः ।
ज्ञातव्यो ह्यन्वितः कामो ध्रुवं शृङ्गारमिच्छता ॥ ६ ॥

कामशास्त्रस्य तत्त्वज्ञा जायन्ते सुन्दरीप्रियाः ।
कामशास्त्रमजानन्तो रमन्ते पशुवत्स्त्रियम् ॥ ७ ॥

नानानिबन्धैः सुरतोपचारैः क्रीडासुखं जन्मफलं नराणाम् ।
किं सौरभेयीशतमध्यवर्ती वृषोऽपि संभोगसुखं न भुङ्क्ते ॥ ८ ॥

स्वनारीरक्षणं पुंसां परनार्यनुरञ्जनम् ।
बन्धभेदेङ्गितज्ञानमेतत्फलमुदाहृतम् ॥ ९ ॥

येन संवत्सरो दृष्टः सकृत्कामः सुसेवितः ।
तेन सर्वमिदं दृष्टं पुनरावर्तितं जगत् ॥ १० ॥

प्रथमं लक्षणं पुंसां स्त्रीणां च तदनन्तरम् ।
ध्वजस्य लक्षणं प्रोक्तं भगलक्षणसंयुतम् ॥ ११ ॥

कामस्थानानि संलक्ष्य पुनः सम्यक्प्रचालनम् ।
पुनः षोडश बन्धाश्च तथैवाधोमुखाश्च षट् ॥ १२ ॥

द्वौ बन्धौ सुन्दरीणां च पश्चान्मुखरतं तथा ।
बाह्यं रतं ततः कुर्याद्रतं देशविशेषजम् ॥ १३ ॥

इङ्गितस्य परिज्ञानं दूत्याश्च तदनन्तरम् ।
तथाष्टनायिकायाश्च मन्त्रौषधिसुतोदयः ॥ १४ ॥

शशो मृगो वृषश्चैव चतुर्थस्तु हयस्तथा ।
कथयामि क्रमात्पुंसामेतज्जातिचतुष्टयम् ॥ १५ ॥

मृदुचपलसुशीलः कोमलाङ्गः सुवेषः
सकलगुणनिधानं सत्यवादी शशोऽसौ ॥ १६ ॥

वदति मधुरवाणीं नृत्यगीतानुरक्तः ।
द्विजसुरगुरुभक्तो बन्धुयुक्तो धनाढ्यः ॥ १७ ॥

स्त्रीजितो गायनश्चैव नारीसत्त्वपरः सुखी ।
षडङ्गुलो भवेन्मेढ्रः श्रीमांश्च शशको मतः ॥ १८ ॥

वदति मधुरवाणीं रक्तनेत्रः सुशीलः
चलमतिरतिभीरुः शीघ्रगामी मृगोऽसौ ॥ १९ ॥

उदरकटिकृशः स्याद्दीर्घबिम्बाधरौष्ठो
दशनवदनदीर्घो दीर्घबाहुः प्रतापी ॥ २० ॥

अल्पभुग्धार्मिकश्चैव सत्यवादी प्रियंवदः ।
अष्टाङ्गुलो भवेन्मेढ्रो रूपयुक्तो मृगो मतः ॥ २१ ॥

वृषो यथा उदरकटिकृशास्यः शीघ्रगामी
नतांसः कनकरुचिरदेहः कष्टवादी वृषोऽसौ ॥ २२ ॥

व्यसनकृपणबुद्धिः स्त्रीवशः स्त्रीविलासो
बहुगुणबहुतेजाः दीर्घनेत्रोऽभिमानी ॥ २३ ॥

उपकारपरो नित्यं स्त्रीवशी श्लेष्मलस्तथा ।
लुब्धश्च कृपणश्चैव मिथ्यावादी च निर्भयः ।
दशाङ्गुलशरीरस्तु मेदस्वी वृषभो मतः ॥ २४ ॥

हयो यथा उदरकटिकृशास्यो दीर्घकण्ठाधरोष्ठः ।
दशनवदननेत्रं तस्य दीर्घोऽपि नाभिः ॥ २५ ॥

लुब्धश्च कृपणश्चैव मिथ्यावादी च निर्भयः ॥ २६ ॥

द्वादशाङ्गुलमेढ्रस्तु कुशलोऽपि हयो मतः ॥ २७ ॥

इति पुरुषलक्षणानि चत्वारि ॥ २८ ॥

अथ स्त्रीणां जातिचतुष्टयप्रकरणम् ।
पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा ।
प्रत्येकं च वरस्त्रीणां ख्यातं जातिचतुष्टयम् ॥ २९ ॥

पद्मिनी यथा भवति कमलनेत्रा नासिकादूर्ध्वरन्ध्रा अविरलकुचयुग्मा दीर्घकेशा कृशाङ्गी ॥ ३० ॥

मृदुगमनसुशीला नृत्यगीतानुरक्ता सकलगुणसुवेषा पद्मिनी पद्मगन्धा ॥ ३१ ॥

शशिवदना बिम्बौष्ठी तन्वी ताम्रनखी तथा ।
मन्दगा लज्जिता श्यामा रक्तप्रान्तविलोचना ॥ ३२ ॥

गायनी सुरताढ्या च पारावतकलस्वना ।
स्वल्पाहारा सुकेशी च पद्मगन्धा च पद्मिनी ॥ ३३ ॥

चित्रिणी यथा भवति विपुलकेशा नातिदीर्घा न खर्वा तिलकुसुमसुनासा स्निग्धदेहोत्पलाक्षी ॥ ३४ ॥

कठिनघनकुचाढ्या सुन्दरी बन्धशीला निखिलगुणविचित्रा चित्रिणी चित्रवेषा ॥ ३५ ॥

गौराङ्गी त्यक्तलज्जा च बाह्यसंभोगसंरता ।
उत्तानशायिनी चोष्णा पारावतकलस्वना ॥ ३६ ॥

