सामग्री पर जाएँ

स्फोटचन्द्रिका

विकिस्रोतः तः
स्फोटचन्द्रिका
[[लेखकः :|]]

।। श्रीकृष्णभट्टमौनिरचिता स्फोटचन्द्रिका ।।
पित्रोः पादयुगं नत्वा जानकीरघुनाथयोः।
मोनिश्रीकृष्णभट्टेन तन्यते स्फोटचन्द्रिका।। 1 ।।
शाब्दिकानां वाच्यलक्ष्यव्यङ्ग्यार्थप्रतिपादकानां वाचकलाक्षणिकव्यञ्जकानां शब्दानां तन्निष्ठजातेर्वा स्फोट इति व्यवहारः। स्फुटति अर्थो यस्मादिति व्युत्पत्त्या पङ्कजादिपदवद्योगरूढः स्फोटशब्दः। केवलयोगस्वीकारे वाच्यलक्ष्यव्यङ्ग्यानां चेष्टायाश्च व्यङ्ग्यार्थप्रतिपादकत्वेन तत्रातिव्याप्तेः। न च वाचकादिपर्यायः स्फोटशब्दोऽप्रसिद्धः,
अक्षराणामकारस्त्वं स्फोटस्त्वं वर्मसंश्रयः।
इति हरिवंशे दृष्टत्वात्। तथा च वर्णपदवाक्याख्ण्डपदाखण्डवाक्येति पञ्च व्यक्तिस्फोटाः। शक्यतावच्छेदिकाया जातेर्वाच्यत्ववत् शक्ततावच्छेदिकाया जातेर्वाचकत्वामिति मते वर्मपदवाक्यभेदेन त्रिविधो जातिस्फोचः। एवं चाष्टौ स्फोटाः। यथाऽऽनन्दवल्ल्यां शुद्धब्रह्मज्ञानार्थमन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेति पञ्चसु कोशेषु अपारमार्थिकब्रह्मत्वप्रतिपादनमुपायः, यथा वाऽरुन्धतीज्ञानार्थं स्थूलनक्षत्रे अपारमार्थिकारुन्धतीत्वबोधनम्, तथा पारमार्थिकाखण्डवाक्यबोदार्थमेते वर्णपदवाक्याखण्डपदस्फोटा उपायाः। तदुक्तम्-
उपायाः शिक्षमाणानां बालानामुपलालनाः।
असत्ये, वर्त्मनि स्थित्वा ततः सत्यं समीहते।। इति।
सुप्तिङन्तं पदमिति, एकतिङन्तार्थमुख्यविशेष्यकं वाक्यमिति पदवाक्यलक्षणानाक्रान्तवर्णसमूहस्य वर्णस्य वा प्रकृतिप्रत्ययरूपस्य व्याकरणेन गृहीतशक्तिकस्य पच् तिप् इत्यादिकस्य वाचकत्वे वर्णस्फोटः। ते च प्रयोगसमवायिनो विसर्गतिबादयो न तु तत्स्थानित्वेन कल्पिताः सकारलकारादयः, तेषामनियतत्वात्।
तथाहि, विसर्गेण रोः सम्रणं, तेन सोः। एवं णला तिपः स्मरणं, तेन लकारस्य, एवञ्च गौरवं स्पष्टमेव। किञ्च स्थान्यादेशज्ञानशून्यस्यावैयाकरणस्यादेशमात्रादबोधापत्तेश्च। एवञ्च स्थान्येव वाचको लाघवात्, न त्वादेशो गौरवादिति तार्किकोक्तमपास्तम्, विपरीतगौरवापत्तेः। अयं तार्किकाणां पदस्फोटत्वेनाभिमतः, शक्तं पदमिति तैः स्वीकृतत्वात्।
तच्च मानाभावात् फलाभावात्स्वग्रन्थवीरोधाच्चायुक्तमिति शाब्दिकाः। तथा हि, शक्तं पदं चतुर्द्धा-रूढं यौगिकं योगरूढं यौगिकरूढं चेति। गौः। पाचकः, पङ्कजम्, अश्वकर्णः, इति क्रमेणोदाहरणानि। तत्र `पाचकः' इति यौगिकोदाहरणे यच्छक्तं पदं पच् अक इति, न तद्यौगिकं, समुदायस्तु यद्यपि यौगिकस्तथापि न शक्तः। एवञ्च शक्तं पदं यौगिकमित्यविचारिताभिधानम्। विशिष्टशक्त्यभावे सति व्याकरणबोधितार्थप्रकृतिप्रत्ययसमुदायरूपसुबन्ततिङन्तपदत्वं यौगिकपदत्वम्। सत्यन्तं योगरूढातिव्याप्तिवारणाय, तत्र विशिष्टे शक्तिग्रहात्। एवं गौरिति रूढ्युदाहरणमप्यसङ्गतम्, व्याकरणकल्पितप्रकृतिप्रत्ययार्थप्रत्ययाभावे सति समुदायसुबन्तस्यार्थबोधकत्वे रूढपदत्वं यथा मणिनूपुरादीति रूढिलक्षणानाक्रान्तत्वात्। शास्त्रकल्पितावयवार्थानुसन्धानपूर्वकसमुदायशक्त्याऽर्थबोधकपदत्वं योगरूढत्वम्। यथा पङ्कजादीति। तदाक्रान्तत्वाद्योगरूढत्वं युक्तम्। यौगिकरूढ इति तार्किकोक्तो भेदेऽपि न युक्तः, सकृदुच्चरितः सकृदर्थं प्रत्याययतीति न्यायान्मण्डपपदं गृहविशेषे रूढं भिन्नं, मण्डपानकर्तरि भिन्नमिति अतिरिक्तभेदस्वीकारे मानाबावात्।
एवं रूढिलक्षणायाः `कर्मणि कुशलः' इत्युदाहरणमप्ययुक्तम्, उक्तरीत्या कुशले रूढत्वस्य कुशादानकर्त्तरि यौगिकत्वस्य सम्भवात्। द्विरेफपदं भ्रमरे रूढमेव, कोशे भ्रमरपर्याये उपादानात्। नहि कोशे लाक्षणिकोपादानं पर्यायेष्वस्ति। एवञ्च स्ववाच्यपादवाच्यत्वसम्बन्धेन द्विरेफपदस्य भ्रमरे लक्षणेति तार्किकोक्तमपास्तम्, अक्रूरेऽपि उक्तसम्बन्धसत्त्वेन तत्रातिव्याप्तेश्च।
यद्वा, एकाक्षरकोशावधृतशक्तिकानां सर्वेषां वर्णानामेव स्फोटत्वम्, "अर्थवन्तो वर्णाः" इत्यनेन भाष्ये तथा प्रतिपादनात्। न चैवं धनं, वनमित्यादौ प्रातिपदिकसंज्ञापत्तिः, समुदायशक्तेः स्वाश्रयशक्ततावच्छेदकानुपूर्वीभङ्गजनकार्थकार्यं प्रति प्रतिबन्धकत्वात्-1--1.अवयवनिष्ठशक्तिनिरूपकार्थविषयकशाब्दबोधं प्रति समुदायनिष्ठशक्तिनिरूपकार्थविषयकतात्पर्यज्ञानस्य प्रतिबन्धकत्वादित्यर्थः।-।
