स्कन्दवेदपादस्तवः

विकिस्रोतः तः
स्कन्दवेदपादस्तवः
अज्ञातः
१९५३

॥ स्कन्दवेदपादस्तवः ॥

यो देवानां पुरो दित्सुरर्थिभ्यो वरमीप्सितम् ।
अग्रे स्थितस्स विघ्नेशो ममान्तर्हृदये स्थितः ॥१

महः पुरा वैबुधसैन्धवश्रीशराटवीमध्यगतह्रदान्तः।
श्रीकण्ठफालेक्षणजातमीडे तत्पुष्करस्यायतनाद्धि जातम् ॥२

महो गुहाख्यं निगमान्तपङ्क्तिमृगयाङ्घ्रिपङ्केरुह
युग्ममीडे । साम्बो वृषस्थस्सुतदर्शनोक्तो यत्पर्यपश्यत्सरिरस्य मध्ये॥३

त्वामेव देवं शिवफालनेत्रमहो विवर्तं परमात्मरूपम् ।
तिष्ठन्व्रजञ्जाग्रदहं शयाना प्राणेन वाचा मनसा विभर्भि ॥४

नमो भवानीतनुजाय तेऽस्तु विज्ञाततत्वा मुनयः
पुराणाः । यमेव शम्भुं हरिमब्जयोनिं यमिन्द्रमाहुर्वरुणं यमाहुः ॥५

 कोटीरकोटिस्थमहार्घकोटिमणिप्रभाजालवृतं गुहं त्वाम् । अनन्यचेताः प्रणवाब्जहंसं वेदाहमेव पुरुषं महान्तम् ॥६

 स नोऽवतु स्वालिकपङ्क्तिजीवग्रहं ग्रहीतायित- चन्द्रखण्डः । गुहादसीयन्तमिदं स्वरूपं परात्परं यन्महतो महान्तम् ॥७

स्वर्गापगामध्यगपुण्डरीक-
दलप्रभाजैत्रविलोचनस्य ।
अक्ष्णां सहस्रेण विलोक्यमानं
न सन्दृशेतिष्ठति रूपमस्य ॥८
हैमद्विषत्कुण्डलमण्डलाढ्य-
गण्डस्थलीमण्डिततुण्डशोभः।
 ब्रह्मत्वमेवेति गुहोमुनीन्द्रै-
र्हृदामनीषामनसाभिक्लृप्तः ॥९

सुपक्वबिम्बाधरकान्तिरक्तसन्ध्यामृगाङ्कायितदन्त-

पङ्क्तिः । गुहस्स नः पातु विलोलदृष्टिर्येनावृतं खं

च दिवे महीं च ॥१०

 करीन्द्रगुण्डायितदोःप्रकाण्डद्विषट्ककेयूरविराज- मानम् । गुहं मृडानीभवमप्रमेयं न चक्षुषा पश्यति कश्चनैनम् ॥११

 स्वकीयदोर्दण्डगृहीतचण्डकोदण्डनिर्मुक्तपृषत्कष- ण्डैः । त्रिविष्टपान्धंकरणैरशून्यान्यस्सप्त लोकान कृणोद्दिशश्च॥१२

 सौवर्णहारादिविभूषणोज्ज्वलन्मणिप्रभालीढवि शालवक्षाः । स्कन्दस्स मां पातु जिताब्जयोनिर- जायमानो बहुधा विजायते॥१३


 देवस्स वैहारिकवेषधारी लीलाकृताशेषजगद्वि- मर्दः । शिखिध्वजः पातु भयङ्करेभ्यो यस्सप्त सिन्धूनदधात्पृथिव्याम् ॥१४

 षडाननो द्वादशबाहुण्डः श्रुत्यन्तगामी द्विषडीक्षणाढ्यः । भीताय सह्यं गिरिजातनूजो हिरण्यवर्ण- स्त्वभयं कृणोतु ॥१५