स्निग्धाङ्गी मांसगन्धा च स्वल्पकामा कृशोदरी ।
धूर्ता गुरुनितम्बा च चित्रिणी श्रीफलस्तनी ॥ ३७ ॥

दीर्घाकृतिदीर्घसुवर्णनेत्रा दीर्घाधरा दीर्घनितम्बबिम्बा ।
लेषातपालङ्कृतकण्ठदेशा पुंसैकचित्ता खलु शङ्खिनी स्यात् ॥ ३८ ॥

शोभना कोमला चोष्णा दीर्घा दीर्घशिरोरुहा ।
मृद्वङ्गी क्षारगन्धा च नातिस्थूला न दुर्बला ॥ ३९ ॥

गौराङ्गी तीक्ष्णनासा च पीनस्तनी विचक्षणा ।
विशालजघना क्रूरा सुरताढ्या च शङ्खिनी ॥ ४० ॥

हस्तिनी यथा स्थूलाकृतिः स्थूलपयोधरा च स्थूलाधरा स्थूलनितम्बबिम्बा ।
कामोत्सुका गाढरतिप्रिया च मध्ये च पुष्टा करिणी मता च ॥ ४१ ॥

स्थूला कठिनकुचा क्रूरा नात्युष्णा नातिशीतला ।
गौराङ्गी क्षीणनासा च पीनस्तनविलक्षणा ॥ ४२ ॥

विशालजघना क्रूरा फुल्लनासातिशीतला ।
खर्वा च खर्वनासा च बहुलोमा च कामुकी ॥ ४३ ॥

मदगन्धतनुर्नित्यं मत्तमातङ्गगामिनी ।
लुब्धा पीनस्तनी क्रुद्धा हस्तिनी सा प्रकीर्तिता ॥ ४४ ॥

पद्मिनी पिकवाणी च स्निग्धवाणी च चित्रिणी ।
शङ्खिनी क्रूरवाणी च मेघवाणी च हस्तिनी ॥ ४५ ॥

पद्मिनी पादशोभा च केशशोभा च चित्रिणी ।
शङ्खिनी मुखशोभा च कटिशोभा च हस्तिनी ॥ ४६ ॥

पद्मिनी पद्मगन्धा च क्षीरगन्धा च चित्रिणी ।
शङ्खिनी मीनगन्धा च मदगन्धा च हस्तिनी ॥ ४७ ॥

पद्मिनी पद्मनिद्रा च दीर्घनिद्रा च चित्रिणी ।
शङ्खिनी घोरनिद्रा च गजनिद्रा च हस्तिनी ॥ ४८ ॥

पद्मिनी पद्मबन्धेन नागबन्धेन चित्रिणी ।
शङ्खिनी मीनबन्धेन गजबन्धेन हस्तिनी ॥ ४९ ॥

पद्मिनी स्वल्पभोगा च लघुभोगा च चित्रिणी ।
शङ्खिनी बहुभोगा च गजभोगा च हस्तिनी ॥ ५० ॥

शशकः पद्मिनीं चैव चित्रिणीं च मृगस्तथा ॥ ५१ ॥

शङ्खिनीं वृषभश्चैव हस्तिनीं तु हयस्तथा ।
रमते तुल्यभावेन तदा समरतं भवेत् ॥ ५२ ॥
उच्चनीचातिनीचं च तथात्युच्चं च वर्जितम् ॥ ५३ ॥

ख्यातं समरतं चैव तद्विरहत्यन्यथा स्त्रियः ॥ ५४ ॥

इति स्त्रीणां जातिचतुष्टयम् ।
अथ ध्वजलक्षणप्रकरणम् ।
मुसलं रङ्गवीरं च द्विविधं ध्वजलक्षणम् ।
स्थूलं मुसलमित्याहुर्दीर्घं तद्रङ्गवीरकम् ॥ ५५ ॥

नातिह्रस्वं नातिदीर्घं स्थूलं स्थूलान्तिकं वरम् ।
क्षत्रशीर्षे प्रसन्नं च लिङ्गानि स्युः शुभानि षट् ॥ ५६ ॥

अथ भगलक्षणप्रकरणम् ।
कूर्मपृष्ठा गजस्कन्धा पद्मनाभिसमा तथा ।
अलोमा मृदुविस्तीर्णा षडेते सुभगा भगाः ॥ ५७ ॥

शीतलं चोष्णमत्युष्णं गोजिह्वासदृशं खरम् ।
इत्युक्तं कामशास्त्रज्ञैर्भगचिह्नचतुष्टयम् ॥ ५८ ॥

शीतलं सुखदं प्रोक्तमुष्णं च मध्यमं स्मृतम् ।
अत्युष्णमसुखं चैव खरं प्राणहरं स्मृतम् ॥ ५९ ॥

अथ कामचालनप्रकरणम् ।
अङ्गुष्ठे चरणे गुल्फे भगे नाभौ कुचे हृदि ।
कक्षे कण्ठेऽधरे नेत्रे कपोले च श्रुतावपि ।
शीर्षे सर्वशरीरे तु वसेत्कामस्तिथिक्रमात् ॥ ६० ॥

सव्ये पुंसः स्त्रियो वामे कृष्णे शुक्ले विपर्ययः ।
ऊर्द्ध्वं प्रतिपदादौ च कृष्णे चाधः प्रचक्षते ॥ ६१ ॥


एवं चैव वसेत्कामः स्थाने चैव विशेषतः ।
पादे जङ्घे ऊरुदेशे स्तने कक्षे गले श्रुतौ ॥ ६२ ॥

नखक्षतं प्रदातव्यं भगे नाभौ च मर्दनम् ।
गण्डे नेत्रे ललाटे च चुम्बनं कामुकैरिह ।
हृदये ताडनं हस्ताद्दन्तेनाधरपीडनम् ॥ ६३ ॥

