स्तुतिकुसुमाञ्जलिः

विकिस्रोतः तः



ओं श्रीगणेशाय नमः

काश्मीरक-महाकवि-श्रीमज्जगद्धरभट्ट-विरचितः

स्तुति-कुसुमाञ्जलिः


(१)

ब्रह्मज्ञान-विवेक-निर्भरवपुःकान्त्या जगद् भासयन् दृष्ट्या शन्तमया कृपाप्रवणया तापत्रयं
संहरन् । पीयूषद्रवसिक्तया मधुरया वाचा च सम्मोदयन् दीनोद्धारपरायणो विजयते कारुण्यपूर्णो
गुरुः ॥

(२)

यद्वक्त्राम्बुज-निःसरन्मधु-सुधाधारासु बद्धादरा वीणाया रणनं विहाय वदनाम्भोजे
दधानाऽङ्गुलिम् । वाग्देवी गतचापला चिरतरं सन्तिष्ठते मूकवत् सोऽव्यान्मां भवभीतितो
हरिहरानन्दाऽभिधः सद्गुरुः ॥

(३)

क्वाऽसौ जगद्धरकविः कविचक्रवर्ती स्थाणुश्च [अपीत्यर्थः] यद्रचनया चकितो बभूव । क्वाऽहं
विवेकः विकलः क्व च शम्भुभक्ति- स्तस्प्रादियं खलु ममास्ति विडम्बनैव ॥

(४)

किंवाऽनेन मदीयकातरमनोवृत्तेन चेद्सद्गुरोः कारुण्यस्मितवीक्षणं मयि भवेत्किन्नाम दैन्यं महत् ।
यत्पादाम्बुजचिन्तनेन विविधब्रह्माण्डजन्मस्थली- माया-निर्मित-संभ्रमोत्थित-भियां नामाऽपि न
श्रूयते ॥

(५)

विद्या-गुण-विहीनेऽपि वात्सल्यमुररीकृतम् । मयि येन स शं कुर्यात् कोऽपि देवः कृपापरः ॥

प्रथमं स्तोत्रम्

ह्लादवद्भिरमलैरनर्गलैर्जीवनैरघहरैर्नवैरियम् । स्वामिनः क्लमशमक्षमैः क्षणं रोद्धुमर्हति
मनः सरस्वती ॥ १-१ ॥

अन्वय-यथा सरस्वती (नदी) ह्लादवद्भिः अमलैः अनर्गलैः अघहरैः क्लमशमक्षमैः नवैः जीवनैः
(जलैः) मनः क्षणम् रोद्धुम् अर्हति तथा इयम् [मम] सरस्वती ह्लादवद्भिः अमलैः अनर्गलैः जीवनैः
अघहरैः क्लमशमक्षमैः नवैः (स्तवैः) स्वामिनः (श्रीसदाशिवस्य) मनः क्षणम् रोद्धुम् अर्हति ।

स्वामिनः स्थिरगुणा सवक्रिमा कर्णयोरमृतवर्षिणी मनः । कर्त्तुमर्हति
मुहूर्त्तमुज्झित-स्वैरचापलमियं सरस्वती ॥ १-२ ॥

रम्यरीतिरनघा गुणोज्ज्वला चारुवृत्तरुचिरा रसान्विता । रञ्जयत्वियमलङ्कृता मनः स्वामिनः प्रणयिनी
सरस्वती ॥ ३ ॥

सत्त्वधाम वरलाभयाचितश्लाघ्यवर्ण-विशदा विशत्वियम् । निर्मलं सघनकालविप्लवा मानसं
स्मरजितः सरस्वती ॥ ४ ॥

भक्तितः सपदि सर्वमङ्गला बोधिता निजधियैव मेऽनया । आरिराधयिषतीश्वरं वरं
लब्धुमीप्सितमियं सरस्वती ॥ ५ ॥

ओमिति स्फुरदुरस्यनाहतं गर्भगुम्फितसमस्तवाङ्मयम् । दन्ध्वनीति हृदि यत्परं पदं
तत्सदक्षरमुपास्महे महः ॥ ६ ॥

अन्वय- यत् सत् अक्षरम् गर्भगुम्भितसमस्तवङ्मयम् ओम् इति परम् पदम् [अस्माकम्] उरसि स्फुरत् अनाहतम् [एव]
हृदि दन्ध्वनीति तत् महः [वयम्] उपास्महे ।

भानुना तुहिनभानुना बृहद्भानुना च विनिवर्तितं न यत् । येन तज्झगिति [झटिति इति प्रतिभाति]
शान्तिमान्तरं ध्वान्तमेति तदुपास्महे महः ॥ ७ ॥

अन्वय - भानुना तुहिनभानुना बृहद्भानुना च यत् न विनिवर्तितम् तत् आन्तरम् ध्वान्तम् येन झगिति शान्तिम्
एति तत् महः [वयम्] उपास्महे ।

कीचकादिकुहरेष्विवाऽम्बरं बिम्बमम्बरमणेरिवोर्मिषु । एकमेव चिदचित्स्वनेकधा यच्चकास्ति तदुपास्महे
महः ॥ ८ ॥

अन्वय-कीचकादिकुहरेषु अम्बरम् इव ऊर्मिषु अम्बरमणेः बिम्बम् इव यत् एकम् एव चिदचित्सु अनेकधा चकास्ति तत्
महः (वयम्) उपास्महे ।

तर्ककर्कशगिरामगोचरं स्वानुभूतिसमयैकसाक्षिणम् । मीलिताखिलविकल्पविप्लवं पारमेश्वरमुपास्महे
महः ॥ ९ ॥

अन्वय-तर्ककर्कशगिराम् अगोचरम् स्वानुभूतिसमयैकसाक्षिणम् मीलिताखिलविकल्पविप्लवम् पारमेश्वरम् महः
(वयम्) उपास्महे ।

स्वावभासमयमेव मायया येन भिन्नमवभास्यते जगत् । चित्रमिन्द्रधनुरभ्रलेखया भास्वतेव तदुपास्महे
महः ॥ १० ॥

अन्वय-स्वावभासमयम् एव मायया भिन्नम् जगत् येन अभ्रलेखया चित्रम् इन्द्रधनुः भास्वता इव-अवभास्यते
तत् महः [वयम्] उपास्महे ।

हृद्गुहागहनगेहगूहितं भासिताऽखिलजगत्त्रयोदरम् ।
कन्दकन्दरदरीमुखोद्गत-प्राणमारुतकृतस्थिरस्थितिम् ॥ ११ ॥

त्यक्तसर्वदशमक्षयोदयं रूपवर्जितमभित्तिसंश्रयम् । यं निरञ्जनमनक्षगोचरं दीपमद्भुतमुशन्ति
तं स्तुमः ॥ १२ ॥ [युग्मम् (द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः
स्यात्तदूर्ध्वं कुलकं स्मृतम् ॥]

अन्वय-[ज्ञानिनः] यम् (परमात्मानम्) हृद्गुहागहनगेहगूहितम् भासिताखिलजगत्त्रयोदरम्
कन्दकन्दरदरीमुखोद्गतप्राणमारुतकृतस्थिरस्थितिम् त्यक्तसर्वदशम् अक्षयोदयम् रूपवर्जितम्
अभित्तिसंश्रयम् निरञ्जनम् अनक्षगोचरम् अद्भुतम् दीपम् उशन्ति तम् [वयम्] स्तुमः ।

यस्य शस्यमहसो निरर्गलं योगमाप्य चरणाब्जरेणुभिः । अद्भुतां दधति नीरजस्कतां तं
जगत्पतिमुमापतिं स्तुमः ॥ १३ ॥

अन्वय-शस्यमहसः यस्य चरणाब्जरेणुभिः निरर्गलम् योगम् आप्य (भक्ताः) अद्भुताम् नीरजस्कताम् दधति
तम् जगत्पतिम् उमापतिम् (वयम्) स्तुमः ।

चारुचन्द्रकलयोपशोभितं भोगिभिः सह गृहीतसौहृदम् । अभ्युपेतघनकालशात्रवं
नीलकण्ठमतिकौतुकं स्तुमः ॥ १४ ॥

अन्वय-चारुचन्द्रकलयोपशोभितम् भोगिभिः सह गृहीतसौहृदम् अभ्युपेतघनकालशात्रवम् अतिकौतुकम्
नीलकण्ठम् (वयम्) स्तुमः ।

इच्छयैव भुवनानि भावयन् यः प्रियोपकरणग्रहोऽपि सन् । अप्रियोपकरणग्रहोऽभवत् तं स्वशक्तिसचिवं
शिवं स्तुमः ॥ १५ ॥

अन्वय-प्रियोपकरणग्रहः अपि सन् यः इच्छया एव भुवनानि भावयन् अप्रियोपकरणग्रहः अभवत् तम्
स्वशक्तिसचिवम् शिवम् [वयम्] स्तुमः ।

पद्मसद्म-करमर्दलालितं पद्मनाभ-नयनाब्जपूजितम् । पद्मबन्धु-मुकुटांशु-रञ्जितं
पादपद्मयुगमैश्वरं स्तुमः ॥ १६ ॥

अंघ्रियुग्मममरेशमस्तक-स्रग्भिरुज्ज्वलमुरश्च भस्मभिः । शेखरञ्च हिमरश्मि-रश्मिभिर्यो बिभर्ति
तमुपास्महे विभुम् ॥ १७ ॥

अन्वय-यः अमरेशमस्तकस्रग्भिः उज्ज्वलम् अङ्घ्रियुग्मम् भस्मभिः उज्ज्वलम् उरः च तथा हिमरश्मिरश्मिभिः
उज्ज्वलम् शेखरम् च विभर्ति तम् विभुम् [वयम्] उपास्महे ।

मूर्ध्नि चन्द्रकर-सुन्दरत्विषं फेनपिण्डपरिपाण्डुरस्मिताम् । देहिनां वहति तापहारिणीं
सिद्धसिन्धुमतनुं तनुं च यः ॥ १८ ॥

अन्वय-यः मूर्ध्नि चन्द्रकरसुन्दरत्विषम् फेनपिण्डपरिपाण्डुरस्मिताम् देहिनाम् तापहारिणीम् अतनुम्
सिद्धसिन्धुम् वहति यश्च चंद्रकरसुन्दरत्विषम् फेनपिण्डपरिपाण्डुरस्मिताम् देहिनाम् तापहारिणीम् अतनुम्
तनुम् च वहति (तम् अविषादम् [अविद्यमानो विषादो यस्य सः तम् ।] विषादम् [विषम् (कालकूटम्) अत्तीति
विषादः तम् ।] अहम् आश्रये इत्यग्रिमश्लोकेन सहाऽन्वयः) ।

कर्त्तुमुत्सहत एव सेवको यस्य कस्य न मनः सकौतुकम् । नैति शान्तनव-विग्रहोऽपि सन् भीष्मतां न च
विचित्रवीर्यताम् ॥ १९ ॥

अन्वय-यस्य सेवकः कस्य मनः सकौतुकम् कर्तुम् न उत्सहते [अपि तु सर्वस्यापि मनः सकौतुकम् कर्तुमुत्सहत
इत्यर्थः ।] एव ? यत् (सः) शान्तनवविग्रहः सन् अपि भीष्मताम् न एति विचित्रवीर्यताम् च न एति तम्
अविषादम् विषादम् [अहम्] आश्रये इति पूर्ववत्सम्बन्धः ।

आपतन्तमयमं यमं पुरो यः सविग्रहमविग्रहं व्यधात् । दर्पकं व्यधित योऽप्यदर्पकं तं
विषादमविषादमाश्रये ॥ २० ॥

अन्वय-यः (प्रभुः) पुरः आपतन्तम् सविग्रहम् यमम् अविग्रहम् अयमम् व्यधात् तथा - यः दर्पकम् (कामम्)
अदर्पकम् व्यधित तम् अविषादम् विषादम् अहम् आश्रये ।

अम्बरेण गननेन संवृतं जीवनैः शिरसि वारिभिः श्रितम् । भोगिभिश्च भुजगैर्विभूषितं शङ्करं
शुभकरं भजामहे ॥ २१ ॥

अन्वय-गगनेन अम्बरेण संवृतम् जीवनैः वारिभिः शिरसि श्रितम् भुजगैः भोगिभिः च विभूषितम्
शुभकरम् शङ्करं [वयम्] भजामहे ।

पावकेन शिखिनोपशोभितं भासितं सितरुचा हिमांशुना । भास्वता च रविणा विराजितं
लोचनत्रयमुपास्महे विभोः ॥ २२ ॥

अन्वय-[ललाटे] पावकेन शिखिना उपशोभितम् [वामे] सितरुचा हिमांशुना भासितम् [दक्षिणे] भास्वता
रविणा च विराजितम् विभोः लोचनत्रयम् [वयम्] उपास्महे ।

अभयङ्करमाश्रितं स्वरूपं दधदुद्दामसमग्रधामयोगम् । शुचितारकमीश्वरस्य नेत्रत्रितयं
शूलशिखात्रयं च वन्दे ॥ २३ ॥

अन्वय-[अहम्] अभयङ्करम् स्वरूपम् आश्रितम् दधदुद्दामसमग्रधामयोगम् शुचितारकम् ईश्वरस्य नेत्रत्रितयम्
शूलशिखात्रयम् च वन्दे ।

मीलद्विलोचन-समुद्ग-समुद्गताऽश्रु- श्रोतःस्रु तिस्नपित-मूलकपोलभागाः । देवं शशाङ्ककलया
कलिताऽवतंसं शंसन्ति सन्त इह शङ्कर शङ्करेति ॥ २४ ॥

अन्वय-इह मीलद्विलोचनसमुद्ग-समुद्गताश्र श्रोतःस्रुतिस्नपितमूलकपोलभागाः सन्तः शशाङ्ककलया
कलितावतंसम् देवम् हे शङ्कर ! हे शङ्कर !! इति शंसन्ति ।

भ्रान्तोऽस्मि वैशसमये समयेऽहमत्र मिथ्यैव दिग्भ्रमहतो महतोऽपमार्गान् । विश्रम्य नन्दनवने नवने
शिवस्य खेदस्तु सम्प्रति समेति स मेऽवसानम् ॥ २५ ॥

अन्वय-अहम् अत्र वैशसमये समये दिग्भ्रमहतः सन् महतः अपमार्गान् मिथ्या एव भ्रान्तः अस्मि [दिष्ट्या]
सम्प्रति तु शिवस्य नवने नन्दनवने विश्रम्य सः मे खेदः अवसानम् समेति ।

यत्पार्वणेन्दुकर-सुन्दरवाह-हंस- संवासदुर्ललितयाऽपि वचोधिदेव्या । विश्रम्यते मनसि नः समले
सलीलं- तत्सौभगं भगवतो जयतीन्दुमौलेः ॥ २६ ॥

अन्वय-पार्वणेन्दुकरसुन्दरवाहहंससंवासदुर्ललितया अपि वचोधिदेव्या यत् नः समले मनसि विश्रम्यते तत्
भगवतः इन्दुमौलेः सौभगम् जयति ।

यं भूषयन्ति कमनीयमहीनभोगाः स्तुत्वा भवन्ति कृतिनो यमहीनभोगाः । चित्तोचितं तमपहाय
महीनभोगाः कर्तुं परत्र धृतसंयम ! ही न भो गाः ॥ २७ ॥

अन्वय-ही भोः ! धृतसंयम ! चित्त ! यम् कमनीयम् अहीनभोगाः भूषयन्ति तथा कृतिनः यम् स्तुत्वा
अहीनभोगाः भवन्ति तम् अपहाय परत्र (अन्य विषये) मही-नभो-गाः गाः कर्तुम् [तव] न उचितम् ?

अवाप्य गुरुभिर्गुणैर्जगति गौरवं ध्यायत- स्तमीरमणशेखरं भवति गौरवन्ध्या यतः । अतस्तमुमया
समं कृतमहाविलासं प्रति स्तुतौ विरचिता मया मतिरनाविला सम्प्रति ॥ २८ ॥

अन्वय-यतः तमीरमणशेखरम् ध्यायतः (पुंसः) गौः अन्वन्ध्या भवति अतः मया जगति गुरुभिः
गुणैः गौरवम् अवाप्य सम्प्रति उमया समम् कृतमहाविलासम् तम् (शिवम्) प्रति स्तुतौ मतिः अनाविला कृता ।

मत्त्वा सद्यः सुकृतसुलभं दुर्लभं जीवलोकं लब्ध्वा सर्वव्यसनशमनं मित्रमेकं विवेकम् । धन्याः
केचित्कृतकुमुदिनीकान्तलेखाऽवतंसं हंसं शंसन्त्यमलमधुरैर्भक्तिसिक्तैर्वचोभिः ॥ २९ ॥

अन्वय-सुकृतसुलभम् जीवलोकम् [पुनः] दुर्लभम् मत्वा सर्वव्यसनशमनम् एकम् विवेकम् मित्रम् लब्ध्वा केचित्
धन्याः सद्यः कृतकुमुदिनीकान्तलेखावतंसम् हंसम् अमलमधुरैः वचोभिः शंसन्ति ।

अन्तःशून्यं गुणविरहितं नीरसं सर्गहीनं काव्यं हृद्यं ननु सुमनसां न स्थलाम्भोरुहाभम् ।
तत्रापीशः श्रवणपुलिने गाढरागानुबन्ध- प्रोद्यद्भक्तिप्रगुणितमदः कर्त्तुमर्हत्यगर्हम् ॥ ३० ॥
अन्वय-ननु अन्तःशून्यम् गुणविरहितम् नीरसम् सर्गहीनम् [इदम्] स्थलाम्भोरुहाभम् काव्यम् सुमनसाम् हृद्यम् न
[भविष्यति] तत्रापि ईशः गाढरागानुबन्धप्रोद्यद्भक्तिप्रगुणितम् अगर्हम् अदः [काव्यम्] श्रवणपुलिने
कर्तुम् अर्हति ।

अथवाऽमृतबिन्दुवर्षिणीन्दुद्युतिरानन्दममन्दमर्पयन्ती । नयति ध्रुवमार्द्रतामियं
गीर्गिरिजाजीवितनाथमिन्दुकान्तम् ॥ ३१ ॥

अन्वय-अथवा अमृतबिन्दुवर्षिणी इन्दुद्युतिः अमन्दभ् आनन्दम् अर्पयन्ती इयम् [मम] गीः गिरिजाजीवितनाथम्
इन्दुकान्तम् ध्रुवम् आर्द्रताम् नयति ।

इति श्री प्रेममकरन्दोपेतं काश्मीरक-महाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुति-कुसुमाञ्जलौ स्तुति-प्रस्तावना नामकं प्रथमं स्तोत्रम् ।

द्वितीयं स्तोत्रम्

ओं नमः परमार्थैकरूपाय परमात्मने । स्वेच्छावभासिताऽसत्य-भेदभिन्नाय शम्भवे ॥ १ ॥

अन्वय-ओं परमार्थैकरूपाय स्वेच्छावभासिताऽसत्यभेदभिन्नाय शम्भवे परमात्मने नमः (अस्तु)

नमः शिवाय निःशेष-क्लेश-प्रशमशालिने । त्रिगुणग्रन्थिदुर्भेद-भवभेदविभेदिने ॥ २ ॥

अन्वय-निःशेषक्लेशप्रशमशालिने त्रिगुणग्रन्थिदुर्भेदभवभेदविभेदिने शिवाय नमः ।

नमः समस्तगीर्वाण-किरीटघटिताङ्घ्रये । जगन्नगरनिर्म्माण-नर्म-शर्मद-कर्म्मणे ॥ ३ ॥

अन्वय-समस्तगीर्वाण-किरीटघटिताङ्घ्रये जगन्नगरनिर्माण-नर्मशर्मदकर्मणे (शिवाय) नमः (अस्तु) ।

नमस्तमस्वतीकान्त-खण्ड-मण्डित-मौलये । तापान्धकारनिर्वेदखेदविच्छेदवेदिने ॥ ४ ॥

अन्वय-तमस्वतीकान्त-खण्ड-मण्डित-मौलये तापान्धकारनिर्वेदखेदविच्छेदवेदिने (श्रीशिवाय) नमः
(अस्तु) ।

नमः समस्तसंकल्पकल्पना-कल्पशाखिने । विकासिकलिकाकान्तकलापाय स्वयम्भुवे ॥ ५ ॥

अन्वय-समस्तसंकल्पकल्पना-कल्पशाखिने विकासिकलिकाकान्तकलापाय स्वयम्भुवे नमः (अस्तु) ।

नमस्तमःपराभूत-भूतवर्गानुकम्पिने । श्वेतभानुबृहद्भानु-भानुभासितचक्षुषे ॥ ६ ॥

अन्वय-तमःपराभूतभूतवर्गानुकम्पिने श्वेतभनु बृहद्भानु-भानुभासितचक्षुषे नमः (अस्तु) ।

नमः शमनहुंकार-कतराऽऽतुरहर्षिणे । भवाय भवदावाग्नि-विविग्नाऽमृतवर्षिणे ॥ ७ ॥

अन्वय-शमनहुङ्कार-कातरातुरहर्षिणे भवदावाग्नि-विविग्नामृतवर्षिणे भवाय नमः ।

नमः समदकन्दर्पदर्पज्वर-भरच्छिदे । दुर्वारभवरुग्भङ्गभिषजे वृषलक्ष्मणे ॥ ८ ॥

अन्वय-समदकन्दर्पदर्पज्वर-भरच्छिदे दुर्वारभवरुग्भङ्गभिषजे वृषलक्ष्मणे नमः ।

नमो जन्मजरामृत्युभीतिसातङ्कपालिने । करुणामृतसम्पर्कपेशलाय कपालिने ॥ ९ ॥

अन्वय-जन्मजरामृत्युभीतिसातङ्कपालिने करुणामृतसम्पर्कपेशलाय कपालिने नमः ।

नमो निसर्ग-निर्विघ्न-प्रसादामृत-सिन्धवे । संसार-मरु-सन्ताप-तापितापन्न-बन्धवे ॥ १० ॥

अन्वय-निसर्ग-निर्विघ्नप्रसादामृतसिन्धवे संसार-मरु-संताप-तापितापन्नबन्धवे नमः ।

नमः सान्द्राऽमृतस्यन्दिघनध्वनितशोभिने । महाकालाय भीष्मोष्मभवग्रीष्मक्लमच्छिदे ॥ ११ ॥

अन्वय-सान्द्रामृतस्यन्दिघनध्वनितशोभिने भीष्मोष्मभवग्रीष्मक्लमच्छिदे महाकालाय नमः ।

नमो वाङ्मनसातीत-महिम्ने परमेष्ठिने । त्रिगुणाष्टगुणाऽनन्तगुण-निर्गुण-मूर्त्तये ॥ १२ ॥

अन्वय-वाङ्मनसातीतमहिम्ने त्रिगुणाष्टगुणाऽनन्तगुणनिर्गुणमूर्त्तये परमेष्ठिने नमः ।

हंसाय दीर्घदोषान्तकारिणेऽम्बरचारिणे । स्वमहोमहिमध्वस्तसमस्ततमसे नमः ॥ १३ ॥

अन्वय-दीर्घदोषान्तकारिणे अम्बरचारिणे स्वमहोमहिमध्वस्तसमस्त तमसे हंसाय नमः (अस्तु) ।

यः सुवर्णेन चन्द्रेण गाङ्गेयेनाग्निजन्मना । काञ्चनेनश्रियं धत्ते तस्मै स्मरजिते नमः ॥ १४ ॥

अन्वय-यः सुवर्णेन चन्द्रेण गाङ्गेयेन अग्निजन्मना काञ्चन इनश्रियम् धत्ते तस्मै स्मरजिते नमः ।

निजाङ्गभङ्गभङ्ग्यापि भक्तानुग्रहकारिणे । नमः स्तम्भितजम्भारि-भुजस्तम्भाय शंभवे ॥ १५ ॥

अन्वय-निजाङ्गभङ्गभङ्ग्या अपि भक्तानुग्रहकारिणे स्तम्भितजम्भारिभुजस्तम्भाय शम्भवे नमः ।

निःसामान्याय मान्याय न्यायमार्गोपदेशिने । मूर्धन्याय वदान्याय धन्याय स्वामिने नमः ॥ १६ ॥

अपूर्वं लावण्यं विवसनतनोस्ते विमृशतां मुनीनां दाराणां समजनि स कोऽपि व्यतिकरः । यतो भग्ने
गुह्ये सकृदपि सपर्यां विदधतां ध्रुवं मोक्षोऽश्लीलं किमपि पुरुषार्थप्रसवि ते ॥

अन्वय-निःसामान्याय मान्याय न्यायमार्गोपदेशिने मूर्धन्याय वदान्याय धन्याय स्वामिने नमः (अस्तु) ।

नमः संहृतकालाय कालायसगलत्विषे । गङ्गाधौतकलापाय कलापायमविन्दते ॥ १७ ॥

अन्वय-संहृतकालाय कालायसगलत्विषे गङ्गाधौतकलापाय कलाऽपायम् अविन्दते (शिवाय) नमः ।

जिष्णुना जिष्णुना लोकान् विष्णुना प्रभविष्णुना । ब्रह्मणा ब्रह्मणाद्येन स्तुताय स्वामिने नमः ॥ १८ ॥

अन्वय-लोकान् जिष्णुना जिष्णुना प्रभविष्णुना विष्णुना आद्येन ब्रह्मणा ब्रह्मणा (च) स्तुताय स्वामिने
नमः ।

कुलशैलदलं पूर्ण-सुवर्ण-गिरि-कर्णिकम् । नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम् ॥ १९ ॥

अन्वय-कुलशैलदलम्-पूर्ण-सुवर्ण-गिरि-कर्णिकम् अनन्तनालम् कमलविष्टरम् अधितिष्ठते नमः ।

निमित्तमन्तरेणापि यः सपङ्कजनाभये । प्रवर्तते विभुस्तस्मै नमः पङ्कजनाभये ॥ २० ॥

अन्वय-यः विभुः सपङ्कजनाभये निमित्तम् अन्तरेण अपि प्रवर्त्तते तस्मै पङ्कजनाभये नमः ।

नमः सोमार्धदेहाय सोमार्धकृतमौलये । श्वेताभयसमुद्भूत-श्वेताभयशसे नमः ॥ २१ ॥

अन्वय-सोमार्धदेहाय नमः सोमार्धकृतमौलये श्वेताभयसमुद्भूतश्वेताभ-यशसे नमः ।

विनतानन्दनं नागविग्रहोग्रमुखं दृशा । विनायकमुपासीनं भजते स्वामिने नमः ॥ २२ ॥

अन्वय-विनतानन्दनम् नागविग्रहोग्रमुखम् उपासीनम् विनायकम् दृशा भजते स्वामिने नमः ।

नमो ब्रह्म-हरि-त्र्यक्षश्रवसे भवसेतवे । जगत्सर्ग-स्थिति-ह्वास-हेतवे वृषकेतवे ॥ २३ ॥

अन्वय-ब्रह्म-हरि-त्र्यक्षश्रवसे भवसेतवे जगत्सर्गस्थिति-ह्रासहेतवे वृषकेतवे नमः ।

कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् । भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ २४ ॥

अन्वय-कर्णिकादिषु स्वर्णम् इव अर्णवादिषु उदकम् इव भेदिषु यत् अभेदि तस्मै परस्मै महसे नमः ।

यमेकमेव श्रयतो न जायते स्पृहा परस्मै महतेऽपि नाकिने । नमः समस्तापदुपेतपालन- व्रताय तस्मै
विभवे पिनाकिने ॥ २५ ॥

अन्वय-यम् एकम् एव श्रयतः महते अपि परस्मै नाकिने स्पृहा न जायते तस्मै समस्तापदुपेतपालन-व्रताय
विभवे पिनाकिने नमः ।

विधौ जगत्सर्गविधौ यदाहितं प्रतिष्ठितं यत्स्थितिकारणे विधौ । समूढमूढार्ध-विधौ लये च यत्
पराय तस्मै महसे नमो नमः ॥ २६ ॥

अन्वय-[भगवता] जगत्सर्गविधौ यत् विधौ आहितम् स्थितिकारणे यत् विधौ प्रतिष्ठितम् लये च यत्
ऊढार्धविधौ समूढम् तस्मै पराय महसे नमो नमः ।

नमः समुत्पादिततारकद्विषे नमस्त्रिधामाश्रित-तारकत्विषे । नमो जगत्तारकपुण्यकर्म्मणे नमो
नमस्तारकराजमौलये ॥ २७ ॥

अन्वय-समुत्पादिततारकद्विषे नमः त्रिधामाश्रिततारकत्विषे नमः जगत्तारकपुण्यकर्म्मणे नमः
तारकराजमौलये नमो नमः ।

नमो नमस्तेऽमृतभानुमौलये नमो नमस्तेऽमृतसिद्धिदायिने । नमो नमस्तेऽमृतकुम्भपाणये नमो
नमस्तेऽमृतभैरवात्मने ॥ २८ ॥

अन्वय-(हे परमेश !) अमृतभानुमौलये ते नमो नमः अमृतसिद्धिदायिने ते नमो नमः अमृतकुम्भपाणये ते
नमो नमः अमृतभैरवात्मने ते नमो नमः ।

नमस्तमःपारपरार्ध्यवृत्तये नमः समस्ताध्वविभक्तशक्तये । नमः क्रमव्यस्त-समस्त-मूर्त्तये नमः
शमस्थार्पितभक्तिमुक्तये ॥ २९ ॥

अन्वय-तमःपारपरार्ध्यवृत्तये नमः समस्ताध्वविभक्तशक्तये नमः क्रमव्यस्तसमस्तमूर्त्तये नमः
शमस्थार्पितभक्तिमुक्तये नमः ।

विजयजयप्रदाय शबराय वराय नमः सकलकलङ्कसङ्कर-हराय हराय नमः ।
जगदगद-प्रगल्भ-विभवाय भवाय नमः प्रवरवरप्रकाशित-शिवाय शिवाय नमः ॥ ३० ॥

अन्वय-विजयजयप्रदाय वराय शबराय नमः सकलकलङ्कसङ्कर-हराय हराय नमः
जगदगद-प्रगल्भ-विभवाय भवाय नमः प्रवरवरप्रकाशित-शिवाय शिवाय नमः ।

इति श्रीप्रेममकरन्दनाम्न्या टीकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो
महेश्वरस्य स्तुतिकुसुमाञ्जलौ नमस्कारात्मकं द्वितीयं स्तोत्रम् ।

तृतीयं स्तोत्रम्

नित्यं निरावृति निजानुभवैकमान- मानन्दधाम जगदङ्कुरबीजमेकम् । दिग्देशकाल-कलनादि-समस्त-हस्त-
मर्दासहं दिशतु शर्म महन्महो नः ॥ १ ॥

अन्वय-नित्यम् निरावृति निजानुभवैकमानम् आनन्दधाम एकम् जगदङ्कुरबीजम्
दिग्देशकाल-कलनादि-समस्त-हस्त-मर्दासहम् तत् महत् महः नः शर्म दिशतु ।

व्योम्नीव नीरदभरः सरसीव वीचि- व्यूहः सहस्रमहसीव सुधांशुधाम । यस्मिन्निदं जगदुदेति च
लीयते च तच्छाम्भवं भवतु वैभवमृद्धये नः ॥ २ ॥

अन्वय-व्योम्नि नीरदभरः इव सरसि वीचिव्यूहः इव सहस्रमहसि सुधांशुधाम इव यस्मिन् इदम् जगत् उदेति
लीयते च तत् शाम्भवम् वैभवम् नः ऋद्धये भवतु ।

लोकत्रयस्थितिलयोदयकेलिकारः कार्य्येण यो हरि-हर-द्रुहिणत्वमेति । देवः स विश्वजनवाङ् मनसातिवृत्त-
शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥ ३ ॥

अन्वय-यः कार्य्येण लोकत्रयस्थितिलयोदयकेलिकारः हरिहरद्रुहिणत्वम् इति सः
विश्वजनवाङ्मनसातिवृत्तशक्तिः देवः वः शश्वत् अनश्वरम् शिवम् दिशतु ।

सर्वः किलायमवशः पुरुषाणुकर्म- कालादिकारणगणो यदनुग्रहेण । विश्वप्रपञ्चरचनाचतुरत्वमेति स
त्रायतां त्रिभुवनैकमहेश्वरो वः ॥ ४ ॥

अन्वय-अयम् सर्वः अवशः पुरुषाणुकर्मकालादिकारणगणः यदनुग्रहेण विश्वप्रपञ्चरचनाचतुरत्वम् एति
सः त्रिभुवनैकमहेश्वरः वः त्रायताम् ।

एकस्य यस्य सकलः करणानपेक्ष- ज्ञानक्रियस्य पुरतः स्फुरति प्रपञ्चः । पश्यञ्जगत्
करतलाऽमलकीफलाभं लाभं स पुष्यतु परं परमेश्वरो वः ॥ ५ ॥

अन्वय-करणानपेक्षज्ञानक्रियस्य यस्य एकस्य पुरतः सकलः प्रपञ्चः स्फुरति करतलाऽमलकीफलाभम्
जगत् पश्यन् सः परमेश्वरः वः परम् लाभम् पुष्यतु ।

यः कन्दुकैरिव पुरन्दर-पद्म-सद्म- पद्मापति-प्रभृतिभिः प्रभुरप्रमेयः । खेलत्यलङ्घ्यमहिमा स
हिमाद्रिकन्या- कान्तः कृतान्तदलनो लघयत्वघं वः ॥ ६ ॥

अन्वय-यः अप्रमेयः प्रभुः पुरन्दर-पद्म-सद्मपद्मापति-प्रभृतिभिः कन्दुकैः इव खेलति सः
कृतान्तदलनः अलङ्घ्यमहिमा हिमाद्रिकन्याकान्तः वः अघम् लघयतु ।

सेवानमन्निखिलखेचरमौलिरत्न- रश्मिच्छटा-पटल-पाटल-पादपीठः । पुष्णातु धाम
कपिशीकृत-शैलशृङ्ग- त्वङ्गन्मृगाङ्क-मधुराकृतिरीश्वरो वः ॥ ७ ॥

अन्वय-सेवानमन्निखिलखेचरमौलिरत्न-रश्मिच्छटा पटल पाटलपादपीठः
कपिशीकृत-शैलशृङ्गत्वङ्गन्मृगाङ्क मधुराकृतिः ईश्वरः वः धाम पुष्णातु ।

अङ्गं भुजङ्गरचिताङ्गदभङ्गि तुङ्गं त्वङ्गत्तरङ्ग गगनाङ्गनसङ्गि गङ्गम् ।
बिभ्रद्विभुर्विहितरङ्गदनङ्गभङ्ग- मङ्गीकरोत्वरमभङ्गुरमिङ्गितं वः ॥ ८ ॥

अन्वय-विभुः भुजङ्गरचिताङ्गदभङ्गि त्वङ्गत्तरङ्गगगनाङ्गनसङ्गिगङ्गम् विहितरङ्गदनङ्गभङ्गम्
तुङ्गम् अङ्गम् बिभ्रत् वः अभङ्गरम् इङ्गितम् अरम् अङ्गीकरोतु ।

यः कुण्डमण्डलकमण्डलुमन्त्रमुद्रा- ध्यानार्चनस्तुतिजपाद्युपदेशयुक्त्या ।
भोगापवर्गदमनुग्रहमानतानां व्यानञ्ज रञ्जयतु स त्रिजगद्गुरुर्वः ॥ ९ ॥

अन्वय-यः (दैशिकमुखेन) कुण्डमण्डलकमण्डलुमन्त्रमुद्राध्यानार्चनस्तुतिजपाद्युपदेशयुक्त्या
आनतानाम् भोगापवर्गदम् अनुग्रहम् व्यानञ्ज सः त्रिजगद्गुरुः वः रञ्जयतु ।

शंभोरदभ्रशरदभ्रतुषारशुभ्रं भ्राजिष्णु-भूतिभर-शीभर-भास्वराभम् ।
दिश्याद्वपुर्भसल-नीलगलं कलङ्का- लङ्कारशारदशशाङ्कनिभं शुभं वः ॥ १० ॥

अन्वय-अदभ्रशरदभ्रतुषारशुभ्रम् भ्राजिष्णु-भूतिभर-शीभर भास्वराभम् भसलनीलगलम्
कलङ्कालङ्कारशारदशशाङ्कनिभम् शम्भोः वपुः वः शुभम् दिश्यात् ।

येनोपदिष्टमनपायमुपायमाप्य स्वर्गापवर्गविभवैर्विभवो भवन्ति । देवः स वः
सकलकर्मफलोपलम्भ-विस्रम्भभूमिरभिवाञ्छितसिद्धयेऽस्तु ॥ ११ ॥

अन्वय-येन उपदिष्टम् अनपायम् उपायम् आप्य [भक्ताः] स्वर्गापवर्गविभवैः विभवः भवन्ति सः
सकलकर्मफलोपलम्भविस्रम्भभूमिः देवः वः अभिवाञ्छितसिद्धये अस्तु ।

मूलोज्झितेन कलिकाकलितेन ताप- शान्तिक्षमेण नमतामविपल्लवेन । सद्यःफलेन सुमनोभिरुपासितेन
स्थाणुः श्रियेऽस्तु भवतां वपुषाऽद्भुतेन ॥ १२ ॥

अन्वय-मूलोज्झितेन कलिकाकलितेन नमताम् तापशान्तिक्षमेण अविपल्लवेन सद्यःफलेन सुमनोभिः उपासितेन
अद्भुतेन वपुषा (उपलक्षितः) स्थाणुः भवताम् श्रिये अस्तु ।

दिव्यापगाप्लवनपावकसेवनाभ्यां विभ्रत्तनुं शुचिमपेतकलङ्कशङ्काम् ।
दोषानुषङ्गरहितस्तिमिरोष्मशान्त्यै भूयाद्द्विजाधिपतिरीश्वरवन्दितो वः ॥ १३ ॥

अन्वय-दिव्यापगाप्लवनपावकसेवनाभ्याम् शुचिम् अपेतकलङ्कशङ्काम् तनुम् विभ्रत् दोषानुषङ्गरहितः
ईश्वरवन्दितः द्विजाधिपतिः वः तिमिरोष्मशान्त्यै भूयात् ।

दानाम्बुनिर्भरकरस्तनयः स यस्य श्रीमान् स यस्य धनदः सविधे विधेयः । यः संश्रितः शिरसि
मुक्तकरेण राज्ञा पुष्णातु वः कनकवर्षघनः स देवः ॥ १४ ॥

अन्वय-सः यस्य तनयः दानाम्बुनिर्भरकरः [अस्ति] श्रीमान् सः धनदः यस्य सविधे विधेयः [अस्ति] यः
मुक्तकरेण राज्ञा शिरसि संश्रितः सः कनकवर्षघनः देवः वः पुष्णातु ।

निर्मत्सरौ निवसतः सममर्कचन्द्रौ नीरानलावमृतहालहलौ च यत्र । राज्ञा नवेन
तदधिष्ठितमुज्ज्वलेन शार्वं वपुर्भवतु वाञ्छितसिद्धये वः ॥ १५ ॥

अन्वय-यत्र निर्मत्सरौ अर्कचन्द्रौ नीरानलौ अमृतहालहलौ च समम् निवसतः तत् उज्ज्वलेन नवेन राज्ञा
अधिष्ठितम् शार्वम् वपुः वः वाञ्छितसिद्धये भवतु ।

वक्ता च यः सुखयिता च विभुः श्रुतीनां वक्षः करं च वहते कमलाङ्कितं यः । यो मूर्ध्नि
वर्ष्मणि च हैमवतीं बिभर्ति त्रैधं भवन् भवतु वः स शिवः शिवाय ॥ १६ ॥

अन्वय-यः विभुः [ब्रह्मरूपेण] श्रुतीनाम् वक्ता सुखयिता च [अस्ति] तथा यः [विष्णुरूपेण]
कमलाङ्कितम् वक्षः करम् च वहते यः [रुद्ररूपेण] मूर्ध्नि वर्ष्मणि च हैमवतीम् बिभर्त्ति सः त्रैधम्
भवन् शिवः वः शिवाय भवतु ।

तापत्रयाऽपहृतये त्रिशिखं त्रिवर्ग- सिद्ध्यै त्रिधामलयनं नयनत्रयं च । त्रिःस्रोतसोऽपि सलिलं
त्रिमलापनुत्यै भूयात्त्रिलोकमहितं त्रिपुरद्विषो वः ॥ १७ ॥

अन्वय-त्रिपुरद्विषः त्रिलोकमहितम् त्रिशिखम् वः तापत्रयापहृतये भूयात् त्रिधामलयनम् नयनत्रयम् च
वः त्रिवर्गसिद्ध्यै भूयात् त्रिस्रोतसः सलिलम् अपि वः त्रिमलापनुत्यै भूयात् ।

यद्दर्शनाऽमृतसुखानुभवेन धन्या नेत्रोत्पलानि चिरमर्धनिमीलितानि ।
दृङ्मार्गगोचररवीन्दुकर-प्रसङ्ग- भङ्ग्येव बिभ्रति शिवः शिवदः स वोऽस्तु ॥ १८ ॥

अन्वय-धन्याः यद्दर्शनामृतसुखेन दृङ्मार्गगोचररवीन्दुकरप्रसङ्गभङ्ग्या इव चिरम् अर्धनिमीलितानि
नेत्रोत्पलानि बिभ्रति सः शिवः वः शिवदः अस्तु ।

कालं दृशैव शमयन् सफलप्रयासं यः श्वेतमुत्तमचमत्कृतिकृच्चकार । श्वेतं यशः
प्रशमयन्नसतां सतां च कालं कृतार्थयति यः स शिवोऽवताद्वः ॥ १९ ॥

अन्वय-उत्तमचमत्कृतिकृत् यः विभुः दृशा एव कालम् शमयन् श्वेतम् सफलप्रयासम् चकार यः असताम्
श्वेतम् यशः प्रशमयन् सताम् कालम् कृतार्थयति सः शिवः वः अवतात् ।

बभ्रुर्बिभर्त्यलिकपावकसौहृदं यो यत्राहिरेति शिखिना सह सामरस्यम् । जूटः स वः
सममरातिभिरप्यमर्ष- मुक्तां स्थितिं प्रथयतु प्रमथाधिपस्य ॥ २० ॥

अन्वय-यः (जूटः) अलिकपावकसौहृदम् बिभर्ति यत्र अहिः शिखिना सह सामरस्यम् एति सः प्रमथाधिपस्य
बभ्रुः जूटः वः अरातिभिः समम् अपि अमर्षमुक्ताम् स्थितिम् प्रथयतु ।

अव्यात्स वः शिरसि यस्य विलोचनाग्नि- ज्वालावलीढसुरसिन्धुजलोपगूढः । अद्यापि
वाडवशिखापरिणद्धमुग्ध- दुग्धाब्धिमध्यग इव श्रियमेति चन्द्रः ॥ २१ ॥

अन्वय-यस्य शिरसि विलोचनाग्निज्वालावलीढसुरसिन्धुजलोपगूढः चन्द्रः अद्य अपि
वाडवशिखापरिणद्धमुग्धदुग्धाब्धिमध्यग इव श्रियम् एति सः वः अव्यात् ।

अव्यात्स वः सुकृतिनामलिकेषु धूली- पट्टीकृतेषु पदरेणुभरेण यस्य । धाताक्षराणि लिखति
क्षितिपालमौलि- मालार्चिताङ्घ्रिकमलो भविता भुवीति ॥ २२ ॥

अन्वय-यस्य पदरेणुभरेण धूलीपट्टीकृतेषु सुकृतिनाम् अलिकेषु धाता [असौ पुरुषः] भुवि
क्षितिपालमौलिमालार्चिताङ्घ्रिकमलः भविता इति अक्षराणि लिखति सः (शिवः) वः अव्यात् ।

शैवी शिवं दिशतु शीतमरीचिलेखा जूटाहिरत्नकिरणच्छुरणारुणा वः । देवी नवीननखलक्ष्मधिया
पिधत्ते यत्संक्रमं कुचतटे पटपल्लवेन ॥ २३ ॥

अन्वय-कुचतटे यत्संक्रमम् देवी नवीननखलक्ष्मधिया पटपल्लवेन पिधत्ते (सा)
जूटाहिरत्नकिरणच्छुरणारुणा शैवी शीतमरीचिलेखा वः शिवम् दिशतु ।

देव्यास्तदस्तु कुचचूचुकमिन्दुमौलि- देहार्धबद्धवसतेरमृताप्तये वः । अभ्येति यन्मदनपूज्यसुवर्णपीठ-
पृष्ठप्रतिष्ठितहरिन्मणिलिङ्गभङ्गिम् ॥ २४ ॥

अन्वय-यत् मदनपूज्यसुवर्णपीठ-पृष्ठ-प्रतिष्ठित हरिन्मणिलिङ्गभङ्गिम् अभ्येति तत्
इन्दुमौलिदेहार्धबद्धवसतेः देव्याः कुचचूचुकम् वः अमृताप्तये अस्तु ।

याः क्षीरसिन्धुलहरीवृतमन्दराद्रि- मुद्रामनङ्गदमनस्य नयन्ति जूटम् ।
द्विर्भाविताविरलसिद्धसरित्तरङ्गा- स्ता लङ्घयन्त्वघमघर्मरुचो रुचो वः ॥ २५ ॥

अन्वय-याः अनङ्गदमनस्य जूटम् क्षीरसिन्धुलहरीवृतमन्दराद्रिमुद्राम् नयन्ति ताः
द्विर्भाविताविरलसिद्धसरित्तरङ्गाः अघर्मरुचः रुचः वः अघम् लङ्घयन्तु ।

लोकत्रयाऽभ्युदयजन्ममही महीयः स्थानाधिरोहणविधावधिरोहिणी या । सा
चन्द्रचूडमुकुटध्वजवैजयन्ती जह्नोरनिह्नु तनया तनयाऽवताद्वः ॥ २६ ॥

अन्वय-या लोकत्रयाभ्युदयजन्ममही महीयः स्थानाधिरोहणविधौ अधिरोहिणी [भवति] सा
चन्द्रचूडमुकुटध्वजवैजयन्ती अनिह्नु तनया जह्नोः तनया वः अवतात् ।

भालाग्निकीलकलिताखिलरन्ध्रभागं भर्गस्य वो दिशतु शर्म शिरःकपालम् । यत्कालवह्निवपुषः पचतः
प्रभूत- भूतव्रजं व्रजति तस्य महानसत्वम् ॥ २७ ॥

अन्वय-यत् प्रभूतभूतव्रजम् पचतः कालवह्निवपुषः महानसत्वम् व्रजति तत्
भालाग्निकीलकलिताखिलरन्ध्रभागम् भर्गस्य शिरःकपालम् वः शर्म दिशतु ।

चान्द्रं च धाम सुरनिर्झरिणी जलं च हस्तस्थहेमकलशाऽमृतजीवनं च । स्निग्धं च दृग्विलसितं
हसितं सितं च युष्माकमूष्मशमनाय भवन्तु शम्भोः ॥ २८ ॥

अन्वय-शम्भोः चान्द्रम् धाम सुरनिर्झरिणीजलम् च हस्तस्थहेमकलशामृतजीवनम् च स्निग्धम् दृग्विलसितम्
सितम् हसितम् च (एतानि) युष्माकम् ऊष्मशमनाय भवन्तु ।

मूर्ध्नि द्युसिन्धुधवले धवलेन्दुलेखा कैलासशैलशिखरे धवलश्च वाहः । नीहारहारिणि वपुष्यपि
भूतिरेषा पुष्णातु वः सदृशसंघटना शिवस्य ॥ २९ ॥

अन्वय-द्युसिन्धुधवले मूर्ध्नि धवला इन्दुलेखा कैलासशैलशिखरे धवलः च वाहः नीहारहारिणि
वपुषि अपि भूतिः एषा शिवस्य सदृशसंघटना वः पुष्णातु ।

उत्तप्तहेमरुचि चन्द्रकला कलापे बालप्रवालरुचिरे च करे कपालम् । ताम्रेऽधरे च हसितं सितमद्भुतेयं
विच्छित्तिरिन्दुशिरसः कुशलं क्रियाद्वः ॥ ३० ॥

अन्वय-उत्तप्तहेमरुचि कलापे चन्द्रकला बालप्रवालरुचिरे करे च कपालम् ताम्रे अधरे च सितम् हसितम् इयम्
इन्दुशिरसः अद्भुता विच्छित्तिः वः कुशलम् क्रियात् ।

श्रेयः प्रयच्छतु परं सुविशुद्धवर्णा पूर्णाभिलाषविबुधाधिपवन्दनीया । पुण्या कविप्रवरवागिव
बालचन्द्र- चूडामणेश्चरणरेणुकणावली वः ॥ ३१ ॥

अन्वय-सुविशुद्धवर्णा पूर्णाभिलाषविबुधाधिपवन्दनीया पुण्या बालचन्द्रचूडामणेः
चरणरेणुकणावली कविप्रवरवाक् इव वः परम् श्रेयः प्रयच्छतु ।

हारीकृतोल्बणफणीन्द्रफणेन्द्रनील- नीलच्छविच्छुरणशारमुरःस्थलं वः । पुष्णातु निह्नु
तनगेन्द्रसुताकुचाग्र- कस्तूरिकामकरिकाकिणमिन्दुमौलेः ॥ ३२ ॥

अन्वय-हारीकृतोल्बणफणीन्द्रफणेन्द्रनीलनीलच्छविच्छुरणशारम्
निह्नुतनगेन्द्रसुताकुचाग्रकस्तूरिकामकरिकाकिणम् इन्दुमौलेः उरःस्थलम् वः पुष्णातु ।

युष्माकमस्तु नवनीलसरोजदाम- श्यामद्युतिः सुमतये शितिकण्ठकण्ठः । यः
केतकीधवलवासुकिभोगयोगा- न्दाङ्गौघभिन्नगगनाङ्गनभङ्गिमेति ॥ ३३ ॥

अन्वय-यः केतकीधवलवासुकिभोगयोगात् गाङ्गौघभिन्नगगनाङ्गनभङ्गिम् एति [सः]
नवनीलसरोजदामश्यामद्युतिः शितिकण्ठकण्ठः युष्माकम् सुमतये अस्तु ।

क्षीरार्णवस्य चरणाब्जतले निवास- मासेदुषस्तनयमप्रतिमप्रसादः । यो मूर्ध्नि लालयति बालमसौ
दयाब्धि- र्देवस्तनोतु मुदमाश्रितवल्लभो वः ॥ ३४ ॥

अन्वय-यः अप्रतिमप्रसादः (स्वीये) चरणाब्जतले निवासम् आसेदुषः क्षीरार्णवस्य तनयम् बालम् [स्वकीये]
मूर्ध्नि लालयति असौ आश्रितवल्लभः दयाब्धिः देवः वः मुदम् तनोतु ।

या राजहंसशिखिसंभृतकान्तिरेति सद्यस्तिरोहितघनावरणा प्रसादम् । सा प्रावृडन्तशरदादिदिनेष्विव
द्यौः शम्भोरभीष्टफलपाककृदस्तु दृग्वः ॥ ३५ ॥

अन्वय-या राजहंसशिखिसंभृतकान्तिः तिरोहितघनावरणा सद्यः प्रसादम् एति सा
प्रावृडन्तशरदादिदिनेषु द्यौः इव शम्भोः दृक् वः अभीष्टफलपाककृत् अस्तु ।

अन्तर्धृताहिमकरज्वलनोदितेन्दुः स्वःसिन्धुसङ्गसुभगा परमेश्वरस्य । औदन्वतीव तनुरस्तु गजाश्वरत्न-
श्रीलाभकृत्सुमनसाममृताय दृग्वः ॥ ३६ ॥

अन्वय-अन्तर्धृताऽहिमकरज्वलनोदितेन्दुः स्वःसिन्धुसङ्गसुभगा सुमनसाम् गजाश्वरत्नश्रीलाभकृत्
परमेश्वरस्य दृक् औदन्वती तनुः इव वः अमृताय अस्तु ।

यत्राग्निरीप्सति कणं न विवृत्य जिह्वां नैति प्रतिक्षपमपेतवसुस्तमर्कः । क्षीणस्तमिन्दुरपि न श्रयति
श्रियेऽस्तु श्रीधाम तत्पुररिपोर्नयनत्रयं वः ॥ ३७ ॥

अन्वय-यत्र अग्निः जिह्वाम् विवृत्य कणम् न ईप्सति अपेतवसुः अर्कः प्रतिक्षपम् तम् न एति तम् च क्षीणः
इन्दुः अपि न श्रयति तत् श्रीधाम पुररिपोः नयनत्रयम् वः श्रिये अस्तु ।

अर्कस्य नोदगयनं शिशिरेऽपि यत्र शीतत्विषो न बहुलेऽपि कलापलापः । क्षामं च धाम न वहत्यपि
वह्निरह्नि तत्त्रायतां पुररिपोर्नयनत्रयं वः ॥ ३८ ॥

अन्वय-यत्र अर्कस्य शिशिरे अपि उदगयनम् न [भवति] शीतत्विषः बहुले अपि कलापलापः न [भवति] यत्र
वह्निः अह्नि अपि क्षामम् धाम न वहति तत् पुररिपोः नयनत्रयम् वः त्रायताम् ।

यामाश्रितोऽम्बरमणी रमणीयधामा कामान्तकावनलसाऽनलसाद्व्यधाद्या । यापीन्दुसम्भवसुधावसुधा
दृशस्ताः शर्वस्य वः शिवपुषो वपुषो भवन्तु ॥ ३९ ॥

अन्वय-रमणीयधामा अम्बरमणिः याम् आश्रितः या अनलसा कामान्तकौ अनलसाद् व्यधात् या अपि
इन्दुसम्भवसुधावसुधा [अस्ति] ताः शर्वस्य वपुषः दृशः वः शिवपुषः भवन्तु ।

पुष्णातु वः प्रथमसङ्गमभीरुगौरी-विस्रम्भणप्रणयभङ्गभयाकुलस्य ।
तत्कालकार्यकरदर्पकदेहदाह- जातानुतापमुरगाभरणस्य चेतः ॥ ४० ॥

अन्वय-प्रथमसंगमभीरुगौरीविस्रम्भणप्रणयभङ्गभयाकुलस्य उरगाभरणस्य
तत्कालकार्यकरदर्पकदेहदाहजातानुतापम् चेतः वः पुष्णातु ।

जूटे कपालशकलानि कलानिधिश्च हस्ते सुधाम्बु सरलं गरलं गले च । शक्रादिभिश्च नमनं गमनं
गवा च यस्यास्तु दुर्गतिहरः स हरः सदा वः ॥ ४१ ॥

अन्वय-यस्य जूटे कपालशकलानि कलानिधिः च (भवति) हस्ते सुधाम्बु गले च सरलम् गरलम् (शोभते) यस्य
च शक्रादिभिः नमनम गवा च गमनम् (भवति) सः हरः सदा वः दुर्गतिहरः अस्तु ।

यस्य क्षितिः शिरसि सौमनसीव शेषा शेषाहिरङ्गदपदे स चकास्ति यस्य । तस्य
प्रभोरमृतनिर्झरनिर्विशेषा- शेषाणि हन्तु दुरितानि सरस्वती वः ॥ ४२ ॥

अन्वय-यस्य शिरसि क्षितिः सौमनसी शेषा इव [शोभते] सः शेषाहिः यस्य अङ्गदपदे चकास्ति तस्य
प्रभोः अमृतनिर्झरनिर्विशेषा सरस्वती वः अशेषाणि दुरितानि हन्तु ।

श्रीमानकल्पत न कल्पतरुर्यदाप्त्यै तृष्णा रसायनरसाय न यं समेत्य । लभ्यो न यो गहनयोगहवैः स
वोऽघ- मप्राकृतो हरकृतो हरतु प्रसादः ॥ ४३ ॥

अन्वय-यदाप्त्यै श्रीमान् कल्पतरुः न अकल्पत यम् समेत्य रसायनरसाय तृष्णा न (भवति) यः
गहनयोगहवैः न लभ्यः सः हरकृतः अप्राकृतः प्रसादः वः अघम् हरतु ।

मुक्तिर्हि नाम परमः पुरुषार्थ एक- स्तामन्तरायमवयन्ति यदन्तरज्ञाः । किं भूयसा भवतु सैव
सुधामयूख-लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥ ४४ ॥

अन्वय-हि मुक्तिः नाम एकः परमः पुरुषार्थः [अस्ति] ताम् (अपि) यदन्तरज्ञाः अन्तरायम् अवयन्ति भूयसा
किम् सा एव सुधामयूखलेखाशिखाभरणभक्तिः वः अभङ्गुरा भवतु ।

स यत्र गुहबर्हिणो भवभुजङ्गजिह्वाञ्चनै- र्गजास्यकरकर्षणैः स च गिरीन्द्रकन्याहरिः । स
चार्कसुतसैरिभो रवितुरङ्गहेषारवै- र्मुदं दधति धाम तद्दिशतु शाम्भवं धाम वः ॥ ४५ ॥

अन्वय-यत्र सः गुहबर्हिणः भवभुजङ्गजिह्वाञ्चनैः मुदम् दधति सः गिरीन्द्रकन्याहरिः च
गजास्यकरकर्षणैः मुदम् दधति सः अर्कसुतसैरिभः च रवितुरङ्गहेषारवैः मुदम् दधति तत्
शाम्भवम् धाम वः धाम (तेजः) दिशतु ।

यस्मिञ्जातस्त्रिभुवनजयी भग्नकामः स कामो यस्मिंल्लेभे शलभलघुतां प्राप्तकालः स कालः ।
यस्यौघो न प्रभवति महोनिह्नवे जाह्नवीयः श्रेयः प्रेयः प्रथयतु स वः शाम्भवो दृक्त्रिभागः ॥ ४६


अन्वय-यस्मिन् सः त्रिभुवनजयी कामः भग्नकामः जातः यस्मिन् प्राप्तकालः सः कालः शलभलघुताम्
लेभे यस्य महोनिह्नवे जाह्नवीयः ओघः न प्रभवति सः शाम्भवः दृक्त्रिभागः वः प्रेयः श्रेयः
प्रथयतु ।


वीक्षे न यत्र नयनत्रितयाभिरामं पूर्णेन्दुतर्जि मुखमीश्वर ! तावकीनम् । दासस्य

नाथ ! कृपया भवता वितीर्णं सायुज्यमीदृगपि वेद्मि विडम्बने मे ॥ ------------------

यः क्रोधाग्नेः समिधमकरोद्दर्पकं दर्पकन्द- च्छेदाभिज्ञं व्यधित जगतां यः कृतान्तं कृतान्तम् ।
नेतुं यश्च प्रभवति मतिह्वासमस्तं समस्तं निष्प्रत्यूहं प्रथयतु पथि त्रासदे वः स देवः ॥ ४७ ॥

अन्वय-यः दर्पकम् क्रोधाग्नेः समिधम् अकरोत् यः जगताम् कृतान्तम् कृतान्तम् दर्पकन्दच्छेदाभिज्ञम् व्यधित
यः च [धीमताम्] समस्तम् मतिह्रासम् अस्तम् नेतुम् प्रभवति सः देवः त्रासदे पथि वः निष्प्रत्यूहम्
प्रथयतु ।

पायाद्वस्त्रिजगद्गुरुः स्मरहरः सोपग्रहाणां शिरः- श्यामाकामुकमत्सरेण चरणौ पङ्क्तिर्ग्रहाणामिव
। यस्य प्रह्वसुरासुरेश्वरशिरो-मन्दारमालागल- त्किञ्जल्कोत्कर-पिञ्जरोन्मुखनखश्रेणीनिभेनाश्रिता ॥ ४८


अन्वय-शिरःश्यामाकामुकमत्सरेण सोपग्रहाणाम् ग्रहाणाम् पङ्क्ति प्रह्वसुरासुरेश्वरशिरो
मन्दारमालागलत्किञ्जल्कोत्करपिञ्जरोन्मुखनखश्रेणीनिभेन यस्य चरणौ आश्रिता सः त्रिजगद्गुरुः
स्मरहरः वः पायात् ।

अर्केन्दुभौमबुधवाक्पतिकाव्यमन्दा मन्दारकुन्दकुमुदैर्यमुदर्चयन्ति । तस्य प्रभोरघमलोष्मशमादमन्दा
मन्दाकिनीव मुदमर्पयतु स्तुतिर्वः ॥ ४९ ॥

अन्वय-अर्केन्दुभौमबुधवाक्पतिकाव्यमन्दाः मन्दारकुन्दकुमुदैः यम् उदर्चयन्ति तस्य प्रभोः अमन्दा स्तुतिः
अघमलोष्मशमात् मन्दाकिनी इव वः मुदम् अर्पयतु ।

भस्मोद्धूलितमूर्तिरिन्दुधवलज्योतीरसोर्वीधर- स्कन्धासक्ततुषारगौरवृष-भारूढोऽस्तु भद्राय वः ।
देवो दुग्धमहाब्धिमध्यविकसत्सत्पुण्डरीकोपरि-क्रीडद्बालमरालनिर्मलरुचिः कात्यायनीकामुकः ॥ ५० ॥

अन्वय-भस्मोद्धूलितमूर्तिः इन्दुधवलज्योतीरसोर्वीधरस्कन्धासक्ततुषारगौरवृषभारूढः
दुग्धमहाब्धिमध्यविकसत्सत्पुण्डरीकोपरिक्रीडद्बालमरालनिर्मलरुचिः कात्यायनीकामुकः देवः वः
भद्राय अस्तु ।

त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतां शंसतां हन्ता भक्तिमतां मतां स्वसमतां
कर्ताऽपकर्ताऽसताम् । देवः
सेवकभुक्तिमुक्तिघटनाभूर्भूर्भुवः-स्वस्त्रयी-निर्म्माणस्थितिसंहतिप्रकटितक्रीडो मृडः पातु वः ॥
५१ ॥

अन्वय-भीतिभृताम् त्राता चिदचिताम् पतिः शंसताम् सताम् क्लेशम् हन्ता भक्तिमताम् मताम् स्वसमताम् कर्ता
असताम् अपकर्त्ता सेवक-भुक्ति-मुक्ति घटनाभूः
भूर्भुवःस्वस्त्रयी-निर्म्माणस्थितिसंहतिप्रकटितक्रीडः मृडः देवः वः पातु ।

कृष्णेन त्रिजगत्प्रसिद्धविजयप्रख्यातिना लोचनं भक्त्या वासवसूनुना कृतवता पादाब्जपूजाविधौ ।
यस्मादाप्तसुदर्शनेन निखिलं विश्वं विधेयीकृतं कृष्णेनेव स धूर्जटिर्घटयतु श्रेयांसि
भूयांसि नः ॥ ५२ ॥

अन्वय-पादाब्जपूजाविधौ भक्त्या लोचनम् कृतवता त्रिजगत्प्रसिद्धविजयप्रख्यातिना वासवसूनुना कृष्णेन
(विष्णुना) इव यस्मात् आप्तसुदर्शनेन कृष्णेन (अर्जुनेन) निखिलम् विश्वम् विधेयीकृतम् सः धूर्जटिः नः
भूयांसि श्रेयांसि घटयतु ।

श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा
विशाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता श्रेयो वैश्रवणाश्रिता भगवतो
नक्षत्रपालीव वः ॥ ५३ ॥

अन्वय-सकृत्तिका आर्तभरणी सदारोहिणी ज्येष्ठा भद्रपदा पुनः वसुयुता चित्रा विशाखान्विता
अक्षतहस्तमूलघटिताषाढा मघालङ्कृता वैश्रवणाश्रिता भगवतः श्रीकण्ठस्य मूर्तिः
नक्षत्रपाली इव वः श्रेयः दिश्यात् ।

भिन्द्धि क्ष्माधरसन्धिबन्धमुदधेरम्भोभरं जृम्भय क्षुन्द्धि क्ष्मापटलं
दलत्फणिफणापीठीलुठत्सौष्ठवम् । पिण्ड्ढि प्रौढचपेटपाटितरटत्ताराकुटुम्बं नभः
प्रारब्धोद्धतसान्ध्यताण्डव इति श्रीभैरवः पातु वः ॥ ५४ ॥

अन्वय-क्ष्माधरसन्धिबन्धम् भिन्द्धि [अत्र क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तद्ध्वमोः इत्यनुवर्त्य
समुच्चयेऽन्यतरस्याम् इति सूत्रेण ह्यस्तनीप्रथमैकवचने हि आदेशः तेन भिन्द्धि (अभिदत्) इति रूपम् ।
एवमग्रेऽपि दृष्टव्यम् ।] उदधेः अम्भोधरम् जृम्भय दलत्फणिफणापीठीलुठत्सौष्ठवम् क्ष्मापटलम्
क्षुन्द्धि प्रौढचपेटपाटितरटत्ताराकुटुम्बम् नभः पिण्डढि इति प्रारब्धोद्धतसान्ध्यताण्डवः
श्रीभैरवः वः पातु ।

भूत्यै वोऽस्तु विडम्बितस्मितरुतं मूर्ध्नोधृतस्वर्धुनी-निध्वानध्वनदाननैरभिनये भूषाकपालैः
प्रभोः । त्वङ्गत्तुम्बुरुनारदाहतनदद्गम्भीरभेरीरव- व्यावल्गद्गुहवाहबर्हिविहितक्रीडानुसारं वपुः
॥ ५५ ॥

अन्वय-अभिनये मूर्ध्नोधृतस्वर्धुनीनिध्वानध्वनदाननैः भूषाकपालैः विडम्बितस्मितरुतम्
त्वङ्गत्तुम्बुरुनारदाहतनदद्गद्म्भीरभेरीरवव्यावल्गद्गुहवाह-बर्हिविहितक्रीडानुसारम् प्रभोः वपुः वः
भूत्यै अस्तु ।

आदौ पादतले कृतस्थितिरथो [अथ इत्यपि] प्राप्तः करालम्बनं वाल्लभ्यं शुभदृङ्निवेशनवशोत्पन्नं
प्रपन्नस्ततः । अन्ते येन शिरोधिरोपणमहामाहात्म्यमाप्तो विधु- र्भूत्यै स क्रमवर्द्धमानमहिमा
स्वामिप्रसादोऽस्तु वः ॥ ५६ ॥

अन्वय-येन (श्रीशिवप्रसादेन) विधुः आदौ पादतले कृतस्थितिः [आसीत्] अथो करालम्बनम् प्राप्तः ततः
शुभदृङ्निवेशनवशोत्पन्नम् वाल्लभ्यम् प्रपन्नः अन्ते शिरोधिरोहणमहामाहात्म्यम् आप्तः सः
क्रमवर्धमानमहिमा स्वामि प्रसादः वः भूत्यै अस्तु ।

यस्यैकस्य सुवर्णसंभृतपदन्यासानवद्यक्रम- व्यक्तिः प्रेङ्खति गौरनर्गलगतिस्वाच्छन्द्यहृद्याकृतिः ।
प्रख्याताद्भुतसर्गबन्धरचनासंरब्धिरोजस्विनः काव्यस्योदयभूरसौ भवतु वः प्रीत्यै पुराणः कवि ॥
५७ ॥

अन्वय-यस्य एकस्य सुवर्णसंभृतपदन्यासानवद्यक्रमव्यक्तिः अनर्गलगतिस्वाच्छन्द्यहृद्याकृतिः गौः
प्रेङ्खति असौ प्रख्याताद्भुतसर्गबन्धरचनासंरब्धिः ओजस्विनः काव्यस्य उदयभूः पुराणः कविः वः
प्रीत्यै भवतु ।

राकेन्दोरपि सुन्दराणि हृदयग्राहीणि बालाङ्गना- मुग्धालापकथामृतादपि परं हारीणि हारादपि ।
अप्युत्तालशिखालबालवचसः सम्पूर्णकर्णामृत- स्यन्दीनि त्रिजगद्गुरोः स्तुतिकथासूक्तानि पुष्णन्तु वः
॥ ५८ ॥

अन्वय-राकेन्दोः अपि सुन्दराणि बालाङ्गनामुग्धालापकथाऽमृतात् अपि हृदयग्राहीणि हारात् अपि परम्
हारीणि उत्तालशिखालबालवचसः अपि सम्पूर्ण-कर्णामृतस्यन्दीनि त्रिजगद्गुरोः स्तुतिकथासूक्तानि वः
पुष्णन्तु ।

शाणोल्लीढनवेन्द्रनीलमहसि श्रीकण्ठकण्ठस्थले संसक्ता कनकच्छविर्गिरिसुतादोःकन्दली पातु वः
। यामालोक्य सनीरनीरददलश्लिष्यत्तडिद्विभ्रम- भ्रान्त्या नोज्झति चण्डताण्डवनवोल्लेखं शिखी
षाण्मुखः ॥ ५९ ॥

अन्वय-याम् आलोक्य षाण्मुखः शिखी सनीरनीरददलश्लिष्यत्तडिद्विभ्रमभ्रान्त्या
चण्डताण्डवनवोल्लेखम् न उज्झति (सा) शाणोल्लीढनवेन्द्रनीलमहसि श्रीकण्ठकण्ठस्थले संसक्ता
कनकच्छविः गिरिसुता-दोः कन्दली [भवभयात्] वः पातु ।

यत्सर्गाभरणायमानवपुषः केचित्ककुप्कामिनी- कर्णालङ्करणायमानयशसः स्वर्गायमाणश्रियः ।
दुष्कालानलसन्न-सज्जन-सुधावर्षायमाणोक्तयःः प्रेक्ष्यन्ते महिमा स यस्य कुरुतां शार्वः स्तवः
शं स वः ॥ ६० ॥

अन्वय-[इह] यत् केचित् सर्गाभरणायमानवपुषः (केचित्) ककुप्कामिनी-कर्णालङ्करणायमानयशसः (केचित्)
स्वर्गायमाणश्रियः (केचित्) दुष्कालानलसन्नसज्जनसुधावर्षायमाणोक्तयः (पुरुषाः) प्रेक्ष्यन्ते सः
यस्य महिमा (अस्ति) सः शार्वः स्तवः वः शम् कुरुताम् ।

इति श्रीप्रेममकरन्दनाम्न्या टीकयोपेतं काश्मीरकमहाकवि-श्रीमज्जगद्धरभट्टविरचिते भगवतो
महेश्वरस्य स्तुतिकुसुमाञ्जलौ आशीर्वादाख्यं तृतीयं स्तोत्रम्

चतुर्थं स्तोत्रम्

श्रीकम्बुकौस्तुभसुधांशुविषामृतानां सौदर्यसौहृदसुखानुभवैकधाम ।
यत्सत्यधर्मकृतनिष्प्रतिघप्रतिष्ठं तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ १ ॥

अन्वय-सत्यधर्मकृतनिष्प्रतिघप्रतिष्ठम् यत् (वपुः) श्रीकम्बुकौस्तुभसुधांशुविषामृतानाम्
सौदर्यसौहृदसुखानुभवैकधाम (भवति) तत् हारिहरम् वपुः वः मङ्गलम् दिशतु ।

आपीडबन्धनविधौ शयने च वर्ष्म पर्याप्तभोगविभवं बहुमन्यमानः । यत्र
प्रहृष्यतितरामुरगाधिराज- स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ २ ॥

अन्वय-यत्र [एकत्र] आपीडबन्धनविधौ [अन्यत्र] शयने च पर्याप्तभोगविभवम् वर्ष्म बहुमन्यमानः
उरगाधिराजः प्रहृष्यतितराम् तत् हारिहरम् वपुः वः मङ्गलम् दिशतु ।

अर्धं यदुत्पलदलैरुमयेन्दुगौर- मर्धं श्रियार्चितमलिद्युति मालतीभिः ।
विच्छित्तिमेत्यनिमिषेक्षणशुक्तिपेयां तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ३ ॥

अन्वय-यत् इन्दुगौरम् अर्धम् उत्पलदलैः उमया अर्चितम् (तथा) अलिद्युति अर्धम् मालतीभिः श्रिया अर्चितम् (सत्)
अनिमिषेक्षणशुक्तिपेयाम् विच्छित्तिम् एति तत् हारिहरम् वपुः वः मङ्गलम् दिशतु ।

केशाश्रिता नयनवह्निशिखाभ्रसिन्धु- झाङ्कारगर्भवपुषो जलदा वहन्ति । यत्राद्भुतं
स्थिरतडिद्रसितप्रसङ्गं तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ४ ॥

अन्वय-यत्र नयनवह्निशिखाभ्रसिन्धुझाङ्कारगर्भवपुषः केशाश्रिताः जलदाः अद्भुतम्
स्थिरतडिद्रसितप्रसङ्गम् वहन्ति तत् हारिहरम् वपुः वः मङ्गलम् दिशतु ।

हीनार्धनाभिनलिनालयसङ्कटत्व- सातङ्कसङ्कु चितवृत्तिकदर्थिताङ्गः । अर्धीचिकीर्षति तनुं
द्रुहिणोऽपि यत्र तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ५ ॥

अन्वय-द्रुहिणः अपि यत्र हीनार्धनाभिनलिनालयसङ्कटत्वसातङ्कसङ्कु चितवृत्तिकदर्थिताङ्गः सन्
[स्वीयाम्] तनुम् अर्धीचिकीर्षति तत् हारिहरम् वपुः वः मङ्गलम् दिशतु ।

दृग्वर्तिनौ रवितमीरमणावखण्ड- मूर्ती निजं च वपुरर्धमवेत्य वह्निः । यत्राधिकं ज्वलति
लाघवमागतोपि तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ६ ॥

अन्वय-यत्र लाघवम् आगतः अपि वह्निः दृग्वर्तिनौ रवितमीरमणौ अखण्डमूर्ती अवेत्य निजम् च वपुः
अर्धम् अवेत्य (क्रुधा) अधिकम् ज्वलति तत् हारिहरं वपुः वः मङ्गलम् दिशतु ।

यस्मिन् गुणी सहृदयः सफलः समूलः स्वातन्त्र्यधामनि करात् पतितः स पद्मः । कम्बुः स्थितस्तु
धृततद्विपरीतरीति- स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ७ ॥

अन्वय-यस्मिन् स्वातन्त्र्यधामनि गुणी सहृदयः सफलः समूलः सः पद्मः करात् पतितः ।
तद्विपरीतरीतिः कम्बुः तु [करे] स्थितः तत् हारिहरम् वपुः वः मङ्गलम् दिशतु ।

पादाग्रनिर्गतमवारितमेव वारि यत्राधिरोहति शिरस्त्रिदशापगायाः । अत्यद्भुतं च रुचिरं च
निरङ्कुशञ्च तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ८ ॥

अन्वय-यत्र [एकत्र] पादाग्रनिर्गतम् अत्यद्भुतम् रुचिरम् निरंकुशम् च त्रिदशापगायाः वारि अवारितम् एव
[अपरत्र] शिरः अधिरोहति तत् अत्यद्भुतम् रुचिरम् च निरङ्कुशम् च हारिहरम् वपुः वः मङ्गलम् दिशतु ।

इति श्रीप्रेम-मकरन्दनाम्नीटीकासमेतं काश्मीरकमहाकविश्रीजगद्धरविरचिते भगवतो महेश्वरस्य
स्तुति कुसुमाञ्जलौ मङ्गलाष्टकं नाम चतुर्थं स्तोत्रम्

पञ्चमं स्तोत्रम्

आपन्नतापहरणप्रवणा घृणेव त्वङ्गत्तरङ्गसुभगा गगनापगेव । पीयूषसारशिशिरा
शशभृत्कलेव वाणी शिवैकशरणा जयतीश्वरीव ॥ १ ॥

अन्वय-शिवैकशरणा घृणा इव आपन्नतापहरणप्रवणा शिवैकशरणा गगनापगा इव
त्वङ्गत्तरङ्गसुभगा शिवैकशरणा शशभृत्कला इव पीयूषसारशिशिरा शिवैकशरणा ईश्वरी इव
शिवैकशरणा (सत् कवेः) वाणी जयति ।

यो मूर्धनि स्रजमिवोद्वहते धरित्री- मुष्णीषतां श्रयति यस्य स भोगिराजः । यस्यामसौ वसति
वाक्पतिरुक्तिदेवीं तां ये वहन्ति हृदि ते कवयो जयन्ति ॥ २ ॥

अन्वय-यः धरित्रीम् मूर्धनि स्रजम् इव उद्वहते सः भोगिराजः यस्य उष्णीषताम् श्रयति असौ वाक्पतिः
यस्याम् वसति ताम् उक्तिदेवीम् ये हृदि वहन्ति ते कवयः जयन्ति ।

धन्याः शुचीनि सुरभीणि गुणोम्भितानि वाग्वीरुधः स्ववदनोपवनोद्गतायाः । उच्चित्य सूक्तिकुसुमानि
सतां विविक्त- वर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ ३ ॥

अन्वय-धन्याः (कवयः) स्ववदनोपवनोद्गतायाः वाग्वीरुधः शुचीनि सुरभीणि गुणोम्भितानि
विविक्तवर्णानि सूक्तिकुसुमानि उच्चित्य सताम् कर्णपुलिनेषु अवतंसयन्ति ।

श्रोत्राण्यनर्गलगलन्मधुबिन्दुगर्भ- सन्दर्भसुन्दरपदोपचितैर्वचोभिः । धन्याः सतां सुकवयः
सुखयन्ति तेऽपि तेषामकृत्रिमचमत्कृतिसाधुवादैः ॥ ४ ॥

अन्वय-धन्याः सुकवयः अनर्गलगलन्मधुबिन्दुगर्भसन्दर्भसुन्दरपदोपचितैः वचोभिः सताम् श्रोत्राणि
सुखयन्ति ते (सन्तः) अपि अकृत्रिमचमत्कृतिसाधुवादैः तेषाम् श्रोत्राणि सुखयन्ति ।

ते केचिदस्खलितबन्धनवप्रबन्ध- सन्धानबन्धुरगिरः कवयो जयन्ति । येषामचर्वितरसापि चमत्करोति कर्णे
कृतैव भणितिर्मधुरा सुधेव ॥ ५ ॥

अन्वय-अस्खलितबन्धनवप्रबन्धसन्धानबन्धुरगिरः ते केचित् कवयः जयन्ति येषाम् मधुरा भणितिः
अचर्वितरसा अपि कर्णे कृता एव सुधा इव चमत्करोति ।

तेऽनन्तवाङ्मयमहार्णवदृष्टपाराः सांयात्रिका इव महाकवयो जयन्ति ।
यत्सूक्तिपेलवलवङ्गलवैरवैमि सन्तः सदःसु वदनान्यधिवासयन्ति ॥ ६ ॥

अन्वय-अनन्तवाङ्मयमहार्णवदृष्टपाराः ते महाकवयः सांयात्रिकाः इव जयन्ति
यत्सूक्तिपेलवलवङ्गलवैः सन्तः सदःसु वदनानि अधिवासयन्ति [इति अहम्] अवैमि ।

जिह्वाग्ररङ्गभुवि सत्कवितुर्विलास- लास्योत्सवव्यसनिनी स्वयमुक्तिदेवी ।
भ्रूकाण्डकुण्डलकिरीटशिरोधराणां नृत्तोपदेशगुरुतां कृतिनामुपैति ॥ ७ ॥

अन्वय-सत्कवितुः जिह्वाग्ररङ्गभुवि विलासलास्योत्सवव्यसनिनी उक्तिदेवी स्वयम् कृतिनाम्
भ्रूकाण्डकुण्डलकिरीटशिरोधराणाम् नृत्तोपदेशगुरुताम् उपैति ।

किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥

आवर्जयन्ति मठराञ्जठरार्थमात्र- पात्रीकृतार्थकणिका गणिकाविटाद्याः । प्रौढान्
पुनर्भुजगभूषणभक्तिसिक्त- सूक्तावलीविरचनाचतुराः कवीन्द्राः ॥ ८ ॥

अन्वय-जठरार्थमात्रपात्रीकृतार्थकणिकाः गणिकाविटाद्याः मठरान् आवर्जयन्ति पुनः
भुजगभूषणभक्तिसिक्त-सूक्तावली-विरचनाचतुराः कवीन्द्राः (तु) प्रौढान् आवर्जयन्ति ।

धन्यः स कोऽपि सुकविः कविकर्मकृत्त- लोकार्ति कार्तिकतुषारकरानुकारि । गायन्ति यस्य
कृतिनस्त्रिजगत्पवित्रं चित्रं चरित्रमिव बालमृगाङ्कमौलेः ॥ ९ ॥

अन्वय-सः कः अपि सुकविः धन्यः (अस्ति) यस्य कृत्तलोकार्ति कार्तिकतुषारकरानुकारि चित्रम् त्रिजगत्पवित्रम्
कविकर्म कृतिनः बालमृगाङ्कमौलेः चरित्रम् इव गायन्ति ।

त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धु- रेकश्चकास्ति सविता कविता द्वितीयः । शंसन्ति यस्य महिमातिशयं
शिरोभिः पादग्रहं विदधतः पृथिवीभृतोऽपि ॥ १० ॥

अन्वय-त्रैलोक्यभूषणमणिः गुणिवर्गबन्धुः सः एकः सविता (गगने) चकास्ति द्वितीयः कविता (भूतले)
चकास्ति पृथिवीभृतः अपि शिरोभिः यस्य पादग्रहम् विदधतः महिमातिशयम् शंसन्ति ।

यस्य स्रवन्त्यमृतमेव मुखे तुषार- हाराभिरामरुचिरञ्चितवक्रभङ्गिः । सूक्तिर्द्युसिन्धुरिव मूर्ध्नि
हरस्य चन्द्र- लेखेव वा वसति तं सुकविं नमामः ॥ ११ ॥

अन्वय-अमृतम् एव स्रवन्ती तुषारहाराभिरुचिः अञ्चितवक्रभङ्गिः सूक्तिः यस्य मुखे हरस्य मूर्ध्नि
द्युसिन्धुः इव वा हरस्य शिरसि चन्द्रलेखा इव वसति तम् सुकविम् (वयम्) नमामः ।

याता गुणैरुपचयं विमला प्रकृत्या नैसर्गिकीं परिणतिं प्रथमां वहन्ती । बुद्धिः सतां
शशिकलामुकुटप्रसादा- द्वाणी च न क्वचिदपि प्रतिघातमेति ॥ १२ ॥

अन्वय-गुणैः उपचयम् याता प्रकृत्या विमला नैसर्गिकीम् प्रथमाम् परिणतिम् वहन्ती सताम् बुद्धिः वाणी
च शशिकलामुकुटप्रसादात् क्वचित् अपि प्रतिघातम् न एति ।

चन्द्रावचूडचरणस्मरणप्रसाद- सन्दर्भ-निर्भरगभीरगिरां कवीनाम् । सूक्तिर्बिभर्ति
मुखपङ्कजरङ्गनृत्य- द्वाग्देवताकनकनूपुरनादलीलाम् ॥ १३ ॥

अन्वय-चन्द्रावचूडचरणस्मरणप्रसादसन्दर्भनिर्भरगिराम् कवीनाम् सूक्तिः
मुखपङ्कजरङ्गनृत्यद्वाग्देवताकनकनूपुरनादलीलाम् बिभर्ति ।

काव्यं विभाव्य निजमर्धनिमीलितानि नैसर्गिकं जहति चापलमीक्षणानि । गृह्णन्ति तन्मसृणतां
सहजां विहाय भ्रू वल्लयस्तु कृतिनां कविपुङ्गवानाम् ॥ १४ ॥

अन्वय-कृतिनाम् कविपुङ्गवानाम् निजम् काव्यम् विभाव्य अर्धनिमीलितानि ईक्षणानि नैसर्गिकम् चापलम् जहति ।
भ्रूवल्लयः तु मसृणताम् विहाय तत् चापलम् गृह्णन्ति ।

नीहारहारधवलस्य जयत्यपूर्वः पाकः स कोऽपि सुकृतस्य कृतस्य पूर्वम् । यः सम्प्रति
प्रतिफलत्यमलासु बाल- चन्द्रावचूलनुति-सूक्तिषु सत्कवीनाम् ॥ १५ ॥

अन्वय-सत्कवीनाम् पूर्वम् कृतस्य नीहारहारधवलस्य सुकृतस्य सः कः अपि अपूर्वः पाकः जयति यः
सम्प्रति अमलासु बालचन्द्रावचूलनुतिसूक्तिषु प्रतिफलति ।

सूक्ष्मार्थदर्शनविमर्शवशप्ररूढ- भ्रूकाण्डताण्डव-निवेदित-चिद्विकासम् । आस्वाद्य यत्सुमतयो
मुखमुद्वहन्ति सूक्तामृतं जयति तत्कविकुञ्जराणाम् ॥ १६ ॥

अन्वय-सुमतयः यत् आस्वाद्य सूक्ष्मार्थदर्शनविमर्शवशप्ररूढभ्रूकाण्डताण्डव-निवेदित-चिद्विकासम्
मुखम् उद्वहन्ति तत् कविकुञ्जराणाम् सूक्तामृतम् जयति ।

शब्दार्थमात्रमपि ये न विदन्ति तेऽपि यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः ।
संरुद्धसर्वकरणप्रसरा भवन्ति चित्रस्थिता इव कवीन्द्रगिरं नुमस्ताम् ॥ १७ ॥

अन्वय-ये शब्दार्थमात्रम् अपि न विदन्ति ते अपि हरिणाः मूर्छनाम् इव याम् श्रवणैः पिबन्तः
संरुद्धसर्वकरणप्रसराः (सन्तः) चित्रस्थिताः इव भवन्ति ताम् कवीन्द्रगिरम् (वयम्) नुमः ।

हरति हरिणचित्तं का कथा चेतनानाम्

लभ्यः स कुत्र सुजनः स्वकृतीः प्रदर्श्य भ्रूकन्दलीयुगलमाकलयन्ति यस्य ।
नेत्रोत्पलोपरिपरिस्फुरदुत्तरङ्ग- भृङ्गावलिद्वितयविभ्रमभृत् कवीन्द्राः ॥ १८ ॥

अन्वय-कवीन्द्राः स्वकृतीः प्रदर्श्य यस्य भ्रूकन्दलीयुगलम्
नेत्रोत्पलोपरि-परिस्फुरदुत्तरङ्गभृङ्गावलिद्वितयविभ्रमभृत् आकलयन्ति सः सुजनः कुत्र लभ्यः ?

स्फारेण सौरभभरेण किमेणनाभे- स्तद्घानसारमपि सारमसारमेव । स्रक्सौमनस्यपि न पुष्यति
सौमनस्यं प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥ १९ ॥

अन्वय-यदि उक्तिदेवी मधुद्रवम् प्रस्यन्दते (तर्हि) एणनाभेः स्फारेण सौरभभरेण किम् ? (तदा) तत्
घानसारम् सारम् अपि असारम् एव [भवति] सौमनसी स्रक् अपि सौमनस्यम् न पुष्यति ।

संसारमारवपथप्रथमानखेद- विच्छेदकोविदमिदं कविकर्म्म जीयात् । विस्मारितं यदमुना
यमुनासनाथं पाथः प्रसिद्धमपि वैबुधसैन्धवं नः ॥ २० ॥

अन्वय-संसारमारवपथप्रथमानखेदविच्छेदकोविदम् इदम् कविकर्म जीयात् यत् अमुना यमुनासनाथम्
वैबुधसैन्धवम् प्रसिद्धम् अपि पाथः नः विस्मारितम् ।

गाम्भीर्यशालिनि शुचावमृतौघशीते नीते सदा सदनतां मदनान्तकेन । यस्यैकपिङ्गलगिरेरिव
मानसेऽन्त- रर्थाः स्फुरन्ति स विना सुकृतैः क्व लभ्यः ॥ २१ ॥

अन्वय-गाम्भीर्यशालिनि शुचौ अमृतौघशीते मदनान्तकेन सदा सदनताम् [निजालयताम्] नीते यस्य मानसे
एकपिङ्गलगिरेः मानसे इव अर्थाः अन्तः स्फुरन्ति सः (सुकविः) सुकृतैः विना क्व लभ्यः ?

यस्य द्युसिन्धुलह्वरीशुचयो न कस्य दृष्टिप्रसादमवलोकयतोऽर्पयन्त्यः । गावः सुधारसमुचः प्रसरन्ति
दिक्षु विश्वैकभूषणमसौ जयति द्विजेन्द्रः ॥ २२ ॥

अन्वय-द्युसिन्धुलहरीशुचयः अवलोकयतः कस्य न दृष्टिप्रसादम् अर्पयन्त्यः सुधारसमुचः यस्य गावः
दिक्षु प्रसरन्ति असौ विश्वैकभूषणम् द्विजेन्द्रः जयति ।

संयोगमेत्य परमर्थपरिष्कृतस्य पादान्तगोऽपि गुरुतां लघुरेति यस्य । तं शङ्करस्तुतिपरं
परिशुद्धवृत्तं सुश्लोकमाप्य मुदमेति न कस्य चेतः ॥ २३ ॥

अन्वय-परम् अर्थपरिष्कृतस्य यस्य संयोगम् एत्य पादान्त्गः लघुः अपि गुरुताम् एति तम् परिशुद्धवृत्तम्
सुश्लोकम् शङ्करस्तुतिपरम् आप्य कस्य चेतः मुदम् न एति ?

इह हि महिमा मायामोहप्ररोहतिरोहित- त्रिजगदगदङ्कारः सारस्वतः प्रथते सताम् । प्रभवति
जरामृत्युव्याधिप्रबन्धनिबन्धन- व्यसनजनितव्यापत्तापक्लमापगमाय यः ॥ २४ ॥

अन्वय-हि यः जरामृत्युव्याधिप्रबन्धनिबन्धनव्यसनजनितव्यापत्तापक्लमाऽपगमाय प्रभवति (सः)
मायामोहप्ररोहतिरोहितत्रिजगदगदङ्कारः सताम् सारस्वतः महिमा इह प्रथते ।

चमत्कारोत्कर्षं कमपि कमनीयं विमृशतां दिशन्ती सा काचिज्जयति कविवाचां परिणतिः । यदासृष्टे
[यदा-तुष्टे इत्यपि] चेतस्यमृतमिति निश्रेयसमिति प्रियं धामेत्युच्चैः पदमिति समुद्यन्ति मतयः ॥ २५ ॥

अन्वय-विमृशताम् कम् अपि कमनीयम् चमत्कारोत्कर्षम् दिशन्ती सा काचित् कविवाचाम् परिणतिः जयति
यदा-सृष्टे चेतसि [इदमेव] अमृतम् इति [इदमेव] निःश्रेयसम् इति [इदमेव] प्रियम् धाम इति [इदमेव] उच्चैः
पदम् इति मतयः समुद्यन्ति ।

प्. १००)

मधुस्यन्दी मन्दीकृतविपदुपाधिर्भवमरु-भ्रमक्लेशावेशप्रशमकमनीयो विजयते ।
अखण्ड-श्रीखण्ड-द्रव-नव-सुधासार-सरसः प्रसादो वाग्देव्याः प्रवरकविकाव्यामृतवपुः ॥ २६ ॥

अन्वय-मधुस्यन्दी मन्दीकृतविपदुपाधिः भवमरुभ्रमक्लेशावेशप्रशमकमनीयः
अखण्डश्रीखण्डद्रवनवसुधासारसरसः प्रवरकविकाव्याऽमृतवपुः वाग्देव्याः प्रसादः विजयते ।

घनानन्दस्यन्दोद्गत [स्पन्दोद्गत इति च पाठः] विपुलवाष्पार्द्रनयनं
सलीलभ्रूवल्लीवलनविवलद्भालपुलिनम् । उदञ्चद्रोमाञ्चस्तवकितकपोलं विदधते सुधार्द्रा धन्यानां
वदनमनवद्याः कविगिरः ॥ २७ ॥

अन्वय-अनवद्याः सुधार्द्राः कविगिरः धन्यानाम् वदनम् घनानन्दस्यन्दोद्गत-विपुलवाष्पार्द्रनयनम्
सलीलभ्रूवल्लीवलन-विवलद्भालपुलिनम् उदञ्चद्रोमाञ्चस्तवकित-कपोलम् विदधते ।

धन्यानाममृतं द्रवन्ति हृदये कर्णे वलन्मल्लिका- लङ्कारस्तवकन्ति कण्ठपुलिने मुक्ताकलापन्त्यपि ।
शैलान्दोलितदुग्ध-सिन्धुलहरीभङ्गाभिरामोद्गमा श्यामाकामुकखण्डमण्डनकथासन्दर्भगर्भा गिरः
॥ २८ ॥

अन्वय-शैलान्दोलित-दुग्धसिन्धुलहरीभङ्गाभिरामोद्गमाः
श्यामाकामुकखण्डमण्डनकथासन्दर्भगर्भाः गिरः धन्यानाम् हृदये अमृतं द्रवन्ति कर्णे
वलन्मल्लिकालङ्कारस्तवकन्ति कण्ठपुलिने अपि मुक्ताकलापन्ति ।

धन्यानां भणितिच्छलेन वदनेषूद्यन्ति हृत्कर्णिका- धाम्नः सूक्तिसुधावबोधविधुतापीडस्य
चण्डीपतेः । किं जूटाहिकिरीटरत्नरुचयः किं स्रग्रजःसूचयः किं मौलीन्दुमरीचयः
किममरस्रोतस्वतीवीचयः ॥ २९ ॥

अन्वय-धन्यानाम् वदनेषु भणितिच्छलेन [तेषामेव] सूक्तिसुधावबोधविधुतापीडस्य हृत्कर्णिकाधाम्नः
चण्डीपतेः जूटाहि-किरीटरत्नरुचयः उद्यन्ति किम् ? किं वा स्रग्रजःसूचयः उद्यन्ति ? किं वा
मौलीन्दुमरीचयः उद्यन्ति ? किं वा अमरस्रोतस्वतीवीचयः उद्यन्ति ?

सान्द्रानन्दकरे धृतामृतकरे नास्त्येष राकाकरे न प्रौढप्रसरे निसर्गशिशिरे स्वर्गापगानिर्झरे ।
गाढप्रेमभरे स्मरज्वरहरे नोद्दामरामाधरे यः शम्भोर्मधुरे स्तुतिव्यतिकरे ह्लादः सुधासोदरे ॥ ३० ॥

अन्वय-सुधासोदरे मधुरे शम्भोः स्तुतिव्यतिकरे यः ह्लादः एषः (आनन्दः) सान्द्रानन्दकरे धृतामृतकरे
राकाकरे न अस्ति प्रौढप्रसरे निसर्गशिशिरे स्वर्गापगानिर्झरे अपि न अस्ति । एवं गाढप्रेमभरे
स्मरज्वरहरे उद्दामरामाधरे च नास्ति ।

ओजस्वी मधुरः प्रसादविशदः संस्कारशुद्धोऽभिधा- भक्ति
व्यक्तिविशिष्टरीतिरुचितैरर्थैर्धृतालंकृतिः । वृत्तस्थः परिपाकवानविरसः सद्वृत्तिरप्राकृतः
शस्यः कस्य न सत्कविर्भुवि यथा तस्यैव सूक्तिक्रमः ॥ ३१ ॥

अन्वय-ओजस्वी मधुरः प्रसादविशदः संस्कारशुद्धः अभिधाभक्तिव्यक्तिविशिष्टरीतिः उचितैः अर्थैः
धृताऽलङ्कतिः वृत्तस्थः परिपाकवान् अविरसः सद्वृत्तिः अप्राकृतः सत्कविः तस्य एव सूक्तिक्रमः
यथा (इव) भुवि कस्य न न शस्यः (भवति) ? (अपि तु सर्वस्यापीत्यर्थः) ।

प्राप्ता कल्पलतेव चेद्भगवती वागीश्वरी कैरपि प्राक्पुण्यैः स्वपरोपकार-करणप्रौढा पुनर्दुर्लभा ।
अज्ञैस्तज्ज्ञजनोपदेशविहितावज्ञैर्दुराशाहतै- रस्ता दुर्मदकर्दमे फलति किं पापं सशापं विना ॥
३२ ॥

अन्वय-कैः अपि प्राक्पुण्यैः कल्पलता इव भगवती वागीश्वरी प्राप्ता चेत् (तर्हि) पुनर्दुर्लभा (सा
वागीश्वरी) स्वपरोपकारकरणप्रौढा [भवति] सा एव पुनः तज्ज्ञजनोपदेश-विहितावज्ञैः
दुराशाहतैः अज्ञैः दुर्मदकर्दमे अस्ता (सती) सशापम् पापम् विना किम् फलति ? (तदेव फलतीत्यर्थः)

विस्रब्धं विलसन्त्युपस्कृतपदन्यासा विलासालसा साहङ्कारमकारणारिभिरभिध्याताऽभिजाताकृतिः ।
क्षिप्ता दृप्तनृपान्धकूपकुहरे दाशैरिवाशाग्रहै- र्ग्रस्तैः सूक्तिनिभेन तारकरुणं गौरीदृशी
रोदिति ॥ ३३ ॥

अन्वय-विस्रब्धम् विलसंती उपस्कृतपदन्यासा विलासालसा अभिजाताकृतिः (गौः) [अकस्मात्] अकारणारिभिः
(कुकविभिः) साहङ्कारम् अभिध्याता आशाग्रहग्रस्तैः (तैः एव पुनः) दाशैः इव
दृप्तनृपान्धकूपकुहरे क्षिप्ता ईदृशी गौः सूक्तिनिभेन तारकरुणम् रोदिति ।

उष्णं निःश्वसिति क्षितिं विलिखति प्रस्तौति न प्रेयसः प्रीतिं सूक्तिभिरीशितुः करतले धत्ते
कपोलस्थलम् । वाग्देवी हृदयज्वरेण गुरुणा क्रान्ता हताशैर्वृथा
नीताविष्कृतकोपनिष्कृपनृपस्तोत्रत्रपापात्रताम् ॥ ३४ ॥

अन्वय-हताशैः (धनलवलोभग्रस्ताशैः कुकविभिः) वृथा आविष्कृतकोपनिष्कृपनृपस्तोत्रत्रपापात्रताम्
नीता वाग्देवी गुरुणा हृदयज्वरेण क्रान्ता (सती) उष्णम् निःश्वसिति क्षितिम् विलिखति ईशितुः सूक्तिभिः
प्रेयसः प्रीतिम् न प्रस्तौति करतले कपोलस्थलम् धत्ते ।

अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा ।
स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये चेतो निर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥ ३५


अन्वय-हतधियाम् वाग्देवता अस्थाने लयम् गमिता धिक्काराय पराभवाय महते तापाय पापाय वा कल्पते
[सद्भिः] तु स्थाने व्ययिता सती सताम् प्रख्यातये भूतये चेतोनिर्वृतये परोपकृतये प्रान्ते (च)
शिवावाप्तये प्रभवति ।

एताः पूर्वकविप्रणीतविविधग्रन्थाऽमृतास्वादन- क्रीडादुर्ललितं हरन्ति हृदयं वाचः कथं
धीमताम् । केषाञ्चित्पुनरीश्वरस्तुतिपदव्याहारहेवाकिनां यास्यन्ति स्पृहणीयतां भुवि
भवक्लेशस्पृशां मादृशाम् ॥ ३६ ॥

अन्वय-एताः (मदीयाः) वाचः पूर्वकवि-प्रणीतविविधग्रन्थामृतास्वादनक्रीडादुर्ललितम् धीमताम्
हृदयम् कथम् हरन्ति ? पुनः भुवि केषाञ्चित् मादृशाम् भवक्लेशस्पृशाम्
ईश्वरस्तुतिपदव्याहारहेवाकिनाम् [स्वयमेव] स्पृहणीयताम् यास्यन्ति ।

इति श्री प्रेममकरन्दसमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ कवि-काव्य-प्रशंसाख्यं स्तोत्रम्

षष्ठं स्तोत्रम्

जयत्यखिलखेचरप्रवरमौलिरत्नप्रभा-प्ररोहपरिपीवरीकृतनखांशुपादाम्बुजः ।
विशालनयनत्रयीरचितधामधामत्रयी- तिरस्कृतजगत्रयी-परिणतान्धकारो हरः ॥ १ ॥

अन्वय-अखिलखेचर-प्रवर-मौलि-रत्नप्रभाप्ररोहपरिपीवरीकृतनखांशुपादाम्बुजः
विशालनयनत्रयीरचितधामधामत्रयीतिरस्कृतजगत्त्रयीपरिणतान्धकारः हरः जयति ।

जयत्यमरदीर्घिकासलिलसेकसंवर्धित- प्रचण्डनयनानलग्लपिततीव्रता-पव्यथः ।
अचिन्त्यचरितोज्ज्वलज्वलदनन्यसाधारण- प्रभावमहिमाहितत्रिभुवनोपकारो हरः ॥ २ ॥

अन्वय-अमरदीर्घिकासलिलसेकसंवर्धितप्रचण्डनयनानलग्लपिततीव्रतापव्यथः
अचिन्त्यचरितोज्ज्वलज्वलदनन्यसाधारणप्रभावमहिमाहितत्रिभुवनोपकारः हरः जयति ।

जयत्यचलकन्यकाललितदोर्लतालिङ्गित- स्फुरद्गरलकालिमाकलितकान्तकण्ठ-स्थलः ।
तडिद्वलयलङ्घितोल्लसदमोघमेघभ्रम- प्रमत्तगुहबर्हिणोपहृतनृत्तहर्षो हरः ॥ ३ ॥

अन्वय-अचलकन्यकाललितदोर्लतालिङ्गितस्फुरद्गरलकालिमाकलितकान्त-कण्ठस्थलः
तडिद्वलयलङ्घितोल्लसदमोघमेघभ्रमप्रमत्त-गुहबर्हिणोपहृतनृत्तहर्षः हरः जयति ।

जयत्यविरलोच्छलद्गरलवह्निहेतिच्छटा- सटालफणभीषणक्षपणपाशमोक्षक्षमः । उदार
करुणारसप्रसरसारसिक्ताशयः प्रपन्नविपदर्णावोत्तरणकर्णधारो हरः ॥ ४ ॥

अन्वय-अविरलोच्छलद्गरलवह्निहेतिच्छटासटालफणभीषणक्षपणपाश-मोक्षक्षमः
उदारकरुणारसप्रसरसारसिक्ताशयः प्रपन्नविपदर्णवोत्तरणकर्णधारः हरः जयति ।

जयत्युदधिनिःसरद्गरनिगारलब्धाऽभय- प्रमोदभरनिभरत्रिदशदैत्यवृन्दस्तुतः ।
रसातलतलोद्गतज्वलदलङ्घ्यलिङ्गोल्लस- न्महामहिममोहितद्रुहिणवासुदेवो हरः ॥ ५ ॥

अन्वय-उदधिनिःसरद्गरनिगारलब्धाभयप्रमोदभरनिर्भरत्रिदशदैत्य-वृन्दस्तुतः रसातलत
लोद्गतज्ज्वलदलङ्घ्यलिङ्गोल्लसन्महामहिममोहितद्रुहिणवासुदेवः हरः जयति ।

जयत्यतुलविक्रमोन्मिषदखर्वगर्वज्ज्वर- ज्वलच्चपलमन्मथोन्मथनभग्नभोगस्पृहः ।
दशास्यभुजमण्डलीतरलितैकपिङ्गाचल- त्रसद्गिरिसुताहठग्रथितकण्ठपीठो हरः ॥ ६ ॥

अन्वय-अतुलविक्रमोन्मिषदखर्वगर्वज्वरज्वलच्चपलमन्मथोन्मथनभग्न-भोगस्पृहः
दशास्यभुजमण्डलीतरलितैकपिङ्गाचलत्रसद्गिरिसुता-हठग्रथितकण्ठपीठः हरः जयति ।

जयत्यकलितोल्लसन्मदभरोद्धरान्धासुर- प्रतिष्करणसान्त्वनप्रथितनिग्रहाऽनुग्रहः ।
जगत्त्रयभयङ्करत्रिपुरघोरदावावली- सलीलकवलीकृतिप्रलयवारिवाहो हरः ॥ ७ ॥

अन्वय-अकलितोल्लसन्मदभरोद्धरान्धासुरप्रतिष्करणसान्त्वनप्रथित-निग्रहानुग्रहः
जगत्त्रयभयङ्करत्रिपुरघोरदावावलीसलीलकवलीकृतिप्रलयवारिवाहः हरः जयति ।

जयत्यघवनाशनिः सुमतिमाधवीमाधवः कृपामृतपयोनिधिर्भवमहार्णवैकप्लवः ।
विपत्तृणसमीरणः प्रणयिचित्तचिन्तामणिः समस्तभुवनोदयप्रलयकेलिकारो हरः ॥ ८ ॥

अन्वय-अघवनाशनिः सुमतिमाधवीमाधवः कृपामृतपयोनिधिः भवमहार्णवैकप्लवः
विपत्तृणसमीरणः प्रणयिचित्तचिन्तामणिः समस्तभुवनोदयप्रलयकेलिकारः हरः जयति ।

इति श्रीप्रेममकरन्दोपेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ हराऽष्टकं नाम षष्ठं स्तोत्रम्

सप्तमं स्तोत्रम्

निशान्तनिद्रेव दशेव शैशवी नवीनवध्वाश्चकितेव दृक्छटा । सुरस्रवन्तीव कथेव शाम्भवी
कवीन्द्रवाङ्निर्वृतिमातनोतु वः ॥। १ ॥

अन्वय-निशान्तनिद्रा इव शैशवी दशा इव नवीनवध्वाः चकिता दृक्छटा इव सुरस्रवन्ती इव शाम्भवी
कथा इव कवीन्द्रवाक् वः निर्वृतिम् (आत्यंतिकदुःखनिवृत्तिरूपं निःश्रेयसम्) आतनोतु ।

अलौकिकाह्लादनिबन्धनं मनः-प्रसादनं स्वानुभवैकसक्षिकम् । प्रकाशतां वो हृदि पारमेश्वरं महो
रहस्यं सुकवेर्गिरामिव ॥ २ ॥

अन्वय-अलौकिकाह्लादनिबन्धनम् मनःप्रसादनम् स्वानुभवैकसाक्षिकम् पारमेश्वरम् महः सुकवेः गिराम्
रहस्यम् इव वः हृदि प्रकाशताम् ।

स यस्य चापात्सपदि च्युतोऽच्युतः शिखाभिरुग्रो विशिखः शिखावतः । पुराण्यकार्षीदपुराणि भैरवो
भयानि भिन्द्यादभवो भवः स वः ॥ ३ ॥

अन्वय-यस्य चापात् च्युतः सः अच्युतः विशिखः शिखावतः शिखाभिः उग्रः (सन्) पुराणि अपुराणि
अकार्षीत् सः अभवः भैरवः भवः वः भयानि भिन्द्यात् ।

स यस्य पृष्ठे चरणार्पणं वृषा वृषाधिरोहे कलयत्यनुग्रहम् । त्रिलोकनाथः स गिरा सुधावृषा
वृषाकपिस्तापमपाकरोतु वः ॥ ४ ॥

अन्वय-वृषाधिरोहे सः वृषा (स्वस्य) पृष्ठे यस्य चरणार्पणम् अनुगृहम् कलयति सः त्रिलोकनाथः
वृषाकपिः सुधावृषा गिरा वः तापम् अपाकरोतु ।

स यस्य पादद्वयमिद्धशासनः सदा समभ्यर्चति पाकशासनः । प्रभुः प्रसादाऽमलया दृशा स नः
क्रियाद्विपद्भङ्गमनङ्गशासनः ॥ ५ ॥

अन्वय-इद्धशासनः सः पाकशासनः यस्य पादद्वयम् सदा समभ्यर्चति सः अनङ्गशासनः प्रभुः
प्रसादामलया दृशा नः विपद्भङ्गम् क्रियात् ।

चमूर्जयन्भीजनकानका न काः स यस्य सूनुः क्लमहा महामहाः । जटाः स बिभ्रत्तरुणारुणारुणाः
श्रियः क्रियाद्वः शुभयाभयाऽभया ॥ ६ ॥

अन्वय-यस्य सः सूनुः काः भीजनकानकाः चमूः न जयन् (भवति) सः क्लमहाः महामहाः
तरुणारुणारुणाः जटाः बिभ्रत् शुभया आभया (उपलक्षितः) वः अभयाः श्रियः क्रियात् ।

मयि ध्रुवं दृग्भवता बताऽवता कृपामृतार्द्रा महिता हिताऽऽहिता । अतस्तवास्तप्रमयामया मया
कृता नुतिः सातिशयाशयाऽऽशया ॥ ७ ॥

अन्वय-अयि शंभो ! अवता भवता मयि कृपामृतार्द्रा महिता हिता दृक् ध्रुवम् आहिता बत ? अतः मया
सातिशयाशयाऽऽशया अस्तप्रमयामयामया तव नुतिः कृता ।

अनभ्रवर्षप्रतिमं विमत्सरा नरा जरारुङ्मरणार्त्तिभीरवः । मुधा सुधासूतिवतंसशंसनं विहाय
धावन्ति रसायनाय किम् ॥ ८ ॥

अन्वय-विमत्सराः जरारुङ्मरणार्तिभीरवः नराः अनभ्रवर्षप्रतिमम् सुधासूतिवतंसशंसनम् विहाय
रसायनाय मुधा किम् धावन्ति ?

मणिः सुसूक्ष्मोऽपि यथोल्बणं विषं कृशोपि वह्निः सुमहद्यथा तृणम् । शिशुर्मृगेन्द्रोपि यथा
गजव्रजं तनुः प्रदीपोऽपि यथा तमोभरम् ॥ ९ ॥

यथाल्पमप्यौषधमुन्मदं गदं यथामृतं स्तोकमपि क्षयाद्भयम् । ध्रुवं तथैवाणुरपि स्तवः
प्रभोः क्षणादघं दीर्घमपि व्यपोहति ॥ १० ॥

अन्वय-यथा सुसूक्ष्मः अपि मणिः उल्बणम् विषम् व्यपोहति यथा कृशः अपि वह्निः सुमहत् तृणम् क्षणात्
व्यपोहति यथा वा शिशुः अपि मृगेन्द्रः गजव्रजम् व्यपोहति यथा तनुः अपि प्रदीपः तमोभरम् व्यपोहति
अल्पम् अपि औषधम् यथा उन्मदम् गदम् व्यपोहति स्तोकम् अपि अमृतम् क्षयात् भयम् व्यपोहति तथैव अणुः अपि
(यया कया वा भाषया कृतः) प्रभोः स्तवः दीर्घम् अपि अघम् ध्रुवम् क्षणात् [एव] व्यपोहति ।

अमन्दसन्दर्भगभीरविभ्रमः प्रगल्भवैदर्भपरिश्रमः क्रमः । अवश्यमासाद्य गुणोचितं विभुम् बिभर्त्ति
सौभाग्यमभङ्गुरं गिरः ॥ ११ ॥

अन्वय-(धन्यस्य कवेः) अमन्दसन्दर्भगभीरविभ्रमः प्रगल्भवैदर्भपरिश्रमः गिरः क्रमः गुणोचितम्
विभुम् आसाद्य अवश्यम् (एव) अभङ्गुरम् सौभाग्यम् बिभर्ति ।

यथा हि शीलेन विना कुलाङ्गना यथा विवेकेन विना मनीषिता । सदर्थबोधेन विना यथा श्रुति-
र्महीभुजङ्गेन विना यथा मही ॥ १२ ॥

यथा विना द्यौररविन्दबन्धुना विना शशाङ्केन यथा निशीथिनी । विदग्धवर्गेण विना यथा सभा विना
विभूतिर्विनयेन वा यथा ॥ १३ ॥

कृपाविपाकेन विना यथा मति- र्यथा सुपुत्रेण विना गृहस्थितिः । तथैव शोच्या हरिणाङ्कशेखर-
स्तवोपयोगेन विना सरस्वती ॥ १४ ॥

अन्वय-यथा हि शीलेन विना कुलाङ्गना (शोच्या भवति) यथा विवेकेन विना मनीषिता (शोच्या भवति)
यथा सदर्थबोधेन विना श्रुतिः शोच्या यथा वा महीभुजङ्गेन विना मही (शोच्या भवति) यथा
अरविन्दबन्धुना विना द्यौः शोच्या यथा च शशाङ्केन विना निशीथिनी शोच्या विदग्धवर्गेण विना यथा
सभा शोच्या (भवति) विनयेन विना यथा विभूतिः शोच्या यथा मतिः कृपाविपाकेन विना शोच्या यथा च
सुपुत्रेण विना गृहस्थितिः शोच्या (भवति) तथैव हरिणाङ्कशेखरशेखरस्तवोपयोगेन विना सरस्वती
(वाणी) शोच्या (भवति) ।

रमापि देवी मम नो मनोरमा क्षमापि मामभ्यवपत्तुमक्षमा । मम क्षमैका भगवत्परानुति-
र्भवार्त्तिभङ्गे सरसा सरस्वती ॥ १५ ॥

अन्वय-रमा देवी अपि मम मनोरमा न (भवति) तथा क्षमा देवी अपि माम् अभ्यवपत्तुम् अक्षमा पुनः मम
भवार्त्तिभङ्गे एका भगवत्परा सरसा सरस्वती [एव] क्षमा (भवति) ।

अचेतनो यः किल कुस्थितिप्रियः पृथग्विधोपाधिशतक्षताशयः । निषेव्यते पादतले स यद्गिरि- श्चिरं
मुनीन्द्रैरपि शुद्धमानसः ॥ १६ ॥

अन्वय-यः अचेतनः कुस्थितिप्रियः पृथग्विधोपाधिशतक्षताशयः (अपि) सः गिरिः (कैलाशः)
शुद्धमानसः पादतले चिरम् मुनीन्द्रैः यत् निषेव्यते [सः एषः गौरीश्वरसंश्रयात्मनः
कल्पमहामहीरुहः फलोद्गमः (अस्ति) इतिवक्ष्यमाणश्लोकेन सहान्वयः] ।

निसर्गतः सत्पथगर्हितस्थिति- र्मलीमसो जिह्मगतिश्च यः फणी । स कुण्डली यन्मणिमौलिमण्डितो
महाभुजङ्गः पृथुभोगभागपि ॥ १७ ॥

अन्वय-यः फणी निसर्गतः सत्पथगर्हितस्थितिः मलीमसः जिह्मगतिः च (अस्ति) सः (अपि) यत् कुण्डली
मणिमौलिमण्डितः महाभुजङ्गः पृथुभोगभाक् अपि [संजातः] सः एषः गौरीश्वरसंश्रयात्मनः
कल्पमहामहीरुहः फलोद्गमः (अस्ति) इति पूर्ववदन्वयः ।

यदप्यजस्रं जडसङ्गमोचितः स्वभावतुच्छः शशभृत् कलामयः । कलङ्कमुक्तं वहते सुधामयं
विधूतदोषोदयमुज्ज्वलं वपुः ॥ १८ ॥

स एष गौरीश्वरसंश्रयात्मनः फलोद्गमः कल्पमहामहीरुहः । अमुं समासादयितुं हितायति- र्यतेत को
नाम न चेतनो जनः ॥ १९ ॥

(सन्दानितकम्)

अन्वय-अजस्रम् जडसङ्गमोचितः स्वभावतुच्छः शशभृत् कलामयः अपि (चन्द्रमाः) यत् कलङ्कमुक्तम्
सुधामयम् विधूतदोषोदयम् उज्ज्वलम् वपुः वहते सः एषः गौरीश्वरसंश्रयात्मनः कल्पमहामहीरुहः
फलोद्गमः (अस्ति) हि अमुम् (गौरीश्वरसंश्रयम्) समासादयितुम् कः नाम हितायतिः सचेतनः जनः न यतेत
(अपि तु सर्वोपीत्यर्थः) ।

निदाघनिर्दग्धमहामरुभ्रम- क्लमच्छिदो मार्गमहीरुहादपि । कलिन्दकन्यासलिलौघसङ्गत-
त्रिमार्गगाम्भोभरसम्प्लवादपि ॥ २० ॥

सरस्वतीसौभगसारसम्भृत- प्रसन्नगम्भीरपदक्रमादपि । कुरङ्गनाभीघनकुङ्कुमाङ्कित-
स्तनाङ्गनालिङ्गनविभ्रमादपि ॥ २१ ॥

अमन्दमानन्दसुधारसद्रवं स्रवन्नवन्ध्यं भवदुःखिते हृदि । इयत्यमुष्मिन्भुवनाध्वनि ध्वनि- र्नमः
शिवायेति चमत्करोति मे ॥ २२ ॥

(तिलकम्)

अन्वय-इयति (दूरे) अमुष्मिन् भुवनाध्वनि भवदुःखिते मे हृदि नमः शिवाय इति ध्वनिः
निदाघनिर्दग्धमहामरुभ्रमक्लमच्छिदः मार्गमहीरुहात् अपि
कलिंगकन्यासलिलौघसङ्गतत्रिमार्गगांभोभरसम्प्लवात् अपि
सरस्वतीसौभगसारसम्भृतप्रसन्नगम्भीरपदक्रमात् अपि
कुरङ्गनाभीघनकुङ्कुमाङ्कितस्तनाङ्गनालिङ्गनविभ्रमात् अपि अवन्ध्यम् अमन्दम् आनन्दसुधारसद्रवम् स्रवन्
मे (एतेभ्यः सर्वेभ्यः सकाशात् अधिकम्) चमत्करोति ।

विचिन्तयञ्जीवनमेव जीवनं समर्थयन् पार्थिवमेव पार्थिवम् । विभावयन् वैभवमेव वै भवं
कदाऽऽश्रये शङ्करमेव शङ्करम् ॥ २३ ॥

अन्वय-जीवनम् एव जीवनम् विचिन्तयन् पार्थिवम् पार्थिवम् एव समर्थयन् भवम् वैभवम् एव
(क्षणभङ्गुरमित्यर्थः) विभावयन् (अहम्) वै शङ्करम् शङ्करम् एव कदा आश्रये ।

वरं भवेदप्यवरं कलेवरं परं हराराधनसाधनं हि यत् । न तु क्रतुध्वंसिनिषेवणोत्सवं
विनिघ्नती मुक्तिरयुक्तिपातिनी ॥ २४ ॥

अन्वय-हि यत् परम् हराराधनसाधनम् (तत्) अवरम् अपि कलेवरम् वरम् भवेत् तु क्रनुध्वंसिनिषेवणोत्सवम्
विनिघ्नती अयुक्तिपातिनी मुक्तिः न वरम् (भवेत्) ।

क्व नीलकण्ठायतनोपसर्पण- स्फुटोपकारौ चरणौ महागुणौ । क्व चाञ्चनोद्वर्त्तनचर्चनादिभिः
पुरारिपूजार्पणतर्पणौ करौ ॥ २५ ॥

क्व नाम नामग्रहणोत्सवं विभो- रभिप्रवृत्ता रसना दिने दिने । क्व चाद्रिपुत्रीपतिपादपंकज-
स्फुरद्रजोराजिविराजितं शिरः ॥ २६ ॥

क्व दृक्चिरं पारितचन्द्रशेखर- स्वरूपसौभाग्यविलोकनस्पृहा । क्व सन्तताकर्णितदर्पकद्विष-
द्विचित्रचारित्रपवित्रिता श्रुतिः ॥ २७ ॥

क्व निर्धुताऽनल्पविकल्पविप्लव- त्रिलोचनध्याननिबन्धनं मनः । क्व चाऽपवर्गोऽयममार्ग एव यः
स्मरारिसेवासुखसर्वसम्पदाम् ॥ २८ ॥

इदं विदन्तः सुधियो भियोज्झिताः समाधिमाधिच्छिदमाश्रिता अपि । प्रभुप्रणामस्तुतिचिन्तनार्चन-
स्फुटोपयोगं बहु मन्वते वपुः ॥ २९ ॥

(पञ्चभिः कुलकम्)

अन्वय-नीलकण्ठायतनोपसर्पणस्फुटोपकारौ महागुणौ (भक्तानाम्) चरणौ क्व (भवतः) ?
स्मरारिसेवासुखसर्वसम्पदाम् अमार्गः अयम् अपवगः (मोक्षः) क्व? अञ्जनोद्वर्त्तनचर्चनादिभिः
पुरारिपूजार्पणतत्परौ करौ क्व ? तथा-दिने दिने विभोः नामग्रहणोत्सवम् अभिप्रवृत्ता रसना क्व ?
अद्रिपुत्रीपतिपादपङ्कजस्फुरद्रजोराजिविराजितम् शिरः च क्व ? चिरम्
पारितचन्द्रशेखरस्वरूपसौभाग्यविलोकनस्पृहा दृक् क्व ?
सन्तताकर्णितदर्पकद्विषद्विचित्रचारित्रपवित्रिता श्रुतिः क्व ?
निर्धुताऽनल्पविकल्पविप्लवत्रिलोचनध्याननिबन्धनम् मनः क्व (अस्ति) ? स्मरारिसेवासुखसर्वसम्पदाम् अमार्गः
अयम् अपवर्गः च क्व (अस्ति) ? इदम् विदन्तः भियोज्झिताः सुधियः आधिच्छिदम् समाधिम् आश्रिता अपि
प्रभुप्रणामस्तुतिचिन्तनार्चनस्फुटोपयोगम् वपुः बहु मन्वते ।

मुक्तिर्हि नाम परमः पुरुषार्थ एकः तामन्तरायमवयन्ति यदन्तरज्ञाः ।

किमङ्गमङ्गल्यमनङ्गभङ्गद प्रसादनादन्यदधन्यमन्यसे । यदर्थमर्थक्षतिकृत्सुदुष्कर-प्रयास-
साध्येषु मखेषु खिद्यसे ॥ ३० ॥

अन्वय-हे अङ्ग ! अधन्य ! अनङ्गभङ्गदप्रसादनात् अन्यत् मङ्गल्यम् किम् मन्यसे ? यदर्थम्
अर्थक्षतिकृत्सुदुष्करप्रयाससाध्येषु मखेषु खिद्यसे ।

इमा हिमानीविमला हविर्भुजां प्रभुप्रसादप्रभवा विभूतयः । करोषि यत्तर्पणमात्रकाम्यया
दयास्पदप्राण्युपघातपातकम् ॥ ३१ ॥

अन्वय-हे अधन्य ! अत्तर्पणमात्रकाम्यया दयास्पदप्राण्युपघातपातकम् करोषि (तेषाम्) हविर्भुजाम् इमाः
हिमानीविमलाः विभूतयः प्रभुप्रसादप्रभवाः (सन्ति) ।

सखे ! सखेदस्य धनार्जनं प्रति प्रतिग्रहाध्यापनयाजनादिभिः । प्रयाति ते वायुरिवायुरिङ्गितं विहन्ति
हन्त क्रतवे तवेहितम् ॥ ३२ ॥

अन्वय-हे सखे ! प्रतिग्रहाध्यापनयाजनादिभिः धनार्जनं प्रति सखेदस्य ते आयुः वायुः इव प्रयाति
हन्त (अन्तः) क्रतवे तव ईहितम् (तव) इङ्गितम् (अभीप्सितं श्रीशिवाराधनम्) विहन्ति ।

अतः स्वतः प्रार्थित-संपदां पदं कदर्थना-हीनमदीनमेनसा । निदानमानन्दभुवः स्वयम्भुवो
भजस्व पादाम्बुजसेवनोत्सवम् ॥ ३३ ॥

(चक्कलकम्)

अन्वय-अतः हे सखे ! स्वतःप्रार्थितसम्पदाम् पदम् कदर्थनाहीनम् एनसा अदीनम् आनन्दभुवः निदानम्
स्वयंभुवः पादाम्बुजसेवनोत्सवम् भजस्व ।

अक्लेशपेशलमलङ्घ्यकृतान्तदूत- हुङ्कारभङ्गभिदुरं दुरितेन्धनाग्निम् । को नाम नामयहरं
हरपादपद्म- सेवासुखं सुमतिरन्वहमाद्रियेत ॥ ३४ ॥

अन्वय-अक्लेशपेशलम् अलङ्घ्यकृतान्तदूतहुङ्कारभङ्गभिदुरम् दूरितेन्धनाग्निम् आमयहरम्
हरपादपद्मसेवासुखम् कः नाम सुमतिः अन्वहम् न आद्रियेत् ?

