स्कन्दपुराणम्/प्रभासखण्डः/09

विकिस्रोतः तः

पूर्ववर्ती पृष्ठः (अध्यायाः २११ - २८०)

अध्यायाः २८१ - ३६५

।। ईश्वर उवाच ।। ।।

कस्यचित्त्वथ कालस्य त्रिदशावश्विनौ प्रिये ।।कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ।। १ ।।

तां दृष्ट्वा दर्शनीयांगीं देवराजसुतामिव ।। ऊचतुः समभि द्रुत्य नासत्यावश्विनावथ ।। २ ।।

कस्य त्वमसि वामोरु किं वनेऽस्मिंश्चिकीर्षसि।। इच्छावस्त्वां च विज्ञातुं तत्त्वमाख्याहि शोभने ।। ३ ।।

ततः सुकन्या संवीता तावुवाच सुरोत्तमौ ।। शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् ।। ४ ।।

ततोऽश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु ।। कथं त्वं च विदित्वा तु पित्रा दत्ताऽऽगता वने ।। ५ ।।

भ्राजसे गगनोद्देशे विद्युत्सौदामनी यथा ।। न देवेष्वपि तुल्यां हि तव पश्याव भामिनि ।। ६ ।।

सर्वाभरणसंपन्ना परमांबरधारिणी ।। मामैवमनवद्यांगि त्यजैनमविवेकिनम् ।। ७ ।।

कस्मादेवंविधा भूत्वा जराजर्जरितं भुवि ।। त्वमु पास्ये हि कल्याणि कामभावबहिष्कृतम् ।। ८ ।।

असमर्थं परित्राणे पोषणे वा शुचिस्मिते ।। सा त्वं च्यवनमुत्सृज्य वरयस्वैकमावयोः ।। ९ ।।

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ।। एवमुक्ता सुकन्या सा सुरौ ताविदमब्रवीत् ।।7.1.281.१० ।।

रताऽहं च्यवने पत्यौ न चैवं परिशंकतम् ।। तावब्रूतां पुनश्चैतामावां देवभिषग्वरौ ।। ११ ।।

 

166b

युवानं रूपसंपन्नं करिष्यावः पतिं तव ।। ततस्तस्यावयोश्चैव पतिमेकतमं वृणु ।। १२ ।।

एतेन समयेनावां शमं नय सुमध्यमे ।। सा तयोर्वचनाद्देवि उपसंगम्य भार्गवम् ।।

उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ।। १३ ।।

तद्वाक्यं च्यवनो भार्यामुवाचाद्रियतामिति ।। इत्युक्ता च्यवनेनाथ सुकन्या तावुवाच वै ।। १४ ।।

एवं देवौ भवद्भ्यां यत्प्रोक्तं तत्कियतां लघु ।। इत्युक्तौ भिषजौ तत्र तया चैव सुकन्यया ।।

ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ।। १५ ।।

ततोऽपश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ।। अश्विनावपि तद्देवि ततः प्राविशतां जलम् ।। १६ ।।

ततो मुहूर्त्तादुत्तीर्णाः सर्वे ते सरसस्ततः ।। दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ।। १७ ।।

दिव्यवेषधराश्चैव मनसः प्रीतिवर्द्धनाः ।। तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे ।। १८ ।।

अस्माकमीप्सितं भद्रे यतस्त्वं वरवर्णिनी ।। यत्र वाप्यभि कामासि तं वृणीष्व सुशोभने ।। १९ ।।

सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् ।। निश्चित्य मनसा बुद्ध्या देवि वव्रे पतिं स्वकम् ।। 7.1.281.२० ।।

लब्ध्वा तु च्यवनो भार्यां वयोरूपमवस्थितः ।। हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ।। २१ ।।

यदहं रूपसंपन्नो वयसा च समन्वितः ।। कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवान्निजाम् ।।

तद्ब्रूतं वै विधास्यामि भवतोर्यदभीप्सितम् ।। २२ ।।

।। अश्विनावूचतुः ।। ।।

आवां तु देवभिषजौ न च शक्रः करोति नौ ।। सोमपानार्हतां तस्मात्कुरु नौ सोमपायिनौ ।। २३ ।।