आत्मास्येन्दुशरद्विसप्ततिथयः ख्यातं नलिन्या रते पौलस्त्याब्धिरसाष्टभास्करतिथौ प्रीता भवेच्चित्रिणी ।
रुद्रानङ्गगणेशशम्भुतिथयः स्युः शङ्खिनीभुक्तये शेषाः स्युः सुरतोत्सवेषु करिणां जातां स्त्रियः प्रीतये ॥ ६४ ॥

अङ्गुष्ठे चरणे च गुल्फनिचये जानुद्वये बास्तिके नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोलेऽधरे ।
नेत्रे कर्णयुगे ललाटफलके धौतं च वामभ्रुवामूर्ध्वाधश्चलनक्रमेण तिथयश्चान्द्रीकलापक्षये ॥ ६५ ॥

सीमन्ते नयनेऽधरे च गलके कक्षातटे चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटे पिण्डके ।
गुल्फे पादतले तदङ्गुलितलेऽङ्गुष्ठे च तिष्ठत्यसौ वृद्धक्षीणसमं तदा शशिकलापक्षद्वये योषिताम् ॥ ६६ ॥

मौलौ कुन्तलकर्षणं नयनयोराचुम्बनं गण्डयोः दन्तेनाधरपीडनं हृदि हतिं मुष्ट्या च नाभौ शनैः ।
कक्षाकण्ठकपोलमण्डलकुचश्रोणीषु देया नखाः सीमन्ते शिखरं नखैरुरसिजौ गृह्णीत गाढं ततः ॥ ६७ ॥

कुर्वाणो विरतिं मनोभवगृहे मातङ्गलीलायितं जान्वङ्गुष्ठपदोरुगुल्फहननं चान्योन्यतः कामिनाम् ।
इत्येवं गदितं प्रदेशकलनादिन्दोः कलारोपणं कर्तव्यं च नरैस्तु स्त्रीषु रभसादुक्तः प्रबोधाधिकः ॥ ६८ ॥

इति कामुकसंघातैः कर्तव्यं कामचालनम् ।
द्रवत्यनेन कामो हि घृतभाण्डमिवाग्निना ॥ ६९ ॥

आलिङ्गनं चुम्बनं च दन्तक्षतनखक्षते ।
मर्दनं नखचाटुश्चाधरपानं कुचग्रहः ॥ ७० ॥

चुम्बनं संप्रहरणं नारीक्षोभणमेव च ।
एतद्बाह्यरतं कुर्यात्कामप्रकटहेतवे ॥ ७१ ॥

अधरे गण्डयोर्भाले कपोले गलके हृदि ।
स्तने च कक्षयोर्हस्ते नाभिमूले भगस्थले ॥ ७२ ॥

कुक्षौ जघनयोर्मूले हृदयोर्नेत्रयोर्मुखे ।
कट्यां च चुम्बनं दन्तक्षतं नेत्रे तु वर्जितम् ॥ ७३ ॥

भगे मर्दनमापूर्य ततो मैथुनमाचरेत् ।
कृत्वा विवस्त्रां कान्तां तु मेढ्रं तत्र प्रवेशयेत् ॥ ७४ ॥

वक्षसा स्तनयुग्मं तु सम्पीड्य बाहुबन्धनम् ।
अन्योन्यं दृढमाक्रम्य कुर्यादालिङ्गनं स्त्रियः ॥ ७५ ॥

रसिकेन रसज्ञेन सततं रतिमिच्छता ।
गाढमालिङ्गनं देयं तत्सख्या ह्यनुरागतः ॥ ७६ ॥

गले वक्षःस्थले कुक्षौ कण्ठपार्श्वे भगे तथा ।
जघनोरुनितम्बेषु पृष्ठे हस्ते शिरःसु च ॥ ७७ ॥

कण्ठमूले कपोले च नखक्षतमथाचरेत् ॥ ७८ ॥

कक्षाकण्ठकपोलेषु नाभिश्रोणिकुचौ तथा ।
भगस्कन्धौ कर्णमूलौ त्रयोदश नखालयः ॥ ७९ ॥

स्थानेष्वेतेषु कुक्षौ च नखचाटुं समाचरेत् ।
रोमाञ्चहेतुसुखदं मदनोद्दीपनं मतम् ॥ ८० ॥

इत्थं च मन्मथोत्पन्ने केलिं कुर्यात्तथैव च ।
स्तनयोर्युगयोश्चैव सनाभिकभगस्थले ॥ ८१ ॥

जघनोरुनितम्बेषु कामुको मुहुरर्पयेत् ॥ ८२ ॥

भुजयोः स्तनयोश्चैव भगे नाभौ तथैव च ।
षट्सु स्थानेषु विधिना मर्दनं परिकीर्तितम् ॥ ८३ ॥

कक्षाकण्ठकपोलेषु नाभौ श्रोण्यां पयोधरे ।
कर्णमूले तथा स्कन्धे चुम्बनं द्वादशस्थले ॥ ८४ ॥

गण्डौष्ठं च तथा वक्त्रं कक्षा नाभिर्भगस्तथा ।
कुचौ च बाहुमूलं च द्वादशैतानि चुम्बनम् ॥ ८५ ॥

गण्डौ नेत्रे तथा वक्त्रं कक्षा नाभिर्भगस्तथा ।
कुचौ च बाहुमूलं च स्थानान्येतानि चुम्बने ॥ ८६ ॥

अधरौष्ठे च सम्पीड्य नायको नायिकाधरम् ।
पूर्णचन्द्रनिभं पेयान्नार्याश्च सरसं मुखम् ॥ ८७ ॥

पयोधरौष्ठजिह्वाया द्वयोरेव कुचाग्रयोः ।
पञ्चस्थानस्य वै पानं कुर्यात्कृशविचक्षणः ॥ ८८ ॥

ओष्ठेन चौष्ठग्रहणपूर्वकं केशकर्षणम् ।
शिरःप्रदेशे कृत्वा तामुपविष्टां च कारयेत् ॥ ८९ ॥