रोमन्थमन्थरकुरङ्गशताश्रितेषु भागीरथीशिशिरशीकरशीतलेषु । रोहन्महार्हफलकन्दलसुन्दरेषु
बद्धास्पदास्तुहिनभूधरकन्दरेषु ॥ ३५ ॥

धन्याः समाधिमवधानधना धनादि सम्बन्धबन्धमवधूय धियाऽधियन्तः । ज्योतिः परं
गलदनल्पविकल्पजाल- मालोकयन्ति भगवन्तमनन्तमन्तः ॥ ३६ ॥

(युग्मम्)

अन्वय-रोमन्थमन्थरकुरङ्गशताश्रितेषु भागीरथीशिशरशीकरशीतलेषु
रोहन्महार्हफलकन्दलसुन्दरेषु तुहिनभूधरकन्दरेषु बद्धास्पदाः अवधानधनाः धन्याः
धनादिसंबद्धबन्धम् अवधूय धिया समाधिम् अधियन्तः गलदनल्पविकल्पजालम् परम् ज्योतिः भगवन्तम्
अनन्तम् अन्तः (हृदये) आलोकयन्ति ।

धन्या भजन्ति नृपवेश्मसु वेत्रिवक्त्र- हुंकारकातरधियस्तरुणेन्दुमौलिम् ।
वैराग्यनिर्वृतमनस्विजनावकीर्ण- स्वर्गापगापुलिनबाललतालयेषु ॥ ३७ ॥

अन्वय-नृपवेश्मसु वेत्रिवक्त्रहुङ्कारकातरधियः धन्याः
वैराग्य-निर्वृतमनस्विजनावकीर्णस्वर्गापगापुलिनबाललतालयेषु तरुणेन्दुमौलिम् भजन्ति ।

सन्तः स्मरन्ति शशिखण्डशिखण्डसेवा- हेवाकिनः सुरसरित्पुलिनस्थलेषु ।
लक्ष्मीलवोल्लसदमन्दमदाऽवलेप- भूपालवालिशविलङ्घनविप्लवानाम् ॥ ३८ ॥

अन्वय-शशिखण्डशिखण्डसेवाहेवाकिनः सन्तः सुरसरित्पुलिनस्थलेषु
लक्ष्मीलवोल्लसदमन्दमदाऽवलेपभूपालवालिशविलङ्घन-विप्लवानाम् स्मरन्ति ।

इदं मधुमुखं विषं हरति जीवितं तत्क्षणा- दपथ्यमिदमाशितं व्यथयते विपाके वपुः । इदं
तृणगणावृतं विलमधो विधत्ते क्षणा- द्यदत्र मलिनोल्बणैर्द्रविणमर्जितं कर्मभिः ॥ ३९ ॥

अतः प्रतनुवैभवोद्भवदखर्दगर्वक्षमा- पतिप्रणयसंभवं भुवि विडम्बनाडम्बरम् । विहाय
सुरवाहिनीपुलिनवासहेवाकिनो भजन्ति कृतिनस्तमीरमणखण्डचूडामणिम् ॥ ४० ॥

(युग्मम्)

अन्वय-अत्र मलिनोल्बणैः कर्मभिः (मनुष्यैः) यत् द्रविणम् अर्जितम् इदम् मधुमुखम् विषम् तत्क्षणात् जीवितम्
हरति । इदम् आशितम् अपथ्यम् विपाके वपुः व्यथयते । (मलिनोल्बणैः कर्मभिः यत् द्रविणम् उपार्जितम्) तत्
इदम् तृणगणावृतम् विलम् क्षणात् अधः विधत्ते । अतः (हेतोः) सुरवाहिनीपुलिनवासहेवाकिनः कृतिनः
भुवि प्रतनुवैभवोद्भवदखर्वगर्वक्षमापतिप्रणयसंभवम् विडम्बनाडम्बरम् विहाय
तमीरमणखण्डचूडामणिम् भजन्ति ।

किं भूयोभिः परुषविषयैः श्रीविकारैरसारैः किं वा भूयः पतनविरसैः स्वर्गभोगाभिलाषैः ।
मन्ये नाऽन्यद्भवभयविपत्कातराणां नराणां मुक्त्वा भक्तिं भगवति भवे शस्यमाशास्यमस्ति ॥ ४१ ॥

दूरोदञ्चच्चटुललहरीहारिहस्तव्युदस्त- व्यापत्तापत्रिदशतटिनीमज्जनोन्मज्जनेषु । श्रद्धाबन्धं
शशधरशिरःपादराजीवसेवा-हेवाकैकव्यसनमनसस्तेन तन्वन्ति सन्तः ॥ ४२ ॥

(युग्मम्)

अन्वय-असारैः भूयोभिः परुषविषयैः किम् ? असारैः श्रीविकारैः च किम् ? पतनविरसैः
स्वर्गभोगाभिलाषैः वा किम् [भवति] ? भवभयविपत्कातराणाम् नराणाम् भगवति भवे भक्तिम् मुक्त्वा
अन्यत् आशास्यम् शस्यम् न अस्ति । [इति अहम्] मन्ये । तेन (पूर्वोक्तहेतुना) सन्तः
शशधरशिरः-पादराजीव-सेवाहेवाकैकव्यसनमनसः (सन्तः)
दूरोदञ्चच्चटुललहरीहारिहस्तव्युदस्तव्यापत्ताप-त्रिदशतटिनीमज्जनोन्मज्जनेषु श्रद्धाबन्धम् तन्वन्ति ।

इति श्रीप्रेममकरन्दनाम्न्या टीकयोपेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो
महेश्वरस्य स्तुति- कुसुमाञ्जलौ सेवाभिनन्दनं नाम सप्तमं स्तोत्रम् ।

अष्टमं स्तोत्रम्

कल्याणिनः सुरगिरेरिव संश्रितस्य लक्ष्म्या हरेरिव रवेरिव दीप्तिभाजः । पद्यस्य शम्भुविषयस्य जयन्ति
पादा ये मण्डयन्ति च पुनन्ति च विष्टपानि ॥ १ ॥

अन्वय-शम्भुविषयस्य कल्याणिनः पद्यस्य ये पादाः कल्याणिनः सुरगिरेः पादाः इव (तथा) लक्ष्म्या
संश्रितस्य हरेः पादाः इव (एवं) दीप्ति भाजः रवेः पादाः इव विष्टपानि मण्डयन्ति पुनन्ति च ते
जयन्ति ।

याः पङ्किलेन कलिलेन वियोजयन्ति नित्योज्ज्वलेन कुशलेन च योजयन्ति । ता धूर्जटेरमरनिर्झरिणीतरङ्ग-
भङ्गाभिरामगतयः स्तुतयो जयन्ति ॥ २ ॥

अन्वय-याः (भक्तजनम्) पङ्किलेन कलिलेन वियोजयन्ति नित्योज्ज्वलेन कुशलेन च योजयन्ति ताः
अमरनिर्झरिणीतरङ्गभङ्गाभिरामगतयः स्तुतयः जयन्ति ।

संसारदारुणदवानलदह्यमान- वाक्-चित्त-काय-कुशलीकरणौषधानि । श्री-भुक्ति-मुक्ति-वश-कर्म्मणि
कार्मणानि शम्भोर्जयन्ति नुतिचिन्तनपूजनानि ॥ ३ ॥

अन्वय-संसारदारुणदवानलदह्यमानवाक्चित्तकायकुशलीकरणौषधानि श्रीभुक्तिमुक्तिवशकर्मणि
कार्मणानि शम्भोः नुतिचिंतनपूजनानि जयन्ति ।

दोषाकरस्य शिरसि स्थितिमुत्तमाङ्ग- च्छेदं विधेरविरहं नरवाहनस्य । भस्मीकृतिं
त्रिपुर-पाशधर-स्मराणां वश्यं दिशाञ्च दशकं दशकन्धरस्य ॥ ४ ॥

अन्वय-(येन स्वातन्त्र्येण क्रीडन्निव प्रभुः) दोषाकरस्य शिरसि स्थितिम् व्यधित विधेः उत्तमाङ्गच्छेदम्
व्यधित नरवाहनस्य अविरहम् (सख्यम्) व्यधित त्रिपुरपाशधरस्मराणाम् भस्मीकृतिम् व्यधित
दशकन्धरस्य वश्यम् दिशाम् दशकम् व्यधित । तत् ईश्वरस्य निरङ्कुशम् अप्रतिहतम् स्वातन्त्र्यम् जयति इति
वक्ष्यमाणाऽष्टमश्लोकेन सहान्वयः ।

शौर्यानलस्य परशुव्यजनेन दीप्तिं रामस्य बाहुपरिघप्रतिघं मघोनः । हैमं मरुत्तनृपतेर्दिवसानि
सप्त वर्षं सुदर्शनसमर्पणमच्युतस्य ॥ ५ ॥

अन्वय-(येन च स्वातन्त्र्येण) परशुव्यजनेन रामस्य शौर्यानलस्य दीप्तिम् व्यधित मघोनः
बाहुपरिघप्रतिघम् व्यधित मरुत्तनृपतेः पुरे सप्तदिवसानि हैमम् वर्षम् व्यधित अच्युतस्य
सुदर्शनसमर्पणम् व्यधित (तत् ईश्वरस्य अप्रतिहतम् स्वातन्त्र्यम् जयति इति पूर्ववदन्वयः) ।

श्वेतस्य कण्ठपुलिनात्समवर्तिपाश- प्रोत्सारणं नयननिर्हरणं भगस्य । दुग्धाब्धिदानमुपमन्युमुनेः
क्रियासु दक्षस्य विघ्नकरणं मखदीक्षितस्य ॥ ६ ॥

अन्वय-(येन स्वातन्त्र्येण) श्वेतस्य कण्ठपुलिनात् समवर्तिपाशप्रोत्सारणम् व्यधित उपमन्युमुनेः
दुग्धाब्धिदानम् व्यधित मखदीक्षितस्य दक्षस्य क्रियासु विघ्नकरणम् व्यधित ।

शूलाधिरोहणपराभवमन्धकस्य पूष्णो हनुग्रहमनुग्रहमर्जुनस्य । नन्दीश्वरस्य रविजादभयं
भुजङ्ग- भङ्ग्याभिमानमथनं मुनिमानिनीनाम् ॥ ७ ॥

अन्वय-(येन स्वातन्त्र्येण) अन्धकस्य शूलाधिरोहणपराभवम् व्यधित पूष्णः हनुग्रहम् अर्जुनस्य च
अनुग्रहम् व्यधित नन्दीश्वरस्य रविजात् अभयम् व्यधित मुनिमानिनीनाम् भुजङ्गभंग्याभिमानमथनम्
व्यधित (तत् स्वातन्त्र्यम् जयति) ।

किं वाऽपरं द्रुहिणकृष्णहरत्वमेत्य सर्गस्थितिप्रशमनानि जगत्त्रयस्य । क्रीडन्निव व्यधित येन
निरङ्कुशं तत् स्वातन्त्र्यमप्रतिहतं जयतीश्वरस्य ॥ ८ ॥

(पञ्चभिः कुलकम् ।

अन्वय-किम् वा अपरम् (बहु ब्रूमः) येन स्वातन्त्र्येण क्रीडन् इव द्रुहिणकृष्णहरत्वम् एत्य जगत्त्रयस्य
सर्गस्थितिप्रशमनानि व्यधित तत् ईश्वरस्य निरङ्कुशम् अप्रतिहतम् स्वातन्त्र्यम् जयति ।

यस्याऽतिघोरगरलादपि कण्ठपीठा- त्संजीवनौषधमुदेति वचो नतानाम् । यस्य
ज्वलद्घनकृशानुशिखोल्बणापि वर्षत्यमोघममृतद्रवमेव दृष्टिः ॥ ९ ॥

प्. १४१)

अन्वय-यस्य अतिघोरगरलात् अपि कण्ठपीठात् नतानाम् (सञ्जीवनम्) सञ्जीवनौषधम् वचः उदेति यस्य
ज्वलद्घनकृशानुशिखोल्बणा अपि दृष्टिः नतानाम् अमोघम् अमृतद्रवम् एव वर्षति (तम् संश्रितार्तिहरणम्
विभुम् अहम् शरणम् श्रयामि इति अग्रे पंचविंशतितमे श्लोके सम्बन्धः) ।

दंष्ट्राकरालमपि घोरमघोरवक्त्त्रं यस्य प्रपन्नभयभञ्जनभङ्गिमेति ।
यस्याङ्गभस्मकणिकाश्चरणाश्रितेषु कर्पूरधूलिपटलश्रियमाश्रयन्ति ॥ १० ॥

अन्वय-यस्य दंष्ट्राकरालम् अपि घोरम् (नीलोत्पलाभम्) अघोरवक्त्रम् प्रपन्नभयभञ्जनभङ्गिम् एति यस्य च
अङ्गभस्मकणिकाः चरणाश्रितेषु कर्पूरधूलिपटलश्रियम् आश्रयन्ति (तं विभुं श्रयामि इति
पूर्ववत्संबन्धः) ।

यस्यापि कृष्णभुजगा भुजगा भजन्त- मिन्दीवरस्रज इव प्रविनन्दयन्ति । किं चाङ्गसङ्गि मरुदीरितमेति
यस्य मुण्डं नमत्स्वमलमङ्गलकम्बुशोभाम् ॥ ११ ॥

अन्वय-यस्य भुजगाः कृष्णभुजगाः अपि इन्दीवरस्रजः इव भजन्तम् पविनन्दयन्ति किम् च (अधिकम्) यस्य
अङ्गसङ्गि मुण्डम् मरुदीरितम् (सत्) नमत्सु अमलमङ्गलकम्बुशोभाम् एति (तं विभुम् अहम् श्रयामि) ।

यस्येभचर्मघनशोणितपङ्कलिप्त- मङ्गेषु मङ्गलदुगूल [केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुगूले ॥] विलासमेति । यस्यापि तापविधुरेषु करे कपाल-
मालम्बतेऽमृतकमण्डलुखण्डलीलाम् ॥ १२ ॥

अन्वय-यस्य अङ्गेषु घनशोणितपङ्कलिप्तम् (अपि) इभचर्म मङ्गलदुगूलविलासम् एति यस्य करे कपालम् अपि
तापविधुरेषु अमृतकमण्डलुखण्डलीलाम् आलम्बते (तं अहम् श्रयामि) ।

यत्पादपांसुपरिमर्शशुचि श्मशानं श्रीशैलनैमिषमुखान्यधरीकरोति । यत्संस्तवादविकलं कुशलं
कपाल- पाली करोति कृतिनां कमलावलीव ॥ १३ ॥

अन्वय-यत्पादपांसुपरिमर्शशुचि (सत्) श्मशानम् श्रीशैलनैमिषमुखानि (तीर्थानि अपि) अधरीकरोति
यत्संस्तवात् कपालपाली कमलावली इव कृतिनाम् अविकलम् कुशलम् करोति तमहं श्रयामि ।

यं देवमस्तशिरसं सुरभर्त्तुरङ्के लङ्केशवैरिकरवीजिततालवृन्तम् । आसीनसुप्तसुखितं शतरुद्रियादि-
मन्त्रैः स्वरेण मधुरेण गृणाति वेधाः ॥ १४ ॥

अन्वय-सुरभर्त्तुः अङ्के अस्तशिरसम् लङ्केशवैरिकरवीजिततालवृन्तम् आसीनसुप्तसुखितम् यम् देवम् वेधाः
शतरुद्रियादिमन्त्रैः मधुरेण स्वरेण गृणाति (तमहं शरणम् श्रयामि) ।

हेलावलीढभुवनत्रितयेन येन गीर्णाः पुरन्दरमुकुन्दरवीन्दवोऽपि । यस्य ज्वलद्विपुलभालविलोचनाग्नि-
ज्वालावलीशलभतामगमत्स कालः ॥ १५ ॥

अन्वय-हेलावलीढभुवनत्रितयेन येन (कालेन) पुरन्दरमुकुन्दरवीन्दवः अपि गीर्णाः सः कालः यस्य
(प्रभोः) ज्वलद्विपुलभालविलोचनाग्निज्वालावलीशलभताम् अगमत् (तं विभुम् अहम् श्रयामि) ।

श्वेतं विधोरुदयहेतुमवेत्य पक्षं कालं च यः क्षयकरं दृशमाश्रितस्य । श्वेतं दयाविशदयाशु
दृशानुगृह्य कालं दृशैव नयति स्म शमं विपक्षम् ॥ १६ ॥

अन्वय-यः श्वेतम् पक्षम् दृशम् आश्रितस्य विधोः उदयहेतुम् अवेत्य (तथा) कालम् पक्षम् च विधोः क्षयकरम्
अवेत्य (अत-एव) श्वेतम् दयाविशदया दृशा अनुगृह्य विपक्षम् कालम् दृशा एव शमम् नयति स्म तमहं
शरणं श्रयामीति पूर्ववत् ।

चक्री मुखाग्रविलसज्ज्वलनोग्रजिह्वा- लीढाम्बरः क्षितिधरेन्द्रधनुर्धरस्य । यस्यागमन्निधनसाधनतां
पुराणां वाणीकृतश्च रणमूर्ध्नि गुणीकृतश्च ॥ १७ ॥

अन्वय-क्षितिधरेन्द्रधनुर्धरस्य यस्य रणमूर्ध्नि मुखाग्रविलसज्ज्वलनोग्रजिह्वालीढाम्बरः चक्री
(विष्णुः) वाणीकृतः (तथा) मुखाग्रविलसज्ज्वलनोग्रजिह्वालीढाम्बरः चक्री (वासुकिश्च) गुणीकृतः
पुराणाम् निधनसाधनताम् अगमत् तम् अहम् शरणं श्रयामि ।

चक्रायुधं विशिखतामुडुचक्रवर्ति- चक्राभिधानसुहृदौ रथचक्रभावम् । नीत्वाऽसृजत्त्रिदशधाम्नि
रसातले च यो हर्ष-शोकमयमश्रु पुराङ्गनानाम् ॥ १८ ॥

अन्वय-यः विभुः (त्रिपुरसमरे) चक्रायुधम् विशिखताम् नीत्वा उड्डुचक्रवर्तिचक्राभिधानसुहृदौ (च)
रथचक्रभावम् नीत्वा त्रिदशधाम्नि रसातले च पुराङ्गनानाम् हर्षशोकमयम् अश्रु असृजत् (तं विभुम्
शरणं श्रयामीति सम्बन्धः) ।

आरूढरीढमपि येन समर्पितेन प्रीतिं रतिं च हृदि विस्मरति स्म कामः । तं दृष्टिपातमधिगम्य
बिभर्ति यस्य प्रीतिं रतिं च हृदि को न सुसिद्धकामः ॥ १९ ॥

अन्वय-आरूढरीढम् अपि हृदि समर्पितेन येन कामः प्रीतिम् रतिम् च विस्मरति स्म यस्य (विभोः) तम्
दृष्टिपातम् अधिगम्य सुसिद्धकामः कः (भक्तजनः) हृदि प्रीतिम् रतिम् च न बिभर्ति ? शेषं पूर्ववत् ।

कृष्णोपदर्शितपथः पृथुलोष्मभीष्म- श्लाघ्यं दधद्वपुरुपात्तवनान्तवासः । व्याधाकृतेरपि
धनञ्जय एव यस्य दृग्गोचरे कृतपदो महसा दिदीपे ॥ २० ॥

अन्वय-कृष्णोपदर्शितपथः पृथुलोष्मभीष्मश्लाघ्यम् वपुः दधत् उपात्तवनान्तवासः धनञ्जयः एव
व्याधाकृतेः अपि यस्य (विभोः) दृग्गोचरे कृतपदः महसा दिदीपे (तमहं शरणम् श्रयामि) ।

युक्तं सुधाकरसुधाकरकद्युसिन्धु- तोयादि यन्मनसि तापमपाकरोति । यस्याङ्गसङ्गि शवभस्मकपालमाला-
हालाहलाहिदहनाद्यपि हृद्यमेव ॥ २१ ॥

अन्वय-सुधाकरसुधाकरकद्युसिन्धुतोयादि यन्मनसि तापम् (त्रिजगत्सर्गादिव्यापारजम् सन्तापम्) अपाकरोति (तत्)
युक्तम् (अद्भुतन्त्वेतत्-) यस्य अङ्गसङ्गि शवभस्मकपालमाला हालाहलाहिदहनादि अपि हृद्यम् एव (भवति
तमहं शरणम् श्रयामि) ।

मूर्तिः कृमेः शतपदी श्रवणं प्रविष्टा दृष्टा रुजामसुहृतं सृजती जनानाम् । सौरी तनुर्ननु
सहस्रपदी यदीय- नेत्रस्थिता हरति मृत्युभयं श्रितानाम् ॥ २२ ॥

अन्वय-श्रवणम् प्रविष्टा शतपदी कृमेः मूर्त्तिः जनानाम् असुहृतम् रुजाम् सृजती (जनेन) दृष्टा । ननु
यदीयनेत्रस्थिता सहस्रपदी सौरी तनुः श्रितानाम् मृत्युभयम् हरति (तं अहम् शरणम् श्रयामि) ।

आकर्ण्य यः कृपणमार्त्तवचः कृपाब्धि-राधूतमूर्धसुरनिर्झरिणीकणौघैः
उत्सङ्गसङ्गतगिरीन्द्रसुताकुचाग्र- संसक्तमौक्तिकमणीन्द्विगुणीकरोति ॥ २३ ॥

अन्वय-यः कृपाब्धिः कृपणम् आर्तवचः आकर्ण्य (दयया) आधूतमूर्धसुरनिर्झरिणीकणौघैः
उत्सङ्गसङ्गतगिरीन्द्रसुताकुचाग्रसंसक्तमौक्तिकमणीन् द्विगुणीकरोति (तमहं शरणं श्रयामि) ।

उद्गाढभक्तिविधुरव्यपनीततीव्र- दोषान्धकारमतिमात्रशुचिप्रकाशम् । पीयूषमुद्वमति यस्य
विविक्तवर्णं कर्णान्तगामि वचनं च विलोचनं च ॥ २४ ॥

अन्वय-यस्य उद्गाढभक्तिविधुरव्यपनीततीव्रदोषान्धकारम् अतिमात्रशुचिप्रकाशम् विविक्तवर्णम्
कर्णान्तगामि च वचनम् विलोचनम् च पीयूषम् उद्वमति (तं अहं श्रयामि) ।

पात्रीभवन्ति न यदङ्घ्रिसरोजरेणु- मैत्रीपवित्रशिरसः स्थिरसत्यवाचः ।
साटोपकोपविकटभ्रुकुटिच्छटाना- मुत्तालकालभटवक्रविभीषिकाणाम् ॥ २५ ॥

अन्वय-यदङ्घ्रिसरोजरेणुमैत्रीपवित्रशिरसः स्थिरसत्यवाचः (धन्याः)
साटोपकोपविकटभ्रुकुटिच्छटानाम् उत्तालकालभटवक्रविभीषिकाणाम् न पात्रीभवन्ति (तमहं
शरणं श्रयामि) ।

सूक्तिं शुचिं श्रवणयोरमृतं स्रवन्तीं वक्रामभङ्गुरगुणां महतीं वहन्तः । गायन्ति यं
श्रितवतः परिशुद्धवं शविद्या यशांसि कवयः परिवादकाश्च ॥ २६ ॥

अन्वय-शुचिम् श्रवणयोः अमृतम् स्रवन्तीम् वक्राम् अभङ्गुरगुणाम् महतीम् सूक्तिम् वहन्तः
परिशुद्धवंशविद्याः कवयः (तथा) सूक्तिम् शुचिम् श्रवणयोः अमृतम् स्रवन्तीम् वक्राम् अभङ्गुरगुणाम्
महतीम् (वीणाम्) वहन्तः परिवादकाः च यम् (प्रभुम्) श्रितवतः (भक्तजनस्य) यशांसि गायन्ति (तम्
विभुम् अहम् शरणम् श्रयामीति सम्बन्धः) ।

यत्सेवकस्य मदनोल्बणबाणपूग- क्रान्ताऽलिकान्तविकसत्तिलकोज्ज्वलश्रीः । सेव्या भवत्यवसरे
कलकण्ठनाद- हृद्या वधूः कुसुमितोपवनस्थली च ॥ २७ ॥

अन्वय-यत्सेवकस्य मदनोल्बणबाणपूगक्रान्ता अलिकान्त-विकसत्तिलकोज्ज्वलश्रीः कलकण्ठनादहृद्याः
कुसुमिता वधूः उपवनस्थली च अवसरे सेव्या भवति (तं अहम् शरणं श्रयामि) ।

यस्मिन्नखिन्नमनसो व्यसनावसन्न- सन्तापशान्तिकृतसम्मतयो वसन्ति । कात्यायनी च करुणा च कला च
चान्द्री स्निग्धा च दृक् सुरसरिच्च सरस्वती च ॥ २८ ॥

अन्वय-व्यसनावसन्नसन्तापशान्तिकृतसम्मतयः कात्यायनी करुणा च चान्द्री कला च स्निग्धा दृक् च
सुरसरित् च सरस्वती च यस्मिन् अखिन्नमनसः वसन्ति (तम् विभुम् शरणम् श्रयामि) ।

सन्तापसंपदपहारपटूनि सिद्ध- सिन्धोरिवेन्दुधवलानि जलानि यस्य । आकल्पयन्ति मदयन्ति पवित्रयन्ति
सञ्जीवयन्ति च जगन्ति भृशं यशांसि ॥ २९ ॥

अन्वय-यस्य सन्तापसंपदपहारपटूनि इन्दुधवलानि यशांसि सिद्धसिन्धोः जलानि इव जगन्ति भृशम्
आकल्पयन्ति मदयन्ति पवित्रयन्ति सञ्जीवयन्ति च (त विभुं अहम् शरणं श्रयामि) ।

दुष्कालसङ्कटकटाहकदर्थितानां तीव्राभिमानमनसां घनसारभांसि ।
भिन्दन्त्यमन्दहरिचन्दनबिन्दुवृन्द- सन्दोहदोहदमहो चरितानि यस्य ॥ ३० ॥ अन्वय-अहो ! घनसारभांसि यस्य
चरितानि दुष्कालसङ्कटकटाहकदर्थितानाम् तीव्राभिमानमनसाम् अमन्दहरिचन्दनबिन्दुवृन्दसन्दोहदोहदम्
भिन्दन्ति (तं विभुं अहम् शरणं श्रयामि) ।

फुल्लारविन्दमकरन्दधृतप्रसङ्ग- भृङ्गाङ्गनागुमगुमारवगीतिगर्भम् । गायन्ति यस्य चरितं
हरितामधीशा धीशालिनः कमलिनीपुलिनस्थलीषु ॥ ३१ ॥

अन्वय-धीशालिनः हरिताम् अधीशाः कमलिनीपुलिनस्थलीषु
फुल्लारविन्दमकरन्दधृत-प्रसङ्गभृङ्गाङ्गनागुमगुमारवगीतिगर्भम् यस्य चरितम् गायन्ति (तं विभुं
शरणं श्रयामि) ।

व्यक्तोज्ज्वलालिकचितं मुखमायताक्षं विस्तीर्णकर्णिकमनर्गलरूढनालम् । यं शंसतोऽधिवसति
स्वयमुक्तिदेवी राजीवसद्म-कमला विजिगीषयेव ॥ ३२ ॥

अन्वय-यम् शंसतः व्यक्तोज्ज्वलालिकचितम् आयताक्षम् विस्तीर्णकर्णिकम् अनर्गलरूढनालम् मुखम् उक्तिदेवी
राजीवसद्मकमलाविजिगीषया इव स्वयम् अधिवसति (तम् संश्रितार्त्तिहरणम् विभुम् शरणं श्रयामीति
सम्बन्धः) ।

आपन्नबान्धवमबन्ध्यवचोविलास- मासन्नमज्जननमज्जनसान्त्वनेषु । देवं सुधाकर-किशोरकृतावतंसं
तं संश्रितार्त्तिहरणं शरणं श्रयामि ॥ ३३ ॥

(पञ्चविंशत्या कुलकम्)

अन्वय-आसन्नमज्जननमज्जनसान्त्वनेषु अबन्ध्यवचोविलासम् आपन्नबान्धवम् सुधाकरकिशोरकृतावतंसम्
संश्रितार्त्तिहरणम् तम् देवम् (अहम्) शरणम् श्रयामि ।

देवं श्रयामि तमहं मुकुटोरगेन्द्र- स्फूर्जत्फणामणिसहस्रमिषेण यस्य । भालानलेन
सुरसिन्धुजलोक्षितेन प्रोन्मुक्तमङ्कुरसहस्रमिवाचकास्ति ॥ ३४ ॥

अन्वय-यस्य मुकुटोरगेन्द्रस्फूर्जत्फणामणिसहस्रमिषेण सुरसिन्धुजलोक्षितेन भालानलेन प्रोन्मुक्तम्
अङ्कुरसहस्रम् इव आचकास्ति तम् देवम् अहम् श्रयामि ।

सानुग्रहोत्तमगणाश्रितपादमूलं मूर्ध्ना धृताभ्रसरितं सतुषारमूर्तिम् । आसेवितं विषधरैः
कटकेषु ताप- शान्त्यै गिरीशमतिहृद्यगुहं श्रयामि ॥ ३५ ॥

अन्वय-सानुग्रहोत्तमगणाश्रितपादमूलम् मूर्ध्ना धृताभ्रसरितम् सतुषारमूर्तिम् कटकेषु विषधरैः
आसेवितम् अतिहृद्यगुहम् गिरीशम् (अहम्) तापशान्त्यै श्रयामि ।

यः क्षीरनीरनिधिमङ्घ्रितले सुधाम्भः- कुम्भं करे शिरसि देवनदीमदीनाम् । हर्तुं बिभर्ती
बविनामणुकर्ममाया- मूलं मलत्रयमयं तमहं श्रयामि ॥ ३६ ॥

अन्वय-यः भविनाम् अणुकर्ममायामूलम् मलत्रयम् हर्तुम् (इव) अङ्घ्रितले क्षीरनीरनिधिम् करे
सुधाम्भःकुम्भम् शिरसि अदीनाम् देवनदीम् बिभर्ति तम् अयम् अहम् श्रयामि ।

यस्यापगा स्रगिव सौमनसी जटासु यः कौमुदीं विरचनामिव मूर्ध्नि धत्ते । देवीं वराऽभयकरामपि यो
बिभर्ति प्रीतः शिवां दृशमिव प्रभुमाश्रये तम् ॥ ३७ ॥

अन्वय-यस्य जटासु आपगा सौमनसी स्रक् इव (आभाति) यः कौमुदीम् विरचनाम् इव मूर्ध्नि धत्ते यः प्रीतः
(सन्) वराभयकराम् देवीम् दृशम् इव विभर्ति तम् प्रभुम् (अहम्) आश्रये ।

गौरीं गजास्यजननीं हिमवत्प्रसूतिं सद्यःपवित्रितजगत्त्रितयां य एकः । कात्यायनीं सुरधुनिं च
विभुर्बिभर्ति निर्वाणदं शरणमेमि तमिन्दुमौलिम् ॥ ३८ ॥

अन्वय-यः विभुः एकः सद्यःपवित्रितजगत्त्रितयाम् हिमवत्प्रसूतिम् कात्यायनीम् गौरीम् गजास्यजननीम्
सुरधुनीम् च बिभर्ति तम् निर्वाणदम् इन्दुमौलिम् (अहम्) शरणम् एमि ।

क्वाप्युद्धृतक्रतुविधातृमृगोत्तमाङ्ग- मुत्सङ्गसङ्गतमृगं क्वचिदोषधीशम् । क्रूरं
क्वचिन्मृगवधैकरतिं किरातं वातं क्वचिन्मृगरथं विभुमाश्रयामि ॥ ३९ ॥

अन्वय-क्वापि उद्धृतक्रतुविधातृमृगोत्तमाङ्गम् क्वचित् उत्सङ्गसङ्गतमृगम् औषधीशम् क्वचित्
मृगवधैकरतिम् क्रूरम् किरातम् क्वचित् मृगरथम् वातम् (एवंभूतम्) विभुम् (अहं शरणम्) आश्रयामि ।

उद्दामदोषमपि दीर्घगुणं भुजङ्ग- भोगोपगूढमपि रूढशिखिप्रसङ्गम् । कापालिकव्रतसमेतमपि
द्विजेन्द्र- चूडामणिं विभुमनङ्कुशमाश्रयामि ॥ ४० ॥

अन्वय-उद्दामदोषम् अपि दीर्घगुणम् भुजङ्गभोगोपगूढम् अपि रूढशिखिप्रसङ्गम् कापालिकव्रतसमेतम् अपि
द्विजेन्द्रचूडामणिम् (इत्येवम्) अनङ्कुशम् विभुम् (अहम्) आश्रयामि ।

अङ्गे धृताङ्गनमनङ्गकृताङ्गभङ्गं विश्वाधिनाथमथ खण्डकपालपाणिम् । उग्रं शिवं
हरमघोरमजं च सद्यो- जातं च विस्मयनिधिं विभुमाश्रयामि ॥ ४१ ॥

अन्वय-अङ्गे धृताङ्गनम् अनङ्गकृताङ्गभङ्गम् विश्वाधिनाथम् अथ खण्डकपालपाणिम् उग्रम् शिवम् हरम्
अघोरम् अजम् च सद्योजातम् (इत्येवम्) विस्मयनिधिम् विभुम् (अहम्) आश्रयामि ।

अस्मिन्भवाध्वनि महाविषमेऽसमेषु- रोषादितस्करतिरस्करणैकवीरम् । भीरुः श्रयामि शरणं
क्षणदाकुटुम्ब-लेखाशिखामणिमनुत्तमशक्तिमीशम् ॥ ४२ ॥

अन्वय-अस्मिन् महाविषमे भवाध्वनि भीरुः (सन् अहम्) असमेषुरोषादितस्करतिरस्करणैकवीरम् अनुत्तमशक्तिम्
क्षणदाकुटुम्बलेखाशिखामणिम् ईशम् शरणम् श्रयामि ।

किं मेरुमन्दरमुखैर्गिरिभिर्गरीयान् कैलास एव जगदेकगुरुर्गिरीशः ।
यस्याऽभयङ्करमसङ्करमस्तशङ्क- मङ्कं सुटङ्कमकलङ्कमलङ्करोति ॥ ४३ ॥

अन्वय-मेरुमन्दरमुखैः गिरिभिः किम् कैलास एव गरीयान् (भवति) यस्य अभयङ्करम् असङ्करम् अस्तशङ्कम्
सुटङ्कम् अकलङ्कम् अङ्कम् (मध्यभागम्) जगदेकगुरुः गिरीशः अलङ्करोति ।

उल्लंघ्य शासनमनन्यजशासनस्य कोऽप्यन्यशासनमुपासितुमेति निष्ठाम् । हित्वा वनं हि
नवनागरपर्णपूर्ण- मुष्ट्रः [अत्र उष्ट्र इति पदांशे श्रुतिकटुत्वेऽपि भक्तिविषये न दोषः ।]
श्रयत्यवटमेव सकण्टकौघम् ॥ ४४ ॥

अन्वय-अनन्यजशासनस्य शासनम् उल्लंघ्य कः अपि (विरलो मूढः) अन्यशासनम् उपासितुम् निष्ठाम् एति । हि
नवनागरपर्णपूर्णम् वनम् हित्वा उष्ट्रः सकण्टकौघम् अवटम् एव श्रयति ।

प्. १६२)

अन्यार्थमप्युपहिता शितिकण्ठसेवा लोकस्य कल्पलतिकेव फलत्यवश्यम् । उद्दीपिता खलु परस्य कृतेऽपि येन
तस्यापि दर्शयति दीपशिखाऽर्थसार्थम् ॥ ४५ ॥

अन्वय-शितिकण्ठसेवा अन्यार्थम् उपहिता अपि लोकस्य कल्पलतिका इव अवश्यम् फलति । (यथा) खलु येन
परस्य कृते अपि दीपशिखा उद्दीपिता (सा) तस्य (उद्दीपकस्य) अपि अर्थसार्थम् दर्शयति ।

यद्यर्चितः [यद्यर्थितः इत्यपि ] स भगवानपि जीविकार्थं तत्रापि किल्विषविपाकमपाकरोति । योऽपि
द्युसिन्धुपयसि प्लवते निदाघ- घर्मच्छिदे भवति सोपि हि धौतपापः ॥ ४६ ॥

अन्वय-यदि सः भगवान् जीविकार्थम् अपि (केनापि अर्चितः तत्राऽपि सः भगवान् (तस्याऽर्चकस्य)
किल्विषविपाकम् अपाकरोति । हि यः अपि द्युसिन्धुपयसि निदाघघर्मच्छिदे (एव) प्लवते सः अपि धौतपापः
भवति ।

कुर्वन्ति भक्तिमपरैरपि ये नियुक्ता भर्गस्य तेऽपि भवदुर्गतिमुत्सृजन्ति । स्तन्यार्थमप्युपहिता पृथुकस्य
धात्री पात्रीभवत्यखिलभोगसुखासिकानाम् ॥ ४७ ॥

अन्वय-अपरैः नियुक्ताः अपि ये भर्गस्य भक्तिम् कुर्वन्ति ते अपि भवदुर्गतिम् उत्सृजन्ति (दृष्टमेतत्-)
पृथुकस्य स्तन्यार्थम् उपहिता अपि धात्री सकलभोगसुखासिकानाम् पात्रीभवति ।

दम्भादपि ध्रुवमनङ्गजितः प्रयुक्तः सेवाविधिः प्रमदसम्पद [प्रमदसम्मदमित्यपि] मादधाति ।
वेश्याजनस्य न सुखाय किमङ्गराग- मालादुगूलधवलः कृतकोऽपि वेषः ॥ ४८ ॥

अन्वय-दम्भात् अपि प्रयुक्तः (कृतः) अनङ्गजितः सेवाविधिः प्रमदसम्पदम् ध्रुवम् आदधातिः (हि-परार्थं
विहितः) अङ्गरागमालादुगूलधवलः कृतकः अपि वेशः वेश्याजनस्य सुखाय किम् न भवति ? (अपि तु
भवत्येव)

तस्मादुपेत विभुमेव यथातथापि मुक्तिर्न चेद्भवति किं न गलन्त्यघानि । यः स्वेच्छयैव
निपतत्यमृतहृदेऽन्त- र्मज्जत्यसौ यदि न तत्किमुदेत्यसिक्तः ॥ ४९ ॥

अन्वय-तस्मात् (अयि सहृदयाः !) यथातथा अपि (स्वेच्छया परप्रेरणया वा केनापि प्रसंगेन वा
दम्भाद्वा) विभुम् एव (शरणम्) उपेत (भवताम्) मुक्तिः चेत् न भवति तर्हि अघानि किं न गलन्ति ? यः
स्वेच्छया एव अमृतहृदे निपतति असौ चेत् (तत्र) अन्तः न मज्जति तर्हि तत् किम् असिक्तः उदेति ? ।

क्षीराब्धेरवहेलया वितरणं निर्यन्त्रणं वर्षणं हेम्नः
क्रुद्धकृतान्तमुक्तफणभृत्पाशग्रहोद्वर्हणम् । यच्चाप्युत्कटकालकूटकवलीकारादिकर्माद्भुतं
क्रीडामात्रकमेव यस्य तदसौ देवः कथं वर्ण्यते ॥ ५० ॥

अन्वय-क्षीराब्धेः अवहेलया वितरणम् (मरुत्तनृपतेः पुरे) निर्यन्त्रणम् हेम्नः वर्षणम् (श्वेतस्य
नृपतेः) क्रुद्धकृतान्तमुक्तफणभृत्पाशग्रहोद्वर्हणम् यत् च अपि उत्कटकालकूटकवलीकारादि अद्भुतं
कर्म तत् यस्य क्रीडामात्रकम् एव भवति असौ देवः (अस्माभिश्चर्मचक्षुर्भिः) कथम् वर्ण्यते ? ।

स्वच्छन्दस्य यदृच्छया गमयतः प्रेङ्खोलतां भ्रूलता-
माज्ञाऽनुग्रहलाभकत्थनघनस्पर्धानुबन्धोद्धुराः । सोष्माणः कलयन्ति यस्य कलहं सेवासु देवासुरा
देवस्याऽस्य महेश्वरस्य महिमश्लाघाविधौ के वयम् ॥ ५१ ॥

अन्वय-स्वच्छन्दस्य यदृच्छया भ्रूलताम् प्रेङ्खोलताम् गमयतः (सतः) यस्य सेवासु देवासुराः
आज्ञानुग्रहलाभकत्थनघनस्पर्धानुबन्धोद्धुराः (अत-एव) सोष्माणः (सन्तः) कलहम् कलयन्ति अस्य
महेश्वरस्य देवस्य महिमश्लाघाविधौ वयम् के (भवामः) ?

उर्वीनीरसमीरणारुणशिखिव्योमात्मसोमात्मकै- रष्टाभिर्विभवैर्बिभर्ति भुवनं भोक्ता च भोग्यश्च यः
। ब्रूमस्तस्य किमीश्वरस्य महतः स्वैरी स्वकैरेव यः स्फारैर्ब्रह्मपुरन्दरप्रभृतिभिः शारैरिव
क्रीडति ॥ ५२ ॥

अन्वय-यः भोक्ता भोग्यः च उर्वीनीरसमीरणाऽरुणशिखिव्योमात्मसोमात्मकैः अष्टाभिः विभवैः
भुवनम् विभर्ति यः स्वैरी च स्फारैः ब्रह्मपुरन्दरप्रभृतिभिः स्वकैः शारैः इव क्रीडति तस्य
महतः ईश्वरस्य (महिमानम्) किम् ब्रूमः ? ।

इति श्रीप्रेममकरन्दोपेतं काश्मीरकमहाकविश्रीमज्जद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ शरणाश्रयणं नामाऽष्टमं स्तोत्रं सम्पूर्णम्

नवमं स्तोत्रम्

दीपोत्करैरविरुचां परिपूरणेयं नीहारवारिभिरिदं भरणं पयोधेः । अस्मादृशां मितदृशां
नियतैर्वचोभिः प्रस्तूयते भव [तव भव इत्यपि] तव स्तवचापलं यत् ॥ १ ॥

अन्वय-हे भव ! मितदृशाम् अस्मादृशाम् नियतैः वचोभिः यत् तव स्तवचापलम् प्रस्तूयते (तत्) इयम्
रविरुचाम् दीपोत्करैः परिपूरणा (तथा) इदम् नीहारवारिभिः पयोधेः भरणम् (विडम्बनायैव केवलमिति
भावः) ।

अत्राऽपराध्यति गिरो हर धृष्टतेय- मेषा निसर्गमुखरा मुखरागिणी यत् । प्रौढिं परामनुपयत्यपि
वाञ्छति त्वां स्वामिन् हठादिव परं पुरुषं गृहीतुम् ॥ २ ॥

अन्वय-हे स्वामिन् ! एषा (मम वाणी) पराम् प्रौढिम् अनुपयती अपि निसर्गमुखरा मुखरागिणी (सती) यत्
हठात् इव त्वाम् परम् पुरुषम् गृहीतुम् वाञ्छति अत्र हे हर ! (मम) गिरः इयम् धृष्टता (एव) अपराध्यति


यद्वा भवत्यसुलभो भवदाश्रितस्य शस्यः स कोऽपि महिमा न हि मादृशोऽपि । स्वच्छन्दमन्दमपि यत्र
पदं त्वदुक्षा धत्ते मही भवति हेममयी हि तत्र ॥ ३ ॥

अन्वय-यद्वा हे स्वामिन् ! भवदाश्रितस्य मादृशः अपि सः कः अपि शस्यः महिमा असुलभः न हि भवति
हि-त्वदुक्षा यत्र स्वच्छन्दमन्दम् अपि पदं धत्ते तत्र मही हेममयी भवति ।

भीष्मो विषादपि विषादपिनद्धमेत- च्चेतश्चकार सविकारमकारणारिः । मोहामयस्तमयमस्तमयं नयामि
स्वामि&स्तव स्तवरसायनसेवनेन ॥ ४ ॥

अन्वय-अयि स्वामिन् ! विषात् अपि भीष्मः अकारणारिः मोहामयः (मदीयम्) चेतः विषादपिनद्धम् सविकारम्
चकार । (अतः) हे प्रभो ! अयम् (अहम्) तव स्तवरसायनसेवनेन तम् (मोहामयम्) अस्तमयम् नयामि ।

एषः स्तवस्तव नवप्रमदोपदेश- मादेशयञ्जयति कोऽपि गुरुर्गिरीश । सद्यः पुरः स्फुरति मे
दुरतिक्रमेण यत्सङ्कमक्रमवशेन वचोधिदेवी ॥ ५ ॥

अन्वय-हे गिरीश ! नवप्रमदोपदेशम् आदेशयन् एषः कः अपि गुरुः तव स्तवः जयति दुरतिक्रमेण
यत्सङ्क्रमक्रमवशेन मे वचोधिदेवी सद्यः पुरः स्फुरति ।

नास्य स्पृहाऽस्ति सरसाय रसायनाय नाऽयन्त्रितेन्दुवदनावदनाऽमृताय । निर्बन्धमेति तु भवत्सविधे
विधेहि निर्बन्धमन्धकरिपो तदिदं मनो मे ॥ ६ ॥

अन्वय-हे अन्धकरिपो ! अस्य (मम मनसः) स्पृहा सरसाय रसायनाय न अस्ति (तथा)
अयन्त्रितेन्दुवदनावदनामृताय (च) न अस्ति । तु भवत्सविधे निर्बन्धम् (प्रीतिम्) एति तत् हे विभो ! इदम् मे
मनः निर्बन्धम् (विमुक्तमायाबन्धम्) विधेहि ।

आभाति शक्रनगरी न गरीयसी मे प्रीतिं च सिञ्चति न काञ्चन काञ्चनाद्रिः । जाने परं हर
शरण्यमरण्यमेव यत्र त्वदंघ्रिनलिनार्चननिर्वृतिः स्यात् ॥ ७ ॥

अन्वय-हे हर ! शक्रनगरी मे गरीयसी न आभाति काञ्चनाद्रिः च काञ्चन प्रीतिम् न सिञ्चति प्रभो ! यत्र
त्वदंघ्रिनलिनार्चननिर्वृतिः स्यात् तत् अरण्यम् एव (अहम्) परम् शरण्यम् जाने ।

पुष्पेषु दोहदवशादवशा [अवशं] भृशं या बभ्राम वामनयनाभुजमञ्जरीषु । सा साम्प्रतं
दृगलिनी वलिनी [वलिनीं] व्यनक्ति त्वद्भक्तिकल्पलतिकाफलभोगतृष्णम् ॥ ८ ॥

अन्वय-प्रभो ! पुष्पेषु दोहदवशात् अवशा या (मम) दृगलिनी (पुरा) वामनयनाभुजमञ्जरीषु भृशम्
बभ्राम सा साम्प्रतम् वलिनी (सती) त्वद्भक्तिकल्पलतिकाफलभोगतृष्णाम् व्यनक्ति ।

किं निर्मिता मुकुटचन्द्रकलां निपीड्य किं वा शिरःशरणनिर्झरिणीजलेन । किं वा
करस्थकलशामृतसंप्लवेन भक्तिस्त्वया प्रणयिनां भवतापशान्त्यै ॥ ९ ॥

अन्वय-अयि परमकारुणिक ! त्वया (इयम्) भक्तिः प्रणयिनाम् भवतापशान्त्यै किम् मुकुटचन्द्रकलाम् निपीड्य
निर्मिता ? किंवा शिरःशरणनिर्झरिणीजलेन निर्मिता ? किंवा करस्थकलामृतसम्प्लवेन निर्मिता ? (एवं
चेन्नस्यात्तर्हि कथं भविनां तापत्रयापहर्त्री स्यादित्यर्थः) ।

स्वामिन्विचित्रचरितस्य तवाऽपदान- गीतामृतेषु दृढरूढरतिर्ममेयम् । दूरीकृताऽन्यसरणिर्हरिणीव
वाणी सत्यं पदात्पदमपि क्षमते न गन्तुम् ॥ १० ॥

अन्वय-हे स्वामिन् ! विचित्रचरितस्य तव अपदानगीतामृतेषु दृढरूढरतिः इयम् मम वाणी
दूरीकृतान्यसरणिः (सती) हरिणी इव सत्यम् पदात् पदम् अपि गन्तुम् न क्षमते ।

आश्वासनं यमभयाकुलतामृतानां सञ्जीवनं भवदवव्यथया मृतानाम् । आलम्बनं
सुकविराजगिरामृतानां सङ्कीर्तनं जयति ते चरितामृतानाम् ॥ ११ ॥

अन्वय-प्रभो ! यमभयाकुलताम् ऋतानाम् आश्वासनम् भवदवव्यथा मृतानाम सञ्जीवनम् ऋतानाम्
सुकविराजगिराम् आलम्बनम् ते चरितामृतानाम् सङ्कीर्त्तनम् जयति ।

दानं तरङ्गतरलः किल दुग्धसिन्धु- र्मुक्तिः करालतरकालभयात्प्रसादः । त्यागोऽपि सप्तदिवसानि
सुवर्णवृष्टिः किं किं न चारुचरितं भवतः प्रशस्यम् ॥ १२ ॥

अन्वय-किल तरङ्गतरलः दुग्धसिन्धुः दानम् [बालस्योपमन्युमुनेरित्यर्थः] करालतरकालभयात् मुक्तिः
प्रसादः [श्वेताख्यनृपतेरित्यर्थः] सप्तदिवसानि सुवर्णवृष्टिः (एषः) त्यागः [मरुत्तनृपतेः पुरे]
अपि हे प्रभो ! भवतः किम् किम् चारुचरितम् न प्रशस्यम् ? ।

स्वामिन् रजःपरिचितं चपलस्वभावं जात्या मलीमसमिदं हृदयं मदीयम् । त्वत्पादपद्मविषये
कृतपक्षपातं धत्ते प्रमोदभरनिर्भरभृङ्गलक्ष्मीम् ॥ १३ ॥

अन्वय-हे स्वामिन् ! रजःपरिचितम् चपलस्वभावम् जात्या मलीमसम् इदम् मदीयम् हृदयम् त्वत्पादपद्मविषये
कृतपक्षपातम् (सत्) प्रमोदभरनिर्भरभृङ्गलक्ष्मीम् धत्ते ।

त्वां वामदेवमपि दक्षिणमाश्रितेषु सर्वत्र शङ्कर वसन्तमपि स्मरारिम् । अप्यन्तकोपशमहेतुमनन्तकोप-
शान्त्येककारणमचिन्त्यगतिं श्रयामि ॥ १४ ॥

अन्वय-हे शङ्कर ! (अहम्) वामदेवम् अपि आश्रितेषु दक्षिणम् सर्वत्र वसन्तम् अपि स्मरारिम् अन्तकोपशमहेतुम्
अपि अनन्तकोपशान्त्येककारणम् त्वाम् अचिन्त्यगतिम् श्रयामि ।

क्वापि प्रसीदसि दिशन्विशदं प्रकाशं क्वापि प्रयच्छसि घनावरणोपरोधम् । कुर्मः किमत्र
महनीयमहामहिम्नो नास्त्येव नाम नियतिर्नभसः प्रभोश्च [अत्रार्चितं द्वयोरिति प्रभोर्नभसश्चेत्युच्यमाने
नभसोऽपि श्रीशिवभट्टारकस्यैकमूर्तित्वात् तदंशेऽपि पूर्वमुद्दिष्टे न दोषः ।] ॥ १५ ॥

अन्वय-हे ईश ! क्वापि विशदम् प्रकाशम् दिशन् प्रसीदसि (पुनः) क्वापि घनावरणोपरोधम् प्रयच्छसि
(तस्माद्वयम्) अत्र किं कुर्मः ? नाम महनीयमहामहिम्नः प्रभोः नभसः च नियतिः एव न अस्ति ।

चित्तं नतापदुपतापहृतिप्रवृत्तिं भीताऽभयार्पणपणप्रवणां च वाणीम् । लोकोपकारपरतन्त्रमिदं
वपुश्च कस्त्वत्परः परमकारुणिको बिभर्ति ॥ १६ ॥

अन्वय-अयि विभो ! नतापदुपतापहृतिप्रवृत्तिम् चित्तम् भीताऽभयार्पणपणप्रवणाम् वाणीम् च
लोकोपकारपरतन्त्रम् इदम् वपुः च त्वत्परः कः परमकारुणिकः बिभर्त्तिः ? ।

चित्तं विषादमगमन्न परं प्रसाद- मौज्झद्विचारमुचितं न बहिः प्रचारम् । लेभे न कुत्र विवरं
प्रवरं न बोध- मेतत्त्वयैव भगवन्धृतविप्रयोगम् ॥ १७ ॥

अन्वय-हे भगवन् ! त्वया एव धृतविप्रयोगम् (सत्) एतत् चित्तम् विषादम् अगमत् परम् प्रसादम् न अगमत् उचितम्
विचारम् औज्झत् बहिः प्रचारम् न औज्झत् (तथा) एतत् चित्तम् कुत्र न विवरम् लेभे (अपितु सर्वत्र विवरम् लेभे)
प्रवरम् बोधम् न लभे ।

अश्रान्तमान्तरमशान्तरजोविकारं सारङ्गकेतुमुकुटस्फुटमन्धकारम् । युक्तं यदन्धयति यद्बधिरीकरोति
कोऽतिप्रसङ्ग इति तत्र न तर्कयामि ॥ १८ ॥

अन्वय-हे सारङ्गकेतुमुकुट ! अशान्तरजोविकारम् अश्रान्तम् स्फुटम् आन्तरम् अन्धकारम् (कर्तृ) यत् अन्धयति
(तत्) युक्तम् (किन्तु तदेव) यत् (पुरुषम्) बधिरीकरोति (सः) अतिप्रसङ्गः कः (भवति) इति तत्र न तर्कयामि ।

लीलाविलोलललनानयनान्तवास- मासाद्य यः क्व न भनक्ति मनस्विनोऽपि । सोऽयं निविश्य विमले हृदये
मदीये धिङ्मर्ममर्म न भिनत्ति कथं मनोभूः ॥ १९ ॥

स्वामिन्नसन्तमिव तत्र वसन्तमेव सत्वामवैति किमिदं यदि वा किमन्यत् । दग्धोऽपि यं पुनरवाप्य बिभर्ति
गर्वं सर्वङ्कषो विजयते स तव प्रसादः ॥ २० ॥

(युग्मम्)

अन्वय-यः (मनोभूः) लीलाविलोलललनानयनान्तवासम् आसाद्य मनस्विनः अपि क्व न भनक्ति ? धिक् (अस्तु) सः
अयम् मनोभूः मदीये विमले हृदये (अपि) निविश्य मर्ममर्म कथम् न भिनत्ति ? (भिनत्त्येवेत्यर्थः) । हे
स्वामिन् ! सः (मनोभूः) तत्र (मदीये हृदि) वसन्तम् एव त्वाम् (यत्) असन्तम् एव अवैति (तत्) इदम् किम् ? यदि वा
(अथवा) किम् अन्यत्-दग्धः अपि सः यम् (तव प्रसादम्) अवाप्य पुनः गर्वम् बिभर्ति सः तव सर्वङ्कषः
प्रसादः विजयते ।

श्रीखण्डचन्दननिघृष्टकुरङ्गनाभि- कर्पूरकुङ्कुमकरम्बशुभाङ्गरागम् ।
उद्यन्नवीनकदलीदलसौकुमार्यं बिभ्रत्यनङ्गनटमङ्गलरङ्गमङ्गम् ॥ २१ ॥

अन्वय-हे प्रभो ! श्रीखण्डचन्दननिघृष्टकुरङ्गनाभिकर्पूरकुङ्कुमकरम्ब-शुभाङ्गरागम्
उद्यन्नवीनकदलीदलसौकुमार्यम् अनङ्गनटमङ्गलरङ्गम् अङ्गम् बिभ्रती-

फुल्लारविन्दवदना विकसच्छिरीष- मालाभुजाभिनवनीलसरोजनेत्रा । ब्रह्मास्त्रमप्रतिहतं विहिता हिताय
पुष्पायुधस्य कुसुमैरिव माधवेन ॥ २२ ॥

अन्वय-फुल्लारविन्दवदना विकसच्छिरीषमालाभुजा अभिनवनीलसरोजनेत्रा (अतएव) माधवेन कुसुमैः
पुष्पायुधस्य हिताय अप्रतिहतम् ब्रह्मास्त्रम् [ब्रह्मास्त्रम् इत्यस्य वेदाः प्रमाणं श्रुतयः प्रमाणम्
इतिवदजहल्लिङ्गता ।] विहिता इव-

नाथेति जीवितहरेति दयापरेति सप्रेमकोपमतिकोमलमालपन्ती । गाढानुरागविवृताखिलगूढभाव-
मावर्जयन्त्यविषयैर्वचसां विलासैः ॥ २३ ॥

अन्वय-हे नाथ ! इति हे जीवितहर ! ! इति हे दयापर ! ! ! इति सप्रेमकोपम् अतिकोमलम् आलपन्ती
गाढानुरागविवृताखिलगूढभावम् (यथास्यात्तथा) वचसाम् अविषयैः विलासैः (मनः) आवर्जयन्ती-

किंवा परं कुपितनिर्घृणपञ्चबाण- बाणौघभिन्नहृदया परिरभ्य गाढम् । मुग्धाजनस्य
सहजामवजित्य लज्जा- मौत्सुक्यसान्द्रमधरामृतमर्पयन्ती ॥ २४ ॥

अन्वय-किम् वा परम् (अन्यद् ब्रूमः) कुपितनिर्घृणपञ्चबाणबाणौघभिन्नहृदया (सती) गाढम् परिरभ्य
मुग्धाजनस्य सहजाम् लज्जाम् अवजित्य औत्सुक्यसान्द्रम् अधरामृतम् अर्पयन्ती-

आक्षिप्तसिन्धुमथनोत्थमहामृतौघ- भावत्कभक्तिरसपारणनित्यतृप्तम् ।
प्रत्याहृतेन्द्रियमवाप्तसमाधिसौख्यं न त्वत्परं हरति सा हरिणेक्षणाऽपि ॥ २५ ॥

(पञ्चभिः कुलकम्)

अन्वय-(एवंभूता) सा हरिणेक्षणा अपि
आक्षिप्तसिन्धुमथनोत्थमहामृतौघ-भावत्क-भक्तिरसपारणनित्यतृप्तम् प्रत्याहृतेन्द्रियम्
अवाप्तसमाधिसौख्यम् त्वत्परम् (भक्तजनम्) न हरति (न वशीकर्तुं क्षमते) ।

हेलावलन्मलयमारुतकम्पितानां शीर्णैः फलैः स्वयमरण्यमहीरुहाणाम् ।
वृत्तिर्हरस्मरणघूर्णितचेतसः क्व दीनं मुखं क्व च पुरः कुमहीपतीनाम् ॥ २६ ॥

अन्वय-हरस्मरणघूर्णितचेतसः (शम्भुसेवकस्य) हेलावलन्मलयमारुतकम्पितानाम् अरण्यमहीरुहाणाम्
स्वयम् शीर्णैः फलैः वृत्तिः (जिवनम्) क्व कुमहीपतीनाम् पुरः दीनम् मुखम् च क्व ? ।

नेत्रत्वमीश तव मूर्तिविलोकनेषु वाक्त्वं भवच्चरितचर्वणविभ्रमेषु । त्वत्संकथाश्रवणकर्मणि
कर्णभाव- मिच्छन्ति गन्तुमपराणि [इतराणि] ममेन्द्रियाणि ॥ २७ ॥

अन्वय-हे ईश ! मम (नेत्रेन्द्रियात्) अपराणि इन्द्रियाणि तव मूर्तिविलोकनेषु नेत्रत्वम् गन्तुम् इच्छन्ति
(वागिन्द्रियात्) अपराणि इन्द्रियाणि भवच्चरितचर्वणविभ्रमेषु वाक्त्वम् गन्तुम् इच्छन्ति (श्रवणेन्द्रियात्)
अपराणि इन्द्रियाणि त्वत्संकथाश्रवणकर्मणि कर्णभावम् गन्तुम् इच्छन्ति ।

यच्छत्रचामरसिता कृतिनां विभूतिः सः स्वल्प एव भगवन् भवतः प्रसादः । त्वत्साम्यमेव [तत्साम्यं]
तु सतामधिकस्ततोऽपि यद्वल्कलं च वसनं विपिनं च वासः ॥ २८ ॥

अन्वय-हे भगवन् ! कृतिनाम् यत् छत्रचामरसिता विभूतिः (भवति) सः भवतः स्वल्पः एव प्रसादः सताम्
तु ततः अपि अधिकः प्रसादः त्वत्साम्यम् (भवति) ततः अपि (त्वत्साम्यादपि) अधिकः प्रसादः (अयम्) यत्
वल्कलम् वसनम् विपिनम् च वासः (भवति) ।

त्वत्पादपङ्कजरजश्छुरितौ च पाणी वाणी भवच्चरितचर्वणगर्विता च । चित्तं
भवद्गुणगणस्मरणव्रतं च भूयो भवन्ति मम चेदहहास्मि धन्यः ॥ २९ ॥

अन्वय-हे विभो ! त्वत्पादपङ्कजरजश्छुरितौ च पाणी भवच्चरितचर्वणगर्विता च वाणी
भवद्गुणगणस्मरणव्रतम् चित्तम् च भूयः [अतिशयेन बहु भूयः नितरामित्यर्थः क्रियाविशेषणमेतत्]
चेत् मम भवन्ति (तर्हि) अहह ! (अहम्) धन्यः अस्मि ।

भिक्षाशनोऽपि भगवंस्त्वमकिञ्चनोऽपि जीर्णश्मशाननिलयोऽपि दिगम्बरोऽपि । किं वा परं वरद
घस्मर भस्मरूक्ष- गात्रोऽपि सन्मम विभुः प्रतिजन्म भूयाः ॥ ३० ॥

अन्वय-हे भगवन् भिक्षाशनः अपि अकिञ्चनः अपि जीर्णश्मशाननिलयः अपि दिगम्बरः अपि किम् वा परम्
(ब्रूमः) हे वरद ! हे घस्मर !! भस्मरूक्षगात्रः अपि सन् त्वम् (एव) प्रतिजन्म मम विभुः भूयाः ।

याचे न किञ्चिदपरं वसतिर्गिरीन्द्रे कैलासनाम्नि भवदध्युषिते ममास्तु । किं वा न तत्र भगवन् मम ये
सखाय- स्तेऽन्येऽपि सन्ति गवयाः कपयः कुरङ्गाः ॥ ३१ ॥

अन्वय-हे भगवन् ! (अहम् त्वां कारुणिकम्) अपरम् किञ्चित् न याचे (किन्तु) भवदध्युषिते कैलासनाम्नि गिरीन्द्रे
मम वसतिः अस्तु हे भगवन् ! ये मम सखायः ते किं वा (ततः) अन्ये अपि गवयाः कपयः कुरङ्गाः किम्
तत्र न सन्ति ? ।

वाचाममी न विषये विषयेषु येषु तृष्णाऽन्वभावि विषमा विषमाकिरन्ती । तन्मां
भजोज्ज्वलविलोलविलोचनान्त- विन्यासभासुरसुधार-सुधारसेन ॥ ३२ ॥

अन्वय-(मया) येषु विषयेषु विषम् आकिरन्ती तृष्णा अन्वभावि अमी (विषयाः) वाचाम् विषये न (सन्ति) तत्
हे प्रभो ! (त्वम्) उज्ज्वलविलोलविलोचनान्तविन्यासभासुरसुधारसुधारसेन माम् भज ।

नानुग्रहस्तव विना त्वयि भक्तियोगं नानुग्रहं तव विना त्वयि भक्तियोगः । बीजप्ररोहवदसावनयोर्न कस्य
भूत्यै परस्परनिमित्तनिमित्तिभावः ॥ ३३ ॥

अन्वय-हे भगवन् ! त्वयि भक्तियोगम् विना तव अनुग्रहः न (भवति) तथा-तव अनुग्रहम् विना त्वयि भक्तियोगः
न (भवति) अनयोः बीजप्ररोहवत् असौ परस्परनिमित्तनिमित्तिभावः कस्य भूत्यै न (भवति) ? ।

शान्तं मनो यदि यमैर्नियमैः किमन्यै- र्वाणी यदि प्रियहिता स्तुतिचाटुभिः किम् । कारुण्यमस्ति यदि किं
व्रतहोमदानै- र्भक्तिर्भवे यदि किमन्यसुखाभिलाषैः ॥ ३४ ॥

अन्वय-यदि मनः शान्तम् तर्हि अन्यैः नियमैः किम् ? यदि वाणी प्रियहिता (भवति) तर्हि स्तुतिचाटुभिः किम् ?
यदि कारुण्यम् अस्ति तर्हि व्रतहोमदानैः किम् (भवति) तथा यदि भवे भक्तिः (अस्ति) तर्हि
अन्यसुखाभिलाषैः किम् (भवति) ? ।

भुक्तं विकल्पकवलैः सुरलोकसौख्य- मालोकिता विविधशास्त्रदृशैव मुक्तिः । पीता सुधा
श्रवणशुक्तिपुटैः समक्ष- मास्वादिता पुनरियं शिवभक्तिरेव ॥ ३५ ॥ अन्वय-विकल्पकवलैः
(कैश्चिन्मन्दमतिभिः) विविधशास्त्रदृशासुरलोकसौख्यम् भुक्तम् एव मुक्तिः आलोकिता (निर्णीता) पुनः
(अस्माभिस्तु) विविधशास्त्रदृशा श्रवणशुक्तिपुटैः पीता समक्षम् सुधा-इयम् शिवभक्ति एव मुक्तिः
आस्वादिता ।

दीर्घाण्यघान्यधिशुचीव भवन्त्यहानि- हानिर्बलस्य शरदीव नदीजलस्य । दुःखान्यसत्परिभवा इव
दुःसहानि हा निःसहोऽस्मि कुरु निःशरणेऽनुकम्पाम् ॥ ३६ ॥

अन्वय-हे प्रभो ! (मम) अघानि अधिशुचि अहानि इव दीर्घाणि भवन्ति शरदि नदीजलस्य इव (प्रतिदिनम्)
बलस्य हानिः (भवति) दुःखानि असत्परिभवाः इव दुःसहानि भवन्ति हा ! (अहम्) निःसहः अस्मि (तन्मयि)
निःशरणे अनुकम्पाम् कुरु ।

निर्भर्त्सितो विपदि बन्धुरिवाऽभिमानी मा नीरसं स्पृशतु नाम मनो विवेकः । विद्यां निदाघ इव
घर्मरुचिर्हिमानी- मानीयनाशमुपतापयते तु मोहः ॥ ३७ ॥

अन्वय-विपदि निर्भर्त्सितः अभिमानी बन्धुः इव विवेकः (मम) नीरसम् चित्तम् मा स्पृशतु नाम । मोहः तु
घर्मरुचिः निदाघे हिमानीम् इव विद्याम् नाशम् आनीय मनः उपतापयते ।

तस्मादुपैति न तनुस्तरसाऽवसायं- सायन्तनी प्रतिपदिन्दुकलेव यावत् । तावत्कृपां कुरु
हतोऽस्म्यहमंहसाऽयं सा यन्त्रिता मयि तवास्तनयेन येन ॥ ३८ ॥

अन्वय-तस्मात् हे ईश ! यावत् (इयम् मम) तनुः सायन्तनी प्रतिपदिन्दुकला इव तरसा अवसायम् न उपैति
यावच्च अस्तनयेन येन तव सा (कृपा) मयि यन्त्रिता तेन अंहसा अयम् अहम् न हतः अस्मि तावत् (मयि) कृपाम्
कुरु ।

अभ्येति मृत्युभटसंहतिरस्तकम्पा कम्पामहे मनसि यां विनिवेशयन्तः । एका गतिर्गिरिश तत्र तवानुकम्पा
कम्पात्रतां नयति या न शुभोदयानाम् ॥ ३९ ॥

अन्वय-हे गिरिश ! याम् मनसि विनिवेशयन्तः (वयम्) कम्पामहे (सा) अस्तकम्पा मृत्युभटसंहतिः अभ्येति हे
विभो ! तत्र एका सा तव अनुकम्पा (एव मम) गतिः । या कम् (भक्तजनम्) शुभोदयानाम् पात्रताम् न नयति ? ।

यन्निःस्पृहोप्यजनयस्तनयं कुमारं मारं विधाय शलभं नयनानलस्य । तत्ते परार्थमिति
विश्रुतमाकुमारं मा रंहसा जहिहि देहि तदेहि वाचम् ॥ ४० ॥

अन्वय-हे भगवन् ! यत् निःस्पृहः अपि मारम् नयनानलस्य शलभम् विधाय कुमारम् अजनयः तत् ते (चरित्रम्)
परार्थम् इति आकुमारम् विश्रुतम् तत् रंहसा एहि मा जहिहि वाचम् देहि ।

सर्वस्वमेव मम दत्तमहाप्रहारा हारामलं हर हरन्त्यरयो विवेकम् । रक्षाकरी तव कृपाऽत्र
कृताऽवहारा हा राजशेखरमणेः पुरतो हतोऽहम् ॥ ४१ ॥

अन्वय-हे हर ! दत्तमहाप्रहाराः अरयः (आन्तराः कामादयः षट्) मम सर्वस्वम् एव हारामलम् विवेकम्
हरन्ति अत्र (विषये) रक्षाकरी तव कृपा कृतावहारा (भवति) हा ! राजशेखरमणेः (अपि) पुरतः अहम्
हतः ।

देवालये वसतिमर्थयते कपोतः सिन्धौ वणिग्भजति वृत्तिमशङ्कपोतः । पृष्ठे श्रियं वहति
नित्यमनेकपोऽत- स्त्वद्भक्तिमेमि सरसीमिव भेकपोतः ॥ ४२ ॥

अन्वय-हे नाथ ! कपोतः देवालये वसतिम् अर्थयते सिन्धौ वणिक् अशङ्कपोतः (सन्) वृत्तिम् भजति । अनेकपः
(गजः) नित्यम् पृष्ठे श्रियम् वहति अतः (हेतोः) भेकपोतः सरसीम् इव (अहम्) त्वद्भक्तिम् एमि ।

प्. १९६)

लब्धा धृतिर्दिवि कदाचन वासवेन सैन्येन सा परिवृतेन न वासवेन । नो वा बलेन भुवि पीतनवासवेन
त्वां भेजुषो भवति याऽभिनवा सवेन ॥ ४३ ॥

अन्वय-हे विभो ! सवेन त्वाम् भेजुषः या अभिनवा धृतिः भवति सा (धृतिः) वासवेन [वसूनामष्टानां
देवयोनीनामिदं वासवं तेन] सैन्येन परिवृतेन वासवेन (इन्द्रेण) कदाचन दिवि न लब्धा पीतनवासवेन
बलेन वा भुवि न लब्धा ।

या दुर्लभा दिवि महर्षभयान कस्य कालस्य या निधनधाम भयानकस्य । वाचा तया
कृतनतेरभयानकस्य तुल्यश्रियाऽर्पयसि शं शुभया न कस्य ॥ ४४ ॥

अन्वय-हे महर्षभयान् ! या (तव वाक्) दिवि कस्य (ब्रह्मणोऽपि) दुर्लभा या (वाक्) भयानकस्य कालस्य
निधनधाम (भवति) । कृतनतेः अभयाऽऽनकस्य तुल्यश्रिया तया शुभया वाचा (त्वम्) कस्य शम् न
अर्पयसि ।

यं वीक्षसे क्षतमहाकलिकाल सन्तं क्लिष्टं कृतीकृतबृहत्कलिकाल सन्तम् । इन्दोरिवाऽमृतमयी कलिका
लसन्तं बालाऽवलोकयति सोत्कलिकालसं तम् ॥ ४५ ॥

अन्वय-हे क्षतमहाकलिकाल ! हे कृतीकृतबृहत्कलिकाल ! क्लिष्टम् सन्तम् यम् सन्तम् (त्वम्) वीक्षसे लसन्तम्
अलसम् तम् इन्दोः अमृतमयी कलिका इव (मनोहरा) बाला सोत्कलिका (स्नेहार्द्रया दृशा) अवलोकयति ।

मुक्तावलीव रहिता शिव नायकेन मुक्ता भवद्गणसभेव विनायकेन । वाणी त्वया परिहृताऽखिलनायकेन
संभाव्यते हृदयसंवननाय केन ॥ ४६ ॥

अन्वय-हे शिव ! नायकेन रहिता मुक्तावली इव विनायकेन मुक्ता भवद्गणसभा इव अखिलनायकेन त्वया
परिहृता वाणी हृदयसंवननाय केन (जनेन) संभाव्यते ? (न केनाऽपीत्यर्थः)

यस्योचितः प्रथितमान समाधिनान्त- स्तेनार्तिमुद्वहति मानसमाधिनान्तः । शुद्धां मतिं स्पृशति
पांसुलभावलेप- स्तत्राप्युपैषि न कृपां सुलभावलेपः ॥ ४७ ॥

अन्वय-हे प्रथितमान ! यस्य (आधेः) समाधिना अन्तः उचितः तेन आधिना अंतः मानसम् आर्तिम् उद्वहति ।
पांसुलभावलेपः शुद्धाम् मतिम् स्पृशति तत्राऽपि सुलभावलेपः (त्वम्) कृपाम् न उपैषि ।

कामं भवेऽत्र बहवः सुभगस्वभावा भावा भवन्तु मम तु द्वितयं स्पृहायै । शब्दार्थपाकरुचिरा
कविराजगीर्वा गीर्वाणसिन्धुधरभक्तिरभङ्गुरा वा ॥ ४८ ॥

अन्वय-अयि तात ! अत्र (संसारे) बहवः भावाः (चन्द्रमुखीचन्द्रिकाचन्दनोद्यानप्रभृतयः)
सुभगस्वभावाः कामम् भवन्तु ? (किन्तु) मम स्पृहायै तु शब्दार्थपाकरुचिरा कविराजगीः वा अभङ्गुरा
गीर्वाणसिन्धुधरभक्तिः वा (एतत्) द्वितयम् (एव) ।

ज्योत्स्नाछटाभिरिव देव चकोरकस्य भास्वत्प्रभाभिरिव पङ्कजकोरकस्य । दैवीभिरद्भिरिव बर्हिकिशोरकस्य
प्रीतिर्न ते नुतिकथाभिरघोर कस्य ॥ ४९ ॥

अन्वय-हे देव ! हे अघोर !! चकोरकस्य ज्योत्स्नाछटाभिः इव पङ्कजकोरकस्य भास्वत्प्रभाभिः इव
दैवीभिः अद्भिः बर्हिकिशोरकस्य इव ते नुतिकथाभिः कस्य प्रीतिः न (भवति) ? ।

वृत्तं क्व ते सकलवाङ्मनसातिवृत्तं चेतः स्खलद्गति भवावरणात्क्व चेतः । वित्रासवन्तमिति
मामनुदत्पवित्रा भक्तिः स्तुतिस्तव कृतेयमतः सुभक्तिः ॥ ५० ॥

अन्वय-सकलवाङ्मनसातिवृत्तम् ते वृत्तम् (चरित्रम्) क्व इतः भवावरणात् स्खलद्गति (इदं मम) चेतः च
क्व ? इति (हेतोः) वित्रासवन्तम् माम् तव पवित्रा भक्तिः अनुदत् अतः (मया) इयम् तव सुभक्तिः स्तुतिः कृता ।

वन्दामहे च विविधं विवदामहे च लज्जामहे च कलुषाणि भजामहे च । ईहामहे च कुवचांसि सहामहे च
दह्यामहे च दुरितैर्जठरस्य हेतोः ॥ ५१ ॥

अन्वय-(वयम्) जठरस्य हेतोः (दुर्जनान्) वन्दामहे (वादिभिः सह) विविधम् च विवदामहे (क्वापि) च
लज्जामहे कलुषाणि च भजामहे (विविधं) ईहामहे च (खलानाम्) कुवचांसि च सहामहे दुरितैः
(कुकर्मोपार्जितैः पापैः अन्तः) दह्यामहे (हा कष्टम् !) ।

लब्धं चिरेण सुकृतैरचिरस्थिरं च मानुष्यकं पुनरिदं सुलभं च चेति । जानीम एव च न च स्वहितं
विधातु- मीहामहे वयमहो बत यद्भविष्याः ॥ ५२ ॥

अन्वय-चिरेण सुकृतैः लब्धम् अचिरस्थिरम् च इदम् मानुष्यकम् पुनः सुलभम् न इति वयम् जानीम एव ।
(तथापि) स्वहितम् विधातुम् न ईहामहे अहो ! बत (वयम्) यद्भविष्याः (भवामः) ।

तस्मादवश्यमवशानविशङ्कमेव भोगोपभोग-रसिकानसमाप्तकृत्यान् । यावन्न धीवर इवैत्य तिमीनकस्मा-
न्मृत्युः क्षणादशरणान् हरते हठेन ॥ ५३ ॥

तावत्प्रसीद कुरु नः करुणाममन्द- माक्रन्दमिन्दुधर मर्षय मा विहासीः । ब्रूहि त्वमेव भगवन्
करुणार्णवेन त्यक्तास्त्वया कमपरं शरणं व्रजामः ॥ ५४ ॥

(युग्मम्)

अन्वय-तस्मात् अवशात् भोगोपभोगरसिकान् असमाप्तकृत्यान् अशरणान् (अस्मान्) अवश्यम् अविशङ्कम् अकस्मात् एव
एत्य धीवरः तिमीन् इव यावत् मृत्युः हठेन क्षणात् न हरते तावत् हे इन्दुधर ! प्रसीद नः करुणाम्
कुरु अमन्दम् आक्रन्दम् मर्षय (माम्) मा विहासीः हे भगवन् ! त्वम् एव ब्रूहि करुणार्णवेन त्वया त्यक्ताः
(वयम्) अपरम् कम् शरणं व्रजामः ? ।

जातस्य मृत्युरिति चेत्स न लङ्घितः किं श्वेतेन शीतकरशेखरनन्दिना च । ताभ्यामसौ यदि जितो
विपुलैस्तपोभि- रस्माकमल्पतपसां त्वनिवार्य एव ॥ ५५ ॥

तर्ह्यर्चनान्तसमये तव पादपीठ- मालिङ्ग्य निर्भरमभङ्गुरभक्तिभाजः । निद्रानिभेन
विनिमीलितलोचनस्य प्राणाः प्रयान्तु मम नाथ तव प्रसादात् ॥ ५६ ॥ (युग्मम्)

अन्वय-हे शीतकरशेखर ! जातस्य (अवश्यमेव) मृत्युः इति चेत् तर्हि श्वेतेन नन्दिना च सः (मृत्युः) किम् न
लङ्घितः ? यदि ताभ्याम् असौ (मृत्युः) विपुलैः तपोभिः जितः अल्पतपसाम् अस्माकम् तु अनिवार्य एव (इति) चेत्
तर्हि हे नाथ ! तव प्रसादात् अर्चनान्तसमये अभङ्गुरभक्तिभाजः तव पादपीठम् निर्भरम् आलिङ्ग्य
निद्रानिभेन विनिमीलितलोचनस्य मम प्राणाः प्रयान्तु ।

एतेन किं निविडबन्धभृतो भुजङ्गाः किं वा न वक्रिमविलासविकासभाजः । किंतु क्रमादपचिताः
पदगुम्फहीनाः सूक्तामृतानुकरणे कथमुत्सहन्ते ॥ ५७ ॥

तस्माद्भयङ्करमदः फणिकर्णपूर- हेवाकदुर्ललितमस्तनयं विहाय । स्वामिन्निमाः श्रवणयोः
प्रणयोपचार- गर्भा गिरश्चतुरमाभरणी-कुरुष्व ॥ ५८ ॥ (युग्मम्)

अन्वय-हे शिव ! एते (तवाऽतिप्रियाः) भुजङ्गाः किम् निविडबन्धभृतः किंवा वक्रिमविलासविकासभाजः
न (सन्ति सन्त्येव यद्यपि) किन्तु (एते) क्रमात् अपचिताः पदगुम्फहीनाः (सन्ति अतः) मम
सूक्ताऽमृतानुकरणे कथम् उत्सहन्ते ? [मम सूक्ताऽमृतम् तु निविडबन्धभृत् वक्रिमविलासविकासभाक्
(अस्ति) तथा क्रमात् अपचितः पदगुम्फहीनं च न किन्तु क्रमसहितं यथोचितपदबन्धयुतं चास्ति अतो
भुजङ्गमेभ्यो मदीयसूक्तामृतस्य वैशिष्ट्यमित्यर्थः ।] तस्मात् हे स्वामिन् ! अस्तनयम् अदः भयङ्करम्
फणिकर्णपूर-हेवाकदुर्ललितम् विहाय प्रणयोपचारगर्भाः इमाः (मम) गिरः चतुरम् आभरणीकुरुष्व ।

स्वामिन्नबन्धवतया वत या तवेयं वाणी मया निजगदे जगदेकबन्धोः । तामन्तकान्तकर शङ्कर
शंसतो मे कर्णे कुरुष्व करुणां करुणाम्बुराशे ॥ ५९ ॥

अन्वय-हे स्वामिन् ! अबान्धवतया मया तव जगदेकबन्धोः (अग्रे) इयम् या वाणी निजगदे हे अन्तकान्तकर ! हे
करुणाम्बुराशे !! हे शङ्कर !!! बत ! शंसतः (त्वाम् स्तुवतः) मे ताम् करुणाम् (दीनाम् वाणीम्) कर्णे
कुरुष्व ।

पश्यन्तमन्धमभिमानिनमस्तमानं- विस्तीर्णकर्णमपि या बधिरं करोति । साऽऽर्त्तिर्न नर्तयति किं
कुनृणामिव श्रीः तस्मात्क्षमस्व भगवन्नतिलङ्घनानि ॥ ६० ॥

अन्वय-या (आर्तिः) पश्यन्तम् अन्धम् करोति अभिमानिनम् अस्तमानम् करोति विस्तीर्णकर्णम् अपि बधिरम् करोति सा
आर्तिः (दीनं जनम्) कुनृणाम् श्रीः इव किम् न नर्तयति ? तस्मात् हे भगवन् ! अतिलङ्घनानि
(अयुक्ताऽसम्बद्धप्रलापरूपाणि) क्षमस्व ।

उच्छृङ्खलं खलमलङ्घ्यबलं ज्वलन्त- मन्तः कृतान्तमविकल्पमनल्पदर्पम् । आशङ्क्य
शङ्करचरित्रपवित्रचित्र- सूक्तिष्वपि स्थिररुषं प्रतिबोधयामः ॥ ६१ ॥

अन्वय-(वयम्) कृतान्तम् शङ्करचरित्रपवित्रचित्रसूक्तिषु अपि स्थिररुषम् आशंक्य (तम्) उच्छृङ्खलम् खलम्
अलङ्घ्यबलम् अन्तः ज्वलन्तम् अविकल्पम् अनल्पदर्पम् प्रति बोधयामः ।

प्रत्यग्रकर्कशमशल्कमुदर्कपथ्यं तथ्यं सतोषमपदोषमरोषपोषम् । सन्धित्सवस्तव कृतान्तहितं
मितं च यद्ब्रूमहे तदवधारय सावधानः ॥ ६२ ॥

अन्वय-हे कृतान्त ! (त्वया सह) सन्धित्सवः (वयम्) प्रत्यग्रकर्कशम् अशल्कम् उदर्कपथ्यम् तथ्यम् सतोषम्
अपदोषम् अरोषपोषम् तव हितम् मितम् च यत् ब्रूमहे तत् सावधानः (सन्) अवधारय ।

अन्यत्र दर्शय निरङ्कुश हुङ्कृतानि कीनाश नाशय दुराशय माऽभिमानम् । नाथीकृतेन्दुमुकुटानपि
नाम मन्ये निर्भर्त्सयिष्यसि हतैव तवेयमाशा ॥ ६३ ॥

अन्वय-हे निरङ्कुश ! हे कीनाश !! हे दुराशय !!! (त्वम्) हुङ्कृतानि अन्यत्र दर्शय अभिमानम् मा नाशय
नाम (त्वम् किम्) मन्ये (मन्यसे) (अहम्) नाथीकृतेन्दुमुकुटान् अपि निर्भर्त्सयिष्यसि (निर्भर्त्सयिष्यामीति) इयम्
तव आशा हता एव (निन्दितैव) ।

रे रे चञ्चललोचनाञ्चितरुचे ! चेतः प्रमुच्य स्थिर- प्रेमाणं महिमानमेणनयनामालोक्य किं नृत्यसि । किं
मन्ये विहरिष्यसे बत हतां मुञ्चान्तराशामिमा- मेषा कण्ठतटे कृता खलु शिला संसारवारां
निधौ ॥

नित्यं दुर्ललितोऽसि दीनदमने त्वं चेत्तथापि ध्रुवं रे रे काल कराल मुञ्च विमते व्यर्थां
दुराशामिमाम् । किं मन्ये प्रहरिष्यसे जनमिवाऽनाथ बतैनं हठात् ख्यातं शङ्करकिङ्करं त्रिभुवने
प्रेमैकपात्रं विभोः ॥

येनेश्वरेण महता विहितागसस्ते कृत्वाऽपि शासनमकारि पुनः प्रसादः । तत्सेवका वयमतस्तव
विद्विषोऽपि यद्ब्रूमहे हितमदो मनुषे रुषेति ॥ ६४ ॥

अन्वय-रे काल ! विहितागसः ते शासनम् कृत्वा अपि येन महता ईश्वरेण (परमकारुणिकेन) पुनः (त्वयि)
प्रसादः अकारि वयम् तत्सेवकाः (स्मः) अतः तव विद्विषः अपि (वयम्) यत् हितम् ब्रूमहे तत् त्वम् रुषा इति
(ईदृग्वचनं रुषैव ममैते वदन्तीति) मनुषे ? ।

रे दुर्विनीत खल काल पुरा पुरारे- र्यामाप्तवानसि निजाविनयप्रशास्तिम् । श्रुत्वैव तां धृतिमतामपि
कम्पमेति चेतः कथं पुनरुपक्रमसे तदेव ॥ ६५ ॥

अन्वय-रे दुर्विनीत ! रे खल ! रे काल ! पुरा पुरारेः (सकाशात्) याम् निजाऽविनयप्रशास्तिम् आप्तवान् असि
ताम् श्रुत्वा एव धृतिमताम् अपि चेतः कम्पम् एति पुनः तदेव कथम् उपक्रमसे ? ।

पाणौ निधेहि पवनाशनपाशमाशु नास्तीह ते पुरुषपाश रुषोऽवकाशः । निःसङ्करेषु
शरणीकृतशङ्करेषु रे काल कातरभयङ्कर किं करोषि ॥ ६६ ॥

अन्वय-हे पुरुषपाश ! पवनाशनपाशम् आशु पाणौ निधेहि इह ते रुषः अवकाशः न अस्ति रे
कातरभयङ्कर ! हे कालः ! निःसङ्करेषु शरणीकृत-शङ्करेषु (अस्मासु विषये त्वम्) किम् करोषि ? ।

व्यापारय स्वपुरुषं पुरुषं परेषु मा रोषमङ्कुरय शङ्करकिङ्कराणाम् । किं विस्मृतं
विषधरायुध निर्निरोध- क्रोध-प्रबोध-पटहं हरहुङ्कृतं ते [तत्] ॥ ६७ ॥

अन्वय-हे काल ! स्वपुरुषम् पुरुषम् परेषु (शङ्करभक्त-विहीनेषु) व्यापारय शङ्करकिङ्कराणाम् रोषम्
मा अङ्कुरय । हे विषधरायुध ! निर्निरोध-क्रोध-प्रबोध-पटहम् (तत्) हरहुङ्कृतम् किं ते विस्मृतम् ? ।


एकस्य प्रणयनतस्य पालनार्थं निर्दग्धस्त्वमसि पुरा पुरारिणा यत् ॥ १ ॥


क्रोधोद्धुरो जलधरध्वनिधीरघोर- हुङ्कारतर्जितसमस्तजनो नितान्तम् । शर्वाङ्घ्रिभक्तिकवचेन
समावृतस्य किं मे करिष्यति यमोऽपि स दण्डहस्तः ॥ २ ॥ ---------------------

कीनाश बालिश निरङ्कुश निर्विमर्श निस्त्रिंश निष्करुण निःशरणेषु चेत्त्वम् । निष्कारणं निरनुरोध
करोषि रोषं तत्किं चिकीर्षसि महेश्वरसंश्रितेषु ॥ ६८ ॥

अन्वय-हे कीनाश ! हे बालिश ! हे निरङ्कुश ! हे निर्विमर्श ! हे निस्त्रिंश ! हे निष्करुण ! हे निरनुरोध !
त्वम् चेत् निःशरणेषु निष्कारणम् रोषम् करोषि तत् (तर्हि) महेश्वरसंश्रितेषु किम् चिकीर्षसि ? ।

कुर्वन् विरोधमनिरोधमबान्धवेषु धत्से मुधा यम समुद्धतकन्धरत्वम् । तीव्राऽपराधविधुरेष्वपि
साधवो हि बाधां विधातुमधमेष्वपि न क्षमन्ते ॥ ६९ ॥

अन्वय-हे यम ! (त्वम्) अबान्धवेषु (अगतिकेषु) अनिरोधम् विरोधम् कुर्वन् समुद्धतकन्धरत्वम् मुधा धत्से हि
साधवः तीव्रापराधविधुरेषु अपि अधमेषु अपि बाधाम् विधातुम् न क्षमन्ते ।

यत्प्राणिषु प्रभवसि प्रसभं प्रहर्तुं प्राप्य प्रभोः प्रमथनाथपितुः प्रसादम् । तत्प्राक्कृतस्य
दुरितस्य दुरुत्तरस्य तेषां फलं तव किमन्तक पौरुषं तत् ॥ ७० ॥

अन्वय-हे अन्तक ! प्रमथनाथपितुः प्रभोः पसादम् प्राप्य त्वम् यत् प्राणिषु प्रसभम् प्रहर्तुम् प्रभवसि तत्
तेषाम् (प्राणिनामेव) प्राक्कृतस्य दुरुत्तरस्य दुरितस्य फलम् (अस्ति) तत् (तस्मिन्) तव किम् पौरुषम् ? ।

तत्तथ्यमेव किमकारणकण्टकं त्वां यद्धर्मराज इति काल जनाः स्तुवन्ति । लोका न किं
जगदमङ्गलमूलकोषं शंसन्ति मङ्गलविहङ्गम इत्युलूकम् ॥ ७१ ॥

अन्वय-हे काल ! जनाः अकारणकण्टकम् त्वाम् यत् धर्मराज इति स्तुवन्ति तत् तथ्यम् एव किम् ? (दृष्टं
चैतत्-) लोकाः जगदमङ्गलमूलकोषम् उलूकम् मङ्गलविहङ्गम इति किम् न शंसन्ति ? ।

त्वां जीवितेश इति यत्स्तुवते रुदत्यः कापालिकाः शवदहो गुरवो द्विजाश्च । तद्युक्तमन्तक यतः परमः
सुहृत्त्वं तेषामकारणरिपुस्त्वसुहृत्परेषाम् ॥ ७२ ॥

अन्वय-हे अन्तक ! रुदत्यः (मृतमुद्दिश्य रोदनं कुर्वत्यः स्त्रियः) कापालिकाः शवदहः गुरवः द्विजाः
च यत् त्वाम् हे जीवितेश ! (प्राणनाथ !) इति स्तुवन्ति तत् युक्तम् (एव) । यतः तेषाम् त्वम् परमः सुहृत् (असि)
परेषाम् तु (त्वम्) अकारणरिपुः असुहृत् (असि अतः ते त्वाम् हे जीवितेश ! = जीवितस्य ईशो नेता प्राणहर !
इति स्तुवन्ति) ।

क्लिश्यन्त्यवश्यमपमार्जनभूतयाग- निर्याणकर्मचरमेष्टिशिवक्रियाद्यैः । ये दैशिकाः
परमकारुणिकाः परार्थे त्वां श्राद्धदेव इति ते रविज स्तुवन्ति ॥ ७३ ॥

अन्वय-हे रविज ! अवश्यम् अपमार्जन-भूतयाग-निर्याणकर्म-चरमेष्टिशिवक्रियाद्यैः (कर्मभिः) ये
परमकारुणिकाः दैशिकाः परार्थे क्लिश्यन्ति ते त्वाम् श्राद्धदेव इति स्तुवन्ति ।

देशं न यत्त्यजति सन्तमसन्तमन्तं ध्वान्तं नयंस्तव पिता समवर्त्यतोऽर्कः । त्वं सत्स्वसत्स्वपि समं
प्रहरस्यतोऽपि सद्यः स्तुवन्ति समवर्त्तिनमन्तक त्वाम् ॥ ७४ ॥

कोपं विधाय तव येन कृतः प्रसाद- स्तत्सेवकेष्वपि चिकीर्षसि यत्प्रसादम् । किं तत्र वर्तयसि मां
समवर्त्यतोऽपि त्वं स्तूयसे विषमवर्त्यपि मर्मविद्भिः ॥ ७५ ॥ (युग्मम्)

अन्वय-हे अन्तक ! तव पिता अर्कः ध्वान्तम् अन्तम् नयन् सन् यत् सन्तम् (शोभनम्) असन्तम् (अशोभनमपि) देशम् न
त्यजति अतः समवर्ती अर्कः (एव भवति) त्वम् (तु) सत्सु असत्सु अपि समम् प्रहरसि अतः अपि जनाः समवर्तिनम्
सद्यः स्तुवन्ति । अतः विषमवर्ती अपि (साध्वसाधुविचाररहितोऽपि त्वम्) मर्मविद्भिः समवर्ती (इति) स्तूयसे
। (किंतु) येन (शम्भुना) कोपम् विधाय तव प्रसादः कृतः तत्सेवकेषु अपि यत् त्वम् प्रसादम् चिकीर्षसि
(चेत्तर्हि) तत्र माम् प्रति किम् वर्तयसि ।

भालस्थलानि कलयस्यमलेन्दुमौलि- पादारविन्दमकरन्दसितानि येषाम् । त्वं मानवानसि विमानय मा नयज्ञ
तन्मानवानवसि रौद्र यदि स्वमौद्रम् ॥ ७६ ॥

अन्वय-हे नयज्ञ ! त्वम् मानवान् असि (अतः) हे रौद्र ! यदि स्वमौद्रम् (स्वमानमुद्राम्) अवसि तत् येषाम्
भालस्थलानि अमलेन्दुमौलिपादारविन्दमकरन्दसितानि कलयसि (तान्) मानवान् मा विमानय ।

दुर्वृत्तदर्पशमनाच्छमनोऽसि यत्त्वं यद्वा यमोऽस्यधमसंयमनात्तदन्यत् । मन्ये मदं शमयितुं
प्रभवस्तवैव त्वामेव वा यमयितुं भवभक्तिभाजः ॥ ७७ ॥

अन्वय-हे अन्तक ! यत् त्वम् दुर्वृत्तदर्पशमनात् शमनः असि यत् वा अधमसंयमनात् यमः असि तत् अन्यत् । अहम्
(तु) मन्ये- यत् भवभक्तिभाजः तवैव मदम् शमयितुम् वा त्वाम् एव यमयितुम् प्रभवः (भवन्ति)

उद्वृत्तमन्तक नृशंस भृशं सगर्व शर्व-स्तव-व्यवसितेष्वपि चेष्टसे यत् । तद्भावि
भाविभव-भैरव-भैरवोग्र- भालानलोद्भवपराभवकृत्पुनस्ते ॥ ७८ ॥

अन्वय-हे नृशंस ! हे भृशं सगर्व !! अन्तक !!! त्वम् शर्वस्तवव्यवसितेषु अपि यत् उद्वृत्तं चेष्टसे !
तत् पुनः ते भा-विभव-भैरव-भैरवोग्रभालानलोद्भवपराभवकृत् भावि (भविष्यति) ।

किं वाऽन्यदर्कज विशङ्क विशङ्कटास्य हास्यं चिकीर्षसि यदीश्वरसंश्रयाणाम् । तन्मा कृथा न हि
तवाश्रितवत्सलोऽसौ सानुग्रहोप्यनुचितं क्षमते महेशः ॥ ७९ ॥ (कालोपालम्भकुलकम्)

अन्वय-हे विशङ्क ! हे विशङ्कटास्य अर्कज !! किम् वा अन्यत् (ब्रूमः) । यत् त्वम् ईश्वरसंश्रयाणाम् हास्यम्
चिकीर्षसि तत् मा कृथाः ? हि-आश्रित-वत्सलः असौ महेशः सानुग्रह अपि तव अनुचितम् न क्षमते ।

भालस्थलीव तिलकेन वधूकटाक्ष- विक्षोभितेन तिलकेन वनावलीव । विज्ञप्तिरेणतिलकेन विभावरीव
शोभां वसन्ततिलकेन बिभर्त्ति शम्भोः ॥ ८० ॥

अन्वय-तिलकेन भालस्थली इव वधूकटाक्षविक्षोभितेन तिलकेन वनावली इव एणतिलकेन (चन्द्रेण)
विभावरी इव (इयम् मम कृता) शम्भोः विज्ञप्तिः वसन्ततिलकेन (वृत्तेन) शोभाम् बिभर्ती ।


आलिङ्गनैः कुरवकस्तिलकः कटाक्षैः शिञ्जाननूपुरपदाहननैरशोकः ।

गण्डूषसीधुपतनैर्बकुलोऽङ्गनाना- मभ्येति माधवमये समये विकासम् ॥ --------------------- वासः
क्षीणदशं वयश्च करणग्रामं मनश्चाऽक्षमं निःसारेषु दुरीश्वरेष्वपचितेरुद्वेगमङ्गेष्वपि ।
व्यर्थं वेश्म नृजन्म चाखिलमिदं कल्याणशून्यं वपुः कोषं चोद्वहतः कुरुष्व करुणां चित्ते गिरं
च श्रुतौ ॥ ८१ ॥

अन्वय-अयि स्वामिन् ! क्षीणदशम् (दशाहीनम्) वासः क्षीणदशम् (बाल्याद्यवस्थाहीनम्) वयः च उद्वहतः
अक्षमम् (निजव्यापाराऽसमर्थम्) करणग्रामम् अक्षमम् (क्षान्तिहीनम्) मनः च उद्वहतः निःसारेषु
(सारहीनेषु) दुरीश्वरेषु अपचितेः (अपमानात्) उद्वेगम् (दैन्यम्) तथा निःसारेषु (निर्बलेषु) अङ्गेषु अपि
अपचितेः (क्षीणत्वात्) उद्वेगम् (जरया सकम्पत्वादुच्चैर्वेगम्) च उद्वहतः व्यर्थम् (वि-अर्थम्=निर्धनम्) वेश्म
व्यर्थम् (निरर्थकम्) अखिलम् नृजन्म च उद्वहतः इदम् कल्याणशून्यम् (मुक्त्युपायेन मङ्गलेन शून्यम्) वपुः
कल्याणशून्यम् (सुवर्णहीनम्) कोषम् च उद्वहतः मम इमाम् गिरम् श्रुतौ कुरुष्व चित्ते च करुणाम् कुरुष्व ।

अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणी- श्चाटूक्तीः प्रभवामि यामि भवतो याभिः
कृपापात्रताम् । आर्तेनाऽशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः कृत्वा सत्वरमेहि देहि चरणं
मूर्धन्यधन्यस्य मे ॥ ८२ ॥

अन्वय-हे स्वामिन् ! तावत् (प्राथम्ये) अज्ञः (अत-एव) मन्दधिषणः अहम् याभिः (स्तुतिभिः) भवतः
कृपापात्रताम् यामि (ताः) मनोहारिणीः चाटूक्तीः कर्तुम् न प्रभवामि । किं तु आर्तेन अशरणेन
कृपणेन आक्रन्दितम् कर्णयोः कृत्वा सत्वरम् एहि अधन्यस्य मे मूर्धनि चरणम् देहि ।

इति श्री प्रेममकरन्दनाम्न्या टीकयोपेतं काश्मीरक-महाकवि-श्रीमज्जगद्धरभट्टविरचिते भगवतो
महेश्वरस्य स्तुतिकुसुमाञ्जलौ कृपणाऽऽक्रन्दनं नाम नवमं स्तोत्रम् ।

दशमं स्तोत्रम्

जयति चित्तचकोरकचन्द्रिका सुकृतिनां वदनाब्जरविच्छविः । श्रवणबर्हिणवर्षणवर्तनी
हरिणकेतुकलामुकुटस्तुतिः ॥ १ ॥

अन्वय-सुकृतिनाम् चित्तचकोरकचन्द्रिका वदनाब्जरविच्छविः श्रवणबर्हिणवर्षणवर्तनी
हरिणकेतुकलामुकुटस्तुतिः जयति ।

जयति भक्तिलतानवमाधवः सुकृतपादपपक्वफलोद्भवः । विपदुपद्रवविक्लवबान्धवः
सुकविसूक्तिवधूवदनासवः ॥ २ ॥

भव-महार्णव-निस्तरणप्लवः प्रवरसूरिमयूरघनारवः । हृदयदाहहृतावमृतद्रवः
कुमुदिनीरमणाभरणस्तवः ॥ ३ ॥ (युग्मम्)

अन्वय-भक्तिलतानवमाधवः सुकृतपादपपक्वफलोद्भवः विपदुपद्रवविक्लवबान्ध्वः
सुकविसूक्तिवधूवदनासवः भवमहार्णवनिस्तरणप्लवः प्रवरसूरिमयूरघनारवः हृदयदाहहृतौ
अमृतद्रवः कुमुदिनीरमणाभरणस्तवः जयति ।

मधुरमिन्दुमुखीवदनादपि क्लमहरं सुरसिन्धुजलादपि । त्रिभुवनाधिपतिस्तुतिपावनं जयति
सत्कविसूक्तिरसायनम् ॥ ४ ॥

अन्वय-इन्दुमुखीवदनात् अपि मधुरम् सुरसिन्धुजलात् अपि क्लमहरम् त्रिभुवनाधिपतिस्तुतिपावनम्
सत्कविसूक्तिरसायनम् जयति ।

नवनवभ्रमरस्वनशोभिनी भवमरुभ्रम-घर्म-शम-क्षमा । हृदयनन्दनचन्दन-कन्दली जयति
शङ्करभक्तिरभङ्गुरा ॥ ५ ॥

अन्वय-नवनवभ्रमरस्वनशोभिनी भवमरुभ्रम-घर्म-शम-क्षमा हृदय-नन्दनचन्दन-कन्दली अभङ्गुरा
शङ्करभक्तिः जयति ।

अथ कथञ्चन रूढमपि क्षणं मनसि वीक्ष्य विवेकनवाङ्कुरम् । बहुविधव्यसनौघविघट्टितं सपदि
विज्ञपयामि जगद्गुरुम् ॥ ६ ॥

अन्वय-अथ कथञ्चन (कष्टेन) मनसि क्षणम् रूढम् अपि विवेकनवाङ्कुरम् बहुविधव्यसनौघविघट्टितम्
वीक्ष्य सपदि जगद्गुरुम् विज्ञपयामि ।

अपि जगद्विदितः करुणापरः परहिताऽऽहितमूर्त्तिपरिग्रहः । किमिति हंसि न हंस हृदम्बुजे कृतपदो
विपदः शरणार्थिनाम् ॥ ७ ॥

अन्वय-हे हंस ! जगद्विदितः अपि करुणापरः परहिताऽऽहितमूर्तिपरिग्रहः (त्वम्) (मादृशाम्)
शरणार्थिनाम् हृदम्बुजे कृतपदः (कृतस्थितिः सन्) किम् इति विपदः न हंसि ? ।

यदि भवान् विदधीत हृदि स्थितिं व्यसनसम्पदसौ प्रसरेत्कथम् । यदि न सा प्रसरेत्प्रसजेत्कथं
बुधजनोऽप्यसमञ्जसकर्म्मसु ॥ ८ ॥

अन्वय-हे स्वामिन् ! यदि भवान् हृदि स्थितिम् विदधीत तर्हि असौ व्यसन-सम्पत् कथम् प्रसरेत् ? यदि च सा न
प्रसरेत् तदा बुधजनः अपि असमञ्जसकर्मसु कथम् प्रसजेत् ? ।

इह बृहद्भिरुदग्रपरिग्रह-ग्रहगृहीतमतिर्व्यसनोद्गमैः । यदि न कातरतां परतन्त्रतामफलतां
खलतां च भजेज्जनः ॥ ९ ॥

अन्वय-हे विभो ! यदि इह बृहद्भिः व्यसनोद्गमैः उदग्रपरिग्रहग्रहगृहीतमतिः जनः कातरताम्
परतन्त्रताम् अफलताम् खलताम् च न भजेत् तदा भवत्पदपङ्कज-पूजन-व्यसन-सौमनसीम् अपहाय
विभूतिलवोन्मिषन्मदकदर्य-विकार-कदर्थनाम् कः सहेत इति अग्रे स्थितेन श्लोकेन सह सम्बन्धः ।
एवमग्रेऽपि ।

यदि भजेत न सज्जनसङ्गम-व्यसनसर्पदनल्पकृपास्पदम् ।
हृदयमिन्दुमयूखसुखाहतिव्यतिकरद्रुतचन्द्रमणिश्रियम् ॥ १० ॥

अन्वय-सज्जनसङ्गमव्यसनसर्पदनल्पकृपास्पदम् (जनस्य) हृदयम् यदि
इन्दुमयूखसुखाहतिव्यतिकरद्रुतचन्द्रमणिश्रियम् न भजेत् तदेति पूर्ववत्सम्बन्धः ।

अभिलषेयुरनर्गलदुर्गति-प्रसरदीर्घनिदाघ-निपीडिताः । यदि घनागमवन्न धनागमं
प्रणयिनस्तृषिता हरिणा इव ॥ ११ ॥

अन्वय-प्रणयिनः (अर्थिनो जनाः) अनर्गलदुर्गतिप्रसरदीर्घनिदाघनिपीडिताः (अत-एव) तृषिताः
हरिणाः घनागमम् इव यदि धनागमम् न अभिलषेयुः तदा को नाम भवच्चरणाम्बुजसेवाविमुखो भवेदिति
पूर्ववदन्वयः ।

यदि न पीनघनस्तनभङ्गुर-त्रिवलिभङ्गितरङ्गितमध्यमाः । इह हरेयुरपाङ्गविलोकितैर्धृतरतिप्रमदाः
प्रमदा मनः ॥ १२ ॥

अन्वय-यदि इह पीनघनस्तनभङ्गुरत्रिवलिभङ्गितरङ्गितमध्यमाः धृतरतिप्रमदाः (एताः) प्रमदाः
मनः न हरेयुः तर्हीति पूर्ववदन्वयः ।

बलवदिन्द्रियतस्करसङ्कुले विषयभीमभुजङ्गमभीषणे । दुरितदीर्घदवानलदुःसहे
बहलमोहतमोहतसंविदि ॥ १३ ॥

कृतधियोऽपि भवाध्वनि धावतः प्रबलकर्मरयापहृतात्मनः । अवसरे प्रहरेयुरमी न
चेन्मदनमानमुखाः परिपन्थिनः ॥ १४ ॥ (युग्मम्)

अन्वय-बलवदिन्द्रियतस्करसङ्कुले विषयभीमभुजङ्गमभीषणे दुरितदीर्घदवानलदुःसहे
बहलमोहतमोहतसंविदि भवाध्वनि धावतः प्रबलकर्मरयाऽपहृतात्मनः कृतधियः अपि अवसरे
(श्रीशम्भुध्यानाऽवसरे) अमी मदनमानमुखाः परिपन्थिनः न प्रहरेयुः चेत् तदेत्यादि सर्वं पूर्ववत् ।

उपचितोऽभिनवाम्रदलावली-कवलनाकुलकोकिलकूजितैः । यदि न तर्जयितुं प्रभवेन्मधौ
मदनदिग्विजयोद्यमडिण्डिमः ॥ १५ ॥

अन्वय-मधौ अभिनवाम्रदलावलीकवलनाकुलकोकिलकूजितैः उपचितः मदनदिग्विजयोद्यमडिण्डिमः यदि
(जनान्) तर्जयितुम् न प्रभवेत् तदेत्यादि सर्वं पूर्ववत् ।

यदि मधौ मधुपान-मदोन्मद-भ्रमर-गायन-गुञ्जित-गीतयः । सुखलवानुभवाय कृतस्पृहं हर
हरेयुरिमं न मनोमृगम् ॥ १६ ॥

अन्वय-हे हर ! मधौ मधुपानमदोन्मद-भ्रमर-गायन-गुञ्जित-गीतयः सुखलवानुभवाय कृतस्पृहम् इमम्
मनोमृगम् यदि न हरेयुः तदेत्यादि पूर्ववदन्वयः ।

अभिनवस्तवक-स्तन-सन्नताः पवन-नर्तित-पल्लव-पाणयः । यदि न
बन्ध-निबन्धनमृध्नुयु-र्मधुपगुञ्जितमञ्जुगिरो लताः ॥ १७ ॥

अन्वय-अभिनव-स्तवक-स्तन-सन्नताः पवननर्तितपल्लवपाणयः मधुपगुञ्जितमञ्जुगिरः लताः
(लताकामिन्यः) यदि (मनोमृगस्य) बन्धनिबन्धनम् न ऋध्नुयुः तदेति पूर्ववत् ।

यदि शुचौ मनसीव न मानिनां घनमनेहसि तापमुपावहेत् । सरजसो हरितस्तरुणैः करैरविरलं
परिरिप्सुरहर्पतिः ॥ १८ ॥

अन्वय-तरुणैः करैः सरजसः हरितः अविरलम् परिरिप्सुः अहर्पतिः (सूर्यः) मानिनाम् शुचौ (निर्मले)
मनसि इव शुचौ अनेहसि (ग्रीष्मकाले) यदि घनम् तापम् न उपावहेत् तदेत्यादि सर्वं पूर्ववत् ।

पृथुलसज्जघनोरुपयोधरा गुरुमरुच्चपलाकुलिताम्बराः । यदि भवेयुरिमा न घनागमे मृगदृशश्च
दिशश्च धृतिच्छिदः ॥ १९ ॥