 यो दानवानीकभयङ्कराटवीसमूलनोत्पाटनचण्ड- वातः । षण्मातुरस्संहृतसर्वशत्रुरथैकराजो अभव- ज्जनानाम् ॥१६

 अतीव बालः प्रवया: कुमारो वर्णी युवा षण्मुख- एकवक्त्रः । इत्थं महस्तद्बहुधाविरासीद्यदेकमव्यक्त- मनन्तरूपम् ॥१७

 यदीयमायावरणाख्यशक्तितिरोहितान्तः करणा हि मूढाः । न जानते त्वां गुह तं प्रपद्ये परेण नाकं निहितं गुहायाम् ॥१८

 गुरूपदेशाधिगतेन योगमार्गेण सम्प्राप्य च योगिनस्त्वाम् । गुहं परं ब्रह्म हृदम्बुजस्थं बिभ्राज- देतद्यतयो विशन्ति ॥१९

 यो देवसेनापतिरादराद्वै ब्रह्मादिभिर्देवगणैभि- ष्टुतः । तं देवसेनान्यमहं प्रपद्ये विश्वं पुराणं तमसः परस्तात् ॥२०  हृदम्बुजान्तर्दहराग्रवर्ति कृशानुमध्यस्थपरात्म - रूपात् । गुहात्सुसूक्ष्मान्मुनयः प्रतीयुरतः परं नान्य- दणीयस्रं हि ॥२१

 तपःप्रसन्नेशबहुप्रदत्तवरप्रमत्तासुरभीतिभाजाम् । सुपर्वणां स्कन्द भवान् शरण्य इन्द्रस्य विष्णो वरु- णस्य राज्ञः॥२२

 स एव देवो गिरिजाकुमारो राजा स मित्रं स हि नो वरेण्यः । भ्राता स बन्धुः स गुरुस्स्वप्ता च स एव पुत्रस्स पिता च माता॥२३

 स्वाराज्यदात्रे स्वसुतां वितीर्य तां देवसेनां सुकु- मारगात्राम् । आराधयत्यन्वहमम्बिकेयमिन्द्रो हवि- ध्मान् सगणो मरुद्भिः॥२४

 देवेन येनालघुविक्रमेण हतेषु सर्वेष्वपि दानवेषु । पुरेव देवाः स्वपदेधिचक्रुरिन्द्रश्च सम्राड्वरुणाश्चराजा॥

 षाण्मातुरोऽसौ जगतां शरण्यस्तेजोन्नमाप:पवनश्चभूत्वा। संरक्षणायैव जगत्सु देवो विवेश भूतानि चराचराणि ॥२६

 करौ युवामञ्जलिमेव नित्यमुमाङ्गजाताय विधत्त मस्मै । एष प्रसन्नस्सुकुमारमूर्तिरस्मासुदेवो द्रविणं दधातु॥२७

 निधिःकलानामुदधिर्दयानां पतिर्जनानां सरणि- र्मुनीनाम् । कदा प्रसीदेन्मयि पार्वतेयः पिता विरा- जामुषभोरयीणाम् ॥२८

 सौन्दर्थवल्लीतनुसौकुमार्यसरोजपुष्पन्धयमानमो यः । चचार कान्तारपथेषु देवः सनो दधातु द्रविणं सुवीर्यम् ॥२९

 इतोऽपि सौन्दर्यवदस्तु देहमितीव हुत्वा शिव- फालनेत्रे। जातस्ततः किं स कुमार एव कामस्त- दग्रे समवर्तताधि॥३०

 मुमुक्षुलोकाश्शृणुत प्रियं वो भजध्वमेनंगिरिजा- कुमारम् । अस्यैव देवस्य परात्मतेति हृदि प्रतीक्ष्या कवयोमनीषा ॥  धेनूर्बह्वीः कामदोग्धीस्सुवत्साः कुण्डोध्र्नीर्गादेहि- नस्त्वं सहस्रम् । भक्कार्तिघ्नं देवदेवं षडास्यं विद्माहि स्त्वा गोपतिं शूरगोनाम् ॥३२