यथा कोकिलशब्दः स्याद्यथा पारावतध्वनिः ।
यथा हंसमयूरादेः कलरावं तथा चरेत् ॥ ९० ॥

मुष्टामुष्टिनितम्बे च कुर्याच्चैव परस्परम् ।
उपहस्तेनाबलायास्ताडयेज्जघनद्वये ॥ ९१ ॥

भगगर्भस्य मध्ये तु नाडिका ध्वजरूपिणी ।
पूर्णा कामजलैर्नित्यं वामस्था मृदुपीवरा ।
मर्दिता चाङ्गुलीभ्यां तु जनयेत्कामजं जलम् ॥ ९२ ॥

तत्र एकविंशतिप्रकारः ।
तेषां नामानि काकपदः विपरीतकः नागरिकः रतिपाशः केयूरः प्रियतोषणं समपदः एकपदः ऊर्ध्वसंपुटः संपुटकः मन्मथप्रियः रतिसुन्दरः उरुपीडनः स्मरचक्रं नागपाशकः गगनकः वंशदारकः कनकक्षयः नागरः कुलिशनामकः कामसुन्दर इति ।
यथाक्रमं तेषां लक्षणान्यप्याह ।
स्त्रीपादौ स्कन्धयुग्मस्थौ क्षिप्त्वा ध्वजं भगं लघु ।
कामयेत्कामुको नारीं बन्धः काकपदो हि सः ॥ ९३ ॥

पादमेकं करे धृत्वा द्वितीयं स्कन्धसंस्थितम् ।
नारीं कामयते कामी बन्धः स्याद्विपरीतकः ॥ ९४ ॥

ऊरुमूलोपरि न्यस्य योषिदूरुं नरो यदि ।
ग्रीवां धृत्वा कराभ्यां तु बन्धो नागरिको मतः ॥ ९५ ॥

पीडयेदूरुयुग्मेन कामुकं यदि कामिनी ।
रतिपाशस्तदा ख्यातः कामिनीनां मनोहरः ॥ ९६ ॥

स्त्रीणां जङ्घान्तराविष्टो गाढालिङ्ग्य च सुन्दरीम् ।
रमते विह्वलः कामी बन्धः केयूरसंज्ञकः ॥ ९७ ॥

नरीपादौ स्वहस्तेन हृदये धारयेद्यदि ।
स्तनार्पितकरः कामी कामयेत्प्रियतोषणम् ॥ ९८ ॥

योषित्पादौ हृदि न्यस्य कराभ्यां धारयेत्कुचौ ।
यथेष्टं ताडयेद्योनौ बन्धः समपदः स्मृतः ॥ ९९ ॥

पादमेकं करे धृत्वा द्वितीयं स्कन्धसंस्थितम् ।
स्तनार्पितकरः कामी बन्धस्त्वेकपदो हि सः ॥ १०० ॥

सम्प्रसार्य स्त्रियाः पादौ शय्यार्पितकफोणिकः ।
भगे लिङ्गस्य संयोगाद्रमते सम्पुटो हि सः ॥ १०१ ॥

स्त्रीपादौ सरलीकृत्य भूमौ कुञ्चितजानुकः ।
स्तनलग्नो रमेत्कामी बन्धः सम्पुटको मतः ॥ १०२ ॥

स्वजङ्घाद्वयबाह्ये च वा योषित्पदद्वयम् ।
स्तनौ धृत्वा रमेत्कामी बन्धः स्यान्मन्मथप्रियः ॥ १०३ ॥

नारीपादद्वयं कामी धारयेत्कुचमण्डले ।
धृत्वा कण्ठं रमेन्नारीं बन्धोऽयं रतिसुन्दरः ॥ १०४ ॥

स्त्रिया ऊरुयुगं धृत्वा कराभ्यां पीडयेत्पुनः ।
कुर्याच्च निर्भयां कामी बन्धः स्यादूरुपीडनः ॥ १०५ ॥

रमते सुदृढः कामी स्मरचक्रं प्रकीर्तितम् ॥ १०६ ॥

स्वजानुद्वयमध्याभ्यां हस्ताभ्यां धारयेत्स्त्रियम् ।
रमेन्निःशङ्कितः कामी बन्धः स्यान्नागपाशकः ॥ १०७ ॥

समाश्लिष्य यदा कान्तः कामिन्या जघनद्वयम् ।
ऊर्ध्वगं रमते दोर्भ्यां बन्धो गगनकः स्मृतः ॥ १०८ ॥

नारीपादद्वयं चैव स्कन्धे यः परिवर्तनम् ।
कृत्वा कान्तो रमेदाशु बन्धोऽयं वंशदारकः ॥ १०९ ॥

मुखं मुखे यदा बाह्यं बाह्ये जङ्घेऽपि जङ्घयोः ।
वक्षो वक्षःस्थले दत्त्वा भवेत्स कनकक्षयः ॥ ११० ॥

सुन्दरीं च रमेत्कान्तः कट्यासक्तभुजद्वयाम् ।
हृदि तत्कान्तहस्तां च बन्धोऽयं नागरो मतः ॥ १११ ॥

स्त्रीपादद्वयमालिङ्ग्य विमुखाक्षिप्तलिङ्गकः ।
योनिमापीडयेत्कामी बन्धः कुलिशनामकः ॥ ११२ ॥

स्वजङ्घाद्वयबाह्येन धारयेत्कुचमण्डलम् ।
धृत्वा कण्ठं रमेत्कामी बन्धः स्यात्कामसुन्दरः ॥ ११३ ॥

इत्यादिकण्ठविन्यासाद्गाढं सम्पादयेत्सुखम् ।
तस्माद्विदग्धसंघातैः कार्या बन्धाः प्रयत्नतः ॥ ११४ ॥

स्त्रियमानतपूर्वाङ्गीं पादाहितकरद्वयाम् ।
धृतोदरो रमेत्कामी बन्धोऽयं पशुनामकः ॥ ११५ ॥