यत्तु भूषणे स्फुटति अर्थो यस्मादिति स्फोटः वाचक इति यावदिति केवलयौगिकः स्फोटशब्द उक्तः। तन्न सम्यक्, साधुशब्दानामिवासाधुशब्दानामपि शक्तिसत्त्वेन वाचकत्वाविशेषात्स्फोटत्वापत्तेः। न चेष्टापत्तिः। शाब्दिकैस्तताऽनङ्गीकारात्, लाक्षणिकव्यञ्जकयोरसंग्रहापत्तेः। न च `शब्दोऽत्र व्यञ्जकस्त्रिधा' इति `अत्र' ग्रहणात्काव्यएव व्यञ्जको न व्याकरणे इति भ्रमितव्यम्, पदेन स्फोटोऽखण्डो व्यज्यत इति वदद्भिस्तत्स्वीकृतत्वात्।
ननु तार्किकमते ईश्वरेच्छा शक्तिः। मीमांसकमते अतिरिक्ता पदार्थान्तरं, नवीनतार्किकैरीश्वरेच्छाज्ञानं वा कृतिर्वेति विनिगमनाविरहान्मीमांसकमतमेवाङ्गीकृतम्। उभयथाऽपि साधुष्वेव सा, नासाधुषु। अन्यथा शक्तिमत्त्वं साधुत्वम् इति साधुत्वलक्षणाक्रान्तत्वेनासाधूनामपि साधुत्वापत्तेः, शक्तिग्राहकव्याकरणकोशादेरभावाच्च; इति चेत्? न, तत्र शक्त्यभावेन तेभ्यो बोधानापत्तेः।
न च शक्तिभ्रमात्साधुशब्दस्मरणाद्वा बोध इति तार्किकोक्तं युक्तम्, साधुशब्दस्मरणं विनापि व्युत्पन्नानामपि बोधस्यानुभवसिद्धत्वात् गौरवाच्च। भ्रमाद्बोध इत्यपि न, रजतभ्रमाद् गृहीतायाः शुक्ते रजतव्यवहारानाधायकत्ववच्छक्तिभ्रमाज्जातबोधस्यापि व्यवहारानाधायकत्वापत्तेः। सन्मात्रविषयिण्या ईश्वरेच्छायास्तत्र अभावस्य वक्तुमशक्यत्वात्।
किञ्च शक्तिभ्रमः कस्य, सर्वव्यवहारकर्त्तुरीश्वरस्योतान्यस्य? नाद्यः ईश्वरस्य भ्रमित्वानुपपत्तेः। नान्त्यः, सर्गादौ प्रयोज्यप्रयोजकस्वरूपसाध्वसाधुशब्दव्यवहारकर्त्रीश्वरादन्यस्याभावात्। यथा पुण्यपापोभयजनिकाऽर्थसृष्टिरीश्वरकर्त्तृका तथैव साध्वसाधूभयविधशब्दसृष्टिरपीश्वरकर्त्तृकैव। तथा च भ्रम इति अयुक्तमेव। न च तटस्थबालस्यानुमितिभ्रमः, साधुशब्देष्विवासाधुशब्देष्वपि शक्त्यनुमापकसामग्रीसत्त्वेन बाधकाभावेन न भ्रमत्वायोगात्।
नन्वसाधुष्वपि शक्तिस्वीकारे शक्तिमत्त्वं साधुत्वमिति तार्किकलक्षणाक्रान्तत्वात्साधुत्वापत्तिः। तथा च "न म्लेच्छितवै नापभाषितवै" इति निषेधानवकाशः-इति चेत्? न, लाक्षणिकानामसाधुतापत्तेः। न च वृत्तिमत्त्वं तत्, शक्तिलक्षणान्यतरत्वनिवेशे गौरवात्।
तस्मात्पुण्यजनकतावच्छेदकजातिविशेषः साधुत्वं, प्रत्यवोयजनकतावच्छेदकश्चासाधुत्वम्। यद्वा, व्याकरणबोध्यत्वं साधुत्वं, तद्भिन्नत्वमसाधुत्वम्। तथा चैकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग् भवतीति। व्याकरणेनार्थविशेष प्रकृतिप्रत्ययेन व्युत्पादित इति ज्ञातः। तादृशार्थविशेषे प्रयुक्तः। तेन गोणीशब्दस्य गोण्योमेव साधुत्वं न गवि।
विनिगमनाविरह इत्यपि न युक्तम्। अन्यतरपक्षपातिनी युक्तिर्हि विनिगमना। सा च ज्ञानस्य पूर्वाभिव्यक्तिरूपा प्रकृतेऽस्ति। अत एवेश्वरज्ञानं शक्तिरिति वर्द्धमानोपाध्यायाः।
शाब्दिकास्तु बोधजनकत्वं शक्तिः। तच्चानादिबोधजनकतावच्छेदकधर्मवत्त्वम्। तदुक्तं हरिणा--
इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा।
अनादिरर्थैः सम्बन्धः शब्दानां योग्यता तथा।। इति।
तज्जनकतावच्छेदकधर्मवत्त्वरूपा योग्यता। न चागृहीतशक्तिकस्य शाब्दबोदानुदयाच्छाब्दबोधे शक्तिग्रहस्य हेतुत्वाद् बोधोत्तरं शक्तिग्रहः शक्तिग्रहोत्तरं बोध इति अन्योऽन्याश्रयः, व्याकरणकोशादिना शक्तिग्रहात्। अन्यथेश्वरेच्छा शक्तिरिति पक्षेऽपि शक्तिग्रहोत्तरं बाधः बोधोत्तरं शक्तिग्रह इति अन्योऽन्याश्रयस्य तुल्यत्वात्।
यद्वा, शब्दार्थयोरनादिसम्बन्धः शक्तिः मम तु प्रतिभाति। शक्तिः सामर्थ्य, यथा दीपादौ तेजसि ग्राह्यत्वग्राहकत्वसामर्थ्यं, वन्ह्यादौ दाहकत्वसामर्थ्यम्, इन्द्रियादौ विषयप्रकाशनं, तत्स्वरूपसदेवोपयुज्यते न तु ज्ञातम्। एवं शब्देऽपि ग्राह्यत्वग्राहकत्वसामर्त्यं स्वरूपसदेवोपयुक्तं न तु ज्ञातम्। न चागृहीतशक्तिफस्यापि बोदापत्तिः, सन्निकर्षादिवत् बोदाबावप्रयोजकीभूताभावप्रतियोगितात्पर्यग्रहाभावात्। न च नानार्थेष्वेव तात्पर्यग्रहस्य कारमत्वमिति चेत्? सत्यम्, शाब्दिकमते सर्वेषां नानार्थत्वात्। अत एव "वृद्धिरादैच्"(पाoसूo1-1-1)इति सूत्रे भाष्ये "अनेकशक्तेः शब्दस्य" इत्युक्तम्। अनेकेष्वनेका वा शक्तिरस्येति विग्रहः। अवच्छेदकभेदे शक्तिभेद इति तार्किकादिसिद्धान्तः। लाघवाच्छक्तिरेकैवेति शाब्दिकराद्धान्तः।
न चान्यायश्चानेकार्यत्वमिति वाच्यम्, भवन्मतेऽपि तुल्यत्वात्। एतावान् परं भेदः-त्वन्मते वृत्तिभेदेन, मन्मते तु एकया वृत्त्या। न च लक्षणोच्छेदापत्तिः, इष्टत्वात्। यथा भवद्भिः सर्वानुभवसिद्धाऽपि व्यञ्जना लाघवान्न स्वीक्रियते। तत्र च व्यञ्जनोच्छेदापत्तेरदूषकत्ववन्मन्मतेऽपि लाघवाच्छक्त्यैव निर्वाहे लक्षणोच्छेदापत्तेरदूषकत्वात्।