 वन्दामहे बर्हिणवाहनस्थितं वनीपकाशेषमनीषित- प्रदम् । तोष्टूयमानं बहुधा पदे पदे सङ्क्रन्दनेनानिमिषेण जिष्णुना॥३३

 दिग्भ्यो दशभ्यः परितः पुन: पुन: परश्शताया- तसिषेविषावताम् । अनुप्रहायेव षडाननो ह्यस्रौ प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः॥३४

 कूर्मः फणीन्द्रश्च तथा फणाभृतो दिग्दन्तिनाश्चैव कुलाचला अपि । भूत्वाम्बिकेयः प्रथितप्रतापवान् ब्रह्माध्यतिष्ठद्भुवनानि धारयन् ॥३५

 यो वै स्कन्दः पृष्टश्शम्भोः सत्यं ज्ञानं ब्रह्मा- द्वैतम् । ओंकारार्थं प्राह स्मेत्थं सुब्रह्मण्यों सुन-

मण्योम् ॥३६

यो जाह्नवीशरारण्यह्रदाम्भोजे बभौ पुरा ।
तस्मै नमऽषण्मुखाय महासेनाय धीमहि ॥३७
यद्दक्षिणकराम्भोजमिष्टदं स्वानुजीविताम्
तेभ्यइन्द्रादिसेनानां सेनानीभ्यश्च वो नमः ॥ ३८
देवतानामृषीणां च भक्तानामपि योगिनाम् ।
भूतानामपि वीराणां पत्नीनां पतये नमः ॥३९
नमस्तेऽस्तु महेशान भीतेभ्यश्शूरपद्मनः ।
शुनासीरमुखेभ्यस्त्वं स्वस्तिदा अभयङ्करः ॥४०
कटाक्षवीक्षणापास्तनिखिलव्याधिबन्धन ।
देवसेनापते स्वामिन्नमित्वा शूरनूनुमः ॥४१
अन्तश्चरसि भूतेषु त्वमेकस्सूक्ष्मरूपतः ।
त्वमेव निगमान्तेषु परमात्मा व्यवस्थितः ॥ ४२
मही द्यौरन्तरिक्षं च वायुरापोऽनलोऽम्बरम् ।
सुब्रह्मण्य जगन्नाथ त्वयि सर्वं प्रतिष्ठितम् ॥ ४३
शैशवे त्वं महासेन बन्दीकृत्य प्रजापतिम् ।
अस्राक्षीस्तान्यथापूर्वं मनुष्याः पशवश्व ये॥४४

वेदान्तकन्दरीवर्तिगुहाशयषडानने ।
त्रिलोकीयं त्वयि विभो नावीवान्तस्समाहिता ॥४५
कला मुहूर्ताः काष्ठाश्च मासा वर्षा युगानि च ।
त्वयि वल्लीश निहिता निमेषास्त्रुटिभिस्सह ॥४६

रोगकान्तारदावाग्ने मृत्युकक्षहुताशन ।
शुरघ्न त्वत्प्रतापेन रेजती रोदसी उमे॥४७
परं ब्रह्म विचिन्वन्तो हृदयाम्भोजमध्यगम् ।
योगिनो नारदाद्यास्त्वां सदा पश्यन्ति सूरयः ॥४८
हतशूरमुखाशेषदैतेयं त्वां गुहास्तुवन् ।
अग्नाविष्णू चेन्द्रवायू सोमो धाता बृहस्पतिः॥४९
वाचालयस्यवाचं त्वं सचक्षुः कुरुषेऽदृशम् ।
आश्रितेभ्यो जगन्नाथ शिवो नस्सुमना भव ॥ ५०
स एव जगतः कर्ता भर्ता हर्ता जगद्गुरुः ।
कुमारस्सच्चिदानन्दः सोऽक्षरः परमस्वराट् ॥ ५१
असुरान् शूरपद्मादीन् हत्वा शरवणोद्भवः।
देवान्स्वस्वपदे कृत्वा सम्राडेको विराजति ॥ ५९