पादालीढस्तनीं नारीमुत्क्षिप्तजघनां यदि ।
कान्तः कामयते पश्चात्कथितस्त्वेकबन्धकः ॥ ११६ ॥

उद्धृत्य पादमेकं तु भुवि संस्थाप्य चापरम् ।
कुड्याश्रितां रमेत्कान्तां बन्धस्त्रैविक्रमो मतः ॥ ११७ ॥

हृदि संस्थाप्य पादैकं बाहुभ्यां वेष्टयेद्यदि ।
कान्तः कुड्याश्रितां नारीं बन्धो वेष्टनको मतः ॥ ११८ ॥

नारीजानुद्वयं धृत्वा आत्मजानुद्वयोपरि ।
कुड्याश्रितां रमेत्कान्तां बन्धो दोलादिनामकः ॥ ११९ ॥

नारीबाहुद्वयं न्यस्य स्वीयबाहुद्वये तथा ।
ग्रीवां धृत्वा रमेत्कामी बन्धो दोलायितः स्मृतः ॥ १२० ॥

कुड्याश्रितां रमेत्कान्तां कण्ठासक्तकरद्वयाम् ।
पादाभ्यां मध्यमावेष्ट्य बन्धः प्रालम्बको मतः ॥ १२१ ॥

स्त्रियाः पादद्वयं कान्तः कान्तस्योरुद्वयोपरि ।
कटिमालोलयेदाशु बन्धोऽयं हंसलीलकः ॥ १२२ ॥

लिङ्गोपरिस्थिता नारी भूमौ दत्त्वा करद्वयम् ।
हृदये दत्तहस्ता च बन्धो लीलासनो मतः ॥ १२३ ॥

विपरीतरते नारीमृतुस्नातां न गुर्विणीम् ।
योजयेत्कामशास्त्रज्ञः सद्यो भुक्तवतीं तथा ॥ १२४ ॥

भगे निःक्षिप्तजिह्वाग्रो विलोलं चुम्बति प्रियः ।
तथैव रमणस्यापि नारी लिङ्गं प्रकर्षति ॥ १२५ ॥

मध्यदेशभवा नार्यो नखदन्तपदे रताः ।
चुम्बाघातरता नार्यस्तथा मध्यमदेशजाः ॥ १२६ ॥

अधोमुखरताश्चैव केशग्राहेषु सिन्धुजाः ।
नानारतरता नार्यस्तथा सिंहलदेशजाः ॥ १२७ ॥

चुम्बनालिङ्गने रक्तास्तथा कृत्रिमलिङ्गकैः ।
महाराष्ट्रे रता रामाः स्त्रीराज्ये कोशलेषु च ॥ १२८ ॥

क्षताघातांशुकाक्षेपैस्तथा कृत्रिमलिङ्गकैः ।
ध्वजवृषणलुब्धाश्च रामाः कार्णाटदेशजाः ॥ १२९ ॥

चुम्बकेशग्रहैश्चैव जिह्वावक्षोजमर्दनैः ।
वृषणैस्ताडनेनाङ्गे रता द्राविडदेशजाः ॥ १३० ॥

नितान्तरसिका बन्धे चुम्बनालिङ्गनादिषु ।
लुब्धाश्चाधरपानेषु न तु लावण्यविग्रहाः ॥ १३१ ॥

तीर्थयात्राभिलुब्धाश्च गौडवङ्गाङ्गनाः किल ।
निःसहा मर्दनाघाते नेपालाः कामरूपजाः ॥ १३२ ॥

स्त्रीणां विषयसात्म्यं च ज्ञात्वा मैथुनमाचरेत् ।
समाने सुखसम्पत्तिरन्यथा वै द्विषन्ति ताः ॥ १३३ ॥

मृदुह्रस्वध्वजो यत्र प्रियोऽशक्तो द्रुतच्युतिः ।
यत्र स्त्रीणां च काठिन्यं तत्र नीचरतो भवेत् ॥ १३४ ॥

नार्यो नीचरतोद्विग्ना द्विषन्ति पुरुषं क्षणात् ।
श्रूयते चैव कर्णाटे कान्तया निहतः पतिः ॥ १३५ ॥

अङ्गुलीनां प्रवेशैस्तु तथा कृत्रिमलिङ्गकैः ।
मृदुह्रस्वध्वजैः कामी रमेत्स्त्रीतोषहेतवे ॥ १३६ ॥

अथ प्रासङ्गिकं कन्यापरीक्षणप्रकरणम् ।
इदानीं यदहं वक्ष्ये कन्यायाः लक्षणं ततः ।
निरूप्य लक्षणादींस्तां परितः स्वीयसम्पदम् ॥ १३८ ॥

न कृष्णा नातिगौराङ्गी तन्वी मृदुवचास्तथा ।
न खर्वा नातिदीर्घा च सुवक्त्रा चारुलोचना ॥ १३९ ॥

कम्बुग्रीवा च मृद्वङ्गी श्यामरुक्थोदरी तु या ।
अल्पनिद्राल्पभोक्त्री च समाङ्गी निम्ननासिका ॥ १४० ॥

आरक्ता सुतरां नेत्रे नखे दन्तच्छदेऽपि च ।
पद्मरक्तादिचिह्नं च पाणौ पादे विशेषतः ॥ १४१ ॥

समदन्ता गुरुश्रोणी बिम्बौष्ठी च सुगायनी ।
भवेत्कन्या प्रशंस्या सा धर्मकामार्थसिद्धये ॥ १४२ ॥

भूमौ पादकनिष्ठा वानामिका वार्पयेद्युगम् ।
कन्या सा वर्जनीया च सैवोपपतिका मता ॥ १४३ ॥

कन्या सा पुंश्चली खर्वा या स्याच्छबलमध्यमा ।
पीवरा कर्कशाङ्गी च पिङ्गनेत्रा कचे जटा ॥ १४४ ॥