वस्तुत एकवृत्त्यैव निर्वाहे अनेकवृत्तिकल्पनमन्याय्यमित्येव तदर्थः, अर्थपदस्य वृत्तिपरत्वात्। अन्यायश्चेत्यस्य लाघवमूलत्वात्।
न चानन्यलभ्यः शब्दार्थ इति वाच्यम्, तस्य लक्षणया लभ्ये शक्तिकल्पनमन्याय्यमिति नार्थः, किन्तु संसर्गमर्यादया सिद्धे शक्तिकल्पनमयुक्तमिति तदर्थात्।
एवञ्च शाब्दिकानां शब्दवद्वन्हौ अतिरिक्तशक्तिस्वीकारः। तार्किकाणां तु शब्दे शक्तिस्वीकारः वन्हौ तु नेत्यर्द्धजरतीयस्वीकारोऽनुचितः। न चोत्तेजकाभावविशिष्टमण्यभावेनोपपत्तौ तत्स्वीकारो व्यर्थ इति वाच्यम्, गुरुभूतविशिष्टस्य कारणतावच्छेदकत्वस्वीकारापेक्षया लघुभूतस्वीकृतारिक्तशक्तिसम्बन्धस्यैवोचितत्वात्। किञ्च शाब्दिकमते भेदसहिष्णुरभेदस्तादात्म्यम्। गुणत्वद्रव्यत्वादिना भेदेऽपि गुणं विना द्रव्यानुपलम्भाद् द्रव्यं विना गुणानुपलम्भाच्च तयोस्तादात्म्यम्। एवञ्च समावायो यत्र तत्र तादात्म्यमिति ब्यवहारः। तथा च तैः गुणं प्रति घटस्य पूर्ववर्त्तित्वासम्भवेन कारणत्वाभावादन्यथानुपपत्त्या विशिष्टस्यैव कारणतावच्छेदकत्वमह्गीकृत्य गुणविशिष्टघटं प्रति गुणविशिष्टकपालस्य कारणत्वमिति स्वीकृतम्।
तार्किकैस्तु विशिष्टस्य कारणतानवच्छेदकत्वाद्विशिष्टस्य कारणत्वासम्भवान्निर्गुणणघटोत्पत्तिः स्वीकृता, तत्र च गुणाश्रयत्वरूपद्रव्यत्वलक्षणानाक्रान्तत्वाद् गुणसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वमिति निष्कर्षः कृतः।
सोऽयुक्त इति मम भाति। तथाहि, प्रतिबन्धकोत्तेजकाभ्यां वन्हौ ज्ञाताऽपि शक्तिरुत्तेजकाभावविशिष्टमण्यभावस्य कारणत्वं स्वीकृत्यातिरिक्ता शक्तिः खण्डिता, शब्दे च सा स्वीकृता। एवं विशिष्टस्य तत्र अवच्छेदकत्वं स्वीकृत्येह नेत्युक्त्वा खपुष्पवन्निर्गुणघटोत्पत्तिः स्वीकृता। सर्वेषामनुभवानारूढत्वादेतत्सर्वमयोग्यमिति दिक्।
शाब्दिकस्तु शब्दवद्वन्हौ कर्णविवरवर्त्तिनभसि चातिरिक्ता शक्तिः स्वीकृता। सैव श्रोत्रं, शक्तिविशिष्टं नभे वा। एवञ्च दूरस्थभेरीशब्दस्य स्वस्थानस्थितस्यैव श्रोत्रस्य दीपवत् प्रकाशनसामर्थ्यम्। एवञ्च वीचीतरङ्गन्यायेन भेरीशब्दस्य श्रवणदेशागमनमिति न मनोरमम्, साक्षात् भेरीशब्दं शृणोमीत्यनुभवापलापापत्तेः अनेकशब्दकल्पने गौरवाच्च। न च श्रोत्रमेव तत्र गच्छतीति युक्तम्, आकाशस्य गमनासम्भवात् कर्णविवरे आकाशाबावप्रसङ्गाच्च। श्रोत्रोन्द्रियं गुणमात्रसाक्षात्कारजनकम्।
केचित्तु श्रोत्रेन्द्रियवद्रसनेन्द्रियघ्राणेन्द्रिययोरपि गुणमात्रसाक्षात्कारजनकत्वमिति वदन्ति।
तदयुक्तमित्यपरे। तथाहि, शब्दस्याकाशगुणत्वात्समवायेन साक्षात्सम्बन्धसत्त्वे केवलप्रत्यक्षसम्भवेऽपि रसृगन्वयोस्तु संयुक्तसमवायः सन्निकर्षः। स च द्रव्यसम्बन्धे घटते इति परम्परासम्बन्धः। तत्र द्रव्यसाक्षात्कारसन्निकर्षसत्त्वेन द्रव्यं विना केवलगुणस्यासत्त्वेन च केवलगुणसाक्षात्कारासम्भवः। तस्माद् द्रव्यविशिष्टगुणसाक्षात्कारजनकत्वं तयोः, न तु गुणविशिष्टद्रव्यसाक्षात्कारजनकत्वम्; अनुभवेन तथैव शक्त्युन्नयानात्। चक्षुरिन्द्रियत्वागिन्द्रिययोस्तु गुणविशिष्टद्रव्यं द्रव्यविशिष्टो वा गुण इत्युभयविधसाक्षात्कारजनकत्वम्। विस्तरस्तु मत्कृतशब्दार्थतर्कामृते द्रष्टव्यो गौरवभयान्नेह तन्यते इति दिक्।
प्रकृतमनुसरामः। असाधुशब्दस्य वाचकत्वेऽपि व्याकरणप्रतिपाद्यत्वाभावात्स्फोटत्वाभावः। तदन्तर्गतवर्णानां तु एकाक्षरकोशावधृतशक्तिकानामर्थान्तरप्रकाशकत्वे पदस्फोट इति पदस्फोटे विवेचयिष्यते। अनुकरणशब्दानां तु अनुकार्यानुकरणयोर्भेदविवक्षयाऽनुकार्यरूपार्थप्रतिपादकत्वात् स्फोटत्वम्। ननु साध्वनुकरणस्य साधुत्वेन स्फोटत्वेऽप्यसाध्वनुकरणस्यासाधुत्वात्कथं स्फोटव्यवहार इति चेत्? न, असाध्वनुकरणस्यापि साधुत्वस्वीकारात्। दैत्यैर्हेऽरय इति प्रयोक्तव्ये हेऽलय इति प्रयुक्तं, तदनुकरणं हेलयो हेलय इति कुर्वन्तो न पराबभूवुरिति, न वाक्येऽपि तस्यासाधुत्वम्, तथा यद्बानः तद्वानः भवतु इत्यर्थे यर्वाणस्तर्वाणः भवतु इति प्रयुक्तं, तदनुकरणं कुर्वन्तो यर्वाणस्तर्वाणो नाम ऋषयो बभूवुरिति, न वाक्येऽपि तस्यासाधुत्वं कस्यापि सम्मतम्। तस्मादसाधोरनुकरणस्य साधुत्वं सर्वसम्मतम्। तत्र यदा तयोरभेदविवक्षा तदाऽर्थप्रकाशकत्वाभावान्न स्फोटत्वम्। शुद्धब्रह्मज्ञानाय सर्वबहिर्भूतान्नमयकोशवदखण्डवाक्यबोदनाय वर्मस्फोट इति दिक्।
।। इति वर्णस्फोटः ।।