अन्वय-यदि घनागमे इमाः पृथुलसज्जघनोरुपयोधराः गुरुमरुच्चपलाकुलिताम्बराः मृगदृशः
पृथुल-सज्ज-घनोरु-पयोधराः गुरुमरुच्चपलाकुलिताम्बराः दिशः च धृतिच्छिदः न भवेयुः तर्हीत्यादि
पूर्ववत्सम्बन्धः ।

सुरभिगन्धि-सहास-मुखाम्बुजा धृतमनोहरहंसकविभ्रमाः । यदि न मज्जनधाम नतभ्रु वः शरदि
संस्मरयेयुरगापगाः ॥ २० ॥

अन्वय-सुरभिगन्धिसहासमुखाम्बुजाः धृतमनोहरहंसकविभ्रमाः मज्जनधाम अगापगाः शरदि
(पुरुषान्) सुरभिगन्धि-सहास-मुखाम्बुजाः धृतमनोहरहंसकविभ्रमाः मज्जनधाम नतभ्रुवः यदि न
संस्मरेयेयुः तदेत्यादिपूर्ववत् ।

यदि न दीर्घतमाः समवाप्नुयुः सहसि दुर्विषहोल्बणवायवः ।
धृतघनोष्मबृहत्तरुणी-स्तन-स्मरणकारणतामपि रात्रयः ॥ २१ ॥

अन्वय-सहसि (हेमन्ते) दुर्विषहोल्बणवायवः दीर्घतमा रात्रयः अपि
धृतघनोष्मबृहत्तरुणीस्तनस्मरणकारणताम् यदि न समवाप्नुयुस्तदेत्यादि पूर्ववत् ।

यदि भवेन्न घनावरणोद्गम- ग्लपितधामनि घमनिधौ बहिः । तपसि चेतसि च व्यसनाकुले तपसि
रूढरसोऽप्यलसो जनः ॥ २२ ॥

अन्वय-व्यसनाकुले [पक्षिणां पलायनेनाकुले] तपसि [शिशिरे] (सर्वलोकस्य) चेतसि च व्यसनाकुले
[मृगयादिव्यसनैराकुले] सति बहिः घामनिधौ (सूर्ये) घनावरणोद्गमग्लपितधामनि सति तपसि
रूढरसः अपि जनः यदि अलसः न भवेत्तदेत्यादिपूर्ववत् ।

तदखिलापदुपोद्धरणक्षमं समधिगम्य दुरापमिदं पुनः । पवनवेल्लितबालमृणालिनी-
दलचलज्जलबिन्दुनिभं वपुः ॥ २३ ॥

भव भवत्पदपङ्कजपूजन- व्यसनसौमनसीमपहाय कः । इह सहेत विभूतिलवोन्मिष-
न्मदकदर्यविकारकदर्थनाम् ॥ २४ ॥ (युग्मम् । अष्टादशभिः कुलकम्)

अन्वय-हे विभो ! (यदि पूर्वोक्ताः कामादिविकाराः प्रबला नो भवेयुः) तत् पुनः हे भव ! इह
अखिलापदुपोद्धरणक्षमम् दुरापम् पवनवेल्लितबालमृणालिनीदलचलज्जलबिन्दुनिभम् इदम् वपुः समधिगम्य
भवत्पदपङ्कजपूजनव्यसनसौमनसीम् अपहाय इह विभूतिलवोन्मिषन्मदकदर्य-विकारकदर्थनाम् कः सहेत
? ।

इदमुदञ्चति मेघमयं महत् पिहितभास्वदमन्दमहस्तमः । घनबलोऽपि स काल उपस्थित- स्तदिह हंस
पदं कुरु मानसे ॥ २५ ॥

अन्वय-हे हंस ! पिहितभास्वदमन्दमहः इदम् मे अघमयम् महत् तमः उदञ्चति घनबलः सः कालः अपि
उपस्थितः तत् इह (मम) मानसे पदम् (स्थितिम्) कुरु ।

इति यदन्तरनन्त तिरोदधन् मुदमुदञ्चति मोहमहातमः । तव रवीन्दुहुताशनचक्षुषो हृदि
निवेदयतीदमसन्निधिम् ॥ २६ ॥

अन्वय-हे अनन्त ! अन्तः (हृदि) मुदम् तिरोदधत् यत् मोहमहातमः इति उदञ्चति इदम् (मोहतमः मादृशाम्) हृदि
रवीन्दुहुताशनचक्षुषः तव असन्निधिम् निवेदयति ।

न हि महेश मनस्त्वदधिष्ठितं भ्रमयितुं प्रभवन्ति भवोर्मयः । न हि वनं हरिणाधिपरक्षितं
क्षपयितुं कपयः क्वचन क्षमाः ॥ २७ ॥

अन्वय-हे महेश ! हि (भक्तजनस्य) त्वदधिष्ठितम् मनः भ्रमयितुम् (एताः) भवोर्मयः न प्रभवन्ति । हि
(दृष्टं चैतत्-) हरिणाधिपरक्षितम् वनम् क्षपयितुम् कपयः क्वचन क्षमाः न (भवन्ति) ।

वरमरण्यसरित्पुलिनस्थली- तरुतले फलमूलजलाशिनः । स्थितिरनर्गलवल्कलवाससो न शिवभक्तिमृते
त्रिदशेन्द्रता ॥ (प्रक्षिप्तमेतत्)

अन्वय-अरण्यसरित्पुलिनस्थलीतरुतले फलमूलजलाशिनः अनर्गलवल्कलवाससः स्थितिः वरम् शिवभक्तिम्
ऋते त्रिदशेन्द्रता (अपि) न वरम् ।

भवति पश्यति नश्यति दुर्गतिः स्फुरति शक्तिरुपैति धृतिं मतिः । स्तुतिकृति प्रतिपत्तिमति
श्रुति-स्मृतिभृति स्थितिमेति च निर्वृतिः ॥ २८ ॥

अन्वय-हे महेश ! भवति (त्वयि) पश्यति (सति) दुर्गतिः नश्यति शक्तिः स्फुरति मतिः धृतिम् उपैति तथा
प्रतिपत्तिमति श्रुतिस्मृतिभृति (तव) स्तुतिकृति निर्वृतिः (परमानन्दः) स्थितिम् एति ।

कति न बुद्बुदवद्भववारिधाविह लसन्ति गलन्ति च जन्तवः । समजनि स्पृहणीयजनिः पुनर्जगति कश्चन
यः शिवसेवकः ॥ २९ ॥

अन्वय-इह भववारिधौ बुद्बुदवत् कति जन्तवः न लसन्ति गलन्ति च पुनः जगति यः कश्चन शिवसेवकः
(अस्ति) सः (एव) स्पृहणीयजनिः समजनि ।

सपदि पीठविलोठितमूर्तिभिर्भगवतः शुचिभिर्धृतभक्तिभिः । चरणरेणुकणैरिव
मादृशैर्दिविषदामपि मूर्ध्नि पदं कृतम् ॥ ३० ॥

अन्वय-(दिष्ट्या) मादृशैः धृतभक्तिभिः शुचिभिः सपदि पीठविलोठितमूर्तिभिः (भक्तजनैः)
भगवतः चरणरेणुकणैः इव दिविषदाम् अपि मूर्ध्नि पदम् कृतम् ।

निपततां विषमे विपदम्बुधौ यदवलम्बनमस्तविडम्बनम् । जगदमङ्गलभङ्गविधायि तज्जयति रत्नमहो
शिवसेवनम् ॥ ३१ ॥

अन्वय-अहो विषमे विपदम्बुधौ निपतताम् (जन्तूनाम्) यत् अस्तविडम्बनम् अवलम्बनम् (भवति) तत्
जगदमङ्गलभङ्गविधायि शिवसेवनम् रत्नम् जयति ।

जयति जन्मजरामरणव्यथा-शमसमर्थमनर्थ निवर्हणम् । सकलमङ्गलधाम सुधामयं
भगवदर्चननाम महौषधम् ॥ ३२ ॥

अन्वय-जन्मजरामरणव्यथाशमसमर्थम् अनर्थनिवर्हणम् सकलमङ्गलधाम सुधामयम् भगवदर्चननाम
महौषधम् जयति ।

इदमसाधितमेव रसायनं निरुपभोगमिदं सुखमक्षयम् । अमृतमेतदनम्बुधिमन्थनं
यदविनश्वरमीश्वरसेवनम् ॥ ३३ ॥

अन्वय-यत् अविनश्वरम् ईश्वरसेवनम् (तत्) इदम् असाधितम् एव रसायनम् (अस्ति) इदम् निरुपभोगम् अक्षयम् सुखम्
(अस्ति) एतत् च अनम्बुधिमन्थनम् अमृतम् (अस्ति) । किमफलैरपरैर्भवशम्बरैः करितुरङ्गरथाम्बरडम्बरैः
। भगवदंघ्रिसरोरुह-सेवन-व्यसनमस्तु ममानिधनं धनम् ॥ ३४ ॥

अन्वय-अपरैः अफलैः भवशम्बरैः करितुरङ्गरथाम्बरडम्बरैः किम् (भवति?) मम तु
भगवदंघ्रिसरोरुहसेवनव्यसनम् अनिधनम् धनम् अस्तु ।

वहतु सा रमणी रमणीयता-ममृतमस्त्वमृतं मधु वा मधु । भवतु निर्वृतिधम तु
यामिनीरमणमण्डनसेवनमेव नः ॥ ३५ ॥

अन्वय-सा (प्रसिद्धा) रमणी रमणीयताम् वहतु । अमृतम् (निर्जरत्वविधायि) अमृतम् (एव) अस्तु । मधु
(माक्षिकम्) मधु (अस्तु) वा नः तु यामिनीरमणमण्डनसेवनम् एव निर्वृतिधाम भवतु ।

अहमहर्निशमेकमना मनागुपरमन्मदमन्मथमत्सरः । भगवतीरवगत्य दुरत्ययाः शरधराभरणं
शरणं श्रये ॥ ३६ ॥

अन्वय-अहम् दुरत्ययाः भगवतीः अवगत्य उपरमन्मदमन्मथमत्सरः (सन्) अहर्निशम् एकमनाः मनाक् सन्
शशधराभरणम् शरणम् श्रये ।

इदमह करुणामृतसागरं शशिकिशोरशिरोमणिमर्थये । व्रजतु जन्मनि जन्मनि मे
वपुर्भवदुपासनसाधनतामिति ॥ ३७ ॥

अन्वय-अहम् करुणामृतसागरम् शशिकिशोरशिरोमणिम् इदम् (एव) अर्थये जन्मनि जन्मनि मे वपुः
भवदुपासनसाधनताम् व्रजतु इति ।

कमपि नाम निकाममनोहरं वहति टङ्कमनङ्कुशमेव यत् । तदकलङ्कमलङ्करणं मुखे भवतु मे
शिवनाम निरामयम् ॥ ३८ ॥

अन्वय-यत् (शिवनाम) अनङ्कुशम् कम् अपि निकाममनोहरम् टङ्कम् वहति तत् अकलङ्कम् निरामयम् शिवनाम मे
मुखे अलङ्करणम् भवतु ।

हृदय भावय भावमनाविलं निरवधान बधान दृढां धृतिम् । त्वमसमर्थ समर्थयसे सुखं
किमविनाशि विना शिवसेवनम् ॥ ३९ ॥

अन्वय-हे हृदय ! त्वम् अनाविलम् भावम् भावय हे निरवधान ! दृढाम् धृतिम् बधान हे असमर्थ !
शिवसेवनम् विना (अन्यत्) किम् अविनाशि सुखम् समर्थयसे ? ।

भवरसं प्रति सम्प्रति तृष्णया त्यजसि मानस मानसमुन्नतिम् । मदनशासनशासनतः परं
कमनपायमुपायमुदीक्षसे ॥ ४० ॥

अन्वय-हे मानस ! (त्वम्) सम्प्रति भवरसम् प्रति तृष्णया मानसमुन्नतिम् त्यजसि मदनशासनतः परम्
अनपायम् उपायम् कम् उदीक्षसे ? ।

उपवने पवनेरितमाधवीधवलिते वलिते तरुपंक्तिभिः ।
अमल-कोमलकोषनिषण्ण-षट्चरण-पारणपावन-पङ्कजे ॥ ४१ ॥

समदने मदनेन वशीकृता वरवधूरवधूय भज प्रभुम् । अशरणोद्धरणोद्धतधीः शुचामुपरमं
परमं स करोति ते ॥ ४२ ॥ (युग्मम्)

अन्वय-पवनेरितमाधवीधवलिते तरुपंक्तिभिः वलिते
अमलकोमलकोष-निषण्णषट्चरणपारणपावनपङ्कजे समदने उपवने मदनेन वशीकृताः वरवधूः
अवधूय प्रभुम् (एव) भज सः अशरणोद्धरणोद्धतधीः (प्रभुः) ते शुचाम् परमम् उपरमम् करोति ।

जहिहि मोहमुपेहि निजां स्थितिं त्यज शुचं भज मानपरिग्रहम् ।
अहरहर्हरपाद-सरोरुह-स्मृतिरसायनपानपरं भव ॥ ४३ ॥

अन्वय-हे मानस ! मोहम् जहिहि निजाम् स्थितिम् (मर्यादाम्) उपेहि शुचम् त्यज मानपरिग्रहम् भज अहरहः
हरपादसरोरुहस्मृतिरसायनपानपरम् भव ।

तदसमञ्जसमङ्ग यदङ्गनानयनचापलशापमुपेयताम् । नयसि नित्यबहिर्मुख शङ्करस्मरण-सौमनसीमपि
हेयताम् ॥ ४४ ॥

अन्वय-हे नित्यबहिर्मुख ! चित्त ! अङ्ग ! (त्वम्) यत् अङ्गनानयनचापलशापम् उपेयताम् नयसि (तदेव साधु
मन्यसे इत्यर्थः) शङ्करस्मरणसौमनसीम् अपि हेयताम् नयसि तत् असमञ्जसम् (अयुक्तमित्यर्थः) ।

यदि समर्थयसे दुरतिक्रमं कुपित-काल-भट-भ्रुकुटीभयम् । तदचिकित्स्यभवामयभेषजं भज
भुजङ्गमभूषणतोषणम् ॥ ४५ ॥

अन्वय-हे चित्त ! यदि (त्वम्) कुपित-काल-भट-भ्रुकुटीभयम् दुरतिक्रमम् समर्थयसे तत्
अचिकित्स्यभवामयभेषजम् भुजङ्गमभूषणतोषणम् भज ।

यदि चिकीर्षसि सौहृदमात्मनः परिजिहीर्षसि यद्यघबन्धनम् । यदि तितीर्षसि संसृतिसागरं
श्रयमयस्करमीश्वरसेवनम् ॥ ४६ ॥

अन्वय-हे चित्त ! यदि आत्मनः सौहृदम् चिकीर्षसि यदि च अघनिबन्धनम् परिजिहीर्षसि यदि च संसृतिसागरम्
तितीर्षसि तर्हि मयस्करम् ईश्वरसेवनम् श्रय ।

यदि वराक सुकर्मविपाकतः करतले पतितस्तव शेवधिः । तमखिलापदपाकरणक्षमं नयसि मूढ
निरर्थकतां कथम् ॥ ४७ ॥

अन्वय-हे वराक् ! चित्त !! यदि सुकर्मविपाकतः तव करतले शेवधिः पतितः तर्हि हे मूढ !
अखिलापदपाकरणक्षमम् तम् (श्रीशिवोपासनायोग्यं मानुषं जन्म) निरर्थकताम् कथम् नयसि ।

अमल-शीलकुल-श्रुत-विश्रुतं सदसदर्थविचार-विशारदम् । पुरजिदर्चनसौख्यपराङ्मुखं नयसि मानस
मानुषजन्म यत् ॥ ४८ ॥ (दशभिश्चित्तोपदेशकुलकम्)

अन्वय-हे मानस ! अमल-शील-कुल-श्रुत-विश्रुतम् सदसदर्थविचारविशारदम् मानुषजन्म यत्
पुरजिदर्चनसौख्यपराङ्मुखम् नयसि ! ।

भ्रमदमन्थरमन्थरयाहतिध्वनदमुद्रसमुद्रसमानया । शमितशाप-दशा-पदमेहि मे हर गिरा
वितरावितथं वरम् ॥ ४९ ॥

अन्वय-हे हर ! (त्वम्) एहि भ्रमदमन्थरमन्थरयाहतिध्वनदमुद्रसमुद्रसमानया गिरा शमितशापदशापदम्
अवितथम् वरम् वितर ।

अनुगृहाण गृहाण घृणार्णव प्रणयिनः प्रणयानुगुणं वचः । उपकुरुष्व कुरुष्व दृढं
मनागशरणोद्धरणप्रवणं मनः ॥ ५० ॥

अन्वय-अयि घृणार्णव ! अनुगृहाण प्रणयिनः प्रणयानुगुणम् वचः गृहाण । (त्वम् उपकुरुष्व)
अशरणोद्धरणप्रवणम् मनः मनाक् दृढम् कुरु ।

पृथुशिरस्त्रिदशापगया श्रितं करुणया हृदयं शिवया वपुः । कथमतिप्रमिते भगवन् धृतिः
श्रवणरन्ध्रपदेऽपि न मे गिरः ॥ ५१ ॥

अन्वय-अयि भगवन् ! तवपृथु (विशालम्) शिरः त्रिदशापगया श्रितम् पृथु (उदारम्) हृदयम् करुणया
श्रितम् पृथु (विस्तीर्णं) वपुः शिवया (गिरिजया) श्रितम् । तर्हि तव अतिप्रमिते अपि श्रवणरन्ध्रपदे मे
गिरः धृतिः (धारणं) कथं न (भवति ?) ।

त्वदनुरागभरेण कदर्थिता त्वदनुरञ्जनकर्मणि चाक्षमा । इति मतिर्मम चाटुपराङ्मुखी हर करोति
निजार्तिनिवेदनम् ॥ ५२ ॥

अन्वय-हे हर ! त्वदनुरागभरेण कदर्थिता त्वदनुरञ्जनकर्मणि च अक्षमा इति (हेतोः) मम मतिः
चाटु-पराङ्मुखी (सती) निजार्तिनिवेदनम् करोति ।

प्रियतमोऽसि मतेर्मम सा पुनर्न गुणवत्यपि ते हृदयङ्गमा । इति महेश भवद्विरहातुरा भजति कामपि
कामकदर्थनाम् ॥ ५३ ॥

अन्वय-हे महेश ! (त्वम्) मम मतेः प्रियतमह् असि सा पुनः गुणवती अपि ते हृदयङ्गमा न (भवति) इति (सा)
भवद्विरहातुरा (सती) काम् अपि कामकदर्थनाम् भजति ।

भव भवत्परिरम्भसुखोऽस्तु मा त्वदुपभोगविधौ तु कथैव का । तव तु दर्शनमात्रककांक्षिणीं मम
मतिं कथमित्थमुपेक्षसे ॥ ५४ ॥

अन्वय-हे भव ! (तस्याः मम मतेः) भवत्परिरम्भसुखाः मा अस्तु त्वदुपभोगविधौ तु कथा एव का ? किं
तु तव दर्शनमात्रककाङ्क्षिणीम् मम मतिम् इत्थम् कथम् उपेक्षसे ? ।

कुटिलतां न जगाम निकामतो न सहजं मलिनत्वमुपेयुषी । वहसि किं घनरागकदर्थितां मम मतिं
प्रति कर्कशमाशयम् ॥ ५५ ॥

अन्वय-अयि स्वामिन् ! (इयम्) निकामतः कुटिलताम् न जगाम सहजम् मलिनत्वम् च न उपेयुषी । तर्हि
घनरागकदर्थिताम् मम मतिम् प्रति कर्कशाम् आशयम् किम् वहसि ? ।

अथ गता परिणामदशामिति त्यजसि चेन्मम मुग्धतमां मतिम् । किमपरं घनमोहविमूर्छिता प्रथयतां
तव निर्दयतामियम् ॥ ५६ ॥

अन्वय-अथ इयम् परिणामदशाम् गता इति चेत् मम मुग्धतमाम् मतिम् त्यजसि ? तर्हि अपरम् किम् (वच्मि)
घनमोहविमूर्छिता इयम् तव निर्दयताम् प्रथयताम् ।

इदमनङ्गजनङ्गमसङ्गमभ्रमदमन्दमलं चपलं मनः । अमृतकुम्भकर द्युतरङ्गिणीधर
सुधाकरशेखर शोधय ॥ ५७ ॥

अन्वय-हे अमृतकुम्भकर ! हे द्युतरङ्गिणीधर !! हे सुधाकरशेखर !!! इदम्
अनङ्गजनङ्गमसङ्गमभ्रमदमन्दमलम् (मम) चपलम् मनः शोधय ।

भव मरुभ्रमखेदकदर्थितं सुविषमैस्तृषितं विषयोष्मभिः । मदयते हृदयं मम निर्भरं भव
भवच्चरणस्मरणामृतम् ॥ ५८ ॥

अन्वय-हे भव ! भवमरुभ्रमखेदकदर्थितम् सुविषमैः विषयोष्मभिः तृषितम् मम हृदयम् (कर्मभूतम्)
निर्भरम् भवच्चरणस्मरणामृतम् (कर्तृ) मदयते ।

विषयपन्नगपाशवशीकृतं भवमहार्णवमग्नमनीश्वरम् । बहलमोह-महोपलपीडितं हर समुद्धर
मां शरणागतम् ॥ ५९ ॥

अन्वय-हे हर ! विषयपन्नगपाशवशीकृतम् भवमहार्णवमग्नम् अनीश्वरम् बहलमोहमहोपलपीडितम् माम्
शरणागतम् समुद्धर ।

यमभटैर्ह्वियमाणमयन्त्रणैरशरणं शरणं चरणौ श्रितम् । घनघृणामृतनिर्भरया दृशा
मदन-मर्दन मामवलोकय ॥ ६० ॥

अन्वय-हे मदन-मर्दन ! अयन्त्रणैः यमभटैः ह्रियमाणम् अशरणम् चरणौ शरणम् श्रितम् माम्
घनघृणामृतनिर्भरया दृशा अवलोकय ।

अभयघोषमिषोन्मिषिताऽमृतद्रवमबन्ध्यधृतस्मितचन्द्रकम् । वदनचन्द्रमसं तव पश्यतो मम कदा नु
तमः शभमेष्यति ॥ ६१ ॥

अन्वय-अयि मदन-मर्दन ! अभयघोषमिषोन्मिषितामृतद्रवम् अवन्ध्यधृतस्मितचन्द्रिकम् तव वदनचन्द्रमसम्
पश्यतः मम तमः कदा नु शमम् एष्यति ? ।

प्रबलतापकदर्थितविग्रहं द्विजपतिं परिपालयितुं शिशुम् । वहसि किं न विभो हृदये दयां शिरसि
निर्जरनिर्झरिणीमिव ॥ ६२ ॥

अन्वय-हे विभो ! प्रबलतापकदर्थितविग्रहम् शिशुम् द्विजपतिम् परिपालयितुम् शिरसि निर्जरनिर्झरिणीम् इव
हृदये दयाम् किम् न वहसि ? ।

प्रणततापविपत्क्षपणक्षमां दलितसन्ततसन्तमस-स्थितिम् । हृदि निधेहि दयाममृतस्रुतं
हरिणकेतुकलामिव मूर्धनि ॥ ६३ ॥

अन्वय-अयि विभो ! प्रणततापविपत्क्षपणक्षमाम् दलितसन्ततसन्तमसस्थितिम् अमृतस्रुतम् दयाम् मूर्धनि
हरिणकेतुकलाम् इव हृदि निधेहि ।

अभिमताधिकसिद्धिविधायिनीं भवदवच्छिदमव्यभिचारिणीम् । वह विभो हृदये दयितां दयां वपुषि
भूधरराजसुतामिव ॥ ६४ ॥

अन्वय-अयि विभो ! अभिमताधिकसिद्धिविधायिनीम् भवदवच्छिदम् अव्यभिचारिणीम् दयिताम् दयाम् वपुषि
भूधरराजसुताम् इव हृदये वह ।

चिन्तामणिः स्फटिकजातिरचेतनोऽपि कल्पद्रुमः कठिनकाष्ठविनिर्मितोऽपि । तिर्यग्दशामपि गता किल
कामधेनु- र्भाग्यैरभीष्टफलदा कृतिनां भवन्ति ॥ ६५ ॥

त्वं तु प्रभो त्रिभुवनैकमहेश्वरोऽपि पर्याप्तशक्तिरपि पूर्णकृपार्णवोऽपि । आक्रन्दतोऽपि करुणं
विधिवञ्चितस्य त्यक्तादरोसि मम दर्शनमात्रकेऽपि ॥ ६६ ॥ (युग्मम्)

अन्वय-स्फटिकजातिः चिन्तामणिः अचेतनः अपि कल्पद्रुमः कठिनकाष्ठविनिर्मितः अपि कामधेनुः च
तिर्यग्दशाम् गता अपि (एते) कृतिनाम् भाग्यैः अभीष्टफलदा भवन्ति । हे प्रभो ! त्वम् तु
त्रिभुवनैकमहेश्वरः अपि पर्याप्तशक्तिः अपि पूर्णकृपार्णवः अपि (सन्) करुणम् आक्रन्दतः अपि
विधिवञ्चितस्य मम दर्शनमात्रके अपि त्यक्तादरः असि ।

चिरं द्वारोपान्ते स्थितमवसरोद्वीक्षणधिया तिरस्कारः सोढः कुपितमुखरद्वाःस्थविहितः । मुखं
दीनं कृत्वा विभवलवगर्वान्धितदृशां कदीशानामग्रे क इव न विसोढः परिभवः ॥ ६७ ॥

परिम्लानो मानस्तनुरपि तनुस्ताम्यतितमां मनो मोहावर्ते भ्रमति धृतिरस्तं व्रजति च । कथापि
क्लेशानामवतरति नोच्छेदपदवीं दवीयस्यामस्यां भवभुवि मुधा धावति मतिः ॥ ६८ ॥

तदेवं दुर्वारव्यसनशतसंपातविषमं विशन्नेष स्वामिन्नहह सुमहन्मोहगहनम् ।
अविन्दन्नाश्वासक्षममपरमापन्नसुहृदं जनोऽवज्ञापात्रं भवति करुणाब्धेर्न भवतः ॥ ६९ ॥
(तिलकम्)

अन्वय-(अस्माभिः) अवसरोद्वीक्षणधिया विभवलवगर्वान्धितदृशाम् कदीशानाम् द्वारोपान्ते चिरम् स्थितम्
(तत्रैव) कुपितमुखरद्वाःस्थविहितः तिरस्कारः सोढः । (तदेवम् अस्माभिः) कदीशानाम् अग्रे दीनं
मुखम् कृत्वा क इव परिभवः न विसोढः ? हे विभो ! (मम) मानः परिम्लानः तनुः अपि तनुः
ताम्यतितमाम् मनः मोहावर्ते भ्रमति धृतिः च अस्तं व्रजति क्लेशानाम् कथा अपि उच्छेदपदवीम् न अवतरति
मतिः अस्याम् दवीयस्याम् भवभुवि मुधा धावति । अहह ! हे स्वामिन् ! तत् एवम्
दुर्वारव्यसनशतसंपातविषमम् सुमहन्मोहगहनम् विशन् (अत-एव) आश्वासक्षमम् अपरम् (विभोरन्यं नाथं
बान्धवं वा) आपन्नसुहृदम् अविन्दन् एषः (मल्लक्षणः) जनः करुणाब्धेः भवतः अवज्ञापात्रम् न
भवति (अवज्ञापात्रं भवितुं नाऽर्हति) ।

कदर्याणामग्रे तरलनलिनीपल्लवतल- प्रलीनप्रालेयप्रचलकमला-मूढमनसाम् । अदभ्रभ्रू
भङ्गप्रभवमवमानं हतधियः सहन्ते हन्तेह द्रविणकणतृष्णान्धितदृशः ॥ ७० ॥

अहं तु प्रत्यग्रप्रभुचरणराजीवरजसा पवित्रं मूर्धानं दधदधिकभक्तिग्रहगुरुम् । भ्रुकुंसत्वं
बिभ्रत्प्रमदभरसन्दर्भरभसा- द्भजेयं भूतेशभ्रुकुटिघटनाभाजनभुवम् ॥ ७१ ॥ (युग्मम्)

अन्वय-हन ! इह द्रविणकणतृष्णान्धितदृशः हतधियः
तरलनलिनीपल्लवतलप्रलीनप्रालेयप्रचलकमलामूढमनसाम् कदर्याणाम् अग्रे अदभ्रभ्रूभङ्गप्रभवम्
अवमानम् सहन्ते । अहम् तु प्रत्यग्रप्रभुचरणराजीवरजसा पवित्रम् अधिकभक्तिग्रहगुरुम् मूर्धानं दधत्
प्रमदभरसन्दर्भरभसात् भ्रुकुंसत्वम् बिभ्रत् भूतेशभ्रुकुटिघटनाभाजनभुवम् भजेयम् ।

सुरस्रोतःस्वत्यास्तटविटपिपुष्पौघसुरभौ गिरिग्रावग्रामस्खलनमुखरस्रोतसि जले ।
श्रमक्षामैरङ्गैरगणितभवक्लेशविपदां कदा स्यान्नस्तृप्तिर्हरचरणसेवासुखरसैः ॥ ७२ ॥

अन्वय-तटविटपिपुष्पौघसुरभौ गिरिग्रावग्रामस्खलनमुखरस्रोतसि सुरस्रोतस्वत्याः जले श्रमक्षामैः
अङ्गैः (उपलक्षितानाम् अत-एव) अगणितभवक्लेशविपदाम् नः हरचरणसेवासुखरसैः तृप्तिः कदा स्यात् ?

अमन्दानन्दानां दलदलघुसन्तापविपदां पदाम्भोजद्वन्द्वं शिरसि दधतामिन्दुशिरसः । कदा नः
कालिन्दीसलिलशबलैरम्बरसरि- त्तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ॥ ७३ ॥

अन्वय-इन्दुशिरसः पदाम्भोजद्वन्द्वम् शिरसि दधताम् (अत-एव) अमन्दानन्दानाम् दलदलघुसन्तापविपदाम् नः
भवबन्धेन्धनचयः कालिन्दीसलिलशबलैः अम्बरसरित्तरङ्गैः कदा अङ्गारीभवति ?

सान्द्रानन्दस्तिमितकरणः पुण्यनैपुण्यभागी भागीरथ्यास्तटविटपिनः क्वापि मूले निलीनः ।
सर्वाकारं गिरिपतिसुताकान्तमेकं प्रपन्नः स्वात्मारामः शमसुखसुधास्वादमभ्येति धन्यः ॥ ७४ ॥

अन्वय-सर्वाकारम् एकम् गिरिपतिसुताकान्तम् प्रपन्नः (अत-एव) सान्द्रानन्दस्तिमितकरणः पुण्यनैपुण्यभागी
धन्यः स्वात्मारामः भागीरथ्याः तटविटपिनः क्वापि मूले निलीनः (सन्) शमसुखसुधास्वादम् अभ्येति


अभिजनगुणख्यातिप्रज्ञाभिमानभरोद्धुरां क इव सदसि प्रह्वीकर्त्तुं क्षमेत शिरोधराम् । विदधति
मुहुर्हेलाखेलं भवत्यवधीरणं भ्रमयितुममी युक्ता न स्युर्यदीन्द्रियवैरिणः ॥ ७५ ॥

अन्वय-भोः स्वामिन् ! भवति मुहुः हेलाखेलम् अवधीरणम् विदधति (सति) अमी इन्द्रियवैरिणः (जनम्)
भ्रमयितुम् यदि न युक्ताः स्युः तर्हि कः इव (पुमान्) सदसि अभिजनगुणख्यातिप्रज्ञाऽभिमानभरोद्धुराम्
शिरोधराम् प्रह्वीकर्तुम् क्षमेत ? न कोपीत्यर्थः ।

मानः कस्य न वल्लभः खलमुखप्रेक्षित्वदुःस्था स्थितिः कस्य प्रीतिकरी त्रपाभरनतं कस्मै शिरो
रोचते । किन्तु स्वामिनि साऽवलेपहृदये दासीकृताः शत्रुभिः
क्षुद्रानद्यतनेश्वरान्धनमदक्षीवान्निषेवामहे ॥ ७६ ॥

अन्वय-मानः कस्य वल्लभः न (भवति ?) खलमुखप्रेक्षित्वदुःस्था स्थितिः कस्य प्रीतिकरी (भवति ?)
[याच्ञावशात्] त्रपाभरनतम् शिरः कस्मै रोचते ? किन्तु स्वामिनि सावलेपहृदये (सति) शत्रुभिः
(आन्तरैः कामादिभिः) दासीकृताः वयम् धनमदक्षीवान् अद्यतनेश्वरान् क्षुद्रान् निषेवामहे ।

स्तब्धा द्वारि यदास्महे क्षितिभुजां निर्भर्त्सिता वेत्रिभि-र्यद्गर्वान्धनरेन्द्रवल्लभदुरुद्गारैर्विदह्यामहे
। यन्मिथ्यास्तुतिपातकैर्भगवतीं वाचं तिरस्कुर्महे तत्सर्वं तव वक्रवक्त्रवलनामात्रस्य विस्फूर्जितम् ॥
७७ ॥

प्. २६१)

अन्वय-क्षितिभुजाम् द्वारि वेत्रिभिः निर्भर्त्सिताः (सन्तः) वयम् यत् स्तब्धाः आस्महे यच्च
गर्वान्धनरेन्द्रवल्लभदुरुद्गारैः विदह्यामहे (कुनृपतीनाम्) मिथ्यास्तुतिपातकैः भगवतीम् वाचम्
तिरस्कुर्महे हि विभो ! तत् सर्वम् तव वक्रवक्त्रवलनामात्रस्य विस्फूर्जितम् (अस्ति) ।

दृष्ट्वा पाटलगण्डलेखमरुणोद्वाष्पेक्षणं प्रस्फुरद्- बिम्बोष्ठं प्रथमापराधकुपितं वक्त्रं
कुरङ्गीदृशः । यत्सप्रेम सविस्मयं सविनयं सापत्रपं सस्पृहं सत्रासं च मनोऽभवत्तदधुना
श्रान्तं च शान्तं च नः ॥ ७८ ॥

अन्वय-पाटलगण्डलेखम् अरुणोद्वाष्पेक्षणम् प्रस्फुरद्बिम्बोष्ठम् प्रथमापराधकुपितम् कुरङ्गीदृशः
वक्त्रम् दृष्ट्वा नः (अस्माकम्) मनः यत् सप्रेम सविस्मयम् सविनयम् सापत्रपम् सस्पृहम् सत्रासम् च अभवत्
तत् (एव) अधुना (श्रीशिवभक्तिरसामृतेन सिक्तम् सत्) श्रान्तम् च शान्तम् च (जातम्) ।

यत्खर्वीक्रियते सुखं विषयजं त्वद्भावनाजन्मना ह्लादेन क्षणिकं स्थिरेण महता स्वल्पं
किमत्राद्भुतम् । तच्चित्रं भवदुःखजं भवदनुध्यानप्रमोदाश्रुणा बाष्पाम्बु ध्रुवमध्रुवेण
सुमहत्सूक्ष्मेण यद्भिद्यते ॥ ७९ ॥

अन्वय-हे विभो ! क्षणिकम् स्वल्पम् विषयजम् सुखम् स्थिरेण महता त्वद्भावनाजन्मना ह्लादेन यत्
खर्वीक्रियते अत्र किम् अद्भुतम् ? न किंचिदित्यर्थः किन्तु अध्रुवेण (क्षणिकेन) सूक्ष्मेण च
भवदनुध्यानप्रमोदाश्रुणा यत् ध्रुवं सुमहत् च भवदुःखजम् वाष्पाम्बु भिद्यते तत् चित्रम् !

अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे
दुर्हृद्भिराभ्यन्तरैः । क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं मामामुञ्च महेश
पेशलदृशा सत्रासप्राश्वासय ॥ ८० ॥

अन्वय-हे महेश ! अज्ञानान्धम् अबान्धवम् अक्षाभिधैः (इन्द्रियनामकैः) रक्षोभिः कवलितं आन्तरैः
दुर्हृद्भिः मोहमहान्धकूपकुहरे क्षिप्तम् क्रन्दन्तम् गतधृतिम् सर्वापदाम् आस्पदम् मा (माम्) शरणागतम्
मा मुञ्च । सत्रासम् (माम्) पेशलदृशा आश्वासय ।

यद्विश्वोद्धरणक्षमाऽप्यशरणत्राणैकशीलापि ते मामार्त्तं दृगुपेक्षते स महिमा दुष्टस्य मे
कर्म्मणः । देव्यां दिव्यमृतैः पयोधरधृतैः पृथ्वीं पृणत्यां [स्तृणन्त्याम्] कणा द्वित्राश्चेन्न
मुखे पतन्ति शिखिनः किं वाच्यमेतद्दिवः ॥ ८१ ॥

अन्वय-हे विभो ! विश्वोद्धरणक्षमा अपि अशरणत्राणैकशीला अपि ते दृक् माम् आर्त्तम् यत् उपेक्षते सः
महिमा मे दुष्टस्य कर्मणः (अस्ति) (युक्तं चैतत्-) पयोधरधृतैः अमृतैः पृथ्वीम् पृणत्याम् देव्याम्
दिवि द्वित्राः कणाः शिखिनः मुखे चेन्न पतन्ति तर्हि एतत् दिवः किम् वाच्यम् ?

शुभ्रं बिभ्रत्तरुणकरुणाऽऽक्रान्तमश्रान्तमन्तः स्वान्तं शान्तप्रणतजनता-क्लेशलेशप्रवेशम् ।
प्राणत्राणप्रणयकृपणप्राकृतप्राणिवर्ग- व्यापत्तापक्षपणनिपुणां मुञ्च चण्डीश वाणीम् ॥ ८२


अन्वय-अयि चण्डीश ! अन्तः अश्रान्तम् तरुणकरुणाक्रान्तम् शान्तप्रणतजनताक्लेशलेशप्रवेशम् शुभम्
स्वान्तम् बिभ्रत् (त्वम्) प्राणत्राणप्रणयकृपणप्राकृतप्राणिवर्गव्यापत्तापक्षपणनिपुणाम् वाणीम्
मुञ्च ।

अदभ्रश्वभ्रेयं भवसरणिरातङ्कबहुला गलद्बोधज्योत्स्ना निरवधिरसौ मोहरजनी [मोहजननी]। नयन्त्येते
शान्तिं विषमविषयोत्पातमरुतः प्रदीपं प्रज्ञाख्यं प्रतिदिश दृशं क्लेशशमनीम् ॥ ८३ ॥

अन्वय-आतङ्कबहुला इयम् भवसरणिः अदभ्रश्वभ्रा (अस्ति) असौ निरवधिः मोहरजनी गलद्बोधज्योत्स्ना
(अस्ति) । एते विषमविषयोत्पातमरुतः प्रज्ञाख्यम् प्रदीपम् शान्तिम् नयन्ति (अतः) हे विभो ! क्लेशशमनीम्
दृशम् प्रतिदिश ।

शरीरं नीरोगं नवमपि वयः संस्कृतिमती मतिर्वन्द्या जातिः प्रभुरपि भवान् भक्तिसुलभः । इतीयं
सामग्री सुकृतशतलभ्या विघटते न यावत्तावन्मे शृणु करुणमाक्रन्दितमिदम् ॥ ८४ ॥

अन्वय-नीरोगम् शरीरम् नवम् अपि वयः संस्कृतिमती मतिः वन्द्या जातिः भक्तिसुलभः भवान् अपि प्रभुः
इति इयम् सुकृतशतलभ्या सामग्री यावत् न विघटते तावत् (एव) हे विभो ! इदम् मे करुणम् आक्रन्दितम् शृणु


जयन्ति कृतिनः कवेरमृतसारसिक्ताक्षरा विकस्वरशरत्सुधाकरकरानुकारित्विषः ।
पुरारिपदपङ्कजस्तवपवित्रचित्रक्रमाः समुन्मिषितमालतीमुकुलकोमलाः सूक्तयः ॥ ८५ ॥

अन्वय-पुरारिपदपङ्कजस्तवपवित्रचित्रक्रमाः अमृतसारसिक्ताक्षराः
विकस्वरशरत्सुधाकरकरानुकारित्विषः समुन्मिषितमालतीमुकुलकोमलाः कृतिनः कवेः सूक्तयः जयन्ति ।

शिवस्तवकृतो मधौ मलयवायुवेल्लल्लता-गलन्मधुमदोन्मदभ्रमरपुञ्जगुञ्जच्छलात् ।
नदन्मदनशिञ्जिनीझणितभीतसीमन्ति- नीभुजाकलितकन्धरा अधिवसन्ति लीलावनम् ॥ ८६ ॥

अन्वय-शिवस्तवकृतः [श्रीपरमेश्वरस्तुतिकर्तारः श्रोतारश्च सहृदयाः ] मधौ
नदन्मदनशिञ्जिनीझणितभीतसीमन्तिनीभुजाकलितकन्धराः (सन्तः)
मलयवायुवेल्लल्लतागलन्मधुमदोन्मदभ्रमरपुञ्जगुञ्जच्छलात् लीलावनम् अधिवसन्ति ।

अदूरबहिरङ्गनोपवनजातचूतावली- विलीनकलकोकिलाकलितकाकलीकूजितैः ।
वलन्मलयमारुतप्रचलदुल्लसन्मल्लिका- विकासिकुसुमस्खलद्भ्रमरमण्डली-गुञ्जितैः ॥ ८७ ॥

निगूढतिमिघट्टनस्फुरितदीर्घिकासंभ्रम- त्रसत्कमलकोटरस्थितमराल-बालस्वनैः ।
रटत्पटहझल्लरीमुरजतूर्यभेरीगण- प्रणादमुखरीभवद्भवन-बर्हिकेकारवैः ॥ ८८ ॥

सुधामधुरवारुणीरसकषायकण्ठोद्भव- न्नवश्रुतिरसायनप्रगुणगायनीगीतकैः ।
प्रवीणपरिवादकोदितविभासरागस्वर- क्रमानुगतवल्लकीविकचकीचक-प्रक्वणैः ॥ ८९ ॥

प्रभातगुणवर्णनप्रवणबन्दिवृन्दस्तुति- प्रबुद्धशुकसारिकाकलहकेलिकोलाहलैः ।
बहिर्विहरदङ्गनारणितरत्नकाञ्चीगुण- क्वणत्कनककिङ्किणीझणझणारवाडम्बरैः ॥ ९० ॥

खुरक्षतवसुन्धरोद्धुरतुरङ्गहेषोन्मिष- त्प्रबोधधुतकन्धरद्विरदकण्ठघण्टारवैः ।
स्मराऽलसविलासिनीस्तनभरोपरुद्धोरस- स्त्यजन्ति शयनं शनैरुषसि शंभुशंसाजुषः ॥ ९१ ॥
(पञ्चभिः कुलकम्)

अन्वय-शम्भुशंसाजुषः (श्रीपरमेश्वरस्तुतिकर्तारः कवयः श्रोतारश्च सहृदयाः)
स्मरालसविलासिनीस्तनभरोपरुद्धोरसः सन्तह् उषसि
अदूरबहिरङ्गनोपवनजातचूतावलीविलीनकलकोकिलाकलितकाकलीकूजितैः
वलन्मलयमारुतप्रचलदुल्लसन्मल्लिका-विकासि-कुसुम-स्खलद्भ्रमरमण्डलीगुञ्जितैः तथा-
निगूढतिमि-घट्टनस्फुरितदीर्घिकासम्भ्रमत्रसत्कमलकोटरस्थितमराल-बालस्वनैः
रटत्पटहझल्लरीमुरजतूर्यभेरीगणप्रणादमुखरीभवद्भवनबर्हिके-कारवैः
सुधामधुरवारुणीरसकषायकण्ठोद्भवन्नवश्रुतिरसायनप्रगुण-गायनीगीतकैः
प्रवीणपरिवादकोदितविभासरागस्वरक्रमानुगतवल्लकीविकचकीचक-प्रक्वणैः
प्रभातगुणवर्णनप्रवणबन्दिवृन्दस्तुतिप्रबुद्धशुकशारिकाकलहकेलि-कोलाहलैः
बहिर्विहरदङ्गनारणितरत्नकाञ्चीगुणक्वणत्कनककिङ्किणीझणझणा-रवारम्बरैः
खुरक्षतवसुन्धरोद्धुरतुरङ्गहेषोन्मिषत्प्रबोधधुतकन्धरद्विरद-कण्ठघण्टारवैः शनैः शयनम्
(निद्रारसम्) त्यजन्ति ।

इति श्री प्रेममकरन्दोपेतं काश्मीरक-महाकवि-श्रीमज्जगद्धरभट्ट विरचिते भगवतो महेश्वरस्य
स्तुति-कुसुमाञ्जलौ करुणाक्रन्दनं नाम दशमं स्तोत्रम्

एकादशं स्तोत्रम्

धन्योऽस्मि सम्यगमृतं किमपि स्रवन्ती सञ्जीवनं भगवती विदधाति यस्य । स्नेह-स्नुतस्तनयुगा जननीव
जीव- रक्षार्थमार्त्तिविधुरस्य ममोक्तिदेवी ॥ १ ॥

अन्वय-(शिशोः) जीवरक्षार्थम् किमपि अमृतम् स्रवन्ती स्नेहस्नुतस्तनयुगा जननी इव किमपि सम्यक् अमृतम्
स्रवन्ती भगवती उक्तिदेवी आर्त्तिविधुरस्य यस्य मम सञ्जीवनम् विदधाति (आप्यायनम् करोति) [सोऽहम्]
धन्यः अस्मि ।

धन्योऽस्मि दुःसहविपत्पतितस्य यस्य वाणीधृतोन्नतिरपुण्यकृतामभूमिः । कल्याणिनी
सुमनसामुपसेवनीया सौमेरवीव पदवी न दवीयसीयम् ॥ २ ॥

अन्वय-दुःसहविपत्पतितस्य धृतोन्नतिः अपुण्यकृताम् अभूमिः (अगम्या) कल्याणिनी [कल्याणं सुवर्णं
तन्मयी कनकमयत्वात् सुमेरोः] सुमनसाम् उपसेवनीया सौमेरवी [सुमेरुगिरिसम्बन्धिनी] पदवी इव
(सरणिरिव) इयम्-धृतोन्नतिः अपुण्यकृताम् अभूमिः (अप्राप्या) कल्याणिनी (समस्तमङ्गलवती) सुमनसाम्
उपसेवनीया वाणी दुःसहविपत्पतितस्य यस्य (मम) दवीयसी (अतिशयेन दूरस्थिता) न (भवति किन्तु
निकटस्थितैव [स्वमुख एव तत्स्थानात् ]) [सोऽहम्] धन्यः अस्मि ।

धन्योऽस्मि मोहतिमिरान्धदृशोऽपि यस्य सानुग्रहेण विधिना परिकल्पिता मे । वल्गुस्वना गुणवती
धृतवक्रभङ्गि- राराधनाय गिरिशस्य सरस्वतीयम् ॥ ३ ॥

अन्वय-यथा तिमिरान्धदृशः पुरुषस्य सानुग्रहेण विधिना वल्गुस्वना (मधुरस्वना) गुणवती
(तन्त्रीयुक्ता) धृतवक्रभङ्गिः (कुटिला) च सरस्वती (वीणा) गिरिशस्य आराधनाय क्रियते तथा- (मयि)
सानुग्रहेण विधिना मोहतिमिरान्धदृशः अपि यस्य मे गिरिशस्य आराधनाय इयम् वल्गुस्वना गुणवती
धृतवक्रभङ्गिः सरस्वती (वाणी) परिकल्पिता (सोऽहम्) धन्यः अस्मि ।

सञ्जीवनौषधिरबैमि नवा भवाग्नि- भस्मीकृतस्य विधिना मम निर्मितेयम् । वाणी
शिवैकविषयाभिनवोढगौरी- दृष्टिच्छटेव चकिता मकरध्वजस्य ॥ ४ ॥

अन्वय-(अहम् इति) अवैमि भवाग्निभस्मीकृतस्य मकरध्वजस्य नवा सञ्जीवनौषधिः शिवैकविषया चकिता
अभिनवोढगौरीदृष्टिच्छटा इव- विधिना इयम् शिवैकविषया वाणी भवाग्निभस्मीकृतस्य मम नवा
सञ्जीवनौषधिः निर्मिता ।

जाने कथञ्चिदुदिता मम शोकवह्नि- तप्तात्स्खलन्मृदुपदा हृदयादियं गौः । चेतः प्रवेक्ष्यति शनैः
करुणामृतौघ- निःष्यन्दशीतमपि शीतमयूखमौलेः ॥ ५ ॥

अन्वय- [यथा गौः [धेनुः ।] वह्नितप्तात् स्थानात् उदिता स्खलन्मृदुपदा (सती) शनैः
अमृतौघनिःष्यन्दशीतम् [जलप्रवाहशीतलम् ।] आस्पदम् प्रविशति तथा-] शोकवह्नितप्तात् मम हृदयात्
कथञ्चित् उदित [उत्पन्ना उत्थिता च] स्खलन्मृदुपदा इयम् गौः (मम वाणी) करुणामृतौघनिःष्यन्दशीतम्
शीतमयूखमौलेः चेतः अपि शनैः प्रवेक्ष्यति (इति अहम्) जाने ।

यच्चाटुचापलमलङ्घ्यभवभ्रमोऽहं मोहं वहन्निह मुहुर्मुहुराचरामि । तत्र
स्पृहावहमहार्यमहार्यपुत्री- भर्तुः परार्ध्यमपराध्यति सौकुमार्यम् ॥ ६ ॥

अन्वय-मोहम् वहन् अलङ्घ्यभवभ्रमः इह (जगति) मुहुर्मुहुः यत् चाटुचापलम् आचरामि तत्र
(चाटुचापलकरणे) अहार्यपुत्रीभर्तुः (गिरिजापतेः) अहार्यम् स्पृहावहम् परार्ध्यम् सौकुमार्यम् एव
अपराध्यति ।

यो मूर्धनि ध्वनदनर्गलनिर्झरौघ- झाङ्कारिणीममरनिर्झरिणीं दधानः । गृह्णाति भक्तजनतः
कलशाभिषेकं कस्तं न विज्ञपयितुं विभुमुत्सहेत् ॥ ७ ॥

अन्वय-यः (विभुः) शिरसि ध्वनदनर्गलनिर्झरौघझाङ्कारिणीम् अमरनिर्झरिणीम् दधानः (सन् अपि)
भक्तजनतः कलशाभिषेकम् गृह्णाति तम् (दयालु-शिरोमणिम्) विभुम् विज्ञपयितुम् (निजावस्थां निवेदयितुम्)
कः न उत्सहेत ? (अपि तु सर्व एवेत्यर्थः) ।

दग्धोस्मि तावदमुना दमुना ममाऽन्त- र्यः प्रज्ज्वलत्यघनिदाघनिदानजन्मा । मुक्तस्य मे
प्रतिभयातिभयाकुलस्य वाणी कथं विगलतो गलतोऽभ्युदेति ॥ ८ ॥

अन्वय-यः अघनिदाघनिदानजन्मा दमुना (अग्निः) मम अन्तः प्रज्ज्वलति अमुना तावत् (प्राथम्ये) अहम् दग्धः
अस्मि अतः प्रतिभया मुक्तस्य अतिभयाकुलस्य विगलतः (पततः) मे गलतः वाणी कथम् अभ्युदेति ?

क्रन्दाम्यतः किमपि नाम पिनाकपाणे तीव्रार्त्तिनिस्तरणकारण कातरोऽहम् ।
मोहाटवीविकटसङ्कट-संस्थितस्य तन्मेऽवधारय शिवाय शिवातुरस्य ॥ ९ ॥

अन्वय-अयि पिनाकपाणे ! हे तीव्रार्त्तिनिस्तरणकारण !! अतः (पूर्वोक्तकारणात्) कातरः अहम् किम् अपि
(उच्चावचम्) क्रन्दामि अयि शिव ! मोहाटवीविकटसङ्कटसंस्थितस्य मे शिवाय तत् (विलपितम्) अवधारय ।

आक्रन्दमिन्दुधर धारय देव कर्णे कस्त्वत्परः परमकारण कर्णधारः । मूर्ध्ना
वहन्नुडुपखण्डमखण्डपुण्यं कं कं न तारयसि संसृतिसागराद्यः ॥ १० ॥

अन्वय-हे इन्दुधर ! हे देव !! (मम) आक्रन्दम् कर्णे धारय (शृणुष्वेत्यर्थः) अयि परमकारण ! त्वत्परः
कर्णधारः कः (अस्ति ?) यः उडुपखण्डम् मूर्ध्ना वहन् संसृतिसागरात् कम् कम् अखण्डपुण्यम् न
तारयसि ?

अस्मादृशैरशुचिभिश्चटुचापलानि कॢप्तान्यवैमि न मनस्तव नन्दयन्ति । आवर्जनाय विहितान्यपि चन्द्रमौले
कौलेयकस्य लडितानि किमाद्रियन्ते ॥ ११ ॥


बहुविधपरिभ्राम्यन्मायातरङ्गशताकुलाद्- भवजलनिधेः को वा त्रादो समास्ति सुदुस्तरात् ।

तरणिमुडुपं रक्षन्नित्यं विलोचनगोचरे स भवति विभुर्यस्य स्वामी कृपैकसुधाम्बुधिः ॥

कथं न लोके परिहास्यतामहं व्रजाम्यतीवार्त्तिकदर्थिताशयः । भवाम्बुधिं तर्त्तुमकर्णधारकं
जडो यतो याम्युडुपार्धधारिणम् ॥ --------------

अन्वय-अयि चन्द्रमौले ! अस्मादृशैः अशुचिभिः कॢप्तानि चटुचापलानि तव मनः न नन्दयन्ति (इति अहम्)
अवैमि (दृष्टं चैतत्-) आवर्जनाय विहितानि अपि कौलेयकस्य (शुनः) लडितानि (जनैः) किम् आद्रियन्ते ?
(नाद्रियन्ते इत्यर्थः) ।

यद्वा न मुग्धचरितान्यपि न प्रसाद- मुत्पादयन्ति भवतः करुणार्णवस्य । स्वामिन्दरत्पुरविहारपरस्य
किं न चेतो हरन्ति तव बालकवल्गितानि ॥ १२ ॥

अन्वय-यत् वा हे स्वामिन् ! मुग्धचरितानि अपि भवतः करुणार्णवस्य प्रसादम् न उत्पादयन्ति इति न (किन्तु
उत्पादयन्त्येव) तथा हि- हे विभो ! दरत्पुरविहारपरस्य (तद्देशीयबालकैः सह क्रीडापरस्य) तव
बालकवल्गितानि किम् चेतः न हरन्ति ? (हरन्त्येवेत्यर्थः) ।

दीनैर्विमुग्धवचनैरसमञ्जसार्थैर्- यद्वद्द्रवन्ति हृदयानि दयानिधीनाम् । तद्वन्न
दृष्टसभसप्रतिभप्रगल्भ-सन्दर्भगर्भरचनाञ्चितवाक्प्रपञ्चैः ॥ १३ ॥

अन्वय-दीनैः असमञ्जसार्थैः विमुग्धवचनैः यद्वत् दयानिधीनाम् हृदयानि द्रवन्ति तद्वत्
दृष्टसभसप्रतिभ-प्रगल्भ-सन्दर्भगर्भरचनाञ्चितवाक्प्रपञ्चैः न द्रवन्ति ।

दुग्धाब्धिदोऽपि पयसः पृषतं वृणोषि दीपं त्रिधामनयनोऽप्युररीकरोषि । वाचां प्रसूतिरपि
मुग्धवचः शृणोषि किं किं करोषि न विनीतजनानुरोधात् ॥ १४ ॥

अन्वय-हे विभो ! दुग्धाब्धिदः अपि त्वम् (पूजासमये भक्तजनेन वितीर्णम्) पयसः पृषतम् वृणोषि
त्रिधामनयनः अपि दीपम् उररीकरोषि वाचाम् (ब्राह्मी-वाणीनाम्) प्रसूतिः अपि मुग्धवचः शृणोषि । (अयि
दयालो !) (त्वम्) विनीतजनानुरोधात् किम् किम् न करोषि ?

यत्सत्यवत्यपि जगद्विदिताऽनसूया वाणी ममेयमिदमेव हि देव चित्रम् । अत्यद्भुतं पुनरिदं यदरुन्धतीयं
त्वामारिराधयिषुरेवमुदीरिताऽपि ॥ १५ ॥

अन्वय - हे देव ! जगद्विदिता सत्यवती अपि यद् इयम् मम वाणी अनसूया (भवति) इदम् एव चित्रम् ? (आश्चर्यम्)
एवम् उदीरिता अपि (त्वाम्) अरुन्धती (अप्राप्तवती सती) इयम् यत् त्वाम् एव आरिराधयिषुः (अस्ति) तत् पुनः
अत्यद्भुतम् ! (अत्याश्चर्यम्) ।


गङ्गाधरोऽपि वृणुषे पयसेओऽभिषेकं गृह्णासि चार्घ्य कणिकाः स्वयमप्यनर्घ्यः ।

ज्योतिः परं त्वमसि दीपमुरीकरोषि किं किं करोषि न विनीतजनानुरोधात् ॥ ------------- स्वे धाम्नि मे
हृदि कृतस्थितिमुक्तिदेवीं कृत्वा प्रवेशमनयः स्वयमुन्मुखत्वम् । धाराधिरूढविरहव्यथितामिदानी-
माधाय धैर्यमवधारयसीत्ययुक्तम् ॥ १६ ॥

अन्वय-हे स्वामिन् ! स्वे धाम्नि मे हृदि प्रवेशम् कृत्वा (तत्रैव) कृतस्थितिम् (मम) उक्तिदेवीम् स्वयम् एव (त्वम्)
उन्मुखत्वम् अनयः । (त्वं पुनः तस्याः) धैर्यम् आधाय इदानीम् धाराधिरूढविरहव्यथिताम् (ताम्) यत्
(इत्थम्) अवधारयसि तत् इति अयुक्तम् ।

एका त्वमेव भवितासि मम प्रियेति दत्तं वरं स्मरसि चेद्गिरिराजपुत्र्याः । प्रेम्णा बिभर्षि
कथमम्बरसिन्धुमिन्दु- लेखां च मूर्ध्नि हृदये दयितां दयां च ॥ १७ ॥

अन्वय-हे अपर्णे ! त्वम् एव एका मम प्रिया भवितासि इति दत्तम् वरम् गिरिराजपुत्र्याः स्मरसि चेत् तर्हि हे
स्वामिन् ! (त्वम्) प्रेम्णा अम्बरसिन्धुम् इन्दुलेखाम् च मूर्ध्नि दयिताम् दयां च हृदि कथम् बिभर्षि ?

एतां निसर्गसरलामभिजातमुग्धा- मद्धाऽवधीरयसि धीरगभीरमानी । जानासि किं न शतशो
नतसान्त्वनेषु यद्वृद्धया करुणया नरिनर्तितोऽसि ॥ १८ ॥

अन्वय-अद्धा हे विभो ! धीरगभीरमानी (त्वम्) निसर्गसरलाम् अभिजातमुग्धाम् एताम् (मम स्तुतिम्) अवधीरयसि
तत्किं न जानासि ? यत् शतशः नतसान्त्वनेषु वृद्धया करुणया (जरत्या) नरिनर्त्तितः असि ?

प्रस्तौति निस्त्रपतयार्त्तिकदर्थितेयं चाटूनि कर्त्तुमपि मौग्ध्यविसंस्थुलानि । कात्यायनीवचनदुर्ललितस्य
तानि मुक्तोपमानि न मनस्तव नन्दयन्ति ॥ १९ ॥

अन्वय-हे स्वामिन् ! आर्त्तिकदर्थिता (केन केन प्रकारेणाहं नाथस्य प्रियतमा स्यामित्याधिना पीडिता) इयम्
(मम वाणी) निस्त्रपतया मग्ध्यविसंथुलानि चाटूनि अपि कर्तुम् प्रस्तौति किन्तु मुक्तोपमानि तानि
(मदीयवाण्याः चाटूनि) कात्यायनीवचनदुर्ललितस्य तव मनः न नन्दयन्ति ।

अस्यामसह्यविरहज्वरकातरायां प्रीतिर्न ते यदि परं निरवग्रहस्य । सर्वान्तरार्त्तिदलनाय दृढा
प्रतिज्ञा विज्ञाततत्त्व कथमीश्वर विस्मृता ते ॥ २० ॥

अन्वय-हे विज्ञाततत्व ! हे ईश्वर !! निरवग्रहस्य (निरङ्कुशस्य) तव प्रीतिः परम् [केवलम्]
असह्यविरहज्वरकातरायाम् अस्याम् (मम स्तुतौ) यदि न (भवति) तर्हि हे विभो ! सर्वान्तरार्तिदलनाय दृढा
प्रतिज्ञा ते कथम् विस्मृता ?

सत्यं कलां वहसि बिभ्रदुमां यदर्धे धत्से दयां हृदि ययार्थिषु नर्तयन्त्या । नीतोऽसि नीलगल
नीलगलत्वमेव मद्वाचि साचि तु मुखं कुरुषे रुषेव ॥ २१ ॥

अन्वय-हे नीलगल ! (त्वम्) सत्यम् कलाम् वहसि ! यत् अर्धे (शरीरार्धे) उमाम् बिभ्रत् ताम् दयाम् हृदि धत्से
यया (दयया) अर्थिषु (त्वाम्) नर्तयन्त्या त्वम् नीलगलत्वम् एव नीतः असि किन्तु हे प्रभो ! (त्वम्) मद्वाचि तु
रुषा इव साचि मुखम् कुरुषे ।

गृह्णासि मूर्धनि जलैर्धवलैर्विलोलै- रुद्वेलितां निजपदस्खलितां द्युसिन्धुम् । एतामनन्यगतिमुज्झसि
साधुवृत्तां वाचं स्वतन्त्रचरितस्य किमुच्यते ते ॥ २२ ॥

अन्वय-हे स्वामिन् ! धवलैः विलोलैः जलैः उद्वेलिताम् निजपदस्खलिताम् द्युसिन्धुम् मूर्धनि गृह्णासि
अनन्यगतिम् साधुवृत्ताम् एताम् (मम) वाचम् उज्झसि (अतः) स्वतन्त्रचरितस्य ते किम् उच्यते ?

किं भूयसा यदि न ते हृदयङ्गमेय- मस्या गृहे वससि किं हृदये मदीये । सार्धं प्रियेण वसनं
तदुपेक्षणं च दुःखावहं हि मरणादपि मानिनीनाम् ॥ २३ ॥

अन्वय-भूयसा (बहुनोक्तेन) किम् ? इयम् (मदीया वाणी) यदि ते हृदयङ्गमा न (भवति), तर्हि अस्या गृहे
मदीये हृदये किम् वससि ? हि-प्रियेण सार्धम् वसनम् तदुपेक्षणम् च मानिनीनाम् मरणात् अपि दुःखावहम्
(भवति) ।

मातः सरस्वति बधान धृतिं त्वदीयां विज्ञप्तिमार्त्तिविधुरां विभवे निवेद्य । देवी शिवा शशिकला
गगनापगा च कुर्वन्त्यवश्यमबलाजनपक्षपातम् ॥ २४ ॥

अन्वय-अयि मातः सरस्वति ! धृतिम् बधान शिवा देवी शशिकला गगनापगा च त्वदीयाम् आर्तिविधुराम्
विज्ञप्तिम् विभवे (स्वामिने) निवेद्य अवश्यम् (एव) अबलाजनपक्षपातम् कुर्वन्ति ।

एषा निसर्गकुटिला यदि चन्द्रलेखा स्वर्गापगा च यदि नित्यतरङ्गितेयम् । देवी दयार्द्रहृदया तु
नगेन्द्रकन्या धन्या करिष्यति न ते निबिडामवज्ञाम् ॥ २५ ॥

अन्वय-(अयि मातः सरस्वति !) यदि एषा चन्द्रलेखा निसर्गकुटिला (भवति) स्वर्गापगा च नित्यतरङ्गिता
(भवति) तर्हि दयार्द्रहृदया धन्या देवी नगेन्द्रकन्या तु ते निबिडाम् अवज्ञाम् न करिष्यति ।

त्वामेव देवि शरणीकरवाणि वाणि कल्याणि सूक्तिभिरुपस्तुहि चन्द्रमौलिम् । मातर्नयामि न
पुनभवतीमलीक- वाचालबालिशविलङ्घनभाजनत्वम् ॥ २६ ॥

अन्वय-हे देवि ! हे कल्याणि वाणि !! (अहम्) त्वाम् एव शरणीकरवाणि (त्वम्) सूक्तिभिः चन्द्रमौलिम् उपस्तुहि ।
हे मातः (अहम्) भवतीम् अलीकवाचालबालिशविलङ्घनभाजनत्वम् [तिरस्कृतिभाजनत्वं] पुनः न नयामि ।

देवि प्रपन्नवरदे गुणगौरि गौरि यद्गौरियं परिमितं स्रवतीह किञ्चित् । तत्स्वामिने समुचिते समये सुपाक-
माकूतवेदिनि निवेदयितुं प्रसीद ॥ २७ ॥

अन्वय-[गौः (धेनुः) यत् किञ्चित् परिमितम् क्षीरम् स्रवति तच्च सुपाकं (वह्निना सुपक्वम्) कृत्वा यथा कोऽपि
(पुरुषः) प्रभवे निवेदयति तथा-] हे प्रपन्नवरदे ! हे गुणगौरि देवि गौरि !! इयम् गौः (वाणी) इह यत्
किञ्चित् परिमितम् स्रवति तत् सुपाकम् समुचिते समये आकूतवेदिनि स्वामिने निवेदयितुम् प्रसीद ।

स्वेच्छाविकल्पितमदृष्टविशिष्टपाकं मात्राविहीनमिदमार्यजनैरजुष्टम् । उन्मत्तभाषितमथापि
भवत्यवश्यं सद्भेषजं विषमयस्य भवामयस्य ॥ २८ ॥

अन्वय-(यद्यपि) इदम् (मम वचनम्) स्वेच्छाविकल्पितम् अदृष्टविशिष्टपाकम् मात्राविहीनम् आर्यजनैः अजुष्टम्
उन्मत्तभाषितम् अवश्यम् भवति अथापि (एवमेव सति) इदम् विषमयस्य भवामयस्य सद्भेषजम् भवति ।

भालानलं तव यथा मुकुटस्थितैव शक्नोति नो शमयितुं किल सिद्धसिन्धुः । तद्वज्ज्वलन्तमनिशं हृदि
शोकवह्निं वक्त्रे वसन्त्यपि ममाऽत्र सरस्वतीयम् ॥ २९ ॥

अन्वय-हे स्वामिन् ! यथा किल तव मुकुटस्थिता एव सिद्धसिन्धुः तव भालानलम् शमयितुम् न शक्नोति तद्वत्
मम हृदि अनिशम् ज्वलन्तम् शोकवह्निम् शमयितुम् अत्र मम वक्त्रे वसन्ती अपि इयम् मम सरस्वती (त्वत्कृपां
विना) न शक्नोति ।

प्राक्चेन्मया विहितमाविलमेव कर्म स्वामिन् कुतस्त्वयि ममैष दृढोऽनुरागः । एकान्तशुक्लमथ
चेदतिदुःसहोऽयं शोकानलो हृदयदाहकरः किमन्तः ॥ ३० ॥

अन्वय-हे स्वामिन् ! चेत् मया प्राक् (पूर्वजन्मनि) आविलम् एव कर्म विहितम् तदा त्वयि (विषये) मम एष दृढः
अनुरागः कुतः स्यात् ? अथ चेत् मया एकान्तशुक्लम् (एव) कर्म विहितम् तर्हि अयम् अतिदुःसहः हृदयदाहकरः
शोकानलः (मम) अन्तः किं स्यात् ? ।

क्वाप्यन्यजन्मनि विधाय विभोरवश्य- माराधनामनुशयालु मनो ममाभूत् । नो चेत् कथं
कुलगुणादिपवित्रमेत- त्सर्वं नृजन्म मम निष्फलमेव जातम् ॥ ३१ ॥

अन्वय-अयि विभो ! क्वापि अन्यजन्मनि विभोः आराधनाम् विधाय मम मनः अवश्यम् (एव) अनुशयालु अभूत्
(इत्यहं जाने) नो चेत् तर्हि कुलगुणादिपवित्रम् (अपि) एतत् मम नृजन्म सर्वं निष्फलम् एव कथम् जातम् ? ।

मानुष्यनावमधिगम्य चिरादवाप्य निस्तारकं च करुणाभरणं भवन्तम् । यस्याऽभवद्भरवशस्तरितुं
भवाब्धिं सोऽहं ब्रुडामि वद कस्य विडम्बनेयम् ॥ ३२ ॥

अन्वय-हे प्रभो ! चिरात् मानुष्यनावम् अधिगम्य चिरात् (अपारभवार्णवात्) निस्तारकम् करुणाभरणम्
भवन्तम् अवाप्य यस्य (मम) भवाब्धिम् तरितुम् भरवशः (महान् प्रत्ययः) अभवत् सः अहम् यदि (तत्रैव)
ब्रुडामि तर्हि इयम् विडम्बना (लोकोपहासः) कस्य (भवति ? इति त्वं) वद (अर्थात् तवैव) ।

स्वामी प्रसादमुपकारिषु सेवकेषु योग्येषु साधुषु करोति किमत्र चित्रम् । सन्तस्त्वभाजनजनेष्वपि
निर्निमित्तं चित्तं वहन्ति करुणामृतसारसिक्तम् ॥ ३३ ॥

अन्वय-स्वामी उपकारिषु सेवकेषु योग्येषु साधुषु (विनीतेषु भक्तजनेषु यदि) प्रसादम् करोति अत्र किम् चित्रम्
? सन्तः तु अभाजनजनेषु अपि निर्निमित्तम् करुणामृतसारसिक्तम् चित्तम् वहन्ति ।

तस्मात्समाप्तसकलाऽभ्युदयाभ्युपाय- मायस्तचेतसमसंभव-भग्नवृत्तम् ।
सीदन्तमन्तकभयादभयार्पणेन संभावय स्वयमनर्थकदर्थितं माम् ॥ ३४ ॥

अन्वय-तस्मात् समाप्तसकलाभ्युदयाभ्युपायम् आयस्तचेतसम् असंभवभग्नवृत्तम् अन्तकभयात् सीदन्तम्
अनर्थकदर्थितम् माम् (वराकम्) अभयार्पणेन स्वयम् सम्भावय ।

त्वां नीतिमान् भजति यः स भवत्यनीति- र्मुक्तः स यो हि भवता हृदयान्न मुक्तः । यस्ते
रतोऽपचितयेऽपचितिं स नैति तत्त्वां श्रितोऽस्मि भवमस्म्यभवो न कस्मात् ॥ ३५ ॥

अन्वय-अपि नाथ ! यः नीतिमान् (कार्याऽकार्यविचारपरो नरः) त्वाम् भजति सः अनीतिः (ईतिरहितः
अनुपद्रव इत्यर्थः) भवति तथा-यः भवता हृदयात् न मुक्तः सः हि मुक्तः भवति यः ते अपचितये
(पूजायै) रतः सः अपचितिम् (अपचयम्) न एति तत् अहम् त्वाम् भवम् श्रितः अस्मि तर्हि (अहम्) अभवः कस्मात् न
अस्मि ? ।

स्वापः सचिन्तमनसो निशि मे दुरापो निर्दाह एव गमयामि कदा सदाहः । रक्ष त्वदेकवशगं शिव
मामवश्यं कस्माद्भवस्यपरुषो मम कर्कशस्त्वम् ॥ ३६ ॥

अन्वय-हे विभो ! सचिन्तमनसः मे निशि स्वापः दुरापः (भवति) हे भगवन् ! (भवदनुग्रहेण) अहम्
निर्दाहः सन् सदा अहः [अहानि इत्यर्थः अत्र जातावेकवचनम् ।] कदा गमयामि ? हे शिव ! त्वदेकवशगम्
माम् अवश्यम् रक्ष त्वम् अपरुषः मम कर्कशः कस्मात् भवसि ? ।

पापः खलोऽहमिति नाऽर्हसि मां विहातुं किं रक्षया कृतमतेरकुतोभयस्य ।
यस्मादसाधुरधमोऽहमपुण्यकर्मा तस्मात्तवास्मि सुतरामनुकम्पनीयः ॥ ३७ ॥

अन्वय-अयि विभो ! अयम् खलः पापः इति (हेतोः) माम् विहातुम् न अर्हसि अकुतो-भयस्य कृतमतेः (प्राज्ञस्य)
रक्षया किम् (भवति ?) यस्मात् अहम् असाधुः अधमः अपुण्यकर्मा अस्मि तस्मात् तव सुतराम् अनुकम्पनीयः अस्मि


स्वैरेव यद्यपि गतोऽहमधः कुकृत्यै- स्तत्रापि नाथ तव नास्म्यवलेपपात्रम् । दृप्तः पशुः पतति यः
स्वयमन्धकूपे नोपेक्षते तमपि कारुणिको हि लोकः ॥ ३८ ॥

अन्वय-अयि नाथ ! यद्यपि अहम् स्वैः एव कुकृत्यैः अधः गतः अस्मि तत्रापि तव अवलेपपात्रम् न अस्मि हि-यः
दृप्तः (तारुण्यमदेन सगर्वः) पशुः स्वयम् (एव) अन्धकूपे पतति तम् अपि कारुणिकः लोकः न उपेक्षते ।

अत्युन्नतान्निजपदाच्चपलश्च्युतोऽयं भूरीन्भ्रमिष्यति जडप्रकृतिः कुमार्गान् । मत्वेति चेत्त्यजसि
मामयमीदृगेव गाङ्गस्त्वया किमिति मूर्ध्नि धृतः प्रवाहः ॥ ३९ ॥

हन्ताऽयमार्तिमपि नारकिणां धृतश्चे- न्मूर्ध्ना किलेति वहसे यदि गाङ्गमोघम् ।
एतत्तवोचितमनाथजनार्तिभङ्ग- हेवाकिनो घनघृणामृतसागरस्य ॥ ४० ॥

अस्मादृशस्य रसना तु सहस्रधेयं गच्छेदवाप्य तव शीर्षमितीरयन्ती । किं तूद्धरामि
भवदग्रपदावमर्श- मात्रादहं त्रिजगतीमिति मे प्रतिज्ञा ॥ ४१ ॥ (तिलकम्)

अन्वय-हे विभो ! अत्युन्नतात् निजपदात् च्युतः चपलः अयम् जडप्रकृतिः भूरीन् कुमार्गान् भ्रमिष्यति इति
मत्वा (त्वम्) माम् त्यजसि चेत् तर्हि ईदृग् एव अयम् गाङ्गः प्रवाहः मूर्ध्नि त्वया किमिति धृतः ? किल
मूर्ध्ना धृतः चेत् तदा अयम् (गाङ्गः ओघः) नारकिणाम् आर्तिम् हन्ता (दूरीकरिष्यति) इति (हेतोः) हे
नाथ ! यदि त्वम् गाङ्गम् ओघम् (शिरसि) वहसि तदा अनाथजनार्तिभङ्गहेवाकिनः घनघृणामृतसागरस्य
तव एतत् उचितम् (एवास्ति) अस्मादृशस्य (भक्तजनस्य) इयम् रसना तव शीर्षम् अवाप्य (अहम् गङ्गावत् सुखम्
तिष्ठामि) इति ईरयन्ती सहस्रधा गच्छेत् किंतु (भवच्छीर्षप्राप्तिमनोरथस्य तु कैव कथा)
भवदग्रपदावमर्शमात्रात् अहम् त्रिजगतीम् (क्षणात्) उद्धरामि इति मे प्रतिज्ञा (नारकिणां तु कैव
कथेतिभावः) ।

क्षामो निकामजडिमा कुटिलः कलावान् दोषाकरोऽयमिति चेत्त्यजसि प्रभो माम् । एतादृशैरुपगतोऽपि
समस्तदोषैः कस्मात्त्वया शिरसि नाथ धृतः शशाङ्कः ॥ ४२ ॥

अन्वय-हे प्रभो ! अयम् क्षामः निकामजडिमा कुटिलः कलावान् दोषाकरः इति (हेतोः) चेत् माम् त्यजसिः
तर्हि-हे नाथ ! एतादृशैः (क्षामत्वादिभिः) समस्तदोषैः उपगतः अपि अयं शशाङ्कः त्वया शिरसि
कस्मात् धृतः ? ।

शान्ताकृतिर्द्विजपतिर्विमलः कलङ्क- मुक्तः किलेति यदि मूर्ध्नि विधुं बिभर्षि । एवंविधोऽपि भवता
कथमङ्घ्रि पीठ- प्रान्तेऽपि धर्तुमुचितो न समर्थितोऽहम् ॥ ४३ ॥

अन्वय-किल (अयम् चन्द्रः) शान्ताकृतिः द्विजपतिः विमलः कलङ्कमुक्तः इति (हेतोः) यदि त्वम् विधुम् मूर्ध्नि
बिभर्षि तर्हि-एवंविधः अपि अहम् भवता अङ्घ्रि पीठप्रान्ते अपि धर्तुम् उचितः कथम् न समर्थितः ?

पापग्रहो धृतिमुपैति विना परेषां न स्वापहारमयमित्यथ मां जहासि । एवंविधोऽपि तव
दक्षिणदृष्टिपात- पात्रत्वमीश्वर कथं रुचिमानुपेतः ॥ ४४ ॥

अन्वय-हे ईश्वर ! अथ अयम् पापग्रहः परेषाम् स्वापहारम् विना धृतिम् न उपैति इति (हेतोः) चेत् माम् जहासि
तर्हि एवंविधः अपि अयम् रुचिमान् (सूर्यः) तव दक्षिणदृष्टिपातपात्रत्वम् कथम् उपेतः ?

मित्रत्वमेष भवतो गुणिबन्धुतां च प्रख्याप्य चेदुपगतस्तव वल्लभत्वम् । दासत्वमेव तव नित्यमुपेत्य
भूत्वा सेवापरश्च गुणिनां कथमप्रियोऽहम् ॥ ४५ ॥

अन्वय-एषः (सूर्यः) भवतः मित्रत्वम् गुणिबन्धुताम् च प्रख्याप्य चेत् तव वल्लभत्वम् उपगतः तर्हि नित्यम्
तव दासत्वम् एव उपेत्य गुणिनाम् सेवापरः च भूत्वा अहम् कथम् तव अप्रियः (अस्मि ?) ।

अत्यूष्मलं मलिनमार्गमनेकजिह्वं स्पर्शेऽप्यनर्हमवधार्य जहासि चेन्माम् । एतादृशोऽपि
शुभदृष्टिनिवेशनस्य पात्रीकृतः कथमयं भवताऽऽश्रयाशः ॥ ४६ ॥

अन्वय-अत्यूष्मलम् मलिनमार्गम् अनेकजिह्वम् स्पर्शे अपि अनर्हम् अवधार्य चेत् मम् जहासि तर्हि एतादृशः अपि अयम्
आश्रयाशः (अग्निः) भवता शुभदृष्टिनिवेशनस्य कथम् पात्रीकृतः ? ।

यद्बन्धुजीवदलसद्रुचिरर्थिभाव- मायाति साधुविबुधव्रजजीवनाय । यन्मित्रमण्डलमुखेन च विश्वमेषः
पुष्णाति तेन दहने यदि सादरोऽसि ॥ ४७ ॥

आप्यायनं सुमनसामनिशं विधातु- मर्थीभवामि यदि कोऽपि न मेऽस्ति दाता । कर्तुं च
बन्धुजनजीवनमक्षमोऽहं विश्वं च पोषयितुमीश सुहृन्मुखेन ॥ ४८ ॥

तेनाऽत्र मां निरपराधमवेहि देहि दृष्टिं प्रसादविशदाममृतद्रवार्द्राम् । दीनं
दयास्पदमदभ्रमदभ्रमेण भ्रूविभ्रमेण सदयं भज भङ्गुरेण ॥ ४९ ॥ (तिलकम्)

अन्वय-बन्धुजीवदलसद्रुचिः एषः (अग्निः) साधु (कृत्वा) विबुधव्रजजीवनाय यत् अर्थिभावम् आयाति यत् च
मित्रमण्डलमुखेन विश्वम् पुष्णाति तेन (हेतुना) यदि दहने सादरः असि । हे ईश ! सुमनसाम् अनिशम्
आप्यायनम् विधातुम् यदि (अहम्) अर्थीभवामि तर्हि (तादृशः अन्यः) कः अपि दाता मे नास्ति । (अतः) अहम्
बन्धुजनजीवनम् कर्तुम् सुहृन्मुखेन विश्वम् पोषयितुम् च अक्षमः अस्मि । तेन (हेतुना) हे ईश ! अत्र (विषये)
माम् निरपराधम् अवेहि प्रसादविशदाम् अमृतद्रवार्द्राम् दृष्टिम् देहि दयास्पदम् दीनम् अदभ्रमदभ्रमेण
भङ्गुरेण भ्रूविभ्रमेण सदयम् भज ।

अन्वग्रहीरमलदृष्टिसमर्पणेन मित्रं शुचिं द्विजपतिं यदि युक्तमेतत् । एवंविधेऽपि भगवन्
दृशमप्रसन्नां धत्से मयीति विधिरेष पराङ्मुखो मे ॥ ५० ॥

अन्वय-अयि भगवन् ! यदि अमलदृष्टिसमर्पणेन मित्रम् (सूर्यम्) शुचिम् (अग्निम्) द्विजपतिम् (चन्द्रमसम् च)
अन्वग्रहीः तदेतत् युक्तम् । (किन्तु) एवंविधे अपि मयि यत् अप्रसन्नाम् दृशम् धत्से तत् एषः मे विधिः (दैवम्)
पराङ्मुखः अस्ति (एषा ममैवाऽभाग्यचातुरीत्यर्थः) ।

निष्कर्ण एष कुसृतिव्यसनी द्विजिह्वो मत्वेति चेत्त्यजसि निःशरणं प्रभो माम् । एतादृशोऽपि पवनाशन
एष कस्मा- च्छ्रीकण्ठ कण्ठपुलिने भवता गृहीतः ॥ ५१ ॥

अन्वय-हे प्रभो ! एषः निष्कर्णः कुसृतिव्यसनी द्विजिह्वः (च अस्ति) इति मत्वा माम् निःशरणम् जहासि चेत्
तर्हि हे श्रीकण्ठ ! एतादृशः अपि एषः पवनाशनः भवता कण्ठपुलिने कस्मात् गृहीतः ?

जिह्वासहस्रयुगलेन पुरा स्तुतस्त्व- मेतेन तेन यदि तिष्ठति कण्ठपीठे । एकैव मे तव नुतौ रसनाऽस्ति
तेन स्थानं महेश भवदङ्घ्रितले ममाऽस्तु ॥ ५२ ॥

अन्वय-हे महेश ! एतेन (शेषनागेन) पुरा जिह्वासहस्रयुगलेन (सहस्रशिरस्त्वाच्छेषस्य) त्वम् स्तुतः (असि)
तेन (हेतुना) यदि (सः) तव कण्ठपीठे तिष्ठति तदा मे तव नुतौ एका एव रसना अस्ति तेन हे ईश !
भवदङ्घ्रितले (एव) मम स्थानम् अस्तु ।

शृङ्गी विवेकरहितः पशुरुन्मदोऽयं मत्वेति चेत्परिहरस्यतिकातरं माम् । एवंविधोऽपि
वृषभश्चरणार्पणेन नीतस्त्वया कथमनुग्रहभाजनत्वम् ॥ ५३ ॥

अन्वय-अयम् शृङ्गी विवेकरहितः पशुः उन्मदः इति मत्वा चेत् अतिकातरम् माम् परिहरसि तर्हि एवंविधः अपि
वृषभः त्वया चरणाऽर्पणेन अनुग्रहभाजनत्वम् कथम् नीतः ?

पृष्ठे भवन्तमयमुद्वहते कदाचि- देतावता यदि तवैति दयास्पदत्वम् । स्वामिन्नहं तु
हृदयेऽन्वहमुद्वहामि त्वामित्यतः कथमहो न तवाऽनुकम्प्यः ॥ ५४ ॥

अन्वय-(यत्) अयम् (वृषभः) कदाचित् भवन्तम् पृष्ठे उद्वहते एतावता यदि तव दयास्पदत्वम् एति तर्हि हे
स्वामिन् ! अहम् तु अन्वहम् त्वाम् हृदये उद्वहामि इत्यतः अहो !! (अहम्) कथम् न तव अनुकम्प्यः (अस्मि) ?

क्रूरः पराङ्मुखमसावनृजुर्जहाति योग्यं गुणग्रहणकर्मणि मार्गणौघम् । मत्वेति चेत्त्यजसि मां
कथमीदृगेव स्वामिन्धृतः करतले भवता पिनाकः ॥ ५५ ॥

अन्वय-असौ क्रूरः अनृजुः गुणग्रहणकर्मणि योग्यं मार्गणौघम् (मार्गणानां याचकानां ओघम्
समूहम्) पराङ्मुखम् (कृत्वा) जहाति इति मत्त्वा चेत् माम् त्यजसि तर्हि हे स्वामिन् ! ईदृगेव (अर्थात् क्रूरः
अनृजुः गुणग्रहणकर्मणि [प्रत्यञ्चाग्रहणविधौ] योग्यम् मार्गणौघम् [शरसमूहम्] पराङ्मुखम् त्यजन्
अयम्) पिनाकः भवता करतले कथम् धृतः ? ।

कोटिं परामुपगतेऽपि गुणे नितान्तं नम्रं विमृश्य यदि नाऽजगवं जहासि । स्वल्पे गुणेऽपि
नतिमानतिमात्रमेव किं तच्च येन न भवामि तवानुकम्प्यः ॥ ५६ ॥

अन्वय-पराम् कोटिम् (धनुरग्रम् संख्याविशेषम् च) उपगते गुणे (प्रत्यञ्चायां दयादाक्षिण्यादौ च)
नितान्तम् नम्रम् विमृश्य यदि अजगवम् न जहासि तदा स्वल्पे गुणे (दयादाक्षिण्यादौ) अपि अतिमात्रम् एव
नतिमान् (विनीतोऽस्मि) तत् च किम् येन तव अनुकम्प्यः न भवामि ?

अत्यन्ततीक्ष्णमतिकर्कशमार्जवेन कृत्वा प्रवेशमतिमात्रमरुन्तुदं माम् । मत्वा जहासि यदि नाथ
किमर्थमेत- देवंविधं वहसि हस्तगतं त्रिशूलम् ॥ ५७ ॥

अन्वय-अत्यन्ततीक्ष्णम् अतिकर्कशम् (अभिमुखे) आर्जवेन प्रवेशम् कृत्वा (पश्चात्) अतिमात्रम् अरुन्तुदम् मत्वा
यदि माम् जहासि तर्हि हे नाथ ! एवंविधम् हस्तगतम् एतत् त्रिशूलम् किमर्थम् वहसि ?

ज्ञात्वाऽथ चेत्समरसंहितकर्मयोग्यं कोटित्रयोज्ज्वलमुखं त्रिशिखं बिभर्षि । निःस्वं न किं
समरसं हितकर्मयोग्यं मां वेत्सि येन कुरुषे मयि न प्रसादम् ॥ ५८ ॥

अन्वय-अथ समरसंहितकर्मयोग्यम् कोटित्रयोज्ज्वलमुखम् ज्ञात्वा चेत् त्रिशिखम् बिभर्षि तर्हि माम् निःस्वम्
समरसम् हितकर्मयोग्यम् किम् न वेत्सि ? येन मयि प्रसादम् न कुरुषे ।

न्यग्भावितद्विजमखर्वितपूर्वदेव- गुर्वाऽपदर्पणपरं कृतगोत्रभेदम् । संभाव्य चेत्त्यजसि मां
कथमीदृगेव नेत्रोत्सवस्तव जगद्विजयी कुमारः ॥ ५९ ॥

अन्वय-हे स्वामिन् ! माम् न्यग्भावितद्विजम् अखर्वितपूर्वदेवगुर्वापदर्पणपरम् कृतगोत्रभेदम् संभाव्य चेत्
त्यजसि तर्हि ईदृक् एव (न्यग्भावितद्विजः [अर्थवशाद् विभक्तिविपरिणामः]
अखर्वितपूर्वदेवगुर्वापदर्पणपरः कृतगोत्रभेदः) जगद्विजयी कुमारः कथम् तव नेत्रोत्सवः
(नयनप्रकाशकरः अतिप्रियः सुतः इत्यर्थः) ।

मत्त्वाऽथ नाथ शुचिजातिममुं विशाख- मस्मिन्मनो यदि बिभर्षि दृढप्रसादम् ।
एवंविधोऽप्यहमनन्यपरायणस्ते कस्माद्भवामि भगवन्नवलेपभूमिः ॥ ६० ॥

अन्वय-हे नाथ ! अथ अमुम् शुचिजातिम् विशाखम् मत्वा यदि अस्मिन् मनः दृढप्रसादम् बिभर्षि तर्हि हे
भगवन् ! एवंविधः अपि अनन्यपरायणः अहम् ते अवलेपभूमिः कस्मात् भवामि ?

सर्वापहाररतिरुन्मदवक्रवक्त्र- स्त्याज्योऽस्मि कर्णचपलो यदि तुन्दिलस्ते । एवंविधोऽपि भगवन्
गणनायकत्वे कस्मादयं गजमुखो भवता नियुक्तः ॥ ६१ ॥

अन्वय-हे भगवन् ! सर्वापहाररतिः उन्मदवक्रवक्त्रः कर्णचपलः तुन्दिलः (अहम्) यदि ते त्याज्यः अस्मि
तर्हि एवंविधः अपि अयम् गजमुखः भवता गणनायकत्वे कस्मात् नियुक्तः ?

हस्तं सदा वहति दानजलावसिक्तं तेनैष चेदलभत प्रमथाधिपत्यम् । दानं प्रदातुमधनो यदि न
क्षमोऽहं दासत्वमस्तु मम देव भवद्गणानाम् ॥ ६२ ॥

अन्वय-हे देव ! एषः (गजमुखः) यतः दानजलावसिक्तम् [मदाम्भसाऽवसिक्तम् दानार्थं जलेन अवसिकञ्च]
हस्तम् सदा वहति तेन (हेतुना) एषः प्रमथाधिपत्यम् अलभत चेत् तर्हि अधनः अहम् दानम् प्रदातुम् यदि न
क्षमः (अस्मि) तदा भवद्गणानाम् दासत्वम् (एव) मम अस्तु ।

हेयोऽस्म्यसेवकतया तव चेद् ग्रहेषु कुर्वत्सु तुल्यमखिलेष्वपि राशिभोगम् । द्वावुज्झतस्तव न
दृक्पथमर्कचन्द्रा- वेतावता परिहृता भवता किमन्ये ॥ ६३ ॥

अन्वय-हे नाथ ! अखिलेषु अपि ग्रहेषु तुल्यम् (एव) राशिभोगम् कुर्वत्सु (सत्सु) अर्कचन्द्रौ द्वौ (एव) तव
दृक्पथम् न उज्झतः चेत् तर्हि एतावता (एव) भवता अन्ये (भौमाद्याः ग्रहाः) किम् परिहृताः (अहम्)
असेवकतया कथम् हेयः अस्मि ?

बलावुभौ द्विजपती तव नाथ भक्ता- वेकस्तयोर्हरति सन्तमसं प्रजानाम् । तेनावृतं यदि परं सहसे
महेश द्रष्टुं ततो विषमदृष्टिरिति श्रुतोऽसि ॥ ६४ ॥

अन्वय-हे नाथ ! बालौ उभौ द्विजपती (एकः द्विजपतिर्बालेन्दुः अन्यो द्विजपतिर्ब्राह्मणः तौ) तव भक्तौ
(स्तः) तयोः एकः (द्विजपतिः तव मौलिस्थो बालेन्दुः) प्रजानाम् सन्तमसम् हरति परम् द्विजपतिम् (माम् बालम्)
तेन (सन्तमसेन) आवृतम् द्रष्टुं यदि सहसे ततः (एव) हे महेश ! (त्वम्) विषमदृष्टिः इति श्रुतः असि ।

युक्तं रिपौ सुहृदि वा समदर्शनस्य दोषोद्धतेऽपि यदि ते हृदयं दयार्द्रम् । तत्साम्प्रतं
गतिविहीनमनात्मनीनं दीनं जनं प्रति कुतः करुणाऽवलेपः ॥ ६५ ॥

अन्वय-अयि भगवन् ! दोषोद्धते अपि रिपौ सुहृदि वा समदर्शनस्य ते हृदयम् यदि दयार्द्रम् (अस्ति तत्) युक्तम् ।
तत् साम्प्रतम् गतिविहीनम् अनात्मनीनम् दीनम् जनम् ((माम्) प्रति कुतः तव करुणावलेपः ?

अभ्युद्गमोऽयमशनेरमृतांशुम्बिम्बा त्स्वामिन्नसौ दिनमणेस्तिमिरप्ररोहः । युष्मादृशस्य
कौणाम्बुनिधेरकस्मा- दस्मादृशेष्वशरणेष्ववधीरणं यत् ॥ ६६ ॥

अन्वय-हे स्वामिन् ! युष्मादृशस्य (एकनिमेषेणैव त्रिजगदुद्धारकस्य) करुणाम्बुनिधेः अकस्मात् अस्मादृशेषु
अशरणेषु यत् अवधीरणम् (अस्ति) अयम् अमृतांशुबिम्बात् अशनेः अभ्युद्गमः (भवति) तथा असौ दिनमणेः
तिमिरप्ररोहः (भवति) ।

स्वामिन् मृडस्त्वमुरुदुःखभरार्दितोऽहं मृत्युञ्जयस्त्वमथ मृत्युभयाकुलोऽहम् ।
गङ्गाधरस्त्वमहमुग्रभवोपताप- तप्तः कथं कथमहं न तवानुकम्प्यः ॥ ६७ ॥

अन्वय-हे स्वामिन् ! त्वम् मृडः (असि) अहम् उरुदुःखभरार्दितः (अस्मि) त्वम् मृत्युञ्जयः (असि) अथ अहम्
मृत्युभयाकुलः (अस्मि) त्वम् गङ्गाधरः (असि) अहम् उग्रभवोपतापतप्तः (अस्मि) अतः हे विभो ! अहम् तव
कथं कथम् न अनुकम्प्यः (अस्मि) ।


भवजीर्णज्वराताप-मोहकम्पाकुलाय मे । एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ! ॥



भक्तप्रियः स्वयमपि क्षुधयाऽन्वितस्य पानोत्सवैकरसिकोऽपि पिपासितस्य । तापातुरस्य घनसेवनसादरोऽपि
जानासि नाथ न कथं सहसा ममार्तिम् ॥ ६८ ॥

अन्वय-हे नाथ ! (त्वम्) स्वयमपि भक्तप्रियः (सन्) क्षुधया (त्वद्दर्शनबुभुत्सया) अन्वितस्य मम आर्तिम्
सहसा कथम् न जानासि ? पानोत्सवैकरसिकः (सन्) अपि पिपासितस्य (त्वदालोकनपिपासाकुलितस्य) मम आर्तिम्
कथं न जानासि ? तथा घनसेवनसादरः सन् अपि तापातुरस्य मम आर्त्तिम् सहसा कथम् न जानासि ।

सर्वज्ञ सर्वमवगच्छसि भूतभावि भाग्यक्षयः पुनरसौ भगवन् ममैव । जानासि यस्य हृदयस्थित एव
नार्तीं ज्ञात्वाऽपि वा गजनिमीलितमातनोषि ॥ ६९ ॥

अन्वय-हे सर्वज्ञ ! (त्वम्) सर्वम् भूतभावि अवगच्छसि । हे भगवन् ! पुनः मम एव असौ भाग्यक्षयः (अस्ति)
यस्य हृदयस्थित एव (मम) आर्त्तिम् न जानासि ज्ञात्वा अपि वा गजनिमीलितम् आतनोषि ।

भालेऽनलं तव गले गरलं करे च शूलं प्रकाशमखिलोऽयमवैति लोकः । अन्तर्गतं त्रयमिदं तु मम
त्वमेव जानासि नासि च दयालुरतो हतोऽहम् ॥ ७० ॥

अन्वय-अयि नाथ ! तव भाले अनलम् गले गरलम् करे च शूलम् प्रकाशम् (स्फुटमेव) अयम् अखिलः लोकः अवैति
। मम तु अन्तर्गतम् इदम् त्रयम् [आश्वासकारणशुद्धज्ञानवियोगशोकाग्निम् मधुमुखं परिणामदारुणं
दुष्कर्म्मरूपं गरलम् जरामरणाख्यं शूलम्] त्वम् एव (अन्तर्यामिधुरीणः) जानासि दयालुः च न असि
अतः (एव) अहम् हतः ।

एकस्त्वमेव भविनामनिमित्तबन्धु- र्नैसर्गिकी तव कृपा सवितुः प्रभेव । वामः पुनर्मम विधिः
परिदेवितानि जातान्य [जानासि] रण्यरुदितेन समानि यस्य ॥ ७१ ॥

अन्वय-हे ईश ! एकः त्वम् भविनाम् एव अनिमित्तबन्धुः (असि) सवितुः प्रभा इव तव (एव) नैसर्गिकी कृपा
(अस्ति) पुनः यस्य परिदेवितानि अरण्यरुदितेन समानि जातानि (तस्य) मम (एषः) विधिः वामः (अस्ति) ।

अत्यन्तदुर्भगमयोग्यमभाग्यभाज- माजन्मनर्मविमुखं मुखरोग्रवाचम् । दैवादवाप्य सकलापसदं महेश
नैवाऽत्यजत्कुलवधूरिव दुर्गतिर्माम् ॥ ७२ ॥

अन्वय-हे महेश ! अत्यन्तदुर्भगम् अयोग्यम् अभाग्यभाजम् आजन्मनर्मविमुखम् मुखरोग्रवाचम् सकलापसदम् माम्
दैवात् अवाप्य इयम् दुर्गतिः कुलवधूः इव (माम्) नैव अत्यजत् ।

मुक्त्वा समाधिमसमाधिहरं परं च प्रोद्दामधाम शिव धाम सुधामयं ते । भ्रान्तोऽस्मि तेन
मलयानिलवेल्ल्यमान- कल्लोललोलनिधनानि धनानि लब्धुम् ॥ ७३ ॥

अन्वय-हे शिव ! तेन (पूर्वोक्तहेतुना) असमाधिहरम् समाधिम् मुक्त्वा परम् प्रोद्दामधाम ते सुधामयम् धाम
च मुक्त्वा (अहम्) मलयानिलवेल्ल्यमानकल्लोललोलनिधनानि धनानि लब्धुम् (दश दिशः) भ्रान्तः अस्मि ।

आराधिताः प्रचपलाश्चपलावदेव दुष्टेश्वरा न गुरवो गुरवो गुणौघैः । यातानि तानि मम हानिमहानि
मिथ्या श्रान्तोऽस्मि हा विततमोहतमोहतोऽहम् ॥ ७४ ॥

अन्वय-हे विभो ! (मया मूढेन) चपलावद् प्रचपलाः दुष्टेश्वराः एव आराधिताः । गुणौघैः गुरवः
गुरवः न आराधिताः (अतः) मम तानि अहानि मिथ्या हानिम् यातानि हा ! विततमोहतमोहतः अहम् श्रान्तः
अस्मि ।

तृष्णा दिनाद्दिनमबृंहत बंहिमन- मायामिनी मनसि हैमनयामिनीव । नाथ
त्रिधामनयनाऽर्पयदृक्प्रसादं सादं नयान्धतमसं भ्रमसंभृतं मे ॥ ७५ ॥

अन्वय-हे नाथ ! (मम) मनसि तृष्णा आयामिनी हैमनयामिनी इव दिनाद्दिनम् बंहिमानम् अबृंहत अयि
त्रिधामनयन ! (त्वं मयि) दृक्प्रसादम् अर्पय भ्रमसंभृतम् मे अन्धतमसम् सादम् नय ।

स्तम्भं विजृम्भयति दम्भमयं भ्रमं च कंचित्प्रपञ्चयति यच्छति वाचि मुद्राम् । कं नाम
नाऽऽमयमयं प्रथयत्यखर्व- गर्वज्वरज्वलनदुःसहसन्निपातः ॥ ७६ ॥

अन्वय-हे प्रभो ! अयम् अखर्वगर्वज्वरज्वलनदुःसहसन्निपातः दम्भमयम् स्तम्भम् विजृम्भयति भ्रमम् च
कञ्चित् प्रपञ्चयति वाचि मुद्राम् यच्छति कम् नाम आमयम् न प्रथयति ।

तत्साम्प्रतं भुवनविश्रुतहस्तसिद्धिं त्वामोषधीपतिशिखामणिमाश्रयामि । मौनं विमुद्रय दरिद्रय
मोहनिद्रां विद्रावय द्रुतमुपद्रवमिन्द्रियाणाम् ॥ ७७ ॥


तस्तैरुग्रैर्विविधरचनैः संभृते यत्र दोषै- रुत्पद्यन्ते सततमरुचित्रासमोहप्रलापाः ।

संसाराख्यं तमतिविषमं सन्निपातं नराणा- मेको हन्तुं प्रभवति विभुर्लीलयाऽसौ किरातः ॥ १ ॥




अन्वय-तत् हे नाथ ! साम्प्रतम् भुवनविश्रुतहस्तसिद्धिम् त्वाम् ओषधीपतिशिखामणिम् (अहम्) आश्रयामि हे
विभो ! (मम) मौनम् विमुद्रय मोहनिद्राम् दरिद्रय इन्द्रियाणाम् उपद्रवम् द्रुतम् विद्रावय ।

विस्रम्भमम्भसि भजे भगवन्नगाधे बाधे रिपुव्यवसितेऽप्यलसीभवामि । जागर्मि यन्न समवर्तिनि हन्तुकामे
का मे गतिर्यदि करोषि मनागवज्ञाम् ॥ ७८ ॥


मोहान्ध्यहरणात्तीव्रभवज्वर-निवारणे । देहिनां दक्ष एकस्त्वमोषधीशशिखामणिः ॥



अन्वय-हे भगवन् ! (अहं मूढः) अगाधे अम्भसि (भवार्णवे) विस्रम्भम् भजे रिपुव्यवसिते बाधे अपि
अलसीभवामि (कुतः) यत् हन्तुकामे समवर्तिनि (यमे) न जागर्मि । हे विभो ! (त्वम् दयालुः) यदि मनाक् (एव)
अवज्ञाम् करोषि तर्हि मे का गतिः ।

यस्ते ददाति रवमस्य वरं ददासि यो वा मदं वहति तस्य दमं विधत्से । इत्यक्षरद्वयविपर्ययकेलिशीलः
किं नाम कुर्वति नमो न मनः करोषि ॥ ७९ ॥

अन्वय-हे विभो ! यः (धन्यः पूजासमये) ते रवम् (मुखवाद्यम् विलापेनाक्रन्दं वा) ददाति अस्य त्वम् वरम्
ददासि यः वा मदम् (गर्वं) वहति तस्य (त्वम्) दमम् विधत्से । इति अक्षरद्वयविपर्ययकेलिशीलः (त्वम्)
नमः (नमस्कारम्) कुर्वति (मयि) मनः (चित्तम्) किं नाम न करोषि ? (अत्रापि विपर्ययं कर्तुं
युक्तमित्यर्थः) ।

चन्द्रः करे शिरसि चक्षुषि पादमूले मूर्तावपीति शिव चन्द्रसुभिक्षमेतत् । तापान्धकारविधुरं
शरणागतं कि- मायातु लङ्घितवतस्तव मोघभावम् ॥ ८० ॥

अन्वय-हे शिव ! तव करे शिरसि चक्षुषि पादमूले मूर्त्तौ अपि चन्द्रः इति तत् एतत् (तव) चन्द्रसुभिक्षम्
तापान्धकारविधुरम् माम् शरणागतम् लङ्घितवतः तव मोघभावम् किम् आयातु ? (एतेन स्वायत्तेन
चन्द्रसुभिक्षेण मदीयं तापमन्धकारं च निर्वाप्य तत्साफल्यं कुर्वित्यर्थः ।)

कौटिल्यमिन्दुदलतो न सुधामयत्व- मूष्माणमूर्ध्वनयनान्न परं प्रकाशम् । मालिन्यमेव गलतो न
गभीरभावं त्वत्तोऽपि मे तित-उकल्पमवाप चेतः ॥ ८१ ॥

अन्वय-हे नाथ ! (प्रतिक्षणं भवदीयध्यानासक्तं) तित-उकल्पम् मे चेतः (तव) इन्दुदलतः कौटिल्यम्
(एव) अवाप सुधामयत्वम् न अवाप ऊर्ध्वनयनात् ऊष्माणम् (एव) अवाप परम् प्रकाशम् न (अवाप) गलतः
मालिन्यम् एव अवाप त्वत्तः अपि गभीरभावम् न अवाप ।

किं वर्णयामि गुरुतां विपदः पदे मां स्थाणोर्न्ययुङ्क्त यदियं सहसोपदिश्य । निःशाखतां
सुमनसामनुमेयभावं विच्छायतां विफलतां रसहीनतां च ॥ ८२ ॥

अन्वय-अहम् विपदः गुरुताम् किं वर्णयामि यत् इयम् (विपत्) निःशाखताम् सुमनसाम् अनुपेयभावम् विच्छायताम्
विफलताम् रसहीनताम् च उपदिश्य सहसा माम् स्थाणोः पदे (श्री शम्भुचरणे) न्ययुङ्क्त ।

सर्वज्ञशम्भुशिवशङ्करविश्वनाथ- मृत्युञ्जयेश्वरमृडप्रभृतीनि देव । नामानि तेऽन्यविषये
फलवन्ति किन्तु त्वं स्थाणुरेव भगवन् मयि मन्दभाग्ये ॥ ८३ ॥

अन्वय-हे देव ! सर्वज्ञ-शम्भु-शिवशङ्कर-विश्वनाथ-मृत्युञ्जयमृडप्रभृतीनि ते नामानि अन्यविषये
फलवन्ति (सन्ति) । किन्तु हे विभो ! मन्दभाग्ये मयि त्वम् स्थाणुः एव (असि) ।

श्वेते सुदर्शनसमर्पणतत्परस्य कृष्णे च यस्य न बभूव विशेषबुद्धिः । सत्त्वं श्रियं सृजसि
पुण्यजनेषु मां च मुञ्चस्यपुण्यजनमेष विधिः क्षतो मे ॥ ८४ ॥

अन्वय-हे विभो ! श्वेते (श्वेताख्यनृपतौ) सुदर्शनसमर्पणतत्परस्य (सु=शोभनं दर्शनं तस्य समर्पणे
तत्परस्य) तथा कृष्णे च (श्रीकृष्णे च) सुदर्शनसमर्पणतत्परस्य (सुदर्शनाख्यचक्रसमर्पणे
तत्परस्य) यस्य (तव) विशेषबुद्धिः न बभूव । सः त्वम् पुण्यजनेषु (कुबेरादिषु) श्रियम् सृजसि माम्
अपुण्यजनम् (=पुण्यहीनं जनम्) मुञ्चसि (यत्) एषः मे विधिः क्षतः ।

आवर्जनं क्रतुभुजां गजवाजिरत्न- श्रीपारिजातमदिरेन्दुसुधाऽर्पणेन । कृत्वाऽग्रहीर्गरलमात्मनि
यन्महिम्ना सा ते क्व सम्पति कृपा मयि मन्दभाग्ये ॥ ८५ ॥

अन्वय-हे विभो ! गजवाजिरत्न-श्रीपारिजातमदिरेन्दुसुधार्पणेन क्रतुभुजाम् आवर्जनम् (वशीकरणम्
परमसंतोषम् च) कृत्वा (त्वम्) आत्मनि यन्महिम्ना गरलम् अग्रहीः सा ते कृपा सम्प्रति मन्दभाग्ये मयि क्व
(अस्ति) ?

दृप्तेषु ते मदनदक्षयमाऽन्धकेषु प्रादुर्भवन्मनसि रोषविषप्ररोहः । सिक्तः सुधामयमसूत यया
प्रसादं सा ते क्व सम्प्रति कृपा मयि भाग्यहीने ॥ ८६ ॥

अन्वय-दृप्तेषु मदनदक्षयमाऽन्धकेषु ते मनसि प्रादुर्भवन् (यः) रोषविषप्ररोहः यया सिक्तः सन्
सुधामयम् प्रसादम् असूत सा ते कृपा सम्प्रति भाग्यहीने मयि क्व (अस्ति) ?

केचिद्वरस्य भगवन्नभयस्य केचि- त्सान्द्रस्य केचिदमृतस्य करस्थितस्य । प्रापुः कृपाप्रणयिनस्तव
भाजनत्वं शूलस्य केवलमभाग्यपरिक्षतोऽहम् ॥ ८७ ॥

अन्वय-हे भगवन् ! केचित् कृपाप्रणयिनः (कृपाप्रार्थका भक्तजनाः) तव वरस्य भाजनत्वम् प्रापुः केचित्
तव अभयस्य भाजनत्वम् प्रापुः केचित् तव करस्थितस्य सान्द्रस्य अमृतस्य भाजनत्वम् प्रापुः (किन्तु)
अभाग्यपरिक्षतः अहम् केवलम् शूलस्य भाजनत्वम् (प्रापम्) ।

अभ्रान्तवृत्ति भवतान्तरधिष्ठितं मे चेतः प्रकाशवपुषा रविणेव बिम्बम् । सोपप्लवं यदि कृतं
तमसा कदाचि- दक्षीणपुण्यमहिमैव तदा विभाति ॥ ८८ ॥


हा हा महार्त्याऽस्मि विमोहितोऽहं जरादिदुःखेन सदैकशूली । त्रिशूलिनं तं

त्रिजगत्प्रसिद्धं चिकित्सकं यामि यदस्य शान्त्यै ॥ -------------

अन्वय-[इव=यथा तथा] यथा हे प्रभो ! प्रकाशवपुषा रविणा अन्तः अधिष्ठितम् अभ्रान्तवृत्ति बिम्बम्
यदि कदाचित् तमसा (राहुणा) सोपप्लवम् कृतम् तदा (तत्) अक्षीणपुण्यमहिम विभाति ।
तथा-प्रकाशवपुषा भवता अन्तः अधिष्ठितम् अभ्रान्तवृत्ति (त्वत्परायणम्) मे चेतः यदि कदाचित् तमसा
(अज्ञानेन) सोपप्लवम् कृतम् तदा (तत्रापि) अक्षीणपुण्यमहिम एव विभाति ।

जानामि नाऽमृतमयं हृदयं प्रवेष्टु-मुद्दामदुःखदवदाहहतस्तवाऽहम् । धर्तुं हृदि
त्रिदशसिन्धुसुधा-सुधांशु- शीतं भवन्तमपि न प्रभवामि धिङ्माम् ॥ ८९ ॥

अन्वय-हे विभो ! उद्दामदुःखदवदाहहतः अहम् तव अमृतमयम् हृदयम् प्रवेष्टुम् न जानामि
त्रिदशसिन्धुसुधासुधांशुशीतम् भवन्तम् अपि हृदि धर्तुम् न प्रभवामि (इति उभयथा) माम् धिक् ।

क्षीणः क्षताऽखिलकलः प्रविलीनधामा त्वामाश्रितोऽस्मि सवितारमिवाऽमृतांशुः । नास्त्येव
जीवनकला मम काचिदन्या पादार्पणेन कुरुषे यदि न प्रसादम् ॥ ९० ॥

अन्वय-क्षीणः क्षताखिलकलः प्रविलीनधामा (अहम्) शीतांशुः सवितारम् इव त्वाम् आश्रितः अस्मि । हे
विभो ! यदि (त्वम्) पादार्पणेन प्रसादम् न कुरुषे तर्हि मम काचित् अन्या जीवनकला नास्त्येव ।

घोरान्धकारविधुरं विविधोपताप- तप्तं विपद्गुरुतुषारपराहतं माम् । त्वं चेज्जहासि वद
कस्तपनेन्दुवह्नि- नेत्रो हरिष्यति परस्त्रिविधां ममार्तिम् ॥ ९१ ॥

अन्वय-प्रभो ! घोरान्धकारविधुरम् विविधोपतापतप्तम् विपद्गुरुतुषारपराहतम् माम् (वराकम्) त्वम् चेत्
जहासि तदा (त्वमेव) वद कः परः तपनेन्दुवह्निनेत्रः मम त्रिविधाम् आर्तिम् हरिष्यति ? ।

व्यक्तिर्न यस्य न मतिर्न गतिर्न शक्ति- र्नापि स्मृतिर्विपदपस्मृतिपीडितस्य । तस्यौषधीशमुकुटं
त्रिजगद्गुरुं त्वां मुक्त्वा करिष्यति परो मम कश्चिकित्साम् ॥ ९२ ॥

अन्वय-प्रभो ! विपदपस्मृतिपीडितस्य यस्य व्यक्तिः न मतिः न तथा गतिः (च) न शक्तिः न स्मृतिः अपि न
(अस्ति) तस्य मम त्रिजगद्गुरुम् त्वाम् ओषधीशमुकुटम् मुक्त्वा परः कः चिकित्साम् करिष्यति ?

त्वं निर्गुणः शिव तथाहमथ त्वदीयं शून्यं परं किमपि धाम तथा मदीयम् । त्वं चेद्गवि
प्रविदधासि धृतिं तथाऽहं कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९३ ॥

अन्वय-हे शिव ! (यथा) त्वम् निर्गुणः [सत्त्वरजस्तमसां साम्यावस्था मूलप्रकृतिः न प्रकृतिर्न विकृतिः
पुरुष इति सांख्याः] असि तथा अहम् (अपि) निर्गुणः (दाक्षिण्यादिगुणरहितः अस्मि) अथ त्वदीयम् परम्
धाम किमपि शून्यम् [ब्रह्माण्डोर्ध्वे शून्यास्पदत्वात्पर ज्योतिः स्वरूपस्य परमात्मनः] तथा मदीयम् अपि
धाम (गृहम्) परम् शून्यम् (व्यावहारिकोपकरणहीनम् अस्ति) त्वम् चेत् गवि धृतिम् (स्थितिम्) विदधासि तथा
अहम् अपि गवि (वाण्याम्) धृतिम् (प्रीतिम्) विदधामि । (किन्तु) कष्टम् तु (एतत्) त्वम् शिवः असि विधिक्षतः अहम्
तु अशिवः अस्मि !