दीर्घनेत्रा दीर्घवक्त्रा खर्वा परुषवादिनी ।
जङ्घायामुत्तरोष्ठे च बिभ्रती लोमसंचयम् ॥ १४५ ॥

करोति यदि वा नित्यं भोजनं विपुलं बहु ।
निम्नग्रीवा निम्नकण्ठा बहुकेशी सुलोचना ॥ १४६ ॥

गण्डकूपे हसन्ती च दन्तपङ्क्त्या तु दन्तुरा ।
सा विज्ञैर्वर्जनीया च सुखैश्वर्यसमीहया ॥ १४७ ॥
तद्यथा कुलद्वयं चापि विनिन्दिता स्त्री यशोविभूतिं च तिरस्करोति ।
निमग्नचन्द्रेव निशासमाना प्रयाति नैवादरतां पृथिव्याम् ॥ १४८ ॥

सेवनं योषितां कुर्यान्मत्वा दोषबलाबलम् ।
बालायोग्यातिरूढानामृतुयोगविभागतः ॥ १४९ ॥

बाला च तरुणी प्रौढा वृद्धा भवति नायिका ।
एभिः प्रकारैर्विख्याता युवती नागरी सदा ॥ १५० ॥

बालेति गीयते नारी यावत्षोडशवत्सरम् ।
तस्मात्परं च योग्या सा यावद्विंशतिवत्सरम् ॥ १५१ ॥

विद्वद्भिः सर्वजगति तरुणीत्यभिधीयते ।
तदूर्ध्वमतिरूढा स्याद्यावत्पञ्चाशतं पुनः ॥ १५२ ॥

वृद्धा ततः परं ज्ञेया सुरतोत्सववर्जिता ।
प्रीणाति बाला मालाद्यैस्तरुणी वस्त्रदानतः ॥ १५३ ॥

प्रेमवाक्यादिभिः प्रौढा वृद्धा च दृढताडनात् ।
फलताम्बूलवासोभिर्बाला वश्या भवेन्नृणाम् ॥ १५४ ॥

विविधाभरणैः स्नेहैस्तरुणी वशवर्तिनी ।
गाढालिङ्गनचुम्बनैश्च अतिरूढास्तु योषितः ॥ १५५ ॥

गौरवैर्मधुरालापैर्भवेद्वृद्धा प्रियंवदा ।
तथा कुसुमधर्मिण्यः स्त्रियो वृद्धपरिग्रहाः ॥ १५६ ॥

उपक्रामन्ति विश्वासाद्द्विषन्ति पुरुषं क्षणात् ।
निदाघशरदोर्बाला सेव्या विषयिणां भवेत् ॥ १५७ ॥

हेमन्ते शिशिरे योग्या प्रौढा वर्षावसन्तयोः ।
सततं सेव्यमानापि बाला वर्धयते बलम् ॥ १५८ ॥

क्षेमं नयति योग्या स्त्री वृद्धा प्रकुरुते जराम् ।
उत्साहहानिं वृद्धा स्त्री दिशेद्रोगक्षयादिकम् ॥ १५९ ॥

बाला च प्राणदा प्रोक्ता तरुणी प्राणहारिणी ।
प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥ १६० ॥

आसीने लालयेद्बालां तरुणीं शयने तथा ।
उत्थाने त्वतिरूढां च लालनं त्रिविधं मतम् ॥ १६१ ॥

अध्वक्लान्ता ऋतुस्नाता प्रथमज्वरिता तथा ।
मधुपानप्रसन्ना च नर्तिता विरही तथा ॥ १६२ ॥

षण्मासगर्भिणी मासप्रसूता नवरङ्गिणी ।
एता वहन्ति सुतरां स्त्रियो न सुरतोत्सवम् ॥ १६३ ॥

आलिङ्गनविहीनं तु यो वेत्ति सुरतोत्सवम् ।
पशोरिव भवेत्तस्य सिद्धिः स्वार्थैकसिद्धये ॥ १६४ ॥

आलिङ्गचुम्बने दंशो भगस्तनविमर्दनम् ।
नखदानं च घातश्च ग्रहणं कुचकेशयोः ॥ १६५ ॥

करोति चिन्मयं हास्यं जिह्वाकण्ठाधरग्रहः ।
एतद्दशप्रभेदं हि क्षरणस्य प्रकीर्तितम् ॥ १६६ ॥

नारीणां मोहनं तावद्यावन्नोत्कण्ठिता प्रिया ।
अन्यथा तत्सुखोच्छितिरशीतार्ककरादिव ॥ १६७ ॥

शीत्कारं चाथ हुंकारं हसितं च त्रपाक्षयः ।
प्रस्विन्नवदनं चैव विकारोऽथ भगस्य च ॥ १६८ ॥

बुद्ध्वा चैतानि लिङ्गानि योषितां सुरते बुधः ।
तया तुल्यसुखं वाञ्छन्ननुरागं समाचरेत् ॥ १६९ ॥

पुष्पं माल्यं सुवर्णं च राजतं तरुणीसुखम् ।
तरुणीरहिते कान्ते व्यर्थं देशविचेष्टितम् ॥ १७० ॥

दैवाद्यदि कदाचिद्धि विच्छेदः क्रमशस्तदा ।
दशमीं मन्मथावस्थां प्राप्नोत्येव न संशयः ॥ १७१ ॥

अभिलाषश्चिन्तनं चानुस्मृतिर्गुणकीर्तनम् ।
उन्मादो विप्रलापश्च उद्वेगो व्याधिरष्टमः ॥ १७२ ॥

जरता मरणं चेति दशावस्था मनोभुवः ।
प्रमदानां नराणां च स्मरोन्मथितचेतसाम् ॥ १७३ ॥

लक्षयित्वेङ्गितं स्त्रीणां हृदि विज्ञः प्रवर्तते ।
सत्यं वल्लभतां याति सुमध्यानां च योषिताम् ॥ १७४ ॥

विज्ञः साध्यां यत्नसाध्यां वचसा चैव साधयेत् ।
साधनं कठिनं स्त्रीणां दुर्निरूप्या भवन्ति ताः ॥ १७५ ॥