अथ पदस्फोटो वर्णस्फोटापेक्षया अन्नमयकोशापेक्षयाऽन्तरङ्गप्राणमयकोशवदन्तरङ्गो निरूप्यते। अन्तरङ्गत्वं तु साक्षाद्वाक्यघटकत्वेन। वर्णस्य बहिरङ्गत्वं पदनिष्पत्तिद्वारा तद्‌घटकत्वम्। पदस्फोटो द्विधा-सखण्‍डोऽखम्डपदस्फोटः `पचति' `रामः' इत्यादिसुबन्ततिङन्तरूपः, शक्तं पदमिति मते स एव वाक्यस्फोटस्तार्किकाणाम्।।
अथाखण्डपदस्फोटो निरूप्यते। स च सर्वैः पदस्थितवर्णैर्व्यज्यते। स चार्थप्रत्यायक इति शाब्दिकसिद्धान्तः। न च प्रतीतस्य प्रत्यायकत्वन्नास्ति, अन्यथा शब्दं वेत्तीत्यत्रार्थं वेत्तीति प्रत्ययापत्तेरिति अणुदित्सूत्रस्थभाष्यविरोधः। तस्य समान्यतः प्रतीतस्य प्रत्ययकत्वं नास्तीति नार्थः, किन्तु शब्दसंज्ञया प्रतीतस्य शब्दस्येति, प्रकरणानुरोधेन तस्य सङ्कोचात्। एवञ्च रहसि पुस्तकमीक्षमाणस्यार्थप्रत्ययानापत्तिमाशङ्क्य तत्रापि सूक्ष्मोच्चारणमस्त्येवेति नव्योक्तमपास्तम्, अनुभवविरोधाच्च।
यत्त्वत्र तार्किकवेदान्तिनः-यावद्वर्णव्यङ्ग्यो वा यत्किञ्चिद्वर्णव्यङ्‌योवा चरमवर्णव्यङ्ग्यो वा सः? न तावदाद्यः आशुविनाशिनां मेलनासम्भवात्। न द्वितीयः, पशब्देनैव व्यञ्चिते स्फोटे टवर्णवैयर्थ्यम्। न तृतीयः, पूर्वपूर्ववर्णानुभवजन्यसंस्कारसहितचरमवर्णेनैवार्थप्रतीतिसिद्धौ किं स्फोटेनेति।
तन्न, वर्णानामाशुविनिशित्वे मानाबावात्। न चोत्पन्नो गकारः, नष्टो गकार इति प्रतीतिर्मानम्। "तस्माच्चाकाशः सम्भूतः" इतिवदाविर्भावतिरोभावेनाप्युपपत्तेः अनन्तप्रागभावध्वंसकल्पने गौरवाच्च। अनित्यत्वेऽपि वर्णानुभवजन्यसंस्कारजन्यस्मृतौ मेलनसम्भवात्।
द्वितीयेऽपि न द्वितीयादिवर्णवैयर्थ्यम्, पशब्दोच्चारणे किं पस्फोट उप पटस्फोट उत पटः स्फोट इति सन्देहनिवर्त्तकत्वेन सार्थक्यात्।
तृतीये यथा पटपदशक्यः विजातीयतन्तुसंयोगविशिष्टचरमसंयोस्यैव पटकार्यकारित्वेऽपि अतिरिक्तोऽवयवी स्वीक्रियते, तथा मयाऽपि स्वीक्रियते। न च तथाऽनुभवादतिरिक्तः पटः, स्फोटेऽपि तुल्यत्वात् गौरवाच्च।
स्फोटे तु लाघवं कथमिति चेत्? शृणु, ध्वनिभिरेव स्फोटो व्यज्यते। एवञ्चानन्तवर्णतत्प्रागभावध्वंसकल्पना, नदी दीन सरो रसजरा राज इत्यादौ भिन्नार्थप्रतीत्यर्थमानुपूर्व्याः पूर्ववर्णानुभवजन्यसंस्कारसहितचरमवर्मस्य कारणता च न वाच्येत्यतिलाघवम्। त्वया तु तद्वाच्यमिति गौरवम्। एतावत्प्रघट्टकेन वर्णातिरिक्तः वर्णव्यङ्ग्यः-
चैतन्ये सर्वभूतानां शब्दब्रह्मेति मे मतिः।
इति शब्दब्रह्मरूपोऽतिरिक्तः स्फोटस्तार्किकादिदूषणाभासनिरसनपूर्वको व्याख्यातः।
प्रकारान्तरेणाप्युच्यते। अखण्डपदस्फोटो नातिरिक्तः। यत्र तार्किकादिभिर्यौगिकं योगरूढं च पदमित्युच्यते `पाचकः' `पङ्कजम्' इत्यादि, तदेवास्माभिः सखण्डपदस्फोटत्वेन व्यवह्रियते, खण्डशक्यनुसन्धानपूर्वककोशादिना समुदायशक्तिग्रहात्। यस्य तु व्याकरणज्ञानशून्यस्य केवलव्यवहारेण समुदायशक्तिग्रहस्तस्य स एवाखण्डपदस्फोटः। यत्तु रूढं पदं मणिनूपुरादि वः नः इत्यादि, तत्सर्वेषामपि अखण्डपद स्फोटत्वेनाभिमतम्, तत्र सर्वेषामपि अवयवार्थज्ञानाभावविशिष्टव्यवहारेण समुदाये शक्तिग्रहात्। एवञ्च रूढयौगिकपदयोः सखण्डाखण्डस्फोटयोश्च पर्यायत्वे नाममात्रे विवाद इति दिक्। एवञ्च तार्किकादीनां दूषणाभासा गर्भस्रावेणैव पराहता इति दिक्।
नहि तार्किकादितर्का एव सत्तर्का इति नियमः, तत्रापि बहुशोऽनुभवाविषयासत्तर्कदर्शनात्। तथा हि विशिष्टस्य कार्यत्वकारणत्वेनैव सिद्धौ निर्गुमघटोत्पत्तिरयुक्तेति पूर्वमुक्तम्। तथा रूपस्य व्याप्य वृत्तित्वनियमाद् घटस्य प्रत्यक्षान्यथानुपपत्त्या स्वीक्रियमाणातिरिक्तं चित्रं रूपमिति कल्पनाऽप्ययुक्तैव, तादृशनियमे प्रमाणाभावात्। अस्तु वा नियमः, तथापि-1--1.`तत्तद्‌द्रव्यापच्छिन्न' णुद्रिते।-तत्तद्‌रूपाविच्छिन्नतत्तदवयवसन्निकर्षसहितच रमरूपावच्छिन्नचरमावयवसन्निकर्षेणैव घटसाक्षात्कारसिद्धौ अतिरिक्तचित्ररूपस्वीकारे गौरवात्। एवं विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात्तस्य चायं घट इत्यादावसम्भवात् घटघटत्वयोः सम्बन्धानवगाहिनिर्विकल्पकज्ञानकल्पनाऽप्ययोग्यत्वादयुक्तैव। नित्यसम्बन्धातिरिक्त संयोगसम्बन्धादावेव तत्कल्पना `दण्डी पुरुषः' इत्यादौ, न तु `अयं घटः' इत्यादौ, तत्र विशिष्टज्ञानस्यैव जायमानत्वात्। एवञ्च निर्विकल्पकज्ञानं न स्वीकार्यमिति महल्लाघवम्।
एवमखण्‍खण्डभेदेन कालद्वैविध्यकल्पनमप्यनुक्तमेव, अखण्डस्य व्यवहारानादायकत्वात्। न च-
जन्यानां जनकः कालो जगतामाश्रयो मतः।