कामस्त्वयीव मयि निष्फलतामवाप क्षिप्तो मयापि विफलो भवतेव कालः । विध्वस्तधाम मम देव
वपुस्तवेव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९४ ॥

अन्वय-हे विभो ! कामः त्वयि इव मयि निष्फलताम् अवाप भवता इव मया अपि कालः विफलः क्षिप्तः । अयि
देव ! तव वपुः इव मम (अपि) वपुः विध्वस्तधाम अस्ति कष्टं त्वेतत् त्वम् शिवः असि विधिक्षतः अहम् तु
अशिवः (अस्मि) ।

यद्वद्विभो तव हृदि प्रविभाति नाग- स्तद्वन्ममापि भवदेकपरायणस्य । यद्वत्स्वधर्मनिरतस्त्वमहं
तथैव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९५ ॥

अन्वय-हे विभो ! यद्वत् तव हृदि नागः (वासुकिः) प्रविभाति तद्वत् भवदेकपरायणस्य मम अपि हृदि नागः
(न आगः=अपराधः) प्रविभाति । यद्वत् त्वम् स्वधर्मनिरतः असि तथैव अहम् अपि स्वधर्मनिरतः (अस्मि)
कष्टं तु एतत्-हे विभो ! त्वम् शिवः (असि) विधिक्षतः अहम् तु अशिवः (अस्मि) ।

मूर्त्तिस्तवेव शिव मे विधुरोचितेयं दृष्टिस्तवेव भगवन् विषमा ममापि । शूली विषादहतशक्तिरहं
यथा त्वं कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९६ ॥

अन्वय-हे शिव ! तव मूर्तिः इव इयम् मे मूर्तिः विधुरोचिता अस्ति ममापि दृष्टिः तव दृष्टिः इव विषमा
अस्ति । यथा त्वम् विषात् अहतशक्तिः (अस्ति) तथैव अहम् (अपि) विषादहतशक्तिः अस्मि कष्टम् तु एतत्-त्वम्
शिवः (असि) विधिक्षतः अहम् अशिवः अस्मि ।

कण्ठे विषं वसति मे विषमं तवेव भूतेश्वरः पशुपतिश्च भवानिवाऽहम् । अङ्गं ममापि
गुरुरुग्जवलितं तवेव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९७ ॥

अन्वय-हे विभो ! यथा तव कण्ठे विषमम् विषम् [कालकूटम्] वसति तथा मे कण्ठे (अपि) विषमम् विषं
[मात्सर्यरूपम्] वसति । यथा भवान् भूतेश्वरः पशुपतिः च असि तथैव अहमपि भूतेश्वरः
[लक्षणया महोग्राणां अग्रणीः] पशुपतिः [उपचारेण-अज्ञानां पतिः] अस्मि । यथा तव अङ्गम् गुरु-रुग्
ज्वलितम् [गुर्वी या रुक् कान्तिः तया दीप्तम्] अस्ति तथैव ममापि अङ्गं गुरुरुग्ज्वलितम् [महाव्याधिदग्धम्]
अस्ति किन्तु कष्टमेतत्-त्वम् शिवः असि विधिक्षतः अहम् तु अशिवः (अस्मि) ।

स्वर्भानुगीर्णमिव पूर्णशशाङ्कबिम्बं बालाङ्गनाङ्गमिव दारुणरुग्विरुग्णम् ।
श्रीखण्डचन्दनमिवाऽजगरोपगूढं व्यूढं नृपस्य पिशुनैरिव पादमूलम् ॥ ९८ ॥

हालाहलाक्तमिव दुग्धमहाब्धिनीरं तीरं महामकररुद्धमिव द्युसिन्धोः । दारिद्र्यदग्धमिव
साधुगृहस्थवृत्तं चित्तं समत्सरमिव श्रुतविश्रुतस्य ॥ ९९ ॥

विद्याविहीनमिव सत्कुलजस्य रूपं निर्दानभोगमिव कापुरुषस्य वित्तम् ।
मानुष्यमुज्ज्वलकुल-श्रुत-शीलशुद्धं जातं विपद्विधुरितं मम शोचनीयम् ॥ १०० ॥ (तिलकम्)

अन्वय-स्वर्भानुगीर्णम् पूर्णशशाङ्कबिम्बम् इव दारुणरुग्विरुग्णम् बालाङ्गनाङ्गम् इव अजगरोपगूढम्
श्रीखण्डचन्दनम् इव पिशुनैः व्यूढम् नृपस्य पादमूलम् इव हालाहलाक्तम् दुग्धमहाब्धिनीरम् इव
महामकररुद्धम् द्युसिन्धोः तीरम् इव दारिद्र्यदग्धम् साधुगृहस्थवृत्तम् इव श्रुतविश्रुतस्य समत्सरम्
चित्तम् इव सत्कुलजस्य विद्याविहीनम् रूपम् इव कापुरुषस्य निर्दानभोगम् वित्तम् इव
उज्ज्वलकुलश्रुतशीलशुद्धम् (अपि इदम्) मम मानुष्यम् विपद्विधुरितम् सत् शोचनीयम् जातम् ।

पश्चात्पुरः प्रतिदिशं च विमृश्य पश्य- न्क्रूरं कृतान्तहतकं फणिपाशपाणिम् । भूमौ पतामि
कृपणं प्रलपामि पाद- पीठे लुठामि शठवत्कठिनोऽसि कस्मात् ॥ १०१ ॥

अन्वय-हे विभो ! पश्चात् पुरः प्रतिदिशम् च विमृश्य क्रूरम् फणिपाशपाणिम् कृतान्तहतकम् (दुष्टंयमम्)
पश्यन् (अहम्) भूमौ पतामि कृपणम् प्रलपामि (तव) पादपीठे लुठामि । (तथापि) त्वम् शठवत्
कठिनः कस्मात् असि ?

आः किं न रक्षसि नयत्ययमन्तको मां हेलावलेपसमयः किमयं महेश । मा नाम भूत्करुणया हृदयस्य
पीडा व्रीडापि नास्ति शरणागतमुज्झतस्ते ॥ १०२ ॥

अन्वय-हे महेश ! अयम् अन्तकः (हठात्) माम् नयति आः (त्वम्) माम् किं न रक्षसि ? किम् अयम्
हेलावलेपसमयः (अस्ति ?) नाम करुणया (तव) हृदयस्य पीडा मा भूत् (परन्तु) शरणागतम् (माम्)
उज्झतः ते व्रीडा अपि नास्ति !


जलधर इव गर्जितं वितन्वन्नयमयमागत एव पाशहस्तः । शरणमशरणस्य को दयालो !

मम कृपणस्य दयां कुरु त्वमत्र ॥ -------------- अज्ञोऽसि किं किमबलोऽसि किमाकुलोऽसि व्यग्रोऽसि किं
किमघृणोसि किमक्षमोऽसि । निद्रालसः किमसि किं मदघूर्णितोऽसि क्रन्दन्तमन्तकभयार्त्तमुपेक्षसे यत् ॥
१०३ ॥

अन्वय-प्रभो (त्वं) किं अज्ञः (परपीडाऽनभिज्ञः) असि ? किम् अबलः
(=ईदृशसङ्कटस्थशरणागतसंरक्षणसामर्थ्यहीनः) असि ? किम् वा व्यग्रः असि ? किम् अघृणः असि ?
किंवा अक्षमः असि ? किंवा निद्रालसः असि ? किम् मदघूर्णितः असि ? यत् (ईदृशम्) क्रन्दन्तम् (अपि माम्)
अन्तकभयार्तम् उपेक्षसे ।


किं सुप्तोसि किमाकुलोसि जगतः सृष्टस्य रक्षाविधौ । किं वा निष्करुणोसि नूनमथवा

क्षीवः स्वतन्त्रोसि किम् । किं वा मादृशनिःशरण्यकृपणाऽभाग्यैर्जडोऽवागसि स्वामिन्यन्न शृणोषि मे
विलपितं यन्नोत्तरं यच्छसि ॥ -------------

द्वेषः किमेष कृपणे किमुताऽक्षमेयं निस्त्रिंशता किमथवा किमशक्तिरेव ।
हुङ्कारमात्रकनिराकरणीयगर्वे सर्वेश कालहतके यदियत्युपेक्षा ॥ १०४ ॥

अन्वय-अयि सर्वेश ! (मयि) कृपणे एषः द्वेषः किम् ? उत इयम् अक्षमा किम् ? निस्त्रिंशता किम् ? अथवा
अशक्तिः एव किम् ? यत् (केवलम्) हुङ्कारमात्रकनिराकरणीयगर्वे कालहतके (अपि) इयती उपेक्षा (भवति) ?

इत्यादि दूढ्य इव निष्ठुरपुष्प्तभाषी यत्किञ्चन ग्रहगृहीत इवाऽस्तशङ्कः । आर्त्या
मुहुर्मुहुरयुक्तमपि ब्रवीमि तत्रापि निष्कृप भिनत्सि न मौनमुद्राम् ॥ १०५ ॥

अन्वय-दूढ्यः इव निष्ठुरपुष्टभाषी ग्रहगृहीतः इव अस्तशङ्कः (अहम्) आर्त्या मुहुर्मुहुः अयुक्तम् अपि
इत्यादि यत्किंचन ब्रवीमि तत्राऽपि हे निष्कृप ! (त्वम्) मौनमुद्राम् न भिनत्सि ?

भीते भवार्तिविधुरे चरणावलग्ने भग्नेप्सिते गतिमपश्यति कांचिदन्याम् । कस्मादनागसि मनागसि
विश्वसाक्षि- न्दाक्षिण्यदिग्धहृदयोपि पराङ्मुखस्त्वम् ॥ १०६ ॥

अन्वय-अयि विश्वसाक्षिन् ! भीते भवार्तिविधुरे चरणावलग्ने भग्नेप्सिते तथा कांचित् अन्याम् गतिम् अपश्यति
अनागसि (मयि) दाक्षिण्यदिग्धहृदयः अपि त्वम् मनाक् (अपि) पराङ्मुखः कस्मात् असि ?

स्वामिन्निसर्गमलिनः कुटिलश्चलोऽह- मेतादृगेव च रिपुर्मम मृत्युपाशः । भ्रूपल्लवस्तव तथाविध एव
तस्य शान्त्यै विषे हि विषमे विषमेव पथ्यम् ॥ १०७ ॥

अन्वय-हे स्वामिन् ! अहम् निसर्गमलिनः कुटिलः चलः च अस्मि मम रिपुः मृत्युपाशः च एतादृक् एव अस्ति ।
तथाविध एव (निसर्गमलिनः कुटिलः चलः च) तव भ्रूपल्लवः तस्य (मम रिपोर्मृत्युपाशस्य) शान्त्यै
(क्षमः अस्ति) हि-विषमे विषे विषम् एव पथ्यम् (भवति) ।

किं कार्यमेभिरनिशं पुनरुक्तशुक्तै- रुद्वेगकारिभिरलब्धफलैः प्रलापैः । एवं विदन्नपि मुहुर्मुखरं
विरौमि पश्यामि न त्वदितरं हि परं शरण्यम् ॥ १०८ ॥


दुःखितस्य बहुदुःखसंचयैर्दुःखमुग्रमपि किं करिष्यति । नाहिफेनमहिफेनसेविनः क्वापि

दुर्जरतरं भविष्यति ॥ --------------

अन्वय-हे विभो ! पुनरुक्तशुक्तैः उद्वेगकारिभिः अलब्धफलैः एभिः प्रलापैः अनिशम् किम् कार्यम् ? एवम्
विदन् अपि अहम् मुहुः मुखरम् विरौमि हि त्वदितरम् परम् शरण्यम् न पश्यामि ।

त्वं चेत्प्रसादसुमुखः प्रणयोक्तिभिः किं त्वं चेदनादरपरः प्रणयोक्तिभिः किम् । भाग्योदये सति
वृथैव गुणेषु यत्न- स्तस्मिन्नसत्यपि वृथैव गुणेषु यत्नः ॥ १०९ ॥

अन्वय-हे नाथ ! त्वम् चेत् प्रसादसुमुखः (भवसि) तर्हि प्रणयोक्तिभिः किम् ? तथा त्वम् चेत् अनादरपरः
(भवसि) तर्हि प्रणयोक्तिभिः किम् (भवति ?) (दृष्टं चैतत्-) भाग्योदये सति गुणेषु यत्नः वृथैव
(भवति) तस्मिन् असति अपि गुणेषु यत्नः वृथैव (भवति) ।

जानन्नपीति विरमामि न यत्प्रलापा- दार्त्तेर्महेश महिमैष दृशस्तवैव । या रात्रिमेव दिवसं तिमिरं
प्रकाश- मग्निं हिमं गरलमप्यमृतं करोति ॥ ११० ॥

अन्वय-हे महेश ! इति (पूर्वोक्तप्रकारेण) जानन् अपि (अहम्) यत् (अस्मात्) प्रलापात् न विरमामि एषः तव
दृशः इव (मम) आर्तेः (एव) महिमा (अस्ति) या रात्रिम् एव दिवसं करोति तिमिरम् (अपि) प्रकाशम् करोति अग्निम्
(अपि) हिमम् करोति गरलम् (अपि) अमृतम् करोति ।


अरिर्मित्रं विषं पथ्यमधर्मो धर्मतामियात् । अनुकूले जगन्नाथे विपरीते विपर्ययः ॥



आर्त्तिः श्रुतैव कृपणात्करुणां तवान्त- रुत्पादयत्यनिशमग्निशिखां शमीव । जातैव निर्दहति
तामियमित्यमुत्र किं ब्रूमहे महदनङ्कुशमीश्वरस्य ॥ १११ ॥

अन्वय-प्रभो कृपणात् श्रुता एव (श्रुतमात्रैव) आर्तिः तव (दयालोः) अन्तः शमी अग्निशिखाम् इव अनिशम्
करुणाम् उत्पादयति तथा इयम् (करुणा) जाता एव (जातमात्रैव) ताम् (दीनजनार्तिम्) निर्दहति । इति (हेतोः)
अमुत्र (अस्मिन् विषये) ईश्वरस्य महत् अनङ्कुशम् (वयम्) किम् ब्रूमहे ?

यन्नाम पामरजनोचितमत्र किञ्चि- दौचित्यमुक्तमसमञ्जसमभ्यधायि । तत्रापि भर्तुरुचिता
रुचिरीश्वराणां चेतश्चमत्कृतिकरी कपिझम्पिकाऽपि [एव] ॥ ११२ ॥

अन्वय-हे विभो ! अत्र (स्तुतिकुसुमाञ्जलौ) यत् किञ्चित् पामरजनोचितम् औचित्यमुक्तम् असमञ्जसम् अभ्यधायि नाम
तत्रापि (मादृशपामरजनविरचितस्तुतिवचनेऽपि) भर्तूः (स्वामिस्तव) रुचिः उचिता (युक्ता एव) दृष्टं
चैतत्-कपिझम्पिका अपि ईश्वराणाम् (स्वतन्त्राणां प्रभूणाम्) चेतश्च मत्कृतिकरी (भवत्येव) ।

चौरैर्गृहीतमपि दष्टमपि द्विजिह्वै- र्ग्रस्तं ग्रहैरपि निरुद्धमपि द्विषद्भिः । व्याघ्रैरुपद्रुतमपि
द्रुतमाक्षिपद्भि- रन्विष्टमप्यवनिभृत्पुरुषैः सरोषैः ॥ ११३ ॥

भूताऽभिभूतमपि सिन्धुजलेऽपि मग्नं भग्नं रणेऽपि पतितं दवपावकेऽपि । किं भूयसा
यमभटैरपि कृष्यमाणं कस्त्रातुमर्हति महेश्वरमन्तरेण ॥ ११४ ॥ (युग्मम्)

अन्वय-चौरैः गृहीतम् अपि द्विजिह्वैः दष्टम् अपि ग्रहैः (ब्रह्मराक्षसवेतालादिभिः) ग्रस्तम् अपि
द्विषद्भिः निरुद्धम् अपि द्रुतम् आक्षिपद्भिः व्याघ्रैः उपद्रुतम् अपि सरोषैः अवनिभृत्पुरुषैः अन्विष्टम्
अपि भूताभिभूतम् अपि सिन्धुजले मग्नम् अपि रणे भग्नम् अपि तथा दवपावके पतितम् अपि भूयसा (बहूक्तेन)
किम् ? (एतेभ्योऽप्यतिसङ्कटं महाभयम्-) यमभटैः अपि कृष्यमाणम् (आर्त्तजनम्) त्रातुम् (केवलम्
करुणासिन्धुम्) महेश्वरम् अन्तरेण (अपरः) कः अर्हति ?

तज्ज्ञो बतास्म्यभिलषन् सुखमक्षयं य- द्दुःखैकधाम वपुरस्थिरमर्थयामि । यद्वा भवाब्धितरणाय
पुराणमुग्र- शीलं पुमांसमुडुपार्धधरं श्रयामि ॥ ११५ ॥

अन्वय-बत ! (अहम्) तज्ज्ञः अस्मि ? (विचक्षणोऽस्मि ?) यत् (अहम्) अक्षयम् सुखम् अभिलषन् दुःखैकधाम
अस्थिरम् वपुः अर्थयामि । यद्वा भवाब्धितरणाय उग्रशीलम् पुराणम् पुरुषम् उडुपार्धधरम् श्रयामि !

दृङ्मार्गमात्रपतिताः सहसैव यस्य पञ्चत्वमिन्दुरविहव्यभुजोऽप्यवापुः । धीमानहं बत तमेव
सदाशिवं य- द्देवं श्रयामि शरणं-मरणार्त्तिभीरुः ॥ ११६ ॥

अन्वय-यस्य दृङ्मार्गमात्रपतिताः इन्दु-रवि-हव्यभुजः अपि सहसा एव पञ्चत्वम् (पञ्चसङ्ख्यावत्त्वम् अथ
च मरणमपि) अवापुः बत ! अहम् धीमान् यत् मरणार्तिभीरुः सन् तम् एव देवम् सदाशिवम् शरणम् श्रयामि
!

स्थाणुः स यत्र विभुरस्य वधूरपर्णा सा यत्र यत्र च तयोस्तनयो विशाखः । प्रज्ञावतामहमहो
प्रवरः प्रवेष्टु- मिच्छामि धाम तदभीष्टफलाप्तये यत् ॥ ११७ ॥

अन्वय-यत्र (धामनि) सः स्थाणुः विभुः (अस्ति) यत्र च अस्य (स्थाणोः) वधूः सा अपर्णा यत्र च तयोः
तनयः विशाखः (अस्ति) अहम् यत् अभीष्ट-फलाप्तये तत् धाम प्रवेष्टुम् इच्छामि तत् अहम् प्रज्ञावताम्
प्रवरः (अस्मि) ?

मार्जारशूकरशृगाल-करालवक्त्र- वेतालभूतशतसङ्कुलमीश्वरस्य । भीष्मं निशाचरपिशाचरवैः
प्रवेष्टु- मिच्छामि धाम मतिमानतिमात्रभीरुः ॥ ११८ ॥

अन्वय-अतिमात्रभीरुः (सन् अहम्) मार्जार-शूकर-शृगाल-कराल-वक्त्रवेतालभूतशतसङ्कुलम्
निशाचरपिशाचरवैः भीष्मम् ईश्वरस्य धाम प्रवेष्टुम् इच्छामि (तदहं) मतिमान् अस्मि ।

कर्णेक्षणादचरणात्त्रिफणात्कृतान्त- पाशात्त्रसन्धृतसहस्रफणोरगेन्द्रम् । प्राज्ञः सहस्रशिरसं
पुरुषं सहस्र- नेत्रं सहस्रचरणं शरणं श्रयामि ॥ ११९ ॥

अन्वय-अहम् प्राज्ञः यत् कर्णेक्षणात् अचरणात् त्रिफणात् कृतान्तपाशात् त्रसन् धृतसहस्रफणोरगेन्द्रम्
सहस्रशिरसम् सहस्रनेत्रम् सहस्रचरणम् पुरुषम् शरणम् श्रयामि ।

त्रस्तः समस्त-जनताऽपहृतिप्रगल्भा- द्दीप्ताऽनलोल्बणदृशः शिव जीवितेशात् । प्राज्ञः
समस्तजनतापहृतिप्रगल्भं त्वां जीवितेशमनलोग्रदृशं श्रयामि ॥ १२० ॥

अन्वय-हे शिव ! समस्तजनताऽपहृतिप्रगल्भात् दीप्तानलोल्बणदृशः जीवितेशात् (कालात्) त्रस्तः (अहम्)
प्राज्ञः समस्तजन-तापहृतिप्रगल्भम् अनलोग्रदृशम् त्वाम् जीवितेशम् आश्रयामि ।

निर्भर्त्सितक्रतुमृगं समशिश्रियत्त्वां संन्यस्तलाञ्छनमृगः कलया मृगाङ्कः । यत्कामवैरिणमवेत्य
सकाम एव त्वामाश्रितोऽस्मि सुधियामधिकस्ततोऽहम् ॥ १२१ ॥

अन्वय-हे विभो ! निर्भर्त्सितक्रतुमृगम् त्वाम् मृगाङ्कः संन्यस्तलाञ्छनमृगः सन् कलया (वृद्धिरूपेण
व्याजेन च) समशिश्रियत् (तद्युक्तमेवेत्यर्थः) यत् (तु) कामवैरिणम् (त्वाम्) अवेत्य सकामः एव (साभिलाष
एव) त्वाम् आश्रितः अस्मि ततः अहम् सुधियाम् (मध्ये) अधिकः ?

पद्माश्रितः शतधृतिश्चतुराननोऽपि यस्मात्पराभवमवापदवाच्यमेव । त्यक्तः श्रिया
गतधृतिर्मृदुमन्दवक्त्रः प्राज्ञस्तमीश्वरमनुग्रहमर्थयेऽहम् ॥ १२२ ॥

अन्वय-पद्माश्रितः शतधृतिः चतुराननः अपि (ब्रह्माऽपि) यस्मात् (ईश्वरात्) अवाच्यम् एव पराभवम्
अवापत् अहम् प्राज्ञः (तद्विपरीतः) श्रिया त्यक्तः गतधृतिः मृदु मन्दवक्त्रः सन् तम् ईश्वरम् अनुग्रहम्
अर्थये ।

आजन्म कर्म विरचय्य फलं यदाप्तं हृत्त्वा क्षणात्तदखिलं चिरकालभोग्यम् । यः
स्वीकरोत्यपुनरागमनाय भक्तं सेवे तमीश्वरमहो मतिमत्तमोऽहम् ॥ १२३ ॥

अन्वय-(भक्तेन) आजन्म कर्म विरचय्य यत् (शुभाशुभम्) फलम् आप्तम् तत् चिरकालभोग्यम् अखिलम् क्षणात्
हृत्वा यः भक्तम् अपुनरागमनाय स्वीकरोति अहो ! अहम् मतिमत्तमः तम् ईश्वरम् सेवे । ---------------
तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चो हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः । ततो
भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥




श्मशानैकस्थानव्यसनमनलोत्तालनयनं विषज्ज्योतिर्ज्वालाजटिलकुटिलव्यालवलयम् । विभुं
मुण्डश्रेणी-विकटमुकुटं भीरुहृदयः श्रयन् भीमं धीमानहमहसनीयः कृतधियाम् ॥ १२४ ॥

अन्वय-श्मशानैकस्थानव्यसनम् अनलोत्तालनयनम् विषज्योतिर्ज्वालाजटिलकुटिलव्यालवलयम्
मुण्डश्रेणीविकटमुकुटम् भीमम् (अतिभयानकम्) विभुम् श्रयन् भीरुहृदयः अहम् धीमान् कृतधियाम्
अहसनीयः ।

अहो तत्त्वज्ञोहं करतलविलीनैकफणिनः समुत्त्रस्यन्कालात्क्रमकवलितैकैकभविनः । महाकालं
सर्वावयवसुलभानल्पभुजगं सकृद्विश्वग्रासप्रवणमतिमभ्येमि शरणम् ॥ १२५ ॥

अन्वय-अहो ! करतलविलीनैकफणिनः क्रमकवलितैकैकभविनः कालात् समुत्त्रस्यन् अहम् (यत्)
सर्वावयवसुलभानल्पभुजगम् सकृद्विश्वग्रासप्रवणमतिम् महाकालम् शरणम् अभ्येमि (तत्) अहम् तत्त्वज्ञः
अस्मि ।

शृङ्गी यत्र स्फटिकशिखरी यत्र शृङ्गी पिनाकः शृङ्गी सोऽपि स्फुरति वृषभो वल्लभो यत्र भर्तुः
। तत्र त्रस्तः प्रकृतिसरलः स्वल्पवागप्रगल्भः प्राज्ञः सेवासमयमुचितं स्वामिनः प्रार्थयेऽहम् ॥
१२६ ॥

अन्वय-यत्र भर्त्तुः वल्लभः स्फटिकशिखरी शृङ्गी (पर्वतः अथ च गर्वी) यत्र च भर्तुः वल्लभः
पिनाकः (अपि) शृङ्गी (शृङ्गनिर्मितः गर्वी च) यत्र च भर्तुः वल्लभः सः वृषभः अपि शृङ्गी
(शृङ्गद्वयवान् दर्पी च) स्फुरति तत्र (महाराजद्वारि) त्रस्तः प्रकृतिसरलः स्वल्पवाक् अप्रगल्भः अहम्
प्राज्ञः समुचितम् सेवासमयम् स्वामिनः प्रार्थये ।

विश्रान्तिर्न क्वचिदपि विपद्ग्रीष्मभीष्मोष्मतप्ते चित्ते वित्ते गलति फलति प्राक्प्रवृत्ते कुवृत्ते ।
तेनात्यन्धं सपदि पतितं दीर्घदुःखान्धकूपे मामुद्धर्त्तुं प्रभवति भव त्वां दयाब्धिं विनाकः ॥
१२७ ॥

अन्वय-हे विभो ! वित्ते गलति प्राक्प्रवृत्ते कुवृत्ते फलति (सति) विपद्ग्रीष्मभीष्मोष्मतप्ते चित्ते क्वचित् अपि
विश्रान्तिः न अस्ति तेन अत्यन्धम् सपदि दीर्घदुःखान्धकूपे पतितम् माम् उर्द्धर्त्तुम् हे भव ! त्वाम् दयाब्धिम्
विना कः प्रभवति ?

प्. ३५५)

येषामेषा तनुधनलवप्रार्थनाऽनर्थकन्था पन्थानं न प्रदिशति परं स्थानमानन्दि लब्धुम् ।
तेषामेषामकृपण कृपाभाजनानां जनाना- माशापाशाकुलितमनसां दृष्टिमिष्टां निधेहि ॥ १२८ ॥

अन्वय-हे अकृपण ! एषा तनुधनलवप्रार्थनानर्थकन्था येषाम् परम् आनन्दि स्थानम् लब्धुम् पन्थानम् न
प्रदिशति तेषाम् एषाम् (अस्मल्लक्षणानाम्) कृपाभाजनानाम् आशापाशाकुलितमनसाम् जनानाम् इष्टाम्
दृष्टिम् निधेहि ।

उदञ्चय मुखं मनागभयघोषमुद्घोषय प्रयच्छ विशदां दृशं गतिविहीनमाश्वासय
[धृतिविहीनमित्यपि] । किमन्यदयमागतः कुपितदृष्टिरुत्कन्धरः कृतान्त इति मा स्म
भूरविरलावलेपालसः ॥ १२९ ॥

अन्वय-हे विभो ! मनाक् मुखम् उदञ्चय अभयघोषम् उद्घोषय विशदाम् दृशम् प्रयच्छ गतिविहीनम् आश्वासय
। किम् अन्यत् (वच्मि) अयम् उत्कन्धरः कुपितदृष्टिः कृतान्तः आगतः इति अविरलावलेपालसः मा स्म भूः ।

मुहुः किमपरं ब्रुवे भुजगपाशपाणिं पुरः स्फुरन्तमिव रोषणं रविजकिङ्करं पश्यतः ।
धृतिश्चलति मे गतिः स्खलति मूर्तिरुद्वेल्लति स्थितिर्ज्वलति निर्वृतिर्विगलति स्मृतिर्मीलति ॥ १३० ॥ अन्वय-हे
विभो ! मुहुः किम् अपरम् ब्रुवे रोषणम् भुजगपाशपाणिम् रविजकिङ्करम् पुरः स्फुरन्तम् इव पश्यतः मे
धृतिः चलति गतिः स्खलति मूर्तिः उद्वेल्लति स्थितिः ज्वलति निर्वृतिः विगलति स्मृतिः मीलति ।


त्रैलोक्योद्धरणैकदक्ष करुणासिन्धो वतेमं जनं त्वं

श्वेताऽभयदानविश्रुतयशःस्तोमो न चेद्रक्षसि । क्रुद्ध्यत्कालकरालहुङ्कृतिपरित्रस्तोऽहमुच्चैस्तरा-
मब्रह्मण्यमुदीरयाम्यशरणः स्वामिन्नये कं प्रति ॥ ---------------------

दुर्गं यत्सुगमत्वमेति भजते दूरं यदभ्यर्णतां यत्क्रीडोपवनत्वमेति मरुभूर्मित्रायते यद्रिपुः ।
यस्याः सा भुवि शक्तिरप्रतिहता सार्त्तिस्त्वदाक्रन्दने स्वामिन्मामनुदत्कृपाऽपि नुदतु त्वां मत्समाश्वासने
॥ १३१ ॥

अन्वय-यत् (यस्याः आर्त्तेः सामर्थ्यात्) दुर्गम् सुगमत्वं एति यत् दूरम् अभ्यर्णताम् भजते यत् (सामर्थ्यात्)
मरुभूः क्रीडोपवनत्वम् एति यत् रिपुः (अपि) मित्रायते भुवि सा यस्याः शक्तिः अप्रतिहता (दुर्निवारा)
(अस्ति) सा आर्त्तिः त्वदाक्रन्दने माम् अनुदत् हे स्वामिन् ! मत्समाश्वासने कृपा अपि त्वाम् नुदतु ।

द्वारि श्रीश्च सरस्वती च वसतः स्वामिंस्तवाऽस्तक्रुधौ मां तु श्रीर्भवदङ्घ्रिविष्टरतले
नित्यप्ररूढस्थितिम् । यावन्मात्रसरस्वतीपरिचयद्वेषादहासीदतो वह्निं दुर्वहमुद्वहामि हृदये
ग्लायन्नुदन्वानिव ॥ १३२ ॥

अन्वय-हे स्वामिन् ! अस्तक्रुधौ श्रीः सरस्वती च तव द्वारि वसतः किन्तु भवदङ्घ्रिविष्टरतले
नित्यप्ररूढस्थितिम् माम् तु यावन्मात्रसरस्वतीपरिचयद्वेषात् श्रीः अहासीत् अतः उदन्वान् इव ग्लायन् (अहम्)
हृदये दुर्वहम् वह्निम् उद्वहामि ।

नाथ प्राथमिकं विवेकरहितं तिर्यग्वदस्तं वय- स्तारुण्यं विहतं
विराधितवधूविस्रम्भणारम्भणैः । स्वामिन्संप्रति जर्जरस्य जरसा यावन्न धावन्नयं मृत्युः
कर्णमुपैति तावदवशं पादाश्रितं पाहि माम् ॥ १३३ ॥

अन्वय-हे नाथ ! (मया) प्राथमिकम् वयः तिर्यग्वत् विवेकरहितम् अस्तम् (अतिवाहितम्)
विराधितवधूविस्रम्भणारम्भणैः तारुण्यम् विहतम् (निर्नाशितम्) हे स्वामिन् ! सम्प्रति जरसा जर्जरस्य
(मम) धावन् अयम् मृत्युः यावत् कर्णम् न उपैति तावदेव अवशम् पादाश्रितम् माम् पाहि ।
आसीद्यावदखर्वगर्वकरणग्रामाभिरामाकृति- स्तावन्मोहतमोहतेन न मया श्वभ्रं पुरः प्रेक्षितम् ।
अद्याऽकस्मिकपातकातरमतिः कं प्रार्थये कं श्रये किं शक्नोमि करोमि किं कुरु कृपामात्मद्रुहं पाहि
माम् ॥ १३४ ॥

अन्वय-प्रभो ! यावत् (मम) अखर्वगर्वकरणग्रामाऽभिरामाकृतिः आसीत् तावत् मोहतमोहतेन मया पुरः
(स्थितम्) श्वभ्रम् न प्रेक्षितम् अद्य आकस्मिकपातकातरमतिः (अहम्) कम् प्रार्थये कम् श्रये किम् शक्नोमि किम्
करोमि ? हे विभो ! कृपाम् कुरु माम् आत्मद्रुहम् पाहि ।

जात्यन्धः पथि सङ्कटे प्रविचरन्हस्ताऽवलम्बं विना यातश्चेदवटे निपत्य विपदं तत्राऽपराधोऽस्य
कः । धिग्धिङ्मां सति शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सति स्निग्धे स्वामिनि मार्गदर्शिनि शठः
श्वभ्रे पतत्येव यः ॥ १३५ ॥

अन्वय-हे विभो ! जात्यन्धः (पुरुषः) सङ्कटे पथि हस्तावलम्बम् विना प्रविचरन् अवटे निपत्य चेत् विपदम्
यातः तर्हि तत्र अस्य कः अपराधः ? (सः निन्दापात्रं न भवतीत्यर्थः) तम् माम् धिक् धिक् (अस्तु) यः
शठः शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सति मार्गदर्शिनि स्निग्धे स्वामिनि च सति श्वभ्रे एव पतति !

त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रहर्तुं पथि द्रोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः
। यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु- स्तत्रापि प्रहरन्ति चेत्परिभवः कस्यैष
गर्हावहः ॥ १३६ ॥

अन्वय-यत्र विषमे पथि कश्चित् अपि त्राता नाऽस्ति तत्र द्रोग्धारः या पुरः (स्थितम्) श्वभ्रम् न
प्रेक्षितम्(वधकाः) यदि प्रहर्तुम् जाग्रति तर्हि तत्र कः प्रतिविधिः (प्रतीकारः) शक्यक्रियः ? यत्र (तु)
त्वम् करुणार्णवः त्रिभुवनत्राणप्रवीणः प्रभुः (त्राता असि) तत्राऽपि (आन्तराः कामक्रोधाद्याः)
द्रोग्धारः चेत् (शरणागतम्) प्रहरन्ति तर्हि एषः परिभवः कस्य गर्वावहः ? (प्रभो ! त्वमेवाऽत्र
विचारं कुर्वित्यर्थः) ।

किं शक्तेन न यस्य पूर्णकरुणा-पीयूषसिक्तं मनः किं वा तेन कृपावता परहितं कर्तुं समर्थो न
यः । शक्तिश्चास्ति कृपा च ते यमभयाद्भीतोऽपि दीनो जनः प्राप्तो निःशरणः पुरः परमतः स्वामी
स्वयं ज्ञास्यति ॥ १३७ ॥

अन्वय-यस्य (पुंसः) पूर्णकरुणासिक्तम् मनः न अस्ति तेन शक्तेन (अपि) किम् (भवति ?) यः परहितम् कर्तुम्
न समर्थः तेन कृपावता (दयालुनाऽपि) किम् ? हे विभो ! शक्तिः कृपा च ते (तवैव) अस्ति । यमभयात्
भीतः निःशरणः दीनः जनः अपि (तव) पुरः प्राप्तः अतः परम् स्वामी स्वयम् (एव) ज्ञास्यति ।

भृङ्गारे करपुष्करप्रणयिनि स्वर्निम्नगानिर्झरे सम्पूर्णे करुणारसे परिणतस्फारे तुषारत्विषि । अस्ति
स्वादु च शीतलं च सुलभं पीयूषमोषच्छिदे प्राप्तश्च प्रणयी पुरः परमतः स्वामी स्वयं
ज्ञास्यति ॥ १३८ ॥

अन्वय-हे स्वामिन् ! ओषच्छिदे करपुष्करप्रणयिनि भृङ्गारे स्वर्निम्नगानिर्झरे सम्पूर्णे करुणारसे
परिणतस्फारे तुषारत्विषि च स्वादु शीतलम् च सुलभम् च पीयूषम् अस्ति पुरः (अयम्) प्रणयी च प्राप्तः
अतः परम् स्वामी स्वयम् (एव) ज्ञास्यति ।

आर्त्तिः शल्यनिभा दुनोति हृदयं नो यावदाविष्कृता सूते लाघवमेव केवलमियं व्यक्ता खलस्याऽग्रतः
। तस्मात्सर्वविदः कृपाऽमृतनिधेरावेदिता सा विभो- र्यद्युक्तं कृतमेव तत्परमतः स्वामी स्वयम्
ज्ञास्यति ॥ १३९ ॥

अन्वय-शल्यनिभा आर्तिः यावत् (सहृदयाग्रे) नो आविष्कृता तावत् इयम् हृदयम् दुनोति खलस्य अग्रतः व्यक्ता
(सती) इयम् केवलम् (वक्तुः) लाघवम् एव सूते । तस्मात् सा (आर्तिः) सर्वविदः कृपामृतनिधेः विभोः (तव
पुरः) मया आवेदिता । यत् युक्तम् (आसीत्) तत् कृतम् एव अतः परम् स्वामी स्वयम् ज्ञास्यति ।

लेखाः सन्तु प्रसन्ना बुधसदसि शुचेरागमस्यास्तु लब्धि- र्मिथ्यादृष्टिश्च माभूदनुपधिरहतो
दीर्घकालोऽस्तु भोगः । सभ्याः सर्वेऽनुवृत्तिं विदधतु तदपि न्यायतो नास्ति मुक्तिः सम्यग्दर्शी प्रमाता
रचयति न भवानीश्वरश्चेद्विचारम् ॥ १४० ॥

अन्वय-बुधसदसि (देवसभायाम्) लेखाः (देवाः) प्रसन्नाः सन्तु तथा बुधसदसि (पण्डितसभायाम्)
शुचेः आगस्य लाभः अस्तु । मिथ्यादृष्टिः (अज्ञानं नास्तिकता च) च मा भूत् अनुपधिः अहतः
दीर्घकालः भोगः अस्तु सर्वे सभ्याः अनुवृत्तिम् (तदनुवर्तनम्) विदधतु । तदपि न्यायतः मुक्तिः (मोक्षः)
नाऽस्ति (यावत्) सम्यग्दर्शी स्वयम् प्रमाता भवानीश्वरः (शिवः) चेत् विचारम् न रचयति ।

जानुभ्यामुपसृत्य रुग्णचरणः को मेरुमारोहति श्यामाकामुकबिम्बमम्बरतलादुत्प्लुत्य गृह्णाति कः । को वा
बालिशभाषितैः प्रभवति प्राप्तुं प्रसादं प्रभो-रित्यन्तर्विमृशन्नपीश्वर बलादार्त्यास्मि वाचालितः
॥ १४१ ॥

अन्वय-हे ईश्वर ! रुग्णचरणः जानुभ्याम् उपसृत्य मेरुम् कः आरोहति ? (न कोऽपि) उत्प्लुत्य अम्बरतलात्
श्यामाकामुकबिम्बम् (चन्द्रबिम्बम्) कः गृह्णाति ? कः वा बालिशभाषितैः प्रभोः प्रसादम् प्राप्तुम्
प्रभवति ? इति अन्तः विमृशन् अपि (अहम्) आर्त्त्या (त्वत्स्तवने) बलात् वाचालितः (अस्मि) ।

धत्ते पौण्ड्रकशर्कराऽपि कटुतां कण्ठे चिरं चर्विता वैरस्यं वरनायिकाऽपि कुरुते सक्त्या भृशं
सेविता । उद्वेगं गगनापगाऽपि जनयत्यन्तर्मुहुर्मज्जनाद् विश्रद्धां मधुराऽपि पुष्यति कथा दीर्घेति
विश्रम्यते ॥ १४२ ॥

अन्वय-(यथा-) पौण्ड्रकशर्करा अपि चिरम् चर्विता (सती) कण्ठे कटुताम् धत्ते वरनायिका अपि सक्त्या
भृशम् सेविता (सती) वैरस्यम् कुरुते अन्तः मुहुः मज्जनात् गगनापगा अपि उद्वेगम् जनयति (तथैव-) मधुरा
अपि कथा दीर्घा (सती) विश्रद्धाम् पुष्यति इति (हेतोः) मया विश्रम्यते ।

इत्थं तत्तदनन्तसन्ततलसच्चिन्ताशतव्यायत- व्यामोहव्यसनावसन्नमनसा दीनं यदाक्रन्दितम् ।
तत्कारुण्यनिधे निधेहि हृदये त्वं ह्यन्तरात्माऽखिलं वेत्स्यन्तःस्थमतोऽर्हसि प्रणयिनः क्षन्तुं
ममाऽतिक्रमम् ॥ १४३ ॥

अन्वय-इत्थम् तत्तदनन्तसन्ततलसच्चिन्ताशतव्यायतव्यामोहव्यसनावसन्न-मनसा (मया) यत् दीनम् आक्रन्दितम्
हे कारुण्यनिधे ! तत् (सर्वम्) हृदये निधेहि हि त्वम् अन्तरात्मा अखिलम् अन्तःस्थम् वेत्सि अतः प्रणयिनः मम
अतिक्रमम् क्षन्तुम् अर्हसि ।

इति श्रीप्रेममकरन्दनाम्नीटीकोपेतं काश्मीरक-महाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो
महेश्वरस्य स्तुति-कुसुमाञ्जलौ दीनाक्रन्दनं नामैकादशं स्तोत्रम् ।

द्वादशं स्तोत्रम्

मखैरुपास्योऽपि नयज्ञसेव्यो निरामयोऽपि प्रथितोग्रशूलः । वेदप्रियोऽप्यश्रुतिवल्लभो यः श्रयामि तं
देवमचिन्यशक्तिम् ॥ १ ॥

अन्वय-यः (देवः) मखैः उपास्यः अपि नयज्ञसेव्यः निरामयः अपि प्रथितोग्रशूलः वेदप्रियः अपि
अश्रुतिवल्लभः (अस्ति) तम् अचिन्त्यशक्तिम् देवम् (अहम्) श्रयामि । ------------------- (१) शीतातपौ शरीरस्य
लोभमोहौ च चेतसः । प्रणस्य क्षुत्पिपासे द्वे षडूर्मीरहितः शिवः ॥ ---------------------

स्तुत्यस्त्वमेव स्तुतिकृत्त्वमेव स्तुतिस्त्वमेव त्वदृतेऽस्ति नान्यत् । इयं त्वविद्या यदहं स्तुवे त्वां स्तुत्येति
मिथ्या पृथगर्थबुद्धिः ॥ २ ॥

अन्वय-हे विभो ! स्तुत्यः त्वमेव (असि) स्तुतिकृत् त्वमेव (असि) स्तुतिः च त्वमेव (असि) त्वदृते अन्यत् न (किञ्चित्
अस्ति) यद् अहम् स्तुत्या त्वाम् स्तुवे इयम् मिथ्या पृथगर्थबुद्धिः तु अविद्या (अज्ञानमेव) ।

स्तौम्येव तत्रापि पुनः पुनस्त्वां नश्यत्यविद्या यदविद्ययैव । रजःप्ररूढं मुकुरे प्रमार्ष्टुं रजो
विना न ह्यपरोऽस्त्युपायः ॥ ३ ॥

अन्वय-तत्रापि (एवमेव सत्यपि) अहम् त्वाम् पुनः पुनः स्तौमि एव यत् अविद्या अविद्यया एव नश्यति हि मुकुरे
प्ररूढम् रजः प्रमार्ष्टुम् रजः विना अपरः उपायः न अस्ति ।

विजृम्भमाणे तमसि प्रगल्भे यथा भवासक्तमतिः स्थितोऽहम् । हतेऽपि तस्मिन्नुदितावबोधस्तथा
भवासक्तमतिर्भवेयम् ॥ ४ ॥

अन्वय-प्रगल्भे तमसि विजृम्भमाणे (सति) यथा (अहम्) भवासक्तमतिः (संसारासक्तबुद्धिः) स्थितः (अस्मि)
तथा तस्मिन् हते अपि उदिताऽवबोधः सन् भवासक्तमतिः (सदाशिवासक्तमतिः) भवेयम् ।

जगद्विधेयं ससुरासुरं ते भवान् विधेयो भगवन् कृपायाः । सा दीनताया नमतां विधेया
ममाऽस्त्ययत्नोपनतैव सेति ॥ ५ ॥

अन्वय-हे भगवन् ! ससुरासुरम् जगत् ते विधेयम् (अस्ति) भवान् कृपायाः विधेयः (अस्ति) सा (कृपा) नमताम्
दीनतायाः विधेया (अस्ति) सा (दीनता) मम अयत्नोपनता एव अस्ति ।

जाने न शैथिल्यमुपैष्यवश्यं ममार्तिभङ्गे भगव&स्तथापि । विज्ञप्यसे कर्म ममैव माभून्मयि
प्रसादप्रतिघस्तवेति ॥ ६ ॥

अन्वय-हे भगवन् ! (त्वम्) अवश्यम् मम (दीनस्य) आर्तिभङ्गे शैथिल्यम् न उपैषि (इत्यहम्) जाने तथापि
ममैव कर्म मयि तव प्रसादप्रतिघः माभूत् इति (हेतोः) त्वम् विज्ञप्यसे ।

पथ्यं च तथ्यं च भरक्षमं च स्निग्धं च मुग्धं च मनोहरं च । सलीलमुन्मील्य वचः प्रसन्नं
प्रपन्नमाश्वासय चन्द्रमौले ॥ ७ ॥

अन्वय-अयि चन्द्रमौले ! पथ्यम् तथ्यम् च भरक्षमम् च स्निग्धम् च मुग्धम् च मनोहरम् च सलीलम् प्रसन्नम्
वचः उन्मील्य माम् प्रपन्नम् आश्वासय ।

मधुद्रवार्द्रं विषमाहरामः पिण्डीनिगूढं बडिशं गिलामः । अन्तर्निविष्टोत्कटकण्टकौघं
ग्रसामहे पौण्ड्रक [पुण्ड्रकपिण्डखण्डम्] पिण्डखण्डम् ॥ ८ ॥

यदा मुखे कामधुरानजस्रं विपाकरूक्षान् विषयान् भजामः । विभो विदन्तोऽपि किमत्र कुर्मो जहाति सक्तिं
न मतिर्वराकी ॥ ९ ॥ (युग्मम्)

अन्वय-प्रभो ! (वयम्) यत् आमुखे कामधुरान् विपाकरूक्षान् विषयान् अजस्रम् भजामः (तदेतत्)
मधुद्रवार्द्रम् विषम् आहरामः पिण्डीनिगूढम् बडिशम् गिलामः अन्तर्निविष्टोत्कटकण्टकौघम्
पौण्ड्रकपिण्डखण्डम् ग्रसामहे । हे विभो ! (एवम्) विदन्तः अपि अत्र (विषये) वयम् किम् कुर्मः ? (इअय्म्
वराकी मतिः सक्तिम् (विषयेष्वासक्तिम्) न जहाति ।

मुक्तामया दीर्घगुणाः सुवृत्ता नैर्मल्यभाजो दधतः फलर्द्धिम् । कथं न हारा इव भक्तिमन्तः पदं
हृदीशस्य भजन्ति सन्तः ॥ १० ॥

अन्वय-भक्तिमन्तः सन्तः मुक्तामयाः दीर्घगुणाः सुवृत्ताः नैर्मल्यभाजः फलर्द्धिम् दधतः
भक्तिमन्तः (विच्छित्तियुक्ताः) हाराः इव ईशस्य हृदि पदम् (स्थानम्) कथम् न भजन्ति ।

गुहाश्रितो धर्मरतिर्गिरीशप्रथां दधानो भवतः प्रसादात् । सत्याहितप्रीतिरहीनभक्तिर्भवानिवाहं
भगवन् भवेयम् ॥ ११ ॥

अन्वय-हे भगवन् ! भवतः प्रसादात् अहम् भवान् इव गुहाश्रितः धर्मरतिः गिरीशप्रथाम् दधानः
सत्याहितप्रीतिः अहीनभक्तिः (कदा) भवेयम् ?

यमेकमाराध्य महारिसङ्गमादसंशयं भक्तजनः प्रमुच्यते । उपस्थितस्तस्य भवत्प्रसादतः कथं
हरेरुग्र महारिसङ्गमः ॥ १२ ॥

अन्वय-हे उग्र ! यम् एकम् (हरिम्) आराध्य भक्तजनः महारिसङ्गमात् असंशयम् प्रमुच्यते तस्य हरेः
भवत्प्रसादतः महारिसङ्गमः (सुदर्शनचक्रसंगमः) कथम् उपस्थितः ?

सुदुर्लभोऽयं भवति ग्रहः पुनर्मुखेऽप्यसौ सन्निहिता सरस्वती । इदं कुरुक्षेत्रमतीवपावनं
किमर्थमर्थिन्युचिते विलम्बसे ॥ १३ ॥

अन्वय-हे विभो ! भवति (त्वयि विषये) अयम् ग्रहः (मम भक्ति-सक्तिः) सुदुर्लभः (अस्ति) पुनः मम मुखे असौ
सरस्वती अपि सन्निहिता (अस्ति) अतः हे भगवन् ! इदम् क्षेत्रम् (माम्) अतीवपावनम् कुरु । उचिते अर्थिनि किमर्थम्
विलम्बसे ?

न कस्य सौभाग्यवती चमत्कृतिं दिशत्यसौ भाग्यवती सरस्वती । विभुं जितक्लेशमपि स्थिराजिनं करोति
यत्सम्मुखमस्थिराजिनम् ॥ १४ ॥

अन्वय-सौभाग्यवती भाग्यवती असौ सरस्वती (स्तुतिः) कस्य न चमत्कृतिम् दिशति ? यत् (इयम्) जितक्लेशम्
स्थिराजिनम् अस्थिराजिनं विभुम् अपि सम्मुखम् करोति ।

अनुज्झितानुत्तमदानसंपदः सदाखिलज्ञानविहीनचेतसः । अकालभीतिग्लपितान्करोति यः प्रभुः प्रसन्नः
कुपितश्च देहिनः ॥ १५ ॥

पुरा चिरं यो विदधे वनान्तरे विधुः पदं रूढकुरङ्गसौहृदः । सदा परस्वापहरोऽपि यो रविस्तयोः
समत्वं दृशि यस्य भासते ॥ १६ ॥

कथं विभो तस्य तव प्रवर्ततां सतामसेव्ये पथि पातितात्मसु । दयाविधेयस्य सदाऽस्मदादिषु
प्रसादपात्रेषु मनागनादरः ॥ १७ ॥ (तिलकम्)

अन्वय-यः प्रभुः प्रसन्नः सन् देहिनः अनुज्झितानुत्तमदानसम्पदः सदा अखिलज्ञान् अविहीनचेतसः
अकालभीतिग्लपितान् करोति तथा कुपितः च सन् देहिनः अनुज्झितानुत्तमदान् असंपदः सदा
अखिलज्ञानविहीनचेतसः अकालभीतिग्लपितान् करोति । रूढकुरङ्गसौहृदः यः विधुः (चन्द्रः) पुरा
चिरम् वनान्तरे (जलान्तरे) पदम् (स्थितिम्) विदधे यः रविः सदा परस्वापहरः अपि तयोः (चन्द्रसूर्ययोः)
समत्वम् यस्य दृशि भासते । हे विभो ! सदा दयाविधेयस्य तस्य (पूर्वोक्तस्य समदृष्टेः) तव सताम् असेव्ये
पथि पातितात्मसु अस्मदादिषु प्रसादपात्रेषु कथम् मनाक् अनादरः प्रवर्तताम् ?

विभो भवद्भालविलोचनाऽनलप्रसूतधूमैरिव साश्रुलोचनः । सघर्मलेशस्तव
दक्षिणेक्षणप्ररूढचण्डद्युतिभाभरैरिव ॥ १८ ॥

घनप्ररोहत्पुलकाङ्कुरो भवच्छिखण्डखण्डेन्दुकरोत्करैरिव ।
सदन्तवीणस्तुहिनौघशीतलत्वदुत्तमाङ्गद्युनदीजलैरिव ॥ १९ ॥

तरङ्गिताङ्गो भवदङ्गदस्फुरत्फणीन्द्रफूत्कारसमीरणैरिव । भवेयमानन्दसुधापरिप्लुतः
प्रसन्नमालोक्य भवन्तमग्रतः ॥ २० ॥ (तिलकम्)

अन्वय-हे विभो ! अग्रतः प्रसन्नम् भवन्तम् आलोक्य आनन्दसुधापरिप्लुतः सन् (अहम्)
भवद्भालविलोचनानलप्रसूतधूमैः इव साश्रुलोचनः तव दक्षिणेक्षणप्ररूढचण्डद्युतिभाभरैः
इव सघर्मलेशः भवच्छिखण्डखण्डेन्दुकरोत्करैः इव घनप्ररोहत्पुलकाङ्कुरः
तुहिनौघशीतलत्वदुत्तमाङ्गद्युनदीजलैः इव सदन्तवीणः
भवदङ्गदस्फुरत्फणीन्द्रफूत्कारसमीरणैः इव तरङ्गिताङ्ग (कम्पिताङ्गः) भवेयम् ।

यदेष सेहे परशुक्षतव्यथां प्रभोः प्रियः स्यामिति चन्दनद्रुमः । भुजङ्गमालिङ्गितकन्धरो द्रुवं
बिभर्ति साम्यं गिरिजापतेरतः ॥ २१ ॥

अन्वय-यत् एषः चन्दनद्रुमः (अहम्) प्रभोः प्रियः स्याम् इति (हेतोः) परशुव्यथाम् सेहे अतः (एव)
भुजङ्गमालिङ्गितकन्धरः (सन्) गिरिजापतेः साम्यम् ध्रुवम् बिभर्ति ।

यच्चक्रिरे धृतनखान्तनिपातपीडाः प्रीतिं प्रभोः सुमनसां सुमनस्त्वमेतत् । यत्स्वामिनो न दहनेऽपि
निपत्य सेवा- हेवाकमौज्झदगुरोरपि गौरवं तत् ॥ २२ ॥

अन्वय-(पूजार्थम् पुष्पावचयसमये) धृतनखान्तनिपातपीडाः सुमनसः यत् प्रभोः प्रीतिम् चक्रिरे एतत्
(एव) सुमनसाम् सुमनस्त्वम् । [अगुरुः च] यत् दहने अपि निपत्य स्वामिनः सेवाहेवाकम् न औज्झत् तत् अगुरोः अपि
गौरवम् ।

आदौ प्रदर्श्य परमामृजुतामथान्त- राविश्य मर्मणि न यन्निशितास्तुदन्ति । स्वामिन् शरा इव खलाः
कृतिनो वनेषु स त्वत्पदाम्बुजरजःकणजः प्रसादः ॥ २३ ॥

अन्वय-हे स्वामिन् ! आदौ परमाम् ऋजुताम् प्रदर्श्य अथ अन्तः आविश्य निशिताः शराः इव खलाः यत् वनेषु
(स्थितान्) कृतिनः न तुदन्ति सः त्वत्पदाम्बुजरजःकणजः प्रसादः (अस्ति) ।

त्वन्नाम पामरजनैरपि गीयमान- मानन्दमर्पयति यं हृदि भक्तिभाजाम् । स्वामिन्नमानवयवेष्वखिलेषु
नून- मुद्भिद्यते बहिरसौ पुलकच्छलेन ॥ २४ ॥

अन्वय-हे स्वामिन् ! (हालाकादौ) पामरजनैः अपि गीयमानम् त्वन्नाम भक्तिभाजाम् हृदि यम् आनन्दम् अर्पयति
नूनम् असौ (आनन्दः) अखिलेषु अवयवेषु (अङ्गेषु) अमान् (अवर्तमानः सन्) पुलकच्छलेन बहिः उद्भिद्यते ।

घर्मः प्रकम्पपुलकौ गिरि गद्गदत्व- मित्यादयोऽन्त्यसमये प्रभवन्त्यवस्थाः । त्वद्दर्शनात्कृतधियां
दधताममन्द- मानन्दमन्तकभयाद्भगवन् परेषाम् ॥ २५ ॥

अन्वय-हे भगवन् ! त्वद्दर्शनात् अमन्दम् आनन्दम् दधताम् कृतधियाम् अन्त्यसमये घर्मः प्रकम्पपुलकौ गिरि
गद्गदत्वम् इत्यादयः अवस्थाः प्रभवंति परेषाम् (अकृतधियां पापिनाम् तु) एताः अवस्थाः अन्तकभयात्
(मृत्युक्षणे) प्रभवन्ति ।

अन्त्यक्षणे भव भवच्चरणाब्जसेवा- हेवाकिनो दधति केचन कण्ठपीठे । भोगीन्द्रभोगमधिगम्य
भवद्गणत्व- मन्ये कृतान्तकरकोटरकोटिकृष्टम् ॥ २६ ॥

अन्वय-हे भव ! भवच्चरणाब्जसेवाहेवाकिनः केचन (विरलाः सुकृतिनः) अन्त्यक्षणे भवद्गणत्वम्
अधिगम्य कण्ठपीठे भोगीन्द्रभोगम् दधति अन्ये (पापिनस्तु) कृतान्तकरकोटरकोटिकृष्टम् दधति ।
भीताभयार्पणविधौ किल कालनाशं कर्तुं न यः क्षणमपि क्षमते कदापि । श्वेताभयार्पणपरस्य
कथं नु काल- नाशक्षमत्वमभवत्तव तस्य देव ॥ २७ ॥

अन्वय-हे देव ! यः (भवान्) भीताभयार्पणविधौ कालनाशम् कर्तुम् क्षणम् अपि कदापि न क्षमते किल ।
तस्य तव श्वेताऽभयार्पणस्य कालनाशक्षमत्वम् कथम् नु अभवत् ?

भङ्क्तुं न पारयति यः क्वचिदेव देव कामं कृपामृतमृदुस्तव दृष्टिपातः । उद्दामरोषपरुषः किल
कामभङ्ग- मङ्गीचकार कथमेष महेश पूर्वम् ॥ २८ ॥

अन्वय-हे देव ! कृपामृतमृदुः यः तव दृष्टिपातः (प्रह्वजनस्य) कामम् भङ्क्तुम् क्वचित् एव न पारयति
हे महेश ! एषः (एव) तव दृष्टिपातः उद्दामरोषपरुषः (सन्) कामभङ्गम् पूर्वम् कथम् अङ्गीचकार ?

किं मेरुमन्दरमुखा गिरयः शिरोभि- रत्युन्नतैर्दधति गर्वमखर्वमेते । एतत्तुषारकिरणाभरणप्रणाम-
प्रह्वं जगज्जयति मामकमुत्तमाङ्गम् ॥ २९ ॥

अन्वय-एते मेरुमन्दरमुखाः गिरयः अत्युन्नतैः शिरोभिः अखर्वम् गर्वम् किम् दधति ? एतत्
तुषारकिरणाभरणप्रणामप्रह्वम् मामकम् उत्तमाङ्गम् जगत् जयति ।

गात्रान्तरातिशयशंसि यदेतदुच्चै- र्नामोत्तमाङ्गमिति नाथ शिरो बिभर्ति । तद्युज्यते भव
भवच्चरणारविन्द- पीठप्रणामपरमस्य नमस्यमस्य ॥ ३० ॥

अन्वय-हे नाथ ! हे भव ! यत् एतत् शिरः गात्रान्तरातिशयशंसि उत्तमाङ्गम् इति उच्चैः नाम बिभर्ति तत्
भवच्चरणारविन्दपीठप्रणामपरमस्य अस्य नमस्यम् युज्यते (एव) ।

किं श्रीघनोऽप्यसुगतः किमुमाधवोऽपि न त्वं कदाचन जनार्दनतां बिभर्षि । स्वामिन् गजारिरपि किं
नगजा-प्रियस्त्वं स्वातन्त्र्यमस्ति यदि वा भवतः किमन्यत् ॥ ३१ ॥

अन्वय-हे स्वामिन् ! श्रीघनः अपि त्वम् असुगतः किम् उमाधवः अपि त्वम् जनार्दनताम् कदाचन न बिभर्षि किम् ?
गजारिः अपि त्वम् नगजाप्रियः किम् (भवसि) यदि वा भवतः स्वातन्त्र्यम् अस्ति किम् अन्यत् ब्रूमहे ।

अरुणद्युतिग्लपितशीतदीधितिप्रकटीकृतालिकमलं विलोक्य मे । भवतः प्रभातमिव भाललोचनं भजते
कदा नु विषमं शमं तमः ॥ ३२ ॥

अन्वय-(इव=यथा तथा) यथा-अरुणद्युतिग्लपितशीतदीधितिप्रकटीकृतालिकमलम् प्रभातम् विलोक्य विषमम्
तमः शमम् भजते तथा- अलम् (अत्यर्थम्) अरुणद्युतिग्लपितशीतदीधितिप्रकटीकृतालिकम् भवतः
भाललोचनम् विलोक्य मे विषमम् तमः शमम् कदा नु भजते ?

इति श्रीप्रेममकरन्दनाम्नीटीकोपेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो
महेश्वरस्य स्तुतिकुसुमाञ्जलौ तमःशमनं नाम द्वादशं स्तोत्रम्

त्रयोदशं स्तोत्रम्

अथ नुतिभिरमन्थराक्षराभिः सुजनमनोमृगवागुराभिराभिः ।
विभुमभयदमादरादरातिक्षपणपणप्रवणं प्रसादयामः ॥ १ ॥

अन्वय-अथ अमन्थराक्षराभिः सुजनमनोमृगवागुराभिः आभिः नुतिभिः अभयदम्
अरातिक्षपणपणप्रवणम् विभुम् आदरात् प्रसादयामः ।

सुरमुकुटविटङ्करत्नरोचिःखचितनखांकुरकेसराभिरामम् । पुरहरचरणारविन्दयुग्मं शिरसि विधत्त
किरीटवाञ्च्छया किम् ॥ २ ॥

अन्वय-अयि भावुकाः सुरमुकुटविटङ्करत्नरोचिःखरितनखाङ्कुरकेसराभिरामम् पुरहरचरणारविन्दयुग्मम्
शिरसि विधत्त किरीटवाञ्छया किम् (भवति) ?

कलयतु भवतामभग्नवृत्तिर्हरहरशङ्करशङ्करेति सूक्तिः । अविरलगलमण्डनप्रतिष्ठां
किममलमौक्तिकदामकामनाभिः ॥ ३ ॥

अन्वय-(अयि रसिका भावुकाः) अभग्नवृत्तिः हरहरशङ्करशङ्करेति सूक्तिः भवताम्
अविरलगलमण्डनप्रतिष्ठाम् कलयतु अमलमौक्तिकदामकामनाभिः किम् भवति ?

कलयत मणिकुण्डलेऽवलेपं श्लथयत निर्म्मलमल्लिकाभिलाषम् । हरचरितनुतिक्रमैरजस्रं कुरुत
नवश्रवणावतंसलीलाम् ॥ ४ ॥

अन्वय-अयि भक्तजनाः ! यूयम् मणिकुण्डले अवलेपं कलयत निर्मलमल्लिकाभिलाषम् श्लथयत अजस्रम्
हरचरितनुतिक्रमैः नवश्रवणावतंसलीलाम् कुरुत ।

इह विहतभवोपतापमापत्प्रशमसमर्थमनर्थनाशहेतुम् । नमति न मतिमानमानवीयप्रमदविधानपरं
परं हरं कः ॥ ५ ॥

अन्वय-इह विहतभवोपतापम् आपत्प्रशमसमर्थम् अनर्थनाशहेतुम् अमानवीयप्रमदविधानपरम् परम् हरम्
कः मतिमान् न नमति ? अपि तु सर्व एवेत्यर्थः ।

त्रिजगति भजति स्थितिं बुधानां धुरि दुरितक्षतिशिक्षितः स एकः ।
शशिशकलशिखामणिप्रणामप्रणयि बिभर्ती शिरश्चिरस्थिरं यः ॥ ६ ॥

अन्वय-य (भाग्यवान्) शशिशकलशिखामणिप्रणामप्रणयि शिरः चिरस्थिरम् बिभर्ति सः एकः
दुरितक्षतिशिक्षितः त्रिजगति (अपि) बुधानाम् धुरि स्थितिम् भजति ।

स जयति जगदीशशक्तिपातस्तव कवितुर्यदसक्तमुक्तिदेवी । रसमसमचमत्कृतिप्रसूतिं वितरति
काञ्चनसिद्धिमेति येन ॥ ७ ॥

अन्वय-हे जगदीश ! सः तव शक्तिपातः जयति (यस्मात्) उक्तिदेवी कवितुः असक्तम् असमचमत्कृतिप्रसूतिम् तम्
रसम् वितरति येन काम् च न सिद्धिम् एति (अपि तु सर्वामपि अणिमादिसिद्धिं एति) ।

इह विदधतु नाम पामराणां प्रणतिकृतामपरे प्रभुप्रतीतिम् । प्रभवति न तु मृत्युभीतिभङ्गे जगति
भवन्तमृतेऽमृतेश कश्चित् ॥ ८ ॥

अन्वय-अपरे (अन्ये लोकाः) प्रणतिकृताम् पामराणाम् प्रभुप्रतीतिम् (अयं नः स्वामीतिप्रतीतिम्) विदधतु
नाम । इह तु (सकलेऽपि) जगति हे अमृतेश ! भवन्तम् (प्रभुम्) ऋते मृत्युभीतिभङ्गे कश्चित् न प्रभवति ।


कृष्णाभ्रं मारितं येन पारदं च वशीकृतम् । द्वारमुद्घाटितं तेन कुबेरस्य

यमस्य च ॥ --------------------

वियदियति महस्विमण्डले कः श्रितवति कर्तुमनष्टचेष्टमीष्टे । विषमतमतमः प्रबन्धमन्धं
जगदगदं घृणिमन्तमन्तरेण ॥ ९ ॥

अन्वय-इयति (महति अपि) महस्विमण्डले वियत् (आकाशम्) श्रितवति (सति) विषमतम तमः प्रबन्धम् अन्धम्
जगत् अनष्टचेष्टम् अगदम् कर्तुम् (केवलम्) घृणिमन्तम् अन्तरेण कः ईष्टे ?

शकलितकलितर्षं सप्रकर्ष प्रकटितहर्ष महर्षभाधिरूढ । दिश
विशदमदभ्रमभ्रसिन्धुद्रवधवलं भवलङ्घनं प्रसादम् ॥ १० ॥

प्रभवति भवति प्रसादरम्यां दिशति दृशं न विभा विभावरीणाम् । सवितरि वितरिष्यति प्रकाशं नहि
महिमप्रभवो विभावरीणाम् ॥ ११ ॥ (युग्मम्)

अन्वय-अयि शकलितकलितर्ष ! अयि सप्रकर्ष ! हे प्रकटितहर्ष ! अयि महर्षभाधिरूढ ! अदभ्रम्
अभ्रसिन्धुद्रवधवलम् भवलङ्घनम् विशदम् प्रसादम् दिश भवति विभौ प्रसादरम्याम् दृशम् दिशति (सति)
अरीणाम् (कामादीनां बाह्यानां च) विभा न प्रभवति हि-सवितरि प्रकाशम् वितरिष्यति (सति)
विभावरीणाम् महिमप्रभवः न (भवति) ।

समुचितसदसद्विचारचर्याचतुरतरः कतरः कलौ मदन्यः । इह परमशिवं भवं विजेतुं परमशिवं
भवमेव सेवते यः ॥ १२ ॥

अन्वय-कलौ समुचितसदसद्विचारचर्याचतुरतरः मदन्यः कतरः (अस्ति) यः इह परम् अशिवम् भवम्
(संसारम्) विजेतुम् परमशिवम् भवम् एव सेवते ।

शमयितुमलमग्निमग्निरेव ग्लयपति हन्त हिमं हिमं विवृद्धम् । जरयति च पयः पयः किमन्य- द्धरति
भवं भव एव भक्तिभाजाम् ॥ १३ ॥

अन्वय-हन्त ! विवृद्धम् अग्निम्शमयितुम् अग्निः एव अलम् (भवति) विवृद्धम् हिमम् हिमम् (एव) ग्लपयति पयः
(अग्निना तप्तम् पय एव) पयः जरयति । अन्यत् किम् ? भक्तिभाजाम् भवम् (संसारम्) भव एव (शम्भुरेव)
हरति ।

वरमजिनजटाभृतः कपालप्रणयिकरस्य नरस्य भैक्ष्यवृत्तिः । स्मरहरचरणारविन्दसेवाविरहवती न
तु चक्रवर्तिमूर्तिः ॥ १४ ॥

अन्वय-अजिनजटाभृतः कपालप्रणयिकरस्य नरस्य भैक्ष्यवृत्तिः वरम् न तु
स्मरहरचरणारविन्दसेवाविरहवती चक्रवर्तिभूमिः (वरम् भवति) ।

मरुभुवि वरमुष्णरश्मिरश्मि-प्रकरकदर्थितमूर्तिरेकभेकः । न तु
भवदनुरागभागधेयग्लपनविपद्विकलीकृतो मनुष्यः ॥ १५ ॥

अन्वय-मरुभुवि उष्णरश्मिरश्मिप्रकरकदर्थितमूर्तिः एकभेकः वरम् (अस्ति) किन्तु हे विभो !
भवदनुरागभागधेयग्लपनविपद्विकलीकृतः मनुष्यः न वरम् ।

कलिमलपटली मलीमसत्वं नयति मतिं हतदर्प दर्पणाभाम् । इति शितिगल शीतरश्मि-प्रसरसितं
रसितं तवाऽर्थयामः ॥ १६ ॥

अन्वय-हे हतदर्प ! (इयम्) कलिमलपटलीदर्पणाभाम् मतिम् मलीमसत्वम् नयति इति (हेतोः) हे शितिकण्ठ !
शीतरश्मिरश्मिप्रसरसितम् तव रसितम् अर्थयामः ।

नुतिमुखरमुखः प्रसादपात्रं भवति ममेति यदैष ते कृतान्तः । अपि कवलितसप्तलोकलोकः प्रभवति
नैव तदैष मे कृतान्तः ॥ १७ ॥

अन्वय-प्रभो ! नुतिमुखरमुखः (पुरुषः) मम प्रसादपात्रम् भवति इति एषः (यदि) ते कृतान्तः
(सिद्धान्तः अस्ति) तदा कवलितसप्तलोकलोकः अपि एषः कृतान्तः (यमः) मे न प्रभवति (माम् त्रासयितुं
समर्थो न भवतीत्यर्थः)

तव रविजपुरान्धकप्रमाथे दृशि विशिखे त्रिशिखे च यः कृतास्थः । परिचरणपरः पुराविरासीत् स
जयति दैवतमुत्तमं कृशानुः ॥ १८ ॥

अन्वय-हे प्रभो ! रविजपुरान्धकप्रमाथे (क्रमेण) दृशि विशिखे त्रिशिखे च कृतास्थः (सन्) तव
परिचरणपरः यः (कृशानुः) पुरा आविरासीत् सः उत्तमम् दैवतम् कृशानुः जयति ।

समजनि जनितस्पृहः स एकस्त्रिजगति चन्द्रकिरीट कृष्णसारः । उपकरणपदं जगाम कृत्तिस्तव
चरणास्तरणक्रमेण यस्य ॥ १९ ॥

अन्वय-अयि चन्द्रकिरीट ! (त्वद्भक्त्यासक्तजनस्य) जनितस्पृहः सः (एव) एकः कृष्णसारः त्रिजगति
समजनि यस्य कृत्तिः तव चरणास्तरणक्रमेण उपकरणपदम् जगाम ।

जनिरपि जयति विनीतरीतिर्जगति भुजङ्गमपुंगवस्य तस्य । मणिकटकमुदस्य यस्य शस्यं भव
भवदङ्गदभङ्गिमेति भोगः ॥ २० ॥

अन्वय-हे भव ! जगति तस्य भुजङ्गमपुंगवस्य विनीतरीतिः जनिः अपि जयति यस्य भोगः शस्यम्
मणिकटकम् उदस्य भवदङ्गदभङ्गिम् एति ।

अलभत भगवन्नबन्ध्यमेकस्त्रिभुवनसीमनि जन्म पुङ्गवेन्द्रः । तव भव शवभस्मरूषितोंऽघ्रिः शिरसि
धृतो विनयानतेन येन ॥ २१ ॥

अन्वय-हे भगवन् ! भव ! त्रिभुवनसीमनि (सः) एकः पुङ्गवेन्द्रः अबन्ध्यम् जन्म अलभत विनयानतेन येन
तव शवभस्मरूषितः अंघ्रिः शिरसि धृतः ।

जनयति जगति स्पृहां न केषां जनिरपि कुञ्जरशेखरस्य तस्य । त्रिभुवनमहितस्य यस्य कृत्तिर्भव
भवदम्बरडम्बरं बिभर्ति ॥ २२ ॥

अन्वय-हे भव ! त्रिभुवनपूजितस्य तस्य कुञ्जरशेखरस्य जनि अपि जगति केषाम् (भक्तजनानाम्) स्पृहाम् न
जनयति ? यस्य कृत्तिः भवदम्बरडम्बरम् बिभर्ति ।

स जयति जितकाल कालकूटः स्वजनिपवित्रितमुग्धदुग्धसिन्धुः । तव कवलभुवं जवादवाप्तः कलयति
यःशितिकण्ठ कण्ठपीठम् ॥ २३ ॥

अन्वय-हे जितकाल ! शितिकण्ठ ! स्वजनिपवित्रितमुग्धदुग्धसिन्धुः सः कालकूटः जयति यः तव
कवलभुवम् जवात् अवाप्तः (सन्) कण्ठपीठम् कलयति ।

परिणतशरदिन्दुसुन्दराभं वदनमनभ्रनभोनिभश्च कण्ठः । इति शुभमुभयं
विभोरभिन्नत्रिदशधुनीयमुनाविडम्बि वन्दो ॥ २४ ॥

अन्वय-विभोः परिणतशरदिन्दुसुन्दराभम् वदनम् अनभ्रनभोनिभः कण्ठः च इति शुभम् उभयम्
अभिन्न-त्रिदशधुनीयमुनाविडम्बि वन्दे ।

हिमहिमकरहारि वारि गाङ्गं कुवलयकान्तिकलिन्दकन्यकाम्भः । इति शुभमुभयं प्रभुप्रसादाद्वपुरिव
हारिहरं वरं प्रपद्ये ॥ २५ ॥

अन्वय-हिमहिमकरहारि गाङ्गम् वारि कुवलयकान्तिकलिन्दकन्यकाम्भः (च) इति शुभम् उभयम् वरम्
प्रभुप्रसादात् हारिहरम् वपुः इव (कदा) प्रपद्ये ।

धृतकुटिलकलः किलान्धकारी रुचितमलीमसभोगिभोगयोगः । त्वयि सपदि पराङ्मुखे यथाऽहं त्वमिव
महाकलिकालभग्नशक्तिः ॥ २६ ॥

कवलितविषमक्लमं दधानः सततसमाश्रिततारकारिरूपम् । द्विजपतिमुकुटस्तथैव जातु त्वमिव शिव
त्वयि सम्मुखे भवेयम् ॥ २७ ॥ (युग्मम्)

अन्वय-हे शिव ! सपदि (इदानीम्) त्वयि पराङ्मुखे (सति) यथा अहम् त्वम् इव धृतकुटिलकलः अन्धकारी
रुचितमलीमसभोगिभोगयोगः महाकलिकालभग्नशक्तिः (अस्मि) तथैव त्वयि सम्मुखे सति त्वम् इव
कवलितविषमक्लमम् सततसमाश्रिततारकारिरूपम् दधानः द्विजपतिमुकुटः च जातु (कदा) भवेयम् ।

जय जयद वचो विमुञ्च मुञ्चन्मधु मधुरं जनरञ्जनप्रगल्भम् । हर हर दुरितं ममाऽद्य माद्यद्भव
भव भीमदभीमदर्शनस्त्वम् ॥ २८ ॥

अन्वय-हे जयद् ! त्वम् मधुरम् जनरञ्जनप्रगल्भम् मधु मुञ्चत् वचः विमुञ्च हे हर ! अद्य माद्यत् मम
दुरितं हर हे भव ! भीमदभीमदर्शनः भव ।

निजवृजिनविजृम्भितं ममैतत्त्रिजगदनुग्रहनित्यदीक्षितस्त्वम् । क्वचिदपि भगवन्नदृष्टपूर्वं प्रथयसि
यन्मयि विह्वलेऽवलेपम् ॥ २९ ॥

अन्वय-हे बह्गवन् ! त्रिजगदनुग्रहनित्यदीक्षितः त्वम् क्वचित् अपि अदृष्टपूर्वम् अवलेपम्
(शरणागताऽवगणनाम्) यत् मयि विह्वले प्रथयसि तत् एतत् मम (एव) निजदुरितविजृम्भितम् (अस्ति) ।

प्रणमति विधुरे पुरोऽवलग्ने दधति मयि प्रसभं गदाभियोगम् । किमिति परिजने दयामृतार्द्रां
दृशमपकारवतीव नो दधासि ॥ ३० ॥

अन्वय-अयि प्रभो ! प्रणमति विधुरे पुरः अवलग्ने प्रसभम् गदाऽभियोगम् दधति प्रणमति मयि परिजने
अपकारवति इव दयामृतार्द्रां दशम् किमिति नो ददासि ?
स्फुटविकटविकस्वरप्रदीप्तज्वलनमहीनमहीन्द्रहार चक्षुः ।
बलवदलवदर्पकालकामक्षयकरमाकरमाशु मुञ्च सिद्धेः ॥ ३१ ॥

अन्वय-हे अहीन्द्रहार ! (दीनजनं प्रति) स्फुटविकटविकस्वरप्रदीप्तज्वलनम्
बलवदलवदर्पकाल-कामक्षयकरम् सिद्धेः आकरम् अहीनम् चक्षुः मुञ्च ।

हिमकरमकरध्वजौ न रूपं कविधिषणौ धिषणौचितीं न तीव्राम् । रणमरुणमरुत्सखौ
जिगीषोरनुहरतो हरतोषिणो न तेजः ॥ ३२ ॥

अन्वय-जिगीषोः हरतोषिणः रूपम् हिमकरमकरध्वजौ (अपि) न अनुहरतः (तस्य) तीव्राम् धिषणौचितीम्
कविधिषणौ (अपि) न अनुहरतः तथा अरुणमरुत्सखौ (अपि शिवभक्तस्य) रणम् तेजः च न अनुहरतः ।

रविकरविकसत्सिताब्जशुभ्रप्रसृमरचामरचारुहासिनी श्रीः । भव न भवनमुज्झति क्षणं
यत्सुकृतवतां तव तां प्रणौमि शक्तिम् [भक्तिम्] ॥ ३३॥

अन्वय-हे भव ! रविकरविकसत्सिताब्जशुभ्रप्रसृमरचामरचारुहासिनी श्रीः यत् सुकृतवताम् भवनम्
क्षणम् (अपि) न उज्झति तत् तव ताम् शक्तिम् प्रणौमि ।

यदभयद भवत्यवस्थितेऽन्तः समहिम नो हि मनो विशोकमासीत् । विशदविशदकर्मकर्दमे तत्सपदि विषादि
विषाद केन जातम् ॥ ३४ ॥

अन्वय-हे अभयद ! हे विषाद ! हि भवति अन्तः अवस्थिते (सति) समहिम नः मनः यत् विशोकम् आसीत् तत् (एव
एतत् नो मनः) सपदि अविशदकर्मकर्दमे विशत् (सत्) विशादि केन जातम् (न जाने) ।

नयविनयविशुद्धमन्तरुद्यद्दहनसमानसमाप्तरोषदोषम् । यमनियमनियन्त्रितं मनो मे कुरु
सविलासविलासिनीविरक्तम् ॥ ३५ ॥

अन्वय-हे विभो ! मे मनः नयविनयविशुद्धं अन्तः उद्यद्दहनसमानसमाप्तरोषदोषम् यमनियमनियन्त्रितम्
सविलासविलासिनीविरक्तम् कुरु । ------------------ (१) आनृशंस्यं क्षमा सत्यमहिंसा च दया स्पृहा ।
ध्यानं प्रसादो माधुर्यमार्जवं च यमा दश ॥

(२) शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहौ । व्रतोपवासौ मौनं च स्नानं च नियमा दश ॥




अवसर-सरसालसालघूद्यन्मधुर-वधूरवधूतचित्तचिन्तः । स सकलकलधौतधौत मूर्तिस्तव
नतिमानतिमात्रचित्रचिद्यः ॥ ३६ ॥

अन्वय-हे विभो ! अतिमात्रचित्रचित् यः (जनः) तव नतिमान् (भवति) सः
अवसरसरसालसाऽलघूद्यन्मधुरवधूरवधूत-चित्तचिन्तः सकलकलधौतधौतमूर्तिः (भवति) ।

मलमलमलघुं विहन्तुमाप्तुं मुदमुदयं समयं समर्थ्य चान्तः ।
महमहमहहेश्वरप्रशंसामयमयमाश्रयमाश्रयं सुखानाम् [गुणानाम्] ॥ ३७ ॥

अन्वय-अहह ! अन्तः (स्वमनसि) उदयम् समयम् समर्थ्य अलघुम् मलम् अलम् विहन्तुम् मुदम् आप्तुम् सुखानाम् आश्रयम्
ईश्वरप्रशंसामयम् महम् अयम् अहम् आश्रयम् (श्रितोऽस्मि) ।

गुणिभिर्विबुधैर्हरीन्द्रमुख्यैर्भव संसाररिपोर्द्विषः स्तुतस्य । हितमातनुते तव
प्रसादादसुहृत्प्राणहरोऽपि पुण्यभाजाम् ॥ ३८ ॥

अन्वय-हे भव ! गुणिभिः हरीन्द्रमुख्यैः विबुधैः स्तुतस्य संसाररिपोः द्विषः तव प्रसादात्
प्राणहरः अपि असुहृत् (शत्रुः) पुण्यभाजाम् हितम् आतनुते ।

अपि नाथ जनार्दनस्य विष्णोरपि वैकुण्ठ इति प्रसिद्धिभाजः । अधिकंसरुषोऽपि चेद्भवत्तो
झगितिप्रागभवत्सुदर्शनाप्तिः ॥ ३९ ॥

अपि सर्वजनाऽविरुद्धबुद्धेरपि तीक्ष्णस्य परं जितक्रुधोऽपि । न कथं मम साधुनाऽपि यद्वा
जगदीशोऽसि विभुः किमुच्यते ते ॥ ४० ॥ (युग्मम्)

अन्वय-हे नाथ ! जनार्दनस्य अपि वैकुण्ठ इति प्रसिद्धिभाजः अपि अधिकंसरुषः अपि विष्णोः
सुदर्शनाप्तिः भवतः (सकाशात्) प्राक् झगिति अभवत् । तर्हि-सर्वजनाविरुद्धबुद्धेः अपि तथा-तीक्ष्णस्य
(कुण्ठाद्भिन्नस्य) अपि जितक्रुधः अपि मम अधुना अपि सा सुदर्शनाप्तिः कथम् न भवति ? यद्वा त्वं
जगदीशः विभुः असि मया ते किम् उच्यते ?

सुमनःसुलभे तथा न नाके सुमनःसुन्दरसौरभे न चास्थाम् । सुमनःसु च नाश्नुते सुधार्द्रासु मनः
सुष्ठु यथा भवत्कथासु ॥ ४१ ॥

अन्वय-हे प्रभो ! (भक्तजनस्य) मनः सुमनःसुलभे नाके अपि तथा आस्थाम् न अश्नुते (न भजति)
सुमनःसुन्दरसौरभे च (तादृशीम्) आस्थाम् न अश्नुते । सुमनःसु च तथा आस्थाम् न अश्नुते यथा
सुधार्द्रासु भवत्कथासु सुष्ठु आस्थां अश्नते ।

श्रीर्देवी जयति यया कटाक्षितानां हस्तस्था सकलसमीहितार्थसिद्धिः । सा यस्मादजनि
तमब्धिमर्भकाय प्रादाद्यः कथमिव वर्ण्यते स देवः ॥ ४२ ॥

अन्वय-यया कटाक्षितानाम् सकलसमीहितार्थसिद्धिः हस्तस्था (भवति) सा श्रीः देवी जयति सा श्रीः
यस्मात् अजनि तम् अब्धिम् अर्भकाय यः प्रादात् सः देवः कथम् इव वर्ण्यते ।

नार्हत्यमन्दरयमन्दरयत्नलब्धा स्पर्धां सुधा न वसुधाऽनवधिश्च यस्य । सोऽयं नवः शिवनवः
शिवतातयेऽस्तु विद्वत्सभाजनसभाजनभाजनं वः ॥ ४३ ॥

अन्वय-अमन्दरयमन्दरयत्नलब्धा सुधा अनवधिः वसुधा च यस्य (शिवनवस्य) स्पर्धाम् न अर्हति सः अयम्
विद्वत्सभाजनसभाजनभाजनम् नवः (प्रभुप्रसादनाख्यः) शिवनवः वः शिवतातये अस्तु ।

इति श्रीप्रेममकरन्दनाम्नीटीकोपेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो
महेश्वरस्य स्तुति-कुसुमाञ्जलौ प्रभुप्रसादनं नाम त्रयोदशं स्तोत्रम् ।

चतुर्दशं स्तोत्रम्

येन नेत्रकरशेखरस्पृशा हन्ति सन्तमसमन्तरीश्वरः । ऐन्दवं दवथुहारि हारि तद्धाम
कामदमदभ्रमस्तु वः ॥ १ ॥

अन्वय-नेत्रकरशेखरस्पृशा येन (चान्द्रतेजसा) ईश्वरः (भक्तजनस्य) अन्तः सन्तम् असम् (अज्ञानाख्यम्)
हन्ति । हारि दवथुहारि तत् ऐन्दवम् धाम वः अनभ्रम् कामदम् अस्तु ।

भक्तिनिर्भरगभीरभारतीवैभवो भव भवन्नवेषु यः । शुष्कशष्पमिव तस्य भासते
वासवासनपरिग्रहग्रहः ॥ २ ॥

अन्वय-हे भव ! यः (पुरुषः) भवन्नवेषु भक्तिनिर्भरगभीरभारतीवैभवः (भवति) तस्य (धन्यस्य)
वासवा-सनपरिग्रहग्रहः शुष्कशष्पम् इव भासते ।

उल्लसत्पुलकलाञ्छितं वपुर्बाष्पपूरितपुटे विलोचने । गद्गदा हरहरेति भारती संभवन्ति
भवभक्तिशालिनाम् ॥ ३ ॥

अन्वय-भवभक्तिशालिनाम् उल्लसत्पुलकलाञ्छितम् वपुः बाष्पपूरितपुटे विलोचने हरहरेति गद्गदा भारती
संभवन्ति ।

नीलकण्ठ तरुणेन्दुशेखर त्रयम्बक त्रिनयनेति भक्तितः । गद्गदं निगदतस्तृणोपमं
हेमपूर्णमखिलं महीतलम् ॥ ४ ॥

अन्वय-हे नीलकण्ठ ! हे तरुणेन्दुशेखर ! हे त्र्यम्बक ! हे त्रिनयन ! (मां पाहि) इति भक्तितः गद्गदम्
निगदतः (कस्यापि धन्यस्य) हेमपूर्णम् अपि अखिलम् महीतलम् तृणोपमम् (भवति) ।

अन्तकभ्रुकुटिभीतिविह्वलश्वेतसान्त्वनविधौ बभूव यत् । मां प्रति प्रतिपदं कदर्थितं तत्क्व संप्रति
कृपामृतं तव ॥ ५ ॥

अन्वय-हे विभो ! अन्तकभ्रुकुटिभीतिविह्वलश्वेतसान्त्वनविधौ यत् (तव कृपामृतम्) बभूव तत् तव
कृपामृतम् (करुणामृतवाक्यम्) प्रतिपदम् कदर्थितम् माम् प्रति सम्प्रति क्व (गतम्) ?

वह्निशीतकरघर्मरश्मयो लोचनत्रितयवर्तिनस्तव । शीततापतिमिरार्दितस्य मे नाथ चित्रलिखिता इव
स्थिताः ॥ ६ ॥

अन्वय-हे नाथ ! तव लोचनत्रितयवर्तिनः वह्निशीतकरघर्मरश्मयः शीततापतिमिरार्दितस्य मे
चित्रलिखिताः इव स्थिताः ।

सम्भ्रमभ्रमदमन्दमन्दर-क्षीरनीरधिगभीरया गिरा । त्रातुमर्हसि
कृतान्तकिङ्करैर्मामशर्मभिरभिद्रुतं द्रुतम् ॥ ७ ॥

अन्वय-अशर्मभिः कृतान्तकिङ्करैः अभिद्रु तम् माम् सम्भ्रमभ्रमदमन्दमन्दरक्षीरनीरधिगभीरया गिरा
द्रुतम् त्रातुम् अर्हसि ।

कालकिङ्करकरान्तरस्फुरद्भोगभोगिपरिणद्धकन्धरम् । अन्तरेण भवदीयहुंकृतिं नाथ मोचयितुमुत्सहेत
कः ॥ ८ ॥

अन्वय-हे नाथ ! कालकिङ्करकरान्तरस्फुरद्भोगभोगिपरिणद्धकन्धरम् (पुरुषम्) मोचयितुम् (केवलम्)
भवदीयहुंकृतिम् अन्तरेण कः उत्सहत ? (न कोऽपीत्यर्थः) ।

उत्कटभ्रुकुटिभीमदर्शनद्वाःस्थहुङ्कृतिखलीकृतात्मभिः । द्वारि यः क्षितिभुजां पराभवः सह्यते
द्रविणलेशतृष्णया ॥ ९ ॥

स त्वदायतनदेहलीतले पुष्पपात्रकरपत्रिकाकरम् । कंचिदेव भवदर्चनोत्सुकं चन्द्रशेखर करोति कातरम्
॥ १० ॥ (युग्मम्)

अन्वय-हे चन्द्रशेखर ! उत्कटभ्रुकुटिभीमदर्शनद्वाःस्थहुङ्कृतिखलीकृतात्मभिः (जनैः) क्षितिभुजाम्
द्वारि द्रविणलेशतृष्णया यः पराभवः सह्यते सः (पराभवः) त्वदायतनदेहलीतले भवदर्चनोत्सुकम्
कंचिदेव पुष्पपात्रकरपत्रिकाकरम् कातरम् करोति ।

अन्तरेण भवदंघ्रिसेवनं देव केवलमियं विडम्बना । यन्नृणां कमलिनीदलस्खलन्नीरशीकरचला
विभूतयः ॥ ११ ॥

अन्वय-हे देव ! नृणाम् यत् कमलिनीदलस्खलन्नीरशीकरचलाः विभूतयः (भवन्ति) सा इयम्
भवदंघ्रिसेवनम् अन्तरेण केवलम् विडम्बना (एव) ।

यत्तु निर्जरतरङ्गिणीतटे सौहृदंहरिणबालकैः समम् । भूभृतां च तृणवद्विलोकनं श्रीरियं
भव भवत्प्रसादतः ॥ १२ ॥

अन्वय-यत् तु निर्जरतरङ्गिणीतटे हरिणबालकैः समम् सौहृदम् भूभृताम् च तृणवत् विलोकनम् इयम्
(अद्भुता) श्रीः हे भव ! भवत्प्रसादतः (भवति) ।

त्वामुपेत्य शरणं महेश्वरं देव निःशरण एव चेदहम् । दोष एष मम जाह्नवीजले तर्षुलो हि शफरः
स्वदुष्कृतैः ॥ १३ ॥

अन्वय-हे देव ! त्वाम् महेश्वरम् शरणम् उपेत्य चेत् अहम् निःशरण एव (विमुखो व्रजामि) स एष दोषः मम
(एवास्ति) हि जाह्नवीजले शफरः स्वदुष्कृतैः (एव) तर्षुलः (भवति) ।

गद्गदोद्गतगिरश्चिरस्थिरप्रेमहेमनिकषोपलोपमम् । शंसतः शिव शिवेति शाम्भवं नाम कामपि दशां
प्रशास्ति मे ॥ १४ ॥

अन्वय-गद्गदोद्गतगिरः शंसतः मे चिरस्थिरप्रेमहेमनिकषोपलोपमम् शिवशिवेति शाम्भवम् नाम काम् अपि
(अनिर्वाच्यां) दशाम् प्रशास्ति ।

वारि वारितभवार्ति मूर्ध्नि ते भाति भाऽतिधवले हिमत्विषः । तेन ते नतिमिमो दवच्छिदे देहि देहिषु
करावलम्बनम् ॥ १५ ॥

अन्वय-प्रभो ! हिमत्विषः भाऽतिधवले ते मूर्ध्नि वारितभवार्ति वारि भाति तेन (हेतुना) वयम् दवच्छिदे
ते नतिम् इमः (अतः) देहिषु करावलम्बनम् देहि ।

मूढमूढविपदं पदं शुचामन्धमन्धकरिपोऽरिपोथितम् । मोघमोघमितमेतमेनसां मां तमान्तकरतार
तारय ॥ १६ ॥

अन्वय-हे अन्धकरिपो ! हे तमान्तकर-तार ! मूढम् ऊढविपदम् शुचाम् पदम् अन्धम् अरिपोथितम् मोघम् एनसाम्
ओघम् इतम् एतम् माम् (भवोदधेः) तारय ।

यं स्वयं स्वरसभैरवै रवैरक्षर क्षपितराक्षसेक्षसे । मारमार भुवि भासते स ते
भानु-भानु-भर-भासुरः सुरः ॥ १७ ॥

अन्वय-स्वरसभैरवैः रवैः क्षपितराक्षस ! हे अक्षर ! हे मारमार ! (त्वम्) यम् स्वयम् ईक्षसे सः ते
सुरः भानुभानुभरभासुरः भुवि भासते ।

बाणबाणकृतपूजनैर्जनैरादरादघटि यैस्तव स्तवः । वास्तवास्तव त एव तावता
बन्दिवन्दितयशोगणा गणाः ॥ १८ ॥

अन्वय-हे विभो ! बाणबाणकृतपूजनैः यैः जनैः आदरात् तव स्तवः अघटि तावता एव ते वास्तवाः
बन्दिवन्दित-यशोगणाः गणाः (तवाऽनुचराः भवन्ति) ।

त्वां सतामरसवासवाऽऽसवाः ज्ञातदुर्गमगमागमाऽऽगमाः । अर्चयन्ति सदिनं दिनंदिनं
गीर्भिरम्बरसदःसदः सदः ॥ १९ ॥

अन्वय-हे प्रभो ! सतामरसवासवाऽऽसवाः ज्ञातदुर्गमगमागमाऽऽगमाः अम्बरसदःसदः सदः त्वाम्
सदिनम् दिनंदिनम् गीर्भिः अर्चयन्ति ।

न मे तथा प्रीतिमनेकपाली करोति नो वा दयिताऽङ्कपाली । यथोक्तिदेवी स विभुः कपाली ययाऽर्च्यते
सेवकलोकपाली ॥ २० ॥

अन्वय-सेवकलोकपाली कपाली सः विभुः यया अर्च्यते (सा) उक्तिदेवी यथा मे प्रीतिम् करोति (सा) अनेकपाली
दयिताऽङ्कपाली वा तथा मे प्रीतिम् नो करोति ।

भवन्तमाराध्य परार्ध्यवैभवं भवं विधाय द्विषतां पराभवम् । भवं च जित्वा जहतः
पुनर्भवं भवन्ति मुक्ताः पदमाप्य शाम्भवम् ॥ २१ ॥

अन्वय-भक्ताः परार्ध्यवैभवम् भवन्तम् भवम् आराध्य द्विषताम् पराभवम् विधाय भवं च जित्वा
पुनर्भवं जहतः शाम्भवम् पदम् आप्य मुक्ताः भवन्ति ।

न वंशवृत्तेर्गणयामि तानवं न बन्धुरं कञ्चन नौमि मानवम् । नवं तवानन्दितदेवदानवं न
वञ्चितोऽहं रचयन्सदा नवम् ॥ २२ ॥

अन्वय-हे भगवन् ! अहम् वंशवृत्तेः तानवम् न गणयामि कञ्चन बन्धुरम् मानवम् न नौमि ।
आनन्दितदेवदानवम् नवम् नवम् रचयन् अहम् (विधिना) न वञ्चितः ।

धनञ्जयाक्षं सकलार्थसाधनं धनञ्जयाराधितमाधिबाधनम् । धनं विदित्वा विपदां विशोधनं
धनन्ति धन्या विभुमृद्धिवर्धनम् ॥ २३ ॥

अन्वय-विपदाम् विशोधनम् धनम् (श्रीशिवस्तुतिरूपम्) विदित्वा धन्याः धनञ्जयाक्षम् सकलार्थसाधनम्
धनञ्जयाराधितम् आधिवाधनम् ऋद्धिवर्धनम् विभुम् धनन्ति (याचन्ते) ।

कलापिनः प्रावृषि यद्वदम्बुदध्वनिर्घनानन्दविशङ्कलापिनः ।
कलापिनद्धस्फुटजूटधारिणस्तथाऽमृतं वर्षतु गीः कलापि नः ॥ २४ ॥

अन्वय-यद्वत् प्रावृषि अम्बुदध्वनिः घनानन्दविशङ्कलापिनः कलापिनः (मयूरस्य) अमृतम् (वर्षति) तथा
कलाऽपि (मधुरापि) कलापिनद्धस्फुटजूटधारिणः गीः नः अमृतम् वर्षतु ।

नृजन्म तस्यैव भवानवद्यं भवानवद्यन्दवमीक्षते यम् । त्यजत्यजातोपरमा समानं
रमाऽसमानन्दकरी न चैनम् ॥ २५ ॥

अन्वय-हे भव ! दवम् अवद्यन् भवान् यम् ईक्षते तस्यैव नृजन्म अनवद्यम् (भवति) अजातोपरमा
असमानन्दकरी रमा (मोक्षलक्ष्मीः) च समानम् एनम् न त्यजति ।

अतः परं जगति किमस्ति नीरसं यदुक्तमप्यसकृदुदीर्यते वचः । सहस्रशश्चिरमपि चर्विता पुन-
र्नवंनवं स्रवति रसं शिवस्तुतिः ॥ २६ ॥

अन्वय-असकृत् (पुनः पुनः) उक्तम् अपि वचः यत् (केनापि) उदीर्यते जगति अतः परम् नीरसम् किम् अस्ति ? (न
किञ्चित् किन्तु) सहस्रशः चिरम् अपि चर्विता शिवस्तुतिः पुनः नवम् नवम् रसम् स्रवति !

मृत्युं मृत्युञ्जय जय जगद्घस्मरं भस्मभावं कामं कामं नय नयनजोद्धामधामच्छटाभिः ।
भव्याभ व्याकुलकुलवधूरुत्कयेत्याचरन्तं सत्रासत्राणचण चरितान्यद्भुतानि स्तुमस्त्वाम् ॥ २७ ॥

अन्वय-हे भव्याभ ! (मत्सेवक !) मृत्युञ्जय ! (त्वम् मदनुग्रहेण) जगद्घस्मरम् मृत्युम् जय
नयनजोद्दामधामच्छटाभिः कामम् (निश्चयेन) कामम् भस्मभावम् नय । व्याकुलकुलवधूः उत्कय इति
(अनेकप्रकारेण) अद्भुतानि चरितानि आचरन्तम् त्वाम् हे सत्रासत्राणचण ! मृत्युञ्जय ! (वयम्) स्तुमः ।

यत्तत्सर्ग-निसर्गनिर्मितिकरं यद्रावणद्रावण- व्यापाराऽवसरावसक्तमथ यत्संवर्तसंवर्तकम् ।
स्वाभासं भवसंभवस्थितिलयस्फारोचितं रोचितं भासा कारणकारणं दिशतु तद्धामेहितं मे हितम्
॥ २८ ॥

अन्वय-यत् (धाम ब्रह्मरूपेण) तत्सर्गनिसर्गनिर्मितिकरम् यत् (विष्णुरूपेण)
रावणद्रावणव्यापारावसरावसक्तम् अथ यत् (रुद्ररूपेण) संवर्तसंवर्तकम् (भवति) तत् स्वाभासम्
भवसंभवस्थितिलयस्फारोचितम् भासा रोचितम् कारणकारणम् धाम ईहितम् हितम् मे दिशतु ।

इति श्री प्रेममकरन्दनाम्न्या टीकयोपेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो
महेश्वरस्य स्तुति-कुसुमाञ्जलौ हितं नाम चतुर्दशं स्तोत्रम् ।

पञ्चदशं स्तोत्रम्

अधुना तपसेव देवतामभि योगेन सरस्वतीमिव । सुहृदेव समीहितां श्रियं प्रगुणेनेव गुणेन संसदम् ॥
१ ॥

प्रतिभामिव काव्यकर्म्मणा वसुना कीर्तिमिवार्थिगामिना । मनसीव शमेन निर्वृतिं सुकृतेनेव परत्र
सद्गतिम् ॥ २ ॥

करुणां हरिणाङ्कलक्ष्मणः सकलार्थाऽर्पणकल्पवल्लरीम् । विपदन्तकरीमुपासितुं स्तुति-लेशेन मनः
प्रवर्तते ॥ ३ ॥ (तिलकम्)

अन्वय-सकलार्थार्पणकल्पवल्लरीम् विपदन्तकरीम् देवताम् तपसा उपासितुम् इव अभियोगेन सरस्वतीम् उपासितुम्
इव सुहृदा समीहिताम् श्रियम् उपासितुम् इव प्रगुणेन गुणेन संसदम् उपासितुम् इव काव्यकर्मणा प्रतिभाम्
उपासितुम् इव अर्थिगामिना वसुना कीर्तिम् उपासितुम् इव शमेन मनसि निर्वृतिम् उपासितुम् इव सुकृतेन परत्र
सद्गतिम् उपासितुम् इव अधुना स्तुतिलेशेन सकलार्थार्पणकल्पवल्लरीम् विपदन्तकरीम् हरिणाङ्कलक्ष्मणः
करुणाम् उपासितुम् (मे) मनः प्रवर्तते ।

करुणां भवतो विकासिनीममलैरीश गुणैरलंकृताम् । नलिनीमलिनीव भारती भजतीयं मम
वल्गुवादिनी ॥ ४ ॥

अन्वय-हे ईश ! वल्गुवादिनी अलिनी विकासिनीम् अमलैः गुणैः अलंकृताम् नलिनीम् इव इयम् वल्गुवादिनी मम
भारती विकासिनीम् अमलैः गुणैः अलंकृताम् भवतः करुणाम् भजति ।

उपलक्ष्य तवान्धकारितां मयि धत्ते पदमन्धकारिता । विषमामवलोक्य ते दृशं मम
दृष्टिर्विषमत्वमश्नुते ॥ ५ ॥

अन्वय-हे ईश ! तव अन्धकारिताम् उपलक्ष्य मयि अन्धकारिता (अज्ञानरूपता) पदम् धत्ते ते विषमाम् दृशम्
अवलोक्य मम (अपि) दृष्टिः विषमत्वम् (उग्रत्वम्) अश्नुते ।

तव वीक्ष्य वृषाधरीकृतिं घटते मेऽपि वृषाधरीकृतिः । धृतवक्रकलत्वमीक्ष्य ते प्रथते
वक्रकलत्वमेव मे ॥ ६ ॥

अन्वय-हे विभो ! तव वृषाधरीकृतिम् वीक्ष्य मे अपि वृषाऽधरीकृतिः घटते ते धृतवक्रकलत्वम्
ईक्ष्य मे अपि वक्रकलत्वम् एव प्रथते ।

तव वीक्ष्य च भग्नकामतामुदितेयं मम भग्नकामता । करुणामपि ते समीक्ष्य मे करुणा गीर्न कथं
प्रवर्तताम् ॥ ७ ॥

अन्वय-हे प्रभो ! तव भग्नकामताम् वीक्ष्य मयि च इयम् भग्नकामता उदिता ते करुणाम् अपि समीक्ष्य मे (अपि)
करुणा गीः कथं न प्रवर्तताम् ?