तव दृष्ट्वा विश्वरूपं सहर्षभयवेपथु ।
त्वामस्तुवन्नादितेया बृहस्पतिपुरोहिताः॥५३
किन्नरा गरुडा नागा यक्षास्साध्या मरुद्रणाः ।
पेन्द्रीशं त्वामहरहः विश्वे देवा उपासते ॥५४
विश्वासान्मानुषीणां च प्रजानां पशुपक्षिणाम् ।
चराचराणी जगतां ध्रुवो राजा विशामयम् ॥ ५५
अम्भोजसंवर्तिकासु राजहंसा इव प्रभो ।
मदीयहृदयाम्भोजे ध्रुवस्तिष्ठाविचाचलिः ॥५६
लीलामात्रकृताशेषभुवनाद्गिरिजासुतात् ।
अधर्वचाथ ऋक्सामे यजुस्तस्मादजायत ॥५७
तिले तैलमिव प्रोतो दध्न्याज्यमिव षण्मुखे ।
मणौ सूत्रमिव स्यूतो ब्रह्म विश्वमिदं जगत् ॥ ५८
यस्तप्तादीनृषीन् शापादुद्दधार हरात्मजः ।
मातुः स्तनसुधासारं पुनः प्रमुदितो धयन् ॥ ५९
इज्यया पूजया स्तुत्या भक्त्या च परिचर्यया ।
ध्यानेन तपसा च त्वां देवं मर्तास ईडते॥६०

श्रुतिस्मृत्यागमायुक्तकर्मणां फलदायिने ।
स्कन्दाय तुभ्यं मखिभिः श्रद्धया हूयते हविः॥ ६१
मूर्धा द्यौरम्बरं नाभिरूरू भूरतलं पदे।
षण्मुखस्येत्येवमाहुरन्तर्विश्वमिदं जगत् ॥६२
भक्तसन्तापशमनप्रावृषेण्यघनाघनात् ।
स्कन्दादन्यं मनो मागा स्स दृष्टो मृडयाति नः ॥
जिह्वे त्वमुञ्चैर्निस्तन्द्रारात्रिन्दिवमभिष्टुहि ।
देवसेनं महासेनमदुग्धा इव धेनवः ॥ ६४
अकलङ्कशरच्चन्द्रविलसत्त्वन्मुखस्रुताः।
मन्दस्मितसुधाधारास्ता मे कृण्वन्तु भेषजम् ॥ ६५
देवानीजिमहे पूर्वं तपश्चकृमहे पुरा ।
यद्गुहो देवतास्माकं कविर्गृहपतिर्युवाम् ॥६६
मदीयहृदयाम्भोजनिर्यूहमणिमञ्चके।
षडाननत्वत्पादस्स्याद्यदि यान् प्रादेशसस्मितः॥६७
चिरन्तनवचस्तुत्यः प्रणवाम्बुजषट्पदः ।
करोतु देवसेनेशः शिवानः प्रदिशो दिशः ॥ ६८