इति जगदाधारत्वेन जनकत्वेन च तत्स्वीकारः, ईश्वरस्यैव तत्प्रसिद्धत्वात्। न च पदार्थखण्डने `दिक्कालो नेश्वरादतिरिच्येते' इत्यादिनाऽस्माभिस्तदुक्तमिति वाच्यम्, तत्र दिक्कालयारेवे विशिष्येश्वराभेद उक्तः। स च "सर्वं खल्विदं ब्रह्म" इति श्रुतिविरुद्धः। तथा "यतो वा इमानि भूतानि जायन्ते" "तस्मिन्सर्वं प्रतिष्ठितम्" इत्यादिश्रुतिभिर्जगत्‌कर्तृत्वं जगदाधारकत्वं चेश्वरस्यैव, न तु कालस्य। तेन "जन्यानां जनकः कालः" इत्यस्य पृथिव्यादिसप्तपदार्थानामपीश्वराभेदेन विशिष्योभयोरेव तदभेदप्रतिपादनस्य चायुक्तत्वात्।
एवं खण्डकालोऽप्ययुक्तः। सूर्यगतिविशेषरूपोपधिभेदेन हि खण्डकालः। एवञ्च सूर्यगतिविशेषस्यैवास्तु खण्डकालत्वं किं तदतिरेकेण। तथा च खण्डकालस्य क्रियात्वम्।
एवं पीलुपाकवादिभिः परमाणौ पाकं स्वीकृत्य श्यामघटनाशः रक्तघटोत्पत्तिः स्वीकृता, तत्र चक्रदण्डादिनिमित्तकारणाभावात्कथमुत्पत्तिः। निमित्तकारणं विनाऽपि तत्स्वीकारे दण्डचक्रादीनां निमित्तकारणतैवोच्छिद्येत। एवंविधाऽनेकानुभवानारूढगुरुभूततर्काश्रयणं लाघवमूलातिरिक्ताखण्डस्फोटखण्डनं दूषणाभासैरनुचितमिति दिक्।
वाक्यार्थज्ञानं प्रति पदार्थज्ञानस्य कारणत्वात्पदस्फोटं निरूप्य वाक्यस्फोटो निरूप्यते। स चाखण्डसखण्डभेदेन द्विधा। तत्राखण्डः पदातिरिक्तोऽखण्डपदव्यङ्‌ग्यो लाघवात्स्वीक्रियते। तच्चाखण्डपदस्फोटे निरूपितम्। अन्यच्चाकाङ्क्षायोग्यतासत्तीनां कारणता न वाच्येति महल्लाघवम्। सखण्डस्तु प्रसिद्ध एव। यद्वा, `हरेऽव' इत्यादौ एकादेशे कृते पदविभागो दुर्वारस्तत्राखण्डवाक्यस्फोटोऽन्यत्र सखण्ड इति विवेकः। एवञ्च दूषणानां गर्भस्राव एव। तत्र वाक्यं नामैकतिङन्तार्थमुख्यविशेष्यकम्। यथा `पचति भवति' इति। तत्रापि पचतीत्यस्य विशेष्य वेऽपि मुख्यविशेष्यत्वाभावान्नाव्याप्ति। तार्किकास्तु पूर्वापरग्रन्थैकवाक्यताप्रतिपत्तये "अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चोद्विभागे स्यात्"(जैoसूo2-1-46)इति मीमांसासूत्रमुपन्यस्य `विशेष्यभूतभावनैकत्वात्' इति "अर्थैकत्वात्" इत्यस्य तेषामर्थं त्यक्त्वा। `तात्पर्यविषयैक्यम्' इति स्वयं तदर्थं व्याख्याय, प्रत्यक्षानुमात्तयोरेकवाक्यत्वमुक्तम्। स्वातन्त्र्ये यद्यत्संङ्गतिमत्तदेकं वाक्यमिति वक्तव्यं, न तु यत्किंचिदर्थकल्पनमुचितं दोषदुष्टञ्च। तथाहि, पठनतात्पर्ये यथैव देवदत्तः पठति तव पुत्रस्तथैव पठतीत्यत्राप्येकवाक्यत्वापत्तिः। न चेष्टापत्तिः, समानवाक्यत्वात्तेआदेशापत्तेः। तथा "स्योनन्ते सदनं करोमि, घृतस्य धारया सुषेवं कल्पयामि" इति सदनप्रतिपादको मन्त्रः प्रत्यक्षग्रन्थवत्। तस्मिन्सीदामृते प्रतितिष्ठ व्रीहिणां मेध सुमनस्यमान इति सादनप्रतिपादको मन्त्रः अनुमानवत्। प्रमामनिरूपणवद्यागाङ्गनिरूपणं तात्पर्यविषयः। एवमनुमानस्य प्रत्यक्षापेक्षत्वेऽपि प्रत्यक्षस्य तदनपेक्षत्ववत् सादनप्रतिपादकमन्त्रस्य सदनप्रतिपादकापेक्षत्वेऽपि सदनप्रतिपादकस्य न तदपेक्षत्वम्। एवञ्चानयोरप्येकवाक्यत्वापत्तिः। न चेष्टापत्तिः, अर्थैक्यादित्यस्य भवदुक्तप्रत्युदाहरणविरोधात्। किञ्चेयं पदैकवाक्यता उत वाक्यैकवाक्यता उत ग्रन्थैकावाक्यता? नाद्यः क्रियाकारकाणामेव तत्सम्भवात्। तयोरेव परस्परमाकाङ्क्षासम्भवात्। उभयाकाङ्क्षायामेव तत्सम्भवेनान्यतराकाङ्क्षायां तदसम्भवाच्च। न द्वितीयः, इतरनिरपेक्षतया सिद्धेनैकवाक्येन सापेक्षेतरवाक्यस्यान्वयो हि सा। प्रकृते च वाक्यसंदर्भरूपग्रन्थयोरेव सा, न तु वाक्ययोः। अनुमानस्थितवाक्यानां `परामर्शजन्यं ज्ञानमनुमितिः' इत्यादिवाक्यानां प्रत्यक्षवाक्याकाङ्क्षाभावाद् आसत्त्यभावाच्च। किञ्च वाक्यैकवाक्यता हि प्रकरणम्, अन्यतराकाङ्क्षा प्रकरणमिति तल्लक्षणात्। तस्याप्येकवाक्यत्वस्वीकारे वाक्यात्प्रकरणस्य दुर्बलत्वप्रतिपादकश्रुतिलिङ्गवाक्यप्रकरणेत्यादिबलाबलाधिकरणविरोधः। न तृतीयः। प्रत्यक्षानुमानयोराकाङ्क्षा आर्थी, न तु शाब्दी। तस्मादत्र सूत्रलिखनं यत्किचिदर्थकल्पनमनुचितम्, शिरोमणिग्रन्थस्तु यद्यत्सङ्गतिमत्तदेकं वाक्यमित्यनेनैव सिद्धत्वादिति दिक्।