।। च्यवन उवाच ।। ।।

अहं वां यज्ञभागार्हौ करिष्ये सोमपायिनौ ।। २४ ।।

।। ईश्वर उवाच ।। ।।

ततस्तौ हृष्टमनसौ नासत्यौ दिवि जग्मतुः ।। च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः ।। २५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वर माहात्म्यवर्णनंनामैकाशीत्युत्तरद्विशततमोऽध्यायः ।। २८१ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततः श्रुत्वा च शर्यातिर्वलभीस्थान संस्थितः ।। वयस्थं च्यवनं श्रुत्वा आनन्दोद्गतमानसः ।। १ ।।

प्रहृष्टः सेनया सार्द्धं स प्रायाद्भार्गवाश्रमम् ।। च्यवनं च सुकन्यां च हृष्टां देव सुतामिव ।। २ ।।

गतो महीपः शर्यातिः कृत्स्नानंदमहोदधिः ।। ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः ।।

तत्रोपविष्टः कल्याणीः कथाश्चक्रे महामनाः ।। ३ ।।

अथैनं भार्गवो देवि ह्युवाच परिसांत्वयन् ।। याजयिष्यामि राजंस्त्वां संभारानुपकल्पय ।। ४ ।।

ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः ।। च्यवनस्य महादेवि तद्वाक्यं प्रत्यपूजयत् ।। ५ ।।

प्रशस्तेऽहनि याज्ञीये सर्वकामसमृद्धिमत् ।। कारयामास शर्यातिर्यज्ञायतन मुत्तमम् ।। ६ ।।

तत्रैव च्यवनो देवि याजयामास भार्गवम् ।। अद्भुतानि च तत्रासन्यानि तानि महेश्वरि ।। ७ ।।

 

167a

अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ।। तमिन्द्रो वारयामास मा गृहाण तयोर्ग्रहम् ।। ८.।।

।। इन्द्र उवाच ।। ।।

उभावेतौ न सोमार्हौ नासत्याविति मे मतिः ।। भिष जौ देवतानां हि कर्मणा तेन गर्हितौ ।। ९ ।।

।। च्यवन उवाच ।। ।।

माऽवमंस्था महात्मानौ रूपद्रविणवर्चसौ ।। यौ चक्रतुश्च मामद्य वृंदा रकमिवाजरम् ।। 7.1.282.१० ।।

समत्वेनान्यदेवानां कथं वै नेक्षते भवान्।। अश्विनावपि देवेन्द्र देवौ विद्धि परंतप ।। ११ ।।

।। इन्द्र उवाच ।। ।।

चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ ।। लोके चरंतौ मर्त्यानां कथं सोममिहार्हतः ।। १२ ।।

।। ईश्वर उवाच ।। ।।

एतदेव यदा वाक्यमाम्रेडयति वासवः ।। अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः ।। १३ ।।

ग्रहीष्यंतं ततः सोममश्विनोः सत्तमं तदा ।। समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ।। १४ ।।

आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् ।। वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ।। १५ ।।

एवमुक्तः स्वयमिन्द्र मभिवीक्ष्य स भार्गवः ।। जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ।। १६ ।।

ततोऽस्मै प्राहरत्कोपाद्वज्रमिंद्रः शचीपतिः ।। तस्य प्रहरतो बाहुं स्तंभयामास भार्गवः ।। १७ ।।

स्तंभयित्वाथ च्यवनो जुहुवे मन्त्रतोऽनलम् ।। कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ।। १८ ।।

तत्र कृत्योद्भवो यज्ञे मुनेस्तस्य तपोबलात् ।। मदोनाम महावीर्यो महाकायो महासुरः ।। १९ ।।

शरीरं यस्य निर्देष्टुमशक्यं च सुरासुरैः ।। तस्य प्रमाणं वपुषा न तुल्यमिह विद्यते ।। 7.1.282.२० ।।

तस्यास्यंचाभवेद्घोरं दंष्ट्रा दुर्दर्शनं महत् ।। हनुरेकः स्थितस्तस्य भूमावेको दिवं गतः ।। २१ ।।

चतस्रश्चापि ता दंष्ट्रा योजनानां शतंशतम् ।। इतरे त्वस्य दशना बभूबुर्दशयोजनाः ।।२२ ।।