दैतेयवधसन्नद्धो भवात्पवनसारथिः।
द्विलक्षमर्वतो हैमे रथे युक्तवाधितिष्ठति ॥ ६९
गगनोच्छ्रितकोदण्डकिरीटं शूरमाहवे।
विभेदिथ त्वं नाराचैः सहस्रेण शतेन च ॥७०
ऐशाल्ललाटनयनाज्जातं वह्निर्यथारणेः ।
मुमुक्षवो गुहं ब्रह्म विचिन्वन्तु मनीषया ॥ ७१
हिरण्यज्योतिषं स्कन्दं याचध्वं भो वनीपकाः।
एषोऽर्थिनः पूरयति प्रजया च धनेन च ॥७२
सन्निधास्यति किं स्वामी भवानम्बुरुहेक्षणः ।
तावकं मञ्जुलं रूपं स्मर्यते न च दृश्यते ॥ ७३
यतः स्वं जगतामेषामाशिषे शिखिवाहन ।
ततो देहि बहून् श्रीहीनकृष्टा ये च कृष्टजाः ॥ ७४
धनधान्यगृहान् पुत्रान् देहि देव दयानिधे ।
त्वमाश्रितेष्टदत्वेन कर्णाभ्यां भूरि विश्रुवम् ॥७५
भक्तेभ्यो मुचुकुन्दाख्यप्रमुखेभ्यो यथा गुह ।
प्रादास्तथा देहि मह्यमच्युतां बहुलां श्रियम् ॥ ७६

भक्तान् तत्पुत्रसुहृदस्तन्मातृपितृसोदरान् ।
पाहि स्कन्द पुनश्चास्य द्विपादो ये चतुष्पदः ॥७७
चोरव्याघ्रपिशाचाखुसर्पकीटादिबाधकात् ।
भक्तान्निशासु संरक्षन् त्रिषु लोकेषु जागृहि ॥ ७८
दानवेष्वपि दैत्येषु राक्षसेष्वप्यरातिषु ।
पिशाचेष्वपि गाङ्गेय विक्रमस्व महां असि ॥७९
आधिभिर्व्यधिभिश्चैव पीडितानामहर्निशम् ।
दूतानां वपुषि स्वामिन्नासुवोर्जमिषं च नः ॥ ८०
अतितीव्रेण तपसा तप्यमाना अहर्निशम् ।
उपासत त्वां तप्ताद्या अथ हैमं पुरर्षयः ॥८१
ध्यानावाहनपूजेज्यापरिचर्यास्तुतिष्वहम् ।
अज्ञो मे सफलां पूजां कृणुहि ब्रह्मणस्पते ॥८२
असुरान् राक्षसान क्रूरान् देवयज्ञविघातकान् ।
जहि देवेश यस्मात्त्वं रक्षोहामीव चात्मनः ॥ ८३
दुर्वृत्तेभ्यो धनं दत्से नीचेभ्योऽपि धनं बहु ।
न ददासि कुतो मह्यमेतत्पृच्छामि सम्प्रति ॥ ८६

मुखैरेतान्महारौद्रान् दूरीकुरु जगत्पते ।
मम स्वमभिकाङ्क्षन्ते ये स्तेना ये च तत्कराः ॥ ८५
गुह त्वत्पादभक्तानां गेहे जाग्रत्वहर्दिनम् ।
वीरबाहुमुखा वीरा नित्यानुचरास्तव ॥८६
त्रिषड्विलोचनेष्वेकदृक्कटाक्षेण लक्षयन् ।
आढ्यं करोतु मां स्कन्दः पर्जन्यो वृष्टिमानिव ॥८७
भयानकासुरानीककान्दिशीकाः पुरा खंलु ।
गुह त्वां शरणं प्रापुरिन्द्रेण सह देवताः ॥ ८८
स्वामेव कीर्तयन्देव ध्यायन् शृण्वन्प्रपूजयन् ।
गुह त्वत्पादभक्तोऽहं जीवानि शरदश्शतम् ॥ ८९
कृपादुग्धाब्धिकल्लोलायमानापाङ्गवीक्षण ।
देहि मे गुह बह्वायुः दीर्घायुत्वस्येहेशिषे ॥९०
पुरारातीक्षणपयःपरावारसुधाकर ।
षड्वक्त्र देहि कृपया मयि मेधां मयि प्रजाम् ॥ ९१
भक्तचातकबृन्देष्टवर्षि धाराधर प्रभों।
अस्मान् सञ्जीवय स्वामिन्नस्मिन् लोके शतं समाः॥९२