प्रकृतमनुसरामः। व्यवहारेण वाक्ये शक्तिग्रहाद्वाक्यस्यैव वाचकत्वाद्वाक्यस्फोटः। न च पूर्वं गृहीताऽपि वाक्ये शक्तिरावापोद्वापाभ्यां त्यक्त्वा पदे गृह्यते इति वाक्यार्थज्ञानम्प्रति पदार्थज्ञानस्य हेतुत्वमिति सर्वसिद्धान्तभङ्गापत्तेः। वाक्यस्फोटो द्विदा सखण्डोऽखण्डश्च। अखण्डो द्विधा वर्णातिरिक्तोऽनतिरिक्तश्च। यदा वर्णा न स्वीक्रियन्ते गौरवात्, लाघवात् ध्वनिभिरेवाखण्डो वाक्यस्फोटो व्यज्यते इति मतं, तदाऽतिरिक्तः। अस्मिन्पक्षे वर्णाभावेन यावद्वर्मव्यङ्‌ग्य इत्यादिदूषणाभासा गर्भस्रावेणैव पराहताः। यदा तु ध्वनिभिर्वर्णाव्यज्यन्ते इति मंत तदा घटमानयेति सखण्डवाक्यस्फोटः, क्रियाकारकयोर्विभागस्य कर्तुं शक्यत्वात्। हरेऽव विष्णोऽवेत्यादौ एकादेशे कृते प्रातिपदिकाख्यातयोर्विभागाशक्यतयाऽनतिरिक्तवाक्यस्फोटः। क्रियाकारकज्ञानशून्यस्यावैयाकरणस्य घटमानयेत्ययमपि अनतिरिक्ताखण्डवाक्यस्फोट एव।
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च।
वाक्यात्पदानामत्यन्तं प्रविवेका न कश्चन।।
इत्ययमखण्डातिरिक्तवाक्यस्फोटप्रकाशः। यथा वर्णे अवयवा न सन्ति तथेत्यर्थः। `पश्य मृगो धावति' `पचति भवति' इत्यादावपि अखण्डसखण्डातिरिक्तानतिरिक्तत्वं पूर्ववदेव बोद्धव्यम्। मृगकर्तृकवर्त्तमानदावनक्रियायाः दृशिक्रियायां कर्मतासम्बन्धेनान्वयः। देवदत्तकर्तृकपचिक्रियाया वर्त्तमानभवनक्रियायामन्वयः। तदुक्तम्-
सुबन्तं हि यथाऽनेकं तिङन्तस्य विशेषणम्।
तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम्।। इति।
यत्तु धावनाकूलकृतिमान् मृग इति प्रथमान्तविशेष्यकशाब्दबोध इतिपक्षे मृगस्य दृशिधात्वर्थनिरूपितकर्मत्वात् द्वितीयापत्तिः, तमित्यध्याहारे च वाक्यभेदापत्तिरित्याशङ्क्य-
पश्य लक्षमण! पम्पायां बकः परमधार्मिकः।
इत्यादाविव वाक्यार्थस्य कर्मत्वान्न वाक्यभेद इति कैश्चित्समाहितम्। तन्मुधैव, अन्तरङ्गधावनाक्रियानिरूपितमृगस्य कर्तृत्वात्तस्य च्ख्यातेनोक्तत्वात्प्रथमोत्पत्तौ बहिर्भूतदृशिधात्वर्थनिरूपितकर्मत्वेऽपि अन्तरङ्गत्वाज्जातसंस्कारबाधे मानाभावेनैव `शक्यञ्च श्वमांसादिभिः क्षुदुपहन्तुम्' इतिवदुपपत्तेः। एवञ्चात्र प्रथमान्तविशेष्यकपक्षेऽपि शाब्दिकदूषणाभावेऽपि एकदेवदत्तकर्तृकपचिक्रियाकर्तृकं भवनमित्यर्थे पचतिभावतीत्येकवाक्यतानापत्तेः-1--1.`नच' मुद्विते-ननु पाकानुकूलकृतिमानेदवदत्तो भवतीत्यर्थे निष्पन्ने"सविशेषणे विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधे" इति न्यायेन क्रियाया एव कर्तृत्वं भविष्यति। एकवाक्यतायां फलाभावाच्च। न च "समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः" इति निधातः फलम्। "तिङ्ङतिङः"(पाoसूo8-1-28)इति अतिङ्ग्रहणेन तदभावात्। सत्यम्। त्वत्सम्बन्धिनी देवदत्तकर्तृका पचिक्रिया भवतीत्यर्थे `देवदत्तः पचति ते भवति' इति प्रयोगे समानवाक्यत्वाभावेनादेशानापत्तेः। अनेकदेवदत्तकर्त्तृकैका पचिक्रियेत्यर्थे `देवदत्ताः पचन्ति भवति' इति प्रयोगोऽपि न स्यात्, अनेककर्तृत्वेन भवतीत्यत्र बहुवचनापत्तेः, `पश्य मृगो धावति' इत्यत्र निघातरूपप्रयोजनसत्त्वाच्च।
किञ्चात्र वाक्यार्थस्य कर्मत्वमिति तार्किकोक्तं न युक्तिमत्। तथाहि, वाक्यार्थोऽतिरिक्तोऽतिरिक्तोऽनतिरिक्तो वा? नाद्यः, तस्य वृत्त्यनुपस्थापितत्वेन दृशिक्रियायां कर्मतयाऽन्वयानुपपत्तेः; वृत्त्युपस्थापितस्यैव शाब्दबोधविषयत्वानियमात्। अन्यथा घटपदात्समवायेनोपस्थिताकाशस्यापि शाब्दबोधविषयत्वापत्तेः। न द्वितीयः। विभक्त्यर्थमद्वारीकृत्य नामार्थस्य धात्वर्थेन समम्भेदसम्बन्धेनान्वयोऽव्युत्पन्नः। अन्यथा `ओदनः पचति' इत्यापत्तेः। न च तत्र वाक्यार्थस्य कर्मत्वं न नामार्थस्येति वाच्यम्, `रमणीय ओदनः पचति' इत्यस्यानापत्तेः। "पश्य लक्ष्मण पम्पायाम्" इत्यादौ तमिति पदाध्याहारेण वाक्यभेद एव। एवञ्च वाक्यार्थस्य कर्मत्वमि-2--2.`मित्यपिचरिता' मुद्वते।-त्यविचारिताभिधानम्। एवं `नीलो घटो भवति' इति वाक्ये नीलकर्तृकभवनाश्रयो घट इति व्युत्पत्तिवादोक्तमपि न युक्तिमत्, नामार्थस्येत्यादिव्युत्पत्तिबाधे मानाभावात नीलो घटो भवनाश्रय इति बोधसम्भवाच्च। सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधे इति विशेषणे नीले एव भवनस्यान्वयो भविष्यतीति दिक्।
एवं "तत्त्वमसि" "सोऽयं देवदत्तः" इत्यादौ सखण्डाखण्डत्वं पृ-1--1.लाघवाद्‌ ध्वनिभिरेव स्फोटो व्यज्यते, वर्णाश्च न स्वीक्रियन्ते गौरनात्तदाऽखण्डो वर्मस्वीकारपक्षे च सखण्ड इति यावत्।-र्ववदेव बोध्यमा "तत्त्वमसि" इत्यत्र तत्पदवाच्यसर्वज्ञत्वादिविशिष्टचैतन्यस्य त्वंपदवाच्येनान्तःकरणविशिष्टचैतन्येनैक्यासम्भवादैक्यसिद्धर्थं स्वरूपे जहदजहल्लक्षणेति साम्प्रदायिकाः।
नन्वनयोरैक्ये कं मानम्? न च नामार्थेति व्युत्पत्तिः। तस्याः किं नामार्थयोरेवाभेदान्वय उत नामार्थयोरभेद एवेति? नाद्यः `स्तोकंपचति' `वैश्वदेवी आमिक्षा' इत्यादौ व्यभिचारात्। नान्त्यः, घटपटौ इत्यादौ व्यभिचारात्। तस्मात्सम्भवति सामानाधिकरण्ये बैयधिकरण्यमन्याय्यमिति लाघवमूलको हि सः।
