स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ३७

विकिस्रोतः तः
Jump to navigation Jump to search

।। ।। अथ शंखाभिधाननृपवृत्तान्तः ।।
।। भारद्वाज उवाच ।। ।।
शृणु पार्थ प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ।।
यथाऽसौ भगवानस्मिञ्छैले प्राप प्रकाशताम् ।। १ ।।
श्रुताभिधानो नृपतिरस्ति हैहयवंशजः ।।
यः प्रजाः स्वा इव चिरं शशास धरणीं शुभाम् ।। २ ।।
तस्य पुत्रो गुणनिधिः शंखो नाम महीपतिः ।।
पालयामास वसुधां सर्वशास्त्रविशारदः ।। ३ ।।
तस्य विष्णौ जगन्नाथे पुण्डरीकायतेक्षणे ।।
बभूव निश्चला भक्तिः परित्यक्तान्यसंश्रया ।। ४ ।।
देवदेवं जगन्नाथमनन्तं पुरुषोत्तमम् ।।
प्रगाढनिश्चयो नित्यं ध्यायन्नद्भुतवैभवम् ।। ५ ।।
चक्रे व्रतानि दानानि पुण्यानि विविधानि च ।।
वेदवेद्यस्य नियतं प्रीत्यर्थं मधुविद्विषः ।। ६ ।।
तमुद्दिश्यैव विदधे वाजिमेधादिकान्क्रतून् ।।
यथोक्तदक्षिणायोगात्प्रीणिताशेषभूसुरः ।। ।। ७ ।।
इष्टापूर्त्तात्मकं चक्रे कर्मजातमतन्द्रितः ।।
विन्यस्तहृदयो नित्यं केशवे भक्तवत्सले ।। ८ ।।
स्मरत्यजस्रं गोविन्दं जपत्यच्युतमव्ययम् ।।
पूजयत्यब्जनयनं संकीर्तयति शार्ङ्गिणम् ।। ९ ।।
शृणोति सततं राजा संसारार्णवतारिणीः ।।
पौराणिकैः समाख्याताः पवित्रा वैष्णवी कथाः ।।2.1.37.१०।।
ब्राह्मणानर्चति स्मायं हरिप्रीत्यर्थमेव च ।।
इत्थं सर्वात्मना युक्तोऽप्यश्रान्तः पृथिवीपतिः ।। ११ ।।
नापश्यच्छाश्वतैश्वर्यं स्वतन्त्रं पुरुषोत्तमम् ।।
अप्राप्य दर्शनं विष्णोः सर्वयज्ञमयात्मनः ।। १२ ।।
सशोकाक्रान्तहृदयः परां चिन्तामुपागमत् ।। १३ ।।
।। शंख उवाच ।। ।।
परः सहस्रैर्जनैरतीतदुष्कृतं बहु ।।
कृतं मया यदप्राप्तं हृषीकेशस्य दर्शनम् ।। १४ ।।
उपार्जितानां तमसामनेकैः पूर्वजन्मभिः ।।
अखण्डं हि फलं विष्णोर्दर्शनं मधुघातिनः ।। १५ ।।
कथं नु यायाद्भगवान्विषयं मम नेत्रयोः ।।
कदा वा लभ्यते श्रेयस्तद्वाक्याकर्णनात्मकम् ।। १६ ।।
हा धिङ्मां विहितागस्कं क्रियासाफल्यवर्जितम् ।।
नारायणकृपादूरं संसारक्लेशगोचरम् ।। १७ ।।
।। भरद्वाज उवाच ।। ।।
इति चिन्ताकुले तस्मिन्राज्ञि जीवितनिःस्पृहे ।।
अदृश्यमूर्तिः सर्वेषां शृण्वतामाह केशवः ।। १८ ।।
।। श्रीभगवानुवाच ।। ।।
मा शोकस्य वशं यायाः शृणु वक्ष्याभि ते हितम् ।।
मदेकशरणं साधुं त्वां त्यक्ष्यामि कथं नृप ।। १९ ।।
अयं वेंकटनामाद्रिस्त्रिषु लोकेषु विश्रुतः ।।