भीता वयं महासेन पथि दुर्गे वने यतः ।
चोरव्याघ्रपिशाचेभ्यस्ततो नो अभयं कृथि ॥ ९३
व्याधयः शूलकुष्ठार्शः प्रमेहाद्या यतस्सदा ।
पीडयन्ति पिशाचाद्याः ततो नो धेहि भेषजम् ॥९४
स्वदीयपादकमलध्यानवर्मितविग्रहान् ।
कुहका मोहका क्षुद्रा मास्मान्प्रापन्नरातयः ॥ ९५
धनधान्यपशुक्षेत्रबलेष्वस्मदपेक्षया ।
देवसेनापतेस्माकमधरे सन्तु शत्रवः ॥९६

अरातिकुलनिर्मूलनालङ्कर्मीणविक्रम ।
अकारणेन बहुधा यो नो द्वेष्टि स रिष्यतु ॥ ९७
मन्त्रैर्यन्त्रैस्तथा तन्त्रैरौषधैरायुधैरपि ।
जिघांसति च योऽस्मान् स द्विषन्मे बहु शोचतु ॥९८
आखण्डलारीनसुरांस्त्वन्तु स्पर्धावतो यथा।
जहि गाङ्गेय तौ मर्त्यौ यं चाह द्वेष्टि यश्च माम् ॥९९
त्वनामकीर्तनपरक्षेमङ्करकराम्बुज ।
तमिमं संहर स्वामिन् यश्च नो द्वेषते जनः ॥१००

दूरेन्तिके वा यश्शत्रुरस्माननपराधिनः ।
शपत्येनं जहि स्कन्द यश्च नश्शपतश्शपात् ॥ १०१
चक्षुषा मनसा वचा मन्त्रेण हवनेन च ।
तत्कृत्यान्नशाय स्वामिन् भ्रातृव्यस्याभिदासतः ॥१०२
मच्छिद्रान्वेषिणश्शत्रोः धनमायुः प्रजाः पशून् ।
सर्वान्नाशय शूरघ्न मा वस्योच्छेषि किञ्चन ॥ १०३
अविद्वांसश्च विद्वांसः स्वप्ने जाग्रति वा गुह ।
तेभ्यो मोचय मां यद्यदेनांसि चकृमा वयम् ॥१०४
वयमूचिम यद्देव जिह्वया देवहेलनम् ।
एनसो मोचयाग्नेय त्वं हि वेत्थ यथातथम् ॥१०५
वित्तार्थे वा तथान्यार्थे विप्रार्थे गोर्थ एव वा ।
पुनह्यस्मान् ततः स्कन्द यत्किश्चानृतमूदिम ॥१०६
तमागसं क्षमस्व त्वं स्वकीयाभीष्टलिप्सया ।
सम्प्रार्थ्य तुभ्यं वान्यस्मै यद्वाचानृतमूदिम ॥ १०७
सौन्दर्यवल्ल्या सहितमम्बया देवसेनया।
महासेनं भजेदेवं सत्येन तपसा सह ॥१०८

यो वै पठेद्गुहस्यैनं वेदान्तस्तवमादरात् ।

स्कान्दाः कटाक्षास्तस्योच्चैरायुः कीर्तिं प्रजां ददुः॥१०९

 स्कन्दस्यैनं वेदपादस्तवं यो भक्त्या नित्यं श्राव- देद्वा पठेद्वा । भूयासुस्ते तस्य मर्त्यस्य शीघ्रं ये ये कामा दुर्लमा मर्त्यलोके ॥११०

॥ इति स्कन्दवेदपादस्तवः॥

"https://sa.wikisource.org/w/index.php?title=स्कन्दवेदपादस्तवः&oldid=319921" इत्यस्माद् प्रतिप्राप्तम्