ससुरासुरमानुषं जगद्यदधीनं स भवानपीश्वरः । वशवर्तिपदे ययाऽर्पितो जयतीयं करुणैव
तावकी ॥ ८ ॥

अन्वय-ससुरासुरमानुषम् जगत् यदधीनम् (अस्ति) सः भवान् ईश्वरः (अपि) यया (करुणया) वशवर्त्तिपदे
अर्पितः (सा) इयम् तावकी करुणा एव जयति ।

करुणा तव जीवितेश्वरीमतिशेते भगवन्नुमामपि । उमया हृतमर्धमेव यत्सकलस्त्वं पुनरेतया हृतः ॥
९ ॥

अन्वय-हे भगवन् ! तव (निमेषमात्रेणैव त्रिजगदुद्धारकारिणी) करुणा तव जीवितेश्वरीम् उमाम् अपि
अतिशेते यत् उमया (अपर्णया-तादृशाऽनन्यसाधारणतपोविशेषक्लिष्टयाऽपि) तव वपुषः अर्धमेव
(अर्धनारीश्वररूपत्वेन) हृतम् एतया पुनः करुणया तु त्वम् सकलः हृतः (सकलवपुस्त्वं नीत
इत्यर्थः) ।

करुणा तव शस्यते यया जितकामोऽपि भवान् वशीकृतः । इदमन्यदियं यदम्बिकामपि देवीमनयद्विधेयताम्
॥ १० ॥

अन्वय-(अस्माभिः) सा तव करुणा शस्यते यया जितकामः अपि भवान् वशीकृतः । इदम् (च) अन्यत् (अद्भुतम्
?) यत् इयम् (तव करुणा) देवीम् अम्बिकाम् अपि विधेयताम् अनयत् ।

जगदम्बुभुवा भुवाम्भसा सितभासा नभसा नभस्वता । धृतमुष्णरुचात्मना च यत्करुणाया महिमा
तवेश सः ॥ ११ ॥

अन्वय-हे ईश ! (जगद्रक्षणायाऽष्टमूर्तिधरेण त्वया) यत् अम्बुभुवा [अग्निना अद्भयोऽग्निर्जाजातः इति
श्रुतेः] भुवा अम्भसा सितभासा (चन्द्रमसा) नभसा नभस्वता उष्णरुचा आत्मना [प्रकृतिविकृतिपृथक्
स्थितेन यजमानरूपेण] च जगत् धृतम् सः महिमा तव करुणायाः (एव) ।

अहतप्रसरां प्रसादिनीं सहसाऽपोहिततापसंपदम् । शरणं करुणातरङ्गिणीं प्रतिपद्ये तव देव
पावनीम् ॥ १२ ॥

अन्वय-देव ! अहतप्रसराम् प्रसादिनीम् सहसा अपोहिततापसंपदम् पावनीम् तव करुणातरङ्गिणीम् (अहम्)
शरणम् प्रतिपद्ये ।

प्रणयेन चिरं प्रसादिता मदनाशाकुलितेन चेतसा । तरुणी करुणा करोति ते न कथं नाथ हृदि स्थिरं
पदम् ॥ १३ ॥

अन्वय-हे नाथ ! मदनाशाकुलितेन चेतसा चिरम् प्रणयेन प्रसादिता तरुणी करुणा ते हृदि स्थिरम् पदम्
कथं न करोति (अपि तु करोत्येव)

भुजगा इव चन्दनद्रुमं ग्लपयन्तो विषमा नयन्ति माम् । परिहार्यदशामरातयो मदमानप्रमुखा
धृतिच्छिदः ॥ १४ ॥

अन्वय-धृतिच्छिदः विषम् ग्लपयन्तः (वमन्तः) भुजगाः चन्दनद्रुमम् इव धृतिच्छिदः विषमाः
मदमानप्रमुखाः वय-धृतिच्छिदः विषम् ग्लपयन्तः (वमन्तः) भुजगाः चन्दनद्रुमम् इव धृतिच्छिदः
विषमाः मदमानप्रमुखाऽरातयः (माम्) ग्लपयन्तः (हन्यमानाः) माम् परिहार्यदशाम् नयन्ति ।

करुणामरुणाऽनुजन्मनस्तनुमुच्चैरिव पक्षपातिनीम् । समुपैमि धृताच्युतश्रियं शरणं
भूधरपुत्रिकापतेः ॥ १५ ॥

अन्वय-उच्चैः पक्षपातिनीम् धृताऽच्युतश्रियम् अरुणानुजन्मनः (गरुडस्य) तनुम् इव (भक्तजनेषु)
पक्षपातिनीम् धृताच्युतश्रियम् भूधरपुत्रिकापतेः करुणाम् शरणम् समुपैमि ।

स्फुरितारुणचारुचक्षुषा वपुषा निर्भरघर्मविप्रुषा । परुषाशयतामुपेयुषा सरुषा यत्प्रहरन्ति
योषितः ॥ १६ ॥

भगवन् दृढबद्धमूलयोर्द्विषतोरेष सहस्रशाखयोः । अविषह्यनिपातपीडयोरनुभावः
कुसुमेषु-रोषयोः ॥ १७ ॥

अनयोः करुणैव तावकी नियतं मूलनिकृन्तनक्षमा । यमलाऽर्जुनयोरिवोर्जिता शिशुलीला
नरकान्तकारिणः ॥ १८ ॥ (तिलकम्)

अन्वय-स्फुरितारुणचारुचक्षुषा निर्भरघर्मविप्रुषा परुषाशयताम् उपेयुषा सरुषा वपुषा योषितः यत्
पुरुषान् प्रहरन्ति हे भगवन् ! एषः दृढबद्धमूलयोः सहस्रशाखयोः अविषह्यनिपातपीडयोः
द्विषतोः कुसुमेषुरोषयोः (कामक्रोधयोः एव) अनुभावः (अस्ति) अनयोः (पुनः) नरकान्तकारिणः ऊर्जिता
शिशुलीला यमलार्जुनयोः इव तावती करुणा एव नियतम् मूलनिकृन्तनक्षमा (भवति) ।

न विधिर्निधिलाभसंभृतो न विनोदो मृगनाभिसम्भवः । न च शारदचन्द्रचन्द्रिका न कलं
कोकिलकण्ठकूजितम् ॥ १९ ॥

न शिशोरसमञ्जसं वचो न मृगाक्षीपरिरम्भविभ्रमः । मधुरा न कवीन्द्रभारती न च
साम्राज्यविभूतिजृम्भितम् ॥ २० ॥

न रसायनपानकौतुकं न च शक्रासनवासवासना । परिपूरयितुं क्षमेत ते करुणाया हर षोडशीं
कलाम् ॥ २१ ॥ (तिलकम्)

अन्वय-हे हर ! निधिलाभसंभृतः विधिः ते करुणायाः षोडशीम् कलाम् परिपूरयितुम् न क्षमेत
मृगनाभिसम्भवः विनोदः (अपि) ते करुणायाः षोडशीम् कलाम् परिपूरयितुम् न क्षमेत
शारदचन्द्रचन्द्रिका च ते० न क्षमेत कलम् कोकिलकण्ठकूजितम् (अपि) ते० न क्षमेत शिशोः असमञ्जसम्
वचः (च) ते० न क्षमेत मृगाक्षीपरिरम्भविभ्रमः (च) ते० न क्षमेत मधुरा कवीन्द्रभारती (च) ते० न
क्षमेत साम्राज्यविभूतिजृम्भितम् च ते० न क्षमेत रसायनपानकौकतुम् (अपि) ते० न क्षमेत
शक्रासनवासवासना च ते करुणायाः षोडशीम् कलाम् (अपि) पूरयितुम् न क्षमेत ।

सुरभिर्न मम स्पृहास्पदं सुरभिर्दक्षिणमारुतोऽपि वा । सुरभिक्षुवितीर्णवाञ्छिता सुरभिर्नो करुणा
यथा तव ॥ २२ ॥

अन्वय-हे विभो ! यथा तव करुणा मम स्पृहास्पदम् (भवति) तथा सुरभिः (वसन्तः) न सुरभिः
दक्षिणमारुतः अपि वा सुरभिक्षुवितीर्णवाञ्छिता सुरभिः (कामधेनुः च) तथा मम स्पृहास्पदम् नो
भवति ।

समुदेति यदश्रु शोकजं रुचिरानन्दमयं विभाति तत् । पुलकः प्रथते भयेन यः स चमत्कारकृतः
प्रवर्तते ॥ २३ ॥

क्लमजं दृशि यन्निमीलनं परमार्थानुभवादुदेति तत् । शरणं करुणामुपेयुषां कृतिनां
चन्द्रकिरीट तावकीम् ॥ २४ ॥ (युग्मम्)

अन्वय-हे चन्द्रकिरीट ! शोकजम् यत् अश्रु समुदेति तत् तावकीम् करुणाम् शरणम् उपेयुषाम् कृतिनाम्
रुचिरानन्दमयम् विभाति भयेन (जन्ममरणभीत्या) यः पुलकः प्रथते सः चमत्कारकृतः प्रवर्तते
दृशि यत् क्लमजम् निमीलनम् तत् परमार्थानुभवात् उदेति ।

भजतः सरलेव भारती नरकङ्कालकृतग्रहस्य मे । करुणा प्रथतामुमापते कलिकालाञ्छितविग्रहस्य ते
॥ २५ ॥

अन्वय-हे उमापते ! कालकृतग्रहस्य कलिकालाऽञ्छितविग्रहस्य नरकम् भजतः मे भारती सरला इव
(साध्वी स्त्रीव) प्रथताम् । (माम् दृष्ट्वा) नरकङ्कालकृतग्रहस्य कलिका-लाञ्छित-विग्रहस्य ते करुणा
(अपि) प्रथताम् ।

भगवन् मदिरामदोन्मदप्रमदापाङ्गतरङ्गभङ्गुरम् । जरसा तरसावसादितं वपुरायाति न यावदापदम् ॥
२६ ॥

कुपितान्तककिङ्करेरितः कुटिलां तद्भ्रुकुटिं विडम्बयन् । न घनाञ्जनपुञ्जसन्निभो भुजगो यावदुपैति
कन्धराम् ॥ २७ ॥

न कुकर्मविपाककल्पिता नरके यावदुदेति वेदना । गदिता शमनानुगामिभिः परुषा गीरिव मर्मभेदिनी ॥ २८


यदि तावदियं न गाहते हृदयं ते करुणातरङ्गिणी । बत दुःसहताप-संपदामितरा का
शरणार्थिनां गतिः ॥ २९ ॥ (कलापम्)

अन्वय-हे भगवन् ! मदिरामदोन्मदप्रमदापाङ्गतरङ्गभङ्गुरम् जरसा तरसा अवसादितम् (मम) वपुः यावत्
आपदम् न आयातिः कुपितान्तककिङ्करेरितः कुटिलाम् तद्भ्रुकुटिम् विडम्बयन् घनाऽञ्जन-पुञ्जसन्निभः
भुजगः च यावत् कन्धराम् न उपैति कुकर्मविपाककल्पिता वेदना नरके शमनानुगामिभिः गदिता परुषा
मर्मभेदिनी गीः इव यावत् न उदेति हे दयालो ! तावत् यदि इयम् ते करुणातरङ्गिणी ते हृदयम् न गाहते
तर्हि बत ! दुःसहतापसम्पदाम् शरणार्थिनाम् इतरा का गतिः ? (न काचिदित्यर्थः) ।

न समानसमागमा तथा प्रमदाय प्रमदा यतात्मनाम् । शिवदा शिवदास्यकृद्यथा
स्वदमान-स्वदमाऽनघा मतिः ॥ ३० ॥

अन्वय-यथा स्वदमान-स्वदमा शिवदा शिवदास्यकृत् अनघा मतिः यतात्मनाम् प्रमदाय (भवति) तथा
समान-समागमा प्रमदा न (भवति) ।

एकः पुरन्दरपुरं दरवेल्लितभ्रूः किंस्विज्जनङ्गमजनं गमयेन्महर्षिः । किं तामसं
पदमसम्पदमिन्द्रमन्यो धन्योदया भव दया भवतो न चेत्स्यात् ॥ ३१ ॥

अन्वय-हे भव ! भवतः धन्योदया दया चेत् न स्यात् तर्हि दरवेल्लितभ्रूः एकः महर्षिः (विश्वामित्रः)
जनङ्गमजनम् (वशिष्ठशापेन चाण्डालीभूतं त्रिशंकुम्) पुरन्दरपुरम् किंस्वित् गमयेत् ? तथा अन्यः
महर्षिः (गौतमः) इन्द्रम् असम्पदम् (सहस्रभगरूपम्) तामसम् पदम् किं गमयेत् कथं गमयेदित्यर्थः ।

आर्द्रे मनस्युदितमार्तजनोपताप- संपर्कतोऽथ दृशि कन्दलितं शुभायाम् । वाचि क्षणात्कुसुमितं
फलितं च कृत्ये कारुण्यबीजमजरं जयतीन्दुमौलेः ॥ ३२ ॥

अन्वय-(विभोः) आर्द्रे मनसि आर्तजनोपतापसंपर्कतः उदितम् अथ शुभायाम् दृशि कन्दलितम् वाचि क्षणात्
कुसुमितम् (पुनः) कृत्ये (रक्षाकर्मणि) फलितम् इन्दुमौलेः अजरम् कारुण्यबीजम् जयति ।

रोगैरुग्रैरखिलविगलत्सौष्ठवो नष्टचेष्टः पर्यस्ताङ्गोऽशुचिनि शयने भग्नसर्वाभ्युपायः ।
यावज्जीवं विहितमहितं कर्म कर्तव्यमूढः स्मृत्वा स्मृत्वा दलितहृदयः कातरः कान्दिशीकः ॥ ३३ ॥

अन्य-उग्रैः रोगैः अखिलविगलत्सौष्ठवः नष्टचेष्टः (अत एव) अशुचिनि शयने पर्यस्ताङ्गः
भग्नसर्वाभ्युपायः कर्तव्यमूढः सन् यावज्जीवम् विहितम् अहितम् कर्म स्मृत्वा स्मृत्वा दलितहृदयः
कातरः कान्दिशीकः [कां दिशम् यामीति भयेन त्रस्तः]-

तर्षोत्कर्षात्कलुषपरुषैः कर्मभिः शर्महृद्भि- र्यत्सम्प्राप्तं कथमपि [कृशमपि इत्यपि पाठः]
भृशं क्लेशयित्वा शरीरम् । रिक्थग्राहैर्द्रविणमखिलं लुण्ठ्यमानं तदग्रे पश्यन्नश्यत्सकलकरणो
दह्यमानः शुचान्तः [शुचार्त्तः ।] ॥ ३४ ॥

अन्वय-तर्षोत्कार्षात् कलुषपरुषैः शर्महृद्भिः कर्मभिः भृशम् शरीरम् क्लेशयित्वा कथमपि यत्
सम्प्राप्तम् तत् अखिलम् द्रविणम् रिक्थग्राहैः अग्रे लुण्ठ्यमानम् पश्यन् नश्यत्सकलकरणः अन्तः शुचा
दह्यमानः सन्-

शोकोद्रेकादविरलगलद्बाष्पपूर्णेक्षणाभिः सत्पत्नीभिश्चकितचकितं [चकितचकितैरित्यपि]
लोचनैरीक्ष्यमाणः । पुत्रैर्मित्रैः सहजसचिवैर्बन्धुभिर्भृत्यवर्गै- राक्रन्दद्भिः करुणकरुणैः
पीड्यमानः प्रलापैः ॥ ३५ ॥

अन्वय-शोकोद्रेकात् अविरलगलद्वाष्पपूर्णेक्षणाभिः सत्पत्नीभिः चकितचकितम् लोचनैः ईक्ष्यमाणः सन्
पुत्रैः मित्रैः सहजसचिवैः बन्धुभिः भृत्यवर्गैः आक्रन्दद्भिः करुणकरुणैः प्रलापैः
पीड्यमानः सन्-

स्वस्थावस्थैर्भृशमशुचिताशङ्किभिर्वेश्मगर्भा- दन्तर्लीनस्मृतिरपि हठान्निष्ठुरैः कृष्यमाणः ।
यस्मिन्काले कवलितवपुर्मृत्युनाऽभ्येति भीतिं तत्र त्राता क इव करुणामैश्वरीमन्तरेण ॥ ३६ ॥
(संदानितकम्)

अन्वय-स्वस्थावस्थैः भृशम् अशुचिताशङ्किभिः निष्ठुरै (बन्धुवर्गैः) किञ्चित् अन्तर्लीनस्मृतिः अपि
वेश्मगर्भात् हठात् (दाहार्थम्) कृष्यमाणः (सन्) यस्मिन् काले मृत्युना कबलितवपुः भीतिम् अभ्येति तत्र
(तादृशि समये) ऐश्वरीम् करुणाम् अन्तरेण क इव त्राता (भवति न कोऽपीत्यर्थः)

वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः- शिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः
। तथापि प्रत्यग्रं शरणमुपयातं प्रति विभो- रखण्डो व्यापारो जगति करुणाया विजयते ॥ ३७ ॥

अन्वय-(प्रभोः) वपुःखण्डे (शरीरार्धे) शैलेन्द्रदुहितुः खण्डः प्रतिवसति शिखण्डे (किरीटे)
खण्डेन्दुः प्रतिवसति स्वयम् अपि विभुः खण्डपरशुः तथापि (सर्वथैव खण्डत्वेऽपि सति) प्रत्यग्रम्
शरणम् उपयातम् प्रति विभोः करुणायाः अखण्डः व्यापारः जगति विजयते ।

जय जितामय जय सुधामय जय धृतामृतदीधिते- जय हतान्धक जय पुरान्तक जय कृतान्तकसंहृते ।
जय परापर जय दयापर जय नताऽर्पितसद्गते जय जितस्मर जय महेश्वर जय जय त्रिजगत्पते ॥ ३८ ॥

अन्वय-हे जितामय ! (त्वम्) जय हे सुधामय ! (त्वम्) जय हे धृतामृतदीधिते ! (त्वम्) जय हे हतान्तक !
(त्वम्) जय हे पुरान्तक ! (त्वम्) जय हे कृतान्तकसंहृते ! (त्वम्) जय हे परापर ! (त्वम्) जय हे दयापर !
(त्वम्) जय हे नतार्पितसद्गते ! (त्वम्) जय हे जितस्मर ! (त्वम्) जय हे महेश्वर ! (त्वम्) जय हे त्रिजगत्पते !
(त्वम्) जय जय ।

स्थानाऽस्थाननियन्त्रणाविरहितो निर्हेतुरप्रार्थितः सत्यं सत्त्वहितार्थ एव तरणेरम्भोभृतश्चोद्यमः ।
तृष्णातापशमक्षमस्तु न रविर्न ध्वान्तशीतान्तकृ- न्मेघः स त्वखिलार्तिहृद्विजयते
माहेश्वरोऽनुग्रहः ॥ ३९ ॥

अन्वय-स्थानाऽस्थाननियन्त्रणाविरहितः निर्हेतुः अप्रार्थितः तरणेः अम्भोभृतः च उद्यमः
सत्वहितार्थः एव भवति इति सत्यम् किं तु मेघः तृष्णातापशमक्षमः न (भवति) तथा रविः
ध्वान्तशीतान्तकृत् न (भवति) सः माहेश्वरः अनुग्रहः तु अखिलार्त्तिहृत् विजयते ।

बहुना किमत्र करुणामुमापतेः सुदशावतारकृतमूर्जितश्रियम् । भजताऽनिरुद्ध
हृदयेप्सितागमप्रवणां विभूतिमिव कैटभद्विषः ॥ ४० ॥

अन्वय-अयि भावुकाः ! अत्र किम् बहुना (उक्तेन भवति) कैटभद्विषः विभूतिम् इव सुदशावतारकृतम्
ऊर्जितश्रियम् अनिरुद्धहृदयेप्सितागमप्रवणाम् उमापतेः करुणाम् भजत ।

इति श्रीप्रेममकरन्दसमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ करुणाराधनं नाम पञ्चदशं स्तोत्रम् ।

षोडशं स्तोत्रम्

वृषलक्ष्मणः प्रणतलोकबन्धवः कलितालिकस्खलितसिद्धसिन्धवः । द्युतिभिर्जयन्ति
तुलितोदितेन्दवश्चरणारविन्दमकरन्दबिन्दवः ॥ १ ॥

अन्वय-प्रणतलोकबन्धवः कलितालिकस्खलितसिद्धसिन्धवः द्युतिभिः तुलितेन्दवः वृषलक्ष्मणः
चरणारविन्दमकरन्दबिन्दवः जयन्ति ।

अमलैः फलैरविरलैरलङ्कृता हरिताऽरुणप्रणतशालिशालिनी । प्रतिभाति जीर्णतृणवत्तव स्तवं
वसुधा सुधाद्युतिवतंस शंसतःम् ॥ २ ॥

अन्वय-हे सुधाद्युतिवतंस ! तव स्तवम् शंसतः अविरलैः अमलैः फलैः अलङ्कृता
हरितारुणप्रणतशालिशालिनी (अपि) वसुधा जीर्णतृणवत् प्रतिभाति ।

तिमिरं चिरन्तनमनन्त सन्ततग्लपितावलोकमवलोकनार्थिनः । सृजताऽमृतं दशसु दिक्षु
चक्षुषाकलिकालकल्मषमुषामुषाण मे ॥ ३ ॥

अन्वय-हे अनन्त ! अवलोकनार्थिनः मे सन्ततग्लपितावलोकम् चिरन्तनम् तिमिरम् (त्वम्) दशसु दिक्षु अमृतम्
सृजता कलिकालकल्मषमुषा चक्षुषा (प्रसन्नदृष्ट्या) मुषाण ।

वहता हतान्धतमसामसादितां द्युतिभिः कलामविकलां कलावतः । दिशता प्रकाशविशदाशमाशयं
वपुषा शिवं शिवपुषा पुषाण मे ॥ ४ ॥

अन्वय-हे प्रभो ! हतान्धतमसाम् असादिताम् द्युतिभिः अविकलाम् कलावतः कलाम् वहता प्रकाशविशदाशम्
आशयम् दिशता शिवपुषा वपुषा मे शिवम् पुषाण ।

घनघर्मलङ्घितकपोलभित्तयः श्वसितानुबन्धविधुरीकृताधराः । धनिनां पुरः प्रकटयन्ति दुर्गति.
द्युतिहीनदीनवदना धनार्थिनः ॥ ५ ॥

तदनन्तरं तरलिताक्षरां गिरं चिरसम्भृतप्रमदसादगद्गदाम् ।
विहितावहेलजगतीपतीक्षितास्त्रपयापयापितमुखाः प्रयुञ्जते ॥ ६ ॥

अवधीर्यमाणमथ दीर्घमत्सरैरवबोधवन्ध्यहृदयैरनादृतम् । गुणकौशलं शलभजृम्भितोपमं
प्रथयन्ति यान्ति च परं पराभवम् ॥ ७ ॥

इति दीर्घदुर्भरकुटुम्बडम्बरा धनसंग्रहग्रहगृहीतचेतसः । सुधियोऽपि यान्ति निबिडं विडम्बनं
वनवासिभिः प्रहसितप्रवृत्तयः ॥ ८ ॥ (चक्कलकम्)

अन्वय-(धनलवप्राप्त्याशया धावंधावं दूरगमनात्) घनघर्मलङ्घितकपोलभित्तयः
श्वसितानुबन्धविधुरीकृताधराः द्युतिहीनवदनाः धनार्थिनः धनिनाम् पुरः (स्वाम्) दुर्गतिम्
प्रकटयन्ति तदनन्तरम् विहितावहेलजगतीपतीक्षिताः त्रपयापयापितमुखाः (त एव धनार्थिनः
याच्ञ्यया) तरलिताक्षराम् चिरसंभृतप्रमदसादगद्गदाम् गिरम् प्रयुञ्जते । अथ दीर्घमत्सरैः
अवधीर्यमाणम् अवबोधवन्ध्यहृदयैः अनादृतम् शलभजृम्भितोपमम् गुणकौशलम् प्रथयन्ति परम्
पराभवम् च यान्ति इति दीर्घदुर्भरकुटुम्बडम्बराः धनसंग्रहग्रहगृहीतचेतसः सुधियः अपि
वनवासिभिः प्रहसितप्रवृत्तयः (सन्तः) निबिडम् विडम्बनम् यान्ति ।

कृतिनः पुनर्मृदुमृदङ्गमङ्गल- स्वनसन्निभध्वनितनिर्झरोर्मिषु । कृतवृत्तयः सुलभशाद्वलावली-
वलितस्थलेषु [ललितस्थलीषु] तुहिनाद्रिसानुषु ॥ ९ ॥

सुरसिन्धुरोधसि गृहीतकेतकी- चलिता[दलित]ङ्गुलीकिसलयेन पाणिना । विविधां विधाय विधिना पिनाकिनः
करुणार्णवस्य चरणाब्जसत्क्रियाम् ॥ १० ॥

हरिणैः कुशाग्रकवलाभिलाषिभि- र्भरणार्थिभिश्च कलविङ्कशावकैः ।
अतिथीभवद्भिरहताह्निकक्रियाः फलमूलकल्पितशरीरवृत्तयः ॥ ११ ॥

दिवसावसानसमये सरन्मरु- त्परिकीर्णजीर्णतृणपर्णमर्मराः । तनुजाह्नवीसलिलशीकरोत्करैः
शिशिराः शिवाय [चिरायेत्यपि] चरिता वनस्थलीः ॥ १२ ॥

धवलीकृतास्वमलभानुभानुभि- र्ज्वलितौषधीषु रजनीष्वनन्तरम् । कलकण्ठ-कण्ठकुहरोद्गतस्वर-
स्वरसार्पितश्रुतिसुखासु शेरते ॥ १३ ॥

इति बिभ्रतः परिकरं प्रियङ्करं हरपादपङ्कजरजःप्रसादजम् । विहसन्ति मूढमनसां महीभुजां
गजकर्णतालतरलाश्रयाः श्रियः ॥ १४ ॥ (षड्भिः कुलकम्)

अन्वय-पुनः (पूर्वोक्तधनलवलुब्धाऽसन्तुष्टजनेभ्यो व्यतिरिक्ताः) कृतिनः
मृदुमृदङ्गमङ्गलस्वनसन्निभध्वनितनिर्झरोर्मिषु सुलभशाद्वलीवलितस्थलेषु तुहिनाद्रिसानुषु
कृतवृत्तयः (सन्तः) सुरसिन्धुरोधसि गृहीतकेतकीचलिताङ्गुलीकिसलयेन पाणिना करुणार्णवस्य
पिनाकिनः विविधाम् चरणाब्जसत्क्रियाम् विधिना विधाय कुशाग्रकवलाभिलाषिभिः हरिणैः
भरणार्थिभिः कलविङ्कशावकैः च अतिथीभवद्भिः अहताऽह्निकक्रियाः फलमूलकल्पितशरीरवृत्तयः
दिवसावसानसमये सरन्मरुत्परिकीर्णजीर्णतृणपर्णमर्मराः तनुजाह्नवीसलिलशीकरोत्करैः शिशिराः
वनस्थलीः शिवाय चरिताः (सन्तः) अनन्तरम् अमलभानुभानुभिः अमलासु ज्वलितौषधीषु
कलकण्ठकण्ठकुहरोद्गतस्वरस्वरसार्पितश्रुतिसुखासु रजनीषु शेरते इति
हरपादपङ्कजरजःप्रसादजम् प्रियङ्करम् परिकरम् बिभ्रतः (कृतिनः) मूढमनसाम् महीभुजाम्
गजकर्णतालतरलाश्रयाः श्रियः विहसन्ति ।

दधदुद्धतं हर पुरः पुरंध्रिभिः प्रबलं बलं गलदपाङ्गभङ्गिभिः । हृदयं भिनत्ति मम
घस्मरः स्मरः शरपातकातरदृशो भृशं कृशम् ॥ १५ ॥

जनयन्नयं नयनयोरधीरतां भ्रमयन्भ्रुवं भृशमदभ्रसंभ्रमाम् । श्लथयन्प्रयत्नकृतसंगमं
शमं हसनीयतां नयति रोष ईश माम् ॥ १६ ॥

धनलाभसंभ्रतविलासवासनाव्यथमानमानसमसत्यसङ्गरम् । न विशोभिलोभविवशं स्पृशन्ति मां
सुहृदोऽपि कोपितकदर्थितार्थिनम् ॥ १७ ॥

उचितत्रिवर्गरहितं तिरोहितं घनमोहमूढमनसं हसन्ति माम् । कृतमेधसामधिसदः सदःसदः
सदसद्विवेकविकलं कलङ्कितम् ॥ १८ ॥

इति तर्जयन्ति रिपवः सुदुर्जयाः परिवर्जयन्ति च विशुद्धबुद्धयः । न पुनर्जयन्ति विधुरं यथा तथा
कुरु हे महेश दृशमेहि देहि नः ॥ १९ ॥

अन्वय-हे हर ! पुरः गलदपाङ्गभङ्गिभिः पुरंध्रिभिः प्रबलम् बलम् दधत् घस्मरः स्मरः
शरपातकातरदृशः मम भृशम् कृशम् हृदयम् भिनत्ति हे ईश ! नयनयोः अधीरताम् जनयन् भृशम्
अदभ्रसंभ्रमाम् भ्रुवम् भ्रमयन् प्रयत्नकृतसङ्गम् शमम् श्लथयन् अयम् रोषः माम् हसनीयताम् नयति ।
धनलाभसंभ्रतविलासवासनाव्यथमानमानसम् असत्यसङ्गं विशोभिलोभविवशम् कोपितकदर्थितार्थिनम्
माम् सुहृदः अपि न स्पृशन्ति (किं पुनरितरे जनाः ?) उचितत्रिवर्गरहितम् (साधुजनेन) तिरोहितम्
घनमोहमूढमनसम् सदसद्विवेकविकलम् कलङ्कितम् माम् कृतमेधसाम् अधिसदः (सदसि) सदःसदः
(सभ्याः) हसन्ति । इति (पूर्वोक्तप्रकारेण) सुदुर्जयाः (कामक्रोधलोभमोहाख्याः) रिपवः माम् तर्जयन्ति
विशुद्धबुद्धयः (विद्वांसः) माम् परिवर्जयन्ति हे महेश ! (अधुना) ते माम् विधुरम् पुनः यथा न जयन्ति
तथा कुरु (त्वम्) शीघ्रम् एहि नः (अस्मभ्यम्) (अनुग्रहमयीं) दृशम् देहि ।

क्व महेश्वरस्मरणसम्भवं भव- भ्रमभीमघर्मशमसंमुखं सुखम् । विपदां पदं
मृदुमृणालिनीदल- स्खलदम्बुबिन्दुतरलाः क्व सम्पदः ॥ २० ॥

क्व शिवेश्वरेति कृतगण्डमण्डली पुलकोद्गमप्रमदमन्थरा गिरः । क्व यथार्थपार्थिवनिरर्थकाऽनृत-
स्तुतिविस्तरैरपथपातपातकम् ॥ २१ ॥

क्व समाधिबाधितदुराधिसाधिमा भव-सम्भवश्रमदमक्षमः शमः । क्व मदः प्रदर्शितसमग्रविग्रहः
प्रहसन्मनस्विजनगर्हित-स्थितिः ॥ २२ ॥

इति मामनर्गलममार्गमार्गण- प्रवणाविवेकविकलीकृताशयम् । करुणानिधान परिबोधय क्षणं
क्षणदाविशेषकशिखाशिखामणे ॥ २३ ॥ (चक्कलकम्)

अन्वय-भवभ्रमभीमघर्मशमसंमुखम् महेश्वरस्मरणसम्भवम् सुखम् (अत्युत्कृष्टम्) क्व
मृदुमृणालिनीदलस्खलदम्बुबिन्दुतरलाः विपदाम् पदम् संपदः (अत्यन्त गर्ह्याः) क्व ?
कृतगण्डमण्डलीपुलकोद्गमप्रमदमन्थराः हे शिव ! हे ईश्वर ! (मां पाहीति
सकलविद्वज्जनमनोहराः) गिरः क्व यथार्थपार्थिवनिरर्थकानृतस्तुतिविस्तरैः अपथपातपातकम् क्व ?
(अत्यन्त गर्हणीयमित्यर्थः) तथा समाधिबाधितदुराधिसाधिमा भवसम्भवश्रमदमक्षमः शमः
(जितेन्द्रियत्वम्) क्व (अतिप्रशस्यमित्यर्थः) प्रदर्शितसमग्रविग्रहः प्रहसन्मनस्विजनगर्हितस्थितिः
(नितान्तगर्ह्यः) मदः क्व ? हे क्षणदाविशेषकशिखाशिखामणे ! हे करुणानिधान ! इति (प्रकारेण)
अनर्गलम् अमार्गमार्गणप्रवणाऽविवेकविकलीकृताशयम् माम् क्षणम् परिबोधय ।

प्रमदा मदारुणदृशः कृशोदरास्तनया नयानतसमस्तमस्तकाः । सुहृदो हृदन्तरगतेङ्गितस्पृशः
प्रणयार्द्रनिर्भरगिरश्च बन्धवः ॥ २४ ॥

दधतः प्रसादमधुरां धुरामपि प्रभवोऽमृतद्रवसमानमानसाः । मुखवीक्षणप्रणयिनः
प्रतिक्षणं परिचारकाश्च जयजीववादिनः ॥ २५ ॥

न भयं भयङ्करकृतान्तकिङ्करभ्रुकुटीभवं झटिति हन्तुमीशते । भजतामतः क्षपयदापदं
पदं हृदये दयामृतनिधे निधेहि नः ॥ २६ ॥ (तिलकम्)

अन्वय-हे प्रभो ! मदारुणदृशः कृशोदराः प्रमदाः नयानतसमस्तमस्तकाः तनयाः
हृदन्तरगतेङ्गितस्पृशः सुहृदः प्रणयार्द्रनिर्भरगिरः बन्धवः च प्रसादमधुराम् धुराम् अपि
दधतः अमृतद्रवसमानमानसाः प्रभवः प्रतिक्षणम् मुखवीक्षणप्रणयिनः जयजीववादिनः
परिचारकाः च भयङ्करकृतान्तकिङ्करभ्रुकुटीभवम् भयम् झटिति हन्तुम् नर् ईशते । अतः हे
दयामृतनिधे ! आपदम् क्षपयत् भजताम् नः हृदये पदम् निधेहि ।

हन्ताऽहन्ता प्रथयति मतिह्रासमासञ्जयन्ती मायामायासित-सितशमा यामिनी यामिनीव ।
तस्मादस्मान्रविशशिशिखिप्रेङ्खितोद्दामधाम क्षिप्त्वा चक्षुर्मुदितमुदिताऽवन्ध्यबोधान्विधेहि ॥ २७ ॥

अन्वय-हन्त ! आयासितसितशमा मायाम् आसञ्जयन्ती यामिनी (विस्तारवती) यामिनी इव (इयम्) अहन्ता (नः)
मतिह्रासम् प्रथयति । तस्मात् हे विभो ! रविशशि-शिखि-प्रेङ्खितोद्दामधाम मुदितम् चक्षुः क्षिप्त्वा अस्मान्
मुदिताऽवन्ध्यबोधान् विधेहि ।


तातस्त्राता नहि न सहजाश्वासनं यंत्र चाम्बा- स्नेहारम्भो भवति विफलो बन्धवो

यत्र बन्ध्याः । चौराहर्यं क्षयविरहितं खिद्यतां देहभाजा- मेकं तस्मिन्पथि सुमधुरं शम्बलं
शम्भुनाम ॥ -----------------------

इति श्रीप्रेममकरन्दव्याख्यासमेतं काश्मीरकमहाकविश्रीमजगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुति कुसुमाञ्जलौ उपदेशनं नाम षोडशं स्तोत्रम् ।

सप्तदशं स्तोत्रम्

मन्दस्पन्दे मनसि रसिकीभावमासाद्य सद्यो हृद्योद्योगा विहर वरदे भारति स्वारतिस्ते । मातर्जातस्पृहमिव
महामोहनिद्रावसाने जनीहीमं जनमनलसं शंसितुं शम्भुभक्तिम् ॥ १ ॥

अन्वय-अयि वरदे ! भारति ! मन्दस्पन्दे (मे) मनसि सद्यः रसिकीभावम् आसाद्य हृद्योद्योगा विहर ते स्वारतिः
(भवति) हे मातः इह महामोहनिद्रावसाने इमम् जनम् शम्भुभक्तिम् शंसितुम् अनलसम् जातस्पृहम् जानीहि ।

द्राक्षा साक्षादमृतलहरी कर्कशात्काष्ठकोषा-द्भूरिच्छिद्रात्प्रकृतिमधुरा मूर्च्छना वंशगर्भात्
। सूक्तिव्याजान्मम च वदनात्कर्णपेया सुधेयं निर्गच्छन्ती जनयति न कं विस्मयस्मेरवक्त्रम् ॥ २ ॥

अन्वय-कर्कशात् काष्ठकोषात् निर्गच्छन्ती साक्षात् अमृतलहरी द्राक्षा भूरिच्छिद्रात् वंशगर्भात्
निर्गच्छन्ती प्रकृतिमधुरा मूर्च्छना (एवमेव) मम च वदनात् सूक्तिव्याजात् निर्गच्छन्ती इयम् कर्णपेया
सुधा कम् (सचेतनम्) विस्मयस्मेरवक्त्रम् न जनयति ?

ध्यात्वा देव प्रमयसमयत्रासमासन्नकल्पं स्वल्पं ज्ञात्वा सुलभशलभच्छायसच्छायमायुः । मत्त्वा च
त्वा सदयहृदयं भक्तिवाल्लभ्यलभ्यं सभ्यंमन्यास्तव नवविधौ धौतचित्ता यतंन्ते ॥ ३ ॥

अन्वय-हे देव ! प्रमयसमयत्रासम् आसन्नकल्पम् ध्यात्वा सुलभशलभच्छायसच्छायम् आयुः स्वल्पम् ज्ञात्वा
त्वा (त्वाम्) च सदयहृदयम् भक्तिवाल्लभ्यलभ्यम् मत्त्वा धौतचित्ताः सभ्यंमन्याः तव नवविधौ यतन्ते ।

कण्ठे कण्ठीरवरवसदृग्दृक्समुद्गोद्गताश्रो- र्हेलोन्मीलद्विपुलपुलकोद्भृत-भूतेशभक्तेः । यस्योदेति
ध्वनिरनिभृतः शर्वशर्वेत्यखर्वं गर्वं बिभ्रद्धसति वसतिं वासवीयां स एकः ॥ ४ ॥

अन्वय-दृक्समुद्गोद्गताश्रोः हेलोन्मीलद्विपुलपुलकोद्भूतभूतेशभक्तेः यस्य कण्ठे कण्ठीरव-रवसदृक्
अनिभृतः हे शर्व ! हे शर्व ! (मां पाहि) इति ध्वनिः उदेति स एकः अखर्वम् गर्वम् बिभ्रत् वासवीयाम्
वसतिम् हसति ।

तन्मानुष्यं प्रभवति सतामुत्तमा यत्र जातिः सैका जातिः प्रसरति यशो यत्र पाण्डित्यहेतु ।
तत्पाण्डित्यं सरसमधुरा जृम्भते यत्र वाणी वाणी सापि प्रथयति रतिं शाङ्करी यत्र भक्तिः ॥ ५


अन्वय-मानुष्यं तत् (एव) सताम् यत्र उत्तमा जातिः प्रभवति सा (एव) एका जातिः (प्रशस्या) यत्र
पांडित्यहेतु यशः प्रसरति पाण्डित्यम् (अपि) तत् (एव धन्यम्) यत्र सरसमधुरा वाणी जृम्भते साऽपि
वाणी (धन्यतमा) यत्र शाङ्करी भक्तिः रतिम् प्रथयति ।

येषां वक्त्रे समदमुदितत्वच्चरित्राः पवित्रा द्वित्रा वित्रासितरविसुतभ्रूविभङ्गप्रसङ्गाः । नोज्जृम्भन्ते
मधुकणमुचः सूक्तयो भक्तिसिक्ता धिक्तान्रिक्तान्भुवि भव भवत्पादसेवारसेन ॥ ६ ॥

अन्वय-हे भव ! वित्रासितरविसुतभ्रूविभङ्गप्रसङ्गाः मधुकणमुचः भक्तिसिक्ताः पवित्राः
समदमुदितत्वच्चरित्राः द्वित्राः सूक्तयः येषाम् वक्त्रे न उज्जृम्भन्ते भुवि भवत्पादसेवारसेन रिक्तान् तान्
धिक् (अस्तु) ।

प्. ४४७)

नाथ ज्योत्स्ना बहुलरजनौ कार्तिकीयेव कान्ता कान्तारान्तर्मथितपथिकप्रौढतापा प्रपेव । मा मा
भैषीरिति यमभये तावकीनेव वाणी भावत्की मे सततममृतस्यन्दिनी भाति भक्तिः ॥ ७ ॥

अन्वय-हे नाथ ! बहुलरजनौ कार्तिकीया कान्ता ज्योत्स्ना इव कान्तारान्तः मथितपथिकप्रौढतापा प्रपा
इव यमभये मा मा भैषीः इति तावकीना वाणी इव भावत्की भक्तिः मे सततम् अमृतस्यन्दिनी भाति ।

येषामन्तः सुकृतसरणिः स्थाणवीया न भक्ति- र्व्यक्तिं धत्ते रसकृदसकृन्नास्मि तेषु स्मितेषु । लोकः
शोकं त्यजति सहसा यत्र तद्भक्तियुक्तं युक्तं मन्ये रुदितमुदितश्लाघमुल्लाघहेतुम् ॥ ८ ॥

अन्वय-येषाम् (प्रमोदोद्धूतहसितानाम्) अन्तः सुकृतसरणिः स्थाणवीया भक्तिः व्यक्तिम् न धत्ते तेषु
स्मितेषु असकृत् रसकृत् न अस्मि (तानहं नाऽऽशासे इत्यर्थः) यत्र (श्री शम्भुभक्तियुक्ते) रुदिते (अपि)
लोकः (सामान्यलोकोऽपि) सहसा शोकम् त्यजति तत् उदितश्लाघम् उल्लाघहेतुम् भक्तियुक्तम् रुदितम् (अपि अहम्)
युक्तम् मन्ये ।

ध्वान्तं शान्तप्रशममहरद्यन्न सद्यः समुद्य-न्नुद्योतश्रीकलितकमलोल्लासभानुः स भानुः ।
तद्विध्वस्तप्रमदमदमोद्दीपितोद्दामदोष- प्लोषं नेतुं प्रभवति भवे शांभवी भक्तिरेव ॥ ९ ॥

अन्वय-उद्योतश्रीकलितकमलोल्लासभानुः सः भानुः समुद्यन् शान्तप्रशमम् यत् ध्वान्तम् न अहरत् । भवे
विध्वस्तप्रमदम् अदमोद्दीपितोद्दामदोषम् तत् ध्वान्तम् (अज्ञानरूपम्) प्लोषम् नेतुम् शाम्भवी भक्ति एव
प्रभवति ।

ये सन्तोषप्रशमपिशुने क्लेशराशौ निमग्ना भग्नाशाभिर्विषमविषयोपासनावासनाभिः । तेषामेषा
भवभयभिदारम्भसंभावनाभू- र्भूत्यै भूयस्त्रिजगति गतिः शाम्भवी भक्तिरेव ॥ १० ॥

अन्वय-ये भग्नाशाभिः विषमविषयोपासनावासनाभिः सन्तोषप्रशमपिशुने क्लेशराशौ निमग्नाः तेषाम्
एषा त्रिजगति (अगतीनाम्) गतिः भूयः भवभयभिदारम्भसंभावनाभूः शाम्भवी भक्तिः एव भूत्यै
(भवति) ।

दम्भस्तम्भस्थगितगतयः सावहेला-महेला- हेलालापभ्रमितमतयः सन्त्यसंख्याः पुमांसः । भार्गीं
भक्तिं दधति हृदये निस्तरङ्गामभङ्गां गङ्गातीरे विहितरतयो दुर्लभाः पूरुषास्ते ॥ ११ ॥

अन्वय-दम्भस्तम्भस्थगितगतयः सावहेलामहेलाहेलालापभ्रभितमतयः पुमांसः (भुवि) असंख्याः सन्ति
ये (पुनः) गङ्गातीरे विहितरतयः (सन्तः) हृदये निस्तरङ्गाम् अभङ्गाम् भार्गीम् भक्तिम् दधति ते
पूरुषाः दुर्लभाः सन्ति ।

शम्भो दम्भो दहति कुहकारम्भसंभावनाभिः साभिद्वेषस्त्विषमपकषत्येष रोषप्रदोषः ।
सावष्टम्भं भ्रमयति बृहन्मामहङ्कारभारः पारं नेतुं प्रभवति भवद्भक्तिरेका भवाब्धेः ॥ १२


अन्वय-अयि शम्भो ! कुहकारम्भसंभावनाभिः दम्भः माम् दहति साऽभिद्वेषः एषः रोषप्रदोषः (मम)
त्विषम् अपकषति बृहत् अहङ्कारभारः सावष्टम्भम् माम् (कुपथेषु) भ्रमयति (अतः) माम् भवब्धेः
पारम् नेतुम् एका भवद्भक्तिः (एव) प्रभवति ।

द्राक्संधत्ते युधमधिधनुर्बद्धबाणाभिरामैः सभ्रू भङ्गैर्लटभललनापाङ्गभङ्गैरनङ्गः ।
दोषप्लोषक्षमशमपथापातमातन्वती मे भीमे भक्तिर्भगवति गतिश्चक्षुषश्चन्द्रिकेव ॥ १३ ॥

अन्वय-अधिधनुः बद्धबाणाभिरामैः सभ्रूभङ्गैः लटभललनापाङ्गभङ्गैः अनङ्गः युधम् द्राक्
संधत्ते अतः चक्षुषः चन्द्रिका इव दोषप्लोषक्षमशमपथापातम् आतन्वती भगवति भीमे भक्तिः एव
एका मे गतिः (अस्ति) ।

कामः कामं धनुरनुनिशं कौसुमं संवृणोतु व्यालं कालः स्वकरकुहरे भग्नभोगं विधत्ताम् ।
भार्गी भक्तिः सपदि सकलप्रार्थनाकल्पवल्ली लब्धा दृब्धा जगति कति न क्लेशपाशा हताशाः ॥ १४ ॥

अन्वय-कामः अनुनिशम् कौसुमम् धनुः कामम् संवृणोतु (क्वापि संगोप्य रक्षतु) । कालः व्यालम्
स्वकरकुहरे भग्नभोगम् विधत्ताम् । (मया प्राचीनपुण्यपरिपाकेन) सपदि सकलप्रार्थनाकल्पवल्ली भार्गी
भक्तिः लब्धा अतः जगति हताशाः क्लेशपाशाः (मया) कति न दृब्धाः ।

राज्ञामाज्ञाविहतिविहितानीकिनीनीरसश्रीः स श्रीलेशस्तनुरनुचितप्रार्थनस्तावदास्ताम् । ऐन्द्रं यत्र
त्रिभुवनजयप्राज्यसाम्राज्यलक्ष्मी- लक्ष्मावज्ञास्पदमपि पदं तां स्तुमः शम्भुभक्तिम् ॥ १५ ॥

अन्वय-राज्ञाम् आज्ञाविहतिविहितानीकिनीनीरसश्रीः (अत-एव) अनुचितप्रार्थनः सः तनुः श्रीलेशः
तावत् आस्ताम् यत्र त्रिभुवनजयप्राज्यसाम्राज्य-लक्ष्मीलक्ष्म ऐन्द्रम् पद्म अपि (लब्धम्) अवज्ञास्पदम्
(भवति) ताम् शम्भुभक्तिम् स्तुमः ।

कान्तैकान्तव्यसनमनसां वल्कलालङ्कृतानां ज्ञानाम्भोभिः क्षपितरजसां जाह्नवीतीरभाजाम् ।
गाढोत्सेकप्रकटितजटामण्डलीमण्डनानां नानाकारा भवति कृतिनां मुक्तये भर्गभक्तिः ॥ १६ ॥

अन्वय-कान्तैकान्तव्यसनमनसाम् वल्कलालङ्कृतानाम् ज्ञानाम्भोभिः क्षपितरजसाम् जाह्नवीतीरभाजाम्
गाढोत्सेकप्रकटितजटामण्डलीमण्डनानाम् कृतिनाम् नानाकारा भर्गभक्तिः मुक्तये भवति ।

मूर्तिर्धूतिं प्रथयति यथा मञ्जरी जीर्णपर्णा कर्णाभ्यर्णं प्रसरति जरा सत्यतो मृत्युदूती ।
भोगा भोगा इव विदधतश्चेष्टितं वेष्टयन्ते हन्तेदानीं शरणमपरं नास्ति नः शम्भुभक्तेः ॥ १७


अन्वय-नः मूर्तिः जीर्णपर्णा मञ्जरी यथा धूतिम् प्रथयति सत्यतः मृत्युदूती जरा (नः)
कर्णाभ्यर्णम् प्रसरति भोगाः भोगाः इव विदधतः चेष्टितम् वेष्टयन्ते हन्त ! इदानीम् शम्भुभक्तेः
अपरम् नः शरणम् नास्ति ।

यत्र ध्वान्तक्षपणनिपुणं दुर्बलं धाम चान्द्रं सांद्रं यत्र ग्लपयति तमस्तापनो यन्न तापः ।
यत्र प्रेङ्खन्न कचति शिखी तेजसाऽन्येन सत्रा तत्रालोकं दिशति विषमे शांभवी भक्तिरेका ॥ १८ ॥

अन्वय-ध्वान्तक्षपणनिपुणम् चान्द्रम् धाम यत्र (मोहान्धतमसे निराकर्तव्ये) दुर्बलम् (भवति) यत्र
तापनः तापः सान्द्रम् तमः न ग्लपयतिः यत्र (च) अन्येन तेजसा सत्रा (सह) प्रेङ्खन् शिखी न कचति
तत्र विषमे (मोहाऽन्धतमसे) एका शाम्भवी भक्तिः (एव) आलोकम् दिशति ।

मा भूद्भूयोऽभ्यसनसुलभान्वीक्षिकी नाम विद्या हृद्या दूरे विहरतु विपत्खण्डिनी दण्डनीतिः ।
क्वापि स्थेम्ना लसतु कलितोल्लाघवार्तापि वार्ता नार्तावर्हं किमपि शरणं शम्भुभक्तिं विनाऽन्यत् ॥ १९


अन्वय-भूयोऽभ्यसनसुलभा आन्वीक्षिकी [प्रत्यक्षागमाभ्यामीक्षितस्य पश्चादीक्षणम् अन्वीक्षा सा
प्रयोजनं यस्याः सा आन्वीक्षिकी (तर्कविद्या)] विद्या मा भूत् नाम विपत्खण्डिनी हृद्या दण्डनीतिः
(अपि) दूरे विहरतु (सापि भवभयहारी नास्तीत्यर्थः) कलितोल्लाघवार्ता
(कृषिपाशुपाल्यवाणिज्यादिरूपा) वार्ता अपि क्वापि स्थेम्ना लसतु आर्तौ शम्भुभक्तिम् विना अन्यत् शरणम्
अर्हम् न (भवति) ।

संसाराब्धेः प्रथमलहरी पातकापातकामा रामा नाम स्थगयति गतिं मज्जतां सज्जनानाम् ।
मोहावर्त्तभ्रमसमुदयत्खेदविच्छेदहेतुः सेतुर्दूरीभवति च भृशं शेमुषी शेमुषीयम् ॥ २० ॥

तस्मादस्माज्जननमरणक्लेशवेशन्तपङ्का- च्छङ्कातङ्काकुलितमतयो ये तितीर्षन्ति तेषाम् ।
आशापाशग्रथितवपुषां क्रन्दतामातुराणां प्राणापाते वितरति करालम्बनं शम्भुभक्तिः ॥ २१ ॥
(युगलकम्)

अन्वय-संसाराब्धेः प्रथमलहरी पातकाऽऽपातकामा रामा (भवाब्धौ) मज्जताम् सज्जनानाम् गतिम्
स्थगयति नाम मोहावर्त्तभ्रमसमुदयत्खेदविच्छेदहेतुः सेतुः (सेतुरूपा) शेमुषी इयम् शेमुषी च
दूरीभवति । तस्मात् अस्मात् जननमरणक्लेशवेशन्तपङ्कात् शङ्कातङ्काकुलितमतयः ये पारम् तितीर्षन्ति
तेषाम् आशापाशग्रथितवपुषाम् क्रन्दताम् आतुराणाम् प्राणापाते (केवलम्) शम्भुभक्तिः (एव)
करालम्बनम् वितरति ।

एणाक्षीणां स्मरशरशिखाकोटिशौटीर्यभीमाः प्रेमाकृष्टा झगिति कुटिला ये कटाक्षाः पतन्ति ।
कालेनैते कुलिशनिशितास्तुण्डदण्डा जडानां भिन्दन्त्यन्तर्हृदयमदयम् पत्रिणां नारकाणाम् ॥ २२ ॥

अन्वय-स्मरशरशिखाकोटिशौटीर्यभीमाः प्रेमाकृष्टाः झगिति एणाक्षीणाम् ये कुटिलाः कटाक्षाः
(तदासक्तकामिजनं प्रति) पतन्ति एते (एव) कटाक्षाः कालेन कुलिशनिशिताः (सन्तः) नारकाणाम्
पत्रिणाम् तुण्डदण्डाः अदयम् (कृत्वा) तेषाम् मूढानाम् अन्तःहृदयम् भिन्दन्ति ।

बाहुद्वन्द्वं तुलित-विवलद्बालमार्णालनालं सालङ्कारं रणितवलयं वेष्टितं कण्ठपीठे ।
मोहान्धानां महति पततां यातनातङ्कपङ्के शङ्के पङ्केरुहदलदृशः पाशतामेतदेति ॥ २३ ॥

अन्वय-तुलितविवलद्बालमार्णालनालम् सालङ्कारम् रणितवलयम् पङ्केरुहदलदृशः (यत्) बाहुद्वन्द्वम्
मोहान्धानाम् कण्ठपीठे वेष्टितम् (तदेव) कालेन महति यातनातङ्कपङ्के पतताम् (तेषाम्) पाशताम् एति
एतत् (अहम्) शङ्के ।

यत्साकूतं मुकुलितदृशः केतकामोदहृद्यं सद्यः स्विद्यद्वदनममृतस्यन्दि पीतं नताङ्ग्याः ।
रागान्धानां निरयनिलये तद्दुरापावसाने जाने भूयः पतनशपथाक्रोशकोषत्वमेति ॥ २४ ॥

अन्वय-साकूतम् केतकामोदहृद्यम् सद्यः स्विद्यत् अमृतस्यन्दि मुकुलितदृशः नताङ्ग्याः यत् वदनम्
(रागान्धैः) पीतम् तदेव भूयः (तेषाम्) रागान्धानाम् दुरापावसाने नरकनिलये
पतनशपथाक्रोशकोषत्वम् एति (इति अहम्) जाने ।

रागोद्रेकात्कनककलशाकारमालम्बि हारं सारङ्गाक्ष्याः पृथुकुचयुगं गाढमालिङ्गितं यत् ।
तन्मूढानां नरककलिले मज्जतामन्तकाले नाले लग्नस्थिरतरगुरुग्रावभावं बिभर्ति ॥ २५ ॥

अन्वय-कनककलशाकारम् आलम्बि हारम् यत् सारङ्गाक्ष्याः पृथुकुचयुगम् (मूढैः) रागोद्रेकात् गाढम्
आलिङ्गितम् (तदेव) अन्तकाले नरककलिले मज्जताम् (तेषाम्) नाले लग्नस्थिरतरगुरुग्रावभावम् बिभर्ति ।

किं भूयोभिर्वचनरचनाडम्बरैर्दीर्घशोका लोका युक्तं शृणुत सुतरां पश्चिमं वाक्यमेतत् ।
दुःखोदर्कं प्रमुखसुखदं सङ्गमुत्सृज्य साङ्गं गाङ्गं लब्ध्वा सलिलममलं शम्भुभक्तिं भजध्वम्
॥ २६ ॥ (पञ्चभिः कुलकम्)

अन्वय-भूयोभिः वचनरचनाडम्बरैः (विवेकोत्पादकवैराग्यवचनारम्भाडंबरैः) किम् (भवति) हे
दीर्घशोकाः लोको (एतत्पूर्वोक्तं मदीयं सूक्तमवधार्य) सुतराम् युक्तम् (मम) एतत् पश्चिमम् वाक्यम्
(सावधानाः) शृणुत ! दुःखोदर्कम् प्रमुखसुखदम् साङ्गम् सङ्गम् उत्सृज्य अमलम् गाङ्गम् सलिलम् लब्ध्वा
शम्भुभक्तिम् (एव) भजध्वम् ।

त्रैलोक्यं लम्भयन्तस्तृणगणगणनां रोहिणीकान्तलेखा-रेखालङ्कारभक्तिप्रमुदितमनसो निर्मलं धाम
लब्धुम् । धन्याः संन्यासिनोऽन्तः कलिमलपटलं भूरि भिन्दन्त्यमन्दा मन्दाकिन्याः पयोभिः
शशिमुकुटजटावैजयन्तीदुकूलैः ॥ २७ ॥

अन्वय-त्रैलोक्यम् तृणगणगणनाम् लम्भयन्तः रोहिणीकान्तलेखारेखालङ्कारभक्तिप्रमुदितमनसः
धन्याः अमन्दाः संन्यासिनः निर्मलम् धाम लब्धुम् शशिमुकुटजटावैजयन्तीदुकूलैः मन्दाकिन्याः
पयोभिः अन्तः भूरि कलिमलपटलम् भिन्दन्ति ।

एवं देव प्रभेव स्मरहर सकलद्वीपदीपस्य भर्त्तु- र्भासामासादयन्ती विषमतमतमःखण्डने
चण्डिमानम् । कारागारानुकारे परिभवति भवे बद्धमोहान्धकारे- भावत्की भक्तिरेका
शरणमशरणत्राणविश्राणिनी नः ॥ २८ ॥

अन्वय-हे देव स्मरहर ! एवं (उक्तप्रकारेण वर्णिता) विषमतमतमःखण्डने भासाम् चण्डिमानम्
आसादयन्ती वद्धमोहान्धकारे कारागारानुकारे भवे परिभवति (सति) सकलद्वीपदीपस्य भर्तुः
(दिनमणेः) प्रभा इव अशरणत्राणविश्राणिनी एका भावत्की भक्तिः एव नः शरणम् !

ये विश्वस्थितिसर्गसंहृतिकृतो देवास्त्रयस्तेऽपि यं सेवन्ते मुखवीक्षणप्रणयिनो दृक्पातमात्रार्थिनः ।
यस्याः स प्रभुरप्रमेयमहिमा क्रीडाशकुन्तायते तां भक्तिं भुवनत्रयाद्भुतमहामाहात्म्यशक्तिं
स्तुमः ॥ २९ ॥

अन्वय-विश्वस्थितिसर्गसंहृतिकृतः ये त्रयः देवाः (सन्ति) ते अपि (कामयं परमेश्वरः आज्ञां
विधास्यतीति-) मुखवीक्षणप्रणयिनः दृक्पातमात्रार्थिनः सन्तः यम् (प्रभुम्) सेवन्ते ! सः
अप्रमेयमहिमा (अपि) प्रभुः यस्याः (भक्तेः) क्रीडाशकुन्तायते ताम् भुवनत्रयाद्भुतमहामाहात्म्यशक्तिम्
भक्तिम् (वयम्) स्तुमः ।

गावस्तावद्दुहाना रसमसमसुधासोदरास्वादबन्धुं भक्तिर्भर्गे निसर्गक्लमशमनचमत्कारभोगैकभूमिः ।
तृप्तिः स्वात्मावभासादनुपमपरमानन्दनिःस्यन्दसंवि- द्विश्रान्त्येकान्तहेतोरिति सपति विपत्किङ्करी
किङ्करोतु ॥ ३० ॥

अन्वय-तावत् असमसुधासोदरास्वादबन्धुम् रसम् दुहाना गावः निसर्गक्लमशमनचमत्कारभोगैकभूमिः
भर्गे भक्तिः स्वात्मावभासात् अनुपमपरमानन्दनिःस्यंदसंविद्विश्रान्त्येकान्तहेतोः तृप्तिः च (मे अस्ति)
इति (हेतोः) सपदि किङ्करी विपत् किम् करोतु ?

इति श्री प्रेममकरन्दव्याख्यासमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो
महेश्वरस्य स्तुति-कुसुमाञ्जलौ भक्तिस्तोत्रं नाम सप्तदशं स्तोत्रम्

अष्टादशं स्तोत्रम्

जयति जितविकारः कॢप्तलोकोपकारः कृतविपदपकारः शान्तमोहान्धकारः । अतुलपुरुषकारः
प्राप्तविश्वाधिकारः स्मररचितनिकारः पार्वतीचाटुकारः ॥ १ ॥

अन्वय-जितविकारः कॢप्तलोकोपकारः कृतविपदपकारः शान्तमोहान्धकारः अतुलपुरुषकारः
प्राप्तविश्वाधिकारः स्मररचितनिकारः पार्वतीचाटुकारः जयति ।

अतनुमतनुतामुं प्राणिनां पूर्णशक्ति- स्तनुभुवनगणं यः शर्मदः कर्मभुक्त्यै ।
दिशमदिशदशङ्कां शास्त्ररूपां च मुक्त्यै स भवतु भवदोषप्लोषकृद्वो महेशः ॥ २ ॥

अन्वय-पूर्णशक्तिः शर्मदः यः (विभुः) प्राणिनाम् कर्मभुक्त्यै अतनुम् अमुम् तनुभुवनगणम्
(स्वतनुरूपनिखिलभुवनानां गणम्) अतनुत प्राणिनाम् मुक्त्यै अशङ्काम् शास्त्ररूपाम् दिशम् च अदिशत् सः
महेशः वः भवदोषप्लोषकृत् भवतु ।

अनलसहितवृत्तौ सत्कलाभासशुद्धे बुधवरमुखपद्मे भारती निर्मलोर्मिः । वरद
परमतापक्लेशजित्त्वत्प्रसादात् प्रभवति भवदीये मूर्धनि स्वर्धुनीव ॥ ३ ॥

अन्वय-हे वरद ! अनल-सहित-वृत्तौ सत्कलाभासशुद्धे भवदीये मूर्धनि निर्मलोर्मिः परमतापक्लेशजित्
स्वर्धुनी इव त्वत्प्रसादात् अनलस-हितवृत्तौ सत्कलाभासशुद्धे बुधवरमुखपद्मे निर्मलोर्मिः
परमतापक्लेशजित् भारती प्रभवति ।

भव भवमरुचारश्रान्तसन्तापतान्ति- प्रशमनघनवर्षावारिवाहं तवाहम् ।
नमदमरकिरीटप्रोतरत्नांशुपूर- स्फुरदुरुसुरचापं पादपीठं प्रपद्ये ॥ ४ ॥

अन्वय-हे भव ! अहम् भवमरुचारश्रान्तसन्तापतान्तिप्रशमनघनवर्षावारिवाहम्
नमदमरकिरीटप्रोतरत्नांशुपूरस्फुरदुरुसुरचापम् तव पादपीठम् प्रपद्ये ।

करकलितकपोला बालशैवालशय्या- तललुलितमृणालीपेलवम्लानमूर्तिः । चिरविरहविनिद्रा
रुद्रदृक्पातपात्रं दिशि दिशि निशि पश्यत्यङ्गनानङ्गभीरुः ॥ ५ ॥

अन्वय-करकलितकपोला बालशैवालशय्या-तललुलितमृणालीपेलवम्लानमूर्तिः चिरविरहविनिद्रा
अनङ्गभीरुः अङ्गना रुद्रदृक्पातपात्रम् (पुरुषम्) निशि दिशि दिशि पश्यति ।

हरचरणसरोजद्वन्द्वभक्तिप्रसादा- दुपरि करिवराणां संचरन्तः सहेलम् ।
घनमदभरनिर्यन्निर्भरामोदलोभ- स्खलदलिकुलगीतं स्फीतमाकर्णयन्ति ॥ ६ ॥

अन्वय-हरचरणसरोजद्वन्द्वभक्तिप्रसादात् करिवराणाम् उपरि सहेलम् सञ्चरन्तः (शिवभक्ताः) स्फीतम्
घनमदभरनिर्यन्निर्भरामोदलोभस्खलदलिकुलगीतम् आकर्णयन्ति ।

चरणकमलयुग्मं देव निर्दम्भभक्ति- ग्रहपुलकितदेहस्तावकं यो ननाम । अधिवसति स
सेवानम्रसामन्तमौलि- स्खलितबकुलमालालालितं पादपीठम् ॥ ७ ॥

अन्वय-हे देव ! निर्दम्भभक्तिग्रहपुलकितदेहः यः तावकम् चरणकमलयुग्मम् ननाम सः (सुकृतिः)
सेवानम्रसामन्तमौलिस्खलितबकुलमालालालितम् पादपीठम् अधिवसति ।

शशिशकलशिखण्ड त्वत्प्रसादेन धन्याः सितकरधवलाभ्यां चामराभ्यां विभान्ति । उभयत इव
वक्त्रं भाविरुद्रत्वलाभ- प्रकटनपिशुनाभ्यां स्वर्णदीनिर्झराभ्याम् ॥ ८ ॥

अन्वय-हे शशिशकलशिखण्ड ! त्वत्प्रसादेन धन्याः (स्वकीयम्) वक्त्रम् उभयतः [पार्श्वद्वयेऽपि]
सितकरधवलाभ्याम् चामराभ्याम् भाविरुद्रत्वलाभप्रकटनपिशुनाभ्याम् स्वर्णदीनिर्झराभ्याम् इव
विभान्ति ।

क्षितिधरपतिपुत्रीवल्लभ त्वत्प्रसादा- द्दधति जगति धन्या मूर्ध्नि धौतातपत्रम् । घटयितुमधिकत्वं
स्वात्मनोऽपि त्वयैत- त्सकलमिव वितीर्णं मण्डलं शीतरश्मेः ॥ ९ ॥

अन्वय-हे क्षितिधरपतिपुत्रीवल्लभ ! त्वत्प्रसादात् धन्याः जगति मूर्ध्नि (यत्) धौतातपत्रम् दधति (तत्)
एतत् स्वात्मनः (अर्धेन्दुधारिणः) अपि अधिकत्वम् घटयितुम् तेषाम् त्वया सकलम् शीतरश्मेः मण्डलम्
वितीर्णम् इव ! (इत्युत्प्रेक्षा) ।

अयि हृदय दयार्द्रः स्वर्धुनीनीरधारी त्वयि विहरति हस्तन्यस्तपीयूषकुम्भः । यदि
हिमकरलेखाशेखरः कोऽपरस्ते भवदवविनिवृत्तौ शंस शीतोपचारः ॥ १० ॥

अन्वय-अयि हृदय ! दयार्द्रः स्वर्धुनीनीरधारी हस्तन्यस्तपीयूषकुम्भः हिमकरलेखाशेखरः
(श्रीशिवः) यदि त्वयि विहरति तर्हि (त्वम्) शंस ते भवदवविनिवृत्तौ कः अपरः शीतोपचारः (अस्ति) ?

सुरवरनुतधैर्या वैरिदुर्वारवीर्या जगति विविधशास्त्रप्रस्तुताचार्यचर्याः । दधति भुवनतन्त्रं
कोटिशो रुद्रवर्याः कृतसततसपर्या ये पुरा शङ्करस्य ॥ ११ ॥

अन्वय-पुरा ये शङ्करस्य कृतसततसपर्याः (भवन्ति) ते (सुकृतिनः) सुरवरनुतधैर्याः
वैरिदुर्वारवीर्याः जगति विविधशास्त्रप्रस्तुताचार्यचर्याः रुद्रवर्याः (रुद्रवत् वरणीयाः) कोटिशः
भुवनतन्त्रम् दधति ।

गिरि गिरिवरकन्याकान्त शान्तप्रथायां करचरणगणेऽपि क्षामतामश्नुवाने । गलगलदवकाशे वापि
कीनाशपाशे भव भवति विना त्वां प्राणिनां त्राणकृत्कः ॥ १२ ॥

अन्वय-अयि गिरिवरकन्याकान्त ! (वद्धावस्थायाम्) गिरि शान्तप्रथायाम् (सत्याम्) करचरणगणे अपि
क्षामताम् अश्नुवाने (प्राप्ते) कीनाशपाशे गलगलदवकाशे वा सति हे भव ! प्राणिनाम् त्वाम् विना कः
त्राणकृत् (भवति) ।

शयशयननिविष्टं वक्त्रमापाण्डुगण्डं मतिमतिविरहेण ग्लानिभाजं वहन्ती । तनुतनुलतिकार्तिं
मानिनी व्याहरन्ती हर हरति न धैर्यं त्वत्समाधौ बुधानाम् ॥ १३ ॥

अन्वय-हे हर ! शयशयननिविष्टम् आपाण्डुगण्डम् वक्त्रम् वहन्ती अतिविरहेण ग्लानिभाजम् मतिम् वहन्ती
तनुतनुलतिका आर्तिम् व्याहरन्ती मानिनी (अपि) त्वत्समाधौ बुधानाम् धैर्यम् न हरति ।

दलदलघुविवेकं व्यक्तशोकातिरेकं विश विशदमनन्त स्वान्तमन्तः प्रशान्तम् । भव भव
भवदाहध्वंसवर्षाम्बुवाहः कलिकलितरुजानां सप्रजानां प्रजानाम् ॥ १४ ॥

अन्वय-हे अनन्त ! दलदलघुविवेकम् व्यक्तशोकातिरेकम् विशदम् अन्तः प्रशान्तम् स्वान्तम् विश हे भव !
कलिकलितरुजानाम् सप्रजानाम् प्रजानाम् भवदाहध्वंसवर्षाम्बुवाहः भव ।

दहदहतममोघं पाप्मनां दीर्घमोघं रुचिरुचिरममन्दं सुन्दरानन्दकन्दम् । दिश दिशदुपदेशं
नाशितक्लेशलेशं मधुमधुरमुदारं वाक्यपीयूषसारम् ॥ १५ ॥

अन्वय-हे नाथ ! (त्वम्) अहतम् पाप्मनाम् दीर्घम् ओधम् दहत् रुचिरुचिरम् अमन्दम् सुन्दरानन्दकन्दम्
नाशितक्लेशलेशम् उपदेशम् दिशत् मधुमधुरम् उदारम् वाक्यपीयूषसारम् दिश !

सरति सरतिरन्तर्घस्मरो मारवीर- श्चलति च लतिकेव स्फीतभीतिर्मनीषा । तमहित-महिमानं नाथ
निक्षिप्य चक्षुः शमय शमयमेति प्रीतिमान्येन लोकः ॥ १६ ॥

अन्वय-हे नाथ ! घस्मरः सरतिः मारवीरः अन्तःसरति स्फीतभीतिः मनीषा लतिका इव चलति प्रभो !
चक्षुः निक्षिप्य अहित-महिमानम् तम् कामम् शमय येन (हेतुना) प्रीतिमान् अयम् लोकः शम् एति ।

जघनजघनशोभा स्पर्धमाना सभृङ्गं कमलकमलकान्तक्रान्तभासा मुखेन । मुदितमुदितरागा सेवते
देव रामा मदनमदनवीनैस्त्वत्प्रपन्नं विलासैः ॥ १७ ॥

अन्वय-हे देव ! जघनज-घनशोभा अलकाऽन्तक्रान्तभासा मुखेन सभृङ्गम् कमलकम् स्पर्धमाना
उदितरागा रामा मदन-मदनवीनैः विलासैः मुदितम् त्वत्प्रपन्नम् (जनम्) सेवते ।

जनित-जनितरङ्गं जृम्भयन्ती भवाब्धिं कलित-कलितमिस्रा नाथ कादम्बिनीव । हरति हर
तितिक्षोन्माथिनी मोहमूर्च्छा महितमहितवृद्धिः शुद्धबोधप्रकाशम् ॥ १८ ॥

अन्वय-हे हर ! जनित-जनितरङ्गम् भवाब्धिम् जृम्भयन्ती कलितकलितमिस्रा कादम्बिनी इव तितिक्षोन्माथिनी
अहितवृद्धिः मोहमूर्च्छा (प्राणिनाम्) महितम् शुद्धबोधप्रकाशम् हरति ।

भजति भज तिरश्चीं दृष्टिमिष्टप्रसादां कृतसुकृतसुमेधःप्रैधिताभीष्टसिद्धिम् । तिरयति
रयमीश व्यापदां दुःसहानाम् शमनशमनदक्षं त्वां विना नाथ कोऽन्यः ॥ १९ ॥

अन्वय-हे ईश ! (त्वां) भजति (मयि) कृतसुकृतसुमेधःप्रैधिताभीष्टसिद्धिम् इष्टप्रसादाम् तिरश्चीम्
दृष्टिम् भज हे नाथ ! शमनशमनदक्षम् त्वाम् विना दुःसहानाम् व्यापदाम् रयम् अन्यः कः तिरयति ?

समरसमरजोभिः स्वान्तमन्तर्वहद्भि- र्हितविहितवियोगं मोहमाहन्तुकामैः ।
भव-विभवविमुक्तैर्योगिभिर्योऽभ्युपेत- स्तमहतमहनीयश्लाघमीशं प्रपद्ये ॥ २० ॥

अन्वय-यः (प्रभुः) अन्तः समरसम् स्वान्तम् वहद्भिः अरजोभिः हितविहितवियोगम् मोहम् आहन्तुकामैः
भवविभवविमुक्तैः योगिभिः अभ्युपेतः तम् अहतमहनीयश्लाघम् ईशम् (अहम्) प्रपद्ये ।

अकलितमहिमानं ध्वस्तमिथ्याभिमानं दददमृतसमानं बोधमाभासमानम् । प्रकटितलघिमानं दुर्वहं
वर्धमानं भवभवमवभानं भिन्द्धि मे बाधमानम् ॥ २१ ॥

अन्वय-अयि विभो ! (त्वम्) अकलितमहिमानम् ध्वस्तमिथ्याभिमानम् अमृतसमानम् आभासमानम् बोधम् (भक्तजनाय
ददत् प्रकटितलघिमानम् वर्धमानम् बाधमानम् भवभवम् मे दुर्वहम् अवमानम् भिन्द्धि ।

किमिव मणिभिः किं वा मन्त्रैः किमौषधिसंग्रहै- रिह बहुविधैः किं वा कार्यं परैरपि भेषजैः ।
अमृतमपि न प्रायः पापोपतापशमक्षमं व्रजत शरणं तस्मादेकं हरं करुणापरम् ॥ २२ ॥

अन्वय-इह मणिभिः किं इव (भवति) मन्त्रैः वा किम् (भवति) औषधिसङ्ग्रहैः च किम् ? बहुविधैः परैः
अपि भेषजैः वा किम् कार्यम् ? अमृतम् अपि प्रायः पापोपतापशमक्षमम् न (भवति) तस्मात् (अयि भावुकाः)
करुणापरम् एकम् हरम् शरणम् व्रजत ।

इह हि गिरिषु प्रालेयाद्रिर्महःसु विभावसु- र्गुरुषु जननी मन्त्रेष्वेकाक्षरं परमं पदम् । सखिषु
सुकृतं वैरिष्वंहो नदीषु नभोनदी प्रभुषु च परः स्वामी देवः शशाङ्कशिखामणिः ॥ २३ ॥

अन्वय-हि इह गिरिषु प्रालेयाद्रिः परः (श्रेष्ठः अस्ति) महःसु विभावसुः परः गुरुषु जननी परा
मन्त्रेषु एकाक्षरम् परमं पदम् । सखिषु सुकृतम् वैरिषु अहः परः नदीषु नभोनदी परा प्रभुषु च
देवः शशाङ्कशिखामणिः स्वामी परः (अत्युत्कृष्टः अस्ति) ।

न यावदवहीयते धृतिधुरा जराविप्लवै- र्न जीर्यति सरस्वती न च विशीर्यते शेमुषी । न
चामयभुजङ्गमैरवशमङ्गमालिङ्ग्यते भजध्वमजरं विभुं भवजयाय तावद्बुधाः ॥ २४ ॥

अन्वय-हे बुधाः ! (सचेतसः !) यावत् जराविप्लवैः धृतिधुरा न अवहीयते यावत् सरस्वती न जीर्यति
यावच्च शेमुषी न विशीर्यते यावत् आमयभुजङ्गमैः अवशम् अङ्गम् न आलिङ्ग्यते तावत् भवजयाय अजरम्
विभुम् भजध्वम् ।

अराणि करुणं मुहुर्मुहुरकारि चाटु प्रभो- रभावि भवभावनामुदितचेतसान्तर्मुहुः । अलोठि मुकुटं
मुहुश्चरणपीठिकाविष्टरे किमन्यदखिलं जितं करतले कृताः सिद्धयः ॥ २५ ॥

अन्वय-(मया) प्रभोः पुरः मुहुर्मुहुः करुणम् अराणि (अकथि) मुहुर्मुहुः प्रभोः चाटु अकारि अन्तः
भवभावनामुदितचेतसा अभावि चरणपीठिकाविष्टरे मुकुटम् अलोठि अन्यत् किम् (आशासे) ? मया अखिलम्
(विश्वम्) जितम् समस्ताः सिद्धयः करतले कृताः ।

इति श्रीप्रेममकरन्दव्याख्यासमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुति-कुसुमाञ्जलौ सिद्धिस्तोत्रमष्टादशम् ।

एकोनविंशं स्तोत्रम्

यत्ते परं वरद रूपमतीतमेव मार्गं गिरां तदिह कः क्षमते गृणातुम् । अग्राहि यत्तु
नतलोकमनुग्रहीतुं बालेन्दुलक्ष्म भवता तदिदं गृणामि ॥ १ ॥

अन्वय-हे वरद ! यत् ते परम् अतीतम् रूपम् तत् इह गिराम् मार्गम् गृणातुम् कः क्षमते ? (अदृष्टपारत्वात्
ब्रह्मादयोऽपि तन्महिमानं वर्णयितुं न क्षमन्त इत्यर्थः) किन्तु हे दयालो ! यत् तु भवता नतलोकम्
अनुगृहीतुम् बालेन्दुलक्ष्म (रूपम्) अग्राहि तत् (एव) इदम् गृणामि ।

आस्तां परं यदपरं तदपि स्वकीयं दिव्यं वपुर्नहि महेश विमर्शयोग्यम् । यत्किञ्चिदेव तु
विकल्पविकल्प्यमान- मानन्दधाम तदपीह भवार्तिभाजाम् [भवार्द्दितानाम्] ॥ २ ॥

अन्वय-हे महेश ! त्वदीयम् परम् (रूपम्) आस्ताम् ! यत् अपरम् तत् अपि त्वदीयम् दिव्यम् वपुः (दिव्यचक्षुषामपि)
विमर्शयोग्यम् नहि (भवति) अस्मादृशां तु चर्मचक्षुषां कैव वार्तेत्यर्थः) तु यत् किंचित्
विकल्पविकल्प्यमानम् [बुद्धिविकल्पैर्विचार्यमाणम्] तदपि इह (जगति) भवार्तिभाजाम् आनन्दधाम (भवति) ।

मूर्त्तिर्ध्रुवं तव शिवामृतवर्तिरेना- मासाद्य यत्कतिचिदश्रुलवाः पतन्ति । नश्यत्यघौघपटलं
तिमिरं व्यपैति रागः प्रशाम्यति दृशः प्रथते प्रसादः ॥ ३ ॥

अन्वय-हे शिव ! ध्रुवम् तव मूर्तिः अमृतवर्तिः (सुधागुलिकास्ति) यत् एनाम् आसाद्य कतिचित् अश्रुलवाः पतन्ति
अघौघपटलम् नश्यति तिमिरं व्यपैति रागः प्रशाम्यति दृशः प्रसादः प्रथते ।

सत्यं महार्घगुणरत्न निधानमेत- दालम्बनं तव वपुर्विपदर्दितानाम् । नो चेन्नखांशुभरकेसरितं
किमत्र पादाभिधं युगपदुद्गतमब्जयुग्मम् ॥ ४ ॥

अन्वय-हे विभो ! सत्यम् एतत् विपदर्दितानाम् आलम्बनम् तव वपुः महार्घगुणरत्ननिधानम् (अस्ति-एवं) नो चेत्
तर्हिं नखांशुभरकेसरितम् पादाभिधम् अब्जयुग्मम् अत्र किम् उद्गतम् ?

पादद्वयं तव भव प्रणतिप्रकर्ष- हर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् ।
नीहार-शीकर-परिष्कृत-पत्रपङ्क्ति- पङ्केरुहद्वितयकान्ति भजन्ति धन्याः ॥ ५ ॥

अन्वय-हे भव ! धन्याः प्रणतिप्रकर्षहर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् (अतएव)
नीहारसीकरपरिष्कृतपत्रपङ्क्तिपङ्केरुहद्वितयकान्ति तव पादद्वयम् भजन्ति ।

भस्मोज्ज्वलं त्रिदशशेखरपद्मराग- दीप्रप्रभारुणितमङ्घ्रिसरोजयुग्मम् । वन्दामहे
घुसृणरेणुपरागगर्भ- कर्पूरपांसुभिरिव च्छुरितं स्मरारेः ॥ ६ ॥

अन्वय-घुसृणरेणुपरागगर्भकर्पूरपांसुभिः छुरितम् इव भस्मोज्ज्वलम्
त्रिदशशेखरपद्मरागदीप्रप्रभारुणितम् स्मरारेः अङ्घ्रिसरोजयुग्मम् वन्दामहे ।

जङ्घालतायुगलमाश्रितगुल्फमूल- भोगीन्द्रभोगसुभगाभिनवालवालम् । शंभोरभीष्टफलदं
भवतापतान्ति- शान्तिक्षमं शमयितुं विपदं श्रयामि ॥ ७ ॥

अन्वय-आश्रितगुल्फमूलभोगीन्द्रभोगसुभगाभिनवालवालम् अभीष्टफलदम् भवतापतान्तिशान्तिक्षमम्
शम्भोः जङ्घालतायुगलम् (अहम्) विपदम् शमयितुम् श्रयामि ।

वन्दे युगान्तसमयोषितसप्तलोकं लोकोत्तरं जठरमीश्वरभैरवस्य । यत्रैति नाभिकुहरं जगदादिसर्ग-
निर्यज्जनौघनव-निर्गम-मार्ग-भङ्गिम् ॥ ८ ॥

अन्वय-युगान्तसमयोषितसप्तलोकम् लोकोत्तरम् ईश्वरभैरवस्य जठरम् वन्दे यत्र नाभिकुहरम्
जगदादिसर्गनिर्यज्जनौघनव-निर्गम-मार्गभङ्गिम् एति ।

सिन्दूरिताऽमरमतङ्गजकुम्भशोभि सन्ध्याभिताम्रशरदम्बुधरानुकारि । वन्दे
फणीन्द्रफणरत्नरुचारुणाभं भस्मौघभास्वरमुरः पुरशासनस्य ॥ ९ ॥

अन्वय-सिन्दूरिताऽमरमतङ्गजकुम्भशोभि सन्ध्याभिताम्रशरदम्बुधरानुकारि
फणीन्द्रफणरत्नरुचारुणाभम् भस्मौघभास्वरम् पुरशासनस्य उरः (अहम्) वन्दे ।

स्वामिन्नमी तव भुजा भुजगाधिराज- भोगोपगूढवपुषो हृदयं मदीयम् । आनन्दयन्ति बत
भीमभवोपताप- निर्वापणेन विटपा इव चन्दनस्य ॥ १० ॥

अन्वय-हे स्वामिन् ! बत भुजगाधिराजभोगोपगूढवपुषः तव अमी भुजाः भीमभवोपताप-निर्वापणेन
मदीयम् हृदयम् भुजगाधिराजभोगोपगूढवपुषः चन्दनस्य विटपा इव आनन्दयन्ति ।

मध्यस्थितेरुभयपार्श्वगता चकास्ति हस्तस्य मेरुपरिमर्शविनाकृतेयम् । अव्याहतग्रहवशाहितयोगसिद्धि-
र्नक्षत्रपंक्तिरिव देव तवाऽक्षमाला ॥ ११ ॥

अन्वय-हे देव ! मध्यस्थितेः (मालायाः मध्यस्थस्य) हस्तस्य उभयपार्श्वगता मेरुपरिमर्शविनाकृता
अव्याहतग्रहवशाहित-योगसिद्धिः इयम् तव अक्षमाला मध्यस्थितेः (नक्षत्रमध्यस्थस्य) हस्तस्य
उभयपार्श्वगता मेरुपरिमर्शविनाकृता अव्याहतग्रहवशाहितयोगसिद्धिः नक्षत्रपंक्तिः इव चकास्ति ।

त्वं कालभैरववपुर्ज्वलिताऽनलाश्रि- लोलाङ्गुलीवलनमण्डलितं दधानः । संहाररात्रिषु
निनर्तिषुरीश शूलं बालार्कचुम्बित-नवाम्बुदभङ्गिमेषि ॥ १२ ॥

अन्वय-हे ईश ! ज्वलितानलाश्रि लोलांगुलीवलनमण्डलितम् शूलं दधानः संहाररात्रिषु निनर्तिषुः
त्वम् कालभैरववपुः बालार्कचुम्बितनवाम्बुदभङ्गिम् एषि ।

शाणोपलोत्कषणशुद्धनवेन्द्रनील- नीलद्युतिर्जयति ते शितिकण्ठ कण्ठः ।
यस्मिन्घनाञ्जनरुचिर्भुजगः कलिन्द- कन्याहृदान्तरितकालियभङ्गिमेति ॥ १३ ॥ ------------------
अकारादिक्षकारान्तवर्णाः पञ्चाशतिः प्रिये । शिवशक्तिस्वरूपेण द्विगुणाः साष्टमूर्तिकाः ॥
अष्टोत्तरशतं तेषामक्षमाला प्रकीर्तिता । (तन्त्ररात्र) -------------------

अन्वय-अयि शितिकण्ठ ! शाणोपलोत्कषणशुद्धनवेन्द्रनीलनीलद्युतिः ते कण्ठः जयति यस्मिन् (कण्ठे)
घनाञ्जनरुचिः भुजगः कलिन्दकन्याह्रदान्तरितकालियभङ्गिम् एति ।

कण्ठो वहन्नपि विषं विषमं तवैषः सद्यः श्रियं सृजति यद्वचसाश्रितेषु ।
स्वामिन्नतस्त्रिभुवनप्रथितप्रतिष्ठं श्रीकण्ठ इत्युचितमेव तवाभिधानम् ॥ १४ ॥

अन्वय-हे स्वामिन् ! विषमम् विषम् वहन् अपि एषः तव कण्ठः यत् वचसा आश्रितेषु सद्यः श्रियम् सृजति
अतः त्रिभुवनप्रथितप्रतिष्ठम् श्रीकण्ठः इति तव अभिधानम् उचितम् एव ।

अन्तर्विमृश्य गरलेन गले सलील- मालिङ्गितं विमलमाननमिन्दुमौलेः । हृष्यामि हन्त
मुहुरम्बुरुहभ्रमाप्त- रोलम्बडम्बरविडम्बनपण्डितेन ॥ १५ ॥

अन्वय-हन्त ! अम्बुरुहभ्रमाप्तरोलम्बडम्बरविडम्बनपण्डितेन गरलेन इन्दुमौलेः विमलम् आननम् यत् सलीलम्
आलिङ्गितम् तत् अन्तः विमृश्य (अहम्) मुहुः हृष्यामि ।

यद्वद्विषं सदमृतं शिरसि प्रसिद्ध- मम्भस्तवेश विशदं सुमनःस्रवन्त्याः । मन्ये तथैव भगवन्
भवतो गलस्थं संपद्यतेऽमृतमिदं नतसान्त्वनेषु ॥ १६ ॥

अन्वय-हे ईश ! यद्वत् सुमनःस्रवन्त्याः अम्भः विषं सत् तव शिरसि विशदम् अमृतम् (इति) प्रसिद्धम्
तथैव हे भगवन् ! (अहम्) मन्ये भवतः गलस्थम् इदम् विषम् नतसान्त्वनेषु अमृतम् संपद्यते ।

तद्युक्तमीश वदनाद्भवतः सुधाच्छ- कान्तेर्यदग्निरपतद्वपुषि स्मरस्य । यो लङ्घनं
त्रिभुवनैकगुरोर्विधित्सु- रुल्का न किं पतति चन्द्रमसोऽपि तस्य ॥ १७ ॥

अन्वय-हे ईश ! सुधाच्छकान्तेः भवतः वदनात् यत् स्मरस्य वपुषि अग्निः अपतत् तत् युक्तम् (उचितमेव) यः
त्रिभुवनैकगुरोः लङ्घनम् विधित्सुः तस्य चन्द्रमसः अपि उल्का किम् न पतति ?

दिष्ट्या विरुद्धजनता दमयन्त्यपीयं दृष्टिस्तवेश्वर बिभर्त्यनलाश्रितत्वम् । दिष्ट्या
वनैकरतिरप्यवनैकसक्ति- रेकस्त्वमद्भुतनिधे भगवन्नमस्ते ॥ १८ ॥

अन्वय-हे ईश्वर ! दिष्ट्या (आनन्दे) विरुद्धजनताः दमयन्ती अपि इयम् तव दृष्टिः अनलाश्रितत्वम् बिभर्ति
दिष्ट्या वनैकरतिः अपि एकः त्वम् अवनैकसक्तिः (असि) अयि अद्भुतनिधे भगवन् ! ते नमः (अस्तु) ।

धन्यस्य यस्य वपुषि ग्लपिते तपोभिः स्वामिन् पतन्ति विषमाणि तवेक्षणानि । मुष्णन्ति
मुग्धमृगशावदृशां न धैर्य- सर्वस्वमस्य विषमाणि विलोचनानि ॥ १९ ॥

अन्वय-हे स्वामिन् ! तपोभिः ग्लपिते यस्य धन्यस्य वपुषि तव विषमाणि (त्रीणि) ईक्षणानि पतन्ति अस्य
धैर्यसर्वस्वम् मुग्धमृगशावदृशाम् (अपि) विषमाणि विलोचनानि न मुष्णन्ति ।

सत्येव दृग्विलसिते करुणामृतौघ- शीते जरामरणहारिणि तावकीने । नाथ व्यधायि
विबुधैरबुधैर्मुधैव दुग्धोदधिप्रमथनेऽनवधिः प्रयासः ॥ २० ॥

अन्वय-हे नाथ ! करुणामृतौघशीते जरामरणहारिणि तावकीने दृग्विलसिते सत्येव अबुधैः विबुधैः
दुग्धोदधिप्रमथने अनवधिः प्रयासः मुधा एव व्यधायि ।

श्वेतेऽमृतं यदसृजद्रविजे च वह्नि- मेकैव दृक्तव तयोः स निजः प्रभावः । इक्षौ सुधा
विषमुषाणफले च सार्धं यद्वर्धते किमपराध्यति तत्र वृष्टिः ॥ २१ ॥

अन्वय-हे प्रभो ! एका एव तव दृक् श्वेते अमृतम् रविजे च वह्निम् यत् असृजत् सः तयोः निजः (एव) स्वभावः ।
(दृष्टं चैतत्)- इक्षौ सुधा उषाणफले च विषम् यत् सार्धम् (सममेव) वर्धते तत्र वृष्टिः किम्
अपराध्यति ?

नूनं पयोधिमथनावसरे परेश पीतं त्वया तदमृतं न तु कालकूटम् । अद्यापि यद्वसति ते वचनक्रमे
च दृग्विभ्रमे च तरुणे करुणारसे च ॥ २२ ॥

अन्वय-हे परेश ! नूनम् त्वया पयोधिमथनावसरे तत् अमृतम् (एव) पीतम् न तु तत् कालकूटम् पीतम् यत्
अद्यापि ते वचनक्रमे च दृग्विभ्रमे च तरुणे करुणारसे च (तत्) वसति ?

सत्यं प्रसादसमये चपलत्वमेति धत्तेऽधिकं च कुटिलत्वमियं तव भ्रूः । एतां विना
पुनरनर्गलकालपाश- पाते परास्ति न गतिर्भयविह्वलानाम् ॥ २३ ॥

अन्वय-हे विभो ! सत्यम् इयम् तव भ्रूः प्रसादसमये चपलत्वम् एति अधिकम् कुटिलत्वम् च धत्ते एताम् विना
अनर्गलकालपाशपाते भयविह्वलानाम् पुनः परा गतिः न अस्ति ।

आपूरितः सुरसरित्पयसाऽमृताय जूटः प्रतप्ततपनीयपिशङ्गकान्तिः । स्वामिन्नसौ तव
नवातपताम्रवेला- शैलोपगूढ इव दुग्धनिधिर्न कस्य ॥ २४ ॥

अन्वय-हे स्वामिन् ! सुरसरित्पयसा आपूरितः प्रतप्ततपनीयपिशङ्गकान्तिः असौ तव जूटः
नवातपताम्रवेलाशैलोपगूढः दुग्धनिधिः इव कस्य अमृताय न (भवति ? अपि तु सर्वस्यापीत्यर्थः) ।

स्वामिन्सुधावदवदातरुचिस्तवेय- माभाति हन्त मुकुटे नृकपालमाला । जूटान्तरालविलसत्सुरसिन्धुतीर-
लीलाविहाररसिकेव मरालमाला ॥ २५ ॥

अन्वय- हत ! हे स्वामिन् ! सुधावदवदातरुचिः इयम् नृकपालमाला तव मुकुटे
जूटान्तरालविलसत्सुरसिन्धुतीरलीलाविहाररसिका मरालमाला इव आभाति ।

ब्रह्मादिभिस्तव जगद्गुरुभिः शिरांसि यान्यर्पितानि परमेश्वर पादपीठे । तान्येव मूर्धनि
यदाभरणीकरोषि स प्रौढिमा जयति कोऽपि कृतज्ञतायाः ॥ २६ ॥

अन्वय-अयि परमेश्वर ! जगद्गुरुभिः ब्रह्मादिभिः तव पादपीठे यानि (निजानि) शिरांसि अर्पितानि तानि एव
शिरांसि (त्वम्) यत् मूर्धनि आभरणीकरोषि सः कोऽपि तव कृतज्ञतायाः प्रौढिमा जयति ।

निर्वाणमेति न जलैरपि यत्र वह्नि- र्यत्रैष नो पचति तानि महाशिखोऽपि । मान्द्यं न विन्दति तमीरमणः
कृशोऽपि ताभ्यामसौ विजयते शितिकण्ठ जूटः ॥ २७ ॥

अन्वय-हे शितिकण्ठ ! यत्र (तव जूटे) जलैः अपि वह्निः निर्वाणम् न एति यत्र एषः (वह्निः) महाशिखः
अपि तानि (गङ्गाजलानि) पचति ताभ्याम् (जलवह्निभ्याम्) कृशः अपि तमीरमणः मान्द्यम् न विन्दति असौ
(तव) जूटः विजयते ।

भालस्थले हुतवहं वहतो जलं च चन्द्रं च मूर्ध्नि विकटं च कपालखण्डम् । एकत्र मुण्डमपरत्र
सुधाघटं च हस्ते चकास्ति भवतोऽद्भुत एष वेषः ॥ २८ ॥

अन्वय-हे विभो ! भालस्थले हुतवहम् (गङ्गायाः) जलम् च वहतः मूर्ध्नि चन्द्रम् विकटम् कपालखण्डम् च
वहतः एकत्र हस्ते मुण्डम् अपरत्र सुधाघटम् च वहतः भवतः एषः वेषः अद्भुतः चकास्ति ।

दाने नदीनमुपकल्पयतः सहर्ष- माक्रम्य गामनुपमां गतिमास्थितस्य । नागेन्द्र-संभृतमहाकटकस्य
कस्य शस्यं विना त्वदिह राजशिरोमणित्वम् ॥ २९ ॥

अन्वय-हे विभो ! दाने नदीनम् (क्षीरोदधिम्) सहर्षम् उपकल्पयतः गाम् आक्रम्य अनुपमाम् गतिम् आस्थितस्य
नागेन्द्रसंभृतमहाकटकस्य त्वत् विना इह कस्य राजशिरोमणित्वम् शस्यम् ? (न कस्यापीत्यर्थः ।)

कण्ठे विषं विषभृतोऽपि विभूषणानि गात्रेषु मूर्धनि विषं विबुधस्रवन्त्याः । इत्थं
विषैकवसतेरपि ते चकास्ति कर्णामृतं सुकृतिनाममृतेशनाम ॥ ३० ॥

अन्वय-हे विभो ! (तव) कण्ठे विषम् चकास्ति गात्रेषु (अपि) विभूषणानि विषभृतः चकासति मूर्धनि च
विबुधस्रवन्त्याः विषम् चकास्ति । तत् इत्थम् विषैकवसतेः अपि ते अमृतेशः नाम सुकृतिनाम् कर्णामृतम्
(भवति) ।

क्षतविभवविशेषाः प्राणमात्रावशेषा विपदमनुभवामः कर्मपाको हि वामः । तदिह भुजगहारः
कॢप्तमोहापहारः स भवति गतिरेकः कृत्तशोकातिरेकः ॥ ३१ ॥

अन्वय-क्षतविभवविशेषाः प्राणमात्रावशेषाः (वयम्) विपदम् अनुभवामः । हि (अस्माकम्) कर्मपाकः
वामः (अस्ति) तत् इह कॢप्तमोहापहारः कृतशोकातिरेकः सः एकः भुजगहारः (एव मादृशाम्) गतिः
भवति ।

इति श्रीप्रेममकरन्दव्याख्यासमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुति-कुसुमाञ्जलौ भगवद्रूपवर्णनं नामैकोनविंशं स्तोत्रम् ।

विंशं स्तोत्रम्

यत्सौभगेन घनमोघममोघमेघ- संघातसंभवमवन्ध्यमधः करोति । तच्छाम्भवं
भवमरुभ्रम-खेद-भेद- दक्षं विलास-हसितं नुतिभिर्भजामः ॥ १ ॥

अन्वय-यत् सौभगेन अवन्ध्यम् (सत्) अमोघमेघसंघातसंभवम् घनम् ओघम् अधः करोति तत् (देहिनाम्)
भवमरुभ्रमखेदभेददक्षम् शाम्भवम् विलासहसितम् वयम् नुतिभिः भजामः ।

यद्वाङ्मयं सकलवाङ्मनसातिवृत्त- सीमानमीश महिमानममानमेयम् । अस्मादृशं कृशदृशं
भृशमामृशन्त- मन्तर्विमृष्य भवतो भगवन्नुदेति ॥ २ ॥

अन्वय-हे ईश ! हे भगवन् ! सकलवाङ्मनसातिवृत्तसीमानम् अमानमेयम् (तव) महिमानम् भृशम् आमृशन्तम्
अस्मादृशम् कृशदृशम् अन्तः विमृष्य भवतः यत् वाङ्मयम् (विलासहसितं) उदेति (तद्वयन्नुतिभिः
भजामः इति पूर्वेणान्वयः) ।

येनोपमन्युमपमन्युमनन्यभाज- माजन्मतृष्णजमजस्रमज श्रमार्तम् । आनन्दयः स्वयमदीननदीनदान-
भास्वन्महाफललसत्कुसुमोपमेन ॥ ३ ॥

अन्वय-हे अज ! अपमन्युम् अनन्यभाजम् आजन्मतृष्णजम् अजस्रम् श्रमार्तम् (बालम्) उपमन्युम् येन
अदीननदीनदानभास्वन्महाफललसत्कुसुमोपमेन (विलासहसितेन) स्वयम् आनन्दयः तत् स्तुतिभिर्भजामः इति
पूर्ववत् ।

येनापि तापविपदं प्रथमं जहर्थ नाथ प्रसादसुभगेन भगीरथस्य । मूर्ध्ना
धृतत्रिदशसिन्धुमहाप्रवाह- निर्वापणेन पुनरस्य पितामहानाम् ॥ ४ ॥

अन्वय-हे नाथ ! प्रसादसुभगेन येन (विलासहसितेन) प्रथमम् भगीरथस्य तापविपदम् जहर्थ पुनः
मूर्ध्ना धृतत्रिदशसिन्धुमहाप्रवाहनिर्वापणेन अस्य पितामहानाम् तापविपदम् जहर्थ तत् हसितं
स्तुतिभिः भजाम इति पूर्वेणाऽन्वयः ।

उत्प्रासनाय शमनस्य मनस्यनल्प- दर्पोद्गमप्रशम-विक्लव-विक्रमस्य । आश्वासनाय च समं समभावि येन
कीनाशपाशविवशस्य नरेश्वरस्य ॥ ५ ॥

अन्वय-अनल्पदर्पोद्गमप्रशमविक्लवविक्रमस्य शमनस्य उत्प्रासनाय कीनाशपाशविवशस्य नरेश्वरस्य
(श्वेतराज्ञः) आश्वासनाय च येन समम् मनसि समभावि तत् वयं स्तुतिभिः भजामः ।

भावत्कभक्तिभरसंभृतभूरिभूति- संभाररूढगुरुगर्वगलद्विवेकम् ।
मोहान्धमन्धकमुपाहित-साहसिक्य- हेवाकमाकलयतो भवतो यदासीत् ॥ ६ ॥

अन्वय-भावत्कभक्तिभर-संभृतभूरिभूतिसंभाररूढगुरुगर्वगलद्विवेकम् मोहान्धम् अन्धकम्
उपाहितसाहसिक्यहेवाकम् आकलयतः भवतः यत् (हसितम्) आसीत् तत् स्तुतिभिः भजामः ।

लंकेशकम्पितकुबेरगिरिप्ररूढ- संरम्भभीरुगिरिजापरिरम्भभाजः । यत्ते रुषामवसरेऽप्युदितानवद्य-
हृद्यप्रसादसुमुखस्य समुज्जगाम ॥ ७ ॥

अन्वय-लङ्केशकम्पितकुबेरगिरिप्ररूढसंरम्भभीरुगिरिजापरिरम्भभाजः ते रुषाम् अवसरे अपि
उदितानवद्यहृद्यप्रसादसुमुखस्य यत् (हसितम्) समुज्जगाम तत् वयं स्तुतिभिः भजामः इति पूर्वेणान्वयः


पूजार्थमम्बुजसहस्रमुपाहितं य- देकं ततो हृतवतस्तव कैतवेन । विष्णुं विलोक्य निजलोचनमुत्खनन्त-
मन्तः प्रसन्नमनसो यदमन्दमासीत् ॥ ८ ॥

अन्वय-हे नाथ ! (विष्णुना) तव पूजार्थम् यत् अम्बुजसहस्रम् उपाहितम् ततः एकम् कैतवेन
(अनन्यासक्तिभक्तिपरीक्षणरूपेण छद्मना) हृतवतः निजलोचनम् उत्खनन्तम् विष्णुम् विलोक्य अन्तः
प्रसन्नमनसः तव अमन्दम् यत् (हसितम्) आसीत् तदित्यादि सर्वं प्राग्वत् ।

दृष्ट्वा वधूजनमनुत्तमरूपसंप- त्संदर्शनोद्भवमनोभवभग्नवृत्तम् । आषाढपाणिषु रुषा
मुनिषु प्रहर्त्तु- मभ्युद्यतेषु तव यद्भृशमुद्बभूव ॥ ९ ॥

अन्वय-अनुत्तमरूपसंपत्संदर्शनोद्भवमनोभवभग्नवृत्तम् (निजम्) वधूजनम् दृष्ट्वा रुषा (त्वाम्)
प्रहर्त्तुम् अभ्युद्यतेषु आषाढपाणिषु मुनिषु भृशम् यत् तव (हसितम्) उद्बभूव तद्वयं नुतिभिर्भजामः


अभ्यर्णवर्तिकरगोचरकालकूट- कूटप्रभानिचयमेचकितेऽधरोष्ठे ।
यत्पूर्वपर्वतशिखाश्रितशीतरश्मि- रश्मिच्छटाच्छविविडम्बि पुराविरासीत् ॥ १० ॥

अन्वय-पुरा अभ्यर्णवर्तिकरगोचरकालकूटकूटप्रभानिचयमेचकिते अधरोष्ठे
पूर्वपर्वतशिखाश्रितशीतरश्मिरश्मिच्छटाच्छविविडम्बि यत् (हसितम्) आविरासीत् तदिति पूर्ववत् ।

यत्कर्णतालवलनानिलधूत-कुम्भ- सिन्दूर-रेणु-कण-कूणितलोचनस्य । बालस्य नागवदनस्य
मनस्यभीष्टां दृष्टैव नाट्यघटनां तव संबभूव ॥ ११ ॥

अन्वय-हे प्रभो ! कर्णतालवलनानिलधूतकुम्भसिन्दूररेणुकणकूणितलोचनस्य बालस्य नागवदनस्य मनसि
अभीष्टाम् नाट्यघटनाम् दृष्ट्वा एव तव यत् (हसितम्) संबभूव तदित्यादि पूर्ववत् ।

शैलादिवादितमृदङ्गलयानुयात- नृत्तप्रवृत्तगुहवाहविलोकनेन । स्वामिन् महाप्रलयभैरवरूपिणो य-
दाविर्बभूव तव ताण्डवडम्बरेषु ॥ १२ ॥

अन्वय-हे स्वामिन् ! महाप्रलयभैरवरूपिणः तव ताण्डवडम्बरेषु शैलादि [शिलादस्य मुनेरपत्यं
शैलादिः नन्दी प्रमथविशेषः] वादितमृदङ्गलयानुयातनृत्तप्रवृत्तगुहवाहविलोकनेन यत् (हसितम्)
आविर्बभूव तदित्यादि पूर्ववत् ।

व्योम प्रचण्डभुजदण्डविघट्यमान- तारावली-विरह-बन्धुरितान्धकारम् । स्वामिन् युगान्तसमयाभिनयेषु
येन संभाव्यते पुनरपि प्रचुरप्रकाशम् ॥ १३ ॥

अन्वय-हे स्वामिन् ! युगान्तसमयाभिनयेषु प्रचण्डभुजदण्डविघट्यमानतारावलीविरहबन्धुरितान्धकारम्
(अपि) व्योम येन (तव हसितेन) पुनरपि प्रचुरप्रकाशम् संभाव्यते तदिति पूर्ववत् ।

दिक्चक्रवाल-मुखरीकरणप्रगल्भ- प्रावृट्पयोधरगभीररवानुकारि । स्वामिन् कठोरहृदयस्य भयं
विधातुं भीरोश्च दातुमभयं युगपत्क्षमं यत् ॥ १४ ॥

अन्वय-हे स्वामिन् ! दिक्चक्रवालमुखरीकरणप्रगल्भप्रावृट्पयोधरगभीररवानुकारि यत् (तव हसितम्)
कठोरहृदयस्य भयम् विधातुम् भीरोः च अभयम् विधातुम् युगपत् क्षमम् (भवति) तदित्यादि पूर्ववत् ।

यत्कालकूटकवलीकरणप्ररूढ- नीलिम्नि कण्ठपुलिने विमलं निलीनम् ।
नीरन्ध्रनीरभरमेदुर-मेघ-खण्ड- लग्नेन्दुमण्डलविडम्बनमातनोति ॥ १५ ॥

अन्वय-प्रभो ! कालकूटकवलीकरणप्ररूढनीलिम्नि कण्ठपुलिने निलीनम् विमलम् यत् (हसितम्)
नीरन्ध्रनीरभरमेदुरमेघखण्डलग्नेन्दुमण्डलविडम्बनम् आतनोति तदित्यादि पूर्ववत् ।

ध्यायन्त्यनन्यहृदया हृदयाधिनाथ- मद्य क्षपामगमयं सखि कल्पकल्पाम् । प्राणेशसङ्गमनिमित्तमथ
प्रभाते निद्रा सखीव मम सम्मुखमाजगाम ॥ १६ ॥

अन्वय-(श्रीगिरिजा त्वद्वियोगेन भृशमुद्विग्ना सती स्वसखीं जयां प्रति स्वप्नोदितवृत्तान्तमकथयत्-) हे
सखि जये ! अनन्यहृदया (अहम्) हृदयाधिनाथम् ध्यायन्ती अद्य कल्पकल्पाम् क्षपाम् अगमयम् अथ प्रभाते
प्राणेशसङ्गमनिमित्तम् सखी इव निद्रा मम सम्मुखम् आजगाम ।

तस्मिन्क्षणे नयनवर्त्मनि जीवितेशः शंसन् दृशा मधुरयैव मनःप्रसादम् । चक्रे पदं मम
तमोमुकुलीकृतायाः स्वैरं समेत्य सवितेव सरोरुहिण्याः ॥ १७ ॥

अन्वय-तस्मिन् एव क्षणे स्वैरम् समेत्य मधुरया दृशा मनःप्रसादम् शंसन् मम जीवतेशः
तमोमुकुलीकृतायाः मम नयनवर्त्मनि सरोरुहिण्याः सविता इव पदम् चक्रे ।

अस्मत्कृते सितमयूखमुखि त्वयैत- त्किं प्रस्तुतं मुनिभिरप्यतिदुष्करं यत् । उद्यानचङ्क्रमणकेलिषु
खिद्यते या सा ते कथं कथय कष्टसहाऽङ्गयष्टिः ॥ १८ ॥

अन्वय-अयि सितमयूखमुखि ! यत् मुनिभिः अपि अतिदुष्करम् तत् एतत् (कर्म) त्वया अस्मत्कृते किम् प्रस्तुतम् ? हे
कोमलाङ्गि ! या (तवाऽङ्गयष्टिः) उद्यानचङ्क्रमणकेलिषु खिद्यते सा ते अङ्गयष्टिः कथम् कष्टसहा
(भवति त्वमेव) कथय ।

मूर्तिः क्व बालकदलीदलकोमलेयं तीव्रं तपः क्व मनसोऽपि न गोचरं यत् । क्वेषद्विकासि कुसुमं
सुमनोलतायाः क्वोन्मत्तकुञ्जरकठोरकरोपमर्दः ॥ १९ ॥

अन्वय-हे शशिमुखि ! बालकदलीदलकोमला इयम् (तव) मूर्तिः क्व (भवति) तीव्रम् यत् मनसः अपि अगोचरम् तत्
तपः क्व (भवति) दृष्टं चैतत्-सुमनोलतायाः ईषद्विकासि कुसुमं क्व ? (तस्य)
उन्मत्तकुञ्जरकठोरकरोपमर्दः क्व ?

एतेन कर्कशकुशग्रहणं करेण सोढं कथं प्रथम-पल्लवकोमलेन । पादौ कथं कमलगर्भनिभौ
शिलाश्रि- श्रेणीषु तीर्थगमनक्लममन्वभूताम् ॥ २० ॥

अन्वय-हे सुमुखि ! एतेन प्रथमपल्लवकोमलेन (तव) करेण कर्कशकुशग्रहणम् कथम् सोढम् ?
कमलगर्भनिभौ पादौ शिलाश्रिश्रेणीषु तीर्थगमनक्लमम् कथम् अन्वभूताम् ?

हारोपि भार इव यत्र कुचद्वयं त- त्सेहे कथं कुलिशकर्कशवल्कलोल्काम् । एतत्कथं
मृदुमृणाललताभिजातं पञ्चाग्नितापविपदः पदमङ्गमासीत् ॥ २१ ॥

अन्वय-यत्र (तव कुचयुगे) हारः अपि भारः इव (क्लेशावहो भवति) तत् (ते) कुचयुगम्
कुलिशकर्कशवल्कलोल्काम् कथम् सेहे ? हे तन्वङ्गि ! मृदुमृणाललताभिजातम् एतत् (तव) अङ्गम्
पञ्चाग्नितापविपदः पदम् कथम् आसीत् ?

इत्यादिभिर्दशनचन्द्रिकयानुविद्धै- रन्तर्बहिश्च तिमिरप्रसरं हरद्भिः । आश्वासयन्निव
निवर्तिततीव्रखेदं गर्भीकृतस्मितसुधामधुरैर्वचोभिः ॥ २२ ॥

अन्वय-इत्यादिभिः दशनचन्द्रिकया अनुविद्धैः बहिः अन्तः च तिमिरप्रसरम् हरद्भिः
गर्भीकृतस्मितसुधामधुरैः वचोभिः (माम्) निवर्तिततीव्रखेदम् (यथा स्यात्तथा) आश्वासयन् इव-

यावत्त्रपापरवशं क्षितिमीक्षमाणं मुक्ताफलोपमसमुद्गतघर्मलेशम् । किञ्चित्करेण
मुखमुन्नमयन्नियेष पीयूषवर्षमिव वर्षितुमेष भूयः ॥ २३ ॥

अन्वय-त्रपापरवशम् क्षितिम् ईक्षमाणम् मुक्ताफलोपमसमुद्गतघर्मलेशम् (मदीयम्) मुखम् करेण किञ्चित्
उन्नमयन् एषः (प्रियतमः) भूयः (वचोभिः) पीयूषवर्षम् इव वर्षितुम् यावत् इयेष ।

तावत्प्रबोधितवता कृकवाकुनादै- र्दुर्वेधसा सखि तदाचरितं शठेन । यत्रैष एव शरणं मम
जीवितेशो- यद्वाऽपरो हरति योऽखिलजन्तुवर्गम् ॥ २४ ॥

अन्वय-हे सखि ! तावत् (एव) कृकवाकुनादैः (माम्) प्रबोधितवता शठेन दुर्वेधसा तत् (कर्म) आचरितम्
यत्र एषः जीवितेशः एव (श्रीशम्भुरेव) मम शरणम् (भवति) यद्वा (तदलाभे) अपरः यः
अखिलजन्तुवर्गम् हरति सः एव जीवितेशः (यमः) मम शरणम् (अस्ति) ।

इत्यादि तीव्रविरहज्वरया जयायै यत्स्वप्नवृत्तमुदितं गिरिराजपुत्र्या । तच्छृण्वतो वनलतान्तरितस्य यत्ते
जातं प्रमोदभरनिर्भरमानसस्य ॥ २५ ॥ (पञ्चविंशत्या कुलकम्)

अन्वय-इत्यादि यत् स्वप्नवृत्तम् तीव्रविरहज्वरया गिरिराजपुत्र्या जयायै उदितम् तत् शृण्वतः
वनलतान्तरितस्य प्रमोदभर-निर्भरमानसस्य ते यत् (विलासहसितम्) जातम् तत् वयम् स्तुतिभिः भजामः इति
सम्बन्धः ।

सञ्जीवनौषधमिदं हरहुंकृताग्नि- ज्वालावलीढवपुषः कुसुमायुधस्य । बाले सुधारसमये समये
किमर्थ- मायास्यते त्रिभुवनाभरणं शरीरम् ॥ २६ ॥

अन्वय-अयि बाले ! हरहुंकृताग्निज्वालावलीढवपुषः कुसुमायुधस्य सञ्जीवनौषधम् इदम्
त्रिभुवनाभरणम् शरीरम् (त्वया अस्मिन्) सुधारसमये समये किमर्थम् आयास्यते ?

कल्पद्रुमैर्निधिभिरोषधिकामधेनु- चिन्तामणिप्रभृतिभिश्च परिष्कृतस्य । किं दुर्लभं तव
पितुर्भुवनातिशायि- श्रीधाम्नि धामनि यदर्थयसे तपोभिः ॥ २७ ॥

अन्वय-अयि बाले ! कल्पद्रुमैः निधिभिः ओषधिकामधेनुचिन्तामणिप्रभृतिभिः च परिष्कृतस्य तव पितुः
भुवनातिशायिश्रीधाम्नि धामनि (गृहे) किम् (वस्तु) दुर्लभम् (अस्ति) यत् (त्वम्) तपोभिः अर्थयसे ?

त्वं जीवितादपि गुरोरधिका स ताव- दुत्पादयेत्तव न मन्युमधीतनीतिः । संभाव्यते तव च नान्यकृतो
निकारः कुर्वीत केसरिसटाहठकर्षणं कः ॥ २८ ॥

अन्वय-हे बाले ! त्वम् गुरोः (पितुः) जीवितात् अपि अधिका (प्रिया असि) तावत् अधीतनीतिः सः (तव पिता) तव
मन्युम् न उत्पादयेत् अन्यकृतः निकारः तव न संभाव्यते (यतः) केसरिसटाहठकर्षणम् कः कुर्वीत ?

श्रद्धानुबन्धविहितव्रतहोमदान- स्वाध्यायतीर्थगमनादिनिबन्धनानि । धन्यस्य कस्य फलितानि
तुषारहार- गौराणि गौरि सुकृतानि पुराकृतानि ॥ २९ ॥

अन्वय-हे गौरि ! श्रद्धानुबन्धविहितव्रतहोमदानस्वाध्यायतीर्थगमनादिनिबन्धनानि तुषारहारगौराणि
पुराकृतानि सुकृतानि कस्य धन्यस्य फलितानि यम् त्वम् तपसा प्रसादम् आनयसीत्यग्रे कुलकान्ते सा त्वं
इत्यनेन सम्बन्धः ।

दुर्वार-दुर्गति-निकार-कदर्थ्यमान- मालोक्य लोकमखिलं विपुलाशयेन । सद्यःकृतं
कनकवर्षणमिन्दुकान्त- वर्ष्मत्विषा परमकारुणिकेन केन ॥ ३० ॥

अन्वय-दुर्वारदुर्गतिनिकारकदर्थ्यमानम् अखिलं लोकम् आलोक्य इन्दुकान्तवर्ष्मत्विषा परमकारुणिकेन केन
विपुलाशयेन सद्यः कनकवर्षणम् कृतम् यम् त्वम् तपसा प्रसन्नम् संपादयसि ?

गायन्ति कस्य विषदं विषमोग्रकाल- संरुद्धशक्तिशरणागतरक्षणोत्थम् । द्वन्द्वानि
नन्दनसदामपदानमिन्दु- धौतासु कौमुद-महोत्सवयामिनीषु ॥ ३१ ॥

अन्वय-विषमोग्रकालसंरुद्धशक्तिशरणागतरक्षणोत्थम् कस्य विषदम् अपदानम् (अद्भुतं कर्म)
इन्दुधौतासु कौमुद महोत्सवयामिनीषु नन्दनसदाम् द्वन्द्वानि गायन्ति यं त्वं तपसा प्रसन्नम् सम्पादयसि ?

केनेश्वरेण महता वहतात्रिनेत्र- सञ्जातकान्ति वपुरद्भुतभूतिभूषम् ।
उद्दामकामशितमार्गणदौर्मनस्य- वैरस्यमिद्धमहसा सहसा निरस्तम् ॥ ३२ ॥

अन्वय-अत्रिनेत्रसञ्जातकान्ति अद्भुतभूतिभूषम् वपुः वहता इद्धमहसा केन महता ईश्वरेण
उद्दामकामशितमार्गणदौर्मनस्यवैरस्यम् सहसा निरस्तम् यं त्वं तपसा प्रसादं आनयसि ?

धन्याः कमस्खलितपौरुषभग्नभूरि- दर्पान्धकन्दलितलोकविषादमुच्चैः ।
हेलावलीढविषमश्रमवीर्यवह्नि- भस्मीकृताहितपुरं कवयः स्तुवन्ति ॥ ३३ ॥

अन्वय-हे गौरि ! कम् अस्खलितपौरुषभग्नभूरिदर्पान्धकन्दलितलोकविषादम् उच्चैः
हेलावलीढविषमश्रमवीर्यवह्निभस्मीकृताहितपुरम् धन्याः कवयः स्तुवन्ति ? यं त्वं तपसा
प्रसादयसि ?

कः स्वर्धुनीसवनवह्निनिषेवणादि- धौतां दधत्तनुमनुज्झितभैक्षवृत्तिः । कालं द्विजेन्द्रमुकुटः
परिशुद्धधर्म- चर्यारतः क्षपितवानजिनावृताङ्गः ॥ ३४ ॥

अन्वय-स्वर्धुनीसवनवह्निनिषेवणादिधौताम् तनुम् दधत् अनुज्झितभैक्षवृत्तिः परिशुद्धधर्मचर्यारतः
अजिनावृताङ्गः कः द्विजेन्द्रमुकुटः कालम् क्षपितवान् ? यं त्वं तपसा प्रसन्नं सम्पादयसि ।

उद्धूलितश्चितिरजोभिरखण्डमुण्ड- मालाकरालशिखरः सुचिरं चचार । भीष्मश्मशानवसनव्यसनः
कपाल- खट्वाङ्गपाणिरतितीव्रमपि व्रतं कः ॥ ३५ ॥

अन्वय-चितिरजोभिः उद्धूलितः अखण्डमुण्डमालाकराल-शिखरः भीष्मश्मशानवसनव्यसनः
कपालखट्वाङ्गपाणिः कः अतितीव्रम् अपि व्रतम् सुचिरम् चचार ? यं त्वं तपसा प्रसन्नं संपादयसि ।

मन्ये भवान्तर-शतोपचितस्य पुण्य- पृथ्वीरुहः फलमलभ्यमभाग्यभाजाम् । यस्या
दृगञ्चलविलोकनमात्रमेव संभावनं तु वचसा वचसामभूमिः ॥ ३६ ॥

अन्वय-हे गौरि ! अहं मन्ये यस्याः (तव) दृगञ्चलविलोकनमात्रम् एव अभाग्यभाजाम् अलभ्यम्
भवान्तरशतोपचितस्य पुण्यपृथ्वीरुहः फलम् (भवति) वचसा संभावनम् तु वचसाम् अभूमिः ।

सा त्वं महार्घगुणरत्नसमुद्रवेला- लावण्यसिन्धुरकलङ्ककुलप्रसूतिः ।
सौभाग्यभाग्यविभवादिभवाऽभिमान- भूमानमानयसि यं तपसा प्रसादम् ॥ ३७ ॥

अन्वय-सा त्वम् महार्घगुणरत्नसमुद्रवेलालावण्यसिन्धुः अकलङ्ककुलप्रसूतिः
सौभाग्यभाग्यविभवादिभवाभिमानभूमानम् यम् (एवंविधेन) तपसा प्रसादम् आनयसि (सः कः ?) ।

इत्थं विदग्धरसदिग्धकथाक्रमेण देव्या समं समभिभाषणलोलुभस्य । यद्व्याजवर्णि-तरुणस्य
तवाऽवहित्थ- संरुद्धमप्यतिभरेण समुद्बभूव ॥ ३८ ॥

अन्वय-हे विभो ! इत्थम् विदग्धरसदिग्धकथाक्रमेण देव्याः समम् समभिभाषणलोलुभस्य
व्याजवर्णितरुणस्य तव अवहित्थसंरुद्धम् अपि यत् (विलासहसितम्) अतिभरेण समुद्बभूव तेन मे तापम्
विषमम् तमः च जहीत्यग्रे संबन्धः ।

रूपं प्रदर्श्य विदधद्गिरि सानुकम्पं दिव्यं धृतामृतरसं गिरिसानुकम्पम् । येन व्यधा
मुखमखण्डसितांशुकान्तं देव्या वपुश्च पुलकोच्छ्वसितांशुकान्तम् ॥ ३९ ॥

स्वामिन्नुदार-घनसार-तुषार-हार- कह्लार-शारद-निशारमणोपमेन । तापं तमश्च विषमं जहि मे
सहेल- मुल्लासितेन हसितेन सितेन तेन ॥ ४० ॥ (युगलकम्)

अन्वय-हे स्वामिन् ! दिव्यम् धृतामृतरसम् गिरि सानुकम्पम् रूपम् प्रदर्श्य गिरि-सानु-कम्पम् विदधत् (त्वम्) येन
(हसितेन) देव्याः मुखम् अखण्डसितांशुकान्तम् व्यधाः वपुः च पुलकोच्छ्वसितांशुकान्तम् व्यधाः हे
स्वामिन् ! उदार-घनसार-तुषारहारकह्लारशारदनिशारमणोपमेन सहेलम् उल्लासितेन तेन सितेन हसितेन मे
तापम् विषमम् तमः च जहि ।

सहस्रचरणं रविं नयनपङ्कजान्तःस्थितं सहस्रनयनं हरिं चरणपङ्कजान्तःस्थितम् । विमृश्य
धृतविस्मयां भगवतीमवेक्ष्योद्गतं प्रभोरभिमताप्तये हसितमस्तु शर्वस्य मे ॥ ४१ ॥

अन्वय-सहस्रचरणम् रविम् (प्रभोः) नयनपङ्कजान्तःस्थितम् विमृश्य सहस्रनयनम् हरिम् (इन्द्रम्) प्रभोः
चरणपङ्कजान्तःस्थितम् विमृश्य धृतविस्मयाम् भगवतीम् अवेक्ष्य उद्गतम् प्रभोः शर्वस्य हसितम् मे
अभिमताप्तये अस्तु ।

इति श्रीप्रेममकरन्दव्याख्यासमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुति-कुसुमाञ्जलौ हसितस्तोत्रं विंशम्

एकविंशं स्तोत्रम्

वन्देमह्यमलमयूखमौलिरत्नं देवस्य प्रकटितसर्वमङ्गलाख्यम् । अन्योन्यं सदृशमहीनकङ्कणाङ्कं
देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ १ ॥

अन्वय-अमलमयूखमौलिरत्नम् प्रकटितसर्वमङ्गलाख्यम् अहीनकङ्कणाङ्कम् अन्योन्यम् सदृशम्
उमार्धरुद्धमूर्त्तेः देवस्य देहार्धद्वितयम् (वयम्) वन्देमहि ।

तद्वन्दे गिरिपतिपुत्रिकार्धमिश्रम् श्रैकण्ठं वपुरपुनर्भवाय यत्र । वक्त्रेन्दोर्घटयति खण्डितस्य
देव्या साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ २ ॥

अन्वय-यत्र (अर्धनारीश्वररूपे) मुकुटगतः मृगाङ्कखण्डः खण्डितस्य देव्या वक्त्रेन्दोः साधर्म्यम्
घटयति तत् गिरिपतिपुत्रिकार्धमिश्रम् श्रैकण्ठम् वपुः अपुनर्भवाय (अहम्) वन्दे ।

एकत्र स्फटिकशिलामलं यदर्धे प्रत्यग्रद्रुतकनकोज्ज्वलं परत्र ।
बालार्कद्युतिभरपिञ्जरैकभागप्रालेयक्षितिधरशृङ्गभङ्गिमेति ॥ ३ ॥

अन्वय-यत् (अर्धनारीश्वररूपम्) एकत्र अर्धे स्फटिकशिलामलम् परत्र प्रत्यग्रद्रुतकनकोज्ज्वलम् सत्
बालार्कद्युतिभरपिञ्जरैकभागप्रालेयक्षितिधरशृङ्गभङ्गिम् एति ।

यत्रैकं चकितकुरङ्गभङ्गि चक्षुः- प्रोन्मीलत्कुचकलशोपशोभि वक्षः । मध्यं च
क्रशिमसमेतमुत्तमाङ्गं भृङ्गालीरुचिकचसंचयाञ्चितं च ॥ ४ ॥

साभोगं घननिबिडं नितम्बबिंबं पादोपि स्फुटमणिनूपुराभिरामः । आलोक्य क्षणमिति
नन्दिनोप्यकस्मादाश्चर्यं परमुदभूदभूतपूर्वम् ॥ ५ ॥ (युग्मम्)

अन्वय-यत्र (देवीरूपार्धभागे) एकम् चक्षुः चकितकुरङ्गभङ्गि (भवति) वक्षः
प्रोन्मीलत्कुचकलशोपशोभि (भवति) मध्यम् च क्रशिमसमेतम् (भवति) उत्तमांगं च
भृङ्गालीरुचिकचसञ्चयाञ्चितम् (भवति) साभोगम् घननिबिडम् नितम्बबिम्बम् (अस्ति) पादः अपि
स्फुटमणिनूपुराभिरामः (अस्ति) इति आलोक्य नन्दिनः अपि क्षणम् अकस्मात् परम् अभूतपूर्वम् आश्चर्यम्
उदभूत् ।

यत्रार्धं घटयति भूरिभूतिशुभ्रं चन्द्रांशुच्छुरितकुबेरशैलशोभाम् । अर्धं च
प्रणिहितकुङ्कुमाङ्गरागं- पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥ ६ ॥

अन्वय-यत्र भूरिभूतिशुभ्रम् अर्धम् चन्द्रांशुच्छुरितकुबेरशैलशोभाम् घटयति अर्धम् च
प्रणिहितकुङ्कुमाङ्गराम् (सत्) पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् घटयति ।

यत्कान्तिं दधदपि काञ्चनाभिरामां प्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् । विभ्राणं
मुकुटमुपोढचारुचन्द्रं सन्धत्ते सपदि परस्परोपमानम् ॥ ७ ॥

अन्वय-यत् काञ्चन अभिरामाम् कान्तिम् दधत् अपि प्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् उपोढचारुचन्द्रम्
मुकुटम् विभ्राणम् (सत्) सपदि परस्परोपमानम् सन्धत्ते ।

आश्चर्यं तव दयिते हितं विधातुं प्रागल्भ्यं किमपि भवोपतापभाजाम् । अन्योन्यं गतमिति
वाक्यमेकवक्त्र- प्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥ ८ ॥

अन्वय-यत्र (भगवतः देवीं प्रति वाक्यम्-) हे दयिते ! भवोपतापभाजाम् हितम् विधातुम् तव किमपि
(लोकोत्तरम्) आश्चर्यम् प्रागल्भ्यम् गतम् तथा (देव्याः शिवं प्रति वाक्यम्-) हे दयित ! इति आश्चर्यम् यत्
भवोपतापभाजाम् ईहितम् (अभिलषितम्) विधातुम् तव किमपि प्रागल्भ्यम् गतम् इति (समवेतयोः शिवयोः)
एकवक्त्रप्रोद्भिन्नम् वाक्यम् अन्योन्यम् सामरस्यम् घटयति ।

प्रत्यङ्गं घनपरिरम्भतः प्रकम्पं वामार्धं भुजगभयादिवैति यत्र । यत्रापि स्फुटपुलकं चकास्ति
शीत- स्वःसिन्धुस्नपिततयेव दक्षिणार्धम् ॥ ९ ॥

अन्वय-यत्र वामार्धम् घनपरिरम्भतः भुजगभयात् इव प्रत्यङ्गम् प्रकम्पम् एति तथा यत्र दक्षिणार्धम्
अपि घनपरिरम्भतः शीतस्वःसिन्धुस्नपिततया इव स्फुटपुलकम् चकास्ति ।

एकत्र स्फुरति भुजङ्गभोगभङ्गि- र्नीलेन्दीवरदलमालिका परत्र । एकत्र प्रथयति भस्मनोऽङ्गरागः
शुभ्रत्वं मलयजरञ्जनं परत्र ॥ १० ॥

एकत्राऽर्पयति विषं गलस्य कार्ष्ण्यं कस्तूरीकृतमपि पुण्ड्रकं परत्र । एकत्र
द्युतिरमलाऽस्थिमालिकाना- मन्यत्र प्रसरति मौक्तिकावलीनाम् ॥ ११ ॥

एकत्र स्रुतरुधिरा करीन्द्रकृत्तिः कौसुम्भं वसनमनश्वरं परत्र । इत्यादीन्यपि हि परस्परं विरुद्धा-
न्येकत्वं दधति विचित्रधाम्नि यत्र ॥ १२ ॥ (तिलकम्)

अन्वय-यत्र एकत्र भुजङ्गभोगभङ्गि स्फुरति परत्र नीलेन्दीवरदलमालिका स्फुरति तथा एकत्र भस्मनः
अङ्गरागः शुभ्रत्वम् प्रथयति परत्र मलयजरञ्जनम् शुभ्रत्वम् प्रथयति एवं एकत्र विषम् गलस्य
कार्ष्ण्यं अर्पयति परत्र अपि कस्तूरीकृतम् पुण्ड्रकम् गलस्य कार्ष्ण्यम् अर्पयति एकत्र अस्थिमालिकानाम्
अमला द्युतिः प्रसरति परत्र मौक्तिकावलीनाम् अमला द्युतिः प्रसरति एकत्र स्रुतरुधिरा करीन्द्रकृत्तिः
वसनम् (भवति) परत्र अनश्वरम् कौसुम्भम् वसनम् (भवति) इत्यादीनि परस्परम् विरुद्धानि अपि (वस्तूनि) यत्र
विचित्रधाम्नि एकत्वम् दधति ।

दन्तानां सितिमनि कज्जलप्रयुक्ते- मालिन्येऽप्यलिकविलोचनस्य यत्र । रक्तत्वे करचरणाधरस्य चान्यो
नाऽन्योन्यं समजनि नूतनो विशेषः ॥ १३ ॥

अन्वय-यत्र दन्तानाम् सितिमनि अलिकविलोचनस्य कज्जलप्रयुक्ते मालिन्ये अपि करचरणाधरस्य रक्तत्वे च अन्योन्यम्
नूतनः अन्यः विशेषः न समजनि ।

कण्ठस्य भ्रमरनिभा विभार्धभागं मुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे । अर्धं वा कनकसदृग्रुचिः
कचानां सन्त्यज्य न्यविशत किं गलैकदेशे ॥ १४ ॥

सौवर्णः करकमले यथैव वामे सव्येऽपि ध्रुवमभवत्तथैव कुम्भः । क्रीडैकप्रसृतमतिर्विभुर्बिभर्ति
स्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥ १५ ॥

यत्रासीज्जगदखिलं युगावसाने पूर्णत्वं यदुचितमत्र मध्यभागे । संरम्भाद्गलितमदस्तदेव नूनं
विश्रान्तं घनकठिने नितम्बबिम्बे ॥ १६ ॥

इत्यादीन्प्रविदधुरेव यत्र ताव- त्संकल्पान्प्रथमसमागमे गणेन्द्राः । यावत्स प्रणतिविधौ पदारविन्दं
भृङ्गीशः परिहरति स्म नाऽम्बिकायाः ॥ १७ ॥ (चक्कलकम्)

अन्वय-कण्ठस्य भ्रमरनिभा विभा अर्धभागम् मुक्त्वा किम् (देव्याः) शिरोरुहार्धे स्थितिम् अकरोत् ? तथा
कचानाम् (कपर्दरूपाणाम्) कनकसदृग्रुचिः अर्धम् सन्त्यज्य किं गलैकदेशे न्यविशत ? यथैव वामे
करकमले सौवर्णः कुम्भः अभवत् ध्रुवम् तथैव सव्ये अपि सौवर्णः कुम्भः अभवत् नूनम् तम् एव एनम्
(कुम्भम्) क्रीडैकप्रसृतमतिः विभुः स्वाच्छन्द्यात् उरसि बिभर्त्ति ? युगावसाने यत्र अखिलम् जगत् आसीत् अत्र
मध्यभागे यत् पूर्णत्वम् उचितम् तदेव अदः (पूर्णत्वम्) संरम्भात् गलितम् सत् घनकठिने नितम्बबिम्बे
विश्रान्तम् ? यत्र इत्यादीन् सङ्कल्पान् गणेन्द्राः प्रथमसमागमे एव तावत् प्रविदधुः यावत् सः
भृङ्गीशः प्रणतिविधौ अम्बिकायाः पदारविन्दम् न परिहरति स्म ।

किमयं शिवः किमु शिवाऽथ शिवा- विति यत्र वन्दनविधौ भवति । अविभाव्यमेव वचनं विदुषा-
मविभाव्यमेव वचनं विदुषाम् ॥ १८ ॥

अन्वय-यत्र वन्दनविधौ अयम् किम् शिवः ? किमु शिवा ? अथ किं शिवौ इति वचनं विदुषाम् अविभाव्यम् एव
भवति अतः अत्र वचनम् विदुषाम् अविभाव्यम् एव ।

एकः स्तनः समुचितोन्नतिरेकमक्षि लक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति । लिङ्गैस्त्रिभिर्व्यवसिते
सविभक्तिकेऽपि यत्राऽव्ययत्वमविखण्डितमेव भाति ॥ १९ ॥

अन्वय-यत्र एकः स्तनः समुचितोन्नतिः एकम् अक्षि लक्ष्याञ्जनम् तनुः अपि क्रशिमान्विता इति त्रिभिः लिङ्गैः
व्यवसिते अपि सविभक्तिके अव्ययत्वम् अविखण्डितम् एव भाति ।

यत्र ध्रुवं हृदय एव यदैक्यमासी- द्वाक्काययोरपि पुनः पतितं तदेव । यस्मात्सतां हृदि यदेव तदेव
वाचि यच्चैव वाचि करणेऽप्युचितं तदेव ॥ २० ॥

कान्ते शिवे त्वयि विरूढमिदं मनश्च मूर्तिश्च मे हृदयसंमददायिनीति । अन्योन्यमभ्यभिहितं वितनोति
यत्र साधारणस्मितमनोरमतां मुखस्य ॥ २१ ॥

उद्यन्निरुत्तरपरस्परसामरस्य- संभावनव्यसनिनोरनवद्यहृद्यम् । अद्वैतमुत्तमचमत्कृतिसाधनं त-
द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥ २२ ॥ (तिलकम्)

अन्वय-ध्रुवम् यत्र (द्वयोः शिवयोः) हृदये एव यत् ऐक्यम् आसीत् पुनः तदेव (ऐक्यम्) वाक्काययोः अपि पतितम्
यस्मात् सताम् यदेव हृदि (भवति) तदेव (तेषाम्) वाचि भवति यच्चैव वाचि तदेव करणे अपि उचितम् । यत्र हे
कान्ते ! हे शिवे !! त्वयि विरूढम् इदम् मम मनः त्वयि विरूढा इयम् मम मूर्तिः च मे हृदयसंमददायिनी
इति तथा- त्वयि शिवे कान्ते विरूढं मम मनः मूर्तिः च मे हृदयसंमददायिनी इति च अन्योन्यम् अभि
अभिहितम् मुखस्य साधारणस्मितमनोइरमताम् वितनोति । तत्
उद्यन्निरुत्तरपरस्परसामरस्यसंभावनव्यसनिनोः शिवयोः अनवद्यहृद्यम् उत्तमचमत्कृतिसाधनम् अद्वैतम्
(अर्धनारीश्वरत्वम्) युष्माकम् शिवयोजनाय अस्तु ।

लक्ष्याण्यलक्ष्याण्यपरत्र यत्र विलक्षणान्येव हि लक्षणानि । साहित्यमत्यद्भुतमीशयोस्तन्न कस्य
रोमाञ्चमुदञ्चयेत् ॥ २३ ॥

अन्वय-हि यत्र अपरत्र (भगवत्पार्श्वे) अलक्ष्याणि लक्षणानि विलक्षणानि एव लक्ष्याणि तत् शिवयोः
अत्यद्भुतम् साहित्यम् कस्य रोमाञ्चम् न उदञ्चयेत ?

जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगं भागं वह्निशिखापिशङ्गमधरं मध्ये
सुधाच्छच्छविः । धत्ते शक्रधनुःश्रियं प्रतिमिता यत्रेन्दुलेखानृजु- र्युष्माकं स पयोधरो
भगवतोर्हर्षामृतं वर्षतु ॥ २४ ॥

अन्वय-जूटाहेःमुकुटेन्द्रनीलरुचिभिः उर्ध्वगम् भागम् श्यामम् दधती अधरम् भागम् वह्निशिखापिशङ्गम्
दधती मध्ये सुधाच्छच्छविः अनृजुः इन्दुलेखा यत्र प्रतिमिता सती शक्रधनुःश्रियम् धत्ते सः
भगवतोः पयोधरः युष्माकम् हर्षामृतम् वर्षतु ।

इति श्रीप्रेममकरन्दव्याख्यासमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुति-कुसुमाञ्जलौ अर्धनारीश्वरस्तोत्रमेकविंशम्

द्वाविंशं स्तोत्रम्

काव्यकौशलकलासु कोविदैः कीर्तितः कविकुलैः कुतूहलात् । कौमुदीकुमुदकान्तकीर्तिभिः कामितः
कुशलकार्यकारिभिः ॥ १ ॥

केरलीकचकलिन्दकन्यकाकूलकालियकडारकन्धरः ।
किल्बिषक्षपणकारणक्रतुक्लान्तिकृत्करटिकृत्तिकर्पटः ॥ २ ॥

केकिकेतनकृशानुकौशिकैः किन्नरैः कविकुबेरकेशवैः । कालकूटकवलक्रियाक्रमे क्रन्दितः
कलुषकर्षणक्षमः ॥ ३ ॥

कर्णकीलितकपालकुण्डलः कुण्ठितक्रकचकल्पकल्मषः । कालकामकदनः
कुमुद्वतीकान्तकर्बुरकपर्दकन्दरः ॥ ४ ॥

कापिशायनकषायकामिनीकेलिकूजितकलेन कौतुकात् । क्रीडितः क्वणितकीचकक्वणत्कोकिलाकलकलेन कानने
॥ ५ ॥

कुन्दकुड्मलकदम्बकेतकीकाञ्चनारकलिकाकदम्बकैः । कर्णिकारकरबीरकोरकैः कैरवैः कुवलयैः
कुशेशयैः ॥ ६ ॥

किंशुकैः कपिकपोलकान्तिभिः केसरैः कमलकोषकोमलैः । कोविदारकुटजैः कणेरकैः केवलैः
कचितकीर्णकुन्तलः ॥ ७ ॥ (युग्मम्)

कृष्णकुण्डलिकठोरकञ्चुकैः कॢप्तकुब्जकमनीयकङ्कणः ।
क्रोधकृत्तकरिकुम्भकोटरक्रूरकेसरिकिशोरकण्टकः ॥ ८ ॥

कान्तया कनककाञ्चिकिङ्किणीकान्तया कलितकण्ठकन्दलः । कोपयन्कपटतः किरीटिनं क्रीडया
कृतकिरातकैतवः ॥ ९ ॥

काककङ्ककुररैः कलङ्किते कश्मले कठिनकृत्यकारिते । कांक्षितः क्षतकलेवरैः कटुं
कर्षयन्करुणया कदर्थनाम् ॥ १० ॥

कोपकर्कशकृतान्तकिङ्करक्लेशकातरकृपाकृतौ कृती । कल्पतां
कलिकलङ्ककन्दलीकन्दकर्त्तनकुठारकर्मणे ॥ ११ ॥ (एकादशभिः कुलकम्)

अन्वय-काव्यकौशलकलासु कोविदैः कविकुलैः कुतूहलात् कीर्तितः कौमुदीकुमुदकान्तकीर्तिभिः
कुशलकार्यकारिभिः कामितः केरलीकचकलिन्दकन्यकाकूलकालियकडारकन्धरः
किल्बिषक्षपणकारणक्रतुक्लान्तिकृत् करटिकृत्तिकर्पटः कालकूटकवलक्रियाक्रमे
केकिकेतनकृशानुकौशिकैः किंनरैः कविकुबेरकेशवैः क्रन्दितः कलुषकर्षणक्षमः
कर्णकीलितकपालकुण्डलः कुण्ठितक्रकचकल्पकल्मषः कालकामकदनः
कुमुद्वतीकान्तकर्बुरकपर्दकन्दरः कानने कापिशायनकषायकामिनीकेलिकूजितकलेन
क्वणितकीचकक्वणत्कोकिलाकलकलेन च कौतुकात् क्रीडितः
कुन्दकुड्मलकदम्बकेतकीकाञ्चनारकलिकाकदम्बकैः कर्णिकारकरबीरकोरकैः कैरवैः कुवलयैः
कुशेशयैः कपिकपोलकान्तिभिः किंशुकैः कमलकोषकोमलैः केसरैः कोविदारकुटजैः कणेरकैः
केवलैः कचितकीर्णकुन्तलः कृष्णकुण्डलिकठोरकञ्चुकैः कॢप्तकुब्जकमनीयकङ्कणः
क्रोधकृत्तकरिकुम्भकोटरक्रूरकेसरिकिशोरकण्टकः कनककाञ्चिकिङ्किणीकान्तया कान्तया (गिरिजया)
कलितकण्ठकन्दलः क्रीडया कृतकिरातकैतवः सन् कपटतः किरीटिनम् (अर्जुनम्) कोपयन्
काककङ्ककुररैः कलङ्किते कठिनकृत्यकारिते कश्मले क्षतकलेवरैः (शरणम्) काङ्क्षितः (तेषामेव)
कटुम् कदर्थनाम् करुणया कर्षयन् कोपकर्कशकृतान्तकिङ्करक्लेशकातरकृपाकृतौ कृती (महेश्वरः)
कलिकलङ्ककन्दलीकन्दकर्त्तनकुठारकर्मणे कल्पताम् ।

कल्लोलिनीकुटिलकैरविणीकुटुम्ब- कङ्कालकल्पितकरालकिरीटकोटिः । कात्यायनीकरकरम्बितकीर्यमाण-
कर्पूरकुङ्कुमकणः करुणां करोतु ॥ १२ ॥

अन्वय-कल्लोलिनीकुटिलकैरविणीकुटुम्बकङ्कालकल्पितकरालकिरीटकोटिः
कात्यायनीकरकरम्बितकीर्यमाणकर्पूरकुंकुमकणः (सः) विभुः करुणाम् करोतु ।

इति श्रीप्रेममकरन्दाख्यया व्याख्यया समेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्ट-विरचिते भगवतो
महेश्वरस्य स्तुतिकुसुमाञ्जलौ कादिपदबन्धस्तोत्रं सम्पूर्णम्

त्रयोविंशं स्तोत्रम्

जगति विबोधितविधुरं विधुरञ्जितचारुशेखरं गिरिशम् । गिरि शंसामि ससाध्वससाध्वसमानन्ददानपरम्
॥ १ ॥

अन्वय-जगति विबोधितविधुरम् विधुरञ्जितचारुशेखरम् ससाध्वससाध्वसमानन्ददानपरम् गिरिशम् (अहम्) गिरि
शंसामि ।

न परं शरणं प्रभवति भवति कृतावज्ञमानसे महताम् । महतां भजति हि सहसा सहसा तव
भारती मधुरा ॥ २ ॥

अन्वय-भवति कृतावज्ञमानसे महताम् परम् शरणम् न प्रभवति हि-सहसा सहसा (बलेन) मधुरा तव
भारती महताम् (महस्यभावः ताम्) भजति ।

मधुरागारुणनयना नयनाशविधौ पटीयसी प्रमदा । प्रमदार्पणार्थमुदिते मुदिते त्वयि सा तृणं
भजताम् ॥ ३ ॥

अन्वय-हे विभो ! प्रमदार्पणार्थम् उदिते त्वयि मुदिते सति मधुरागारुणनयना नयनाशविधौ पटीयसी
(अपि) सा प्रमदा भजताम् तृणम् भवति ।

भजतां सरसाममलां मम लाञ्छितशेखरेन्दुना करुणाम् । करुणां गिरं नवतया बत याऽर्पयति तव
श्रयताम् ॥ ४ ॥

अन्वय-हे इन्दुना लाञ्छितशेखर ! त्वम् मम (हेतोः) ताम् सरसाम् अमलाम् करुणाम् भज बत ! या (करुणा)
श्रयताम् करुणाम् गिरम् नवतया अर्पयति ।

श्रयतां नवनविधौ तव धौतवती गीरघं रतिं चतुरम् । चतुरन्तमहीपतिता पतिता हेयत्व एव यत्र
सताम् ॥ ५ ॥

अन्वय-अयि विभो ! अघम् धौतवती (मम) गीः चतुरम् तव नवनविधौ रतिम् श्रयताम् यत्र (गिरि)
चतुरन्तमहीपतिता अपि सताम् हेयत्वे एव पतिता (तृणतुल्येत्यर्थः)

त्रसतां न कदा भवता भवतापहृता विभो शुभाकृतिना । कृतिनामुपकारचितं रचितं शुभमेव
भाविहितम् ॥ ६ ॥

अन्वय-हे विभो ! भवतापहृता शुभाकृतिना भवता त्रसताम् कृतिनाम् उपकारचितम् भाविहितम् शुभम् एव
कदा न रचितम् ?

विहितं मयि चारु चिरं रुचिरं न गते विवेकलयम् । कलयन्नमलविभासितभासित रुचिमेहि मे विपाकमलम् ॥ ७


अन्वय-हे अमलविभासितभासित ! विवेकलयम् गते मयि भवता चिरम् चारु रुचिरम् (प्रियम्) कथम् न विहितम् ? हे
विभो ! मे अलम् विपाकम् कलयन् मे रुचिम् एहि ।

कमलं रविरपराजित राजितविकसद्वपुर्यथा कुरुते । कुरु तेन पथा मा भव मा भव विमुखो दृशं दिश
मे ॥ ८ ॥

अन्वय-हे अपराजित ! यथा रविः कमलम् राजितविकसद्वपुः कुरुते तेन पथा (तद्वत्) मा (माम्) कुरु हे भव !
विमुखः मा भव मे दृशम् दिश ।

दिशमेष विचारहितां रहितां विषयोरगैरहं न लभे । नलभेकवदतिविलपन् विलपन्नगवद्वृतः सदा
तमसा ॥ ९ ॥

अन्वय-हे विभो ! नलभेकवत् अतिविलपन् विल-पन्नगवत् सदा तमसा वृतः एषः अहम् विषयोरगैः रहिताम्
विचारहिताम् दिशम न लभे ।

तमसावुज्झितकलहं कलहंसगिरोमया सदा सहितम् । सहितं गीरुदितरसा तरसा श्रयतां विभुं सदयम्
॥ १० ॥

अन्वय-उज्झितकलहम् कलहंसगिरा उमया सदा सहितम् स-हितम् सदयम् तम् विभुम् तरसा उदितरसा असौ (मम)
गीः श्रयताम् ।

सदयं यदुदारमते रमते कुर्वंस्तदेव देव जनः । वज नः करुणापरतां परतां मा गा नमो भवते ॥
११ ॥

अन्वय-अयि उदारमते ! देव !! यत् सत् (तत्त्ववस्तु) तदेव कुर्वन् अयम् जनः रमते हे विभो ! त्वम् नः
करुणापरताम् वज परतां मा गाः भवते नमः (अस्तु) !

भव तेजःप्रसर-सितं रसितं श्रुत्वाऽमृतोपमं भवतः । भवतस्त्रासं सकलं सकलङ्कमतिः कदा
विमुञ्चामि ॥ १२ ॥

अन्वय-हे भव ! सकलङ्कमतिः (अहम्) भवतः तेजःप्रसरसितम् अमृतोपमम् रसितम् श्रुत्वा सकलम् भवतः
(संसारात्) त्रासम् कदा विमुञ्चामि ?

मुञ्चामितभास दृशं सदृशं शशिनः प्रदर्श्य वदनम् । वद नन्दयितुं जगतीं जगतीशः कोस्तु
नामान्यः ॥ १३ ॥

अन्वय-हे अमितभास ! त्वम् शशिनः सदृशम् वदनम् प्रदर्श्य मे (मह्यम्) दृशम् मुञ्च हे विभो ! (त्वम्) वद
जगतीम् नन्दयितुम् जगति कः नाम अन्यः ईशः (शक्तः) अस्तु ?

नामान्यः सुमतिरयं तिरयन्ति यशांसि तस्य वा विपदम् । विपदं न विलासमये समये वपुरस्य
यात्ययातवयः ॥ १४ ॥

तव यः स्तुतिषु सदा हर दाहरजः क्लेशपाशमयम् । शमयन्तीष्वस्तमनास्तमनाहतभाग्यमेव देव नमे
॥ १५ ॥ (युग्मम्)

अन्वय-हे हर ! क्लेशपाशमयम् दाहरजः शमयन्तीषु तव स्तुतिषु सदा यः अस्तमनाः भवति अयम् सुमतिः
अमान्यः न भवति तस्य च यशांसि विपदम् तिरयन्ति अस्य अयातवयः वपुः विलासमये समये विपदम् न याति
हे देव ! अहम् तम् अनाहतभाग्यम् एव नमे ।

वनमेव शरणमधुना मधुनाशिनुत प्रसादनाय तव । यतवति हृदये शकलितकलितमसो मे नमेरुचितम् ॥ १६


अन्वय-हे मधुनाशिनुत ! हृदये यतवति सति शकलितकलितमसः मे अधुना तव प्रसादनाय नमेरुचितम् वनम्
एव शरणम् ।

रुचितं नोरगसदनं सदनन्तमहर्द्धि नन्दनं न वनम् । नवनं धृतदीप्रगुणं प्रगुणं तव कर्तुमेव
देव रमे ॥ १७ ॥

अन्वय-अयि देव ! सदनन्तमहर्धि उरगसदनम् मे न रुचितम् सदनन्तमहर्धि नन्दनम् वनम् अपि न रुचितम् (अहम् तु)
प्रगुणम् धृतदीप्रगुणम् तव नवनम् एव कर्तुम् रमे ।

वरमेनोहरममलं मम लंघितविघ्न देहि नाम हितम् । महितं पदमपि मा नय मानय विधुरं दृशामलया
॥ १८ ॥

अन्वय-हे लंघितविघ्न ! नाम अमलम् हितम् एनोहरम् वरम् मे देहि हे विभो ! मा महितम् पदम् अपि नय अमलया
दृशा(माम्)विधुरम्

मलयानिलमिव सुरभिं सुरभिं कुसुमैरिवावदातवनम् । तव नन्दितहृदनामय नाम यमत्रासहृत्कलये ॥ १९


अन्वय-हे अनामय ! सुरभिम् मलयानिलम् इव कुसुमैः सुरभिम् अवदातवनम् इव (अहम्) यमत्रासहृत् तव नाम
नन्दितहृत् कलये ।

कलयेन्दोरभिभूषित भूषितमुकुटैः सुरैर्नतेश न कैः । शनकैरघशमनाशय नाशय विपदं पदं
नय मा ॥ २० ॥

अन्वय-हे इन्दोः कलया अभिभूषित ! भूषितमुकुटैः कैः सुरैः न नत ! (अपि तु सर्वनत !) हे ईश ! हे
अघशमनाशय ! शनकैः मे विपदम् नाशय मा (माम्) स्वं पदम् नय ।

न यमाहितभयशमने शमनेकविधं प्रसाददक्षमते । क्षमते मुनिभिरुपासित पासितरां चेन्न मामदयम्
॥ २१ ॥

अन्वय-हे प्रसाददक्षमते ! हे मुनिभिः उपासित ! विभो ! त्वम् चेत् अदयम् माम् न पासितराम् तदा
यमाहितभयशमने अनेकविधम् शम् न क्षमते ।

मदयञ्जितविप्रकृतीः प्रकृतीर्वसुधाधिपो महीवलयम् । बलयन्त्रितरिपुरक्षति रक्षति तव यः
प्रसादमितः ॥ २२ ॥

अन्वय-हे विभो ! यः तव प्रसादम् इतः सः बलयन्त्रितरिपुः वसुधाधिपः जितविप्रकृतीः प्रकृतीः
मदयन् अक्षति महीवलयम् रक्षति ।

दमितस्तेन हि शमनः शमनस्तरुचापि तेन जातमुदा । तमुदाराहितचरितं चरितं शुभवर्त्मना
स्तुवन्त्यमलम् ॥ २३ ॥ ---------------- स्मृतिर्यत्र क्वापि स्वपरविषये नैव हि भवे- न्निरायासा जाताः
सततमिह धन्वन्तरिमुखाः । विनैकस्माच्छम्भोः सदयनयनोद्वीक्षणलवाद्- भवापस्मारोऽयं
विषमविषमः शाम्यति कथम् ॥ ------------------

त्यमलंकृतभूभवनं भव नन्दितलोकमीश भावपुषा । वपुषा नौम्यभयस्तव यस्तव नुतिषु प्रियासु
कृती ॥ २४ ॥ (युग्मम्)

अन्वय-हि तेन शमनः दमितः अनस्तरुचा जातमुदा तेन शम् अपि आपि उदाराहितचरितम् शुभवर्त्मना चरितम्
अमलम् तम् (जनाः) स्तुवन्ति हे भव ! हे ईश ! हे अभयस्तव ! यः (नरः) प्रियासु तव नुतिषु कृती भवति
भावपुषा वपुषा अलंकृतभूभवनम् नन्दितलोकम् त्यम् (तम् पुरुषम्) अहम् नौमि ।

सुकृती तव भववारणवारणहरिणेन्द्र सिद्धिभाजनताम् । जनतां नयदमलसितं लसितं वपुरर्चये
नवैरसकृत् ॥ २५ ॥

अन्वय-हे बह्ववारणवारणहरिणेन्द्र ! अहम् सुकृती जनताम् सिद्धिभाजनताम् नयत् अमलसितम् लसितम् तव
वपुः असकृत् नवैः अर्चये ।

रसकृद्योऽप्रतिघस्मरघस्मर भवतः स्तवः सदैव सताम् । वसतां दिवि भयहृदयं हृदयं कुरुते
घनोत्कलिकम् ॥ २६ ॥

अन्वय-हे अप्रतिघ-स्मर-घस्मर ! यः भवतः स्तवः सदैव सताम् रसकृत् (भवति) सः अयम् भयहृत्
(भवतः स्तवः) दिवि वसताम् (अपि) हृदयम् घनोत्कलिकम् कुरुते ।

कलिकम्पनमघशरणं शरणं चरणद्वयं भजेऽविकलम् । विकलङ्कमतिरहं तव हन्त
वरद्विरदराजगतिम् ॥ २७ ॥

अन्वय-हन्त कलिकम्पनम् अघशरणम् अविकलम् वरद्विरदराजगतिम् तव चरणद्वयम् अहम् विकलङ्कमतिः
शरणम् भजे ।

इति श्रीप्रेममकरन्दव्याख्ययोपेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृते भगवतो महेश्वरस्य
स्तुति-कुसुमाञ्जलौ शृङ्खलाबन्ध स्तोत्रं सम्पूर्णम् ।

चतुर्विंशं स्तोत्रम्

वचसि सरस्वति मे विभवं प्रकटय जातरसारम् । नुतिभिरुपस्तुहि देवि भयं सकलसुरान्तरसारम् ॥ १ ॥

अन्वय-अयि सरस्वति ! अरम् (अत्यर्थम्) जातरसा (त्वम्) मे वचसि विभवम् प्रकटय हे देवि ! सकलसुरान्तरसारम्
भवम् नुतिभिः उपस्तुहि ।

अविरलभस्मरजोधवलं विहितमहाशमलाभम् । भज भगवत्यगजाधवलं श्रमशमनं विमलाभम् ॥ २ ॥

अन्वय-हे भगवति ! (वाणि) त्वम् अविरलभस्मरजोधवलम् विहितमहाशमलाभम् श्रमशमनम् विमलाभम्
अगजाधवलम् भज ।

दातुमनुत्तमहावपुषं यः प्रबभूव नदीनम् । नाथमनुत्तमहावपुषं तं भज देवि न दीनम् ॥ ३ ॥

अन्वय-हे देवि ! यः (प्रभुः) अनुत्तम हाव पुषं नदीनम् (बालाय उपमन्यवे) दातुम् प्रबभूव तम्
अनुत्तमहावपुषम् न दीनम् नाथम् भज ।

भक्तिरसस्तव देव सतां जयति महामृतहृद्यः । चरणतले भवतो वसतां कलिमलपल्वलहृद्यः ॥ ४ ॥

अन्वय-अयि देव ! यः भवतः चरणतले वसताम् सताम् कलिमलपल्वहृत् (भवति) सः महामृतहृद्यः तव
भक्तिरसः जयति ।

नयनमुदीर्य तमो हर मे निहतमहाविषमेषु । येन पुनर्हतमोह रमे वैरिषु नो विषमेषु ॥ ५ ॥

अन्वय-हे हतमोह ! (त्वम्) निहतमहाविषमेषु नयनम् (तृतीयम्) उदीर्य मे तमः हर येन अहम् विषमेषु
वैरिषु पुनः न रमे ।

त्वयि वरदे रुचिरप्रमदाः प्रचलितचामरहस्ताः । सदसि भजन्ति जनं प्रमदा रमयति सोऽपि रहस्ताः ॥ ६


अन्वय-हे विभो ! त्वयि वरदे सति रुचिरप्रमदाः प्रचलितचामरहस्ताः प्रमदाः सदसि जनम् भजन्ति सोऽपि
जनः रहः ताः रमयति ।

हिमकरकिरणसमूहसितं सुरसरिदम्बुविडम्बि । वह भगवन् वदने हसितं मा भवतात्र विडम्बि ॥ ७ ॥

अन्वय-हे भगवन् ! हिमकरकिरणसमूहसितम् सुरसरिदम्बुविडम्बि हसितम् वदने वह अत्र (विषये) भवता मा
विडम्बि (विलम्बि) ।

उपमितमन्मथचापलतां भ्रुवमवधूय सहेलम् । रविजदृशां घनचापलतां विघटय ता न सहेऽलम् ॥
८ ॥

अन्वय-प्रभो ! उपमितमन्मथचापलताम् भ्रुवम् सहेलम् अवधूय रविजदृशाम् घनचापलताम् विघटय अहम्
ताः अलम् न सहे ।

रविसुतवर्त्म मम स्मरतः श्रुतयमकिङ्कर-वाणि । दलति विभो हृदयं दरतः पुरहर किं करवाणि ॥ ९


अन्वय-अयि पुरहर ! श्रुतयमकिङ्करवाणि रविसुतवर्त्म [अत्र वर्त्मनः स्मृतिमात्रत्वान्न तु तदर्थत्वात्
स्मरामि वानीरगृहेषु सुप्तम् इतिवत्षठ्यभावः] स्मरतः मम दरतः हृदयम् दलति हे विभो ! अहम् किम्
करवाणि ?

प्रथयति यस्तव हन्त महं नुतिवचसा रुचिरेण । शुभशतसिद्धिसहं तमहं शिरसि वहाम्यचिरेण ॥ १०


अन्वय-हन्त ! प्रभो ! यः रुचिरेण नुतिवचसा तव महम् प्रथयति तम् शुभशतसिद्धिसहम् अहम् अचिरेण
शिरसि वहामि ।

भवभयभञ्जनभङ्गिविधौ भक्तिमतां प्रभवन्तम् । विहितहितं विधुरेऽपि विधौ भजत जगत्प्रभवं
तम् ॥ ११ ॥

अन्वय-भक्तिमताम् (अतिशुभमार्गदर्शनेन) भवभयभञ्जनभङ्गिविधौ प्रभवन्तम् विधुरे (वक्रे) अपि विधौ
विहितहितम् तम् जगत्प्रभवम् भजत ।

मदनमहीरुहदवदहनं शिरसि धृतामृतभासम् । भजत दुरन्तविषादहनं प्रणतसमर्पितभासम् ॥ १२


अन्वय-अयि धन्याः ! मदनमहीरुहदवदहनम् शिरसि धृतामृतभासम् दुरन्तविषादहनम्
प्रणतसमर्पितभासम् (तम् विभुम्) भजत ।

वितर नदीरमणं शमनं शकलय खण्डय कामम् । प्रथय धनञ्जयभयशमनं रचय पुरं
हतकामम् ॥ १३ ॥

इति सदयेन यदाचरितं भुवनहिताय हरेण । भजत तदस्य महाचरितं नुतिवचसार्तिहरेण ॥ १४ ॥
(युग्मम्)

अन्वय-बालायोपमन्युमुनये) नदीरमणम् वितर [क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः इति सूत्रेण
लोट् तस्य च हिस्वावादेशौ स्तः अतो वितर शकलय इत्यादि ज्ञेयम्] (व्यतरत्) शमनम् शकलय (अशकलयत्)
कामम् खण्डय (अखण्डयत्) धनञ्जयभयशमनम् प्रथय पुरम् हतकामम् रचय (अरचयत्) इति सदयेन
हरेण भुवनरहिताय यत् आचरितम् तत् अस्य महाचरितम् आर्तिहरेण नुतिवचसा भजत ।

गतिरशुभं हर का तरतां भवति विनाश भवन्तम् । इति चतुरं हर कातरतां रचय च मां
शुभवन्तम् ॥ १५ ॥

अन्वय-हे हर ! (महासंसारे) अशुभम् आशु तरताम् भवन्तम् विना का गतिः (भवति) इति कातरताम् चतुरम्
हर माम् च शुभवन्तम् रचय ।

वरद भवन्तमृते धरते भुवनमिदं सकलं कः । इति नतिमिन्दुकलाधर ते भजति न कः सकलङ्कः ॥ १६


अन्वय-हे वरद ! भवन्तम् ऋते इदम् सकलम् भुवनम् कः धरते ? इति हे इन्दुकलाधर ! कः सकलङ्कः ते
नतिम् न भजति ? (अपि तु सर्व एवेत्यर्थः ।)

इयमखिलेतरजातिमतां जयति जनिः प्रथमा नः । सेव्यभुवं विभुरेति मतां यत्र हृदि प्रथमानः ॥ १७


अन्वय-हन्त अखिलेतरजातिमताम् मध्ये इयम् नः प्रथमा जनिः जयति यत्र (अस्माकम्) हृदि प्रथमानः विभुः
मताम् सेव्यभुवम् एति ।

तुभ्यमयं शितिनाल सतां वरद करोमि नमोऽहम् । शमय महेश ममालसतां येन भजामि न मोहम् ॥ १८ ॥

अन्वय-हे शितिनाल ! हे सताम् वरद ! अयम् अहम् तुभ्यम् नमः करोमि हे महेश ! मम आलसताम् शमय येन
(अहम्) मोहम् न भजामि ।

भजसि यया किल कामदया नतजनमीश समस्तम् । सा मम ते हतकाम दया गमयतु वैशसमस्तम् ॥ १९ ॥

अन्वय-हे ईश ! हे हतकाम !! किल यया कामदया (दयया) समस्तम् नतजनम् भजसि सा ते दया मम वैशसम्
(दुःखम्) अस्तम् गमयतु ।

येन शुचं हतलोभ जनस्त्यजति सुधामधुरेण । तेन विभो वचसा भज नः प्रकटितधामधुरेण ॥ २० ॥

अन्वय-हे हतलोभ ! येन सुधामधुरेण (तव वचसा) जनः शुचम् त्यजति हे विभो ! तेन
प्रकटितधामधुरेण वचसा नः भज ।

मदयसि येन जनं सकलं मधुरगिरा वदनेन । मयि वचनं परिहासकलं प्रतिदिश तावदनेन ॥ २१ ॥

अन्वय-हे प्रभो ! मधुरगिरा येन वदनेन त्वम् सकलम् जनम् मदयसि तावत् अनेन (एव) वदनेन मयि
परिहासकलम् वचनम् प्रतिदिश ।

प्. ५५०)

येन सतां विपदानयनं दुरितमदभ्रमहारि । दिश विशदं मयि तन्नयनं मदनमदभ्रमहारि ॥ २२ ॥

अन्वय-हे विभो ! येन (नयनेन) विपदानयनम् अदभ्रम् सताम् दुरितम् अहारि तत् मदनमदभ्रमहारि विशदम्
नयनम् मयि दिश ।

जगदखिलं यदि नन्दयसे तिमिरमुषा रसितेन । इममपि किं न जनं दयसे तेन तुषारसितेन ॥ २३ ॥

अन्वय-हे विभो ! तिमिरमुषा रसितेन यदि अखिलम् जगत् नन्दयसे तर्हि तुषारसितेन तेन रसितेन इमम् अपि जनम्
किं न दयसे ?

दुरितहृतौ विषसाद करः क्वापि न ते रमणीयः । अपि स भयं विषसादकरः शमयतु घोरमणीयः ॥
२४ ॥

अन्वय-हे शिव ! यः रमणीयः ते करः दुरितहृतौ क्वापि न विषसाद सः विषसादकरः ते करः घोरिम्
अणीयः भयम् अपि शमयतु ।

भयहरणे महिताभ यतः प्रथयसि जातरसत्वम् । मामपि पाहि महाभयतः पुरहर कातरसत्त्वम्
[यमकश्लेषचित्रेषु दन्त्यौष्ठ्यवबकारयोः । न भेदो नणयोश्चैव न नकारमकारयोः ॥ हलः परस्य
चैकस्य व्यञ्जनस्य द्वयोरपि । न विशेषो विसर्गस्य भवेच्च सदसत्त्वयोः ॥] ॥ २५ ॥

अन्वय-हे महिताभ ! यतः भयहरणे जातरसत्वम् प्रथयसि अतः हे पुरहर ! कातरसत्त्वम् माम् अपि
महाभयतः पाहि ।

भजामि मायाशबरं वरं वरं दिशन्तमन्तं कुनयं नयन्नयम् । विजित्य कृत्यप्रभवं भवं भवं
विखण्डितक्लेशपरम्परं परम् ॥ २६ ॥

अन्वय-कुनयम् अन्तम् नयन् कृत्यप्रभवम् भवम् विजित्य अयम् अहम् मायाशबरम् वरम् वरम् दिशन्तम्
विखण्डितक्लेशपरम्परम् परम् भवम् भजामि ।

मलक्षयमलक्षयं भव भवत्प्रसादादहं शिवस्तव शिव स्तवः प्रविहितस्ततोऽयं मया । समुद्धर
समुद्धर व्यसनसङ्कटादर्कजः समक्षमसमक्षमः स्पृशति चेन्न जिह्वेषि किम् ॥ २७ ॥

अन्वय-हे भव ! अहम् भवत्प्रसादात् मलक्षयम् अलक्षयम् हे शिव ! ततः एव मया अयम् शिवः तव स्तवः
प्रविहितः हे हर ! समुत् त्वम् (माम्) व्यसनसङ्कटात् समुद्धरः अयि दयालो ! असमक्षमः अर्कजः (यमः)
तव समक्षम् माम् स्पृशति चेत् तर्हि त्वम् किम् न जिह्रेषि ?

सन्त्यन्याः कृतिनामनामयगिरः का नाम नामन्थरा न ज्ञानां हृदि वास्तवास्तव मुदं के वा
स्तवास्तन्वते । वागेषा त्वतिसाध्वसाध्वपतिता यत्साध्वसाध्वभ्यधा- त्तन्मन्ये महिमानमानयति ते
स्थेमानमानन्दकृत् ॥ २८ ॥

अन्वय-हे अनामय ! कृतिनाम् अमन्थराः गिरः अन्याः का नाम न सन्ति ? (अपितु सन्त्यैव) के वा वास्तवाः
तव स्तवाः ज्ञानाम् हृदि मुदम् न तन्वते ? (अपि तु तन्वत एव) अतिसाध्वसाऽध्वपतिता एषा (मदीया) वाक्
तु (भवत्स्तुत्युद्योगे) यत् साध्वसाधु अभ्यधात् अहम् मन्ये तत् आनन्दकृत् (अभिधानम्) ते महिमानम् स्थेमानम्
आनयति ।

इति श्रीप्रेममकरन्दसमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वर्स्य
स्तुति-कुसुमाञ्जलौ द्विपदयमकं नाम चतुर्विंशं स्तोत्रम् ।

पञ्चविंशं स्तोत्रम्

किल यस्य कल्पितमहोदयया- हृदयं समाश्रितमहो दयया । विभवं यतश्च परमाप दिवः प्रभुरेष पातु
परमापदि वः ॥ १ ॥

अन्वय-अहो ! किल कल्पितमहोदयया दयया यस्य हृदयम् समाश्रितम् यतः च दिवः प्रभुः (इन्द्रः) परम्
विभवम् आपः एषः (परमेश्वरः) वः परमापदि पातु ।

तव सेवकस्य परमेश मनः कुरुते न हन्तुमपि मे शमनः । भगवन्नतो वपुरनीरसदृ- क्तव नौमि
सिद्धधुनिनीरसदृक् ॥ २ ॥

अन्वय-हे परमेश ! शमनः तव सेवकस्य मे हन्तुम् अपि मनः न कुरुते अतः हे भगवन् !! अनीरसदृक् अहम्
सिद्धधुनिनीरसदृक् तव वपुः नौमि ।

स्रगिवाऽर्प्यते कलितसारसना त्वयि गीर्यया जयति सा रसना । त्वयि यन्महेश वरदेऽवहितं हृदयं
तदेव वरदेव हितम् ॥ ३ ॥

अन्वय-हे महेश ! यया (रसनया) कलितसारसना गीः स्रक् इव त्वयि अर्प्यते सा रसना जयति हे वरदेव ! यत्
हृदयम् त्वयि वरदे अवहितम् तदेव हितम् (भवति) ।

तव दृक्सुधाकरकलोपमिता- पतिता विपत्तदनुलोपमिता । भगवन् दृशैव कमला भवतः सहसाऽङ्कमेति
शमला भवतः ॥ ४ ॥

अन्वय-हे भगवन् ! सुधाकरकलोपमिता तव दृक् (त्वद्भक्तजने) पतिता तदनु विपत् लोपम् इता हे विभो !
भवतः दृशा एव सहसा कमला शमला भवतः अङ्कम् एति ।

कुरु नाथ चेतसि वचो दयिता तव गीरहं न तव चोदयिता । अथवा महेश पृथुकामतया न किमारटन्ति
पृथुका मतया ॥ ५ ॥

अन्वय-हे नाथ ! त्वम् (मदीयम्) वचः चेतसि कुरु यतः गीः तव (विभोः) दयिता अतः अहम् तव चोदयिता न
(भवामि) अथवा हे महेश ! मतया पृथुकामतया (घनाभिलाषत्वेन) पृथुकाः किम् न आरटन्ति ।

विषयैर्मुखे वरद कामधुरैर्विवशीकृतं घटितकामधुरैः । भज मां महेश्वर मुदा रहितं दिश
भाषितामृतमुदारहितम् ॥ ६ ॥

अन्वय-हे वरद ! घटितकामधुरैः मुखे कामधुरैः विषयैः विवशीकृतम् मुदा रहितम् माम् भज
(आत्मवशं कुर्वित्यर्थः) हे महेश्वर ! उदार-हितम् भाषितामृतं दिश ।

विजितं मया जगदमोहतया न रुषा क्षतो मम दमो हतया । तृणवत्सुरक्षितिधरोऽपि तया विहितो महेश
हृदि रोपितया ॥ ७ ॥

अन्वय-हे महेश ! मया अमोहतया जगत् विजितम् तया हतया रुषा मम दमः न क्षतः हृदि रोपितया तया
सुरक्षितिधरः अपि तृणवत् विहितः ।

मरुतायतेव मलयाचलतः क्षपिता धृतिः कमलया चलतः । तदिमां प्रसादनपरां करुणां शृणु मे
गिरं कुरु परां करुणाम् ॥ ८ ॥

अन्वय-हे विभो ! मलयाचलतः आयता मरुता इव कमलया चलतः मम धृतिः क्षपिता । तत् प्रसादनपराम्
इमाम् मे करुणाम् गिरम् शृणु पराम् करुणाम् कुरु ।

भवतः प्रसादमधुरामहतां दृशमीयुषां शमधुरा महताम् धृतिमेत्यपास्य च रमा लसतां
सुलभत्वमेति चरमालसताम् ॥ ९ ॥

अन्वय-हे विभो ! प्रसादमधुराम् अहताम् भवतः दृशम् ईयुषाम् महताम् शमधुरा धृतिम् एति लसताम्
(क्रीडताम्) महताम् रमा चरमाऽलसताम् अपास्य सुलभत्वम् एति ।

समरे विकीर्णगजराजघटे बत तस्य शक्तिरजरा जघटे । तव येन सेवनविधौ तरसा
मतिरर्पिताऽन्यभविधौतरसा ॥ १० ॥

अन्वय-हे विभो ! बत तव सेवनविधौ येन तरसा अन्यभविधौतरसा मतिः अर्पिता तस्य शक्तिः
विकीर्णगजराजघटे समरे अजरा जघटे ।

विषयान्प्रति प्रयतमानमदः सुजनो मनः प्रयतमानमदः । तव शासनेन वशमानयते शरणं ततो
नवशमानयते ॥ ११ ॥

अन्वय-हे नाथ ! प्रयतमानमदः सुजनः विषयान् प्रति प्रयतमानम् अदः मनः तव शासनेन वशम्
आनयते ततः नवशमान् (साधून्) शरणम् अयते ।

रविजं रजोभिरिव मेचकितं हृदयं विभाव्य शिव मे चकितम् । वचनं जितामृतरसं भ्रमतः पथि
सङ्कटे वितर संभ्रमतः ॥ १२ ॥

अन्वय-हे शिव ! रविजम् रजोभिः मेचकितम् इव विभाव्य मे हृदयम् चकितम् (भवति) हे स्वामिन् ! संभ्रमतः
सङ्कटे पथि भ्रमतः मे जितामृतरसम् वचनम् वितर ।

त्वयि चक्षुरीश कलितापकृति क्षिपति क्षणं शकलितापकृति । परशक्तिरिद्धवपुरङ्गमिता जनता यया
तव पुरं गमिता ॥ १३ ॥

अन्वय-हे ईश ! कलितापकृति त्वयि शकलितापकृति चक्षुः क्षणम् क्षिपति सति इद्धवपुः सा परशक्तिः
अङ्गम् इता यया जनता तव पुरम् गमिता ।

रविजस्य वर्ष्म सहसा रचितं भवताग्निसादसहसारचितम् । वपुराप ते मदनघस्मरतां न तथापि
भीमदनघस्मरताम् ॥ १४ ॥

अन्वय-हे प्रभो ! असहसारचितम् रविजस्य वर्ष्म भवता सहसा अग्निसात् रचितम् हे अनघ ! ते वपुः
मदनघस्मरताम् आप तथापि सः ते वपुः स्मरताम् भीमत् (भयप्रदम्) न (भवति) ।

करुणा क्षतानवधिकोपचयाधिगता मया त्वदधिकोपचया । शशिना यथाकुलतरं गलता
द्युसरिन्निरर्गलतरङ्गलता ॥ १५ ॥

अन्वय-हे भगवन् ! यथा आकुलतरम् गलता (क्षीणवपुषा) शशिना निरर्गलतरङ्गलता द्युसरित् अधिगता
तथैव मया (अपि) क्षतानवधिकोपचया अधिकोपचया करुणा त्वत् (भवत्सकाशात्) अधिगता ।

गरुडेन यद्विषमपक्षतिना कवलीकृतं विषमपक्षतिना । स तव प्रसादमहिमा न परः प्रभुरानतं
प्रति हि मानपरः ॥ १६ ॥

अन्वय-हे महेश विषमपक्षतिना अपक्षतिना गरुडेन विषम् (अपि) यत् कवलीकृतम् सः तवैव प्रसादमहिमा
(भवति) हि परः प्रभुः आनतम् प्रति मानपरः न (भवति) ।

पदमाप्तुमार्तिशमनं गहनं प्रभुमर्थये भृशमनङ्गहनम् । वसनं यथार्त्तिहरणं सहिमे समये
तथैव शरणं स हि मे ॥ १७ ॥

अन्वय-आर्तिशमनम् गहनम् पदम् आप्तुम् (अहम्) अनङ्गहनम् प्रभुम् भृशम् अर्थये यथा-सहिमे समये
(हेमन्तकाले) वसनम् आर्त्तिहरणम् (भवति) हि तथैव सः प्रभुः मे शरणम् (अस्ति) ।

सुरसुन्दरीषु रमणीयतमा स्ववपुर्गुणेन रमणी यतमा । तव भक्तमक्षतरसाजर सा भजते समेत्य
तरसा जरसा ॥ १८ ॥

अन्वय-हे अजर ! सुरसुन्दरीषु मध्ये स्ववपुर्गुणेन रमणीयतमा यतमा (या काचित्) रमणी (भवति) सा
अक्षतरसा सती जरसा (उपलक्षितमपि) तव भक्तम् तरसा समेत्य भजते ।

त्वयि गीर्मया निजगदे बत या निखिलं जयामि जगदेव तया । मुदितस्य भक्तिसुधया भवतः सभयस्य किं
वसुधया भवतः ॥ १९ ॥

अन्वय-हे नाथ ! बत मया त्वयि या गीः निजगदे तया (अहम्) निखिलम् जगत् एव जयामि भवतः (संसारात्)
सभयस्य भवतः भक्तिसुधया मुदितस्य वसुधया अपि (लब्धया) किम् (न किमपीत्यर्थः) ।

शिरसि स्रजेव विधुरोचितया हृदि मद्गिरात्र विधुरोचितया । क्रियतां पदं शिव धिया सहतेऽ- विपदं
सदानवधि या सहते ॥ २० ॥

अन्वय-हे शिव ! तव शिरसि विधुरोचितया स्रजा इव विधुरोचितया मद्गिरा अत्र ते हृदि तया धिया
(अनुग्रहबुद्ध्या) सह पदम् क्रियताम् या (धीः) भक्तजनस्य अनवधि अविपदम् सदा सहते (भक्तजनस्य
विपदं न सहते इत्यर्थः) ।

विभुमाश्रये विगलदङ्गलतः प्रमये बिभेमि यदमङ्गलतः । स विमुच्य पाशमशमं गलतः कुरुते हि मे
भयशमं गलतः ॥ २१ ॥

अन्वय-यत् (अहम्) प्रमये विगलदङ्गलतः सन् अमङ्गलतः बिभेमि तत् विभुम् आश्रये हि सः विभुः अशमम्
पाशम् मे गलतः विमुच्य गलतः मे भयशमम् कुरुते ।

चरणौ यथा मुरजितः क्षमयाधिगतौ भरं धरितुमक्षमया । नमतां तथैव कृतरक्ष मया भवतो
धिया समुचितक्षमया ॥ २२ ॥

अन्वय-हे विभो ! यथा-भरम् धरितुम् अक्षमया क्षमया मुरजितः चरणौ अधिगतौ तथैव हे नमताम्
कृतरक्ष ! मया समुचितक्षमया धिया भवतः चरणौ अधिगतौ ।

तिमिरं रवेरिव विभामुदितां दृशमाप्य ते जहति या मुदिताम् । भगवन् रसाद्गिरमिमामुदिता-
मुपकर्णयन्मयि दिशाऽमुदिताम् ॥ २३ ॥

अन्वय-हे भगवन् ! रवेः उदिताम् विभाम् इव मुदिताम् याम् ते दृशम् आप्य (भक्तजनाः) तिमिरम् जहति हे विभो !
रसात् (भक्तिरसात्) उदिताम् इमाम् मम गिरम् उपकर्णयन् अमुदि मयि ताम् दृशम् दिश ।

करुणा सुरैः प्रतिपदानत या भवतः स्तुता सदपदानतया । किमु मां भियाप्तमपदानतया भजसे
निरस्तविपदा न तया ॥ २४ ॥

अन्वय-हे सुरैः प्रतिपदानत ! सदपदानतया या भवतः करुणा (जनैः) स्तुता (भवति) अपदानतया
भिया आप्तम् माम् निरस्तविपदा तया किम् उ न भजसे ?

तव दृग्जयत्यलसतां लसतां मदनस्य या व्यतनुताऽतनुताम् । कुशलाय सा किल सतां लसतां निबिडं
शमप्यतनुता तनुताम् ॥ २५ ॥

अन्वय-हे विभो ! या तव दृक् मदनस्य अतनुताम् व्यतनुत (सा) लसताम् अलसताम् जयति किल सा अतनुता दृक्
सताम् कुशलाय लसताम् निबिडम् शम् अपि तनुताम् ।

यया भजन्ते भुवि मानवा हितां विभूतिमन्ते च विमानवाहिताम् । यमं च याऽधाद्दलशो भयानकं तया
दृशा पास्युरुशोभया न कम् ॥ २६ ॥

अन्वय-हे विभो ! यया तव दृशा भुवि मानवाः हिताम् विभूतिम् भजन्ते अन्ते च विमानवाहिताम् भजन्ते या च
भयानकम् यमम् दलशः अधात् तया उरुशोभया दृशा कम् न पासि ? अपि तु सर्वमित्यर्थः ।

परमया रमया रहितस्य मे न रुचिरं रुचिरङ्गमिमं व्यधात् । हर मयाऽरमयाचि भवानतः कुरु चिरं
रुचिरञ्जनमेहि मे ॥ २७ ॥

अन्वय-परमया रमया रहितस्य मे रुचिः इमम् अङ्गम् रुचिरम् न व्यधात् अतः हे हर ! भवान् मया अरम्
(अत्यर्थम्) अयाचि हे विभो ! त्वम् एहि चिरं मे रुचिरञ्जनम् कुरु ।

इति श्रीप्रेममकरन्दसमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ रुचिरञ्जनाख्यं स्तोत्रं पञ्चविंशम्

षड्विंशं स्तोत्रम्

हन्तापहन्तापदुपद्रवाणां यस्याऽक्षयस्याक्षणिकः प्रसादः । सन्तापसन्तापहरा प्रपेव
कान्तारकान्ता रसना च यस्य ॥ १ ॥

तादृङ्मता दृङ्महतां समन्ता- दालोकदा लोकहिता च यस्य । तं सन्ततं सन्तमसार्त्तलोक- पालं
कृपालङ्कृतमीशमीडे ॥ २ ॥ (युग्मम्)

अन्वय-हन्त यस्य अक्षयस्य अक्षणिकः प्रसादः आपदुपद्रवाणाम् अपहन्ता (भवति) यस्य च रसना प्रपा
इव सन्तापसन्तापहरा कान्तारकान्ता च (भवति) समन्तात् महताम् आलोकदा मता लोकहिता च तादृक् यस्य
दृग् (भवति) तम् सन्तमसार्तलोकपालम् कृपालङ्कृतम् ईशम् (अहम्) सन्ततम् ईडे ।

हृद्यः सुहृद्यः सुकृतोर्जितानामन्यूनमन्यूनपि यः पृणाति । योऽनामयो
नामगृहीतिमात्रादस्तापदस्तापमपाकरोति ॥ ३ ॥

अन्वय-यः सुकृतोर्जितानाम् हृद्यः सुहृत् (भवति) यः अन्यूनमन्यून् अपि पृणाति यः अनामयः (प्रभुः)
नामगृहीतिमात्रात् अस्तापदः सन् तापम् अपाकरोति सः (भक्तजनम्) परमे पदे नियोक्ता देवः वः कामम्
सफलीकरोत्विति चतुर्दशतमश्लोकेनाऽन्वयः ।

चेतः प्रचेतःप्रमुखा यदेक- तानंततानन्तगुणा वहन्ति । योगीति यो गीतिषु गीयमानः सिद्धैः
प्रसिद्धैः प्रभुरभ्युपेतः ॥ ४ ॥

अन्वय-प्रचेतःप्रमुखाः ततानन्तगुणाः अपि सन्तः चेतः यदेकतानम् वहन्ति यः च प्रभुः योगी इति
गीतिषु गीयमानः प्रसिद्धैः सिद्धैः अभ्युपेतः स इत्यादि शेषं पूर्ववत् ।

मान्योऽधमान्योऽधरयत्युदग्र- रंहोभिरंहोभिरपास्तवृत्तान् । नामापि नामापिदधाति वीता- लोकस्य
लोकस्य तमांसि यस्य ॥ ५ ॥

अन्वय-यः मान्यः उदग्ररंहोभिः रंहोभिः अपास्तवृत्तान् अधमान् अधरयति नाम यस्य नाम अपि
वीतालोकस्य लोकस्य तमांसि अपिदधाति स इत्यादि सर्वं पूर्ववत् ।

भूतिर्विभूतिर्विपुला दिशश्च वासो निवासो निलयः पितॄणाम् । हीनैरहीनैरपि यस्य भूषाऽ- राला
कराला कलिका च मौलौ ॥ ६ ॥

अन्वय-यस्य भूतिः विभूतिः विपुलाः दिशः च वासः पितॄणाम् निलयः निवासः (अस्ति) हीनैः
(भूतादिभिः) अहीनैः अपि यस्य भूषा (भवति) यस्य च मौलौ अराला (वक्रा) कराला कलिका (अस्ति) सः
देवः वः कामम् सफलीकरोत्वित्यग्रे सम्बन्धः ।

यः खेऽलयः खेलति यः शिखाभिः सत्यं हसत्यंहतिहारिणीभिः । भानां शुभानां शुचिरीश्वरो
य- स्तानक्षतानक्षिषु यो बिभर्ति ॥ ७ ॥

अन्वय-यः अलयः (रविः) खे खेलति अहंतिहारिणीभिः शिखाभिः यः (अग्निः) सत्यम् हसति यः शुचिः
शुभानाम् भानाम् ईश्वरः (चन्द्रः) तान् (एतान्) अक्षतान् यः (विभुः) अक्षिषु बिभर्ति सः० ।

संख्येष्वसंख्येष्वपि यो भटानां वैरस्य वैरस्यभुवो निदानम् । निन्दावनिं दावहुताशवन्तं रोषं
खरोषं खलु यः प्रमार्ष्टि ॥ ८ ॥

अन्वय-यः खलु असंख्येषु संख्येषु अपि भटानाम् वैरस्यभुवः वैरस्य निदानम् निन्दावनिम्
दावहुताशवन्तम् खरोषम् रोषम् प्रमार्ष्टि सः देवः० ।

यज्ञे नयज्ञेन वृतो न पूर्वं दक्षेण दक्षेण शुभे विधौ यः । तस्याऽऽनतस्याऽनघमुज्झिताव-
सादं प्रसादं प्रददौ दयाब्धिः ॥ ९ ॥

अन्वय-नयज्ञेन दक्षेण (अपि) दक्षेण पूर्वं शुभे विधौ यज्ञे न वृतः यः दयाब्धिः पश्चात् आनतस्य
तस्य अनघम् उज्झितावसादम् प्रसादम् प्रददौ सः० ।

नीतावनीतावचलैरलभ्यः साध्यैरसाध्यैरपि यस्तपोभिः । सेवालसे बालमुनौ किलोप-
मन्यावमन्यावकरोत्प्रसादः ॥ १० ॥

अन्वय-यः अनीतौ नीतौ अचलैः साध्यैः असाध्यैः तपोभिः अपि अलभ्यः यः अमन्यौ उपमन्यौ बालमुनौ
सेवालसे अपि प्रसादम् अकरोत् सः० ।

नायं विनाऽयं विदधाति लोकः कर्मण्यकर्मण्यतयाभियोगम् । सत्त्वानसत्त्वानपि नेतुमास्था- मर्थः
समर्थः स यतोऽभ्युदेति ॥ ११ ॥

अन्वय-यम् विना अयम् लोकः अकर्मण्यतया कर्मणि अभियोगम् न विदधाति असत्त्वान् अपि सत्त्वान् आस्थाम् नेतुम् सः
समर्थः अर्थः यतः अभ्युदेति सः० ।

धर्मेण धर्मेण निजोचितेन कामेन कामेन वृताभयेन । कालेन काले नतिमागतेन वातेन वा तेन सुखावहेन
॥ १२ ॥

जीवेन जीवेन तदर्पितेन काव्येन काव्येन मनोहरेण । मित्रेण मित्रेण तमोवृतानां सौम्येन सौम्येन च
सेव्यते यः ॥ १३ ॥ (युग्मम्)

अन्वय-यः (प्रभुः) धर्मेण निजोचितेन धर्मेण कामेन वृताभयेन कामेन काले नतिम् आगतेन कालेन तेन
सुखावहेन वातेन वा जीवेन तदर्पितेन जीवेन काव्येन मनोहरेण काव्येन तमोवृतानाम् मित्रेण मित्रेण
सौम्येन सौम्येन च सेव्यते सः० ।

लोकान् सलोकान् सदयोऽसृजद्यो धाता विधाता विभुरीप्सितानाम् । देवः पदे वः परमे नियोक्ता कामं
सकामं सफलीकरोतु ॥ १४ ॥ (द्वादशभिः कुलकम्)

अन्वय-ईप्सितानाम् विधाता सदयः विभुः यः धाता सलोकान् लोकान् असृजत् सः परमे पदे नियोक्ता देवः
वः कामम् कामम् (निश्चयेन) सफलीकरोतु ।

तं वन्दितं वन्दिभिरर्चयन्ते सन्तो लसन्तो ललितैर्वचोभिः । तस्याऽजितस्याजिषु नौति लीला-
मुत्तालमुत्तालरवेण लोकः ॥ १५ ॥

धीरस्य धीरस्यति तस्यतीक्ष्णा- बन्धानुबन्धानुगतां प्रवृत्तिम् । दानं ददानं दयितेव रागा-
दानन्ददा नन्दयते च तं श्रीः ॥ १६ ॥

संपन्नसम्पन्नवसिद्धिहेतुं धुर्यामधुर्याममरेन्द्रमुख्याः । भासा शुभा सा शुचिरीशभक्ति-
र्यस्याऽभयस्याभरणत्वमेति ॥ १७ ॥ (तिलकम्)

अन्वय-सम्पन्नसम्पन्नवसिद्धिहेतुम् ध्र्याम् याम् (ईशभक्तिम्० अमरेन्द्रमुख्याः अधुः सा भासा शुभा शुचिः
ईशभक्तिः यस्य अभयस्य आभरणत्वम् एति । वन्दिभिः वन्दितम् तम् (धन्यम्) ललितैः वचोभिः लसन्तः
सन्तः अर्चयन्ते आजिषु अर्जितस्य तस्य लीलाम् लोकः उत्तालरवेण उत्तालम् (त्वरितम्) नौति तस्य धीरस्य
तीक्ष्णा धीः बन्धानुबन्धानुगताम् प्रवृत्तिम् अस्यति दयिता इव आनन्ददा श्रीः च (अर्थिभ्यः) दानम्
ददानम् तम् रागात् आनन्दयते ।

शङ्का भृशं का भृतकप्रियश्चे- दासन्नदासं न जहाति शम्भुः । नाराधनाराधयितुश्च मिथ्या किं
चित्त किंचित्तरलत्वमेषि ॥ १८ ॥

सानन्द सा नन्दनभूस्तृणं ते कल्याण कल्याणगिरिः क्व गण्यः । सा तेजसा ते जडतामुदस्त-
कम्पाऽनुकम्पा नुदतीन्दुमौलेः ॥ १९ ॥

जम्बालजं बालरवेरिवाभा- ऽदीनं नदीनं नवचन्द्रिकेव । साशङ्क सा शङ्करभक्तिरुच्चै-
रक्षामरक्षा मदयिष्यति त्वाम् ॥ २० ॥

नो भोगिनो भोगिभिरर्चितो यः सातङ्क सातं कलयञ्जहाति । स त्वाऽलसत्वालयदैन्यहारी
पास्यत्यपासत्यशुभं च शंभुः ॥ २१ ॥ (चक्कलकम्)

अन्वय-हे चित्त ! ते भृशम् का शङ्का ! शम्भुः चेत् भृतकप्रियः तर्हि आसन्नदासम् न जहाति आराधयितुः
ते आराधना च मिथ्या न (भवति) तस्मात् हे चित्त ! (त्वम्) किञ्चित् तरलत्वम् किम् एषि ? अयि सानन्द ! सा
नन्दनभूः ते तृणम् (भवति) अतश्च हे कल्याण (सः) कल्याणगिरिः क्व गण्यः ? भो चित्त ! उदस्तकम्पा
सा इन्दुमौलेः अनुकम्पा (स्वकीयेन) तेजसा ते जडताम् नुदति अयि साशङ्क ! बालरवेः आभा जम्बालजम् इव
नवचन्द्रिका अदीनम् नदीनम् इव सा उच्चैः अक्षामरक्षा शङ्करभक्तिः त्वाम् मदयिष्यति हे सातङ्क ! चित्त
! भोगिभिः (विषयाभिलाषिभिः) अर्चितः यः (विभुः) सातम् कलयन् भोगिनः न जहाति सः
अलसत्वालयदैन्यहारी शंभुः त्वा पास्यति अशुभम् च अपास्यति ।

दोषप्रदोषप्रसृतापि सक्ता सेवारसे वारविलासिनीव । या निर्भया निर्भररागिणी त्वा- मायाति
मायातिमिरेऽभिसर्त्तुम् ॥ २२ ॥

भावानुभावानुगमेन रूढा बाला नवालानगता वशेव । साऽनेहसा नेह विहास्यति त्वां
कण्ठोपकण्ठोपगतैव वाणी ॥ २३ ॥ (युग्मम्)

अन्वय-हे चित्त ! दोषप्रदोषप्रसृता अपि निर्भररागिणी निर्भया सेवारसे सक्ता या (वाणी) वारविलासिनी
इव मायातिमिरे त्वाम् अभिसर्तुम् आयातिः सा भावानुभावानुगमेन रूढा कण्ठोपकण्ठोपगता वाणी इह
कण्ठोपकण्ठोपगता बाला इव नवालानगता कण्ठोपकण्ठोपगता वशा (करिणी) इव त्वाम् अनेहसा न
विहास्यति ।

दिव्या यदि व्यायतकान्तयस्ते गौरीश गौरी शशिनः कला च । विघ्नन्ति विघ्नं तिमिराभिधानं
तेनाऽहतेनाऽहमुपद्रुतः किम् ॥ २४ ॥

अन्वय-हे ईश ! व्यायतकान्तयः दिव्याः ते गौः गौरी शशिनः कला च (एताः) यदि तिमिराभिधानम्
विघ्नम् विघ्नन्ति तर्हि तेन अहतेन (तिमिरेण) अहम् किम् उपद्रुतः (अस्मि) ?

मुद्योगमुद्योगभृतो भजन्ते शंसन्ति शं सन्ति च निर्विकल्पाः । भक्ता विभक्ता विपदस्त्वदीयाः
कस्मादकस्मादहमेव मग्नः ॥ २५ ॥

अन्वय-हे ईश ! उद्योगभृतः त्वदीयाः भक्ताः मुद्योगम् भजन्ते शम् शंसन्ति निर्विकल्पाः च सन्ति विपदः
विभक्ताः च सन्ति तर्हि अकस्मात् अहम् एव (विपदर्णवे) कस्मात् मग्नः ?

वाचां तवाचान्तशुचां शुभाना मोघा न मोघा नमतां कदाचित् । तैरुद्धतैरुद्धर मामनाथं लीनं
कुलीनं कुदशान्धकारे ॥ २६ ॥

अन्वय-अयि विभो ! नमताम् आचान्तशुचाम् तव शुभानाम् वाचाम् ओघाः कदाचित् (अपि) मोघाः न भवन्ति अतः
तैः उद्धतैः (यमभट-त्रास-विधायकैर्वाक्यसमूहैः) माम् अनाथम् कुदशान्धकारे लीनम् कुलीनम्
उद्धर !

कल्पान्तकल्पान्तकभीतियुक्तं रक्षामि रक्षामिह योऽर्हतीति । यस्ते नयस्तेन दिश प्रसन्ना-
मत्राऽसमत्रासहरां दृशं मे ॥ २७ ॥

अन्वय-हे ईश ! इह यः रक्षाम् अर्हति कल्पान्तकल्पान्तकभीतियुक्तम् तम् रक्षामि इति यः ते नयः (अस्ति) तेन
अत्र असमत्रासहराम् प्रसन्नाम् दृशम् मे दिश ।

कन्दर्प कं दर्पमुपैषि यात- मस्तं समस्तं सहसा बलं ते । भीरो गभीरो गलितः किमुच्चै-
रक्षोभरक्षो भगवत्प्रसादः ॥ २८ ॥

अन्वय-हे कन्दर्प ! कम् दर्पम् उपैषि ? ते समस्तम् बलम् सहसा अस्तम् यातम् अयि भीरो ! अक्षोभरक्षः
गभीरः उच्चैः भगवत्प्रसादः किम् गलितः ? (त्वया विस्मृतः किम्) ।

विद्यामविद्यामपि तां यया त्वा- माराध्यमाराध्य सुखी भवामि । मायापि मा यापितभीरुपैतु याता न
या तानवमर्चितुं त्वाम् ॥ २९ ॥

अन्वय-हे प्रभो ! यया त्वाम् आराध्यम् आराध्य (अहम्) सुखी भवामि ताम् अविद्याम् अपि (अहम्) विद्याम् (एव जाने)
या (माया) त्वाम् अर्चितुम् तानवम् न याता सा यापितभीः माया अपि मा (माम्) उपैतु ।

रामाभिरामाभिमता धृतार्धे भोगोपभोगोपगतेन केन । कस्यान्तकस्यान्तकरी च लक्ष्मी- धामानि धामानि
बिभर्ति दृष्टिः ॥ ३० ॥

अन्वय-हे विभो ! अभिरामा अभिमता रामा भोगोपभोगोपगतेन (त्वदन्येन) केन अर्धे धृता ? अन्तकस्य अन्तकरी
कस्य च दृष्टिः लक्ष्मीधामानि धामानि बिभर्ति ?

कः स्तम्भकः स्तम्भनिभस्य जिष्णोः कस्तापकस्तापकृतः स्मरस्य । कारानुकारानुभवे भवेऽस्मिन् को
जीवको जीवभृतां विना त्वाम् ॥ ३१ ॥

अन्वय-हे विभो ! त्वाम् विना स्तंभनिभस्य जिष्णोः स्तम्भकः कः (भवति) तापकृतः स्मरस्य तापकृतः
कः (भवति) तथा कारानुकारानुभवे अस्मिन् भवे जीवभृताम् जीवकः कः भवति ? न कोपीत्यर्थः ।

या शंसया शंसति शंभुभक्तिं चेष्टासु चेष्टासु रतिं स्मरस्य । तामक्षतामक्षयपुण्यकोषा-
दन्यो वदन्यो वहते तनुं कः ॥ ३२ ॥

अन्वय-या (तनुः) शंसया शंभुभक्तिम् शंसति स्मरस्य इष्टासु चेष्टासु च रतिम् शंसति ताम् अक्षताम्
तनुम् अक्षयपुण्यकोषात् अन्यः कः वदन्यः वहते ?

याहन्तया हन्त नृपेऽप्यवज्ञा- मानञ्ज मानं जनयन्त्यभङ्गम् । हा निःसहा निःसरणेऽपि भक्त्या सा
वागसावागमदन्तिकं ते ॥ ३३ ॥

अन्वय-हन्त ! हे विभो ! अभङ्गम् मानम् जनयन्ती या (वाक्) अहंतया नृपे अपि अवज्ञाम् आनञ्ज हा ! सा (एव)
असौ वाक् निःसरणे अपि निःसहा भक्त्या ते अन्तिकम् आगमत् !

देवं यदेवं यमकैर्महेशं तुष्टाव तुष्टावसरोचितं गीः । शस्यो यशस्योऽयमुपस्थितोऽस्मा- देनोभिदे
नोऽभिमतः प्रसादः ॥ ३४ ॥

अन्वय-इयम् तुष्टा गीः यत् एवं यमकैः महेशम् देवम् अवसरोचितम् तुष्टाव अयम् शस्यः यशस्यः नः
एनोभिदे अभिमतः च प्रसादः अस्मात् (महेशात्) उपस्थितः ।

तरलतरलताग्रस्पर्द्धिनी चञ्चलत्वं रुचिररुचिरमन्दानन्ददा मुञ्चति श्रीः । चरति च
रतिकान्तध्वंसिशंसारतानां मधुरमधुरसार्द्रा भारती वक्त्रपद्मे ॥ ३५ ॥

अन्वय-तरलतरलताग्रस्पर्द्धिनी (अपि) श्रीः रतिकान्तध्वंसिशंसारतानाम् (पुंसाम्) अमन्दानन्ददा
रुचिररुचिः सती चञ्चलत्वम् मुञ्चति रतिकान्तध्वंसिशंसारतानाम् वक्त्रपद्मे च मधुरमधुरसार्द्रा
भारती चरति ।

इति श्री प्रेममकरन्दसमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुति-कुसुमाञ्जलौ पादादियमकस्तोत्रं षड्विंशम्

सप्तविंशं स्तोत्रम्

जयति संयति संगतपाण्डवप्रहरणाहरणाहितकैतवः । तरुणदारुणदाशवपुर्धृतस्थिरयशा
रयशालिशरो हरः ॥ १ ॥

अन्वय-संयति संगत-पाण्डवप्रहरणाहरणाहितकैतवः तरुणदारुणदाशवपुः धृतस्थिरयशाः
रयशालिशरः हरः जयति ।

भुवनपावनपादमधर्षितं मघवताऽघवतामपि सस्पृहम् । मुनिजनीनिजनीतिपरीक्षणे
धवलकेवलकेलिकृतं स्तुमः ॥ २ ॥

अन्वय-भुवनपावनपादम् मघवता अधर्षितम् अघवताम् अपि सस्पृहम् मुनिजनीनिजनीतिपरीक्षणे
धवलकेवलकेलिकृतम् (वयम्) स्तुमः ।

स्थिरमगारमगात्मजया श्रितं स्मरविकारविकासपराङ्मुखम् । भुजगराजगराग्निशिखावली-
विषमवेषमवेपथुदायिनम् ॥ ३ ॥

शमिषु कामिषु कारुणिकेषु वा वरमघोरमघोपशमक्षमम् । घनविपन्नविपन्निधने सदा
परमधीरमधीशमुपास्महे ॥ ४ ॥ (युग्मम्)

अन्वय-अगात्मजया श्रितम् स्थिरम् अगारम् स्मरविकारविकासपराङ्मुखम्
भुजगराजगराग्निशिखावलीविषमवेषम् (अपि) अवेपथुदायिनम् वरम् अघोरम् शमिषु कामिषु कारुणिकेषु वा
अघोपशमक्षमम् सदा घनविपन्नविपन्निधने परमधीरम् (एवंभूतम्) अधीशम् (वयम्) उपास्महे ।

श्रुतनयास्तनयास्तनुमध्यमा युवतयो बत योगिमनोहृतः । यदघनामघनामयवैशसं तदमृतेशमृते
शमयन्ति किम् ॥ ५ ॥

अन्वय-बत (देहिनाम्) यत् अघनामघनामयवैशसम् (भवति) तत् अमृतेशम् ऋते श्रुतनयाः तनयाः तथा
योगिमनोहृतः तनुमध्यमाः युवतयः च किम् शमयन्ति ? (नैते तद्दुःखं शमयितुं समर्था
भवन्तीत्यर्थः) ।

न हरिणा हरिणाङ्कशिखामणे न विधिना विधिनाऽपि सपर्यता । तव पुरा वपुराममृशे वयं क्व नु
भवानुभवावृतचेतसः ॥ ६ ॥

अन्वय-अयि हरिणाङ्कशिखामणे ! पुरा तव वपुः हरिणा (अपि) न आममृशे (नाज्ञायि) तथा विधिना
सपर्यता अपि विधिना न आममृशे भवानुभवावृतचेतसः वयम् (तु) (त्वत्स्तुतिविधाने) क्व नु भवामः ?

चतुरगास्तुरगा नगजा गजाः स्थिरमुदारमुदात्तबलं बलम् । प्रभवता भवता विहिते हिते प्रतिदिशन्ति
दिशं कमलामलाम् ॥ ७ ॥

अन्वय-हे विभो ! प्रभवता हिते विहिते (सति) चतुरगाः तुरगाः नगजाः गजाः स्थिरम् उदारम् उदात्तबलम्
बलम् (एतानि वस्तूनि) कमलामलाम् दिशम् प्रतिदिशन्ति ।

द्विजसमाजसमाधिकदर्थन- प्रवणरावणराज्यहृतौ कृती । चरणयो रणयोग्यबलोऽभव- न्नवनतो वनतो
भरताग्रजः ॥ ८ ॥

शुभरतो भरतोऽप्यभवद्द्विषद्- गरिमहारिमहाः समवाप्य यम् । दिश तमीश तमीपतिशेखर
स्थिरमनुग्रमनुग्रहमेहि मे ॥ ९ ॥ (युग्मम्)

अन्वय-हे विभो ! यम् (अनुग्रहम्) समवाप्य द्विजसमाजसमाधिकदर्थनप्रवणरावणराज्यहृतौ कृती (तव)
चरणयोः अवनतः भरताग्रजः वनतः (वने स्थितोपीत्यर्थः) रणयोग्यबलः अभवत् तथा हे ईश हे
तमीपतिशेखर ! यम् समवाप्य शुभरतः भरतः अपि द्विषद्गरिमहारिमहाः अभवत् तम् स्थिरम् अनुग्रम्
(मङ्गलदायिनम्) अनुग्रहम् मे (मह्यम्) दिश (त्वम्) एहि ।

भृशमनीशमनीतिपथस्थितं मदवशादवशाक्षमुपप्लुतम् । अहरहर्हर हर्षयते न किं हितवती तव
तीव्रशुचं रुचिः ॥ १० ॥

अन्वय-हे हर ! भृशम् अनीशम् अनीतिपथस्थितम् तथा मदवशात् अवशाक्षम् (कामादिवैरिभिः) उपप्लुतम्
तीव्रशुचम् (माम्) हितवती तव रुचिः अहरहः किम् न हर्षयते ?

कुशलपेशलपेलवदृग्वमन् रसनया सनयार्त्तिहृतामृतम् । मदनसादन सान्त्वय संपदा-
मपदमापदमाश्रितमेहि माम् ॥ ११ ॥

अन्वय-अयि मदनसादन ! कुशलपेशलपेलवदृक् (त्वम्) सनयार्तिहृता रसनया अमृतम् वमन् सम्पदाम् अपदम्
आपदम् आश्रितम् माम् सान्त्वय (त्वम्) एहि ।

कथमनाथमनागसमन्तिके मदनमर्दन मर्षयसे न माम् । भुवनभावन भाति विना त्वया जगति
कोऽगतिकोद्धरणक्षमः ॥ १२ ॥

अन्वय-हे मदनमर्दन ! (त्वम्) अनागसम् माम् अनाथम् अन्तिके कथम् न मर्षयसे ? अयि भुवनभावन ! त्वया
विना जगति अगतिकोद्धरणक्षमः कः भाति ? (न कोपीत्यर्थः)

यदि कृपापर पापरतस्य मे न कुरुषे परुषे पदमाशये । हिततमा कतमा कलुषात्मनो मम हराऽमहरा
घटते गतिः ॥ १३ ॥

अन्वय-हे कृपापर ! यदि पापरतस्य मे परुषे आशये पदम् न कुरुषे तर्हि हे हर ! कलुषात्मनः मम
अमहरा कतमा हिततमा गतिः घटते ?

स्थिरविभा रविभातिरिवोन्मदं मदमयं दमयन्त्यसमन्तमः । तव दया वद यात्युदयं न चेद् भवतमी
बत मीलति मे कथम् ॥ १४ ॥

अन्वय-हे प्रभो ! स्थिरविभा तव दया रविभातिः इव उन्मदम् मदमयम् असमम् तमः दमयन्ती न चेत् उदयम्
याति तर्हि हे विभो ! (त्वमेव) वद मम भवतमी कथम् मीलति ?

रजनिराजनिराकरणक्षमः क्षतनिशातनिशातिमिरोत्करः । कृतविभातविभाभरभास्वरो दिनकरो न
करोत्युदयं यदा ॥ १५ ॥

दिवि यदा वियदाभरणं कृपा- परमते रमते न सुधाकरः । न शुचिराशु चिरापतितं यदा
स्थिरमपारमपाकुरुते तमः ॥ १६ ॥

तनुकृशानुकृशां ग्रसते यदा मिहिरजाहिरजातघृणस्तनुम् । शिव तदा बत दास्यति मे धृतिं त्वदितरः
कतरः करुणापरः ॥ १७ ॥ (तिलकम्)

अन्वय-हे विभो ! यदा रजनिराजनिराकरणक्षमः क्षतनिशातनिशातिमिरोत्करः
कृतविभातविभाभरभास्वरः दिनकरः उदयम् न करोति हे कृपापरमते ! यदा वियदाभरणम् सुधाकरः
दिवि न रमते यदा चिरापतितम् स्थिरम् अपारम् तमः शुचिः (अग्निः) न अपाकुरुते यदा अजातघृणः
मिहिरजाहिः (कालपाशः) तनुकृशानुकृशाम् तनुम् ग्रसते अयि शिव ! बत !! तदा त्वदितरः कतरः
करुणापरः मे (ममाऽशरणस्य) धृतिम् दास्यति ?

निधनसाधनसान्द्रलसद्विषा- नलकरालकरात्तमहोरगः । नियमनाय मनाङ्मम सस्पृहे भवति धावति
धाम यमः कथम् ॥ १८ ॥

अन्वय-अयि विभो ! भवति सस्पृहे (दयापरे) सति निधनसाधनसान्द्रलसद्विषाऽनलकरालकरात्तमहोरगः
यमः मनाक् नियमनाय मम धाम कथम् धावति ?

पलितमीलितमीश मम स्मर- श्चतुरमातुरमारचयन्वपुः । घनबलेऽनवलेपपरे त्वयि प्रभविता
भवितापकरः कथम् ॥ १९ ॥

अन्वय-हे ईश ! पलितमीलितम् मम वपुः चतुरम् आतुरम् आरचयन् भवितापकरः स्मरः घनबले त्वयि
अनवलेपपरे सति कथम् प्रभविता ?

किमधुना मधुनापि युतो वहन् रतिमभीतिमभीष्टतमामपि । श्रितमवन्तमवन्ध्यबलं विभुं जयति मां
यतिमानहरः स्मरः ॥ २० ॥

अन्वय-हे विभो ! मधुना युतः अपि अभीतिम् अभीष्टतमाम् अपि रतिम् वहन् यतिमानहरः स्मरः अधुना
अवन्ध्यबलम् अवन्तम् विभुम् श्रितम् माम् किम् जयति ? (कथं जयतीत्यर्थः)

विषमरोषमरोः पथि पातय- न्मतिमनीतिमनीक्षितसत्पथाम् । भृशमयं शमयन्नियमं कथं तव पुरो
वपुरोषति मे मदः ॥ २१ ॥

अन्वय-हे स्वामिन् ! अनीक्षितसत्पथाम् अनीतिम् मतिम् विषमरोषमरोः पथि पातयन् भृशम् नियमम् शमयन् अयम्
मदः तव पुरः मे वपुः कथम् ओषति ?

मम निकामनिकारकृतो वृथा वपुरवापुरवार्यरुषोऽरयः । न हि तदाहितदाहमदन्त्यमी तव हितावहिता हि
नतेषु धीः ॥ २२ ॥

अन्वय-हे विभो ! निकामनिकारकृतः अवार्यरुषः अरयः मम (भवद्भक्तस्य) वपुः वृथा अवापुः । हि अमी
आहितदाहम् तत् (ममवपुः) न अदन्ति हि नतेषु तव धीः हितावहिता (भवति) ।

यदि विभा दिवि भाति न तावकी यदि न मे दिनमेति भवन्मयम् । वद महादमहारि तमः कथं
विषमदोषमदो विनिवर्तते ॥ २३ ॥

अन्वय-हे शिव ! यदि तावकी विभा दिवि (बाह्याकाशे हृदयाकाशे च) न भाति भवन्मयम् दिनम् मे यदि न एति
तर्हि त्वम् वद महादमहारि विषमदोषम् अदः तमः कथम् विनिवर्तते ?

कमलिनी मलिनीक्रियते यया विहतसंततसंतमसापि या । स्मरचिता रचितापि च यत्र तां वितर
कातरकामदुघां दृशम् ॥ २४ ॥

अन्वय-हे विभो ! यया (वामभागस्थितयेन्दुरूपया दृशा) कमलिनी मलिनीक्रियते या अपि
(दक्षिणभागस्थिता दृक्) विहतसंततसंतमसा भवति यत्र च (तृतीयस्यां ललाटस्थितायां दृशि)
स्मरचिता रचिता ताम् कातरकामदुघाम् (चन्द्रार्काग्निरूपत्रिधाममयीम्) दृशम् वितर ।

तुहिनवाहिनवानिलजे मनः सहसि रंहसि रञ्जयति प्रिया । न रसिकोरसि कोष्णकुचा तथा तव गुणानुगुणा
नुतिगीर्यथा ॥ २५ ॥

अन्वय-हे प्रभो ! गुणानुगुणा तव नुतिगीः यथा मनः रञ्जयति सहसि तुहिनवाहिनवानिलजे रंहसि उरसि
रसिका (संसक्ता) कोष्णकुचा प्रिया मनः तथा न रञ्जयति ।

अयमसौ यमसौष्ठवहृत्पुरः परुषपौरुषपौष्टिकचेष्टितः । विधुरबन्धुरवन्ध्यपरिग्रहः स्फुरति मे
रतिमेत्य महेश्वरः ॥ २६ ॥

अन्वय-यमसौष्ठवहृत् परुषपौरुषपौष्टिकचेष्टितः विधुरबन्धुः अवन्ध्यपरिग्रहः अयम् (अहम्
एतादृगेव) असौ महेश्वरः मे रतिम् एत्य पुरः स्फुरति ।

अनिधनेन धनेन मनस्विना- मनुगुणेन गुणेन गरीयसा । अभिजनेन जनेन सुदुष्कृतै- रशबलेन बलेन च
वर्धते ॥ २७ ॥

अभिनवेन नवेन शिवस्य यः स्तुतिमुदारमुदारभतेऽमुना । अवहितस्य हि तस्य तनोति शं विभवदो
भवदोषहरो हरः ॥ २८ ॥ (युग्मम्)

अन्वय-यः (धन्यात्मा) उदारमुत् सन् अभिनवेन अमुना नवेन शिवस्य स्तुतिम् आरभते सः नरः अनिधनेन
धनेन मनस्विनाम् अनुगुणेन गरीयसा गुणेन अभिजनेन जनेन सुदुष्कृतैः अशबलेन बलेन च वर्धते हि
विभवदः भवदोषहरः हरः तस्य अवहितस्य शम् तनोति ।

स सकलासु कलासु विचक्षणः स मतिमानतिमानसमुन्नतः । न शशिखण्डशिखण्डमृते स्तुतिं
सुकृतवान् कृतवानपरस्य यः ॥ २९ ॥

अन्वय-यः सुकृतवान् शशिखण्डशिखण्डम् ऋते अपरस्य स्तुतिम् न कृतवान् सः नरः सकलासु कलासु
विचक्षणः सः मतिमान् अतिमानसमुन्नतः (भवति) ।

प्. ५९५)

रविरहो विरहोद्धरणाद्दिश- न्धृतिमुदेति मुदे रथपक्षिणाम् । यदविषादविषाभिभवं जग-
त्कृतमसन्तमसं स्तुतिभिः प्रभोः ॥ ३० ॥

अन्वय-(रविणा प्रातरुत्थाय) यत् प्रभोः (श्री शंभोः) स्तुतिभिः जगत् अविषाद-विषाभिभवम् असन्तमसम्
कृतम् तत् अहो ! विरहोद्धरणात् धृतिम् दिशन् रथपक्षिणाम् मुदे रविः उदेति ।

विनयशोभिः यशोभिरतं मनः परहितारहिता विमला मतिः । विपुलमङ्गलमङ्गमिति प्रभोः प्रतिफलन्ति
फलं स्तुतिवीरुधः ॥ ३१ ॥

अन्वय-मनः विनयशोभि सत् यशोभिरतम् (भवति) मतिः विमला (सती) परहितारहिता (भवति) अङ्गम् च
विपुलमङ्गलम् (भवति) प्रभोः स्तुतिवीरुधः इति फलम् प्रतिफलन्ति ।

जितसुधारसुधारसभारती- विभवसंभवसंभृतकीर्तयः । कविबुधा विबुधाधिपवन्दितं सुकृतिनः
कृतिनः स्तुवते शिवम् ॥ ३२ ॥

अन्वय-जितसुधारसुधारसभारती-विभवसंभवसंभृतकीर्तयः सुकृतिनः कृतिनः कविबुधाः
विबुधाधिपवन्दितम् शिवम् स्तुवते ।

न महतामहतामलसंविदां मदयिता दयिताधिगमस्तथा । मधुरसाधुरसार्द्रपदा यथा सयमका
यमकामरिपुस्तुतिः ॥ ३३ ॥

अन्वय-मधुरसाधुरसार्द्रपदा सयमका यमकामरिपुस्तुतिः यथा अहतामलसंविदाम् महताम् मदयिता
(भवति) तथा तेषाम् दयिताधिगमः न मदयिता ।

का नाम नामरवधूरवधूतकान्ता कान्ता न का नरजनी रजनीपतिश्रीः । श्रीमन्तमन्तकरिपुं
करिपुङ्गवान्त- हेतुं स्तुवन्तमविरामविरावमेति ॥ ३४ ॥

अन्वय-करिपुङ्गवान्तहेतुम् श्रीमन्तम् अन्तकरिपुम् स्तुवन्तम् (पुरुषम्) अवधूत-कान्ता का नाम अमरवधूः
अविरामविरावम् न एति ? तथा रजनीपतिश्रीः कान्ता का नरजनी न एति ? (अपि तु सर्वा एवेत्यर्थः)

इति श्रीप्रेममकरन्दसमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुति-कुसुमाञ्जलौ पादमध्ययमकाख्यं स्तोत्रं सप्तविंशम् ।

अष्टाविंशं स्तोत्रम्

अन्तश्चेतसि निर्वृतिर्न गमिता नाशं कया शङ्कया नैषा पुष्यति तेन संहृतगतिः शोभारती भारती
। भक्तिः किं तु विजृम्भते मम यथैवाभा स्वतो भास्वतो यादृक्तादृगतः किमप्यभिदधे संप्रत्यहं
प्रत्यहम् ॥ १ ॥

अन्वय-कया शङ्कया (मम) चेतसि अन्तः निर्वृतिः नाशम् न गमिता ? तेन संहृतगतिः एषा मम भारती
शोभारती न पुष्यति (तर्हि मौनमालम्ब्य स्थीयतामित्याशङ्क्याह-) किन्तु यथैव भास्वतः आभा स्वतः
विजृम्भते तथा मम (अपि) भक्तिः विजृम्भते अतः सम्प्रति अहम् प्रत्यहम् यादृक्तादृक् (उच्चावचम्) किमपि
अभिदधे ।

वक्त्रं बिभ्रददभ्रदीर्घदहनज्वालं भयं लम्भय- न्नुद्ग्रीवं घटयन्करे विदधतं व्यालं घनं
लङ्घनं । प्रत्यासीदति मृत्युरित्युपचितस्फारोचितां रोचितां श्रुत्वा मां न कथं विभुर्गिरमिमां
चित्रायतां त्रायताम् ॥ २ ॥

अन्वय-हे दयालो ! अदभ्रदीर्घदहनज्वालम् वक्त्रम् बिभ्रत् (प्राणिनाम्) भयम् लम्भयन् घनम् लङ्घनम्
विदधतम् उद्ग्रीवम् व्यालम् करे घटयन् मृत्युः माम् प्रत्यासीदति इति उपचित-स्फारोचिताम् रोचिताम् चित्रायताम्
इमाम् गिरम् श्रुत्वा विभुः माम् कथम् न त्रायताम् ?

मन्ये तां स्पृहणीयगौरवगुणामायामिनीं यामिनीं तत्सेवारसमादधत्तव सुधा संवादिनं वा दिनम् ।
यत्रोपान्तगतं वचोभिरुचितैरानन्दिनं नन्दिनं कुर्वद्भिश्चरितं सुचारु जगतामीशस्य ते शस्यते ॥ ३ ॥

अन्वय-हे विभो ! यत्र (रात्रौ) उपान्तगतम् नन्दिनम् आनन्दिनम् कुर्वद्भिः उचितैः वचोभिः जगताम् ईशस्य ते
सुचारुचरितम् शस्यते ताम् यामिनीम् स्पृहणीय-गौरवगुणाम् आयामिनीम् मन्ये तथा यत्र (दिने) पूर्वोक्त
विशेषणविशिष्टैः वचोभिः ते चरितम् शस्यते (अहम्) तव सेवारसम् आदधत् तत् दिनम् वा सुधासंवादिनम्
मन्ये ।

तस्योदेति सदःसदां विदलितग्लानिर्भरो निर्भरो वाचां वक्त्रसरोरुहे परिणमत्पाकोऽमलः कोमलः ।
लक्ष्मीस्तं न जहाति किं च विभवैराभासिताभासिता येन त्वं हृदयाम्बुजे
भवभयात्त्रातोषितस्तोषितः ॥ ४ ॥

अन्वय-हे विभो ! येन भवभयात् त्राता हृदयाम्बुजे उषितः त्वम् तोषितः तस्य (धन्यस्य) वक्त्रसरोरुहे
सदःसदाम् विदलितग्लानिः परिणमत्पाकः अमलः कोमलः निर्भरः वाचाम् भरः उदेति किं च-विभवैः
आभा-सिता आभा-सिता लक्ष्मीः तम् न जहाति ।

सेव्यन्ते भगवन्नपास्य [अवाप्य] कलितोल्लासं मदं समदं [पदं संपदम्] बिभ्राणास्तरुणीजनेन
मधुरव्याहारिणा हारिणा । वीज्यन्ते दिवि चन्द्ररश्मिरुचितैः किंचाऽमरैश्चामरै- राबाल्याद्विदधे
त्वदेकविषया यैः शेमुषी शेमुषी ॥ ५ ॥

अन्वय-हे भगवन् ! यैः आबाल्यात् त्वदेकविषया शेमुषी [शेते मनसि इति शेः=मोहस्तं मुष्णातीति
शेमुषी (=शमप्रधाना बुद्धिः)] शेमुषी विदधे ते संमदम् बिभ्राणाः (सन्तः) कलितोल्लासम् मदम्
(वयं मानिन्यः कमनुयाम इति गर्वम्) अपास्य हारिणा मधुरव्याहरिणा तरुणीजनेन सेव्यन्ते किं च (त एव
जनाः) दिवि अमरैः चन्द्ररश्मि-रुचितैः चामरैः वीज्यन्ते ।

तूर्णं चूर्णयितुं वपुर्यमभटो झम्पारयं पारय- न्नुच्चण्डभ्रु कुटीकरालितमुखो
यत्रासकृत्त्रासकृत् । तां भूमिं परिहर्तुमीश्वर भवत्सेवाधनं बाधनं दुःखानामधिगम्य हन्मि
कुमतिप्रादुष्कृतं दुष्कृतम् ॥ ६ ॥

अन्वय-हे ईश्वर ! उच्चण्डभ्रुकुटीकरालितमुखः यमभटः तूर्णम् वपुः चूर्णयितुम् झम्पारयम्
(उत्प्लुतिवेगम्) पारयन् यत्र (नरकभूमौ) असकृत् त्रासकृत् (भवति) ताम् भूमिम् परिहर्तुम् दुःखानाम्
बाधनम् भवत्सेवाधनम् अधिगम्य (अहम्) कुमतिप्रादुष्कृतम् दुष्कृतम् हन्मि ।

मुञ्चद्भिर्यमकिङ्करैः कृतमहाजृम्भैरवं भैरवं यावद्दर्शितमाननं न घुसृणक्षोदारुणं
दारुणं । तावत्सत्त्वरमेहि देहि महसां धामेदृशं मे दृशं या दूरीकुरुते निरन्तरसुधासंदोहदं
दोहदम् ॥ ७ ॥

अन्वय-हे प्रभो ! कृतमहाजृम्भैः भैरवम् रवम् मुञ्चद्भिः यमकिङ्करैः (क्रोधेन) घुसृणक्षोदारुणम्
दारुणम् आननम् यावत् (मे) न दर्शितम् तावत् (एव) त्वम् सत्वरम् एहि या (तव दृक्) निरन्तरसुधासंदोहदम्
दोहदम् दूरीकुरुते ईदृशम् महसाम् धाम ताम् दृशम् मे देहि ।

यावद्दुःसहवह्निहेति-विहित-स्फीतापदं तापदं जन्तूनां भगवन् भजामि नरकं नाहं सदाहं सदा ।
तावन्मुञ्च वचो यथा मरुपथे बाधावतां धावतां भीष्मग्रीष्मकदर्थ्यमानवपुषां सञ्जीवनं
जीवनम् ॥ ८ ॥

अन्वय-हे भगवन् ! दुःसहवह्निहेतिविहितस्फीतापदम् जन्तूनाम् तापदम् सदा सदाहम् नरकम् यावत् अहम् न
भजामि तावत् (एव) यथा मरुपथे धावताम् बाधावताम् भीष्मग्रीष्मकदर्थ्यमानवपुषाम् जीवनम्
सञ्जीवनं (भवति) तथा वचः मुञ्च ।

न्यस्तं येन मनस्त्वयीदमहतोत्साहं तयाऽहंतया गाढोद्वेगविधायिनी घटयते सायासतां या सताम् ।
तं भोगैरुपसेवते सुमनसामानन्दने नन्दने दिव्यस्त्रीजनता विलासविकसच्छोभा सुरं भासुरम् ॥ ९ ॥

अन्वय-अयि भगवन् ! गाढोद्वेगविधायिनी या (अहंता) सताम् सायासताम् घटयते तया अहंतया
अहतोत्साहम् इदम् मनः येन (धन्येन) त्वयि न्यस्तम् तम् सुरम् भासुरम् विलासविकसच्छोभा दिव्यस्त्रीजनता
सुमनसाम् आनन्दने नन्दने भौगैः उपसेवते ।

यस्या हन्ति धृतिं विवेकविहितह्वासा विलासाविला मुग्धा दृङ्मदिरामदेन विगलद्वाचारुणा चारुणा ।
रामा काममहास्त्रमर्पयति मे सा हन्त मोहं तमो येनाऽज्ञानमयं मनस्युपरमत्तापप्रथे पप्रथे ॥ १० ॥

अन्वय-हे नाथ ! विवेकविहितह्रासा विलासाविला विगलद्वाचा चारुणा मदिरामदेन अरुणा यस्याः मुग्धा दृक्
धृतिम् हन्ति हन्त ! सा रामा येन (मोहेन) उपरमत्तापप्रथे मनसि अज्ञानमयम् तमः पप्रथे तम्
काममहास्त्रम् मोहम् मे अर्पयति ।

लज्जेऽहं भज दूरमेव रभसादेवं धुता बन्धुता- संमूढेन मया यया विधृतवानेतामहंतामहम् ।
किं किं श्रीमदमोहितेन विभवस्थेनाऽहितं नाहितं येनैतां न भजे पुनर्मयि वरं बाधे हितं धेहि
तम् ॥ ११ ॥

अन्वय-हे विभो ! यया (अहंतया) संमूढेन मया अहम् (त्वाम् दृष्ट्वा) लज्जे (अतः त्वम्) रभसात् दूरम् एव
भज एवम् बन्धुता धुता ताम् एताम् अहन्ताम् अहम् विधृतवान् (अस्मि) अतः श्रीमदमोहितेन विभवस्थेन मया किम्
किम् अहितम् न आहितम् ? हे दयालो ! अहम् पुनः येन (वरेण) एताम् (अहन्ताम्) न भजे तम् बाधे हितम् वरम् मयि
धेहि ।

आनीता चरणान्तिकप्रणयितां कामेन का मेनका कार्यं किं घनभोगसंभृतविधौ सारम्भया रम्भया
। कान्ता मे परमेश्वरे हतविपत्संभावना भावना चित्ते कापि रतिर्ययाहितहितव्रातायते तायते ॥ १२ ॥

अन्वय-कामेन चरणान्तिकप्रणयिताम् आनीता मेनका मे का (भवति ?) तथा घनभोगसंभृतिविधौ
सारम्भया रम्भया च मे किम् कार्यम् ? (न किंचिदपीत्यर्थः) आहित-हितव्राता काऽपि (अनिर्वाच्या) रतिः
आयते चित्ते यया तायते सा हतविपत्संभावना परमेश्वरे भावना मे कान्ता (भवति) ।

धत्ते यस्य जटा कपालपटलं भव्या कुलं व्याकुलं हंसानामिव रुन्धतीं भगवतीं गङ्गां
तरङ्गान्तरम् । तस्याधाय महेशितुर्नुतिगिरां नव्याकृतिं व्याकृतिं भक्त्या निश्चलया नृजन्म सकलं
संमानयामानया ॥ १३ ॥

अन्वय-यस्य भव्या जटा व्याकुलम् तरङ्गान्तरम् हंसानाम् कुलम् इव कपालपटलम् रुन्धतीम् भगवतीम्
गङ्गाम् धत्ते तस्य महेशितुः नव्याकृतिम् नुतिगिराम् व्याकृतिम् आधाय अनया निश्चलया भक्त्या सकलम्
नृजन्म (वयम्) संमानयामः ।

कंचिच्छ्रीर्वसतेः करोतु विकसच्छोभा जनं भाजनं कंचिद्वन्दिजनः प्रशंसतु मुदं प्रीत्या
गतस्त्यागतः । मन्येऽहं तु समग्रशोकशमनं संन्यासमन्यासमं यस्मिन्मृत्युजितं भजामि मनसा
वाचेष्टया चेष्टया ॥ १४ ॥

अन्वय-विकसच्छोभा श्रीः कंचित् जनम् वसतेः भाजनम् करोतु तथा त्यागतः प्रीत्या मुदम् गतः
वन्दिजनः कंचित् जनम् प्रशंसतु अहम् तु यस्मिन् मनसा वाचा इष्टया चेष्टया च मृत्युजितम् भजामि तम्
समग्रशोकशमनम् अन्यासमम् संन्यासम् मन्ये ।

रूपं यद्भवतो दधत्परिकरं भौजङ्गं जङ्गमं सेवन्ते यदपि श्रिया कृतधियः स्वस्था वरं
स्थावरम् । प्राज्यं ज्योतिरिव प्रसह्य तमसां वैकर्तनं कर्तनं लब्ध्वा तत्प्रतिभा कथं न
जनितस्वाभा सतां भासताम् ॥ १५ ॥

अन्वय-हे प्रभो ! भौजङ्गमम् परिकरम् दधत् यत् भवतः जङ्गमम् रूपम् यदपि च श्रियः वरम् स्थावरम्
रूपम् स्वस्थाः कृतधियः सेवन्ते तत् (उभयमपि) तमसाम् कर्तनम् वैकर्तनम् प्राज्यम् ज्योति इव प्रसह्य
तमसाम् कर्तनम् भवतः रूपम् लब्ध्वा जनितस्वाभा प्रतिभा सताम् कथम् न भासताम् ? (अपि तु भासताम्)

स्तोतुं वाञ्छसि संश्रितं मरकतश्यामं गलं मङ्गलं लब्धुं मानस तत्परं भगवतः सेवासु किं
वासुकिम् ।

भक्तिश्चेद्भवति स्थितिं मदमरुद्वेगाहते गाहते तद्बध्नासि धृतिं त्वमप्यहिपतिप्रावारसेवारसे ॥ १६ ॥

अन्वय-हे मानस ! (त्वम्) मरकतश्यामम् गलम् श्रितम् भगवतः सेवासु तत्परम् वासुकिम् मङ्गलम् लब्धुम् किम्
स्तोतुम् वाञ्छसि ? (काकुः) अये मानस ! मदमरुद्वेगाहते भवति (प्रभोः) भक्तिः स्थितिम् गाहते चेत् तत् त्वम्
अपि अहिपतिप्रावारसेवारसे धृतिम् बध्नासि ?

दृष्ट्वा यन्मघवा विहाय गतवानैरावणं रावणं पश्यन्पाण्डुतया भयादनुकृतश्यामाधवं
माध्वम् । सर्वोऽयं भवतः प्रसादमहिमा हन्ता नवं तानवं सेवा कस्य न सिद्धये हतवृथासङ्कल्प ते
कल्पते ॥ १७ ॥

अन्वय-हे भगवन् ! रावणम् (रणे) दृष्ट्वा भयात् पाण्डुतया अनुकृतश्यामाधवम् माधवम् पश्यन्
मघवा यत् ऐरावणम् विहाय गतवान् अयम् सर्वः नवम् तानवम् हन्ता भवतः प्रसादमहिमा (अस्ति) हे
हतवृथासङ्कल्प ! ते सेवा कस्य न सिद्धये कल्पते ? (अपि तु सर्वस्यापि)

तं हत्वा सबलं निशाचरपतिं लङ्कालयं कालय- न्नार्तिं नाकसदामुपेत्य विभवं वैभीषणं
भीषणम् । वैदेहीमनघां लभेत स कथं रामो हि तां मोहितां त्वद्भक्तिं यदि न व्यधास्यतनुतो
भ्राजिष्णुना जिष्णुना ॥ १८ ॥

अन्वय-हे प्रभो ! भ्राजिष्णुना जिष्णुना नुतः सः रामः यदि हि त्वद्भक्तिम् न व्यधास्यत तर्हि नाकसदाम्
आर्तिम् कालयन् लङ्कालयम् तम् निशाचरपतिम् (रावणम्) सबलम् हत्वा भीषणम् वैभीषणम् विभवम् उपेत्य
अनघाम् मोहिताम् ताम् वैदेहीम् कथम् लभेत ?

लोकं शोकहरं परं प्रति भृशं संदेहिनां देहिनां माया मोहतमोविमोहितदृशामायासदा या सदा ।
तां हन्तुं मम किं करोषि विहितज्ञानोदयां नो दयां यस्या दास्यमपीह नार्हति घनस्फारा सुधारा
सुधा ॥ १९ ॥

अन्वय-या माया मोहतमोविमोहितदृशाम् शोकहरम् परम् लोकम् प्रति भृशम् संदेहिनाम् (परलोकोऽस्ति न वेति
भृशं संशयवताम्) देहिनाम् सदा आयासदा (भवति) ताम् हन्तुम् विहितज्ञानोदयाम् ताम् दयाम् मम किम् नो
करोषि ? घनस्फारा सुधारा सुधा यस्या (तव दयायाः) दास्यम् अपि इह न अर्हति ।

दोषाणां सहसा विधातुमुदयं नो सांप्रतं साम्प्रतं स्वालोकक्षपणं करोतु तिमिरं तन्मादृशां
मा दृशाम् । ख्यातः पौष्ण इव प्रसह्य कमलोल्लासादयं सादय- न्नार्तिं न प्रकटीकरोति बत
कामाशां करः शाङ्करः ॥ २० ॥

अन्वय-साम्प्रतम् दोषाणाम् उदयम् विधातुम् नो साम्प्रतम्? (न युक्तम्) तत् तिमिरम् मादृशाम् दृशाम्
स्वालोकक्षपणम् मा करोतु ! बत !! अयम् ख्यातः शाङ्करः करः पौष्णः करः इव प्रसह्य कमलोल्लासात्
(मोक्षलक्ष्म्युत्पादनात्) आर्तिम् सादयन् काम् आशाम् न प्रकटीकरोति ? (अपि तु सर्वामपि) ।

प्. ६१०)

शीतस्निग्धं परिमलसुखं घानसारं न सारं नापि प्रेम्णा कलितललितोद्दामहेलामहेला । तस्माज्जित्वा
भवमनुदितस्तम्भजेयं भजेयं भूयो भूयो हर परहितारम्भवन्तं भवन्तम् ॥ २१ ॥

अन्वय-शीतस्निग्धम् घानसारम् परिमलसुखम् न सारम् प्रेम्णा कलितललितोद्दामहेलामहेला अपि न सारम्
तस्मात् हे हर ! अनुदितस्तम्भजेयम् भवम् जित्वा परहितारम्भवन्तम् भवन्तम् भूयः भूयः भजेयम् ।

दृष्टिः स्त्रीणां मम निवसतो हानिशान्ते निशान्ते चित्तं रुन्धे शिशुमिव मृगं वागुरा भङ्गुराभम् ।
तत्सम्पर्कादहमिव सहे देव मानाऽवमाना- वार्त्तः प्राप्तः शरणमधुना त्वामुदारं मुदारम् ॥ २२ ॥

अन्वय-हे प्रभो ! हानि-शान्ते निशान्ते (गृहे) निवसतः मम चित्तम् स्त्रीणाम् दृष्टिः भंगुराभम् शिशुम्
मृगम् वागुरा इव रुन्धे हे देव ! तत्सम्पर्कात् अहम् इह मानावमानौ सहे (अतः) अरम् आर्त्तः सन् अहम् अधुना
त्वाम् उदारम् मुदा शरणम् प्राप्तः (अस्मि)

प्राज्यं राज्यं नृपतिमकरीरत्ननिर्यत्न-निर्य- द्रश्मिस्रोतःस्नपितचरणं क्रान्त-सामन्तसाम् ।
सभ्रूभङ्गं मुनिजनमनःक्षोभिरामाऽभिरामा वक्त्रं बिभ्रत्युपचितरतिर्घस्मरेण स्मरेण ॥ २३ ॥

द्वारि क्षोभः क्षितिधरगुहाभोगजानां गजानां का वा संख्या प्रकटितविपद्बाधनानां धनानाम् ।
इत्थं लक्ष्मीः कथमिव भजेद्धामहीनं महीनं स्याच्चेन्नैकस्तव कृतरिपुक्षिप्रसादः प्रसादः ॥ २४
॥ (युग्मम्)

अन्वय-हे भगवन् ! कृतरिपुक्षिप्रसादः तव एकः प्रसादः चेत् न स्यात् तर्हि-धामहीनम् महीनम्
नृपतिमकरीरत्न-निर्यत्ननिर्यद्रश्मिस्रोतःस्नपितचरणम् क्रान्तसामन्तसाम प्राज्यम् राज्यम् घस्मेरण
स्मरेण उपचितरतिः (पुनः) मुनिजनमनःक्षोभि संभ्रूभङ्गम् वक्त्रम् बिभ्रती अभिरामा रामा च द्वारि
क्षितिधरगुहाभोगजानाम् गजानाम् क्षोभः तथा-प्रकटितविपद्वाधनानाम् धनानाम् का वा सङ्ख्या ?
इत्थम् लक्ष्मीः कथम् इव भजेत् ?

भीमां पंक्तिं पुरुषशिरसां मस्तकेऽशस्तकेश- प्रोतां धत्से विबुध-सरितो यां तरङ्गान्तरङ्गाम् ।
सैव श्रेयः प्रथयति यथा देव राजीव राजी त्वत्संपर्काद्घटयति न किं मङ्गलाभङ्गलाभम् ॥ २५ ॥

अन्वय-हे देव ! (त्वम्) विबुधसरितः तरङ्गान्तरङ्गाम् याम् अशस्तकेशप्रोताम् भीमाम् पुरुषशिरसाम् पंक्तिम्
मस्तके धत्से सा एव (पंक्तिः) राजीवराजी यथा श्रेयः प्रथयति हे विभो ! त्वत्सम्पर्कात् किम्
मङ्गलाभङ्गलाभम् न घटयति (अपि तु सर्वमपीत्यर्थः) ।

कृत्वा शय्यामुपान्ते विरचितकलिकादामशेषामशेषां संपत्तिं मानयन्तः कुसुमबलगलद्बालतानां
लतानाम् । सेव्यन्ते हन्त वृन्दैरविरतरतयः सुन्दरीणां दरीणा- मन्तस्त्वद्भक्तिभाजः
सितकरकिरणैरुत्तमायां तमायाम् ॥ २६ ॥

अन्वय-हे प्रभो ! हन्त ! कुसुमबलगलद्बालतानाम् लतानाम् सम्पत्तिम् मानयन्तः (तासामेव लतानाम्) उपान्ते
विरचितकलिकादामशेषाम् अशेषाम् शय्याम् कृत्वा अविरतरतयः त्वद्भक्तिभाजः दरीणाम् अन्तः
सितकरकिरणैः उत्तमायाम् तमायाम् सुन्दरीणाम् वृन्दैः सेव्यन्ते ।

हन्ताऽहन्तावृतानां मह इव रजनी भासमानं समानं ज्ञानं ज्ञानन्दकारि ग्लपयति
विलसद्बोधनाशा धनाशा । वाचा वाचालभावं तव विहितवतां वास्तवेन स्तवेन श्रेयः
श्रेयस्करस्त्वं भव भवसि विपद्भाजनानां जनानाम् ॥ २७ ॥

अन्वय-हन्त ! अहन्तावृतानाम् विलसद्बोधनाशा धनाशा भासमानम् महः रजनी इव भासमानम् समानम्
ज्ञानन्दकारि ज्ञानम् ग्लपयति हे भव ! वाचा वास्तवेन स्तवेन तव वाचालभावम् विहितवताम्
विपद्भाजनानाम् जनानाम् त्वम् (यत्) श्रेयस्करः भवसि (तदेव) श्रेयः ।

इति श्रीप्रेममकरन्दसमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वर्सय
स्तुति-कुसुमाञ्जलौ पादान्त-यमक-स्तोत्रमष्टाविंशम् ।

एकोनत्रिंशं स्तोत्रम्

उदारवर्णैरथ सङ्गतैरहं मुदाभिधावद्भिरुपोढलक्षणैः । पदैरमन्दध्वनिभिर्महेश्वरं प्रभुं
प्रपद्ये तुरगोत्तमैरिव ॥ १ ॥

अन्वय-अथ अहम् मुदा उदारवर्णैः सङ्गतैः अभिधावद्भिः उपोढलक्षणैः अमन्दध्वनिभिः पदैः
तुरगोत्तमैः इव महेश्वरम् प्रभुम् प्रपद्ये ।

शिवेन देव्या जगृहे करोहित- स्त्रसन्यदा कुङ्कुमपङ्करोहितः । तदास्य योऽर्काग्निनिशाकरोहितः स्तवः स
वः स्यादभयंकरो हितः ॥ २ ॥

अन्वय-अहितः त्रसन् कुङ्कुमपङ्करोहितः देव्याः करः यदा (विवाहसमये) शिवेन जगृहे तदा अस्य
(भगवतः) यः (स्तवः) अर्काग्निनिशाकरोहितः सः स्तवः वः अभयंकरः हितः (च) स्यात् ।

अनञ्जनं नेत्रविकासकारणं निरङ्कुशं कर्णकरेणुवारणम् । अचन्द्रिकं चित्तचकोरपारणं क्रियाद्व
ईशार्चनमार्तिदारणम् ॥ ३ ॥

अन्वय-अनञ्जनम् नेत्रविकासकारणम् निरङ्कुशम् कर्णकरेणुवारणम् अचन्द्रिकम् चित्तचकोरपारणम् ईशार्चनम्
वः आर्त्तिदारणम् क्रियात् ।

सुखाकरोति क्लमहृन्न माधव- स्तथामरौ वोपवनेऽपि माधवः । यथा शरीरार्धनिरुद्धमाधवः
प्रशस्यमानो भगवानुमाध्वः ॥ ४ ॥

अन्वय-क्लमहृत् माध्वः (वसन्तः) मा तथा न सुखाकरोति वा मरौ उपवने अपि धवः (सुललितवृक्षः)
तथा न सुखाकरोति यथा शरीरार्धनिरुद्धमाधवः प्रशस्यमानः भगवान् उमाधवः सुखाकरोति ।

दिनान्तरात्र्यागमयोरिवाथवा सुरस्रवन्तीयमुनौघयोरिव । उमारमाकामुकयोः समागमः
सिताऽसितस्तापमघं च हन्तु वः ॥ ५ ॥

अन्वय-दिनान्तरात्र्यागमयोः समागमः इव अथवा सुरस्रवन्तीयमुनौघयोः समागमः इव उमारमाकामुकयोः
सिताऽसितः समागमः वः तापम् अघम् च हन्तु ।

उमाख्यमासाद्य महानियोऽगतः प्रियं निधिं सौख्यमहानि यो गतः । करोतु युष्माकमहानि योगतः
शुभान्यसाविद्धमहा नियोगतः ॥ ६ ॥

अन्वय-यः महानियः अगतः उमाख्यम् प्रियम् निधिम् आसाद्य अहानि सौख्यम् गतः असौ इद्धमहाः (प्रभुः)
नियोगतः (आज्ञया) योगतः (च) युष्माकम् शुभानि अहानि करोतु ।

द्विजाधिपाधिष्ठितशेखरं महा- भुजं गविन्यस्तभरं समुद्वहन् । वपुः सदाभङ्गदयासमाश्रितं
तनोतु वः संपदमच्युतः शिवः ॥ ७ ॥

अन्वय-द्विजाधिपाधिष्ठितशेखरम् महाभुजम् गविन्यस्तभरम् सदा अभङ्गदयासमाश्रितम् वपुः समुद्वहन्
अच्युतः शिवः वः सम्पदम् तनोतु ।

अघद्रुमध्वंसमहाकरेणवः सुधासिताः पावककल्करेणवः । वसन्ति यस्मिन्नभयङ्करेऽणवः करोतु
शं तेन हरः करेण वः ॥ ८ ॥

अन्वय-यस्मिन् अभयंकरे (करे) अघद्रुमध्वंसमहाकरेणवः सुधासिताः अणवः पावककल्करेणवः वसन्ति
तेन करेण हरः वः शम् करोतु ।

धृतिस्त्वदीयेन सुदर्शनेन मे भवत्यभेदस्तु हरे किमुच्यते । परस्परं शङ्करकृष्णयोरिदं वचः
सुखायैकमुखोत्थमस्तु वः ॥ ९ ॥

अन्वय-हे हरे ! त्वदीयेन सुदर्शनेन मे धृतिः (अस्ति) भवति अभेदः तु किम् उच्यते तथा हे शंभो !
त्वदीयेन सुदर्शनेन मे धृतिः (अस्ति) भवति हरे अभेदः तु किम् उच्यते इति शङ्करकृष्णयोः एकमुखोत्थम्
परस्परम् इदम् वचः वः सुखाय अस्तु ।

न जन्म यस्याद्रिनिवास दारुणः स ते ज्वलत्यक्ष्णि शिखी सदारुणः । यमं न किं तेन
शिरःसदाऽरुण- स्त्वदाश्रितं किं ग्रसतां स दारुणः ॥ १० ॥

अन्वय-हे अद्रिनिवास ! यस्य दारुणः जन्म न (भवति) सः अरुणः शिखी ते अक्ष्णि सदा ज्वलति हे प्रभो !
शिरःसदा तेन (अग्निना) त्वम् यमम् किम् न अरुणः ? (नाऽऽवृणोः) सः दारुणः (यमः) त्वदाश्रितम् माम्
किम् ग्रसताम् ?