वैकुण्ठादपि मे राजन्नावासोऽतिप्रियावहः ।। ।।2.1.37.२०।।
तं गत्वा भूधरवरं तव भक्त्या तपस्यतः ।।
गते सहस्रे वर्षाणां यास्याम्यालोकनीयताम् ।।२१।।
भवानिवोद्यतोऽगस्त्यो मम दर्शनमञ्जसा ।।
क्व वा संदृश्यते विष्णुरेवमाह चतुर्मुखम् ।। २२ ।।
वृषभाद्रौ हरिर्द्रष्टुं लभ्यते नियतात्मभिः ।।
गच्छ तत्रेति मुनये कथयामास पद्मभूः ।। २३।।
अम्भोजसंभवेनेत्थमादिष्टः कुम्भसम्भवः ।।
अञ्जनाद्रौ महावासे तपस्तप्तुं समेष्यति ।। २४ ।।
तस्मिन्महीधरे पुण्ये कृतवासो भवानपि ।।
आराध्य मां तपोनिष्ठो मम दर्शनमाप्स्यसि ।। २५ ।।
।। अथ भगवदुक्त्या शंखनृपस्य श्रीवेंकटाचलागमनम् ।।
।। भरद्वाज उवाच ।। ।।
इत्याज्ञप्तो भगवता शंखो दानववैरिणा ।।
जगाम प्रीतिमतुलां धन्योस्मीति स्वचेतसि ।। २६ ।।
विन्यस्य तनयं वज्रं प्रजापालनकर्मणि ।।
गोविन्ददर्शनापेक्षी नारायणगिरिं ययौ ।। २७ ।।
तस्य शृंगे समुत्तुंगे स्वामिपुष्करिणीं शुभाम् ।।
दिव्यैः पयोभिरापूर्णामपश्यदमृतोपमैः ।। २८ ।।
अनेकसिद्धगन्धर्वदेवर्षिगणसेविताम् ।।
भवतापप्रशमनी सर्वतीर्थसमाश्रयाम् ।। २९ ।।
जलकाकबकक्रौञ्चहंसकारण्डवाकुलाम् ।।
कुमुदोत्पलराजीवसौगन्धिकमनोहराम् ।। 2.1.37.३० ।।
तां दृष्ट्वा पद्मिनीं दिव्यां तत्तीरे विहितोटजः ।।
तोषितः स्नानपानाद्यैर्निर्विकल्पमनोगतिः ।। ३१ ।।
सर्वकर्माणि विन्यस्य जगदीशे जनार्दने ।। ३२ ।।
।। अथ भगवद्दर्शनार्थमगस्त्यस्य वेंकटाचलागमनम् ।। ।।
जपध्यानपरो नित्यं तपस्तेपे सुदारुणम् ।।
तस्मिन्नेव मुनिः काले शासनात्परमेष्ठिनः ।। ३३ ।।
अगस्त्योऽप्याससादाद्यं शैलं मुनिशतावृतः ।।
प्रतीचीं दिशमारभ्य कृतयत्नः प्रदक्षिणे ।। ३४ ।।
पश्यंस्तीर्थानि पुण्यानि बभ्राम सुचिरं गिरौ ।।
तत्र तत्र ददर्शासौ हरिदर्शनलालसान् ।। ३५ ।।
विरिंचिगुहशक्रेशविष्वक्सेनादिकान्क्रमात् ।।
सनकाद्यांश्च योगीन्द्रान्नारदप्रमुखानृषीन् ।। ३६ ।।
सिद्धगन्धर्वदैतेययक्षराक्षसपन्नगान् ।।
तैस्तैः संमान्यमानोऽसौ प्रश्रयप्रियभाषणैः ।। ३७ ।।
पश्यन्नाश्चर्यभूतानि सर्वाणि विचचार ह ।।
स्नात्वा तीर्थेषु सर्वेषु स्कन्दधारादिकेषु च ।। ३८ ।।
तत्र तत्रार्चयामास गोविन्दं जगतां पतिम् ।।
एवं भ्रान्त्वा गतेऽब्दानां सहस्रे मुनिसत्तमः ।। ३९ ।।
नापश्यत्पुण्डरीकाक्षं चिन्ताशोकपरोऽभवत् ।। 2.1.37.४० ।।
।। अथागस्त्यं प्रति गुरुवस्वाद्युक्तिः ।। ।।
तस्मिन्काले समाजग्मुर्धिषणोशनसौ पुनः ।।