प्राकारसदृशाकारा मूलाग्रसमदर्शनाः ।। नाम्ना पर्वतसंकाशा श्चायुतायुतयोजनाः ।। २३ ।।

नेत्रे रविशशिप्रख्ये भ्रुवावंतकसन्निभे ।। लेलिहज्जिह्वया वक्त्रं विद्युच्चलितलोलया ।।

व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ।। २४ ।।

स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् ।। महता घोरनादेन लोकाञ्छब्देन छादयन् ।। २५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्ये च्यवनेन नासत्ययज्ञभागप्रतिरोधकवज्र मोचनोद्यतशक्रनाशाय कृत्योद्भवमदनामकमहाऽसुरोत्पादनवृत्तान्तवर्णनंनाम द्व्यशीत्युत्तरद्विशततमोऽध्यायः ।। २८२ ।। ।। छ ।। ।। ।।

।। ईश्वर उवाच ।। ।।

तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः ।। आयांतं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ।। १ ।।

भयात्स्तंभितरूपेण लेलिहानं मुहुर्मुहुः ।। प्रणतोऽब्रवीन्महादेवि च्यवनं भयपीडितः ।। २ ।।

सोमार्हावश्विनावेतावद्यप्रभृति भार्गव ।। भविष्यतः सर्वमेतद्वचः सत्यं ब्रवीमि ते ।। ३ ।।

 

167b

मा ते मिथ्या समारम्भो भवत्वथ तपोधन ।। जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ।। ४ ।।

सोमार्हावश्विनावेतौ यथैवाद्य त्वया कृतौ ।। भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ।। ५ ।।

सुकन्यायाः पितुश्चास्य लोके कीर्तिर्भवेदिति ।। अतो मयैतद्विहितं तद्वीर्यस्य प्रकाशनम् ।।

तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि ।। ६ ।।

एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः ।। मन्युर्व्युपारमच्छीघ्रं मानश्चैव सुरेशितुः ।। ७ ।।

मदं च व्यभजद्देवि पाने स्त्रीषु च वीर्यवान् ।। अक्षेषु मृगयायां च पूर्वं सृष्टं पुनःपुनः ।।

तथा मदं विनिक्षिप्य शक्रं संतर्प्य चेंदुना ।। ८ ।।

अश्विभ्यां सहितान्सर्वान्याजयित्वा च तं नृपम् ।। विख्याप्य वीर्यं सर्वेषु लोकेषु वरवर्णिनि ।। ९ ।।

सुकन्यया महारण्ये क्षेत्रेऽस्मिन्विजहार सः ।। तस्यैतद्देवि संयुक्तं च्यवनेश्वरनामभृत् ।। 7.1.283.१० ।।

लिंगं महापापहरं च्यव नेन प्रतिष्ठितम् ।। पूजयेत्तं विधानेन सोऽश्वमेधफलं लभेत् ।।११।।

तस्माच्चन्द्रमसस्तीर्थमृषयः पर्युपासते ।। वैखानसाख्या ऋषयो वालखिल्यास्त थैव च ।। १२ ।।

अत्राश्विने मासि नरः पौर्णमास्यां विशेषतः ।। श्राद्धं कुर्याद्विधानेन ब्राह्मणान्भोजयेत्पृथक् ।।

कोटितीर्थफलं तस्य भवेन्नैऽवात्र संशयः ।। १३ ।।

य इमां शृणुयाद्देवि कथां पातकनाशिनीम् ।। समस्तजन्मसंभूतात्पापान्मुक्तो भवेन्नरः ।। १४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनाम त्र्यशीत्युत्तरद्विशततमोऽध्यायः ।।२८३ ।। ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि सुकन्यासर उतमम् ।। यत्राश्विनौ निमग्नौ तौ च्यवनेन सहांबिके ।।

समानरूपो ह्यभवच्च्यवनो यत्र सोऽश्विना ।। १ ।।

यत्र प्राप्तवती कामं सुकन्या वरवर्णिनी ।। सरःस्नानप्रभावेन तेन कन्यासरः स्मृतम् ।।