सत्यम्। "सृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" इति भेदनिन्दापूर्वकाभेदप्रतिपादकश्रुतिर्मानम्। न च तत्रापि यः नाना इति पश्यति स मृत्योर्मृत्युमाप्नोति, यस्तु वस्तुतः नानात्वं पश्यति स नेतीतीवशब्दात्प्रतीयमानार्थेन भेदस्यैव प्रतीतिः, किञ्च राजपुरुष इत्यत्रेव तस्य त्वमिति षष्ठीसमासेनापि भेदस्यैव प्रतीतिः-इति वाच्यम्, छान्दोग्येऽपि "सदेव सौम्येदमग्र आसीत्" इत्यारभ्य "तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो" इत्युपसंहारेणोपक्रमोपसंहारयोरेकरूपेण वेदतात्पर्यनिर्णायकेनैक्यस्य निर्णीततत्वात् "ब्रह्मतम्परादाद्योन्यत्रात्मनो ब्रह्म वेद" इति श्रुत्याऽपि ऐक्यावधारणात्। अस्मिन्पक्षे लाक्षणिकवाक्यस्फोटः।
वस्तुतस्तु अयं वाचकवाक्यस्फोट एव। तथाहि, विशिष्टशक्त्युपस्थापितयोस्तत्त्वंपदार्थयोरबेदान्वयानुपपत्तावपि विशेष्ययोः शक्त्युपस्थापितयोरभेदान्वये बाधकाभावः। यथा `घटोऽनित्यः' इत्यत्र घटपदवाच्यैकदेशघटत्वस्यायोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः। यद्वा, विशेष्ये एव शक्तिः, विशेषणं तूपलक्षणम्। अस्मिन्पक्षे न कोऽपि दोषः। यद्वा, यथा नानार्थस्थले संयोगादिनाऽभिधानियमनं तथाऽभेदान्वयानुरोधाद्विशेष्ये एवाभिधानियमनम्। अस्तु वा लक्षणा, सा च जहल्लक्षणा। तया च विशेषणांशत्यागमात्रं न तु विशेष्येऽपि तस्या उपयोगः, शक्त्यैव तदुपस्थितिसम्भवात्। एवं `सोऽयं देवदत्तः' इत्यत्रापि। तथा च जहदजहल्लक्षणोदाहरणमसङ्गतमिति दिक्।
एवम् `एको वृक्षः पञ्च नौका भवन्ति' इति वाक्ये सखण्डाखण्डत्वे पूर्ववदेव बोध्ये। अत्र तार्किकाः-
गृह्णाति वाचकः सङ्ख्यां प्रकृतेर्विकृतेर्नहि।
इति वचनात्प्रकृत्यर्थवृक्षगतमेकवचनमेव भूधातूत्तरं भवतीत्याहुः। तदयुक्तम्, गृह्णातीत्यस्य च्व्यन्तविषयत्वात्। यथा `संघीभवन्ति बाह्मणाः' `त्वद्भावाम्यहं' `मद्भवसि त्वम्' इत्यादौ वचनपुरुषयोः प्रकृतिगतयोरेव दर्शनात्। ननु सङ्कोचे किं मानम्? सुवर्णपिण्डः खदिराङ्गारसदृशे कुण्डले भवतः" इति भाष्यप्रयोग एव। उद्देश्यविधेयभावस्थले तु उद्दश्यगता सङ्ख्याऽऽख्यातप्रत्यये "शास्त्राणि चेत्प्रमाणं स्युः" इत्यादिषु।
पुनरपि वाक्यं द्विधा-काव्यात्मकमकाव्यात्मकं च। द्वितीय तूक्तम्। आद्यन्तु "तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि" इत्यनेन लक्षितम्। अत्र यावद्दोषाभावो वक्तुमशक्यः, असम्मभवात्। यत्किंञ्चिद्दोषाभावे अदोषपदवैयर्थ्यम्। तस्मान्नञोऽल्प-1--1.तत्सादृश्यमाभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः।। इत्युक्तोः।-त्वमर्थः `अनुदरा कन्या' इतिवत्। अल्पत्वं च स्फुटप्रतीयमानदोषराहित्यम्।
इदं काव्यलक्षणं रसगङ्गाधरे दूषितम्, शब्दार्थयोर्व्यासज्यवृत्तिकाव्यत्वे `काव्यं श्रुतमर्थो न ज्ञातः' इति व्यवहारासम्भवात्।
तदसमञ्‌जसम्, एकदेशे दग्धेऽपि `पटो दग्धः' इतिवदक्देशेऽपि प्रयोगसम्भवात् "समुदायवृत्ताः शब्दाः क्वचिदेकदेशेऽपि वर्तन्ते" इति भाष्यात्।
तल्लक्षणमेव तु न समञ्जसम्। तथाहि, रमणीयार्थप्रतिपादकशब्दः काव्यम्। रमणीयत्वं च लोकोत्तराल्हादजनकज्ञानविषयत्वमिति तल्लक्षणम्। इदञ्च `तत्त्वमसि' इत्यादावनतिव्याप्तम्। न चाल्हादे वैजात्यम्। किन्ततः? लोकोत्तराल्हादजनकज्ञानविषयत्वस्योभयत्र तुल्यत्वात् ब्रह्मानन्दत्वेन सर्वैर्वर्णितत्वाच्च। किञ्च रमणीयपदस्य रमणीयार्थप्रतिपादकत्वमस्ति न वा? नाद्यः, रमणीयशब्दस्यापि रमणीयार्थप्रतिपादकशब्दत्वेन काव्यत्वापत्तेः। इदं च भाष्ये "अपशब्दार्थकः शब्दोऽपशब्द इति चेन्न, अपशब्दस्यापि अपशब्दत्वापत्तेः" इत्यनेन ध्वनितम्। नान्त्यः, रमणीयार्थप्रतिपादकत्वाभावे लक्षणत्वानुपपत्तेः। तस्मात्प्रकाशोक्तमेव लक्षणं सम्यक्।
एवं `वन्हिना सिञ्चति'इति वाक्यस्फोट एव। ननु वाक्यार्थबोधेऽयोग्यतानिश्चयस्य प्रतिबन्धकत्वं योग्यताज्ञानस्य कारणत्वं तार्किकादिसिद्धान्तसिद्धं, प्रकृते च वन्हिः सेककरणं नेति विषयबाधरूपाऽयोग्यतानिश्चयरूपबाधकसत्त्वाद्विषयाबाधरूपयोग्यताज्ञानासत्त्वात्कथमेतस्य वाक्यस्फोटत्वमिति चेत्? सत्यम्, तात्पर्यविषयाबाधो हि योग्यता। तदभावोऽयोग्यता। प्रकृते चात्युष्णजलेन सिञ्चतीति तात्पर्यविषयः। यथा-
अस्य क्षोणिपतेः परार्द्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्षमाणबधिरप्रख्य। किलाकीर्तयः।