सदा नगोपाहितबन्धुरस्थितिं स्तुवे पिनाकेन समेधितश्रियम् । महर्द्धिकं सोपशमे कृतादरं हरं हरिं
वा तरसा रसादहम् ॥ ११ ॥

अन्वय-अहम् सदा नगोपाहितबन्धुरस्थितिम् पिनाकेन समेधितश्रियम् महर्द्धिकम् सोपशमे कृतादरम् हरम् वा
सदानगोपाहितबन्धुरस्थितिम् नाकेन अपि समेधितश्रियम् महर्द्धिकं सोपशमे कृतादरम् हरिम् रसात् तरसा
स्तुवे ।

प्. ६२०)

मनो भृशं भ्राम्यति बालिशं भवे जहाति भक्तिं च दिवानिशं भवे । अतः परं नाम किमस्य शं
भवे- न्निवेदयेत्स्वं यदि कर्म शंभवे ॥ १२ ॥

अन्वय-(इदम्) बालिशम् मनः भवे भृशम् भ्राम्यति भवे (श्रीशिवे) च दिवानिशम् भक्तिम् जहाति यदि (इदं
मनः) स्वम् कर्म शंभवे निवेदयेत् अतः परम् अस्य किम् नाम शम् भवेत् ?

समुद्रजन्मानमुपादधत्करे सितद्युतिं वक्त्रनिवेशनोचितम् । रतः सदास्कन्दकदर्थनाहतौ हरो हरिर्वा
दुरितं धुनोति वः ॥ १३ ॥

अन्वय-वक्त्रनिवेशनोचितम् असितद्युतिम् समुद्रजन्मानम् (कालकूटम्) करे उपादधत् सदा स्कन्दकदर्थनाहतौ
रतः हरः अथवा वक्त्रनिवेशनोचितम् सितद्युतिम् समुद्रजन्मानम् (शङ्खम्) करे उपादधत्
सदास्कन्दकदर्थनाहतौ रतः हरिः वा वः दुरितं धुनोतु ।

जिगीषवः क्लेशपरम्पराभ्वं वनेषु भिक्षाधृतकर्परा भवम् । असोढवन्तः कुनृपात्पराभवं
भजन्ति सन्तः स्तुतितत्परा भवाम् ॥ १४ ॥

अन्वय-क्लेशपरम्पराभवम् भवम् जिगीषवः वनेषु भिक्षाधृतकर्पराः कुनृपात् पराभवम् असोढवन्तः
सन्तः स्तुतितत्पराः (सन्तः) भवम् भजन्ति ।

कदा दधानो घनशान्तिशोभिनीं शुभाम्बरालङ्करणोचितां तनुम् । भजाम्यहं दृष्टिनिवेशनौचितीं
शशीव तिग्मांशुरिवाऽच्युतस्य ते ॥ १५ ॥

अन्वय-प्रभो ! अहम् घनशान्तिशोभिनीम् शुभाम्बरालङ्करणोचिताम् तनुम् दधानः सन् शशी इव
तिग्मांशुः इव ते अच्युतस्य दृष्टिनिवेशनौचितीम् कदा भजामि ?

किमाम्रवन्या सृमरालवालया प्रियाकबर्या किमरालबालया । सरःश्रिया किं स-मरालबालया
धृतेशभक्तिर्ह्यमराऽलवाऽलया ॥ १६ ॥

अन्वय-हे अमर ! सृमरालवालया आम्रवन्या किम् (भवति) ? तथा अरालबालया प्रियाकबर्या (अपि) किम् ?
स-मरालबालया सरःश्रिया (च) किम् (भवति) ? हि (मया) अलवा अलया ईशभक्तिः धृता !

कदाऽनवद्यामतिनिर्मलामहं महानदीनां सलिलैः प्रसादिभिः । वहामि हंसैरुपशोभिताम्बरां
प्रभुप्रसादाच्छरदं यथा तनुम् ॥ १७ ॥

अन्वय-अहम् शरदम् यथा अनवद्याम् प्रसादिभिः महानदीनाम् सलिलैः अतिनिर्मलाम् हंसैः उपशोभिताम्बराम्
तनुम् प्रभुप्रसादात् कदा वहामि ?

प्रभुं प्रपत्तुं स्थलमेहि मालयं महीधरं मानस वा हिमालयम् । रसातले वौपयिकाहिमालयं
श्रयन्तमन्वेषय याहि मा लयम् ॥ १८ ॥

अन्वय-अयि मानस ! (त्वम्) प्रभुम् प्रपत्तुम् मालयम् स्थलम् एहि वा हिमालयम् महीधरम् एहि वा रसातले
औपयिकाहिम् आलयम् श्रयन्तम् प्रभुम् (श्रीहाटकेश्वरम्) अन्वेषय (त्वम् वृथायासेन) लयम् मा याहि ।

निधाय चक्षुर्दहतो मनोभवं न कामहानिं प्रवितन्वतो दृशा । अनष्टमूर्तेर्दधतोऽष्टमूर्तितां
जयन्ति शंभोर्विविधा विभूतयः ॥ १९ ॥

अन्वय-चक्षुः निधाय मनोभवम् दहतः दृशा कामहानिम् न प्रवितन्वतः अनष्टमूर्तेः अष्टमूर्तिताम्
दधतः शम्भोः विविधा विभूतयः जयन्ति ।

समाश्रितस्त्वां करुणापराऽज यः क्वचिन्न तस्यास्ति रणे पराजयः । परे तमारब्धपरस्पराजयः
श्रयन्ति नाथं धृतचापराजयः ॥ २० ॥

अन्वय-हे अज ! हे करुणापर ! यः त्वाम् समाश्रितः तस्य रणे क्वचित् (अपि) पराजयः न (भवति) तम्
आरब्धपरस्पराजयः धृतचापराजयः परे (जनाः) नाथम् श्रयन्ति ।

ध्रुवं स कृष्णस्तमधश्चकार य- श्चिराय पक्षद्वयकल्पितस्थितिम् । द्विजाधिराजं विनतार्तिहारिणं
बिभर्ति यो मूर्ध्नि स तु त्वमीश्वरः ॥ २१ ॥

अन्वय-यः चिराय पक्षद्वयकल्पितस्थितिम् विनतार्त्तिहारिणम् तम् द्विजाधिराजम् (गरुडम्) अधश्चकार सः
ध्रुवम् कृष्णः (श्रीविष्णुः) यः तु चिराय पक्षद्वयकल्पितस्थितिम् विनतार्तिहारिणम् द्विजाधिराजम्
(चन्द्रमसम्) मूर्ध्नि बिभर्त्ति स त्वम् ईश्वरः (भवसि) ।

विभुं विरिञ्चोऽपि न वेद नाम यं नतस्य दुःखं घनवेदनामयम् । निहन्ति तस्यापि भवेदनामयं शुचं
भजेन्नाप्यनिवेदनामयम् ॥ २२ ॥

समुद्रजालिङ्गितकण्ठपीठं सदैव सत्याहितसक्तिमच्युतम् । अनन्यगा यस्य नवोक्तिमौक्तिकै- रलङ्करोति
प्रचुरा सरस्वती ॥ २३ ॥ (युग्मम्)

अन्वय-नाम यम् विभुम् विरिञ्चः अपि न वेद तम् समुद्रजालिङ्गितकण्ठपीठम् सदैव सत्याहित सक्तिम् अच्युतम्
यस्य अनन्यगा प्रचुरा सरस्वती नवोक्तिमौक्तिकैः अलङ्करोति तस्य नतस्य घनवेदनामयम् दुःखम् (सः
विभुः) निहन्ति तस्य (नतस्य) अनामयम् अपि भवेत् । तथा अयम् (भक्तिनम्रः) अनिवेदनाम् शुचम्
(पुनरागमनरूपाम्) अपि न भजेत् ।

अभीष्टदायी यमधामहोदयाद्- ध्वनिर्यया श्वेतनृपे महोदया । धृतिं दिशन्ती नमतामहो दया क्व सा
तवास्मास्वधुना महोदया ॥ २४ ॥

अन्वय-हे विभो ! अहो ! महोदया यया (तव दयया) श्वेतनृपे यमधामहा अभीष्टदायी ध्वनिः (मा
भैषीः इति ध्वनिः) उदयात् सा नमताम् धृतिम् दिशन्ती महोदया तव दया अधुना अस्मासु क्व (गता) ?

अयमहं पुरुषोत्तममच्युतं बलिजितं कृतसत्यपरिग्रहम् । अचलितश्रियमाश्रितनन्दकं
धृतसुदर्शनमीश्वरमाश्रये ॥ २५ ॥

अन्वय-अयम् अहम् पुरुषोत्तमम् अच्युतम् बलिजितम् कृतसत्यपरिग्रहम् अचलितश्रियम् आश्रितनन्दकम् धृतसुदर्शनम्
ईश्वरम् आश्रये ।

वितन्वती भक्तिमतां समानतां बिभर्ति या कल्पलतासमानताम् । कथं दधन्मूर्तिमिमां समान्तां तव
स्तुतिं वच्मि शतं समा न ताम् ॥ २६ ॥

अन्वय-हे विभो ! या भक्तिमताम् समानताम् वितन्वती कल्पलतासमानताम् बिभर्ति ताम् तव स्तुतिम् अहम्
समानताम् इमाम् मूर्तिम् दधत् शतम् समाः कथम् न वच्मि ?

इह परशुचितोर्जिताकृति- द्विजपतिशेखरतां बिभर्ति यः । त्रिजगति गिरिशं सतां हितं
प्रणमतरामतनुं तमच्युतम् ॥ २७ ॥

अन्वय-हे भावुकाः ! परशुचितोजिताकृतिः यः (विभुः) द्विजपतिशेखरताम् बिभर्ति इह त्रिजगति सताम् हितम्
अतनुम् अच्युतम् तं गिरिशम् प्रणमतराम् ।

यमं ययारब्धमहामहाऽनयः क्षयं दृशा यस्य स शर्महाऽनयः । ददासि चेत्तामुदितो महानयः
क्षताश्च विघ्नाः कृतकामहानयः ॥ २८ ॥

अन्वय-हे आरब्धमहामह ! यस्य सः अनयः शर्महा (भवति) तम् यमम् यया दृशा (त्वम्) क्षयम् अनयः
(नीतवानसि) ताम् (दृशम्) चेत् (मादृशाय कृपापात्राय) ददासि तर्हि महान् अयः (शुभावहो विधिः)
उदितः कृतकामहानयः विघ्नाः च क्षताः ।

अनल-संभृतकान्ति दधत्सदा रुचिरमारचितास्पदमीक्षणम् । सुमतये विधुरोपकृतिप्रियो भवतु वो भगवान्
भगवानिव ॥ २९ ॥

अन्वय-अनलसम् भृतकान्ति सदारुचिरमारचितास्पदम् ईक्षणम् दधत् विधुरोपकृतिप्रियः भगवान् इव
(श्रीबुद्ध इव) सदा अनलसंभृतकान्ति रुचिरमारचितास्पदम् ईक्षणम् दधत् विधु-रोप-कृतिप्रियः भगवान्
वः सुमतये भवतु ।

न जातु तज्ज्ञाः कृतिनोऽवहन्त या- मधोगतौ कारणमेव हन्त या । त्वयि प्रसन्ने सुमतावहंतया न यामि
दुःखं नरकावहं तया ॥ ३० ॥

अन्वय-हे प्रभो ! तज्ज्ञाः कृतिनः याम् (अहंताम्) जातु न अवहन्त या (अहंता) अधोगतौ एव कारणम्
(भवति) हे स्वामिन् ! त्वयि सुमतौ प्रसन्ने सति (अहम्) तया अहन्तया नरकावहम् दुःखम् न यामि ।

प्रियां मुखे यो धृतपञ्चमस्वरां गिरं वहन्तीममृतस्य सोदराम् । विशेषविश्रान्तरुचिर्बिभर्ति मां
वपुष्यसौ पुष्यतु वः शिवोऽच्युतः ॥ ३१ ॥

अन्वय-विशेषविश्रान्तरुचिः या अमृतस्य सोदराम् गिरम् वहन्तीम् मुखे धृतपञ्चमस्वराम् माम् (उमां) प्रियाम्
वपुषि बिभर्ति असौ अच्युतः शिवः वः पुष्यतु ।

नुतिर्मयेयं भजतां हिताय ते- कृताऽनया शर्म सतां हि तायते । मनस्यपि ग्लानिरपोहिता यते धृता
यदेषा श्रुतिसंहितायते ॥ ३२ ॥

अन्वय-हे नाथ ! मया इयम् तव स्तुतिः भजताम् हिताय कृता हि अनया सताम् शर्म तायते आयते (विस्तीर्णे)
यते (संयते) वा मनसि ग्लानिः अपि अपोहिता यत् एषा धृता (सती) श्रुतिसंहितायते ।

अमेयमहिमा हिमाद्रितनयानयात्तहृदयो दयोर्जितमतिः । विभुर्भवरुजं रुजन्नविकलं कलङ्करहितं हितं
दिशतु वः ॥ ३३ ॥

अन्वय-अमेयमहिमा हिमाद्रितनयानयात्तहृदयः दयोर्जितमतिः विभुः भवरुजम् रुजन् अविकलम् कलङ्करहितम्
हितम् वः दिशतु ।

उदारकरुणोऽरुणोर्जितमहा महाहिवलयो लयोज्झितवपुः । अघौघशमनो मनोधृतमुदा- मुदात्तविभवो भवो
भवतु वः ॥ ३४ ॥

अन्वय-उदारकरुणः अरुणोर्जितमहाः महाहिवलयः लयोज्झितवपुः उदात्तविभवः भवः मनोधृतमुदाम्
वः (युष्माकम्) अघौघशमनः भवतु ।

एकः पादोदकमधिशिरः श्लाघ्यमन्यस्य धत्ते चक्रे पूजां नयनकमलेनाऽपरस्य द्वितीयः । इत्यन्योन्यं
प्रकृतिमहतामन्तरज्ञौ गुणानां हर्षोत्कर्षं कमपि कुरुतां कामकंसद्विषौ वः ॥ ३५ ॥

अन्वय-एकः (श्रीशम्भुः) अन्यस्य (श्रीविष्णोः) श्लाघ्यम् पादोदकम् अधिशिरः धत्ते द्वितीयः
(श्रीविष्णुः) अपरस्य (श्रीशंभोः) नयनकमलेन पूजाम् चक्रे इति अन्योन्यम् प्रकृतिमहताम् गुणानाम्
अन्तरज्ञौ कामकंसद्विषौ वः कमपि हर्षोत्कर्षम् कुरुताम् ।

यस्मिन्नद्रिसमुद्रजावहनयोरुत्सृज्य नैसर्गिकं वैरं केसरि-कुञ्जरप्रवरयोः सौहार्दहृद्या स्थितिः ।
यस्मिन्नप्यहिराजपन्नगभुजौ निर्व्याजमैत्रीयुजौ निष्प्रत्यूहमसौ महापुरुषयोः संधिर्निबध्नातु वः ॥ ३६


अन्वय-यस्मिन् (महापुरुषसंधौ) अद्रिसमुद्रजावहनयोः केसरि-कुञ्जरप्रवरयोः नैसर्गिकम् वैरम् उत्सृज्य
सौहार्दहृद्या स्थितिः (भवति) यस्मिन् अहिराजपन्नगभुजौ अपि निर्व्याजमैत्रीयुजौ (भवतः) असौ
महापुरुषयोः (श्री शंभु-नारायणयोः) सन्धिः वः निष्प्रत्यूहम् निबध्नातु ।

इति श्रीप्रेममकरन्दसमेतं काश्मीरक-महाकवि-श्रीमज्जगद्धरभट्ट-विरचिते भगवतो महेश्वरस्य
स्तुति-कुसुमाञ्जलौ एकान्तरयमकस्तोत्रमेकोनत्रिंशम् ।

त्रिंशं स्तोत्रं

शारदीमिव नदीं प्रसादिनी- मुच्चकैरवसरोजराजिताम् । स्तोतुमेष मम मूर्तिमैश्वरी-
मुच्चकैरवसरोऽजराजिताम् ॥ १ ॥

अन्वय-प्रसादिनीम् उच्च-कैरव-सरोज-राजिताम् शारदीम् नदीम् इव प्रसादिनीम् अजराजिताम् ऐश्वरीम् मूर्तिम्
स्तोतुम् मम एषः उच्चकैः (महान्) अवसरः (अस्ति) ।

यावत्पश्यसि पन्थानं यावत्ते चरणौ स्थितौ । यावन्न हीयते कायस्तावदात्प्नहितं कुरु ॥

रोहिणीरमणखण्डमण्डनं नन्दिनन्दिनमनं दिनं दिनम् । नौमि बिभ्रतमुपोढकालिकासङ्गमं
गलमसङ्गमङ्गलम् ॥ २ ॥

अन्वय-नन्दिनन्दिनमनम् उपोढकालिकासंगमम् असङ्गमङ्गलम् गलम् बिभ्रतम् रोहिणीरमणखण्डमण्डनम्
(विभुम्) अहम् दिनम् दिनम् नौमि ।

नौमि भक्तजनकण्ठनिःसर- न्नादरञ्जितमकालकामदम् । कालकामदमनादरं जित-
क्लेशमीशममृतांशुशेखरम् ॥ ३ ॥

अन्वय-(अहम्) भक्तजनकण्ठनिःसरन्नादरञितम् अकालकामदम् कालकामदमनादरम् जितक्लेशम्
अमृतांशुशेखरम् ईशम् नौमि ।

भ्राम्यतु द्रविणतृष्णया भृशं मानसं सदिनमानसंसदि । त्वत्स्तवामृतमृते तु दुस्तरे बन्धुरध्वनि
न बन्धुरध्वनि ॥ ४ ॥

अन्वय-हे प्रभो ! (इदम्) मानसम् द्रविणतृष्णया सदिनमानसंसदि भृशम् भ्राम्यतु दुस्तरे अध्वनि तु
बन्धुर-ध्वनि त्वत्स्तवामृतम् ऋते (कोपि) बन्धुः न (भवति) ।

साधु नाथ नुतिरीप्सया मया या मयार्चित कृतात्र साधुना । सा धुनातु विपदं भवामया-
यामयापनलसद्रसाऽधुना ॥ ५ ॥

अन्वय-हे नाथ ! हे मयार्चित ! अधुना मया साधुना अत्र ईप्सया या साधु नुतिः कृता सा
भवामयायामयापनलसद्रसा (मत्कृता स्तुतिः) विपदम् धुनातु ।

न मेऽभिभूतस्य पिता न माता न वा सनाभिर्धनवासनाभिः । अरिस्तु रुन्धे सुहृदा वियुक्तं समाधिना
मानसमाधिनामा ॥ ६ ॥

अन्वय-हे प्रभो ! धनवासनाभिः अभिभूतस्य मे मानसम् पिता च (रुन्धे) न (च) माता न वा सनाभिः
समाधिना सुहृदा वियुक्तम् आधिनामा अरिः तु रुन्धे ।

दर्पकान्तक विराजमानयाऽदर्पकान्तकविराजमानया । त्वत्प्रसादविधिलब्धया धिया साधवो दधति
वैबुधीं धुरम् ॥ ७ ॥

अन्वय-हे दर्पकान्तक ! साध्वः त्वत्प्रसादविधिलब्धया विराजमानया अदर्पकान्तकविराजमानया धिया
वैबुधीम् धुरम् दधति ।

येन शीतकरखण्डशेखर त्वत्प्रसादवशतः करोत्करः । कोऽपि तामरसभासनोऽर्जितः
कोपिताऽमरसभासनोर्जित ॥ ८ ॥

रविरलङ्कुरुते नवरञ्जनं स किल यत्तव दक्षिणमीक्षणम् । इममपास्य तमः सहजं शनै- रविरलं
कुरु तेन वरं जनम् ॥ ९ ॥ (युग्मम्)

अन्वय-हे शीतकरखण्डशेखर ! येन (रविणा) त्वत्प्रसादवशतः तामरसभाजनः
कोपितामरसभासनोर्जितः कोपि (अनन्यसामान्यः) करोत्करः अर्जितः सः रविः किल नवरञ्जनम् यत् तव
दक्षिणम् ईक्षणम् अलङ्करुते तेन (दक्षिणेन ईक्षणेन) अविरलम् सहजम् तमः अपास्य इमम् जनम् शनैः
वरम् कुरु ।

महतामतामसमहावपुषं तव भक्तिमर्थितवतां भगवन् । महतामतामसमहावपुषं प्रथयन्ति
कीर्तिमिह सिद्धगणाः ॥ १० ॥

अन्वय-भगवन् ! इह महतामताम् असमहावपुषम् अतामसमहावपुषम् तव भक्तिम् अर्थितवताम् महताम् कीर्तिम्
सिद्धगणाः प्रथयन्ति ।

अध्यास्यते शमजुषा भवतः प्रसादा- दामोदराजितरुचारु चिरं जनेन । दामोदराजितरुचा रुचिरञ्जनेन
कीर्णं तृणेन मृदुना वनमार्तवेन ॥ ११ ॥

अन्वय-हे भगवन् ! भवतः प्रसादात् शमजुषा जनेन चिरम् आमोदराजितरुचारु दामोदराऽजितरुचा
रुचिरञ्जनेन आर्तवेन (ऋतुसंभवेन) मृदुना तृणेन कीर्णम् वनम् अध्यास्यते ।

तव सवहरिणं घ्नती महर्षिं यमकृत चापलता नवासमाधिम् । पुनरपि दृगलम्भयत्तवैनं
यमकृतचापलतानवा समाधिम् ॥ १२ ॥

अन्वय-हे भगवन् ! तव चापलता सवहरिणम् घ्नती यम् महर्षिम् (दक्षम्) नवाऽसमाधिम् अकृत (एतत्तु
अत्यद्भुतम्-) यमकृतचापलतानवा (या) तव दृक् एनम् (दक्षप्रजापतिम्) यत् पुनः अपि समाधिम् अलम्भयत् ।

सभाजनेऽनल्परतेर्नृपस्य त्वद्भक्तिभाजः प्रसभाजनेन । सभाजनेन प्रगुणेन पूर्णा विभाति
निःश्रेयसभाजनेन ॥ १३ ।

अन्वय-प्रभो ! त्वद्भक्तिभाजः सभाजने अनल्परतेः नृपस्य सभा प्रसभाजनेन निःश्रेयसभाजनेन
प्रगुणेन जनेन पूर्णा विभाति ।

अनन्तराऽयन्त्रितवाग्भवस्त्वां गृणाति यो नित्यमनन्तरायम् । अनन्तरायं स्वयमेत्य लक्ष्मी- र्निषेवते तं
समनन्तरायम् ॥ १४ ॥

अन्वय-हे विभो ! अनन्तरायन्त्रितवाग्भवः यः त्वाम् नित्यम् अनन्तरायम् गृणाति तम् अनन्तरायम्
समनन्तराऽयम् लक्ष्मीः स्वयम् एत्य निषेवते ।

सहो मयाद्यैरपि यस्य दुर्धरं यमः स धर्तुं हृदि दुःसहो मया । सहोमयाऽभ्येत्य भज प्रसन्नया
दृशा कृतानङ्गभुजांसहोमया ॥ १५ ॥

अन्वय-हे भगवन् ! मयाद्यैः अपि यस्य सहः दुर्धरम् सः यमः मया हृदि धर्तुम् दुःसहः (अतः त्वम्)
उमया सहः अभ्येत्य कृतानङ्गभुजांसहोमया प्रसन्नया दृशा (माम्) भज ।

कले वरं दातुमुदीरितेऽस्ति या सुधा सुवाक्ये तव निष्कले वरम् । कलेव रङ्क्वङ्कतनोरसौ कदा
ममेदमाप्याययते कलेवरम् ॥ १६ ॥

अन्वय-प्रभो ! (आश्रितजनस्य) कले (=करे रलयोरैक्यात्) वरम् (उत्कृष्टम्) वरम् दातुम् उदीरिते तव निष्कले
सुवाक्ये या सुधा अस्ति असौ सुधा रङ्क्वङ्कतनोः कला इव इदम् मम कलेवरम् कदा आप्याययते ?

सदानवारिद्विरदा वरूथिनी हरेरिव ध्वस्तसहिंसदानवा । सदा नवाराद्धशिवा शिवाप्तये न कस्य
गीर्भक्तिविकासदा नवा ॥ १७ ॥

अन्वय-सदा नवाराद्धशिवा भक्तिविकासदा ध्वस्तसहिंसदानवा नवागीः हरेः सदानवारिद्विरदा
वरूथिनी इव कस्य शिवाप्तये न (भवति अपि तु सर्वस्यापि) ।

घनैरहंताकृतलङ्घनैरहं महारिभिर्निर्मलशर्महारिभिः । निराकृतौजा धृतहानिराकृतौ न
तेऽवलेपावसरो नतेऽबले ॥ १८ ॥

अन्वय-हे भगवन् ! अहम् घनैः अहंताकृतलङ्घनैः निर्मलशर्महारिभिः महारिभिः निराकृतौजा
आकृतौ धृतहानिः (अस्मि अतः) हे विभो ! नते अबले (मयि) ते अवलेपावसरः न (अस्ति) ।

मनस्यदोषेऽप्यतिदौर्मनस्यदो महारयः पन्नगभीमहार यः । तमन्तकम्पैकनिमित्तमन्तकं नयाशु
भङ्गं हतदुर्नयाशुभम् ॥ १९ ॥

अन्वय-हे पन्नगभीमहार ! हे हतदुर्नय ! महारयः (अन्तकः) अदोषे अपि मनसि अतिदौर्मनस्यदः (अस्ति) तम्
अन्त-कम्पैकनिमित्तम् अशुभम् अन्तकम् आशु भङ्गम् नय ।

न वारबाणा न हया नवारवा न दन्तिनः सद्मनि वा नदन्ति नः । क्षतापदाज्ञा तु विपक्षतापदा जितो
भवः साधु हि पूजितो भवः ॥ २० ॥

अन्वय-नः सद्मनि वारबाणाः न (सन्ति) नवारवाः हयाः न (सन्ति) दन्तिनः वा न (सन्ति) किन्तु
(अस्माभिः) विपत् क्षता (अस्माकम्) आज्ञा तु विपक्षतापदा (भवति) अतः (अस्माभिः) भवः जितः । हि
साधु भवः पूजितः ।

जलाशया यान्ति मृगा जलाशया मरावलङ्घ्ये घ्नति पामरा बलम् । परं हसन्तो जितकोपरंहसं जना
भवेऽप्युज्झितपूजना भवे ॥ २१ ॥

अन्वय-(यथा) जडाशयाः (मन्दमतयः) पामराः मृगाः जलाशया बलम् घ्नति अलङ्घ्ये मरौ यान्ति
(तथैव) जडाशयाः पामराः जनाः अपि जितकोपरंहसम् परम् हसन्तः भवे (श्री सदाशिवे)
उज्झितपूजनाः (सन्तः) भवे (संसारे) यान्ति ।

अमन्दरागाश्रितमन्दरागा- स्ते देवजाताविह देव जाताः । ये सिद्धसाध्यार्चित सिद्धसाध्या रता नवं
तेनुरतानवं ते ॥ २२ ॥

अन्वय-हे देव ! हे सिद्धसाध्यार्चित ! इह ये (त्वयि) रताः ते (तव) अतानवम् नवम् तेनुः ते सिद्धसाध्याः
अमन्दरागाश्रितमन्दरागाः (जनाः) देवजातौ जाताः (अमरत्वं प्राप्ताः) ।

सदय मोदय मोदयमोक्षदं कृशमदः शमदः शमदः कुरु । न हि तता हितताऽऽहिततायनैः कृतनुते
तनु ते तनुते शुभम् ॥ २३ ॥

अन्वय-हे सदय ! मा (माम्) मोदय कृशमदः शमदः (त्वम्) उदयमोक्षदम् अदः शम् कुरु हि हे आहिततायनैः
(आहितं तायनं-पालनं यैस्ते तादृशा विष्ण्वादयस्तैः) कृतनुते ! तता ते हितता तनु शुभम् न तनुते
? (अपि तु महदेव कल्याणं विस्तारयतीत्यर्थः) ।

रसमये समयेऽसमयेहया धनमहीनमहीनमहीष्वपि । कृतमुदात्तमुदात्तमुदाहृतं तदिदमापदमाप
दमापहम् ॥ २४ ॥

अन्वय-हे भगवन् ! अहीनमहीषु अपि उदाहृतम् उदात्तम् कृतमुत् अहीनम् यत् धनम् (मया) रसमये समये
(यौवने) असमया ईहया आत्तम् तत् इदम् दमापहम् (धनम्) आपदम् आप ।

मदनवादनवादनवासनायतनयातनया तनयाऽम्बुधेः । अकृत वै कृतवैकृतवैशसा सकमला कमला
कमलाघवम् ॥ २५ ॥

अन्वय-हे भगवन् ! वै अम्बुधेः तनया कृतवैकृतवैशसा सकमला कमला (लक्ष्मीः)
मदनवादनवादनवासनायतनया तनया कम् (पुरुषम्) अलाघवम् अकृत (अपि तु सर्वं
लघूकृतवतीत्यर्थः) ।

कमलयाऽमलया मलयाद्रिव- त्त्रसदयासदया सदयाप्यया । प्रवरधीवर धीवर धीरया
कलयमाऽलयमालयमापदाम् ॥ २६ ॥

अन्वय-अयि धीवर ! हे प्रवरधीवर ! (त्वम्) मलयाद्रिवत् अमलया त्रसदयासदया सदयाप्यया धीरया
कमलया अलयम् आपदाम् आलयम् मा (माम्) कलय ।

वितरणाभरणा भरणाभय- क्षममना मम नाम मनागपि । शुभवने भवने भव नेप्सित- प्रद
रमाऽदरमादरमादधे ॥ २७ ॥

अन्वय-हे भव ! हे ईप्सितप्रद ! वितरणाभरणा भरणाभयक्षममनारमा शुभवने मम भवने मनाक्
अपि नाम अदरम् आदरम् न आदधे ।

अनयतो नयतो न यतो धृति- प्रद यमादयमादयमाश्रितः । त्रसति शंसति शंसति शं च यो धृतमुदं
तमुदन्तमुदञ्चय ॥ २८ ॥

अन्वय-हे धृतिप्रद ! यतः (यस्मादुदन्तात्) अनयतः नयतः अयमात् यमात् अयम् आश्रितः न त्रसति यः च
शंसति (जने) शम् शंसति तम् धृतमुदम् उदन्तम् उदञ्चय ।

शुभवता भवता भवतारिणा शकलिताऽकलिता कलितापभूः । हर कृतान्त-कृतान्त-कृतान्त नो
किममता ममता मम तादृशी ॥ २९ ॥

अन्वय-हे हर ! हे कृतान्तकृतान्तकृतान्त ! शुभवता भवतारिणा भवता मम अमता अकलिता (अगणिता)
कलितापभूः तादृशी (अतिप्रसिद्धा) ममता किम् नो शकलिता ?

विशदशोभयशोभय शोभय त्रिजगदक्षम-दक्ष-मदक्षम । स्वपदमानय मानय मा नय-
क्षत-समक्ष-यमक्षयमक्षय ॥ ३० ॥

अन्वय-हे विशदशोभयशोभय ! हे अक्षम-दक्ष-मदक्षम ! हे अक्षय ! त्रिजगत् शोभय मा (माम्)
नयक्षत-समक्ष-यमक्षयम् स्वपदम् आनय (अत-एव) मानय ।

घनाऽघनाशनैः शनैर्नवैर्नवैरिहाऽरिहा । भवान्भवाऽन्वहं वहन्नहीनहीनदानदाः ॥ ३१ ॥

दयोदयोर्जितोऽर्जितो मयोमयोचितश्चितः । यतेय ते हितेहिते रवैरवैरधीरधीः ॥ ३२ ॥ (युगलकम्)

अन्वय-हे भव ! मया इह अन्वहम् अहीन वहन् अहीनदानदाः अरिहा दयोदयोर्जितः उमया चितः उचितः भवान्
घनाघनाशनैः नवैः नवैः शनैः (मृदुलोपायेन प्रसह्य झगिति यावत्) अर्जितः (स्वीकृतः) हे
भगवन् ! अवैरधीरधीः (अहम्) रवैः ते हितेहिते यतेय ।

तवात्तबाधने धने गदं गदन्ति केऽन्तिके । मयाऽऽमयाविना विना विभो विभोजना जनाः ॥ ३३ ॥

अन्वय-हे विभो ! आत्तबाधने धने (आन्तरे संविद्रूपे बाह्येवा हिरण्यादौ) सति तव (दयालोः) अन्तिके मया
आमयाविना विना के विभोजनाः (निरशनाः) जनाः गदम् गदन्ति ? (न केचित्)

स्तवास्तवाऽऽहिता हिता न केन केवलं बलम् । शुभाऽऽशु भारती रतीशनाशनाऽऽपदापदा ॥ ३४ ॥

अन्वय-हे रतीशनाशन ! तव हिताः (हृद्याः) स्तवाः केन न आहिता (अपि तु सर्वजनेन) केवलम् (इयम्)
शुभा आपदा मे भारती आशु बलम् आपत् ।

नतानतानवानवारितारितापदं पदम् । हराहरामि तेऽमिते शमे शमेवमेव मे ॥ ३५ ॥

अन्वय-हे हर ! (अहम्) अतानवान् नतान् (भक्तिप्रह्वजनान्) अमिते शमे (सति) अवारिताऽरितापदम् ते पदम्
आहरामि एवमेव मे शम् (उभयलोकशुभावहं कल्याणम् भविष्यति) ।

पराऽपराधबान्धवाः सवासवाः सुरासुराः । सदा सदानमानमाश्रयं श्रयन्ति यन्ति यम् ॥ ३६ ॥

स मा समाहितं हितं बताऽवतादमन्दमम् । कलङ्क-लङ्घने घने ह्यबाह्यवासनः स नः ॥ ३७ ॥
(युगलकम्)

अन्वय-बत ! पराऽपराधबान्धवाः सवासवाः सुरासुराः सदा सदानमानम् यम् (प्रभुम्) आश्रयम्
श्रयन्ति (शरणार्थम् च) यन्ति सः समाहितम् अमन्दमम् (अनल्पमोक्षश्रीमन्तम्) माम् हितम् अवतात् हि-सः
(विभुः) नः घने कलङ्कलङ्घने अबाह्यवासनः (अत्युत्कण्ठितः अस्तु) ।

अलं घना अलङ्घनास्तपस्यतस्तपस्यतः । तनुर्हि मेऽतनुर्हिमेऽङ्गतानवं गता नवम् ॥ ३८ ॥

अन्वय-हि हे विभो ! तपसि (माघे) घनाः अलम् अलङ्घनाः (भवन्ति) अतः तपसि हिमे तपस्यतः मे अतनुः
तनुः नवम् अङ्गतानवम् गता ।

मलमलक्षवलक्षबलस्मर- स्मरणकारणकार कदङ्कदम् । हर हरस्व भजस्व भजन् दिशं दिश
विभासविभासदृशं दृशम् ॥ ३९ ॥

अन्वय-हे अलक्षवलक्षबलस्मरस्मरणकारणकार ! हे हर ! (त्वम्) दिशम् भजन् (मम) कदङ्कदम् मलम्
(आणव-मायीय-कर्मभेदात् त्रिविधम्) हरस्व भजस्व विभासविभासदृशम् दृशं मे दिश ।

भव-संभव-संहत-मोहतमो- दमनेदमनेकमशङ्कमशम् । सविकास-विकार-चित्तं रचितं हर मे हर
मेदुरितं दुरितम् ॥ ४० ॥

अन्वय-हे भव-संभव-संहत-मोहतमो-दमन हे हर ! अनेकम् अशङ्कम् (कृत्वा) रचितम् अशम्
सविकासविकारचितम् मेदुरितम् इदम् मे दुरितम् हर ।

कृपणं भगवन् बहुशोऽभिहितं बहुशोभि हितं दिश मे वचनम् । दिशमेव च नन्दितमानस तां दितमान
सतां न पतामि यतः ॥ ४१ ॥

अन्वय-हे भगवन् ! (मया) बहुशः कृपणम् अभिहितम् (अतः) त्वम् बहुशोभि हितम् वचनम् मे दिश । अयि सताम्
नन्दितमानस ! अयि दितमान ! (अहम्) यतः (संसारे) न पतामि ताम् एव दिशम् च दिश ।

मन्यामहे गतिमृते त्वयि भक्तिमन्या- मन्यायगां तव दृशैव तमःशमन्या । मन्याभिधाभृति नतिं
सहते धमन्या- मन्याभिधेषु नहि धीरभिमानिमन्या ॥ ४२ ॥

अन्वय-हे विभो ! तमःशमन्या तव दृशा एव त्वयि भक्तिम् ऋते अन्याम् गतिम् वयम् अन्यायगाम् (एव) मन्यामहे हि
अभिमानिमन्या धीः मन्याभिधाभृति धमन्याम् अन्याभिधेषु नतिम् न सहते !

माऽनारतं निजपरैरुपभुज्यमाना मानातिवृत्तविभवाऽन्वहमेधमाना । मा नाथ भूद्भवतु
धीरभिनन्द्यमाना मानाऽलसैः सुहृदरातिषु मे समाना ॥ ४३ ॥

अन्वय-हे नाथ ! मानातिवृत्तविभवा अन्वहम् एधमाना अनारतम् निजपरैः उपभुज्यमाना मा (लक्ष्मीः)
माभूत् ? किन्तु-मानालसैः अभिनन्द्यमाना मे धीः सुहृदरातिषु समाना भवतु !

अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा । तृणे वा
स्त्रैणे वा मम समदृशो यान्तु दिवसाः कदा पुण्याऽरण्ये शिवशिवशिवेतिप्रलपतः ॥

दोषारयस्तरलयन्ति महामदोषा दोषा धृतिं हरति मोहमयप्रदोषा । दोषाकराङ्कवपुरेष्यति मां
कदोषा दोषात्तकण्ठमनिरुद्धमिवोन्मदोषा ॥ ४४ ॥

अन्वय-हे विभो ! महामदोषाः दोषारयः माम् तरलयन्ति मोहमयप्रदोषा दोषा (मे) धृतिम् हरति । हे
दयालो ! उन्मदा उषा (बाणासुरदुहिता) दोषात्तकण्ठम् अनिरुद्धम् इव दोषाकराङ्कवपुः
(श्रीचन्द्रमौलिदर्शनरूपा) उषा (प्रभातम्) माम् कदा एष्यति ?

का रामणीयककृतेन्दुकरानुकारा- कारा विना तव कृपां प्रथितोपकारा कारागृहेऽत्र भवनामनि
मोचिका रा- काराजखण्डशिखर क्षपितान्धकारा ॥ ४५ ॥

अन्वय-हे राकाराजखण्डशिखर ! अत्र भवनामनि कारागृहे (केवलम्) तव कृपाम् विना
रामणीयककृतेन्दुकरानुकाराऽऽकारा प्रथितोपकारा क्षपितान्धकारा का मोचिका भवति ? (न
कापीत्यर्थः) ।

काशान्तचित्तधृतमुक्तिपथाऽवकाशा- काशान्तवर्तिरविवत् प्रचुरप्रकाशा ।
काशावकीर्णखिलतुल्यकृतान्तकाशा का शाम्भवीं दृशमृते भृतसेवकाशा ॥ ४६ ॥

अन्वय-शाम्भवीम् दृशम् ऋते काशान्तचित्तधृतमुक्तिपथावकाशा आकाशान्तवर्तिरविवत् प्रचुरप्रकाशा
काशावकीर्णखिलतुल्यकृतान्तकाशा भृतसेवकाशा का (भवति ? न काऽपीत्यर्थः) ।

कां तापतान्तिमुपयान्ति शुचौ न कान्ताः कान्तावलम्बितकराः स्खलितांशुकान्ताः । कान्ता
हठाद्वनचरैर्मृदितालकान्ताः कान्तारगास्त्वदनुरक्तनृपारिकान्ताः ॥ ४७ ॥

अन्वय-हे भगवन् ! शुचौ कान्तारगाः कान्ताः (रमणीयाः) कान्ताः (अभिलषिताः) कान्तावलम्बितकराः
स्खलितांशुकान्ताः वनचरैः हठात् मृदितालकान्ताः त्वदनुरक्तनृपारिकान्ताः काम् न तापतान्तिम्
उपयान्ति ? (अपि तु सर्वामपि तापतान्तिमनुभवन्ति ।)

मायाऽर्करश्मिपटलीम् मरुक्षमाया- मायासमर्पयति मे दुरितक्रमा या । मायाः पदं तव कृपाऽत्र
महातमाया- मायात्युषेव हि कदा कलितोत्तमाऽयाः ॥ ४८ ॥

अन्वय-या (माया) दुरतिक्रमा (ब्रह्माद्यैरपि अलङ्घ्या) सा माया मरुक्षमायाम् अर्करश्मिपटली इव मे
आयासम् अर्पयति । हे प्रभो ! हि अत्र महातमायाम् मायाः (लक्ष्म्याः) पदम् कलितोत्तमायाः तव कृपा उषा
इव कदा आयाति ?

रामादिसेव्यभवभक्तिभृतोऽभिरामा- रामाश्रितौषधिरिव क्षतदुस्तरामा । रामा सतीव
कृतसाधुविपद्विरामा रा मान्यमुज्झति न सद्म न चाऽस्थिरा मा ॥ ४९ ॥

अन्वय-रामादिसेव्यभवभक्तिभृतः (पुंसः) मान्यम् सद्म (कर्म) राः (धनं कर्तृ) तथा रामाश्रिता
औषधिः इव सती रामा इव अभिरामा क्षतदुस्तरामा कृतसाधुविपद्विरामा न अस्थिरा (अर्थात् स्थिरा) मा
(मोक्षलक्ष्मीः) च न उज्झति ।

वारांनिधेरिव सुधा तव दुर्निवारा वाराणसीव दृगघक्षयकृद्ध्रुवारा । वाराङ्गनेव पृतनेव च
साश्ववारा वारानुवारमुदयत्युरुकूर्चवारा ॥ ५० ॥

अन्वय-हे भगवन् ! दुर्निवारा अघक्षयकृत् ध्रुवारा (अवश्यगम्या) तव दृक् (भक्तजनं प्रति)
वारांनिधेः सुधा इव वाराणसी इव वाराङ्गना इव उरुकूर्चवारा साश्ववारा पृतना इव च
वारानुवारम् उदयति ।

भद्राभिधे गज इवेशमकॢप्तभद्रा भद्रासनेऽर्चितवतः कृतभालभद्रा । भद्रा सिता तिथिरिवेप्सितदा
विभद्रा भद्रा तनुर्गुणविडम्बितरामभद्रा ॥ ५१ ॥

अन्वय-भद्राभिधे गजे इव भद्रासने (भद्रपीठे) ईशम् अर्चितवतः (पुरुषस्य) अकॢप्तभद्रा
कृतभालभद्रा सिता (शुक्लपक्षसंबन्धिनी) भद्रा तिथिः इव ईप्सितदा गुणविडम्बितरामभद्रा भद्रा
तनुः विभद्रा (विशेषेण जनमोहहरा भवति) ।

नाऽगाधमाप तव हृन्मम धीरनागा नागालयं सुरपुरीव सकाञ्चनागा । नाऽगात् परत्र च
सृजन्त्यकदर्थना गा नागाश्रितेन्द्रदिगिवोन्नतनन्दनागा ॥ ५२ ॥

अन्वय-हे भगवन् ! सकाञ्चनागा सुरपुरी नागालयम् इव (इयम्) मम अनागाः धीः तव अगाधम् हृत् (हृदये)
न आपः तथा-अकदर्थना

(अनिन्द्याः) गाः सृजन्ती (इयं धीः) नागाश्रिता उन्नतनन्दनागा इन्द्रदिक् (पूर्व दिशा) इव परत्र
(भवत्स्तुतिरसादन्यत्र) च न अगात् ।

सारासहाऽपि मम धीस्त्वयि मन्दसारा साराधना विहितमोहतमोऽभिसारा ।
साराव-कोकिलवचःसमसूक्तिसारा सारावलीव गुरुतापकृतापसारा ॥ ५३ ॥

अन्वय-हे विभो ! विहितमोहतमोभिसारा साराधना सारावकोकिलवचःसमसूक्तिसारा सारावली
(ज्वरतापहारिका औषधिः) इव गुरुतापकृतापसारा अपि (इयम्) मम सारासहा धीः त्वयि मन्दसारा भवति


सामात्यभूपसदसीक्षितसूक्तिसामा सामाजिकाहितनुतिः कृतसेर्ष्यसामा । सामान्यवर्त्म न
ययाश्रयमोजसा मा सा मान्यता त्वयि विभो मुचदञ्जसा मा ॥ ५४ ॥ अन्वय-हे विभो ! यया (अहम्) ओजसा
सामान्यवर्त्म न आश्रयम् सा सामात्यभूपसदसि ईक्षितसूक्तिसामा सामाजिकाहितनुतिः कृतसेर्ष्यसामा
मान्यता त्वयि मा (माम्) अञ्जसा मा मुचत् ।

धारा गिरेरिव तरीव सकर्णधारा- धाराऽर्पणी तव दृगूषरवर्षधारा । धारापुरीव सुखदा
दुरितासिधारा धारा परार्तिहरणे हतषड्विधारा ॥ ५५ ॥

अन्वय-हे विभो ! गिरेः धारा (सानुभूः) इव आधारार्पणी तरी इव सकर्णधारा ऊषरवर्षधारा
धारापुरी इव दुरितासिधारा परार्तिहरणे धारा (पराकाष्ठा) हतषड्विधारा तव दृक् सुखदा
(भवति) ।

कालायसोपमरुचिर्गलभूः सुकाला कालाग्निवद्दृगपि ते क्षणदग्धकाला । काला यथोक्तिरमृदुः
क्षतसेवकाला का लाभकृन्मम विनाऽऽभिरनन्तकाला ॥ ५६ ॥

अन्वय-हे भगवन् ! कालायसोपमरुचिः ते गलभूः सुकाला (सुश्यामला अस्ति) ते दृक् अपि कालाग्निवत्
क्षणदग्धकाला अमृदुः काला (कालिकादेवी) यथा ते उक्तिः अमृदुः (अपि) क्षतसेवकाऽऽला (भवति) हे
विभो ! आभिः (भवत्कण्ठभू-भवद्दृग्-भवदुक्तिभिः) विना का अनन्तकाला मम लाभकृत् ?

मुक्तार्पितस्वपदपूर्णकृपाऽविमुक्ता मुक्तार्चनादिरतिनाऽऽर्किभयाद्विमुक्ता । मुक्तावलीव विमला त्वयि
गीरमुक्ता मुक्तान्यमार्गगमनेन मयेयमुक्ता ॥ ५७ ॥

अन्वय-अयि नाथ ! मुक्तान्यमार्गगमनेन मुक्तार्चनादिरतिना मया आर्किभयात् इयम्
मुक्तार्पितस्वपदपूर्णकृपाऽविमुक्ता मुक्तावली इव विमला अमुक्ता (अनल्पा) गीः त्वयि (तवाऽग्रे) उक्ता
विमुक्ता (क्षिप्ता च) ।

कल्पाह्ववल्लिरिव धौतविपद्विकल्पा कल्पाञ्चिता कृतनुतिर्भवतीन्दुकल्पा ।
कल्पाख्यसूत्रविदुरागमदृष्टकल्पाऽऽ- कल्पाक्षयाऽस्तु मम गीरमृतानुकल्पा ॥ ५८ ॥

अन्वय-हे विभो ! भवति कृतनुतिः धौतविपद्विकल्पा कल्पाञ्चिता इन्दुकल्पा कल्पाख्यसूत्रविदुरा
आगमदृष्टकल्पा अमृतानुकल्पा (इयम्) मम गीः कल्पाह्ववल्लिः इव आकल्पाक्षया अस्तु ।

सहसाऽर्क इवाऽस्मि कृतः सहसा- ऽसहसारभृदात्मभुवा सहसा । स ह सायकमस्यति या सहसा
सहसाध्वसमेत्यपि दुःसहसा ॥ ५९ ॥

अन्वय-अयि प्रभो ! सहसा (मार्गशीर्षेण) अर्कः इव आत्मभुवा (कामेन) अहम् सहसा सहसा (बलेन)
असहसारभृत् कृतः अस्मि ह ! सः सहसा (हास्ययुक्ता) दुःसहसा या (स्त्री) सहसाध्वसम् अपि (मे सम्मुखम्)
एति (तम् स्त्रीरूपं सायकम्) माम्प्रति अस्यति ।

जनयाऽशुचमार्तमभाजनया- जनयाचनरञ्जनवेजनया । जनयामलखिन्नमखञ्जनया-
ऽजनयाऽमृतमात्मनियोजनया ॥ ६० ॥

अन्वय-हे अखञ्जनय ! हे अज ! (त्वम्) अभाजनयाजन याचनरञ्जनवेजनया आर्तम् अशुचम् (निर्दुःखम्) जनय
तथा-जनयामलखिन्नम् (माम्) आत्मनियोजनया अमृतम् नय ।

शमनाय शुचां त्वमुमेश मनाक् शमनार्तिकरः कृतभीशम ना । शमनामय देहि विपाशमना-
शमनाथजनप्रथिताशमनाः ॥ ६१ ॥

अन्वय-हे उमेश ! हे कृतभीशम ! हे अनामय ! मनाक् (ईषत्प्रयासेन) शमनार्त्तिकरः (त्वम्) शुचाम्
शमनाय ना (भवसि) हे विभो ! अनाथजनप्रथिताशमनाः (त्वम्) विपाशम् अनाशम् शम् (मे) देहि ।

मधुनाशिनाऽर्चित समं मधुना मधुनामपुष्पजनुषा मधुना । मधुनाऽलसामिव वधूमधुना-
मधुनाप्लुतां त्वयि गिरं मधुना ॥ ६२ ॥

अन्वय-हे मधुनाशिना मधुना (वसन्तेन) समम् मधुनामपुष्पजनुषा मधुना (किंजल्केन) अर्चित ! अधुना
(अहम्) मधुना अलसाम् वधूम् इव मधुना प्लुताम् (मधुमधुराम्) गिरम् त्वयि अधुनाम् (सुप्तामिव
बोधितवानस्मीत्यर्थः) ।

वसु धान्यमुज्झितुमपीवसु धा- व सुधासितच्छवियशोवसुधा । वसुधातृवन्द्य यदसावसुधा वसुधाम
दृक्तव नवेव सुधा ॥ ६३ ॥

अन्वय-अयि वसुधातृवन्द्य ! सुधासितच्छवियशोवसुधा (त्वम्) अपीवसु
(धनधान्यादिसमृद्धिहीनत्वात्कृशीभूतेषु जनेषु) वसु धान्यम् (च) उज्झितुम् धाव यत् असौ तव वसुधाम
दृक् नवा सुधा इव असुधा (प्राणदानदायिनी भवति) ।

समयासिषुः क्व न विकासमयाः समयापतिं जगति यं समया । समया भवन्ति च विलासमयाः स मया
गिराऽर्च्यत सुधासमया ॥ ६४ ॥

अन्वय-यम् समयापतिम् समया (निकटे स्थितस्य जनस्य) अयाः जगति क्व न विकासम् समयासिषुः ? (अपि तु
सर्वत्र) तथा-यम् समयापतिम् समया (स्थितानां जनानाम्) समयाः विलासमयाः भवन्ति सः (विभुः)
मया सुधासमया गिरा अर्च्यत ।

कलिकालताम्यदमृतोत्कलिका कलिकातरे हृदि नवोत्कलिका । कलिका स्रजीव जितशाकलिका- ऽकलि कान्तिभृच्च
मुकुटे कलिका ॥ ६५ ॥

अन्वय-हे भगवन् ! (जनेन) कलिकातरे (जनकलहेन सकृपे) तव हृदि उत्कलिका (उत्कण्ठा)
कलिकालताम्यदमृतोत्कलिका अकलि हे जितशाकलिक ! कान्तिभृत् कलिका च तव मुकुटे स्रजि कलिका
(सूक्ष्मकुड्मलमिव) अकलि ।

कलयाऽऽश्रितं विरुजमेकलया कलया विधोर्दलितपाकलया । कलया गिरा च सकलाऽकल या कलया विना
विहितशोकलया ॥ ६६ ॥

अन्वय-हे सकलाकल ! (त्वम्) एकलया दलितपाकलया [दलितः पाकलो ज्वरो जरामरणादिरूपो यया सा तया
यद्यपि पाकलो हस्तिजर एवायुर्वेदे प्रसिद्धस्तथापि कविभिः सामान्यज्वरेऽपि प्रयुक्तः ।] विधोः कलया
तथा या कलया(व्याजेन) विना विहितशोकलया (भवति) तथा कलया (सुमधुरया) गिरा च आश्रितम् विरुजम्
कलय !

परमारकाऽन्तककृतोपरमा- ऽपरमानतं तव दृशाऽऽप रमा । परमार्थसद्गुणपरम्पर मा
परमार्त्तमुज्झ करुणापर मा ॥ ६७ ॥

अन्वय-हे परमारकान्तककृतोपरम् ! हे परमार्थसद्गुणपरम्पर ! तव दृशा रमा अपरम् आनतम् (जनम्) आप
हे करुणापर ! परम् आर्तम् मा (माम्) मा उज्झ ।

कल-कलकल-कलकण्ठ-वदस्मा- नव नवनवनवरोचितवाचः । भव भव भव-भवभीतिभिदस्य-
न्मदमदमदमदनाऽन्तक दूरम् ॥ ६८ ॥

अन्वय-हे भव ! हे अदमद-मदनान्तक ! कल-कल-कल-कलकण्ठवत् नव-नवन-वरोचितवाचः अस्मान् अव मदम्
दूरम् अस्यन् भवभवभीतिभित् भव ।

अविकल-कल कलकल-कल-कण्ठं दिश नवनव-नवनवन वरवचः । सविभव भव भव भवभवभयभि-
द्धर मदमदमदमदमदयमिमम् ॥ ६९ ॥

अन्वय-हे अविकल-कल ! हे नवनव-नवनवन ! (त्वम् मादृशाय) कलकल-कल-कण्ठम् वरवचः दिश हे
सविभव ! हे भव ! (अस्माकम्) भवभवभयभित् भव अदमदमदम् इमम् अदयम् मदम् हर ।

देव्यां भ्रमद्भ्रुवि जयाविजयार्चितायां सक्ता तवाऽस्तविजया विजयाय दृष्टिः । वृष्ट्येव
भूर्दिविजया विजयाख्यया ते मूर्त्त्या त्रसद्रविजयाऽऽवि जयाह्वया च ॥ ७० ॥

अन्वय-हे भगवन् ! विजयाय अस्तविजया (दत्तविजया) ते दृष्टिः जयाविजयार्चितायाम् भ्रमद्भ्रुवि देव्याम्
(श्रीभवान्याम्) सक्ता तथा- त्रसद्रविजया विजयाख्यया जयाह्वया च ते मूर्त्त्या (इयम्) भूः दिविजया
वृष्ट्या इव आवि (रक्षिता) ।

हरमुपेत रसादमलं घनं दमलङ्घनं तनुत मा कृतिनः । तनुतमाकृति नः श्रयताऽऽदृतं
श्रयतादृतं भवत इत्युदितम् ॥ ७१ ॥

अन्वय-हे कृतिनः ! घनम् अमलम् हरम् रसात् उपेत दमलङ्घनम् मा तनुत इति नः तनुतमाकृति उदितम् श्रयत
! अयि भावुकाः ! (जनेन) आदृतम् ऋतम् नः उदितम् भवतः (युष्मान्) श्रयतात् ।

शमितसङ्गमसज्जनतापदं शमितसङ्गमसज्जनतापदम् । नमतकाममहीनविभासितं नमत
काममहीनविभासितम् ॥ ७२ ॥

अन्वय-हे कृतिनः ! कामम् (निश्चये) यूयम् शमितसङ्गम् असज्जनतापदम् शमितसङ्गमसज्जनतापदम्
नमतकामम् अहीनविभासितम् अहीनविभासितम् (पूर्णदीप्तिधवलम्) नमत ।

कलि-तमो-हन-मारवराजितं स्मर हरं शिखिचन्द्रकलाञ्छितम् । कलित-मोहन-मारवराजितं स्मरहरं
शिखि-चन्द्रक-लाञ्छितम् ॥ ७३ ॥

अन्वय-अयि भक्तजन ! कलि-तमो-हनम् आरव-राजितम् शिखिचन्द्रकलाञ्छितम् कलित-मोहन-मार-वराजितम्
स्मरहरम् शिखिचन्द्रकलाञ्छितम् हरम् स्मर ।

असौ हृदन्तर्हितमोहरोधने सदा यते रक्ष यशो भियो जय । असौहृदं तर्हि तमोहरो धने
सदायतेरक्षयशोभि योजय ॥ ७४ ॥

अन्वय-हे भगवन् ! असौ (अहम्) हृदन्तर्हितमोहरोधने सदा यते अतः (त्वम् मम) यशः रक्ष (यथा
संयतचित्तानां मध्ये यशो लभ्यते तथा कुर्वित्यर्थः) भियः जय हे विभो ! तर्हि तमोहरः (त्वम्)
सदायतेः (मम) धने अक्षयशोभि असौहृदम् (अमेलापम्) योजय ।

सकलशं सकपालमलङ्कृत- प्रमदमस्थिरसं मदनाशनम् । भवमदभ्रमहानिधने हितं
शमनमज्जनमानमताऽलयम् ॥ ७५ ॥

सकलशंसकपालमलं कृत- प्रमदमस्थिरसंमदनाशनम् । भवमदभ्रमहानिधनेहितं
शमनमज्जनमानमतालयम् ॥ ७६ ॥ (युग्मम्)

अन्वय-अयि रसिक-शिरोमणयः ! (यूयम्) सकलशम् सकपालम् अलंकृतप्रमदम् अस्थिरसम् मदनाशनम्
अदभ्रमहानिधने हितम् शमनमज्जनम् अलयम् सकलशंसकपालम् अलम् कृतप्रमदम् अस्थिरसंमदनाशनम्
भवमदभ्रमहानिधनेहितम् शमनमज्जनमानमतालयम् भवम् आनमत ।

तनुशङ्करवैरसमाऽयतया- ऽतनु शङ्कर वै रस माऽयतया । तनु शं करवै रसमायतया-
ऽतनुशं कर वैरसमायतया ॥ ७७ ॥

अन्वय-वै अयि शङ्कर ! (त्वम्) अयतया असमायतया (उपलक्षितम्) मा अतनु (अनल्पं कृत्त्वा) तनुशङ्करवैः
रस (संभावय) हे विभो ! शम् तनु (अहम्) रसम् (भक्तिरसम्) करवै (त्वम्) माम् आयतया वैरसमायतया
अतनुशम् (काम-कृश-कारिणम्) कर [कर इति भौवादिकस्य कृञः लोटि मध्यमपुरुषैकवचने हि प्रत्यये
प्रयोगश्छन्दसि यथा-तेभ्योकरन्नमः इति छान्दसोऽपि प्रयोगो भाषायामपि भक्तिविषये प्रयुक्तः छान्दसा
अपि क्वचिद् भाषायां प्रयुज्यन्ते इति वचनात्] (कुर्वित्यर्थः) ।

प्रकाशकलितापदं शकलितापदं शंसता- मसारसमये हितं रसमयेहितं शङ्करम् । हृदि स्मरत
रङ्गितं स्मरतरङ्गितं शान्ततां नयन्तमसमानसंतमसमानसं चान्तकम् ॥ ७८ ॥

अन्वय-अयि रसिकावतंसाः ! (यूयम्) प्रकाशकलितापदम् शंसताम् शकलितापदम् असारसमये (अस्थिरे
समयेऽन्त्यक्षणे) हितम् रसमयेहितम् हृदि रङ्गितम् (उल्लसितं विहरन्तमित्यर्थः) स्मरतरङ्गितम्
असमानसंतमसमानसम् अन्तकम् च शान्तताम् नयन्तम् शङ्करम् स्मरत ।

इयं विचित्रताविराजिता मया मनोहरा जितामया मनो हराऽऽहिता नुतिर्धिनोतु ते । त्वयि
प्रसन्नमानसेऽसमस्तमोहराशये समस्तमोहराशये करोमि न स्पृहां पुनः ॥ ७९ ॥

अन्वय-हे हर ! जितामया मनोहरा विचित्रता-विराजिता इयम् मया आहिता (कृता) नुतिः ते मनः धिनोतु
(प्रीणयतु) अयि विभो ! तमोहराशये त्वयि प्रसन्नमानसे सति असमः अहम् पुनः समस्तमोहराशये स्पृहाम् न
करोमि ।

कान्ता कान्तारमध्ये सरिदिव सकुलक्ष्माधरायां धरायां याता या तारतम्यं क्व न
विमलमतिप्रेक्षणेन क्षणेन । साभासा भारतीयं तनुरिव तरणेरन्धकारेऽन्धकारेः स्तुत्या स्तुत्या
बुधानां मदयतु हृदयं ग्लानितान्तं नितान्तम् ॥ ८० ॥

अन्वय-कान्तारमध्ये सरित् इव कान्ता (सुमनोहरा) या (भारती) विमलमतिप्रेक्षणेन क्षणेन
सकुलक्ष्माधरायाम् धरायाम् क्व न तारतम्यम् (अतिशयम्) याता ? (अपि तु सर्वत्र) सा अन्धकारेः स्तुत्या
स्तुत्या (स्तवनीया) इयम् (मम) साभासा भारती अन्धकारे तरणेः तनुः इव ग्लानितान्तम् बुधानाम् हृदयम्
नितान्तम् मदयतु ।

वर्षावर्षायमाणा सहृदय-शिखिनां संहितानां हितानां दात्री दात्री तृणानामिव
लवनपटुर्दुष्कृतानां कृतानाम् । कल्या कल्याणदाने नुतिरियमशुभं तर्जयन्ती जयन्ती विश्वं
विश्वम्भरान्तं प्रसरतु सुरभीनन्दनस्यन्दनस्य ॥ ८१ ॥

अन्वय-सहृदयशिखिनाम् वर्षावर्षायमाणा संहितानाम् हितानाम् दात्री दात्री तृणानाम् इव कृतानाम्
दुष्कृतानाम् लवनपटुः कल्याणदाने कल्या अशुभम् तर्जयन्ती विश्वम् जयन्ती इयम् सुरभीनन्दनस्यन्दनस्य
(वृषभवाहनस्य श्रीशंभोः) नुतिः विश्वम्भरान्तम् प्रसरतु ।

इति श्रीप्रेममकरन्दव्याख्यासमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुति-कुसुमाञ्जलौ महायमकंनाम त्रिंशं स्तोत्रम् ।

एकत्रिंशं स्तोत्रम्

मनः समाधौ परमान्तरङ्गं विधाय निःस्पन्दमनुत्तरङ्गम् । बुधा विधातुं भवभीतिभङ्गं विभुं
भजध्वं गिरिजाभुजङ्गम् ॥ १ ॥

अन्वय-अयि बुधाः ! मनः समाधौ परमान्तरङ्गम् अनुत्तरङ्गम् निस्पन्दम् विधाय भवभीतिभङ्गम् विधातुम्
(यूयम्) गिरिजाभुजङ्गम् विभुम् भजध्वम् ।

पाश्यावशेनेव महाविहङ्गं वल्गाबलेनेव महातुरङ्गम् । निरुध्य योगेन मनःप्लवङ्गं विभुं भजध्वं
गिरिजाभुजङ्गम् ॥ २ ॥

अन्वय-पाश्यावशेन महाविहङ्गम् इव वल्गाबलेन महातुरङ्गम् इव योगेन मनःप्लवङ्गम् निरुध्य
गिरिजाभुजङ्गम् विभुम् भजध्वम् ।

मन्त्रौषधादिक्रियया भुजङ्गं यथा यथा वागुरया कुरङ्गम् । मनस्तथाऽऽयम्य धियाऽस्तसङ्गं
विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ३ ॥

अन्वय-यथा कश्चित् मन्त्रौषधादिक्रियया भुजङ्गम् आयच्छति यथा च वागुरया कुरङ्गम् आयच्छति तथैव
धिया (एकाग्रचित्तत्वरूपया) अस्तसङ्गम् मनः आयम्य गिरिजाभुजङ्गम् विभुम् भजध्वम् ।

भित्त्वाऽलिकं सभ्रुकुटीविभङ्गं यस्याऽग्निरुद्यत्रभसादनङ्गम् । ददाह तं मोहतमःपतङ्गं विभुं
भजध्वं गिरिजाभुजङ्गम् ॥ ४ ॥

अन्वय-यस्य सभ्रुकुटीविभङ्गम् अलिकम् भित्त्वा उद्यन् अग्निः रभसात् अनङ्गम् ददाह तम् मोहतमःपतङ्गम्
विभुम् गिरिजाभुजङ्गम् भजध्वम् ।

वहन्तमुद्दामभुजङ्गमङ्गं जटाभरं निर्भरनाकगङ्गम् । विलोचनं चाग्निशिखापिशङ्गं विभुं
भजध्वं गिरिजाभुजङ्गम् ॥ ५ ॥

अन्वय-उद्दामभुजङ्गम् अङ्गम् वहन्तम् निर्भरनाकगङ्गम् जटाभरम् वहन्तम् अग्निशिखापिशङ्गम् विलोचनम् च
वहन्तम् गिरिजाभुजङ्गम् विभुम् भजध्वम् ।

भवबन्धबद्धविधुरोद्धरणं फणिमण्डलज्वलदलङ्करणम् । व्रजत क्षमाधरदरीशरणं शरणं
तुषारकिरणाभरणम् ॥ ६ ॥

अन्वय-अयि भक्तिरसास्वादज्ञाः विद्वांसः ! (यूयम्) भवबन्धबद्धविधुरोद्धरणम्
फणिमण्डलज्वलदलङ्करणम् क्षमाधरदरीशरणम् तुषारकिरणाभरणम् शरणम् व्रजत !

कृतघस्मरस्मरनिराकरणं कटुकालकूटकवलीकरणम् । व्रजत प्रपन्नजनताशरणं शरणं
तुषारकिरणाभरणम् ॥ ७ ॥

अन्वय-अयि भावुकाः ! कृतघस्मरस्मरनिराकरणम् कटुकालकूटकवलीकरणम् प्रपन्नजनताशरणम्
तुषारकिरणाभरणम् शरणम् व्रजत ।

मरुमेदिनीरचितसंचरणं त्रिदशेन्द्रशेखरसरच्चरणम् । व्रजत त्रिदुःखहरणस्मरणं शरणं
तुषारकिरणाभरणम् ॥ ८ ॥

अन्वय-मरुमेदिनीरचितसंचरणम् त्रिदशेन्द्रशेखरसरच्चरणम् त्रिदुःखहरणस्मरणम्
तुषारकिरणाभरणम् शरणम् व्रजत ।

प्रणतं जनं जितजरामरणं रचयन्तमाप्तभवनिस्तरणम् । व्रजताऽऽहितत्रिपुरसंहरणं शरणं
तुषारकिरणाभरणम् ॥ ९ ॥

अन्वय-अयि भवभयभीताः अकिंचनाः ! (यूयम्) प्रणतम् जनम् जितजरामरणम् आप्तभवनिस्तरणम् (च)
रचयन्तम् आहितत्रिपुरसंहरणम् तुषारकिरणाभरणम् शरणम् व्रजत ।

अवधूत-मोह-तिमिरावरणं करिकृत्तिकल्पितपरावरणम् । व्रजत प्रकल्पितपुरेशरणं शरणं
तुषारकिरणाभरणम् ॥ १० ॥

अन्वय-अवधूतमोहतिमिरावरणम् करिकृत्तिकल्पितपरावरणम् प्रकल्पितपुरेशरणम् तुषारकिरणाभरणम्
शरणम् व्रजत ।

तरुणतमालमलीमसनालं ज्वलनशिखापटलोज्ज्वलभालम् । शिरसि लसत्परमेष्ठिकपालं श्रयत विभुं
हतकल्मषजालम् ॥ ११ ॥

अन्वय-अयि सहृदयाः (यूयम्) तरुणतमालमलीमसनालम् ज्वलनशिखापटलोज्ज्वलभालम् शिरसि
लसत्परमेष्ठिकपालम् हतकल्मषजालम् विभुम् श्रयत ।

नरमुखकल्पितशेखरमालं नतजनजम्भितमोहतमालम् । नयनशिखाशतशातितकालं श्रयत विभुं
हतकिल्विषजालम् ॥ १२ ॥

अन्वय-नर [नृणातीति नरः (नृ नये) नरा अत्र नेतारो ब्रह्मादयः तेषां महाप्रलयेषु संहारितानां
मुखैर्मुण्डैः कल्पिता शेखरमाला येन सः]मुखकल्पितशेखरमालम् नतजनजम्भितमोहतमालम्
नयनशिखाशतशातितकालम् हतकिल्विषजालम् विभुम् श्रयत ।

विषमविषाग्निशिखाविकरालं फणिपतिहारमतीवविशालम् । गलभुवि बिभ्रतमुग्रसिरालं श्रयत विभुं
हतकल्मषजालम् ॥ १३ ॥

अन्वय-विषमविषाग्निशिखाविकरालम् गलभुवि अतीवविशालम् फणिपतिहारम् विभ्रतम् उग्रसिरालम्
हतकल्मषजालम् विभुम् श्रयत ।

विदलयितुं यमृते भवतालं त्रिभुवनसीमनि कश्चन नाऽलम् । तममलमानसवासमरालं श्रयत विभुं
हतकिल्बिषजालम् ॥ १४ ॥

अन्वय-यम् ऋते त्रिभुवनसीमनि भवतालम् विदलयितुम् कश्चन न अलम् तम् अमलमानसवासमरालम्
हतकिल्विषजालम् विभुम् श्रयत ।

कमलपरागपिशङ्गजटालं जलधि-समर्पण-तर्पितबालम् । भवभटभङ्गमहाकरवालं श्रयत विभुं
हतकल्मषजालम् ॥ १५ ॥

अन्वय-कमलपरागपिशङ्गजटालम् जलधिसमर्पणतर्पितबालम् भवभटभङ्गमहाकरवालम्
हतकल्मषजालम् विभुम् श्रयत ।

अतिघस्मर-भस्मरजोधवलं नतलोकसमर्पितबोधबलम् । ध्वजधामविराजिमहाधवलं भजत
प्रभुमद्रिसुताधवलम् ॥ १६ ॥

अन्वय-अतिघस्मरभस्मरजोधवलम् नतलोकसमर्पितबोधबलम् ध्वजधामविराजिमहाधवलम् अद्रिसुताधवलम्
प्रभुम् भजत ।

प्रभया परिभूतदलद्गवलं गलमङ्गदरत्नशिखाशबलम् । दधतं विषकॢप्तमहाकवलं भजत
प्रभुमद्रिसुताधवलम् ॥ १७ ॥

अन्वय-प्रभया परिभूतदलद्गवलम् अङ्गदरत्नशिखाशवलम् गलम् दधतम् विषकॢप्तमहाकवलम्
अद्रिसुताधवलम् प्रभुम् भजत ।

शिखरं द्युनदीलहरीतरलं गलमूलमुपोढमहागरलम् । दधतं हृदयं च सुधासरलं भजत
प्रभुमद्रिसुताधवलम् ॥ १८ ॥

अन्वय-द्युनदीलहरीतरलम् शिखरम् दधतम् उपोढमहागरलम् गलमूलम् दधतम् सुधासरलम् हृदयम् च
दधतम् अद्रिसुताधवलम् प्रभुम् भजत ।

अपनीतकुकर्मकलङ्कमलं नतलोकवितीर्णमहाकमलम् । ददतं शुभसिद्धिविपाकमलं भजत
प्रभुमद्रिसुताधवलम् ॥ १९ ॥

अन्वय-अयि सहृदयाः ! अपनीतकुकर्मकलङ्कमलम् नतलोकवितीर्णमहाकमलम् अलम् शुभसिद्धिविपाकम् ददतम्
अद्रिसुताधवलम् प्रभुम् भजत ।

ददतं वचनं घनहासकलं नमतां दलयन्तमघं सकलम् । भजतां च दिशन्तमभीष्टफलं भजत
प्रभुमद्रिसुताधवलम् ॥ २० ॥

अन्वय-घनहासकलम् वचनम् ददतम् नमताम् सकलम् अघम् दलयन्तम् भजताम् च अभीष्टफलम् दिशन्तम् प्रभुम्
अद्रिसुताधवलम् भजत ।

अविरतनतिपरसुरवरशिखर- प्रणिहितमणिगणमसृणितचरणम् । सितकरकरभरधवलितमुकुटं प्रणमत
पुरहरमशरणशरणम् ॥ २१ ॥

अन्वय-अविरतनतिपरसुरवरशिखरप्रणिहितमणिगणमसृणितचरणम् सितकरकरभरधवलितमुकुटम्
अशरण-शरणम् पुरहरम् प्रणमत ।

भवभवपरिभवधुतविधुरधिया- मधिगतशम-दम-नियमितमनसाम् । अभिमतवितरणपरिणतकरुणं
प्रणमत पुरहरमशरणशरणम् ॥ २२ ॥

अन्वय-भवभवपरिभवधुतविधुरधियाम् अधिगतशमदमनियमितमनसाम् अभिमतवितरणपरिणतकरुणम्
अशरणशरणम् पुरहरम् प्रणमत ।

तनुतृणगणनिभमनसिजशमन- प्रशमनपरिचितहुतवहमहितम् । परहितकृतमतिमतिमृदुहृदयं प्रणमत
पुरहरमशरणशरणम् ॥ २३ ॥

अन्वय-तनुतृणगणनिभमनसिजशमनप्रशमनपरिचितहुतवहमहितम् परहितकृतमतिम् अतिमृदुहृदयम्
अशरणशरणम् पुरहरम् प्रणमत ।

दिनकर-हिमकर-हुतवहनयनं पदकरकचभरधृतसितकिरणम् । विघटित-नतजन-घनतम-तमसं
प्रणमत पुरहरमशरणशरणम् ॥ २४ ॥

अन्वय-दिनकरहिमकरहुतवहनयनम् पदकरकचभरधृतसितकिरणम् विघटितनतजनघनतमतमसम्
अशरणशरणम् पुरहरम् प्रणमत ।

अविरलजलभरसुरसरिदुदय- त्सरसिजभरनिभधृतनरशिरसम् । भवदवहुतवहविदलनजलदं प्रणमत
पुरहरमशरणशरणम् ॥ २५ ॥

अन्वय-अविरलजलभरसुरसरिदुदयत्सरसिजभरनिभधृतनरशिरसम् भवदवहुतवहविदलनजलदम्
अशरणशरणम् पुरहरम् प्रणमत ।

जहत कल्पितकलुषलोचनतिमिरभञ्जनमञ्जनं त्यजत दुःस्थितहृदयनन्दनमलयचन्दनरञ्जनम् । भजत
निर्जितविषमवैभव-भवमहार्णवमज्जनं क्षितिधराधिप [क्षितिधरापतिपुत्रिकापतिपादपङ्कजपूजनम्
इत्यपि साधुः पाठः] दुहितृवल्लभचरणपङ्कजपूजनम् ॥ २६ ॥

अन्वय-अयि बालिशाः जनाः ! (यूयम्) कल्पितकलुषलोचनतिमिरभञ्जनमञ्जनम् जहत
दुःस्थितहृदयनन्दनमलयचन्दनरञ्जनम् (अपि) त्यजत (किन्तु) निर्जितविषमवैभवभवमहार्णवमज्जनम्
क्षितिधराधिपदुहितृवल्लभचरणपङ्कजपूजनम् भजत ।

सकलकलिमलपटलपन्नगनिगडखण्डनपण्डितं विशदशशधरशकलशोभितमुकुटमण्डनमण्डितम् ।
हृदयमीहितुमभयमुन्मदमदनदुर्नृपदण्डितं भजतदुस्तरदुरितवारिधितर [वरतरण्ड]
तरण्डमखण्डितम् ॥ २७ ॥

अन्वय-अयि मन्दमतयः ! उन्मदमदनदुर्नृपदण्डितम् हृदयम् अभयम् ईहितुम्
सकलकलिमलपटलपन्नगनिगडखण्डनपण्डितम् विशदशशधरशकलशोभितमुकुटमण्डनमण्डितम्
अखण्डितम् दुस्तरदुरितवारिधितरतरण्डम् भजत ।

जितसुधाकरगिरिसुताकरसरसिजादरलालितं नतपुरंदररुचिरशेखरकुसुमकेसररञ्जितम् ।
द्रुहिण-माधव-कुमुदबान्धव-कमलिनीधव-सेवितं वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ २८


अन्वय-अयि भगवन् ! जितसुधाकरगिरिसुताकरसरसिजादरलालितम् नतपुरन्दररुचिरशेखरकुसुमकेसररञ्जितम्
द्रुहिणमाधवकुमुदबान्धव कमलिनीधवसेवितम् अमृतशीकरशीतलम् चरणपङ्कजम् (मम) मूर्धनि वितर ।

अवटमज्जनजनिततर्जनवृजिनभञ्जनसाधनं कृतनमज्जनहृदयरञ्जनचिरनिरञ्जनपूजनम् ।
त्रिपुरमारणदुरितदारणदरनिवारणकारणं वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ २९ ॥

अन्वय-अयि विभो ! अवटमज्जनजनिततर्जनवृजिनभञ्जनसाधनम्
कृतनमज्जनहृदयरञ्जनचिरनिरञ्जनपूजनम् त्रिपुरमारणदुरितदारणदरनिवारणकारणम्
अमृतशीकरशीतलम् (स्वीयम्) चरणपङ्कजम् (मम) मूर्धनि वितर ।

इदमकृत्रिमरसमसंभृतबहुविधौषधसाधनं स्तुतिरसायनमयमुपायनमनुगृहाण गृहाण मे ।
वरमुदाहर वरमुदा हर परमदाहरुजाहरं वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ ३० ॥

अन्वय-हे हर ! असंभृतबहुविधौषधसाधनम् अकृत्रिमरसम् स्तुतिरसायनमयम् मे (शरणागतस्य) इदम्
उपानहम् गृहाण अनुगृहाण (प्रसादं कुरु) तथा परमदाहरुजाहरम् वरम् वरमुदा (परमप्रीत्या)
उदाहर हे भगवन् ! अमृतशीकरशीतलम् चरणपङ्कजम् (मम) मूर्धनि वितर ।

इति श्रीप्रेममकरन्दसमेतं काश्मीरक-महाकवि-श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ नतोपदेशस्तोत्रं सम्पूर्णम्

द्वात्रिंशं स्तोत्रम्

भवमरुभ्रमविषमसंभ्रमसमुदितक्लमविक्लवं कुलिशकर्कशहृदयदुर्जनकृतपराभवविप्लवम् ।
अतिभयंकररविजकिङ्करविकृतहुङ्कृतिकातरं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ १ ॥

अन्वय-हे हर ! भवमरुभ्रमविषमसंभ्रमसमुदितक्लमविक्लवम्
कुलिशकर्कशहृदयदुर्जनकृतपराभवविप्लवम् अतिभयङ्कररविजकिङ्करविकृतहुङ्कृतिकातरम् अशरणम्
शरणागतम् जगद्धरम् (भवार्णवात्) चतुरम् (शीघ्रम्) उद्धर ।

कृतनिकेतनमकरकेतनदलितचेतनवेतनं ललितलोचनवरवधूजनवचनतर्जनभाजनम् ।
गुणलवोद्गतगुरुमदज्वरजनिततीव्ररुजातुरं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ २ ॥

अन्वय-हे हर ! कृतनिकेतनमकरकेतनदलितचेतनवेतनम् ललितलोचनवरवधूजनवचनतर्जनभाजनम्
गुणलवोद्गतगुरुमदज्वरजनिततीव्ररुजातुरम् अशरणम् शरणागतम् जगद्धरम् चतुरम् उद्धर ।

प्रमुखपेशलविषमवैशसविषयपाशवशीकृतं प्रकृतिदुर्ग्रहगुरुपरिग्रहनिबिडपीडितविग्रहम् ।
ज्वलदनर्गलभवदवानल-कवलिताकुलचेतसं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ३ ॥

अन्वय-हे हर ! प्रमुखपेशलविषमवैशसविषयपाशवशीकृतम्
प्रकृतिदुर्ग्रहगुरुपरिग्रहनिबिडपीडितविग्रहम् ज्वलदनर्गलभवदवानलकवलिताकुलचेतसम् अशरणम्
शरणागतम् (माम्) जगद्धरम् चतुरम् उद्धर ।

पवनवेल्लितकमलिनीदलतलचलज्जलचञ्चलं विभवयौवनसुतसुखादिकमितिविवेकविसंस्थुलम् ।
बलवदिन्द्रियकपटतस्करहठविलुण्ठनविह्वलं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ४


अन्वय-हे हर ! विभवयौवनसुतसुखादिकम् (सर्वम्) पवनवेल्लितकमलिनीदलतलचलज्जलचञ्चलम् (भवति)
इतिविवेकविसंस्थुलम् तथा बलवदिन्द्रियकपटतस्करहठविलुण्ठनविह्वलम् अशरणम् शरणागतम्
जगद्धरम् (त्वम्) चतुरम् उद्धर ।

समदनन्दनमदनमर्दन दुरिततर्दनलोलुभं भुवनभावन परमपावन सुदृढभावनमानतम् ।
शशिकलाञ्छितमुकुटलाञ्छित विफलवाञ्छितमाकुलं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम्
॥ ५ ॥

अन्वय-हे हर ! हे समदनन्दनमदनमर्दन ! हे भुवनभावन ! हे परमपावन ! हे
शशिकलाञ्छितमुकुटलाञ्छित ! (त्वम्) दुरिततर्दनलोलुभम् विफलवाञ्छितम् आकुलम् सुदृढभावनम् आनतम्
अशरणम् (माम्) शरणागतम् जगद्धरम् चतुरम् उद्धर ।

जगदनुग्रहमहितविग्रह कृतपरिग्रहसद्ग्रह त्रिपुरशासन शबलवासनमसदुपासनलालसम् ।
घनचमत्कृतिकृतनमस्कृतिमुचितसत्कृतिसस्पृहं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ६ ॥

अन्वय-अयि जगदनुग्रहमहितविग्रह ! हे त्रिपुरशासन ! हे हर ! कृतपरिग्रहसद्ग्रहम् शबलवासनम्
असदुपासनलालसम् घनचमत्कृतिकृतनमस्कृतिम् उचितसत्कृतिसस्पृहम् अशरणम् शरणागतम् (माम्) जगद्धरम्
चतुरम् उद्धर ।

वरद नन्दय विपदमर्दय किमिति निर्दयतेदृशी कृतनिवेदनमतुलवेदनमुदितखेदनवापदम् । दिश यशोधन
हृदयशोधन-विमलबोधनदीं दृशं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ७ ॥

अन्वय-हे वरद ! कृतनिवेदनम् अतुलवेदनम् उदितखेदनवापदम् (माम्) नन्दय विपदम् अर्दय हे नाथ ! (ते)
ईदृशी निर्दयता किमिति (भवति ?) हे यशोधन ! हृदयशोधनविमलबोधनदीम् दृशम् दिश हे हर !
अशरणम् शरणागतम् (माम्) जगद्धरम् चतुरम् उद्धर ।

अभयमर्पय कपटमल्पय शिरसि कल्पय मे पदं मुखमुदञ्चय वचनमञ्चय वरद वञ्चय मा नतम् ।
भृशमविश्रमकृतपरिश्रमशतमतिश्रमनिःसहं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ८


अन्वय-हे वरद ! अभयम् अर्पय कपटम् अल्पय मे शिरसि पदम् कल्पय मुखर उदञ्चय वचनम् अञ्चय (मुञ्च) ।
विभो ! नतम् (विनीतम् माम्) मा वञ्चय । भृशम् अविश्रमकृतपरिश्रमशतम् अतिश्रमनिःसहम् अशरणम्
शरणागतम् जगद्धरम् चतुरम् उद्धर ।

इति श्रीप्रेममकरन्दव्याख्योपेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ शरणागतोद्धरणं नाम द्वात्रिंशं स्तोत्रम् ।

त्रयस्त्रिंशं स्तोत्रम्

काञ्चीकाञ्चनकिङ्किणीकलकलः शिञ्जानमञ्जीरजो झाङ्कारः
सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः । वाग्देव्याः प्रचलस्ख [प्रचलोच्छलत्]
लद्भुजलताक्षेपक्वणत्कङ्कण-क्वाणश्चङ्कमणक्रमे विजयते चन्द्रार्धमौलेः स्तवः ॥ १ ॥

अन्वय-वाग्देवाः चङ्क्रमणक्रमे काञ्चीकाञ्चनकिङ्किणीकलकलः शिञ्जानमञ्जीरजः झाङ्कारः
सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः प्रचलस्खलद्भुजलताक्षेपक्वणत्कङ्कणक्वाणः
चन्द्रार्धमौलेः स्तवः विजयते ।

स्वामिन् वाङ्मयदेवता भगवती स्वेच्छाविहारक्रिया- क्रीडाकाननमाननं भव भवद्भक्तस्य नूनं
व्यधात् । नोचेन्नूतननूतनः प्रतिदिनं हृद्यः समुद्यन्क्रमा-दस्मिन्नुज्ज्वलवर्णकोमलपदन्यासः कथं
लक्ष्यते ॥ २ ॥

अन्वय-हे स्वामिन् ! हे भव ! नूनम् भगवती वाङ्मयदेवता भवद्भक्तस्य आननम्
स्वेच्छाविहारक्रियाक्रीडाकाननम् व्यधात् ? (एवम्) नो चेत् तर्हि अस्मिन् प्रतिदिनम् क्रमात् समुद्यन् नूतननूतनः
हृद्यः उज्ज्वलवर्णकोमलपदन्यासः कथम् लक्ष्यते ?

स्वैरं कैरविणीकुटुम्बकलिकालङ्कार सारस्वत-स्फारस्वारसिकप्रसादविशदस्वाधीनवाग्देवताः ।
धन्याः सत्कवयस्तव स्तवनिभात्त्वद्भक्तिभाजां विप- त्तापाऽपाकृतये दिशन्ति शिशिरस्निग्धाः
सुधाविप्रुषः ॥ ३ ॥

अन्वय-अयि कैरविणीकुटुम्बकलिकालङ्कार ! सारस्वतस्वारस्फारसिकप्रसादविशदस्वाधीनवाग्देवताः
धन्याः सत्कवयः तव स्तवनिभात् (स्तुतिव्याजात्) त्वद्भक्तिभाजाम् विपत्तापाऽपाकृतये स्वैरम्
शिशिरस्निग्धाः सुधाविप्रुषः (अमृतकणान्) दिशन्ति ।

यस्य त्वन्नमनैः शिरोदशशती सौन्दर्यसंदर्शनै- श्चारित्रश्रवणोत्सवैश्च
भवतश्चक्षुःसहस्रद्वयम् । साफल्यं रसनासहस्रयुगलं त्वत्कीर्तनैश्चाश्नुते त्रैलोक्याद्भुतमूर्तये
भगवते शेषाय तस्मै नमः ॥ ४ ॥

अन्वय-हे भगवन् ! यस्य शिरोदशशती त्वन्नमनैः साफल्यम् अश्नुते चक्षुःसहस्रद्वयम् च भवतः
सौन्दर्यसन्दर्शनैः चारित्रश्रवणोत्सवैः च साफल्यम् अश्नुते रसनासहस्रयुगलम् च त्वत्कीर्तनैः
साफल्यम् अश्नुते तस्मै त्रैलोक्याद्भुतमूर्तये भगवते शेषाय नमः ।

राकेन्दोरपि माधवादपि सतां सङ्गादपि स्वामिनः सम्मानादपि कामिनीकुचयुगाभोगोपभोगादपि । शम्भो
शर्व शशाङ्कशेखर शिव श्रीकण्ठ विश्वेश्वर त्रायस्वेति सतां हरन्ति हृदयं सान्द्रामृतार्द्रा
गिरः ॥ ५ ॥

अन्वय-हे शंभो ! शर्व ! शशाङ्कशेखर ! शिव ! श्रीकण्ठ ! विश्वेश्वर ! (माम्) त्रायस्व इति सताम्
सान्द्रामृतार्द्राः गिरः राकेन्दोः अपि माधवात् अपि सताम् सङ्गात् अपि स्वामिनः सम्मानात् अपि
कामिनीकुचयुगाभोगोपभोगात् अपि (अधिकम्) हृदयम् हरन्ति !

श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिका- काश्मीरादिनिरादरं मलयजालेपावलेपावहम् । कुर्वन्ति
प्रविधूतनूतनवधूगाढाङ्गसङ्गस्पृहं चेतः कस्य न शाम्भवस्तवसुधासिक्ताः सतां सूक्तयः ॥ ६


अन्वय-शांभवस्तवसुधासिक्ताः सताम् सूक्तयः कस्य चेतः श्यामाकामुकमाधवादिविरसम्
नासीरकस्तूरिकाकाश्मीरादिनिरादरम् मलयजालेपावलेपात्रहम् प्रविधूतनूतनवधूगाढाङ्गसङ्गस्पृहम्
न कुर्वन्ति ?

यस्यैताः स्तवसूक्तयस्तव मुखे खेलन्ति हेलाजित-ज्वालाजालजटालकालरसनासंरम्भसंभावनाः ।
वल्गन्त्यस्य पुरः पुरन्दरपुरीकान्ताकटाक्षच्छटा- बाणश्रेणि-शरव्य-दिव्य-वपुषः स्वर्वन्दिवृन्दोक्तः
॥ ७ ॥

अन्वय-हे भगवन् ! हेलाजितज्वालाजालजटालकालरसनासंरंभसंभावनाः एताः तव स्तवसूक्तयः
यस्य मुखे खेलन्ति अस्य पुरन्दरपुरीकान्ताकटाक्षच्छटाबाणश्रेणिशरव्यदिव्यवपुषः पुरः
स्वर्वन्दिवृन्दोक्तयः वल्गन्ति (उल्लसन्ति) ।

हर्षोत्कर्षविवर्द्धिनीः परिणतक्षौद्रद्रवस्पर्धिनी- र्धन्यानां मधुरास्तव स्तवगिरः कर्णे चिरं
कुर्वताम् । मान्द्यं विन्दति नन्दनेन्दुवदनासंदिग्धमुग्धाधर-प्रोन्मीलन्मधुबिन्दुसुन्दरसुधा-संदोहदो
दोहदः ॥ ८ ॥

अन्वय-अयि विभो ! हर्षोत्कर्षविवर्द्धिनीः परिणतक्षौद्रद्रवस्पर्द्धिनीः तव मधुराः स्तवगिरः चिरम्
कर्णे कुर्वताम् धन्यानाम् नन्दनेन्दुवदनासंदिग्धमुग्धाधरप्रोन्मीलन्मधुबिन्दुसुन्दरसुधा-संदोहदः
दोहदः मान्द्यम् विन्दति !

सद्विद्याभ्यसनः सभानिवसनः सौधासनाध्यासनः शुद्धान्नग्रसनः सुधौतवसनः
सत्साध्वसध्वंसनः । सह्लादोल्लसनः प्रसन्नहसनः संपन्नसद्वासनः सत्काव्यव्यसनः
सुधार्द्ररसनः शंभोः कृतोपासनः ॥ ९ ॥

अन्वय-शंम्भोः कृतोपासनः (श्रीसदाशिवसेवकः) सद्विद्याभ्यसनः सभानिवसनः सौधासनाध्यासनः
शुद्धान्नग्रसनः सुधौतवसनः सत्साध्वसध्वंसनः सह्लादोल्लसनः प्रसन्नहसनः संपन्नसद्वासनः
सत्काव्यव्यसनः सुधार्द्ररसनः (भवति) ।

राकाकान्तरुचः क्षताखिलशुचः पीयूषधारामुचः स्वान्तक्लान्तिहृतश्चमत्कृतिकृतः
सङ्गीतभङ्गीभृतः । शंभोरम्बुदनादविह्वलवलद्बालाङ्गनालिङ्गन- ह्लादस्वादसुखस्पृहामिह
जहत्त्यन्तर्मृशन्तः स्तुतीः ॥ १० ॥

अन्वय-इह (संसारे) राकाकान्तरुचः क्षताखिलशुचः पीयूषधारामुचः स्वान्तक्लान्तिहृतः
चमत्कृतिकृतः सङ्गीतभङ्गीभृतः शंभोः स्तुतीः अन्तः (मनसि) मृशन्तः (धन्याः)
अम्बुदनादविह्वलवलद्बालाङ्गनालिङ्गनह्लादस्वादसुखस्पृहाम् जहति ।

सारासारविदः सतां भयभिदः प्रह्वोपतापच्छिदः कारुण्यार्द्रहृदः प्रसन्नसुहृदः
स्फारीभवत्संविदः । त्राताशेषविशः प्रकाशितदिशः कीर्त्या महीनिर्विशः कर्षन्तीश निशः
प्रसक्तसुदृशस्त्वत्पादपीठस्पृशः ॥ ११ ॥

अन्वय-हे ईश ! सारासारविदः सताम् भयभिदः प्रह्वोपतापच्छिदः कारुण्यार्द्रहृदः प्रसन्नसुहृद
स्फारीभवत्संपदः त्राताशेषविशः कीर्त्या प्रकाशितदिशः महीनिर्विशः त्वत्पादपीठस्पृशः
प्रसक्तसुदृशः निशः कर्षन्ति ।

दुर्धर्षर्द्धिपुषः सहर्षवपुषस्तर्षप्रकर्षप्लुषः- सर्वोत्कर्षजुषः क्षणक्षतरुषः
कल्याणपूर्णायुषः । उत्सर्पत्सहसः समिद्धमहसः क्षिप्तोर्जितानेहस- श्चित्तान्तप्रहसः
सुखाप्तरहसस्त्वद्ध्यानधौतांहसः ॥ १२ ॥

अन्वय-हे भगवन् ! त्वद्ध्यानधौतांहसः (धन्याः) दुर्द्धर्षर्द्धिपुषः सहर्षवपुषः
तर्षप्रकर्षप्लुषः सर्वोत्कर्षजुषः क्षणक्षतरुषः कल्याणपूर्णायुषः उत्सर्पत्सहसः
समिद्धमहसः क्षिप्तोर्जितानेहसः चित्तान्तप्रहसः सुखाप्तरहसः (भवन्ति) ।

कालं बालकुरङ्गकेतनकृतोत्तंसप्रशंसामृत- स्यन्दास्वादविनोदनैर्यदनयन्निःस्पन्द-मन्दं मनः ।
तस्यान्यत्र कविक्रमे कमलिनीकिञ्जल्कपानोत्सव- व्यग्रस्येव मधुव्रतस्य कुसुमेऽन्यस्मिन्कथं स्याद्रतिः ॥ १३


अन्वय-निःस्पदमन्दम् यन्मनः बालकुरङ्गकेतनकृतोत्तंसप्रशंसामृतस्यन्दास्वादविनोदनैः कालम् अनयत्
(अतिवाहयामास) तस्य कमलिनीकिञ्जल्कपानोत्सवव्यग्रस्यं मधुव्रतस्य अन्यस्मिन् कुसुमे इव अन्यत्र कविक्रमे
रतिः कथम् स्यात् ?

खट्वाङ्गे मुकुटे करे श्रवणयोः प्रायेण यो भूषणं ब्रह्मोपेन्द्रपुरःसरामरशिरःश्रेणिं बिभर्ति
प्रभुः । तत्पादाम्बुजभक्तिभावितमतिर्धन्यः शिरोभूषण- ख्यातिं निश्चितमश्नुते
त्रिभुवनप्रष्ठप्रतिष्ठाजुषाम् ॥ १४ ॥

अन्वय-यः प्रभुः प्रायेण खट्वाङ्गे मुकुटे करे श्रवणयोः (च) ब्रह्मोपेन्द्रपुरःसरामरशिरःश्रेणिम्
भूषणम् बिभर्ति तत्पादाम्बुजभक्तिभावितमतिः धन्यः त्रिभुवनप्रष्ठप्रतिष्ठाजुषाम्
शिरोभूषणख्यातिम् निश्चितम् अश्नुते ।

रोहन्मोहमहीरुहोरुपरशुर्दुर्वारमारज्वर- प्लोषोल्लाघभिषग्विषौघ-विषम-क्लेशोग्रशापावधिः ।
ताम्यल्लोचनचक्रवाकमिथुनब्रध्नोदयश्चन्द्रिका- पूरश्चित्तचकोरकस्य जयति श्रीकण्ठपूजाविधिः ॥ १५ ॥

अन्वय-रोहन्मोहमहीरुहोरुपरशुः दुर्वारमारज्वरप्लोषोल्लाघभिषक् विषौघविषमक्लेशोग्रशापावधिः
ताम्यल्लोचनचक्रवाकमिथुनब्रध्नोदयः चित्तचकोरकस्य चन्द्रिकापूरः (एवंभूतः) श्रीकण्ठपूजाविधिः
जयति ।

अर्चां वीक्ष्य विचित्रचारुरचनां चन्द्रार्धचूडामणे- र्व्यक्तिं भक्तिचमत्कृतिः कृतधियो यस्यैति चित्ते
मुहुः । तस्मिन्सस्पृहमर्पिताः सचकिताः साचीकृताः सस्मिताः साकूताश्च पतन्ति पक्ष्मलदृशां
प्रेमामृतार्द्रा दृशः ॥ १६ ॥

अन्वय-चन्द्रार्धचूडामणेः विचित्रचारुरचनाम् अर्चाम् वीक्ष्य यस्य कृतधियः चित्ते भक्तिचमत्कृतिः मुहुः
व्यक्तिम् एतिः तस्मिन् पक्ष्मलदृशाम् सस्पृहम् अर्पिता सचकिताः साचीकृताः सस्मिताः साकूताः च
प्रेमामृतार्द्राः दृशः पतन्ति ।

स्वामिन् सौमनसं निबध्य वपुषि स्रग्दाम दृग्दामभि-र्भस्मीभावितमन्मथस्य भवतो भिन्दन्ति
भक्तिस्पृशः । दोलान्दोलनविह्वलेन्दुवदनादोःकन्दलीचन्दन- स्यन्दानन्दनिमीलितार्धनयनास्तापव्यथां
मान्मथीम् ॥ १७ ॥

अन्वय-हे स्वामिन् ! दृग्दामभिः भस्मीभावितमन्मथस्य भवतः भक्तिस्पृशः वपुषि सौमनसम् स्रग्दाम
निबध्य दोलान्दोलन-विह्वलेन्दुवदनादोः-कन्दलीचन्दनस्यन्दानन्दनिमीलितार्धनयनाः (सन्तः) मान्मथीम्
तापव्यथाम् भिन्दन्ति ।

स्वामिन् यस्तव पादपङ्कजयुगं भक्त्याऽभ्यषिञ्चन्मुहुः पूजान्तेषु नमन्नमन्दमुदितानन्दाश्रुलेशोत्करैः
। तस्यांघ्री ललिताक्षिपक्ष्मपटलप्रान्तस्रुतार्णःकण- श्रेणीभिः स्नपयन्त्यनङ्गविगलन्मानाः
कुरङ्गीदृशः ॥ १८ ॥

अन्वय-हे स्वामिन् ! यः पूजान्तेषु नमन् भक्त्या तव पादपङ्कजयुगम् अमन्दमुदितानन्दाश्रु लेशोत्करैः
मुहुः अभ्यषिञ्चन् तस्य अङ्घ्री अनङ्गविगलन्मानाः कुरङ्गीदृशः ललिताक्षिपक्ष्मपटलप्रान्तस्रु
तार्णःकणश्रेणीभिः स्नपयन्ति ।

त्वामक्षामशुभानुभावविभवं भालाग्निकीलावली-संरम्भादभियोक्तुमक्षमतया साक्षादुपेक्ष्य स्मरः
। नूनं हन्ति निरन्तरं भव भवत्सेवैकहेवाकिनं
कर्णाभ्यर्णवलत्कटाक्षविशिखश्रेणीभिरेणीदृशाम् ॥ १९ ॥

अन्वय-हे भव ! भालाग्निकीलावलीसंरम्भात् (हेतोः) साक्षात् अभियोक्तुम् अक्षमतया
अक्षामशुभानुभावविभवम् त्वाम् उपेक्ष्य स्मरः नूनम् भवत्सेवैकहेवाकिनम् एणीदृशाम्
कर्णाभ्यर्णवलत्कटाक्षविशिखश्रेणीभिः निरन्तरम् हन्ति !

आदौ भक्तिवयस्यया परिचयान्नीतोन्मुखत्वं शनै- रारूढा विषमेषुवर्त्मसु चिरं भ्रान्ताऽथ तान्तेः
पदम् । दूतीकृत्य नवानवद्यवचसं देवीं पुरो भारती- मेषा त्वामुपगन्तुमिच्छति पतिं प्रोद्दामकामा
मतिः ॥ २० ॥

अन्वय-आदौ भक्तिवयस्यया परिचयात् (विद्यासंस्कारात् हेतोः) शनैः उन्मुखत्वम् नीता (ततः)
विषमेषुवर्त्मसु आरूढा चिरम् भ्रान्ता अथ तान्तेः (ग्लानेः) पदम् (जाता) एषा प्रोद्दामकामा (मम)
मतिः नवानवद्यवचसम् भारतीम् देवीम् पुरः दूतीकृत्य त्वाम् पतिम् उपगन्तुम् इच्छति ।

धूमोद्गारगभीरघस्मरवपुर्निर्भर्त्सितार्कप्रभं स्फूर्जत्फूत्कृतकर्बुरीकृतसितश्रीकान्तदेहद्युति ।
ग्रासीकर्त्तुमुदग्र-विग्रहगलद्वह्निस्फुलिङ्गं विषं को जग्राह करेऽमरेश्वरनुतस्त्वामन्तरेणाऽपरः ॥
२१ ॥

अन्वय-हे भगवन् ! त्वाम् अन्तरेण कः अमरेश्वरनुतः अपरः
धूमोद्गारगभीरघस्मरवपुर्निर्भर्त्सितार्कप्रभम् स्फूर्जत्फूत्कृतकर्बुरीकृतसितश्रीकान्तदेहद्युति
उदग्रविग्रहगलद्वह्निस्फुलिङ्गम् विषम् ग्रासीकर्त्तुम् करे जग्राह ?

क्रोधोद्भ्रान्तकृतान्तकिङ्करकरद्रोणीमुखप्रेङ्खित- व्यालालिङ्गितकन्धरः प्रकटयन्नाक्रन्ददीनां गिरम्
। चक्षुर्दिक्षु विदिक्षु च क्षतधृतिर्निक्षिप्य रक्षाक्षमं कांक्षन्कं शरणं वृणोति मरणे
त्वामन्तरेणातुरः ॥ २२ ॥

अन्वय-हे विभो ! क्रोधोद्भ्रान्तकृतान्तकिङ्करकरद्रोणीमुखप्रेङ्खितव्यालालिङ्गितकन्धरः आक्रन्ददीनाम्
गिरम् प्रकटयन् दिक्षु विदिक्षु च चक्षुः निक्षिप्य रक्षाक्षमम् कांक्षन् क्षतधृतिः आतुरः मरणे त्वाम्
अन्तरेण कम् शरणम् वृणोति ?

वर्षन्ती भवदोषपोषपरुषप्लोषप्रमोषक्षमं पीयूषं विशदांशुभिर्दश [..डशनांशुभिः]
दिशत्काशप्रकाशा दिशः । कर्षन्ती विषमं तमः प्रमथितालोकस्य लोकस्य गी- श्चान्द्री मूर्ध्नि कलेव
देव भवतो वक्त्रे विधत्तां पदम् ॥ २३ ॥

अन्वय-हे प्रभो ! विशदांशुभिः भवदोषपोषपरुषप्लोषप्रमोषक्षमम् पीयूषम् वर्षन्ती
प्रमथितालोकस्य लोकस्य विषमं तमः कर्षन्ती दश दिशः दिशत्काशप्रकाशा गीः (अभयवचनम्)
भवतः मूर्ध्नि चान्द्री कला इव भवतः वक्त्रे पदम् विधत्ताम् ।

यत्पर्याप्तकृपाविपाकविकसन्माधुर्यधुर्यं तव स्वान्तं भीमभवोपतापविपदि स्फीताऽवहेलं मयि ।
स्वामिन्नेष विधिर्ममैव विधुरो दूराध्वखिन्नो जन- स्तीराद्रत्ननिधेर्व्यपैति विफलः स्वैरेव दुष्कर्मभिः
॥ २४ ॥

अन्वय-हे स्वामिन् ! यत् (यस्मात्) पर्याप्तकृपाविपाकविकसन्माधुर्यधुर्यम् तव स्वान्तम् भीमभवोपतापविपदि
मयि स्फीताऽवहेलम्(भवति) एषः मम एव विधिः विधुरः (अस्ति हि-) दूराध्वखिन्नः जनः रत्ननिधेः
तीरात् स्वैः एव दुष्कर्मभिः विफलः व्यपैति ।

यत्सौन्दर्यसमुद्रसान्द्रलहरीहेलाचलच्चामर- व्यग्राङ्गाङ्गुलिबालमालववधूदृक्पातपात्रं वपुः ।
सेवासन्निधिशंसिसंभ्रमनमत्सामन्तमौलिस्थली- लीढाङ्घ्रिद्वय-मुद्वहन्ति कृतिनः
सौभाग्यभाग्यास्पदम् ॥ २५ ॥

अन्वय-कृतिनः यत्
सौन्दर्यसमुद्रसान्द्रलहरीहेलाचलच्चामरव्यग्राङ्गाङ्गुलिबालमालव-वधूदृक्पातपात्रम्
सेवासन्निधिशंसिसंभ्रमनमत्सामन्तमौलिस्थलीलीढाङ्घ्रिद्वयम् सौभाग्यभाग्यास्पदम् वपुः उद्वहन्ति ।

यच्च प्रेङ्खदखर्वगर्वघटितभ्रू
भङ्गभीमाकृति-क्ष्माभृत्पाशमुखावलोकनघनप्रोल्लङ्घनाभीरुभिः । उन्मीलन्मृदुशाद्वले तरुतले
स्वर्ल्लोककल्लोलिनी- कूले मूलफलाशनैः शमसुधास्वादार्थिभिः स्थीयते ॥ २६ ॥

अन्वय-यत् च
प्रेङ्खदखर्वगर्वघटितभ्रूभङ्गभीमाकृतिक्ष्माभृत्पाशमुखा-वलोकनघनप्रोल्लङ्घनाभीरुभिः
शमसुधास्वादार्थिभिः (सद्भिः) उन्मीलन्मृदुशाद्वले स्वर्ल्लोककल्लोलिनीकूले तरुतले मूलफलाशनैः
स्थीयते ।

यच्चाऽस्मिन्भवडम्बरे परिणमन्मन्दानिलान्दोलन- व्यालोलन्नलिनीदलाञ्चलचलप्रालेयलेशोपमे ।
दुष्कालव्यसनावसन्नजनतासन्तापनिर्वापण- व्यापारैकसुकर्मनिर्मलफलारम्भैः सुखम् जीव्यते ॥ २७ ॥

अन्वय-यच्च परिणमन्मन्दानिलान्दोलनव्यालोलन्नलिनीदलाञ्चलचलप्रालेयलेशोपमे अस्मिन् भवडम्बरे
दुष्कालव्यसनावसन्नजनतासंतापनिर्वापणव्यापारैकसुकर्मनिर्मल-फलारम्भैः (सद्भिः) सुखम् जीव्यते


निःशङ्कं विकलङ्कमङ्कविकसल्लक्ष्मीकटाक्षेक्षितं यन्मानुष्यमुपेत्य नित्यमुदिता नन्दन्ति दन्तिव्रजैः
। यच्चान्ते पुरुहूतवारवनितागीतामृताकर्णन- प्रोन्मीलत्पुलकावकीर्ण-वपुषः स्वर्मध्यमध्यासते ॥ २८


अन्वय-अङ्कविलसल्लक्ष्मीकटाक्षेक्षितम् विकलङ्कम् मानुष्यम् उपेत्य नित्यमुदिताः (सन्तः) निःशङ्कम्
दन्तिव्रजैः नन्दन्ति । यच्च-पुरुहूतवारवनितागीतामृताकर्णनप्रोन्मीलत्पुलकावकीर्णवपुषः (सन्तः)
अन्ते स्वर्मध्यम् अध्यासते ।

सोऽयं सर्वजगत्प्रभोरशरणत्राणैकहेवाकिनः कारुण्यामृतसागरस्य गिरिजाभर्तुः परोऽनुग्रहः ।
कस्तं न स्तुतिभिर्विमर्शरसिकः प्रौढार्पितप्रीतिभिः प्राप्तुं शर्मदकर्मनिर्मलफलं
नन्दत्यमन्दादरः ॥ २९ ॥ (पञ्चभिः कुलकम्)

अन्वय-सः अयम् (सर्वोऽपि) सर्वजगत्प्रभोः अशरणत्राणैकहेवाकिनः कारुण्यामृतसागरस्य गिरिजाभर्तुः
परः अनुग्रहः (अस्ति तदेवंभूतम्) शर्मदकर्मनिर्मलफलम् तम् (श्रीशिवप्रसादम्) प्रौढार्पितप्रीतिभिः
स्तुतिभिः प्राप्तुम् कः अमन्दादरः विमर्शरसिकः न नन्दति ?