तत्र स्नाता शुभा नारी तृतीयायां विशेषतः ।। २ ।।

सप्तजन्मसहस्राणि गृहभंगं न चाप्नुयात् ।। दरिद्रो विकलो दीनो नांधस्तस्या भवेत्पतिः ।। ३ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्ये सुकन्यासरोमाहात्म्यवर्णनंनाम चतुरशीत्युत्तर द्विशततमोऽध्यायः ।। २८४ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि पुनर्न्यंकुमतीं नदीम् ।। तत्र कृत्वा गयाश्राद्धं गोष्पदे तीर्थ उत्तमे ।। १ ।।

ततः पश्येद्वराहं तु तस्माद्धरिगृहं व्रजेत् ।। तत्र मातृस्तु संपूज्य स्नात्वा सागरसंगमे ।। २ ।।

न्यंकुमत्यर्णवोपेते ततः पूर्वमनु व्रजेत् ।। अगस्तेराश्रमं दिव्यं क्षुधाहरमितिस्मृतम् ।। ३ ।।

यत्रेल्वलं च वातापिं संहृत्य भगवान्मुनिः ।। मुक्त्वाऽऽपद्भ्यो ब्राह्मणांश्च तेभ्यः स्थानं ततो ददौ ।। ४ ।।

 

168a

अगस्त्याश्रममेतद्धि अगस्तिप्रियमुत्तमम् ।। न्यंकुमत्यास्तटे रम्ये सर्वपातकनाशने ।। ५ ।।

।। देव्युवाच ।। ।।

अगस्तिनेह वातापिः किमर्थमुपशामितः ।। अत्र वै किंप्रभावश्च स दैत्यो ब्राह्मणांतकः ।।

किमर्थं चोद्गतो मन्युरगस्तेस्तु महात्मनः ।।६।।

।। ईश्वर उवाच ।। ।।

इल्वलो नाम दैत्येन्द्र आसीद्वै वरवर्णिनि ।। मणिमत्यां पुरा पुर्यां वातापिस्तस्य चानुजः ।। ७ ।।

स ब्राह्मणं तपोयुक्तमुवाच दितिनंदनः ।। पुत्र मे भगवन्नेकमिंद्रतुल्यं प्रयच्छतु ।।८।।

तस्मिन्स ब्राह्मणो नैच्छत्पुत्रं दातुं तथाविधम् ।। चुक्रोध दितिजस्तस्य ब्राह्मणस्य ततो भृशम् ।। ९ ।।

प्रभासक्षेत्रमासाद्य स दैत्यः पापबुद्धिमान् ।। मेषरूपी च वातापिः कामरूपोऽभवत्क्षणात् ।। 7.1.285.१० ।।

संस्कृत्य भोजयेत्तत्र विप्रान्स च जिघांसति ।। समा ह्वयति तं वाचा गतं चैव ततः क्षयम् ।। ११ ।।

स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत ।। ततो वातापिरपि तं छागं कृत्वा सुसंस्कृतम् ।।

ब्राह्मणं भोजयित्वा तु पुनरेव समाह्वयत् ।। १२ ।।

स तस्य पार्श्वं निर्भिद्य ब्राह्मणस्य महात्मनः ।। वातापिः प्रहसंस्तत्र निश्चक्राम द्विजोदरात् ।। १३ ।।

एवं स ब्राह्मणान्देवि भोजयित्वा पुनःपुनः ।। विनिर्भिद्योदरं तेषामेवं हंति द्विजान्बहून् ।।१४।।

ततो वै ब्राह्मणाः सर्वे भयभीताः प्रदुद्रुवुः ।। अगस्ते राश्रमं जग्मुः कथयामासुरग्रतः ।। १५ ।।

भगवञ्छृणु नो वाक्यमस्माकं तु भयावहम् ।। निमंत्रिताः स्म सर्वे वा इल्वलेन वयं प्रभो ।। १६ ।।

अस्माकं मृत्युरूपं तद्भोजनं नास्ति संशयः ।। तदस्मान्रक्ष भगवन्विषण्णागतचेतसः ।। १७ ।।

ततः प्रभासमासाद्य यत्र तौ दैत्यपुंगवौ ।। ब्रह्मघ्रौ पापनिरतौ ददर्श स महामुनिः ।। १८ ।।