राजोपरिचरो नाम वसुश्च तमृषीश्वरम् ।। ४१ ।।
अस्माकं सफलं जातं जीवितं मुनिसत्तम ।।
दृष्टो भवान्यदस्माभिर्नारायण इवापरः ।। ४२ ।।
ब्रह्मणा लोकनाथेन यदादिष्टा वयं मुने ।।
अच्युतालोकनपरास्तदिदं कथ्यते तव ।। ४३ ।।
अस्ति दक्षिणदिग्भागे वेंकटोनाम भूधरः ।।
श्वेतद्वीपादपि हरेरावासोऽयमभीप्सितः ।। ४४ ।।
तस्मिन्गिरावगस्त्यस्य शंखस्य च महीपतेः ।।
दर्शयिष्यति गोविन्दो निजरूपं जगद्गुरुः ।। ४५ ।।
तदानीं सर्वदेवानामृषीणां यक्षरक्षसाम् ।।
अस्माकं देवदेवस्य दर्शनं संभविष्यति ।। ४६ ।।
अचिरेणैव तद्भावि ततः संत्यक्तकल्मषाः ।।
अन्वेष्टुं गच्छतागस्त्यं तस्मिन्नारायणाचले ।। ४७ ।।
इत्याज्ञप्ता वयं धात्रा समागम्यात्र भाग्यतः ।।
दृष्टवन्तो महाभागं भवंतं भूरितेजसम् ।। ४८ ।।
भवता सहिता गत्वा स्वामिपुष्करिणीतटे ।।
तमप्यालोकयिष्यामः शंखं भागवतोत्तमम् ।। ४९ ।। ।।
अथागस्त्यादिकृतश्रीवेंकटाचलस्थरम्यवस्तुदर्शनम् ।।
।। ।। भरद्वाज उवाच ।। ।।
गीष्पतिप्रमुखैरित्थमादिष्टः कुम्भसंभवः ।।
शोकजालं परित्यज्य ययौ तैः सहितो द्रुतम् ।। 2.1.37.५० ।।
स ददर्श महावृक्षान्फलपुष्पभरानतात् ।।
प्ररूढशाखानिकरच्छायाच्छादितदिक्तटान् ।। ५१ ।।
सिंहदंतावलव्याघ्रवराहमहिषादिकान् ।।
मृगानालोकयामास पंथानं चांतरांतरा ।। ५२ ।।
तैस्तदानीं ददृशिरे सानवोऽप्यम्बुभृद्भृतः ।।
सुवर्णरौप्यताम्रादिशोभितास्तत्र तत्र तु ।। ५३ ।।
उच्चलच्छीकरासारनिर्वाहितदिवौकसः ।।
वेगोद्धृतशिला दृष्टाः शतशो गिरिनिर्झराः ।। ५४ ।।
तेषामापादयामास प्रमोदं मंदमारुतः ।।
कमलामोदसंवाही विचरन्गिरिसानुषु ।। ५५ ।।
शुकानां कोकिलानां च तदा शुश्रुविरे गिरः ।। ५६ ।।
तत्र तत्र समासीनान्विस्तीर्णासु दृषत्सु ते ।।
सिद्धानपश्यन्कृष्णस्य गायतो गुणवैभवम् ।। ५७ ।।
अगस्त्यप्रमुखाः सर्वे परिक्रम्य मुनीश्वराः ।।
स्वामिपुष्करिणीं दिव्यां ददृशुर्विमलोदकाम् ।। ५८ ।।
तत्तीरे विहितावासमपश्यच्छङ्खभूपतिम् ।।
वाङ्मनःकायजं कर्म सन्निवेश्य स्थितं हरौ ।। ५९ ।।
स तानालोक्य सहसा मुनीन्द्रान्संशितव्रतान् ।।
यथोक्तमकरोत्पूजां प्रणामस्तुतिपूर्विकाम् ।। 2.1.37.६० ।।
आसीनास्तत्र ते सर्वे संभाव्यान्योऽन्यमुत्सुकाः ।।
गोविन्दकीर्तनपराः कृतार्थत्वं प्रपेदिरे ।। ६१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां श्रीवेंकटाचलं प्रति शंखागस्त्याद्यागमनवर्णनंनाम सप्तत्रिंशोऽध्यायः ।। ३७ ।।