दृष्टिः पीयूषवृष्टिर्मधुरमधुरसस्यन्दिनी देव वाणी पाणी
त्वत्पादपीठीपरिमलनरजोराजिमैत्रीपवित्रौ । चेतः स्वच्छन्दचर्यापरिणतकरुणारामविश्रामधाम
त्वामक्षामप्रसादामृतजलधिमहो भेजुषामेष पाकः ॥ ३० ॥

अन्वय-हे देव ! पीयूषवृष्टिः दृष्टिः मधुरमधुरसस्यन्दिनी
वाणीत्वत्पादपीठीपरिमलनरजोराजिमैत्रीपवित्रौ पाणी स्वच्छन्दचर्यापरिणतकरुणारामविश्रामधाम
चेतः अहो ! एषः पाकः त्वाम् अक्षामप्रसादामृतजलधिम् भेजुषाम् (भवति) ।

तस्यैकस्यांघ्रिपीठं स्फुटमुकुटमणिप्रौढरोचिःप्रतानैः क्षोणीपालाः शिरोभिः
करपुटघटितैरञ्जसा रञ्जयन्ति । धत्ते धन्यः स चैकः सितरुचिरुचिरच्छत्रशुभ्रोत्तरीयां
लक्ष्मीमुद्दामरामाकरकमलचलच्चामरोदारहाराम् ॥ ३१ ॥

तं वाणीभिर्गृणन्ति श्रवणपुटसुधास्यन्दिनीभिर्मुनीन्द्रा गीतैर्गायन्ति विद्याधरवरवनितास्तस्य
चित्रं चरित्रम् । विद्वद्गोष्ठीषु तस्य प्रसरति कृतिनो दानदाक्षिण्यवार्ता कीर्तिर्जागर्ति तस्य
प्रवरकविवचोभङ्गिसन्मङ्गलेषु ॥ ३२ ॥

किं वाऽन्यन्नैष पश्यत्यलमनलशिखापिङ्गजिह्वास्फुलिङ्ग- स्फूर्जद्दंष्ट्राकरालं भ्रुकुटिकुटिलितं
भीषणं कालवक्त्रम् । स्वामिन्मन्दानिलान्दोलितललितलतानृत्तकान्ते वनान्ते
शान्तेर्ष्यस्त्वामविद्याजडजगदगदंकारमाराधयेद्यः ॥ ३३ ॥ (तिलकम्)

अन्वय-क्षोणीपालाः तस्य एकस्य (धन्यस्य) अंघ्रिपीठम् स्फुटमुकुटमणिप्रौढरोचिःप्रतानैः
करपुटघटितैः शिरोभिः अञ्जसा रञ्जयन्ति सः च एकः धन्यः सितरुचिरुचिरच्छत्रशुभ्रोत्तरीयाम्
उद्दामरामाकरकमलचलच्चामरोदारहाराम् लक्ष्मीम् धत्ते । मुनीन्द्राः श्रवणपुटसुधास्यन्दिनीभिः
वाणीभिः तम् गृणन्ति विद्याधरवरवनिताः तस्य चित्रम् चरित्रम् गीतैः गायन्ति । विद्वद्गोष्ठीषु तस्य
कृतिनः दानदाक्षिण्यवार्ता प्रसरति प्रवरकविवचोभङ्गिसन्मङ्गलेषु तस्य कीर्तिः जागर्ति । किम् वा अन्यत्
(भवति) एषः अलम् अनलशिखापिङ्गजिह्वास्फुलिङ्गस्फूर्जद्दंष्ट्राकरालम् भ्रुकुटिकुटिलितम् भीषणम्
कालवक्त्रम् न पश्यति । हे स्वामिन् ! यः शान्तेर्ष्यः मन्दानिलान्दोलितललितलतानृत्तकान्ते वनान्ते त्वाम्
अविद्याजडजगदगदंकारम् आराधयेत् ।

आकर्णाकृष्टचापः प्रहरति निभृतं निर्निमित्तापकारी नारीनेत्रान्ततिर्यग्विवलनविशिखश्रेणिभिः
पुष्पचापः । फूत्कारस्फारफालः स्फुरदुरुगरलज्वालजिह्वाजटालः कालव्यालः करालः कवलयति
वपुर्हन्तुकामः क्व यामः ॥ ३४ ॥

तस्मादस्माकमाकस्मिकविकसदसत्कर्मपाकोपताप- व्यापत्तापातुराणाम-विरलकरुणासिन्धुरापन्नबन्धुः ।
भक्तिश्रद्धाप्रबन्धानमदमरशिरःश्रेणिमाणिक्यमाला-ज्वालालीढांघ्रिपीठः
शरणमशरणत्राणशीलस्त्वमेकः ॥ ३५ ॥ (युग्मम्)

अन्वय-निर्निमित्तापकारी पुष्पचापः आकर्णाकृष्टचापः सन् नारीनेत्रान्ततिर्यग्विवलनविशिखश्रेणिभिः
निभृतम् प्रहरति । फूत्कारस्फारफालः स्फुरदुरुगरलज्वालजिह्वाजटालः हन्तुकामः करालः
कालव्यालः वपुः कवलयति (वयम्) क्व यामः ? तस्मात् (हे प्रभो !)
आकस्मिकविकसदसत्कर्मपाकोपतापव्यापत्तापातुराणाम् अस्माकम् अविरलकरुणासिन्धुः आपन्नबन्धुः
भक्तिश्रद्धाप्रबन्धानमदमरशिरःश्रेणिमाणिक्यमालाज्वाला-लीढांघ्रिपीठः अशरणत्राणशीलः
एकः त्वम् (एव) शरणम् (भवसि) ।

या निःशेषौषधीनां जनिरजनि पुनर्न क्वचित्कम्पसम्प- त्सम्पर्को यत्र यत्र स्थितिरुपरि
परिभ्रंशभाजां जनानाम् । एषा शेषाहिपीठप्रकटितवसतिः संपदां भूतधात्री
पात्रीकुर्वत्यजस्रं जनमनघमघः प्रक्रमस्ते नमस्ते ॥ ३६ ॥

अन्वय-या निःशेषौषधीनाम् जनिः (उत्पत्तिस्थानम्) पुनः यत्र (यस्याम्) क्वचित् (अपि) कम्पसम्पत्संपर्कः न
अजनि यत्र च परिभ्रंशभाजाम् जनानाम् उपरि स्थितिः (भवति) सा शेषाहीपीठप्रकटितवसतिः एषा
भूतधात्री अजस्रम् जनम् सम्पदाम् पात्रीकुर्वती (आदिमूर्तिनिर्माणप्रारम्भे) ते अनघमघः (अनघो
मघो-महिमा यस्य सः) प्रक्रमः (भवति) तस्मै ते नमः (अस्तु) ।

संसारेऽस्मिन्नसारे परमिह कुशलं कर्म धर्मप्रधानं धर्मः शर्मप्रदोऽपि प्रभवति सुधियां
सिद्धये शुद्धिहेतोः । शुद्धौ बद्धस्पृहाणां न भवति कृतिनां
यद्विनाऽऽपद्विनाश-स्त्रैलोक्याप्यायकं तज्जलमपि भगवन् विभ्रमस्ते नमस्ते ॥ ३७ ॥

अन्वय-अस्मिन् परम् असारे संसारे धर्मप्रधानम् कर्म कुशलम् (भवति) शर्मप्रदः अपि धर्मः इह
शुद्धिहेतोः सुधियाम् सिद्धये प्रभवति शुद्धौ बद्धस्पृहाणाम् कृतिनाम् यद्विना आपद्विनाशः न भवति हे
भगवन् ! त्रैलोक्याप्यायकम् तत् जलम् अपि (यस्य) ते विभ्रमः (अस्ति) तस्मै ते नमः (अस्तु) ।

यं मुक्त्वा जीवयन्तं जगदगदमदः सन्ततं सन्तमन्त- र्जन्तूनां शीतभीतिप्रकटितविपदामस्ति न
स्वस्तिहेतुः । गीर्वाणानां हविर्भिर्ग्लपयति विपदं यज्वनामप्यनल्पैः संकल्पैः कल्पितैर्यः स भवति
विभवः पावकस्ते नमस्ते ॥ ३८ ॥

अन्वय-हे विभो ! सन्ततम् (जठराग्निरूपेण) जन्तूनाम् अन्तः सन्तम् अगदम् अदः जगत् जीवयन्तम् यम् (पावकम्)
मुक्त्वा शीतिभीतिप्रकटितविपदाम् जन्तूनाम् स्वस्तिहेतुः (अन्यः कोऽपि) न अस्ति । यः गीर्वाणानाम्
(अतृप्तिरूपाम्) विपदम् हविर्भिः ग्लपयति अनल्पैः कल्पितैः सङ्कल्पैः यज्वनाम् अपि विपदम् ग्लपयति सः
पावकः (यस्य) ते विभवः (ऐश्वर्यमूर्तिरूपम्) भवति तस्मै ते नमः अस्तु ।

अन्तः सन्तिष्ठमानः स्थगयति जगतां पञ्चतां पञ्चधा यः संधाय स्थायिभावं प्रसरति सततं
यत्र तेजस्विचक्रम् । यत्र स्थैर्यं बिभर्ति त्रिभुवनभवनं बिभ्रदाधारभूतां भूतानां मूर्तिमेष
प्रथयति विभुतां मारुतस्ते नमस्ते ॥ ३९ ॥

अन्वय-हे भगवन् ! पञ्चधा (प्राणापानादिभिः पञ्चभिर्भेदैः) अन्तः (देहे) सन्तिष्ठमानः यः
(मारुतः) जगताम् पञ्चताम् स्थगयति तथा-यत्र सन्ततम् स्थायिभावम् संधाय तेजस्विचक्रम् प्रसरति यत्र
च त्रिभुवनभवनम् स्थैर्यम् बिभर्ति (असौ) भूतानाम् आधारभूताम् मूर्तिम् बिभ्रत् एषः मारुतः (यस्य) ते
विभुताम् प्रथयति (तस्मै) ते नमः अस्तु ।

यत्र ब्रह्माण्डपिण्डः प्रसरति सरलालाबुतुम्बीविडम्बी स्थैर्यं झाङ्कारि वारि प्रथयति तदपि
स्कन्धबन्धेषु यस्य । सोऽपि स्फारेण भर्तुं प्रभवति पवनो यस्य नोद्देशलेशं धाम्नामाधारभूतं
भव भवति वपुस्तन्नभस्ते नमस्ते ॥ ४० ॥

अन्वय-हे भव ! यत्र (यस्मिञ्जले) सरलालाबुतुम्बीविडम्बी ब्रह्माण्डपिण्डः प्रसरति तत् अपि झाङ्कारि
वारि यस्य (पवनस्य) स्कन्धबन्धेषु स्थैर्यम् प्रथयति सः अपि पवनः स्फारेण यस्य (नभसः)
उद्देशलेशम् भर्तुम् न प्रभवति तत् नभः तव वपुः (मूर्तिभूतम्) धाम्नाम् आधारभूतम् भवति तस्मै ते
नमः (अस्तु) ।

धातुश्चातुर्यभाजो जनजननविधौ या मुखेभ्यश्चतुर्भ्यः साकं नाकस्थितानामजनिषत कृतप्रीतयः
स्फीतभासाम् । तासामासां श्रुतीनां जनयति नियतं कर्मभिः शर्मकृद्भिः साफल्यं यः स यज्वा
वपुरधृत-विपत्संगमस्ते नमस्ते ॥ ४१ ॥

अन्वय-हे भगवन् ! जनजननविधौ चातुर्यभाजः धातुः चतुर्भ्यः मुखेभ्यः नाकस्थितानाम् कृतप्रीतयः
याः (श्रुतयः) साकम् अजनिषत स्फीतभासाम् तासाम् आसाम् श्रुतीनाम् यः (यज्वा) नियतम् शर्मकृद्भिः
कर्मभिः साफल्यम् जनयति सः अधृतविपत्संगमः यज्वा (यस्य) ते वपुः (अस्ति) तस्मै ते नमः (अस्तु) ।

प्रेङ्खद्भिर्यन्मयूखैर्विदधति धवले निर्जराः प्राणयात्रां प्रोद्दामानन्दधाम प्रथयति बहुले
पारणं यः पितॄणाम् । कुर्वन्नुर्वन्तरिक्षं प्रशमिततिमिरं यः समस्तौषधीनां पीनां पुष्णाति
भातिं तनुरतनुरसौ चन्द्रमास्ते नमस्ते ॥ ४२ ॥

अन्वय-निर्जराः धवले (शुक्लपक्षे) प्रेङ्खद्भिः यन्मयूखैः प्राणयात्राम विदधति यः (चन्द्रमाः)
बहुले (कृष्णपक्षे) प्रोद्दामानन्दधाम पितॄणाम् पारणम् प्रथयति तथा यः उरु अन्तरिक्षम्
प्रशमिततिमिरम् कुर्वन् समस्तौषधीनाम् पीनाम् भातिम् पुष्णाति असौ चन्द्रमाः (यस्य) ते अतनुः तनुः
(अस्ति) तस्मै ते नमः ।

प्रातः प्राभञ्जनेऽस्मिन्पथि पथिकमिव ध्वान्तकान्तारताम्य-ल्लोकालोकार्पणार्थं प्रमुदितमुदितं यं
समर्चन्ति सन्तः । सायं ध्यायन्ति संध्याविधिमधि सुधियो बाधिताधिं समाधिं
साधिम्नाऽधिष्ठितायं त्वमिह स मिहिरः सद्गभस्ते नमस्ते ॥ ४३ ॥

अन्वय-अस्मिन् प्राभञ्जने पथि पथिकम् इव ध्वान्तकान्तारताम्यल्लोकालोकार्पणार्थम् प्रातः उदितम् प्रमुदितम्
यम् सन्तः समर्चन्ति साधिम्ना समाधिम् अधिष्ठिताः सुधियः बाधिताधिम् यम् (सूर्यम्) संध्याविधिम्
अधिसायम् ध्यायन्ति सः त्वम् इह मिहिरः (असि) हे सद्गभस्ते ! ते नमः ।

दिग्देशाकारकालैरकलितविभवं यन्महद्बीजभूतं भूतग्रामस्य यस्य त्रिभुवनविषयं वस्तुजातं
विवर्त्तः । यस्मिन्हेम्नीव नानाभरणपरिकरो लीयते विश्वमन्ते तद्भिन्नेष्वप्यभिन्नं भव भवसि परं
ब्रह्म तस्मै नमस्ते ॥ ४४ ॥

अन्वय-दिग्देशाकारकालैः अकलितविभवम् यत् (परब्रह्म) भूतग्रामस्य महद्बीजभूतम् (अस्ति)
त्रिभुवनविषयम् वस्तुजातम् यस्य विवर्तः (परिणामो वा) अस्ति । तथा-हेम्नि नानाभरण-परिकरः इव यस्मिन्
अन्ते विश्वम् लीयते हे भव ! (त्वम्) भिन्नेषु अपि (प्राणिषु) अभिन्नम् तत् परम् ब्रह्म भवसि तस्मै ते नमः ।

इत्थं मत्सूक्तयस्ते शशधरशिखर
स्फारसारस्वतौघ-प्रोन्मीलद्वक्त्रशुक्तिस्खलदमलमिलन्मौक्तिकव्यक्तिभाजः ।
तीव्रापत्तापताम्यत्सहृदयहृदयक्लान्तिशान्तिप्रगल्भा- दर्भाग्रस्पर्द्धिबुद्धिग्रथितदृढगुणाः
कर्णपूरीभवन्तु ॥ ४५ ॥


(१) अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो

भौतिकः सर्गः ॥ (सांख्यसिद्धान्त) ------------------------

अन्वय-हे शशधरशिखर ! इत्थम्
स्फारसारस्वतौघप्रोन्मीलद्वक्त्रशुक्तिस्खलदमलमिलन्मौक्तिकव्यक्तिभाजः
तीव्रापत्तापताम्यत्सहृदयहृदयक्लान्तिशान्तिप्रगल्भाः दर्भाग्रस्पर्धिबुद्धिग्रथितदृढगुणाः
मत्सूक्तयः ते कर्णपूरीभवन्तु ।

इति श्रीप्रेममकरन्दसमेतं काश्मीरक-महाकवि-श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ कर्णपूरस्तोत्रं त्रयस्त्रिंशम् ।

चतुस्त्रिंशं स्तोत्रम्

सर्पत्कन्दर्पदर्पज्वरभरहरणव्यग्रवर्चःप्रपञ्च-
प्रत्यग्रब्रध्नचन्द्रज्वलदनलवलत्पक्ष्मलत्र्यक्षवक्त्रः ।

शर्वस्तर्षप्रकर्षश्रमशमनमनस्तर्पणस्वर्णवर्ष- स्वस्थं तन्वन्सहर्षं जनमनघमघः
कल्पयत्वक्षयं वः ॥ १ ॥

अन्वय-सर्पत्कन्दर्पदर्पज्वरभरहरणव्यग्रवर्चःप्रपञ्चप्रत्यग्रब्रध्नचन्द्र-ज्वलदनलवलत्पक्ष्मलत्र्यक्ष्
अवक्त्रः तर्षप्रकर्षश्रमशमनमनस्तर्पणस्वर्णवर्षस्वस्थम् सहर्षम् जनम् जन्वन् अनघमघः शर्वः
वः अक्षयम् कल्पयतु ।

यद्वद्वन्द्यं प्रसन्नं लसदसमरसस्पन्दसन्दर्भगर्भं मङ्गल्यं नर्मनद्धं तव वचनमदः
शस्यमस्यत्कलङ्कम् । तद्वद्भर्गस्य वर्यं शशधरशकलं द्यत्ववद्यं कपर्द- न्यस्तं वक्त्रं
प्रशस्तं प्रबलतमतमःखण्डनं मण्डनं वः ॥ २ ॥

अन्वय-हे भगवन् ! प्रसन्नम् लसदसमरसस्पन्दसन्दर्भगर्भम् मङ्गल्यम् नर्मनद्धम् शस्यम् कलङ्कम् अस्यत्
अदः तव वचनम् यद्वत् वन्द्यम् (भवति) तद्वत् कपर्दन्यस्तम् वक्त्रम् प्रशस्तम् प्रबलतमतमःखण्डनम्
भर्गस्य वर्यम् मण्डनम् शशधरशकलम् वः अवद्यम् द्यतु ।

षट्चक्रस्थः षडध्वप्रसरसरभसः सर्गबन्धप्रगल्भः
प्रत्यग्रप्रह्वनव्यस्तवपठनपरब्रह्मसच्चक्रशक्रः । दक्षक्रत्वन्तकत्वं
दधदधममदध्वंसलक्ष्यप्रशंसः संसर्गध्वस्तपङ्को गणगणमचलं कल्पयन्हन्त्वशं वः ॥ ३ ॥

अन्वय-षट्चक्रस्थः षडध्वप्रसरसरभसः सर्गबन्धप्रगल्भः
प्रत्यग्रप्रह्वनव्यस्तवपठनपरब्रह्मसच्चक्रशक्रः दक्षक्रत्वन्तकत्वम् दधत्
अधममदध्वंसलक्ष्यप्रशंसः संसर्गध्वस्त-पङ्कः गणगणम् अचलम् कल्पयन् (सः भर्गः) वः अशम्
हन्तु ।

वक्षःसद्मस्थपद्मं करकमलतलप्रज्वलच्छङ्खचक्रं कंसघ्नं सर्पतल्पं खगवरवहनं
नन्दयत्यर्धगं यः । धर्मं बध्नन्ध्वजस्थं करगतकलशं वर्ष्म यश्च व्रतस्थं शंसन्तं
संस्मरन्तं नतमनवरतं सोऽव्ययः स्यत्वघं वः ॥ ४ ॥

अन्वय-यः वक्षःसद्मस्थपद्मम् करकमलतलप्रज्ज्वलच्छङ्खचक्रम् कंसघ्नम् सर्पतल्पम् खगवरवहनम्
(श्रीविष्णुम्) अर्धगम् (हरिहरमूर्तेर्दक्षिणार्धगम्) नन्दयति यः च ध्वजस्थम् धर्मम् बध्नन् तथा
करगतकलशम् वर्ष्म बध्नन् शंसन्तम् संस्मरन्तम् व्रतस्थम् नतम् (भक्तम्) अनवरतम् नन्दयति सः अव्ययः
वः अघम् स्यतु ।

संरक्षन्भक्तवर्गं यमभटभयतः सभ्यमभ्यर्णलभ्यं धन्यंमन्यं वदन्यं प्रणयपरवशं
पर्षदग्र्यव्यवस्थम् । वर्षत्वच्छिन्नचञ्चद्गरगवलगलः कस्थरङ्गत्तरङ्ग- स्वर्गङ्गः
शश्वदङ्कस्थलगतनगजस्त्र्यम्बकः सम्पदं वः ॥ ५ ॥

अन्वय-सभ्यम् अभ्यर्णलभ्यम् धन्यंमन्यम् वदन्यम् प्रणयपरवशम् पर्षदग्र्यव्यवस्थम् भक्तवर्गम्
यमभटभयतः संरक्षन् अच्छिन्नचञ्चद्गरगवलगलः कस्थरङ्गत्तरङ्गस्वर्गङ्गः
शश्वदङ्कस्थलगतनगजः त्र्यम्बकः वः सम्पदम् वर्षतु ।

अम्भःकम्प्रं कटप्रं सबहलगरलं पन्नगं कण्ठलग्नं
ग्रथ्नन्मह्यम्नभस्वत्खरकरदहनस्वर्क्षपत्यम्बरत्वम् । स्कन्धस्थं चर्म भर्मप्रभमलकचयं चन्दनत्वं
प्रपन्नं प्रत्यङ्गं भस्म सप्तच्छददलधवलं स्यत्वजः कल्मषं वः ॥ ६ ॥

अन्वय-अम्भःकम्प्रम् (कटप्रम्) जटाजूटम्) ग्रन्थन् (धारयन्) सबहलगरलम् कण्ठलग्नम् पन्नगम् ग्रथ्नन्
मह्यम्नभस्वत्खरकरदहनस्वर्क्षपत्यम्बरत्वम् ग्रन्थन् (तन्मूर्तिं धारयन्) स्कन्धस्थम् चर्म ग्रन्थन्
भर्मप्रभम् अलकचयम् ग्रन्थन् चन्दनत्वम् प्रपन्नम् सप्तच्छददलधवलम् भस्म प्रत्यङ्गम् ग्रन्थन् (सः) अजः
वः कल्मषम् स्यतु ।

सद्यः सन्यस्तगर्वग्रहमहतमहस्त्यक्तसङ्गप्रसङ्गं सत्त्वस्थं लब्धतत्त्वं
मलशबलगलत्सर्वसम्बन्धबन्धम् । यत्सम्पर्कप्रयत्नक्षममलयदयं तथ्यपथ्यप्रसक्तं यच्छत्वच्छं
मनस्तत्स्मरहरचरणद्वन्द्वनम्रस्य शं वः ॥ ७ ॥

अन्वय-यत् सद्यः सन्यस्तगर्वग्रहम् अहतमहः त्यक्तसङ्गप्रसङ्गम् सत्त्वस्थम् लब्धतत्त्वम्
मलशबलगलत्सर्वसम्बन्धबन्धम् सम्पर्कप्रयत्नक्षमम् अलयदयम् तथ्यपथ्यप्रसक्तम् तत्
स्मरहरचरणद्वन्द्वनम्रस्य अच्छम् मनः वः शम् यच्छतु ।

सत्यं नश्यत्यवश्यं घनमघपटलं यत्पदस्पर्शबद्ध- श्रद्धस्य स्पष्टकष्टप्रशमनमनसः कस्य
न व्यक्तकल्कम् । तस्य व्यस्यत्वशं वः सितकरशरणं मस्तकं ध्वस्तकम्पं
सम्पत्सम्पर्करम्यप्रभमभयकरस्यर्षभस्यन्दनस्य ॥ ८ ॥

अन्वय-स्पष्टकष्टप्रशमनमनसः यत्पदस्पर्शबद्धश्रद्धस्य कस्य व्यक्तकल्कम् घनम् अघपटलम् सत्यम्
अवश्यम् न नश्यति ? (अपि तु सर्वस्यापीति भावः) तस्य अभयकरस्य ऋषभस्यन्दनस्य सितकरशरणम्
सम्पत्सम्पर्करम्यप्रभम् ध्वस्तकम्पम् मस्तकम् वः अशम् व्यस्यतु ।

अत्यन्तस्वच्छमन्तःकरणमशरणप्रत्तरक्षं समक्षं व्यञ्जन्भञ्जन्नजस्रं
नयनतवदनस्तम्भसंरम्भदम्भम् । सर्वज्ञः सत्त्वसंघक्लमकरणचणं जन्मकर्मप्रबन्धं
मथ्नन्नत्यर्थमर्थं क्षतसकलमलं वर्धयत्वव्ययं वः ॥ ९ ॥

अन्वय-अशरणप्रत्तरक्षम् अत्यन्तस्वच्छम् अन्तःकरणम् समक्षम् (एव) व्यञ्जन् अजस्रम्
नयनतवदनस्तम्भसंरम्भदम्भम् भञ्जन् सत्त्वसंघक्लमकरणचणम् कर्मप्रबन्धम् (भविनाम्) जन्म
अत्यर्थम् मथ्नन् (निःशेषीकुर्वन्) सर्वज्ञः (परमेश्वरः) क्षतसकलमलम् अव्ययम् अर्थम् (परमार्थम्) वः
वर्धयतु ।

गल्वर्कप्रस्थपस्त्यं धरमथमलयं मन्दरं सह्यमन्त-र्नन्दद्गन्धर्वयक्षं सकनककटकं
कल्पतर्वन्तरङ्गम् । भद्रं सङ्क्रन्दनस्य प्रहसनसदनं नन्दनं स्वर्गरङ्गं गच्छन्स्वच्छन्दचर्यः
परबलदलनस्तर्पयत्वन्वहं वः ॥ १० ॥

अन्वय-गल्वर्कप्रस्थपस्त्यम् धरम् (कैलासम्) गच्छन् अथ मलयम् मन्दरम् तथा-अन्तर्नन्दद्गन्धर्वयक्षम्
(सकनककटकम् कल्पतर्वन्तरङ्गम् (एतादृशम्) सह्यम् गच्छन् पुनः-सङ्क्रन्दनस्य भद्रम् प्रहसनसदनम्
(लीला-गृहम्) स्वर्गरङ्गम् नन्दनम् गच्छन् परबलदलनः (असौ) स्वच्छन्दचर्यः अन्वहम् वः तर्पयतु ।

पद्मस्थं पद्महस्तं गजवरवदनं नन्दनं स्कन्दसंज्ञं पर्जन्यं हंसमब्जं दशशतनयनं
हव्यभक्षं सदण्डम् । रक्षःप्रख्यं जलस्थप्रथमथ पवनं मर्त्यपत्त्रं मखघ्नं
संपश्यत्यत्यजन्तं चरणतलमलं यः स कर्षत्वघं वः ॥ ११ ॥

अन्वय-यः अलम् (अत्यर्थम्) चरणतलम् अत्यजन्तम् [अत्र अलम् चरणतलम् अत्यजन्तम् इति सर्वत्र सम्बन्धः]
पद्मस्थम् [ब्रह्माणम्] पद्महस्तम् गजवरवदनम् स्कन्दसंज्ञम् तनयम् पर्जन्यम् हंसम् (सूर्यम्) अब्जम्
[चन्द्रमसम्] दशशतनयनम् हव्यभक्षम् सदण्डम् (यमम्) रक्षःप्रख्यम् (निरृतिम्) जलस्थप्रथम् (वरुणम्)
अथ-पवनम् मर्त्यपत्रम् [कुबेरम्] मखघ्नम् (ईशानम्) च संपश्यति (सम्यक् समदृष्ट्या च पश्यति) सः
(प्रभुः) वः अघम् कर्षतु ।

अव्यक्तं यः समग्रं जगदगनगरं व्यञ्जयत्यब्जजः स- न्यः संरक्षत्यनन्तः स्मरयमदमनः
संहरत्यक्रमं यः । स त्रयक्षस्तन्त्रमन्त्रप्रणयनसफलग्रन्थकर्मण्यखर्व- ज्ञत्वः
सद्गम्यवर्त्मप्रकटनपरमः स्पर्शयत्वद्वयं वः ॥ १२ ॥

अन्वय-यः (रजोगुणस्योद्रेके) अब्जजः सन् अव्यक्तम् समग्रम् अगनगरम् जगत् व्यञ्जयति तथा यः (सत्त्वोद्रेकेण)
अनन्तः सन् समग्रम् जगत् संरक्षति एवं-यः (तमोगुणप्राधान्ये) स्मरयमदमनः (रुद्ररूपः सन्) समग्रम्
जगत् अक्रमम् (युगपदेव) संहरति सः तन्त्रमन्त्रप्रणयनसफलग्रन्थकर्मणि अखर्वज्ञत्वः
सद्गम्यवर्त्मप्रकटनपरमः त्र्यक्षः वः अद्वयम् स्पर्शयतु ।

द्रष्टव्यं सम्यगर्थप्रवचनपरमं शर्मदं पद्यबद्धं प्रष्ठप्रज्ञप्रशस्यं नमदमरवरः
शङ्करः सङ्करघ्नः ।

प्. ७२८)

वर्षन्तं भग्नघर्मं प्रमदमयपयः सत्यसङ्कल्पजल्प- श्रव्यं भव्यं वसव्यं
नवमवगमयत्वग्र्यवर्णस्तवं वः ॥ १३ ॥

अन्वय-नमदमरवरः सङ्करघ्नः शङ्करः वः (युष्मान्) द्रष्टव्यम् [सहृदयैः कौतुकेन परीक्ष्यम्]
सम्यगर्थप्रवचनपरमम् शर्मदम् पद्यबद्धम् प्रष्ठप्रज्ञप्रशस्यम् भग्नघर्मम् [भग्नो घर्मस्तापत्रयजो
विकारो येन तत्] प्रमदमयपयः वर्षन्तम् सत्यसङ्कल्पजल्पश्रव्यम् भव्यम् वसव्यम् नवम् अग्र्यवर्णस्तवम्
[अग्र्यवर्णेन द्विजन्मना जगद्धरकविना कृतः स्तवः अग्र्यवर्णस्तवः (मध्यमपदलोपीसमासः)]
अवगमयतु (कृपया स्वयं शृण्वन्युष्मानपि बोधयत्वित्यर्थः ।)

इति श्रीप्रेममकरन्दसमेतं काश्मीरक-महाकवि-श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ अग्र्यवर्णस्तोत्रं समाप्तम् ।

पञ्चत्रिंशं स्तोत्रम्

अनाथानां नाथो गतिरगतिकानां व्यसनिनां विनेता भीतानां शरणमधृतीनां भरवशः ।
सुहृद्बन्धुः स्वामी शरणमुपकारी वरगुरुः पिता माता भ्राता त्रिजगति जयत्यन्तकरिपुः ॥ १ ॥

अन्वय-अनाथानाम् नाथः अगतिकानाम् गतिः व्यसनिनाम् विनेता भीतानाम् शरणम् अधृतीनाम् भरवशः
[भरवशः इति रूढपदम्] (धैर्यप्रदः) सुहृत् [निजावस्थां निवेदयतां जनानामाश्वासकारी] बन्धुः
[सङ्कटेप्यपरित्यागी] स्वामी शरणम् उपकारी वरगुरुः [कैवल्यप्राप्तिकारणनिजशासनोपदेशकः] पिता
माता भ्राता (एवंभूतः) अन्तकरिपुः त्रिजगति जयति ।

उदारैर्मन्दारैरचितशिखरं चन्द्रशिखरं समभ्यर्च्य प्रेम्णा विपुलपुलकालङ्कृततनुः । कदा
गन्धाबन्धप्रमदमुदितोद्दाममधुप- स्फुरद्गुञ्जागर्भैर्विभुमभिभजेयं नुतिपदैः ॥ २ ॥

अन्वय-उदारैः मन्दारैः रचितशिखरम् चन्द्रशिखरम् प्रेम्णा समभ्यर्च्य विपुलपुलकालङ्कृततनुः (सन्)
अहम् गन्धाबन्धप्रमदमुदितोद्दाममधुपस्फुरद्गुञ्जागर्भैः नुतिपदैः विभुम् कदा अभिभजेयम् ?

इतो द्वन्द्वक्लेशा विषयमृगतृष्णास्थितिरितो जरामृत्युव्याधिप्रतिभयमितः सर्वसुलभम् ।
महामोहैर्घोरैरुपहतमितो बोधलसितं कथं कुर्यादार्यः कृतमतिरपि स्वात्मनि हितम् ॥ ३ ॥

अन्वय-इतः द्वन्द्वक्लेशाः (सन्ति) विषयमृगतृष्णास्थितिः इतः (अस्ति) जरामृत्युव्याधिप्रतिभयम् इतः
सर्वसुलभम् (अस्ति) घोरैः महामोहैः बोधलसितम् इतः उपहतम् (इत्थं बहुविघ्नाकुलमनस्त्वात्) कृतमतिः
अपि आर्यः स्वात्मनि हितम् कथम् कुर्यात् ?

प्. ७३१)

अशेषक्लेशौघग्लपनपरिपन्थी प्रकटय- न्नयं विघ्नव्रातः प्रबलविपदापादनविधिम् । विवेकाख्यं
चक्षुस्तिरयति सतां येन सहसा भवश्वभ्रे पातः प्रतिपदमदभ्रः प्रभवति ॥ ४ ॥

अन्वय-अशेषक्लेशौघग्लपनपरिपन्थी अयम् (पूर्वोक्तः) विघ्नव्रातः प्रबलविपदापादनविधिम् प्रकटयन्
सताम् (अपि) विवेकाख्यम् चक्षुः तिरयति येन (देहिनाम्) सहसा भवश्वभ्रे अदभ्रः पातः प्रतिपदम्
प्रभवति ।

भवद्भक्तिं तस्य व्युपशमसमर्थामथ दृशः प्रसादं तन्वानां घनमहसमासाद्य सुधियः ।
प्रकाशात्मानं त्वामतिविमलया हंसमुदितं दृशा साक्षात्कृत्य प्रतिजहति मोहान्धतमसम् ॥ ५ ॥

अन्वय-अथ हे भगवन् ! तस्य (पूर्वोक्तविघ्नव्रातस्य) व्युपशमसमर्थाम् दृशः प्रसादम् तन्वानाम्
घनमहसम् भवद्भक्तिम् आसाद्य सुधियः (सदा) उदितम् प्रकाशात्मानम् त्वाम् हंसम् अतिविमलया दृशा
साक्षात्कृत्य मोहान्धतमसम् प्रतिजहति ।

अनित्ये नित्याशामशुचिनि शुचित्वव्यसनिता- मनात्मन्यात्मास्थामथ महति दुःखे सुखमतिम् । चतुर्धा
दुर्भेद्यामविरतमविद्यां परिणतां हताशेषस्वाभामभिदधति मूलं भवतरोः ॥ ६ ॥

अन्वय-अनित्ये नित्याशाम् अशुचिनि शुचित्वव्यसनिताम् अनात्मनि आत्मास्थाम् अथ महति दुःखे सुखमतिम् (इति)
अविरतम् चतुर्धा परिणताम् हताशेषस्वाभाम् दुर्भेद्याम् अविद्याम् भवतरोः मूलम् अभिदधति ।

नरास्तत्त्वालोके नियतमनया दूषितदृशो विवेकप्रध्वंसाद्विदधति भवे कन्दुकगतिम् । उपासाभिर्लब्ध्वा
भवभयभिदं निर्मलधियः समाधिं साधिम्ना दधति न पुनर्जन्मविपदम् ॥ ७ ॥

अन्वय-नियतम् अनया (अविद्यया) तत्त्वालोके दूषितदृशः नराः विवेकप्रध्वंसात् भवे कन्दुकगतिम् विदधति
पुनः उपासाभिः भवभयभिदम् समाधिम् लब्ध्वा निर्मलधियः पुनर्जन्मविपदम् साधिम्ना न दधति ।

चकाशे नाकाशे रविरविरलैरंशुपटलै- रमन्दाभैरिन्दुस्तिमिरमहरन्नापि किरणैः । न
चान्यन्नक्षत्रग्रहदहनरत्नौषधितडि- त्प्रदीपादिज्योतिः क्वचिदपि पुरा नाथ ददृशे ॥ ८ ॥

तमोभूतं विश्वं किमपि गहनं धाम तदभू- दथ स्वेच्छाशक्तिप्रकटितमहावैभवभरम् ।
विभज्यात्मानं क्ष्मावनपवनवह्नीन्दुतपन- स्वखैरंशैरीश त्रिजगदसृजत्कस्त्वदपरः ॥ ९ ॥ (युग्मम्)

अन्वय-हे नाथ ! पुरा (सृष्टेः पूर्वम्) आकाशे अविरलैः अंशुपटलैः रविः न चकाशे अमन्दाभैः
किरणैः इन्दुः अपि तिमिरम् न अहरत् अन्यत् नक्षत्रग्रहदहनरत्नौषधितडित्प्रदीपादिज्योतिः च क्वचित् अपि न
ददृशे । हे ईश ! तत् विश्वम् तमोभूतम् (सत्) किमपि गहनम् धाम (अतिगहनम् गृहमिव) अभूत् अथ
स्वेच्छाशक्तिप्रकटितमहावैभवभरम् आत्मानम्

क्ष्मावनपवनवह्नीन्दुतपनस्वखैः अंशैः विभज्य त्वदपरः कः त्रिजगत् असृजत् ? (न कोपीत्यर्थः) ।

अनादौ संसारे विदधति रजोबाधितधियः शुभं वा घोरं वा शबलमथ वा कृत्यमणवः ।
ततस्तद्भोगार्थं तरुणकरुणापूर्णहृदयो विधत्से यत्तेषां तनुभुवननिर्माणमखिलम् ॥ १० ॥

तदेतत्सङ्कल्पप्रकटितसमस्तत्रिजगतः प्रभोर्लीलामात्रं भुवन-महनीयस्य भवतः । तवैकस्य
स्वामिन्यदिह सहजे सर्वविषये क्रियाज्ञाने नित्ये करण-निरपेक्षे प्रभवतः ॥ ११ ॥ (युग्मम्)

अन्वय-हे भगवन् ! अनादौ संसारे रजोबाधितधियः अणवः (आत्मानः) शुभम् वा घोरम् वा अथ शबलम्
वा कृत्यम् विदधतिः ततः तेषाम् तद्भोगार्थम् (तस्य शुभाशुभ-मिश्रितरूपस्य त्रिविधस्य कर्मणः
भोगार्थम्) तरुणकरुणापूर्णहृदयः (सन्) यत् अखिलम् भुवननिर्माणम् विधत्से तत् एतत्
सङ्कल्पप्रकटितसमस्तत्रिजगतः भुवनमहनीयस्य भवतः प्रभोः लीलामात्रम् (अस्ति कुतः ?-) हे स्वामिन् !
इह यत् एकस्य तव (एव) सहजे नित्ये करणनिरपेक्षे क्रियाज्ञाने (क्रियाशक्ति-ज्ञानशक्ती) यत् सर्वविषये
(सर्वस्याधारभूते) प्रभवतः ।

प्रसिद्धोऽयं पन्था न भवति विचित्रा विरचना विना यत्कर्तारं स च न भवति ज्ञानरहितः ।
अतोऽवश्यं कर्ता त्रिजगति विचित्रे ज्ञ उचितः स च त्वं त्वय्यन्ये किमिव विवदन्ते हतधियः ॥ १२ ॥

अन्वय-हे प्रभो ! यत् कर्तारम् विना विचित्रा विरचना न भवति सः च (कर्ता) ज्ञानरहितः (अपि) न भवति
अयम् पन्थाः प्रसिद्धः (आबालपर्यन्तं विदित एवेत्यर्थः) अतः विचित्रे त्रिजगति अवश्यम् (एव) कर्ता ज्ञः
(सर्वज्ञः) उचितः सः च (सर्वज्ञः परमात्मा) त्वम् (एवासि) अन्ये हतधियः त्वयि किमिव विवदन्ते ?

अथैवं चेद्ब्रूयुः किमयमपरप्रेरितमतिः स्वतन्त्रो वा देवस्त्रिभुवनविधाने प्रयतते । अमुष्याद्ये पक्षे
नहि परविधेयस्य विभुता परस्मिन्पक्षे वा फलमपि किमुद्दिश्य यतते ॥ १३ ॥

अन्वय-अथ (ते पामराः) एवम् चेत् ब्रूयुः-अयम् देवः किम् अपरप्रेरितमतिः सन् त्रिभुवनविधाने प्रयतते ?
(उत) स्वतन्त्रः वा प्रयतत्ते ? अमुष्य आद्ये पक्षे परविधेयस्य (परप्रेरितस्य) विभुता न हि (भवति)
परस्मिन् वा पक्षे किम् अपि फलम् उद्दिश्य यतते ?

अथास्येयं वाञ्छा प्रभवति न कर्मक्षयमृते नृणां मुक्तिः सोऽपि क्वचन न विना भोगमुचितः ।
विनाधारं भोगो न भवति वपुर्नापि भुवनं ततोऽर्हं जन्तूनां तनुभुवननिष्पादनमिति ॥ १४ ॥

अन्वय-अथ अस्य (देवस्य) इयम् वाञ्छा (भवति) यत् कर्मक्षयम् ऋते नृणाम् मुक्तिः न प्रभवति सः अपि
(कर्मक्षयः) भोगम् विना न क्वचन उचितः । भोगः (अपि) आधारम् विना न भवति (सः चाधारः) वपुः
भुवनम् अपि विना न भवति ततः जन्तूनाम् तनुभुवननिष्पादनम् इति अर्हम् ।

इदं युक्तं सान्द्रामृतमधुरयाऽन्तः करुणया प्रयुक्तस्याऽजस्रं परहितविधानव्यसनिनः ।
दयालुश्चेल्लोकं सृजति सकलं किं न सुखिनं कुतो वाऽऽधिव्याधिक्षत इह जनोऽनेन जनितः ॥ १५ ॥

अन्वय-सान्द्रामृतमधुरया अन्तः करुणया प्रयुक्तस्य अजस्रम् परहितविधानव्यसनिनः (विभोः) इदम् युक्तम्
सः (प्रभुः) दयालुः चेत् तर्हि सकलम् लोकम् सुखिनम् (एव) किम् न सृजति ? इह अनेन आधिव्याधिक्षतः जनः
कुतः वा जनितः ?

अथोपादानं यद्भवति परमाण्वादि जगत- स्तथा कर्माऽनेहःप्रभृति सहकार्येतदुभयम् । विना सृष्टौ
नैष प्रभवति यदीशः किममुना तदेवाऽस्तु व्यक्तं तनुभुवननिर्माणनिपुणम् ॥ १६ ॥

अन्वय-अथ यत् जगतः सृष्टौ परमाण्वादि उपादानम् तथा कर्मानेहःप्रभृति सहकारि भवति तत् एतत्
उभयम् विना सृष्टौ (सृष्टि विधाने) एषः ईशः यदि न प्रभवति तर्हि अमुना (ईशेन) किम् ? (यतः)
तदेव (उभयम्) व्यक्तम् तनुभुवननिर्माणनिपुणम् अस्तु !

इतीत्थं मुग्धानामिह मतिविमोहाय कुधियः कुतर्कप्रागल्भीमुखरितमुखा मूढमनसः । अधिष्ठातारं
त्वां वरद जडवर्गस्य सदयं न जानन्ति स्वामिन् परमपुरुषं चेतनममी ॥ १७ ॥

अन्वय-इति इत्थम् (इत्येवम्) इह मुग्धानाम् मतिविमोहाय कुतर्कप्रागल्भीमुखरितमुखाः मूढमनसः अमी
कुधियः हे वरद ! हे स्वामिन् ! जडवर्गस्य अधिष्ठातारम् चेतनम् परमपुरुषम् त्वाम् सदयम् (कृपाम्बुधिम्)
न जानन्ति ।

यथोपादानं मृत्तदनु सहकारीह लगुडो जलं चक्रं सूत्रं वरद जडवर्गोऽयमखिलः । न यत्नं
कौलालं प्रभवति विना कुम्भघटने तथाधिष्ठातारं न भवति विना त्वां भवविधिः ॥ १८ ॥

अन्वय-हे वरद ! इह (घटस्य) उपादानम् मृत् तदनु सहकारी लगुडः जलम् चक्रम् सूत्रम् अयम् अखिलः
जडवर्गः कौलालम् यत्नम् विना यथा कुम्भघटने (घटं कर्तुम्) न प्रभवति तथा त्वाम् अधिष्ठातारम्
विना भवविधिः न भवति ।

अविज्ञायैवाऽज्ञः परुषविषमं कर्म कुरुते विपाके तस्यासौ निपतति भवक्लेशकलिले । अतो ज्ञानालोकः
प्रकटितसमस्तार्थगहनो महामोहध्वान्तव्यवहितदृशोऽवश्यमुचितः ॥ १९ ॥

अन्वय-अज्ञः अविज्ञाय एव परुषविषमम् कर्म कुरुते असौ तस्य (कर्मणः) विपाके सति भवक्लेशकलिले
निपतति । अतः महामोहध्वान्तव्यवहितदृशः । (पुंसः) प्रकटितसमस्तार्थगहनः ज्ञानालोकः अवश्यम्
उचितः ।

उपायस्तत्प्राप्तौ भवति न विना शास्त्रमपरो न शास्त्रं तत्वामिन्निह यदुपदिष्टं न भवता ।
विविञ्चन्तः सन्तो हितमहितमेते विदधते हिते सक्तिं मुञ्चन्त्यहितमिति नार्हन्ति पतनम् ॥ २० ॥

अन्वय-तत्प्राप्तौ शास्त्रम् विना अपरः उपायः न भवति हे स्वामिन् ! यत् (च) भवता न उपदिष्टम् तत्
शास्त्रम् न (अस्ति अत-एव) सन्तः हितम् अहितम् (च) विविञ्चतः हिते सक्तिम् विदधते अहितम् मुञ्चन्ति इति (हेतोः)
एते (सन्तः) पतनम् न अर्हन्ति ।

भवान्धर्मं साक्षादकृत सहजज्ञानमहसा तमोध्वंसं पुंसामथ तदुपदेशेन विदधे । प्रमाणं
चोक्तिस्ते नहि घनघृणानिघ्नमनसो जगद्भर्त्तुर्युक्तं वितथमभिधातुं भगवतः ॥ २१ ॥

अन्वय-हे विभो ! भवान् सहजज्ञानमहसा धर्मम् साक्षात् अकृत् अथ तदुपदेशेन पुंसाम् तमोध्वंसम् विदधे
। ते उक्तिः च प्रमाणम् हि घनघृणानिघ्नमनसः जगद्भर्तुः भगवतः (तव) वितथम् अभिधातुम् न युक्तम्


तदेतत्कारुण्यं घनतमतमःपङ्कपटली- विलीनोऽयं लोकस्तव वरद संभाव्य सहजम् ।
दधच्छ्रद्धाबन्धं त्वदुदितमनुष्ठातुमसकृत् प्रवृत्तो दुष्पारं हर तरति संसारजलधिम् ॥ २२ ॥

अन्वय-हे हर ! हे वरद ! घनतमतमःपङ्कपटलीविलीनः अयम् लोकः सहजम् तदेतत् (पूर्वक्रमोक्तेनोदितम्)
तव कारुण्यम् संभाव्य (आदरेण मत्वा) त्वदुदितम् अनुष्ठातुम् असकृत् प्रवृत्तः श्रद्धाबन्धम् दधत्
दुष्पारम् (अपि) संसारजलधिम् तरति ।

इत्येवं भगवन्नबन्ध्यमहिमा निर्माय निर्मानुषं विश्वं विश्वसितं वितत्य तदनु स्फीतैर्विभूतिक्रमैः
। संहृत्याथ निजे महिम्नि निखिलं तत्कन्दुकान्दोलन-क्लेशावेशविरामसंभृतसुखं कैवल्यमाकाङ्क्षसि
॥ २३ ॥

अन्वय-हे भगवन् ! इत्येवम् अबन्ध्यमहिमा (स्वतन्त्रः सन्) त्वम् (आदौ) निर्मानुषम् (तमोभूतम् सत्) विश्वम्
निर्माय तदनु स्फीतैः विभूतिक्रमैः विश्वसितम् वितत्य (सजीवं विधाय) अथ निखिलम् (तद्विश्वम्) निजे
महिम्नि संहृत्य तत्कन्दुकान्दोलनक्लेशावेशविरामसंभृतसुखम् कैवल्यम् आकाङ्क्षसि ।

इत्थं किं बहुना त्वदङ्घ्रिकमलद्वन्द्वप्रसादादिदं भूयान्मे भवभीतिभञ्जन विभो भक्तानुकम्पापर ।
यत्त्वत्पादसरोजपूजनविधौ भक्तिर्विरोगं वपु- र्यावज्जीवमथ त्वदेकमनसो मुक्तिस्तवैवाग्रतः ॥ २४ ॥

अन्वय-हे विभो ! हे भवभीतिभञ्जन ! हे भक्तानुकम्पापर ! इत्थम् बहुना किम् ?
त्वदङ्घ्रिकमलद्वन्द्वप्रसादात् यत् त्वत्पादसरोजपूजनविधौ भक्तिः यावज्जीवम् विरोगम् वपुः अथ
त्वदेकमनसः तवैव अग्रतः मुक्तिः (भवति) इदम् मे भूयात् ।

एवं देव तव स्तुतिप्रवचनप्राप्तप्रसादस्य मे भूयो जन्म भविष्यतीति भगवन् मन्ये खपुष्पोपमम् ।
स्याच्चेत्प्राक्तनकर्मशेषजनितं तन्नाथ किं भूयसा भूयासं भवदीयपादकमलस्तुत्या पुनर्निर्वृतः
॥ २५ ॥

अन्वय-हे देव ! हे भगवन् ! एवम् तव स्तुतिप्रवचनप्राप्तप्रसादस्य मे (धन्यस्य) भूयः जन्म भविष्यति इति
(अहम्) खपुष्पोपमम् मन्ये चेत् प्राक्तनकर्मशेषजनितम् तत् स्यात् तर्हि किं भूयसा (उक्तेन) हे नाथ ! तत्रापि
(अहम्) भवदीयपादकमलस्तुत्या पुनः निर्वृतः भूयासम् ।

इति श्रीप्रेममकरन्दसमेतं काश्मीरक-महाकवि-श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ ईश्वर-प्रशंसा नाम स्तोत्रम् समाप्तम् ।

षट्त्रिंशं स्तोत्रम्

ते नाथ जन्म सकलं न कलङ्कयन्ति न द्रोहकर्मरसिकानपि शङ्कयन्ति । तान्सस्पृहं मृगदृशः
प्रविलोकयन्ति ये त्वत्पदाब्जरजसाऽलिकमङ्कयन्ति ॥ १ ॥

अन्वय-हे नाथ ! ते (धन्याः) सकलम् जन्म न कलङ्कयन्ति द्रोहकर्मरसिकान् अपि (रिपून्) न शङ्कयन्ति तान्
सस्पृहम् मृगदृशः प्रविलोकयन्ति ये त्वत्पदाब्जरजसा (निजम्) अलिकम् अङ्कयन्ति ।

ते विद्विषामभिमतं हृदि मोघयन्ति ज्ञानामृतं च कृपणेषु समर्पयन्ति । तेषां वचः क्षितिभुजोऽपि
न लङ्घयन्ति ये त्वां स्तवोक्तिकुसुमर्द्धिभिरर्चयन्ति ॥ २ ॥

अन्वय-ते (धन्याः) विद्विषाम् हृदि अभिमतम् मोघयन्ति ज्ञानामृतम् च कृपणेषु समर्पयन्ति तेषाम् वचः
क्षितिभुजः अपि न लङ्घयन्ति ये स्तवोक्तिकुसुमर्द्धिभिः त्वाम् अर्चयन्ति ।

ते जन्मनः फलमनल्पमुदञ्चयन्ति क्लेशापदः स्वमपरं च विमोचयन्ति । तान्वैरिणः सहभुवोऽपि न
वञ्चयन्ति ये त्वामनाथजनबान्धवमर्चयन्ति ॥ ३ ॥

अन्वय-हे नाथ ! ते जन्मनः अनल्पम् फलम् उदञ्चयन्ति क्लेशापदः (सकाशात्) स्वम् अपरम् च विमोचयन्ति तान्
सहभुवः अपि वैरिणः न वञ्चयन्ति ये त्वाम् अनाथजनबान्धवम् अर्चयन्ति ।

ते धर्ममिन्दुकरसुन्दरमर्जयन्ति गीर्भिर्विदग्धहृदयान्यपि रञ्जयन्ति । तानन्तकभ्रुकुटयोऽपि न तर्जयन्ति
ये त्वां भवामयहरं हर पूजयन्ति ॥ ४ ॥

अन्वय-हे हर ! ते इन्दुकरसुन्दरम् धर्मम् अर्जयन्ति गीर्भिः विदग्धहृदयानि अपि रञ्जयन्ति तान्
अन्तकभ्रुकुटयः अपि न तर्जयन्ति ये त्वाम् भवामयहरम् पूजयन्ति ।

ते त्वत्स्तुतिं हृदयधाम्नि कवाटयन्ति दुःखद्रुमं च दृढमापदि पाटयन्ति । भावं तवैव भुवि
बालमिवाटयन्ति ये वाङ्नटीमभिमुखं तव नाटयन्ति ॥ ५ ॥

अन्वय-हे विभो ! ते त्वत्स्तुतिम् हृदयधाम्नि कवाटयन्ति आपदि दृढम् दुःखद्रुमम् च पाटयन्ति । ते तवैव
भावम् (भावनारसम्) बालम् इव भुवि अटयन्ति ये तव अभिमुखम् (निजाम्) वाङ्नटीम् नाटयन्ति ।

ते कर्मरज्जुनिगडं ह्यतिखण्डयन्ति सूक्तैः श्रुतीर्बुधजनस्य च मण्डयन्ति । त्वद्भक्तिमप्यधिभवाब्धि
तरण्डयन्ति ये त्वन्मनः स्तुतिधनस्य करण्डयन्ति ॥ ६ ॥

अन्वय-ते हि कर्मरज्जुनिगडम् अतिखण्डयन्ति सूक्तैः च बुधजनस्य श्रुतीः मण्डयन्ति अधिभवाब्धि अपि
त्वद्भक्तिम् तरण्डयन्ति ये त्वन्मनः स्तुतिधनस्य करण्डयन्ति ।

पापानि तेऽश्मशकलानि व चूर्णयन्ति गीर्भिर्ब्रुवः सुमनसामपि घूर्णयन्ति । लोके निजानि च
यशांस्युपकर्णयन्ति ये धीमतां नुतिकथास्तव वर्णयन्ति ॥ ७ ॥

अन्वय-ते पापानि अश्मशकलानि व (इव) चूर्णयन्ति गीर्भिः सुमनसाम् अपि भ्रुवः घूर्णयन्ति । लोके च
निजानि यशांसि उपकर्णयन्ति ये (धन्याः) धीमताम् (अग्रे) तव नुतिकथाः वर्णयन्ति ।

ते मारकानपि न संयति घातयन्ति कारुण्यतः कृतरुषोपि न यातयन्ति । लोकस्य शोकमभयेन च शातयन्ति
ये शेखरं चरणयोस्तव पातयन्ति ॥ ८ ॥

अन्वय-ते संयति मारकान् अपि न घातयन्ति कारुण्यतः कृतरुषः अपि न यातयन्ति (क्लेशयन्ति) लोकस्य
शोकम् च अभयेन शातयन्ति ये शेखरम् तव चरणयोः पातयन्ति ।

ते पापपाशमधिकं [कर्मबन्धमधिकं] हृदि कर्तयन्ति भोगस्पृहां च विषयेषु निवर्तयन्ति । सूक्तैः
सचेतनमनांस्यपि नर्तयन्ति ये चन्द्रचूडचरितं तव कीर्तयन्ति ॥ ९ ॥

अन्वय-ते हृदि अधिकम् (महान्तम्) पापपाशम् कर्तयन्ति विषयेषु च भोगस्पृहाम् निवर्तयन्ति सूक्तैः
सचेतनमनांसि अपि नर्तयन्ति हे चन्द्रचूड ! ये तव चरितम् कीर्तयन्ति ।

ते जान्मिकानि दुरितान्यवसादयन्ति सूक्तानि निर्मलमतीननुवादयन्ति । गीतानि वैणिकनटानपि नादयन्ति ये
भक्तितस्तव नुतीः प्रतिपादयन्ति ॥ १० ॥

अन्वय-ते जान्मिकानि दुरितानि अवसादयन्ति सूक्तानि निर्मलमतीन् अनुवादयन्ति वैणिकनटान् अपि गीतानि
नादयन्ति ये भक्तितः तव नुतीः प्रतिपादयन्ति ।

ते सत्सु कर्मसु रिपूनपि चोदयन्ति गीर्भिः सतां च हृदयानि विनोदयन्ति । तेषां शुचः क्वचन चेतसि
नोदयन्ति ये तावकानि चरितान्यनुमोदयन्ति ॥ ११ ॥

अन्वय-ते रिपून् अपि सत्सु कर्मसु चोदयन्ति गीर्भिः च सताम् हृदयानि विनोदयन्ति तेषाम् चेतसि क्वचन शुचः
न उदयन्ति ये तावकानि चरितानि अनुमोदयन्ति ।

ते विग्रहोग्रमनसोपि न खेदयन्ति मोहं दृढार्गलनिभं हृदि भेदयन्ति । स्वं कौशलं मृदुमतीनपि
वेदयन्ति सूक्तानि ये तव निजानि निवेदयन्ति ॥ १२ ॥

अन्वय-ते विग्रहोग्रमनसः अपि न खेदयन्ति हृदि दृढार्गलनिभम् मोहम् भेदयन्ति । ते मृदुमतीन् अपि स्वम्
कौशलम् वेदयन्ति ये निजानि सूक्तानि तव (पुरः) निवेदयन्ति ।

ते भेजुषां भवति भक्तिममन्दयन्ति वाग्वीरुधस्त्वयि रतिं हृदि कन्दयन्ति । त्वामन्यदर्शनगतानपि
वन्दयन्ति ये वाग्भरेण हृदयं तव नन्दयन्ति ॥ १३ ॥

अन्वय-ते जनाः भेजुषाम् (भवाब्ध्युत्तरणोपायश्रवणाय शरणागतानाम्) भवति भक्तिम् अमन्दयन्ति हृदि
त्वयि वाग्वीरुधः रतिम् कन्दयन्ति ते अन्य-दर्शनगतान् अपि (कुटिलमार्गगतानपि वादिनः) (निजचातुर्यात्)
त्वाम् वन्दयन्ति (मानयन्ति) ये वाग्भेरण तव हृदयं नन्दयन्ति ।

ते भुक्तिमुक्तिसफलर्द्धि विवर्द्धयन्ति सत्कर्म शर्म शमिताधि च साधयन्ति । ये त्वां
नवैरभिनवैरभिराधयन्ति यानिक्षुसारमधुरान् सुधियो धयन्ति ॥ १४ ॥

अन्वय-ते भुक्तिमुक्तिसफलर्द्धि सत्कर्म विवर्धयन्ति शमिताधि शर्म च साधयन्ति ये अभिनवैः नवैः त्वाम्
अभिराधयन्ति यान् इक्षुसारमधुरान् (स्तवान्) सुधियः धयन्ति ।

ते संगरे गुरुरुषोऽपि न योधयन्ति ज्ञानामृतेन हृदयं च विशोधयन्ति । रोषोद्भवं हृदि रिपोरपि
रोधयन्ति ये त्वां निजा नुतिकथाः प्रतिबोधयन्ति ॥ १५ ॥

अन्वय-ते संगरे गुरुरुषः अपि न योधयन्ति ज्ञानामृतेन च हृदयम् विशोधयन्ति । रिपोः अपि रोषोद्भवम्
हृदि रोधयन्ति ये त्वाम् निजाः नुतिकथाः प्रतिबोधयन्ति ।

ते दुर्मदान्बुधसदस्यवमानयन्ति प्रौढान्प्रणम्य विनयेन च मानयन्ति । तान्भूतयः
स्वयमनन्यसमानयन्ति ये वासरांस्तव नवैः सशमा नयन्ति ॥ १६ ॥

अन्वय-ते बुधसदसि दुर्मदान् अवमानयन्ति प्रौढान् च विनयेन प्रणम्य मानयन्ति तान् अनन्यसमान् भूतयः
स्वयम् अयन्ति ये सशमाः (धन्याः) तव नवैः वासरान् नयन्ति ।

ते निर्भये नतिमतः पथि यापयन्ति नोत्कम्पदानपि रिपूनुपतापयन्ति । क्लेशापदं पशुसमानपि हापयन्ति ये
त्वां प्रसाद्य दृशमीश्वर दापयन्ति ॥ १७ ॥

अन्वय-ते नतिमतः (प्रणतजनान्) निर्भये पथि यापयन्ति उत्कम्पदान् अपि रिपून् न उपतापयन्ति । पशुसमान्
अपि क्लेशापदम् हापयन्ति हे ईश्वर ! ये त्वाम् प्रसाद्य दृशम् दापयन्ति ।

ते दुर्मदं शमनमुग्रमदर्पयन्ति गर्धं च साधुसदनादपसर्पयन्ति । दानादिनार्थिनिवहानपि तर्पयन्ति ये
तावके मुकुटमङ्घ्रितलेऽर्पयन्ति ॥ १८ ॥

अन्वय-ते दुर्मदम् उग्रम् शमनम् (अन्तकम्) अदर्पयन्ति साधुसदनात् गर्धम् च अपसर्पयन्ति । दानादिना
अर्थिनिवहान् अपि तर्पयन्ति ये तावके अङ्घ्रितले मुकुटम् अर्पयन्ति ।

ते सद्गृहेषु गुरुमापदमल्पयन्ति स्वं चाशयं शिशयिषोस्तव तल्पयन्ति । आर्तिस्पृशामुपकृतीरपि
कल्पयन्ति ये बालकानपि नवं तव जल्पयन्ति ॥ १९ ॥

अन्वय-ते सद्गृहेषु गुरुम् आपदम् अल्पयन्ति शिशयिषोः (कृपया शयितुमिच्छोः) तव स्वम् आशयम् तल्पयन्ति ।
ते आर्तिस्पृशाम् उपकृतीः अपि कल्पयन्ति ये तव नवम् बालकान् अपि जल्पयन्ति ।

ते सापराधमनसोऽपि न कोपयन्ति तापं ह्विया विपुलमापदि गोपयन्ति । त्वद्धाम चामलमतीनधि-रोपयन्ति ये
नार्चनं तव कदाचन लोपयन्ति ॥ २० ॥

अन्वय-ते सापराधमनसः अपि न कोपयन्ति आपदि विपुलम् तापम् ह्रिया गोपयन्ति अमलमतीन् त्वद्धाम
अधिरोपयन्ति ये कदाचन तव अर्चनम् न लोपयन्ति ।

ते शक्तिमप्रतिहतां भुवि जृम्भयन्ति प्रीतिं परां कृतमतीनुपलम्भयन्ति । वंशत्रयीमपि
निजामभिशोभयन्ति ये त्वां निजासु नुतिसूक्तिषु लोभयन्ति ॥ २१ ॥

अन्वय-ते भुवि अप्रतिहताम् शक्तिम् जृम्भयन्ति कृतमतीन् पराम् प्रीतिम् उपलम्भयन्ति निजाम् वंशत्रयीम् अपि
अभिशोभयन्ति ये त्वाम् निजासु नुतिसूक्तिषु लोभयन्ति ।

ते मग्नमार्त्तजनमापदि तारयन्ति बुद्ध्या विमृश्य सदसच्च विचारयन्ति । अज्ञानमानतिमतां च निवारयन्ति
त्वद्भक्तिमिन्दुधर ये हृदि धारयन्ति ॥ २२ ॥

अन्वय-ते आपदि मग्नम् आर्तजनम् तारयन्ति बुद्ध्या विमृश्य सदसत् च विचारयन्ति । आनतिमतां च अज्ञानम्
निवारयन्ति हे इन्दुधर ! ये (जनाः) त्वद्भक्तिम् हृदि धारयन्ति ।

ते विद्विषः स्थिररुषोऽप्यनुकूलयन्ति मोहं महीरुहमिव प्रविमूलयन्ति । आज्ञां च मूर्ध्नि
महतामवचूलयन्ति ये भालमङ्घ्रिरजसा तव धूलयन्ति ॥ २३ ॥

अन्वय-ते स्थिररुषः अपि विद्विषः अनुकूलयन्ति मोहम् महीरुहम् इव प्रविमूलयन्ति आज्ञाम् च महताम् मूर्ध्नि
अवचूलयन्ति ये तव अङ्घ्रिरजसा भालम् धूलयन्ति ।

ते पङ्कमङ्कगतमात्मनि धावयन्ति दिङ्मण्डलं च परितः परिपावयन्ति । क्लेशान् क्षणात्तृणगणानिव
लावयन्ति ये त्वां प्रकाशवपुषं हृदि भावयन्ति ॥ २४ ॥

अन्वय-ते आत्मनि अङ्कगतम् पङ्कम् धावयन्ति दिङ्मण्डलम् च परितः परिपावयन्ति क्लेशान् तृणगणान् इव
क्षणात् लावयन्ति ये प्रकाशवपुषम् त्वाम् हृदि भावयन्ति ।

ते पीवरीं विपदमोकसि कर्शयन्ति स्वं कौशलं सुमनसश्च विमर्शयन्ति । प्रीतिं सतां च हृदयेषु
निवेशयन्ति ये त्वत्स्तुतीर्विबुधसद्मसु दर्शयन्ति ॥ २५ ॥

अन्वय-ते ओकसि (स्थिताम्) पीवरीम् विपदम् कर्शयन्ति स्वम् च कौशलम् सुमनसः विमर्शयन्ति सताम् च हृदयेषु
प्रीतिम् निवेशयन्ति ये त्वत्स्तुतीः विबुधसद्मसु दर्शयन्ति ।

ते निर्मलं सुकृतमात्मनि पोषयन्ति दुष्कर्मकर्दममलं हृदि शोषयन्ति । क्रूरान् विरोधबिधुरानपि
तोषयन्ति ये नाम ते शिवशिवेत्यभिघोषयन्ति ॥ २६ ॥

अन्वय-ते निर्मलम् सुकृतम् आत्मनि पोषयन्ति दुष्कर्मकर्दमम् हृदि अलम् शोषयन्ति विरोधविधुरान् अपि क्रूरान्
तोषयन्ति ये ते शिवशिवेति नाम अभिघोषयन्ति ।

ते विश्वमेव चरितैरभिभूषयन्ति क्रुद्धान् विरुद्धहृदया&श्च न दूषयन्ति । नात्युद्भटान्यमभटानपि
रोषयन्ति रागेण ये शिव मनस्तव तोषयन्ति ॥ २७ ॥

अन्वय-ते (निजैः) चरितैः विश्वम् एव अभिभूषयन्ति विरुद्धहृदयान् क्रुद्धान् च न दूषयन्ति अत्युद्भटान्
यमभटान् अपि न रोषयन्ति हे शिव ! ये (जनाः) रागेण [त्वद्भक्तिरसेन रागालापेन वा- (गीतवादेन
शंकरः) इत्युक्तेः] तव मनः तोषयन्ति ।

ते त्वां कृपाम्बुतृषिते हृदि वर्षयन्ति स्वान्तौकसोऽघभुजगानपि कर्षयन्ति । कम्पं विधाय च यमं
भ्रुवि धर्षयन्ति ये त्वां निजैर्नुतिपदैर्हर [नवैरित्यपि] हर्षयन्ति ॥ २८ ॥

अन्वय-ते कृपाम्बुतृषिते हृदि त्वाम् वर्षयन्ति स्वान्तौकसः अघभुजगान् अपि कर्षयन्ति भ्रुवि च कम्पम्
विधाय (भ्रूसंज्ञयैवेत्यर्थः) यमम् धर्षयन्ति हे हर ! ये त्वाम् निजैः नुतिपदैः हर्षयन्ति ।

ते मौनमुद्रि तगिरोऽप्युपहासयन्ति गीर्भिर्मुखानि सुधियामधिवासयन्ति । विश्वं
यशोभिरमलैरभिभासयन्ति ये मानसं तव नवैः प्रविकासयन्ति ॥ २९ ॥

अन्वय-ते मौनमुद्रितगिरः अपि उपहासयन्ति गीर्भिः सुधियाम् मुखानि अधिवासयन्ति अमलैः यशोभिः विश्वम्
अभिभासयन्ति ये नवैः तव मानसम् प्रविकासयन्ति ।

ते चित्तभित्तिमसतामपि चित्रयन्ति रोषोद्धतानरिजनानपि मित्रयन्ति । सूक्तामृतैश्च भुवमेव पवित्रयन्ति
वाङ्नावि ये तव चरित्रमरित्रयन्ति ॥ ३० ॥

अन्वय-ते असताम् अपि चित्तभित्तिम् चित्रयन्ति रोषोद्धतान् अपि अरिजनान् मित्रयन्ति सूक्तामृतैः भुवम् एव
पवित्रयन्ति ये (धन्याः) तव चरित्रम् वाङ्नावि अरित्रयन्ति ।

चेतांसि ते सुकृतिनामुपबृंहयन्ति बाह्यान्तरानसुहृदश्च निबर्हयन्ति । नात्मानमानतमरीनपि गर्हयन्ति
ये त्वां नवस्तवविभूतिभिरर्हयन्ति ॥ ३१ ॥

अन्वय-ते सुकृतिनाम् चेतांसि उपर्वृहयन्ति बाह्यान्तरान् असुहृदः च निबर्हयन्ति अरीन् आनतम् अपि आत्मानम् न
गर्हयन्ति ये त्वाम् नवस्तवविभूतिभिः अर्हयन्ति ।

आत्मानं ते कलुषकलिले मग्नमुच्चालयन्ति ज्ञानाम्भोभिर्मलमलिकुलश्यामलं क्षालयन्ति । स्मृत्वा च त्वां
प्रमदरभसादंसमास्फालयन्ति त्वद्भक्त्या ये सकलमलसं चित्तमुत्तालयन्ति ॥ ३२ ॥

अन्वय-ते कलुषकलिले मग्नम् आत्मानम् उच्चालयन्ति अलिकुलश्यामलम् मलम् ज्ञानाम्भोभिः क्षालयन्ति त्वाम् च
स्मृत्वा प्रमदरभसात् अंसम् आस्फालयन्ति ये सकलम् अलसम् चित्तम् त्वद्भक्त्या उत्तालयन्ति ।

ते रामाणां मनसि मदनं सुप्तमुन्निद्रयन्ति श्लाघां लब्धुं सदसि च सतां चित्तमुन्मुद्रयन्ति ।
तानुद्वृत्ताः कुटिलमतयो न क्वचिच्छिद्रयन्ति त्वच्चित्तं ये वरद करुणाक्रन्दितैरार्द्रयन्ति ॥ ३३ ॥

अन्वय-ते रामाणां मनसि सुप्तम् मदनम् उन्निद्रयन्ति सदसि च श्लाघाम् लब्धुम् सतां चित्तम् उन्मुद्रयन्ति
उद्वृत्ताः (क्रूराः) कुटिलमतयः (धूर्ताः) तान् क्वचित् (अपि) न छिद्रयन्ति हे वरद ! ये (धन्याः)
करुणाक्रन्दितैः त्वच्चित्तम् आर्द्रयन्ति ।

ते सभ्यानां सदसि नयनान्यश्रु विस्रावयन्ति क्रोधोत्कर्षं गुरुमुरुरुषां दूरमुत्प्रावयन्ति । चेतः
सूक्तैर्मणिमिव सतामैन्दवं द्रावयन्ति स्वामिन्ये त्वामभिनवनवव्याहृतीः श्रावयन्ति ॥ ३४ ॥

अन्वय-ते सदसि सभ्यानाम् नयनानि अश्रु विस्रावयन्ति उरुरुषाम् गुरुम् क्रोधोत्कर्षम् दूरम् उत्प्रावयन्ति
सूक्तैः सताम् चेतः ऐन्दवम् मणिम् इव द्रावयन्ति हे स्वामिन् ! ये (धन्याः) त्वाम् अभिनवनवव्याहृतीः
श्रावयन्ति ।

तेषां सूक्तीरमलमतयः पूगवच्चर्वयन्ति क्रूराणां ते मदमभिमुखं प्रेङ्खितं खर्वयन्ति ।
तान्विद्वांसस्तव नवसुधास्वादनायाह्वयन्ति त्वत्पादाग्रे मुदितमनसो ये शिरः प्रह्वयन्ति ॥ ३५ ॥

अन्वय-तेषाम् सूक्तीः अमलमतयः पूगवत् चर्वयन्ति ते क्रूराणाम् अभिमुखम् प्रेङ्खितम् (भ्राम्यन्तम्) मदम्
खर्वयन्ति तान् विद्वांसः तव नवसुधास्वादनाय आह्वयन्ति ये मुदितमनसः (सन्तः) त्वत्पादाग्रे शिरः
प्रह्वयन्ति ।

ते दुर्वृत्तानपि न कृपया पेशलाः क्लेशयन्ति ग्लानिं ज्ञानां व्यसनजनितामाशये नाशयन्ति ।
तृष्णार्त्तानप्यमृतमधुराः स्वा गिरः प्राशयन्ति त्वामन्तर्ये शकलितकलिक्लेशमावेशयन्ति ॥ ३६ ॥

अन्वय-ते कृपया पेशलाः (सन्तः) दुर्वृत्तान् अपि न क्लेशयन्ति ज्ञानाम् आशये व्यसनजनिताम् ग्लानिम्
नाशयन्ति तृष्णार्त्तान् (श्रवणेच्छुकान्) अपि अमृतमधुराः स्वाः गिरः प्राशयन्ति ये शकलितकलिक्लेशम्
त्वाम् (प्रभुम्) अन्तः (मनसि) आवेशयन्ति ।

ते रागादीन्मनसि मिलितानाशु विश्लेषयन्ति क्रोधान्धानप्यतनुविनया न क्वचिद्द्वेषयन्ति । मोहध्वान्तं
घनमधिमतिव्योम निःशेषयन्ति त्वत्पार्श्वं ये गिरमभिमतप्राप्तये प्रेषयन्ति ॥ ३७ ॥

अन्वय-ते मनसि मिलितान् रागादीन् आशु विश्लेषयन्ति ते अतनुविनयाः (सन्तः) क्रोधान्धान् अपि क्वचिद् (अपि) न
द्वेषयन्ति अधिमतिव्योम घनम् मोहध्वांतम् निःशेषयन्ति ये अभिमतप्राप्तये गिरम् त्वत्पार्श्वम् प्रेषयन्ति ।

ते निर्वेदं मनसि शमिनामह्नुतं ह्रासयन्ति त्रस्तानस्तंगमितविपदः शश्वदाश्वासयन्ति ।
त्वद्भावैकप्रवणभणितैरन्तकं त्रासयन्ति स्तुत्या ये त्वां नतजनहृतत्रासमुल्लासयन्ति ॥ ३८ ॥

अन्वय-ते शमिनाम् मनसि निर्वेदम् अह्नुतम् (अजस्रम्) ह्रासयन्ति अस्तंगमितविपदः (सन्तः) त्रस्तान् शश्वत्
आश्वासयन्ति त्वद्भावैकप्रवणभणितैः अन्तकम् त्रासयन्ति ये नतजनहृतत्रासम् त्वाम् स्तुत्या उल्लासयन्ति ।

ते तज्ज्ञानां परिषदि गुणानात्मनः शंसयन्ति स्वान्ते चान्तर्यमभुजगजं साध्वसं ध्वंसयन्ति ।
क्लेशान्पाशानिव च निबिडानाशु विस्रंसयन्ति प्रौढानां ये तव नुतिमधिश्रोत्रमुत्तंसयन्ति ॥ ३९ ॥

अन्वय-ते तज्ज्ञानाम् परिषदि आत्मनः गुणान् (सभ्यान् प्रति) शंसयन्ति स्वान्ते अन्तः च यमभुजगजम्
साध्वसम् ध्वंसयन्ति क्लेशान् च निबिडान् पाशान् इव आशु विस्रंसयन्ति ये तव नुतिम् प्रौढानाम्
अधिश्रोत्रम् (श्रोत्रे) उत्तंसयन्ति ।

ते त्वद्भक्तिव्यसनमनघं कर्म निर्वाहयन्ति त्वत्सेवासु स्थिरमविरतं चित्तमुत्साहयन्ति । स्वं चाघौघं
यममदनवत्त्वद्दृशा दाहयन्ति त्वां विज्ञप्तिं स्वयमवहितं येऽन्वहं ग्राहयन्ति ॥ ४० ॥

अन्वय-ते त्वद्भक्तिव्यसनम् अनघम् कर्म निर्वाहयन्ति अविरतम् चित्तम् त्वत्सेवासु स्थिरम् उत्साहयन्ति स्वम् च
अघौघम् यममदनवत् त्वद्दृशा दाहयन्ति ये अन्वहम् अवहितम् (सावधानीभूय) स्वयम् (एव) त्वाम् विज्ञप्तिम्
ग्राहयन्ति ।

ते तक्षाणं तरुमिव गुरुं त्वामघं तक्षयन्ति प्राप्तुं तृप्तिं शुभफलभरं निर्भरं भक्षयन्ति ।
प्रत्यासन्नां श्रियमपि धिया तीक्ष्णया लक्षयन्ति त्वद्भक्तान्ये श्रुतिमिव नुतिं तावकीं शिक्षयन्ति ॥
४१ ॥

अन्वय-ते तक्षाणम् तरुम् इव त्वाम् गुरुम् अघम् तक्षयन्ति तृप्तिम् प्राप्तुम् निर्भरम् शुभफलभरम् भक्षयन्ति
तीक्ष्णया धिया प्रत्यासन्नाम् श्रियम् अपि लक्षयन्ति ये त्वद्भक्तान् श्रुतिम् इव तावकीम् नुतिम् शिक्षयन्ति ।

इति श्रीप्रेममकरन्दसमेतं काश्मीरक-महाकवि-श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ स्तुतिफलप्राप्तिस्तोत्रं समाप्तम् ।

सप्तत्रिंशं स्तोत्रम्

इह हि स्वात्ममहेश्वरपरिभावनशुद्धसंविदः सुधियः । कमलदलानि जलैरिव बहिरावरणैर्न लिप्यन्ते ॥
१ ॥

अन्वय-हि इह स्वात्ममहेश्वरपरिभावनशुद्धसंविदः सुधियः जलैः कमलदलानि इव बहिरावरणैः
(शुभाशुभतदुभयरूपत्रिविधकर्मभिः) न लिप्यन्ते ।

कविमुखकमलोपवने कृतवसतिर्जयति सूक्तिकल्पलता । या फलति भुक्तिमुक्ती शिवभक्तिसुधारसासेकैः ॥ २


अन्वय-कविमुखकमलोपवने कृतवसतिः सा सूक्तिकल्पलता जयति या शिवभक्तिसुधारसासेकैः भुक्तिमुक्ती
फलति ।

जय जय हर रक्ष भयादेवं देवं शिवं शिवं लब्धुम् । यः स्तौति तस्य सफलः सारः सारस्वतः
स्वतः स्फारः ॥ ३ ॥

अन्वय-हे हर ! जय जय [जय जयेति पौनरुक्त्ये भक्त्युल्लासान्न दोषः एवमग्रेऽपि] (माम्) भयात् रक्ष एवम्
शिवम् लब्धुम् यः देवम् शिवम् स्तौति तस्य सारः (उत्कृष्टः) सारस्वतः स्फारः स्वतः सफलः (भवति)


शिव शिव शङ्कर शङ्कर भवगतिरिति यः प्रलापमुखरमुखः । तस्य हि सफला दिवसाः शिवसायुज्यं
च हस्तगतम् ॥ ४ ॥

अन्वय-हे शिव ! हे शिव !! हे शङ्कर ! हे शङ्कर !! (त्वं ममागतिकस्य) गतिः भव इति यः
प्रलापमुखरमुखः (भवति) हि तस्य दिवसाः सफलाः (भवन्ति) शिवसायुज्यम् च हस्तगतम् (भवति) ।

इह खलु पशुपतिनुतिभिः कतिपयमपि यः कृतार्थयति कालम् । सकलकलिकलुषमुक्तो जीवन्मुक्तः स किं
बहुना ॥ ५ ॥

अन्वय-इह खलु यः (पुरुषः) पशुपतिनुतिभिः कतिपयम् अपि कालम् (निमेषक्षणमुहूर्तादिमात्रम् अपि)
कृतार्थयति सः सकलकलिकलुषमुक्तः (सन्) जीवन्मुक्तः (भवति) किम् बहुना (उक्तेन) ।

उपचितकुशलश्रेणिः परमपदारोहणैकनिश्रेणिः । जयति महामृतवेणिर्विबुधजनाह्लादिनी नुतिः शम्भोः
॥ ६ ॥

अन्वय-उपचितकुशलश्रेणिः परमपदारोहणैकनिश्रेणिः महामृतवेणिः विबुधजनाह्लादिनी शम्भोः नुतिः
जयति ।

किमियं सद्गुरुदृष्टिर्ह्लादैकमयी नु किं जगत्सृष्टिः । किं वा निरभ्रवृष्टिः श्रवणामृतवर्षिणी
नुतिः शम्भोः ॥ ७ ॥

अन्वय-श्रवणामृतवर्षिणी इयम् शम्भोः नुतिः किम् सद्गुरुदृष्टिः (अस्ति ?) किम् नु ह्लादैकमयी
जगत्सृष्टिः (अस्ति) ? किं वा-निरभ्रवृष्टिः (अस्ति [अत्र संशयालङ्कारः] ?) ।

अक्षयसुखोपभुक्तिः परमशिवावाप्तये नवा युक्तिः । यदि वा जीवन्मुक्तिः श्रवणामृतवर्षिणी नुतिः
शम्भोः ॥ ८ ॥

अन्वय-श्रवणामृतवर्षिणी शम्भोः नुतिः (किम्) अक्षयसुखोपभुक्तिः (अस्ति) ? किं वा - परमशिवावाप्तये
नवा युक्तिः (अस्ति ?) यदि वा (साक्षादेव) जीवन्मुक्तिः (अस्ति ?) ।

क्षेत्रं तदिह पवित्रं तत्तीर्थं पावनं तदायतनम् । तदिह तपोवनमनघं यत्र नुतिः शांभवी
श्रुतिं विशति ॥ ९ ॥

अन्वय-यत्र (क्षेत्रादौ) शाम्भवी नुतिः श्रुतिम् विशति इह (जगति) तत् (एव) क्षेत्रम् पवित्रम् तत् (एव)
तीर्थम् पावनम् तत् आयतनम् पावनम् इह तत् तपोवनम् अनघम् (भवति) ।

सा क्रीडा सा गोष्ठी सा विश्रान्तिः स भूमिकालाभः । साऽखिलदुःखनिवृत्तिर्यत्र नुतिः शांभवी
श्रुतिं विशति ॥ १० ॥

अन्वय-सा क्रीडा सा (एव) गोष्ठी सा (एव) विश्रान्तिः सः भूमिकालाभः (श्रेयान्) सा (एव)
अखिलदुःखनिवृत्तिः यत्र शांभवी नुतिः श्रुतिम् विशति ।

तद्ध्यानं स समाधिः स महायागस्तदर्चनं सकलम् । सा खलु परमा दीक्षा यत्र नुतिः शांभवी
श्रुतिं विशति ॥ ११ ॥

अन्वय-तत् ध्यानम् सः समाधिः सः (एव) महायागः तत् सकलम् अर्चनम् सा खलु परमा दीक्षा यत्र
शांभवी नुतिः श्रुतिम् विशति ।

यदि पारिजातकुसुमस्तवकस्तव कर्णयोरलङ्करणम् । भवितुं भवति न सुलभः श्रुतिपथमेता नय स्तुतीः
शम्भोः ॥ १२ ॥

अन्वय-हे प्रणतजन ! यदि पारिजातकुसुमस्तवकः तव कर्णयोः अलङ्करणम् भवितुम् न सुलभः भवति
तर्हि एताः (मदीयाः) शम्भोः स्तुतीः श्रुतिपथम् नय । (स्वर्गतरुपारिजातकुसुमस्तवकेभ्योऽप्येताः
अतिहृद्या इत्यर्थः) ।

अभिलषसि यदि निरोद्धुं पवनादपि दुर्ग्रहं मनोहरिणम् । तदिमा गृहाण निभृतं
दृढगुणगुणगुम्फिताः स्तुतीः शंभोः ॥ १३ ॥

अन्वय-अयि भावुकजन ! पवनात् अपि दुर्ग्रहम् मनोहरिणम् निरोद्धुम् यदि अभिलषसि ? तत् (तर्हि) इमाः
(मदीयाः) दृढगुणगुणगुम्फिताः [दृढा ये गुणाः ओजःप्रसादमाधुर्यास्त्रयस्त एव गुणास्तन्तवः
तैर्गुम्फिताः (बद्धाः)] शम्भोः स्तुतीः निभृतम् (निश्चलीभूय) गृहाण ।

यदमृतमम्बुधिमन्थनसमुत्थितं तस्य कः स्विदास्वादः । इति यदि हृदि तव कौतुकमाकर्णय
तत्स्तुतीरिमाः शंभोः ॥ १४ ॥

अन्वय-हे सहृदयजन ! अम्बुधिमन्थनसमुत्थितम् यत् अमृतम् तस्य कः स्वित् आस्वादः (भवति) इति यदि तव
हृदि कौतुकम् (अस्ति) तत् इमाः शम्भोः स्तुतीः आकर्णय ।

विषयोपभोगरहितः सहजो ह्लादः सतां मतो मोक्षः । तमपि यदीच्छसि वेदितुमवहितहृदयः शृणु
स्तुतीः शम्भोः ॥ १५ ॥

अन्वय-हे प्रणतजन ! विषयोपभोगरहितः सहजः ह्लादः मोक्षः सताम् मतः (अभिमतः अस्ति) तम् अपि
(मोक्षम्) वेदितुम् यदि (त्वम्) इच्छसि तर्हि अवहितहृदयः (सन्) शंभोः स्तुतीः शृणु ।

अशुचि शुचामायतनं मलकलिलमिदं कलेवरं सत्यम् । भगवदुपासनसाधनमिति भवति न कस्य कमनीयम्
॥ १६ ॥

अन्वय-अशुचि शुचाम् आयतनम् मलकलिलम् इदम् कलेवरम् सत्यम् (एवंभूतमपि शरीरम्) भगवदुपासनसाधनम्
भवति इति (हेतोः) कस्य न कमनीयम् (काङ्क्षणीयम्) भवति ?

यदि मनुषे यमनियमप्राणायामादि दुर्घटं कर्त्तुम् । तदिमं सुगममुपायं श्रय परमपदाप्तये नुतिं
शम्भोः ॥ १७ ॥

अन्वय-हे मनुज ! यदि (त्वम्) यमनियमप्राणायामादि कर्तुम् दुर्घटम् मनुषे तत् परमपदाप्तये इमम् सुगमम्
उपायम् शम्भोः नुतिम् श्रय ।

सिद्धं सम्यगभीष्टं सत्यगिरामाशिषः सतां फलिताः । लब्धं सुकृतस्य फलं निर्व्यूढेयं
यतः स्तुतिः शम्भोः ॥ १८ ॥

अन्वय-(मम) अभीष्टम् सम्यक् सिद्धम् सत्यगिराम् सताम् (अपि) आशिषः (मम) फलिताः सुकृतस्य फलम् (मया)
लब्धम् यतः (मया) इयम् शम्भोः स्तुतिः निर्व्यूढा (निर्वाहं प्राप्तुं पारिता) ।

मम सारः संसारः सकलमिदं मर्त्यजन्म मम सफलम् । मम सदृशोऽस्ति न कश्चन यदहं स्तोता
शिवस्य संवृत्तः ॥ १९ ॥

अन्वय-मम (धन्यस्य) संसारः सारः मम इदम् मर्त्यजन्म सकलम् सफलम् (कृतार्थम्) (इह भूमौ) मम
सदृशः कश्चन न अस्ति यत् अहम् शिवस्य स्तोता संवृत्तः ।

प्रणमामि प्रणमामि स्तौमि स्तौमि प्रभुं जगन्नाथम् । ध्यायामि ध्यायामि च यामि च विमलं परं धाम
॥ २० ॥

अन्वय-(अहम्) जगन्नाथम् प्रभुम् (वाङ्मनःकायकर्मभिः) प्रणमामि प्रणमामि प्रभुम् स्तौमि स्तौमि
(तदेकचित्तः सन् तत्पादाम्भोजयुगलम्) ध्यायामि ध्यायामि च (त्वदीयप्रसादात्) विमलम् परम् धाम च
(अवश्यम्) यामि ।

इति श्री प्रेममकरन्दसमेतं काश्मीरक-महाकवि-श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ स्तुति-प्रशंसा नामकं स्तोत्रं सप्तत्रिंशम् ।

अष्टात्रिंशं स्तोत्रम्

प्. ७७४)

सहस्रशीर्षा पुरुषः पुनातु वः सहस्रचक्षुर्भगवान् सहस्रपात् । गलेऽङ्घ्रिमूले नयने च निश्चला-
स्त्रयोऽप्यमी [उपासते यं पुरुषास्त्रयोऽप्यमी] यं पुरुषा उपासते ॥ १ ॥

अन्वय-सहस्रशीर्षा पुरुषः (शेषः) सहस्रचक्षुः पुरुषः (इन्द्रः) सहस्रपात् पुरुषः (सूर्यः) अमी
त्रयः अपि पुरुषाः निश्चलाः (सन्तः) यम् (श्रीशिवम् क्रमेण) गले अङ्घ्रिमूले नयने च उपासते सः
सहस्रशीर्षा सहस्रचक्षुः सहस्रपात् पुरुषः [पुरि पुरि - प्रति शरीरं तिष्ठतीति पुरुषः
(परमात्मा)] (विराट्रूपः) भगवान् वः पुनातु ।

सरस्वतीवेन्दुकलोद्गता करैः सरस्वतीव श्रवणामृतैः स्वरैः । सरस्वतीवोर्मिभिरीश्वरस्तवैः
सरस्वती वर्षतु वः सुधामियम् ॥ २ ॥

अन्वय-[इव=यथा तथा] यथा सरस्वती (समुद्रे) उद्गता इन्दुकला करैः (स्वकिरणैः) सुधां वर्षति
श्रवणामृतैः स्वरैः सरस्वती (वीणा) सुधां वर्षति ऊर्मिभिः सरस्वती (तन्नाम्नी नदी) सुधां
वर्षति तथा इयम् (मम) सरस्वती ईश्वरस्तवैः वः सुधाम् वर्षतु ।

विमर्शशून्येन मया निरर्थकः खलेन कालः सकलोऽतिवाहितः । इदं त्वसारादतिसारमुद्धृतं धृतं
यदीशस्तुतिवेतनं मनः ॥ ३ ॥

अन्वय- विमर्शशून्येन मया खलेन सकलः कालः निरर्थकः अतिवाहितः इदम् तु असारात् अतिसारम् उद्धृतम्
यत् मनः ईशस्तुतिवेतनम् धृतम् ।

न हृद्यतामेति परस्य दुर्मुखः शिशुः स्रवत्पीनसदिग्धनासिकः । पितुः स्वकीयस्य तु जीविताधिक-
स्तथोपहास्योऽपि ममाऽयमुद्यमः ॥ ४ ॥

अन्वय-यथा दुर्मुखः स्रवत्पीनसदिग्धनासिकः शिशुः परस्य हृद्यताम् न एति (किन्तु स एव शिशुः)
स्वकीयस्य पितुः तु जीविताधिकः (भवति) तथा मम अयम् उपहास्यः अपि उद्यमः (भवतीति जाने) ।

अवैमि भाग्योपचयः स पुष्कलः सशक्तिपातः खलु पारमेश्वरः । स वा महार्हो महतामनुग्रहो
यदीश्वराराधनसाधनं मनः ॥ ५ ॥

अन्वय-(अहम्) अवैमि सः पुष्कलः भाग्योपचयः (अस्ति) सः खलु पारमेश्वरः शक्तिपातः (दृष्टिपातः
अस्ति) सः वा (च) महार्हः महताम् अनुग्रहः (अस्ति) यत् मनः ईश्वराराधनसाधनम् (भवति) ।

अहो कृतार्थोऽस्मि मनोभिरामया गिरा गुणालङ्कृतयेह रामया । तनुः स्थिरेयं ध्रियते निरामया भवे च
यद्भक्तिरभङ्गुरा मया ॥ ६ ॥

अन्वय-अहो ! इह (अहम्) गुणालङ्कृतया मनोभिरामया रामया (इव) गुणालङ्कृतया मनोभिरामया गिरा
कृतार्थः अस्मि यत् मया इयम् स्थिरा निरामया तनुः भवे अभङ्गुरा भक्तिः च ध्रियते ।

न विद्यया प्रीतिरनर्घमानया तथा श्रिया वाऽन्वहमेधमानया । शिवस्तवैकव्रतयाऽसमानया
[ममानया] यथा गिरा सान्द्रसुधासमानया ॥ ७ ॥

अन्वय-अनर्घमानया विद्यया अन्वहम् एधमानया श्रिया वा तथा न (मे) प्रीतिः (भवति) यथा असमानया
सान्द्रसुधासमानया शिवस्तवैकव्रतया गिरा प्रीतिः (भवति) ।

पुरः स्फुरन्तं विमृशन्महेश्वरं विलीनवेद्यान्तरवेदनो दशाम् । नवस्तवोल्लेखविधौ स्पृशामि यां
ममान्तरात्मा विभुरेव वेत्ति ताम् ॥ ८ ॥

अन्वय-विलीनवेद्यान्तरवेदनः (अहम्) पुरः स्फुरन्तम् महेश्वरम् विमृशन् नवस्तवोल्लेखविधौ याम् दशाम्
(भूमिकाम्) स्पृशामि ताम् मम दशाम् (केवलम्) अन्तरात्मा विभुः एव वेत्ति ।

मनुष्यता पूरुषताऽग्र्यवर्णता मनीषिता सत्कविता शिवैकता । इयं मम क्षेमपरम्परा विभोः
स्तुतिप्रसङ्गेन गता कृतार्थताम् ॥ ९ ॥

अन्वय-मनुष्यता पूरुषता अग्र्यवर्णता मनीषिता सत्कविता शिवैकता (एवं प्रकारेण) इयम् मम
क्षेमपरम्परा विभोः स्तुतिप्रसङ्गेन कृतार्थताम् गता ।

ध्रुवं नवानां रसगर्भनिर्भर- ध्वनिर्घनानामनघेयमावलिः । पृथुप्रभावं शशिखण्डमण्डितं
प्रहर्षिणं नीलगलं करिष्यति ॥ १० ॥

अन्वय-[यथा रसगर्भनिर्भरध्वनिः अनघा नवानाम् घनानाम् आवलिः
पृथुप्रभावंश-शिखण्डमण्डितम् नीलगलम् (मयूरम्) प्रहर्षिणम् करोति तथा-] इयम्
रसगर्भनिर्भरध्वनिः घनानाम् (अष्टात्रिंशत्संख्यया परिमितत्वाद् बहुलानाम्) नवानाम् अनघा आवलिः
ध्रुवम् पृथुप्रभावम् शशिखण्डमण्डितम् नीलगलम् (श्रीशिवम्) प्रहर्षिणम् करिष्यति ।

यदि ह्ययोग्याश्चरणान्तिके वयं तथापि नः प्राङ्गणसीमसेविनाम् । चमत्करिष्यन्ति गिरः प्रभोरिमा
जनङ्गमानामिव गीतरीतयः ॥ ११ ॥

अन्वय-यदि हि प्रभोः चरणान्तिके (इमाः स्तुतीः श्रावयितुम् वयम्) अयोग्याः तथापि प्रभोः
प्राङ्गणसीमसेविनाम् (यामिकानां गणानामेव) नः इमाः गिरः गीतरीतयः जनङ्गमानाम् इव
चमत्करिष्यन्ति ।

परोपकारैरिव राजसेवनं दरिद्रगार्हस्थ्यमिवार्थितर्पणैः । इदं
[वपुर्बहुक्लेशमपीदमीश्वरस्तवैरवैमि स्पृहणीयमात्मनः इत्यपि पाठः साधुः ।]
बहुक्लेशमपीश्वरस्तवै- रवैमि वर्ष्म स्पृहणीयमात्मनः ॥ १२ ॥

अन्वय-बहुक्लेशम् अपि राजसेवनम् परोपकारैः इव बहुक्लेशम् अपि दरिद्रगार्हस्थ्यम् अर्थितर्पणैः इव
बहुक्लेशम् अपि इदम् आत्मनः वर्ष्म (अहम्) ईश्वरस्तवैः स्पृहणीयम् अवैमि ।

सहस्रपत्रैरिव पल्वलोदकं शिरः फणीन्द्रस्य मणिव्रजैरिव । सदोषमप्येतदवैमि मानुषं मनोरमं
जन्म महेश्वरस्तवैः ॥ १३ ॥

अन्वय-सदोषम् अपि (कलुषमपि) पल्वलोदकम् सहस्रपत्रैः इव सदोषम् (अविरलगरलापूर्णम्) अपि फणीन्द्रस्य
शिरः मणिव्रजैः इव (अहम्) सदोषम् अपि एतत् मानुषम् जन्म महेश्वरस्तवैः मनोरमम् अवैमि ।

मृगेन्द्रशावा इव कन्दरोदरा- त्करीन्द्रकुम्भादिव मौक्तिकोत्कराः । विनिःसरन्तः कवितुर्मुखादमी
मनोज्ञतां बिभ्रति कस्य न स्तवाः ॥ १४ ॥

अन्वय-कन्दरोदरात् विनिःसरन्तः मृगेन्द्रशावाः इव करीन्द्रकुम्भात् विनिःसरन्तः मौक्तिकोत्कराः इव
कवितुः (मम) मुखात् विनिःसरन्तः अमी स्तवाः (अष्टात्रिंशत्संख्यकाः) कस्य न मनोज्ञताम् बिभ्रति
(अपि तु सर्वस्यापीति भावः) ।

मरालमाला सरसीव निर्मले कुचस्थले हारलतेव सुभ्रुवाम् । इयं भवत्वाभरणं महेश्वर- स्तवावली
वक्त्रसरोरुहे सताम् ॥ १५ ॥

अन्वय-निर्मले सरसि (मानसे इत्यौचित्यात्) मरालमाला इव सुभ्रुवाम् कुचस्थले हारलता इव इयम् (मत्कृता)
महेश्वरस्तवावली सताम् वक्त्रसरोरुहे आभरणम् भवतु ।

इमां घनश्रेणिमिवोन्मुखः शिखी चकोरकः कार्तिकचन्द्रिकामिव । रथाङ्गनामा तरणेरिव त्विषं
स्तवावलीं वीक्ष्य न कः प्रमोदते ॥ १६ ॥

अन्वय-उन्मुखः शिखी घनश्रेणिम् इव चकोरकः कार्तिकचन्द्रिकाम् इव रथाङ्गनामा तरणेः त्विषम् इव
इमाम् (मत्कृताम्) स्तवावलीम् वीक्ष्य कः न प्रमोदते ?

मधुव्रतः सौमनसीमिव स्रजं सितच्छदः पङ्कजकर्णिकामिव । पिको विकोषामिव चूतमञ्जरी- मिमां न
कश्चर्वयति स्तवावलीम् ॥ १७ ॥

अन्वय-मधुव्रतः (भृङ्गः) सौमनसोम् स्रजम् इव सितच्छदः (हंसः) पङ्कजकर्णिकाम् इव पिकः (कोकिलः)
विकोषाम् (प्रफुल्लाम्) चूतमञ्जरीम् इव इमाम् स्तवावलीम् कः न चर्वयति ?

मनस्विनीनामिव साचि वीक्षितं स्तनन्धयानामिव मुग्धजल्पितम् । अवश्यमासां मधु सूक्तिवीरुधां
मनीषिणां मानसमार्द्रयिष्यति ॥ १८ ॥

अन्वय-मनस्विनीनाम् साचि वीक्षितम् इव स्तनन्धयानाम् मुग्धजल्पितम् इव आसाम् सूक्तिवीरुधाम् मधु
मनीषिणाम् (सहृदयानाम्) मानसम अवश्यम् आर्द्रयिष्यति ।

इयं मधुश्रीरिव केलिकाननं सरोवरं प्रावृडिवातपक्षतम् । स्तवावली काव्यकुतूहलं सता-
मकालजीर्णं तरुणीकरिष्यति ॥ १९ ॥

अन्वय-अकालजीर्णम् केलिकाननम् मधुश्रीः (वसन्तलक्ष्मीः) इव आतपक्षतम् सरोवरम् प्रावृट् इव इयम्
स्तवावली अकालजीर्णम् सताम् काव्यकुतूहलम् (पुनः) तरुणीकरिष्यति (नवं संपादयतीत्यर्थः [इदं
मदीयं काव्यं परीक्ष्य अन्येऽपि कवयस्तदुद्युक्तमनसो भविष्यन्तीत्यर्थः]) ।

विमत्सराणां सदसद्विवेकिनां महात्मनां मूर्ध्नि धृतोऽयमञ्जलिः । विलोकयन्तु प्रभुगौरवादिमां
प्रसादबुद्ध्या मयि वा स्तवावलीम् ॥ २० ॥

अन्वय-विमत्सराणाम् सदसद्विवेकिनाम् महात्मनाम् मूर्ध्नि अयम् अञ्जलिः (स्तुतिकुसुमाञ्जलिग्रन्थः) धृतः
(समर्पितः) इमाम् (मत्कृताम्) स्तवावलिम् प्रमुगौरवात् विलोकयन्तु वा मयि (वराके) प्रसादबुद्ध्याविलोकयंतु


स्तवावलीढौकनकार्पणच्छला- दलभ्यमभ्यर्णचरैः सुरैरपि । प्रभोः पदस्पर्शमशङ्कमीप्सतो
विकत्थनत्वेपि न मे विडम्बना ॥ २१ ॥

अन्वय-अभ्यर्णचरैः सुरैः अपि अलभ्यम् प्रभोः पदस्पर्शम् स्तवावलीढौकन-कार्पणच्छलात् अशङ्कम्
ईप्सतः मे (मम) विकत्थनत्वे अपि विडम्बना न (अस्ति) ।

कलिमलमषीकल्माषोऽयं मनोमुकुरः पुरः स्फुरितमपि न व्यक्तं वस्तु ग्रहीतुमभवत्क्षमः । सपदि
विशदैः शब्दब्रह्मोर्मिभिर्विमलीकृते करबदरवत्पश्यामोऽस्मिन् समस्तमिदं जगत् ॥ २२ ॥

अन्वय-(पुरा) कलिमलमषीकल्माषः अयम् मनोमुकुरः पुरः स्फुरितम् अपि व्यक्तम् वस्तु ग्रहीतुम् न क्षमः
अभूत् सपदि (इदानीम्) विशदैः शब्दब्रह्मोर्मिभिः (श्रीभगवत्स्तुतिरूपैः तरङ्गैः) विमलीकृते अस्मिन्
(मनोमुकुरे) इदम् समस्तम् जगत् करबदरवत् पश्यामः (सर्वं शिवमयं जगदित्याकलयाम इत्यर्थः) ।

यदासीदज्ञानं स्मरतिमिर-संस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदपि ।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म तनुते ॥

आनन्दिनि स्तुवति नन्दिनि गूढमर्थं देवश्चमत्कृतिकृताङ्गुलिभङ्गभङ्गिः । अङ्गस्थितां
भगवतीमधिरूढहासा- मासामवश्यमवबोधयति स्तुतीनाम् ॥ २३ ॥

अन्वय-नन्दिनि (द्वारपाले गणाधीशे) आसाम् (मदीयानाम्) स्तुतीनाम् गूढम् अर्थम् (श्रुत्वा) आनन्दिनि
(सानन्दे) स्तुवति सति देवः (शंभुः) चमत्कृतिकृताङ्गुलिभङ्गभङ्गिः (सन्) अधिरूढहासाम्
अङ्गस्थिताम् भगवतीम् (श्रीगिरिजाम्) आसाम् (मदीयानाम्) स्तुतीनाम् गूढम् अर्थम् अवश्यम् अवबोधयति ।

मन्ये मनोवचनकर्मभिरद्भुतानि यान्यूर्जितानि सुकृतानि पुराकृतानि । एतानि तानि शिवभक्तिपवित्रितानि
कर्णामृतानि फलितानि सुभाषितानि ॥ २४ ॥

अन्वय-(अहम्) मन्ये (अस्माभिः) यानि ऊर्जितानि (बहुलानि) अद्भुतानि सुकृतानि मनोवचनकर्मभिः पुरा कृतानि
तानि एतानि शिवभक्तिपवित्रितानि कर्णामृतानि सुभाषितानि फलितानि ।

एते प्रभोः प्रमथभर्त्तुरभीष्टमष्टा- त्रिंशत्स्तवा विमृशतां विदुषां दिशन्तु । तेनैव दृक्षु
धृतघर्मकरामृतांशु- सप्तार्चिषामिव कलाः सकलार्थलाभम् ॥ २५ ॥

अन्वय-प्रभोः प्रमथभर्तुः एते अष्टात्रिंशत् स्तवाः तेन एव (प्रभुणा) दृक्षु
धृतघर्मकरामृतांशुसप्तार्चिषाम् कलाः इव विमृशताम् (श्री शिवभक्तिरसामृतमास्वादयताम्)
विदुषाम् अभीष्टम् सकलार्थलाभम् दिशन्तु ।

अयमिह किङ्करेण रचितश्चरणाम्बुजयोः स्तुतिकुसुमाञ्जलि-र्भगवतस्तरुणेन्दुभृतः ।
अविरलभक्तिसिक्तनवसूक्तिलताऽवचितः कलयतु सौरभेण सुकृतां स्पृहयालु मनः ॥ २६ ॥

अन्वय-इह (मया) किङ्करेण भगवतः तरुनेन्दुभृतः चरणाम्बुजयोः रचितः
अविरलभक्तिसिक्तनवसूक्तिलताऽवचितः अयम् स्तुतिकुसुमाञ्जलिः सौरभेण (परमानन्ददायिना परिमलेन)
सुकृताम् मनः स्पृहयालु कलयतु ।

अयि प्रमथनायक त्रिजगतामधिष्ठायक प्रसन्नमुख षण्मुख त्रिदशवन्द्य नन्दीश्वर । निवेदयत
भक्तितश्चरणकिङ्करेणाऽर्पितं पुरः पुररिपोरिमं विकचवाक्यपुष्पाञ्जलिम् ॥ २७ ॥

अन्वय-अयि त्रिजगताम् अधिष्ठायक ! हे प्रमथनायक ! अयि प्रसन्नमुख ! हे षण्मुख ! अयि त्रिदशवन्द्य !
हे नन्दीश्वर ! (मयि कृपां [इत्यध्याहारः] कुरुत) चरणकिङ्करेण (मया जगद्धरकविना) भक्तितः
अर्पितम् इमम् विकचवाक्यपुष्पाञ्जलिम् पुररिपोः पुरः निवेदयत ।

इति परिषदि सिंहस्यन्दन-स्कन्द-नन्दि-प्रभृतिभिरभिराद्धैर्वन्द्यमावेद्यमानम् । स्तुतिकुसुमसमूहं
प्राभृतीकृत्य शंभो- र्यदमलमुपलब्धं शर्म तेनेदमस्तु ॥ २८ ॥

भुवि भुवि कुविकल्पः स्वल्पतामेतु जेतुं धुरि धुरि दुरितौघं वर्द्धतां शुद्धबोधः । पथि पथि
मथितोग्रव्यापदापन्नतापा नरि नरि परिपूर्णा जृम्भतां शम्भुभक्तिः ॥ २९ ॥

अन्वय-इति (पूर्वोक्तप्रकारेण) परिषदि अभिराद्धैः सिंहस्यन्दन-स्कन्द-नन्दिप्रभृतिभिः वन्द्यम्
(प्रशस्यम्) आवेद्यमानम् (इमम्) स्तुतिकुसुमसमूहम् शम्भोः प्राभृतीकृत्य (उपायनीकृत्य) यत् अमलम् शर्म
(मया) उपलब्धम् तेन (शर्मणा) इदम् (भुविभुवीत्यादि वक्ष्यमाणम्) अस्तु कुविकल्पः भुविभुवि (देशेदेशे)
स्वल्पताम् एतुः तथा शुद्धबोधः दुरितौघम् जेतुम् धुरि धुरि वर्धताम् (अग्रे अग्रे वृद्धिं लभताम्) पथि
पथि (प्रतिमार्गम्) मथितोग्रव्यापदा पन्नतापा परिपूर्णा शम्भुभक्तिः नरि नरि जृम्भताम् ।

इति शुभं भगवच्चरितस्तुति- व्यतिकरेण यदर्जितमूर्जितम् । भवतु तेन मनस्यनपायिनी सुकृतिनां
शिवभक्तिचमत्कृतिः ॥ ३० ॥

अन्वय-इति भगवच्चरितस्तुतिव्यतिकरेण (मया) यत् ऊर्जितम् (महत्सुकृतम्) अर्जितम् तेन सुकृतिनाम् मनसि
अनपायिनी शिवभक्तिचमत्कृतिः भवतु ।

इति श्रीप्रेममकरन्दसमेतं काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ पुण्यपरिणाम स्तोत्रमष्टात्रिंशम्

ग्रन्थकर्तुर्वंशवर्णनम्

पुरा पुरारेः पदधूलिधूसरः सरस्वतीस्वैरविहारभूरभूत् । विशालवंशश्रुतवृत्तविश्रुतो
विपश्चितां गौरधरः किलाऽग्रणीः ॥ १ ॥

अन्वय-पुरा किल पुरारेः पदधूलिधूसरः विशालवंशश्रुतवृत्तविश्रुतः विपश्चिताम् अग्रणीः
गौरधरः (तन्नामकः) सरस्वतीस्वैरविहारभूः [आरोपेण योजना] अभूत् ।

भ्रमादनिर्माय पुरातनः कवि- र्यमग्रिमश्लोकमवश्यमग्रतः । विमृश्य पङ्क्तेरुपरि द्विजन्मनां
न्यवीविशत्काकपदाङ्कितं पुनः ॥ २ ॥

अन्वय-पुरातनः कविः (ब्रह्मा) यम् अग्रिमश्लोकम् (अग्र्ययशसम्) भ्रमात् [भ्रमेण सृष्ट्याकुलचित्तत्वात्]
अवश्यम् अग्रतः (सर्वब्राह्मणजातेः आदावेव) अनिर्माय पुनः विमृश्य (विचार्य) द्विजन्मनाम् पङ्क्तेः उपरि
काकपदाङ्कितम् [काकपदेन भ्रमचिह्नेन अङ्कितस्तम् यथा कश्चित् कविः अवश्यं आदावेव लेख्यं
पद्यमलिखित्वा पुनः वर्णानाम् (अक्षराणाम्) पङ्क्तेः उपरि काकपदं निजभ्रमसूचकं चिह्नं लिखति
तथेत्यर्थः] पुनः न्यवीविशत् ।

अनन्तसिद्धान्तपथान्तगामिनः समस्तशास्त्रार्णवपारदृश्वनः । ऋजुर्यजुर्वेदपदार्थवर्णना व्यनक्ति
यस्याऽद्भुतविश्रुतं श्रुतम् ॥ ३ ॥

अन्वय-अनन्तसिद्धान्तपथान्तगामिनः समस्तशास्त्रार्णवपारदृश्वनः (यस्य) ऋजुः (निर्मला निर्दोषा च)
यजुर्वेदपदार्थवर्णना (यजुर्वेदस्य वेदविलासनाम्नी भाष्यपद्धतिः) यस्य अद्भुतविश्रुतम् श्रुतम् व्यनक्ति


सुतोऽभवद्रत्नधरः शिरोमणि- र्मनीषिणामस्य गुणौघसागरः । यमाश्रिताह्वास्त सरस्वती हरे-
रुरःस्थलं रत्नधरं श्रितां श्रियम् ॥ ४ ॥

अन्वय-अस्य (गौरधरस्य) सुतः मनीषिणाम् शिरोमणिः गुणौघसागरः रत्नधरः (रत्नधरनामकः) सः
अभवत् यम् (रत्नधरम्) आश्रिता सरस्वती रत्नधरम् (कौस्तुभधारिणम्) हरेः उरःस्थलम् श्रिताम् श्रियम्
आह्वास्त (पस्पर्धे) ।

उदारसत्त्वं विपुलं सुनिर्मलं प्ररूढमर्यादमगाधमाशयम् । प्रविश्य यस्य स्ववशा सरस्वती पदं
बबन्ध स्थिरमम्बुधेरिव ॥ ५ ॥

अन्वय-यस्य (रत्नधरस्य) उदारसत्त्वम् (प्रचुरधैर्यम्) विपुलम् सुनिर्मलम् प्ररूढमर्यादम् अगाधम् आशयम्
(मानसम्) प्रविश्य स्ववशा सरस्वती उदारसत्वम् (महामकरादियुक्तम्) विपुलम् सुनिर्मलम् प्ररूढमर्यादम्
अगाधम् अम्बुधेः आशयम् प्रविश्य स्ववशा (सुष्ठु अवशा) सरस्वती (नदी) इव स्थिरम् पदम् बबन्ध
(तत्रैव स्थानमकरोदित्यर्थः) ।

कपोलदोलायितकर्णभूषणं तरङ्गितभ्रूयुगभंगुरालिकम् । सचेतसामर्धनिमीलितेक्षणं क्षणं
वितन्वन्ति मुखं यदुक्तयः ॥ ६ ॥

अन्वय-यदुक्तयः सचेतसाम् (सहृदयानाम्) मुखम् क्षणम् कपोलदोलायितकर्णभूषणम्
तरङ्गितभ्रूयुगभङ्गुरालिकम् अर्धनिमीलितेक्षणम् वितन्वन्ति ।

अथाऽस्य धीमानुदपादि वादिनां वितीर्णमुद्रो वदनेष्वनेकशः । उदारसंस्कारसुसारभारती-
पवित्रवक्त्राम्बुरुहो जगद्धरः ॥ ७ ॥

अन्वय-अथ अस्य (रत्नधरस्य सुतः) जगद्धरः धीमान् अनेकशः वादिनाम् मुखेषु वितीर्णमुद्रः
उदारसंस्कारसुसारभारतीपवित्रवक्त्राम्बुरुहः अभवत् ।

अपि स्थवीयःस्वकृतस्थिरस्थितिः कुशाग्रतीक्ष्णामधिरुह्य यन्मतिम् । अहो बत स्वैरविहारलीलया पदं
न्यधादस्खलितं सरस्वती ॥ ८ ॥

अन्वय-अहो ! बत ! स्थवीयःसु (स्थूलमतिषु) अपि अकृतस्थिरस्थितिः सरस्वती कुशाग्रतीक्ष्णाम् (अपि)
यन्मतिम् अधिरुह्य स्वैरविहारलीलया अस्खलितम् पदम् न्यधात् । [सूक्ष्मे हि वस्तुनि चरणवितरणमत्यद्भुतम्
!]

निर्मत्सरः सहृदयः श्रुतपारदृश्वा विश्वातिशायिविनयः प्रियवाक् सुशीलः । किं वाऽपरं कविगिरां
सदसद्विचार- चातुर्यधुर्यधिषणः शरणं य एकः ॥ ९ ॥

अन्वय-निर्मत्सरः सहृदयः श्रुतपारदृश्वा विश्वातिशायिविनयः प्रियवाक् सुशीलः किंवा अपरम् (साधु
वाक्यं ब्रूमः) सदसद्विचारचातुर्यधुर्यधिषणः यः एकः कविगिराम् शरणम् (आसीत्) ।

तेनादृतेन शिशुनैव निवेद्यमान- मानन्दकन्दलितभक्तिकुतूहलेन । एतं मृगाङ्ककलिकाकलितावतंस-
शंसारसायनरसं रसयन्तु सन्तः ॥ १० ॥

अन्वय-तेन (जगद्धरकविना) शिशुना एव आदृतेन आनन्दकन्दलितभक्तिकुतूहलेन निवेद्यमानम्
(प्राभृतीकृतम्) एतम् मृगाङ्ककलिकाकलितावतंसशंसारसायनरसम् सन्तः रसयन्तु (आस्वादयन्तु) ।

गृह्णन्तु कंचन विशेषमशेषमस्मा- दस्माकमात्तवचनाः [आत्तवचनात्] क्वचनाऽन्तरज्ञाः । चिन्वन्ति
पल्वलजलात्कुशला विशाल- शेवालजालकलिलात्कमलौघमेव ॥ ११ ॥

अन्वय-अस्माकम् आत्तवचनाः अन्तरज्ञाः अस्मात् (सन्दर्भात्) अशेषम् कंचन विशेषम् गृह्णन्तु
(दृष्टञ्चैतत्) कुशलाः विशालशेवालजालकलिलात् पल्वलजलात् कमलौघम् एव चिन्वन्ति ।

यद्यप्यासामनलसरसस्फारसारं न किंचि-द्वाचामन्तर्विरचितचमत्कारमस्त्यर्थतत्त्वम् ।
तत्राऽप्येतास्त्रिभुवनगुरुस्तोत्रमैत्रीपवित्राः कर्णाभ्यर्णाभरणसरणिं नेतुमर्हन्ति सन्तः ॥ १२ ॥

अन्वय-यद्यपि आसाम् (मदीयवाचाम्) अनलसरसस्फारसारम् तथा अन्तः विरचितचमत्कारम् अर्थतत्त्वम्
(लक्ष्यव्यङ्ग्यद्योत्यपरमार्थतत्त्वम्) किञ्चित् न अस्ति । तत्रापि त्रिभुवनगुरुस्तोत्रमैत्रीपवित्राः एताः
(मदीया वाचः) कर्णाभ्यर्णाभरणसरणिम् नेतुम् सन्तः अर्हन्ति ।

प्रेमाणं मणिकर्णिकां प्रति बुधा मन्दीकुरुध्वं मतिं मुक्तादामनि माकृत स्पृशत मा
ताम्बूलहेवाकिताम् । भूषार्थं प्रभवन्ति कर्णपुलिने कण्ठे मुखाम्भोरुहे देवस्य स्मरशासनस्य
यदिमाः स्तोत्रावलीसूक्तयः ॥ १३ ॥

अन्वय-अयि बुधाः (यूयम्) मणिकर्णिकाम् [मणिमयी चासौ कर्णिका=कर्भाभरणं तां प्रति] प्रति
प्रेमाणम् मन्दीकुरुध्वम् । मुक्तादामनि मतिम् मा कुरुत ताम्बूलहेवाकिताम् (च) मा स्पृशत । यत् (यस्मात्)
इमाः स्मरशासनस्य देवस्य (श्री शंभोः) स्तोत्रावलीसूक्तयः भवताम् कर्णपुलिने कण्ठे मुखाम्भोरुहे
(च) भूषार्थम् प्रभवन्ति ।

निक्षिप्तं शतसप्तकेन सहितं पादायुतार्धं मया निर्हिंसे गुणिनि द्विजेन्द्रमुकुटे धर्मैकधाम्नीश्वरे ।
प्रायेण क्लिशितस्य दीनवचसः क्ष्माक्षिप्तमूर्ध्नोऽपि मे पादं नैकमयं प्रयच्छति विधौ वक्रे करोम्यत्र
किम् ॥ १४ ॥

अन्वय-मया (सुवर्णानाम् [अत्र सुवर्णानां वृत्तानां पादायुतार्धम् इति वक्तव्ये सुवर्णानां
वृत्तानामिति हीनपदत्वेऽपि शमकथासु भक्तिविषये न दोषः] वृत्तानाम्) पादायुतार्धम् शतसप्तकेन
सहितम् (अर्थात् ५७०० संख्यापरिमितम्) निर्हिंसे गुणिनि द्विजेन्द्रमुकुटे घर्मैकधाम्नि ईश्वरे निक्षिप्तम् किन्तु
(इदानीम्) प्रायेण क्लिशितस्य दीनवचसः (देहि स्वामिन्निति दीनवचसोऽपि) तथा क्ष्माक्षिप्तमूर्ध्नः अपि मे
एकम् पादम् अयम् (ईश्वरः) न प्रयच्छति ? विधौ वक्रे (सति) अत्र (अहं वराकः) किम् करोमि ?

कारंकारमकारि वारितशमैरक्षैररक्षैरिदं निघ्नं विघ्नितशम्भुसेवनसुखाभोगोपभोगं मनः ।
किन्तु क्वापि कदापि काऽपि पतिता सा साधुदृष्टिर्यतः प्राप्तः सूक्तिवपुर्जितोर्जितसुधास्वादः प्रसादः
प्रभोः ॥ १५ ॥

अन्वय-वारितशमैः अरक्षैः (दस्युप्रायैः) अक्षैः इदम् (मम) मनः निघ्नम् (परवशं सत्)
विघ्नितशम्भुसेवनसुखाभोगोपभोगम् कारङ्कारम् (पौनःपुन्येन) अकारि किन्तु (सद्भाग्यवशेन) क्वाऽपि
कदापि (कुत्रचित्काले काऽपि (अनिर्वाच्या) सा साधुदृष्टिः (मयि) पतिता यतः (मयाऽयम्) सूक्तिवपुः
जितोर्जितसुधास्वादः प्रभोः प्रसादः प्राप्तः ।

यत्सत्यं सदसद्विवेकविकलग्रामीणकग्रामणी- मिथ्यास्तोत्रपरा पराभवभुवं नीतासि भीतास्यतः ।
मातः कातरतां विमुञ्च यदसौ सौभाग्यभाग्यावधिः सञ्जातो जगदेकनाथनुतिभिर्वाग्देवि ते विभ्रमः
॥ १६ ॥

अन्वय-हे मातः ! हे सरस्वति ! यत् (अस्मादृशैः मन्दमतिभिः)
सदसद्विवेकविकलग्रामीणकग्रामणीमिथ्यास्तोत्रपरा पराभवभुवम् नीता असि अतः भीता असि एतत् सत्यम्
किन्तु हे मातः ! (इदानीम् पुनः) ताम् कातरताम् विमुञ्च यत् जगदेकनाथनुतिभिः असौ ते
सौभाग्यभाग्यावधिः विभ्रमः (महानानन्दोल्लासः) सञ्जातः ।

इति श्रीमज्जगद्धरभट्टकविवंशावलीविवरणम्

(१)

क्वाऽयं सत्कविभारतीपरिणतस्फारोल्लसद्वाग्भरः
क्वाऽऽधिव्याधिशताकुलोऽतिविकलप्रज्ञोऽहमेतादृशः । इत्थं सन्नपि भक्तिमान् पुनरहं केनाऽपि
दिग्वाससा कारुण्यामृतसागरेण हृदये संप्रेर्यमाणोऽभवम् ॥

(२)

तस्मात्संकलितो जगद्धरकवि-स्तोत्रप्रसूनाऽञ्जलि- व्याख्याडम्बर एष यः सुमनसामामोदमाधास्यति ।
तेनाऽनेन विमुग्धबालरचनातुल्येन कृत्येन मे प्रीतः स्याद्भवभीतिभञ्जनपटुः श्री पाणिपात्रो गुरुः


(३)

यत्कीर्तिस्तिलकायते त्रिभुवने तापत्रयोन्मूलिनी यद्वाक्यामृतजीवनी जनयति स्वान्ते सतां कौतुकम् ।
यत्पादाब्जरजःप्रसादकणतः कैवल्यमापद्यते सोऽयं कोपि महेश्वरो विजयते श्रीपाणिपात्रो गुरुः ॥

(४)

वाराणसीपुरपते ! भगवन्ननाथ- नाथ !! त्वदीयपुरतो विनिवेदयामि । स्वैरेव दुष्कृतशतैः पतितोऽपि
बालः कारुण्यपूर्णनयनेन निरीक्षणीयः ॥

(५)

विद्यागुणविहीनेऽपि वात्सल्यमुररीकृतम् । मयि येन स शं कुर्यात् कोपि देवः कृपापरः ॥

श्रीमदष्टोत्तरसहस्र (१००८)
श्रीसंवलित-प्रातःस्मरणीय-पूज्यपाद-श्रीमत्परमहंस-परिव्राजकाचार्य श्री श्रीहरिहरानन्द
सरस्वती-(श्रीकरपात्री जी महाराज) भगवत्पादकिंकरेण त्रिपाठ्यु पाह्वप्रेम-वल्लभशर्मणा
कृतया प्रेम-मकरन्द-नाम्न्या टीकया समेतः काश्मीरक-महाकवि श्रीमज्जगद्धरभट्ट-विरचितः
स्तुतिकुसुमाञ्जलिः

समाप्तः ।

"https://sa.wikisource.org/w/index.php?title=स्तुतिकुसुमाञ्जलिः&oldid=210774" इत्यस्माद् प्रतिप्राप्तम्