वातापिं संस्कृतं दृष्ट्वा मेषरूपं महासुरम् ।। उवाच देहि मे भोज्यं बुभुक्षा मम वर्तते ।। १९ ।।

इत्युक्तौ स्वागतं तत्र चक्राते मुनये तदा ।। भगवन्भोजनं तुभ्यं दास्येऽहं बहुविस्तरम् ।।

कियन्मानस्तवाहारस्तावन्मानं पचाम्यहम् ।। 7.1.285.२० ।।

।। अगस्त्य उवाच ।। ।।

अन्नं पचस्व दैत्येन्द्र किंचित्तृप्तिर्भविष्यति ।। एवमस्त्विति दैत्येन्द्रः पक्वमाह महामुने ।।२१।।

आस्यतामासनमिदं भुज्यतां स्वेच्छया मुने ।। इत्युक्तोऽघोरमंत्रं स जपन्कल्पांतकारकम् ।।

धुर्यासनमथासाद्य निषसाद महामुनिः ।। २२ ।।

तं पर्यवेषद्दैत्येंद्र इल्वलः प्रहसन्निव ।। शतह स्तप्रमाणेन राशिमन्नस्य सोऽकरोत् ।। २३ ।।

ततो हष्टमनाऽगस्त्यः प्राग्रसत्कवलद्वयम् ।। रूपं कृत्वा महत्तद्वद्यद्वत्सागरशोषणे ।। २४ ।।

समस्तमेव तद्भोज्यं वातापिं बुभुजे ततः ।। भुक्तवत्यसुरो ह्वानमकरोत्तस्य इल्वलः ।। २५ ।।

ततोऽसौ दत्तवानन्नमगस्त्यस्य महात्मनः ।। भस्मीचकार सर्वं स तदन्नं च सदानवम् ।।२६।।

इल्वलं क्रोधमुष्ट्या तु भस्मीचक्रे महामुनिः ।। ततो हाहारवं कृत्वा सर्वे दैत्या ननंशिरे ।। २७ ।।

 

168b

ततोऽगस्त्यो महातेजा आहूय द्विजपुंगवान् ।। तत्स्थानं च ददौ तेभ्यो दैत्य्रानां द्रव्यपूरितम्।। २८ ।।

क्षुधा हृता ततो देवि तत्रागस्त्यस्य दानवैः ।। तेन क्षुधा हरंनाम स्थानमासीद्विजन्मनाम् ।। २९ ।।

तस्य पश्चिमभागे तु नातिदूरे व्यवस्थितम् ।। गंगेश्वरमिति ख्यातं गंगया यत्प्रतिष्ठितम् ।। 7.1.285.३० ।। वातापिभक्षणेपूर्वमगस्त्येन महात्मना ।। दैत्यसंभक्षणोत्पन्नसर्वपातकशुद्धये ।।

समाहूता महादेवि गंगापातकनाशिनी ।। ३१ ।।

ततो देवि समा याता गंगा पातकनाशिनी ।। शुद्धिं चकार तस्यर्षेस्तत्र स्थाने स्थिताऽभवत् ।।३२।।

अगस्त्यस्याऽऽश्रमे रम्ये नृणां पापभयापहे ।। तत्र गंगेश्वरं दृष्ट्वा अभक्ष्योद्भवपातकात्।।

मुच्यते नात्र संदेहः स्नानदानजपादिना ।। ३३ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्येऽगस्त्याश्रमगंगेश्वरमाहात्म्यवर्णनंनाम पञ्चाशीत्युत्तरद्विशततमोऽध्यायः।। २८५ ।। 

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि बालार्कं पापनाशनम् ।। अगस्त्याश्रमतो देवि उत्तरे नातिदूरतः ।। १ ।।

बाल एव तु यत्रार्कस्तपस्तेपे पुरा प्रिये ।। तेन बालार्क इत्येतन्नाम ख्यातं धरातले ।। २ ।।

तं दृष्ट्वा रविवारेण न कुष्ठी जायते नरः ।। बालानां रोगजा पीडा न संभूयात्कदाचन ।। ३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये बालार्कमाहात्म्यवर्णनंनाम षडशीत्युत्तरद्विशततमोऽध्यायः ।। २८६ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि अजापालेश्वरीं शुभाम् ।। अगस्त्यस्थानपूर्वेण नातिदूरे व्यवस्थिताम् ।। १ ।।