प्राकाशीं बाहुमूलस्य कक्षोदरकुचस्य च ।
बालालिङ्गनमोक्षं च कवरीमोचनं तथा ॥ १७६ ॥

स्वीयाङ्गावयवस्यैव निरन्तरविलोकनम् ।
अश्रुपातोऽङ्गुलीमर्दश्लेष्मोत्सर्गं मुहुर्मुहुः ॥ १७७ ॥

कान्तस्य रूपसौभाग्यसंक्रीडागुणसम्पदाम् ।
संकीर्तनं महोल्लासः स्वाङ्गभद्रावमर्दनम् ॥ १७८ ॥

श्रुतिवर्त्माङ्गुलिक्षेपः सस्मिते वदनेक्षणे ।
एतान्यफलसाध्यानि लिङ्गानि च समुन्नयेत् ॥ १७९ ॥

व्रीडयालंकृता कान्ता ऊष्मार्ता लोभवर्जिता ।
साध्या लिङ्गर्थवीर्यस्ता असाध्या सा प्रकीर्तिता ॥ १८० ॥

यत्नसाध्या साधुवक्त्री धनहीना प्रवासिनी ।
साध्येङ्गितविपर्यस्ता यत्नसाध्या कुटुम्बिनी ॥ १८१ ॥

उद्यानोत्सवतीर्थेषु अध्ववाटीवनेषु च ।
अनिष्टयुवतीसङ्गे क्षेत्रे पितृगृहे तथा ॥ १८२ ॥

देवागारे कुटौ चैव तथा वाप्यादिसेवने ।
नटने गोगृहे चैव तथा बन्धुगृहोत्सवे ।
रक्षितव्या सदा नार्यः सद्भिरात्मप्रयत्नतः ॥ १८३ ॥

सत्यप्रदानैर्मधुरैर्वचोभिः संरक्षितव्या तरुणी सदैव ।
अरक्षिता चापि कुलस्य नाशं कुर्याद्धि वै बाह्यजनानुरागात् ॥ १८४ ॥

अग्राम्यमण्डनः प्राज्ञः शुचिः श्रीमांश्च गायनः ।
नर्मगोष्ठीप्रविष्टश्च षड्गुणो नागरो मतः ॥ १८५ ॥

त्यागी विवेकी कुशलः कुलीनः कलाभिविज्ञः सुमतिर्धनाढ्यः ।
भवक्षमः सर्वसहः सुखी च श्रीमान् सुशीलः स हि नायकः स्यात् ॥ १८६ ॥

रजकी मालिनी धात्री योगिनी प्रतिवेशिनी ।
सखी गोपालिका चेटी नापिता विधवा नटी ॥ १८७ ॥

सैरन्ध्री कन्यका चैव दैवज्ञा दूतिका मता ।
विचित्राभरणा दक्षा परिज्ञातपरेङ्गिता ॥ १८८ ॥

प्रवीणा स्थिरभावा च प्रगल्भा दूतिका मता ।
दूती नियुज्यते कार्ये बहुभाषाविभूषिता ॥ १८९ ॥

रोषानुरूपकोपा या अनुनीता च तुष्यति ।
लक्ष्यते सा भृशं नाथगुणहार्यमनोज्ञया ॥ १९० ॥

अहरहरनुरागा दूतिकां प्रेष्य पूर्वं सरभसमुपयाति क्वापि संकेतदेशे ।
न मीलति खलु यस्या वल्लभो दैवयोगान्निगदति भरतस्तां नायिकां विप्रलब्धाम् ॥ १९१ ॥

यस्या रतिगुणाकृष्टः पतिः पार्श्वे न मुञ्चति ।
विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥ १९२ ॥

या नित्यं प्रियविच्छेदे कान्तसौन्दर्यचेष्टिते ।
ध्यायेदेकमना भूत्वा स्यात्सा विरहिणी मता ॥ १९३ ॥

उद्दाममन्मथशरज्वरवेपमाना रोमाञ्चकर्णकुसुमं कुशलं वहन्ती ।
निःशङ्किनी व्रजति या प्रियसंगमाय सा नायिका खलु भवेदभिसारिकेति ॥ १९४ ॥

या निर्लज्जा कृता गाढं मदेन मदनेन च ।
अभियाति प्रियं साभिसारिका कथिता बुधैः ॥ १९५ ॥

अज्ञानान्न गतो यस्याः संकेतमुचितप्रियः ।
तदनागमसंतप्ता खण्डिता सा प्रकीर्तिता ॥ १९६ ॥

निरस्तो मन्युना कान्तः समर्थो हि यया पुनः ।
अवस्थिता विना तेन कुपिता कथिता बुधैः ॥ १९७ ॥

भवेद्वासकसज्जा सा दूतीद्वारेण निर्जने ।
निश्चित्यागमनं भर्तुर्द्वारेक्षणपरायणा ॥ १९८ ॥

दुर्वारदारुणमनोभवयोगमाप्य पर्याकुलाकलितमानसमुद्वहन्तीम् ।
दुर्वारमन्मथशरज्वरवेपमानामुत्कण्ठितां वदति तां भरतः कवीन्द्रः ॥ १९९ ॥

प्रियैकवर्तिनी चोष्णा धावत्युन्मादिनी तथा ।
तत्रैवावस्थिते कान्ते विरहोत्कण्ठिता मता ॥ २०० ॥

असाध्यायाः सुखं सिद्धिः साध्यायाश्चानुरञ्जनम् ।
स्वेच्छया वर्धते सम्यक्कामशास्त्रप्रयोजनम् ॥ २०१ ॥

अथ शुद्धं तथाशुद्धं समासादिततत्क्रियः ।
मन्त्रो गुरुमुखाल्लब्धः सिध्यत्यत्र न संशयः ॥ २०२ ॥