गीयन्ते स्वरमष्टभं कलयता जातेन वन्ध्योदरात् मूकानां प्रकरेण वर्मरमणीदुग्धोदधे रोधसि।।
गगनं गगनाकारं सागराः सागरोपमाः।
रामरावणयोर्युद्धं रामरावणयोरिव।
कैलासस्य प्रथमशिखरे वेणुसंमूर्च्छनाभिः श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम्।
स्रस्तापाङ्गासरसबिसिनीकाण्डसञ्जातशङ्का दिङ्‌मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति।।
पश्य नीलोत्पलद्वन्द्वान्निः सरन्ति शिताः शराः।
इत्याद्यालङ्कारिकवाक्येषु `गङ्गायां घोषः' इत्यादौ `तत्त्वमसि' इत्यादौ च तात्पर्यविषयाबाधो योग्यत्वमिति सर्वसिद्धान्तः, तथाऽत्रापि। यद्वा, शाब्दबोधेऽयोग्यतानिश्चयस्य न प्रतिबन्धकत्वं तत्सत्त्वेऽपि `त्वं बृहस्पतिः' इति स्तावकवाक्यात्सन्तोषोपलब्धेः `नाहं रण्डापुत्रः' इति बाधनिश्चये सत्यपि `त्वं रण्डापुत्रः' इति वाक्यात् क्रोधोपलब्धेश्च; शाब्दबोधाभावे एतदनुपपत्तेः। किञ्च `पश्य नीलोत्पलद्वन्द्वात्' इत्यादिसाध्यवसानादिलक्षणास्थले शरा नीलोत्पलद्वन्द्वोपादानका नेत्ययोग्यतानिश्चये सति तद्वाक्यश्रवणानन्तरं वाक्यीयबोदोत्तरमयोग्यतानिश्चयः पूर्वं वा? नाद्यः, बाधनिश्चये सति बोधाभावात्। नान्त्यः, बोधाभावेऽन्वयानुपपत्तेरभावात्। न हि स्वरूपसती अन्वयानुपपत्तिर्लक्षणाबीजम्, किन्तु ज्ञाता। न च पूर्वमयोग्यतानिश्चयसत्त्वेन तज्ज्ञानमप्यस्त्येवेति वाच्यम्, वाक्यार्थबोधजन्यान्वयानुपपत्तिज्ञानस्य पूर्वमभावात्। गङ्गा गोषाधिकरणं नेति नौकिकज्ञानसत्त्वे `गङ्गायं धोषः' इति वाक्याद्गङ्गाधिकरणको धोष इति बोधोत्तरमन्वयानुपपत्तिर्हि अनुभवसिद्धा। न च तस्याः पूर्वं ज्ञानं सम्भवति। नच भ्रमात्मको बोध इति तार्किकोक्तं युक्तिम्, अयोग्यतानिश्चयस्य प्रतिबन्धकत्वं योग्यताज्ञानस्य कारणत्वं प्रकल्पनीयम्, भ्रमात्मको बोधश्च कल्पनीय इति महद्गौरवम्। स्फोटवादिनां त्रितयमपि न कल्प्यमिति लाघवम्; वाक्यार्थबोधजन्यप्रवृत्तावेव तत्स्वीकारात्। किञ्च `नाहं परमेश्वरः' इति बाधनिश्चये सति `तत्त्वमसि' इति वाक्याद्बोधाभावे भ्रमात्मकबोधे वा न प्रमात्मकं ज्ञानं सम्भवति, भ्रमात्मकबोधस्य प्रमात्मकबोधजननायोग्यत्वात्। एवं `दशमस्त्वमसि' इत्यत्रापि।
ननु अनेकवर्णातिरिक्तोऽनेकध्वनिव्यङ्ग्योऽखण्डवाक्यस्फोटः कः पदार्थ इति चेत्? शृणु। यथा तार्किकैः पूर्वोक्तमद्रीत्या गत्यन्तरसम्भवेऽपि चित्ररूपमतिरिक्तं स्वीक्रियते, यथा शाब्दिकैः रेफद्वयाज्भागविशिष्ट एको वर्णः "ऋति ऋ वा लृति लृवा" इत्यत्र वार्त्तिके स्वीक्रियते, यथा वा "सिद्धमेतत् सस्थानत्वादैचोश्चोत्तरभूयस्त्वात्" इतिवार्त्तिकेऽनेकाचामेकवर्णात्मकत्वमुक्तं तथा मयापि अनेकध्वनिव्यङ्ग्यः वाक्यात्मक एको वर्ण इति स्वीक्रियते। स च शब्दब्रह्मरूपः। तत्र मतत्रयम्-
शब्दब्रह्मेति शब्दार्थः शब्दमित्यपरे जगुः।
चैतन्येसर्वभूतानां शब्दब्रह्मेति मे मतिः।। इति।
शब्दब्रह्मेतिनिर्वचनेनापि तस्य वर्मत्वं सिद्धम्। अनुमानादपि। तथाहि, अखण्डवाक्यस्फोटः एकवर्मरूपः, श्रावणत्वात् ध्वनिव्यङ्ग्यत्वाद्वा, यन्नैवं तन्नैवं, यथा पृथिव्यादि। अन्वयदृष्टान्तस्तु मतान्तरसिद्धवर्णादि।
वस्तुतस्तु अन्वयब्यतिरेक्यनुमानं व्यर्थम्, उपनीतभानेनैव गतार्थत्वात्। तथाहि, यथा चन्दनखण्डस्य लौकिकप्रत्यक्षं सौरभ्यस्यालौकिकं, तथा धूमस्य लौकिकं वन्हेरलौकिकमिति। अस्मिन्पक्षे उपनीतभानमिति विवेकः। यद्वा लाघवाद्दोषाभावाद् ध्वनिव्यङ्ग्यस्यान्यस्याभावाच्च वर्णत्वस्वीकारः। न च ध्वनिव्यङ्ग्यस्य गुणीभूतव्यङ्ग्यप्रभेदे काक्वाक्षिप्तस्यापि अन्यस्य सम्भव इति वाच्यम्, तस्य ध्वनिविकारकाकुव्यङ्ग्यत्वेऽपि ध्वनिव्यङ्ग्यत्वाभावात्।
किञ्च "कामः सङ्कल्पो विचिकित्साश्रद्धाऽश्रद्धा भीः ह्रीः इत्येतत्सर्वं मन एव" इति श्रुत्या कामादीनां मनोधर्मत्वे प्रतिपादितेऽपि तार्किकैरात्मधर्मत्वमुक्तम्। तच्च सर्वैरप्यङ्गीकृतम्। तत्तु भ्रमात्मकम्। तद्बीजं तु यथा जापकुसुमसन्निधाने स्फटिको लोहित इति ज्ञानम्। प्रकृते तु मनःसान्निध्यम् आत्मधर्मे बीजं श्रुतिबाधश्च। स्फोटे तु न तथा। तस्मादेकवर्णात्मकोऽखण्डवाक्यस्फोटो वाचक इति सिद्धम्।।
श्री श्रीमन्मौनिकुलतिलकायमानगोवर्द्धनभट्टात्मजजानकीजानिरघुनाथभट्टात्मजश्रीकृषअणकृतस्फोटचन्द्रिका स्म्पूर्णा।।

"https://sa.wikisource.org/w/index.php?title=स्फोटचन्द्रिका&oldid=402338" इत्यस्माद् प्रतिप्राप्तम्