रघुवंशसमुद्भूतो ह्यजापालो नृपोत्तमः ।। स तत्र देवी माराध्य पापरोगवशंकरीम् ।। २ ।।

अजारूपांश्च रोगान्वै चारयामास भूमिपः ।। तत्र तां स्थापयामास स्वनाम्ना पापनाशिनीम् ।।। ।। ३ ।।

यस्तां पूजयते भक्त्या तृतीयायां विधानतः ।। बल बुर्द्धियशो विद्यां सौभाग्यं प्राप्नुयान्नरः ।। ४ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनाम सप्ताशीत्युत्तरद्विशततमोऽध्यायः त। २८७ ।। ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि बालादित्यमिति श्रुतम् ।। अगत्स्यस्थानतः पूर्वे गव्यूतिद्वितयेन तु।। १ ।।

स्थानं सपाटिकानाम तस्यदक्षिणतः स्थितम् ।। गव्यूतिमात्रं देवेशि बालार्क इति विश्रुतम् ।। २ ।।

यत्र चाराधिता विद्या विश्वामित्रेण धीमता ।। संस्थाप्य लिंगत्रितयं प्रतिष्ठाप्य तथा रविम् ।। ३ ।।

विद्यायाः साधनं चक्रे सिद्धिं सूर्यादवाप्तवान् । बालादित्येति तेनासौ ततः ख्यातिमगात्प्रभुः ।। ४ ।।

 

169a

तं दृष्ट्वा मानवो देवि भास्करपापतस्करम्।। न दारिद्र्यमवाप्नोति यावज्जीवति मानवः ।। ५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बालार्कमाहात्म्यवर्णनंनामाष्टाशीत्युत्तरद्विशततमोऽध्यायः ।। २८८ ।। ।।   ।। ।।

।। ईश्वर उवाच ।। ।।

तस्यैव दक्षिणे देवि तस्माद्गव्यूतिमात्रतः ।। पातालगामिनी गंगा संस्थिता पापनाशिनी ।। १ ।।

विश्वामित्रेण चाहूता स्नानार्थं वरवर्णिनि ।। तत्र स्नात्वा महादेवि मुच्यते सर्वपातकैः ।। २ ।।

तत्र गंगेश्वरं दृष्ट्वा विश्वामित्रेश्वरं तथा ।। बालेश्वरं च संप्रेक्ष्य सर्वान्कामान वाप्नुयात् ।। ३ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बालार्कमाहात्म्ये पाताल गंगेश्वरविश्वामित्रेश्वरबालेश्वराभिधलिंगत्रयमाहात्म्यवर्णनंनामैकोननवत्युत्तरद्विशततमोऽध्यायः ।। २८९ ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि कुबेरस्थानमुत्तमम् ।। यत्र सिद्धः पुरा देवि कुबेरो धनदोऽभवत् ।। १ ।।

ब्राह्मणश्चौररूपेण तत्र स्थानेऽवसत्पुरा ।। स च मे भक्तियोगेन पुरा वै धनदः कृतः।। २ ।।

।। देव्युवाच ।। ।।

कथं स ब्राह्मणो भूत्वा चौररूपो नराधमः ।। तन्मे कथय देवेश धनदः स यथाऽभवत् ।। ३ ।।

।। ईश्वर उवाच ।। ।।

तस्मिन्नर्थे महादेवि यद्वृत्तं चौत्तमेंऽतरे ।। कथयिष्यामि तत्सर्वं शिवमाहात्म्यसूचकम् ।। ४ ।।

कश्चिदासीद्द्विजो देवि देवशर्मेति विश्रुतः ।। प्रभासक्षेत्रनिलयो न्यंकुमत्यास्तटेऽवसत् ।। ५ ।।

पुत्रक्षेत्रकलत्रादिव्यापारैकरतः सदा ।। विहायाथ स गार्हस्थ्यं धनार्थं लोभ मोहितः ।।

प्रचचार महीमेतां सग्रामनगरांतराम् ।। ६ ।।

भार्या तस्य विलोलाक्षी तस्य गेहाद्विनिर्गता ।। स्वच्छंदचारिणी नित्यं नित्यं चानंगमो हिता ।। ७ ।।