त्रिचामुण्डे इति पदं ततः क्वनु क्वनु स्मृतम् ।
ततः पदं छनु छनु स्वकीयं वशमानयेत् ॥ २०३ ॥

साध्यानाम द्वितीयान्तं दत्त्वा स्वाहेति योजयेत् ।
सामान्येनामुकीनामजपं कृत्वा वशं नयेत् ॥ २०४ ॥

ह्रीं स्वाहेति मन्त्रेण साध्यानामान्वितेन च ।
सप्ताभिमन्त्रितं पुष्पं यैव गृह्णाति सा वशा ॥ २०५ ॥

काकजिह्वालिपक्षौ च सुवर्णमलमश्रु च ।
रक्तं रतेश्च लेपेन वशीकुर्युर्मनीषिणः ॥ २०६ ॥

सम्भोगजं वचाबीजं जिह्वा चार्कदलं सितम् ।
संचूर्ण्याञ्जितनेत्राणां भार्यापि वशतां नयेत् ॥ २०७ ॥

हरितालं मनःशिला रक्तचन्दनमेतत्सर्वं चूर्णीकृत्य ।
पुष्पेण सह यस्याः शिरसि दीयते सा पशुवद्वश्या भवति ।
पेचकस्य हृदयं कुङ्कुमेन सह सम्पिष्य तिलकं कुर्यात्तेन लोको वश्यो भवति ॥ २०८ ॥

अश्वगन्धा वचा कुष्ठं बला नागबला तथा ।
माहिषं नवनीतं च गजपिप्पलीसंयुतम् ॥ २०९ ॥

पिष्ट्वा तेषां विलेपेन गाढीकरणमुत्तमम् ।
सम्पिष्टं छागमूत्रेण शूकशिम्बीसमुद्भवम् ॥ २१० ॥

नूनं तस्य प्रलेपेन लिङ्गं लौहोपमं भवेत् ।
नीलोत्पलसिताम्भोजकेसरं मधु शर्करा ॥ २११ ॥

अमीषां नाभिलेपेन रमते कामुकश्चिरम् ।
क्षीरेण कमलं पिष्ट्वा सलिलं गुटिकाकृतम् ॥ २१२ ॥

उपस्थे निहितं कुर्यात्प्रकीर्णमपि च क्वचित् ।
अस्थि कृष्णबिडालस्य दक्षिणपार्श्वसम्भवम् ॥ २१३ ॥

बद्धं कटितटे बीजं विबन्धं कुरुते ध्रुवम् ।
सप्तपर्णस्य बीजं हि स्तम्भयेच्छुक्रमात्मगम् ॥ २१४ ॥

सितशरपुंषामूलं पारदसहितं करे धृत्वा ।
करञ्जबीजं मध्यस्थं समूलं बन्धयेद्बीजम् ॥ २१५ ॥

केतकीभूमिलतासनमूलीबन्धविपक्वं कुसुम्भतैलम् ।
पादतले लेपेनावश्यं बीजस्तम्भं नयति पुंसाम् ॥ २१६ ॥

माहिषदधिसहदेवीतिलमधुसितपद्मकेसरं मिलितम् ।
चूर्णं नाभिविलेपाद्वीर्यस्तम्भं करोत्यवश्यम् ॥ २१७ ॥

बृहत्करञ्जबीजस्थं पारदं पद्मवेष्टितम् ।
मुखे क्षिप्तमिदं बीजं स्तम्भयत्येव निश्चितम् ॥ २१८ ॥

कुर्यादादौ परिच्छेदं मर्दनं च विशेषतः ।
सप्ताहं भावयेन्माषं निस्तुषं विदलं ततः ॥ २१९ ॥

नालिकेरोदकेनाथ पुनस्तेषां च भावना ।
तत्पश्चाद्घनभ्रष्टं च भक्षयेत्क्षीरसाधितम् ॥ २२० ॥

वधूशतसहस्राणि कामी कामयते ततः ॥ २२१ ॥

यस्तूपानहमाकुञ्च्य समानेन नियोजयेत् ।
पादाङ्गुष्ठेन भूमौ तां पीडयेत्तु समाहितः ॥ २२२ ॥

भक्षयेदथवा दग्धैश्चम्पकीकदलीयुतम् ।
अत्यग्रभागसंयुक्तः पुना ऋद्धिं प्रयच्छति ॥ २२३ ॥

कल्लोलिनीकाननकन्दरादौ दुःखाश्रये चार्पितचित्तवृत्तिः ।
समृद्धमाबद्धमभिन्नधैर्यः श्लथोऽपि दीर्घं रमते रते ॥ २२४ ॥

पारदं टङ्कनं व्योषा काकमाची तथा मधु ।
क्षिप्तलिङ्गश्चिरं नारीं द्रावयेद्रमणः सदा ॥ २२५ ॥

तुम्बीपत्रं च लोध्रं च समभागेन लेपयेत् ।
भगलेपप्रदत्तेऽस्मिन् प्रसूताप्यक्षता भवेत् ॥ २२६ ॥

पलाशोदुम्बरं चापि तैलं कुसुमसम्भवम् ।
मधुना योनिसंलेपाद्गाढीकरणमुत्तमम् ॥ २२७ ॥

स्वीयेष्टदेवतामन्त्रो जप्तः स्वार्थमहिंसकः ।
यथाविभूतिदानं हि ब्रह्मचर्ये च तिष्ठति ॥ २२८ ॥

कृत्वादौ तत्र शुद्धिं तु पुनः क्षेत्रे शुभेक्षणे ।
सूर्योदयप्रदोषाभ्यां विशेषाच्च स्वयं बली ॥ २२९ ॥

कृत्वा चैकमना विज्ञो यदि बीजं विमुञ्चति ।
सूते मासोदये नूनं गुणवन्तं यशस्विनम् ॥ २३० ॥

"https://sa.wikisource.org/w/index.php?title=स्मरदीपिका&oldid=404373" इत्यस्माद् प्रतिप्राप्तम्