तस्यां कदाचित्पुत्रस्तु शूद्राज्जातो विधेर्वशात् ।। दुष्टात्माऽतीव निर्मुक्तो नाम्ना दुःसह इत्यतः ।। ८ ।।

सोऽथ कालेन महता नामकर्मप्र वर्तितः ।। व्यसनोपहतः पापस्त्यक्तो बन्धुजनैस्तथा ।। ९ ।।

पूजोपकरणं द्रव्यं स कस्मिंश्चिच्छिवालये ।। बहुदोषामुखे दृष्ट्वा हर्तुकामोऽविशत्ततः।।। ।। 7.1.290.१०।।

यावद्दीपो गतप्रायो वर्त्तिच्छेदोऽभवत्किल ।। तावत्तेन दशा दत्ता द्रव्यान्वेषणकारणात् ।। ११ ।।

प्रबुद्धश्चोत्थितस्तत्र देवपूजाकरो नरः ।। कोऽयं कोयमिति प्रोच्चैर्व्याहरत्परिघायुधः ।।१२।।

स च प्राणभयान्नष्टः शूद्रजश्चापि मूढधीः ।। विनिन्दन्नात्मनो जन्म कर्म चापि सुदुःखित।।१३।।

पुरपालैर्हतोऽवन्यां मृतः कालादभूच्च सः।। गंधारविषये राजा ख्यातो नाम्ना सुदुर्मुखः।।१४।।

गीतवाद्यरतस्तत्र वेश्यासु निरतो भृशम्।। प्रजोपद्रवकृन्मूर्खः सर्वधर्मबहिष्कृतः ।। १५ ।।   

 

169b

किन्त्वर्चयन्सदैवासौ लिंगं राज्यक्रमागतम् ।। पुष्पस्रग्धूपनैवेद्यगंधादिभिरमन्त्रवत् ।।१६ ।।

मुख्येषु च सदा काले देवतायतनेषु च ।। दद्यात्स बहुलान्दीपान्वर्तिभिश्च समुज्ज्वलान् ।। १७ ।।

कदाचिन्मृगयासक्तो बभ्राम  स च वीर्यवान्।। प्रभास क्षेत्रमागात्य पूर्वसंस्कारभावितः ।। १८ ।।

परैरभिहतो युद्धे न्यंकुमत्यास्तटे शुभे ।। शिवपूजाविधानेन विध्वस्ताशेषपातकः ।। १९ ।।

ततो विश्र वसश्चासौ पुत्रोऽभूद्भुवि विश्रुतः ।। यः स एव महातेजाः सर्वयज्ञाधिपो बली ।। 7.1.290.२० ।।

कुबेर इति धर्मात्मा श्रुतशीलसमन्वितः ।। लिंगं प्रतिष्ठया मास न्यंकुमत्याश्च पूर्वतः ।। २१ ।।

कौबेरात्पश्चिमे भागे सोमनाथेति विश्रुतम् ।। संपूज्य च यथेशानं न्यंकुमत्यास्तटे शुभे ।।

स्तोत्रेणानेन चास्तौषीद्भक्त्या तं सर्वकामदम् ।। २२ ।।

मूर्तिः क्वापि महेश्वरस्य महती यज्ञस्य मूलोदया तुम्बी तुंगफलावती च शतशो ब्रह्माण्डकोटिस्तथा ।।

यन्मानं न पितामहो न च हरिर्ब्रह्माण्डमध्यस्थितो जानात्यन्यसुरेषु का च गणना सा संततं वोऽवतात् ।। २३ ।।

नमाम्यहं देवमजं पुराणमु पेन्द्रमिन्द्रावरराजजुष्टम् ।। शशांकसूर्याग्निसमाननेत्रं वृषेन्द्रचिह्नं प्रलयादिहेतुम् ।। २४ ।। सर्वेश्वरैकत्रिबलैकबन्धुं योगाधिगम्यं जगतोऽधिवा सम् ।। तं विस्मयाधारमनंतशक्तिं ज्ञानोद्भवं धैर्यगुणाधिकं च ।। २५ ।। पिनाकपाशांकुशशूलहस्तं कपर्दिनं मेघसमानघोषम् ।। सकालकण्ठं स्फ टिकावभासं नमामि शंभुं भुवनैकनाथम् ।। २६ ।।

कपालिनं मालिनमादिदेवं जटाधरं भीमभुजंगहारम् ।। प्रभासितारं च सहस्रमूर्तिं सहस्रशीर्षं पुरुषं विशिष्टम् ।। २७ ।।

यदक्षरं निर्गुणमप्रमेयं सज्योतिरेकं प्रवदंति संतः ।। दूरंगमं वेद्यमनिंद्यवन्द्यं सर्वेषु हृत्स्थं परमं पवित्रम् ।। २८ ।। 

तेजोनिभं बालमृगांकमौलिं नमामि रुद्रं स्फुरदुग्रवक्त्रम् ।। कालेन्धनं कामदमस्तसंगं धर्मासनस्थं प्रकृतिद्वयस्थम् ।। २९ ।। अतीन्द्रियं विश्व भुजं जितारिं गुणत्रयातीतमजं निरीहम् ।। तमोमयं वेदमयं चिदंशं प्रजापतीशं पुरुहूतमिन्द्रम् ।। अनागतैकध्वनिरूपमाद्यं ध्यायंति यं योगविदो यतीन्द्राः ।। 7.1.290.३० ।।

संसारपाशच्छिदुरं विमुक्तः पुनः पुनस्त्वां प्रणमामि देवम् ।। ३१ ।।

निरूपमास्यं च बलप्रभावं न च स्वभावं परमस्य पुंसः ।।

विज्ञायते विष्णुपितामहाद्यैस्तं वामदेवं प्रणमाम्यचिंत्यम् ।। ३२ ।।

शिवं समाराध्य तमुग्रमू्र्त्तिं पपौ समुद्रं भगवानगस्त्यः ।।

लेभे दिलीपोऽप्यखिलांश्च कामांस्तं विश्वयोनिं शरणं प्रपद्ये ।। ३३ ।।

देवेन्द्रवन्द्योद्धर मामनाथं शम्भो कृपाकारुणिकः किल त्वम् ।।

दुःखा ऽर्णवे मग्नमुमेश दीनं समुद्धर त्वं भव शंकरोऽसि ।। ३४ ।।

संपूजयन्तो दिवि देवसंघा ब्रह्मेन्द्ररुद्रा विहरंति कामम् ।।

तं स्तौमि नौमीह जपामि शर्वं वन्देऽभिवंद्यं शरणं प्रपन्नः ।।३५।।

स्तुत्वैवमीशं विरराम यावत्तावत्स रुद्रोऽर्कसहस्रतेजाः ।। ददौ च तस्मै वरदोंऽधकारिर्वरत्रयं वैश्रवणाय देवः।।

 

170a

सख्यं च दिक्पालपदं चतुर्थं धनाधिपत्यं च दिवौकसां च ।। ३६ ।।

यस्मादत्र त्वया सम्यङ्न्यंकुमत्यास्तटे शुभे ।। आराधितोऽहं विधिवत्कृत्वा मूर्त्तिं महीमयीम् ।। ३७ ।।

तस्मात्तवैव नाम्ना तत्स्थानं ख्यातं भविष्यति ।। कुबेरनगरेत्येवं मम प्रीतिप्रदायकम् ।। ३८।।

त्वया प्रतिष्ठितं लिंगम स्मात्स्थानाच्च पश्चिमे ।। उमानाथस्य विधिवत्सोमनाथेति तत्स्मृतम् ।। ३९ ।।

श्रीपंचम्यां विधानेन यस्तच्च पूजयिष्यति ।। सप्तपुरुषावधिर्याव त्तस्य लक्ष्मीर्भविष्यति ।। 7.1.290.४० ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकु मतीमाहात्म्ये कुबेरनगरोत्पत्तिकुबेरस्थापितसोमनाथमाहात्म्यवर्णनंनाम नवत्युत्तरद्विशततमोऽध्यायः ।।२९०।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्मादुत्तरभागे तु स्थानात्कौबेरसंज्ञकात् ।। भद्रकाली महादेवि वांछितार्थप्रदायिनी ।। १ ।।

दक्षयज्ञस्य विध्वंसे वीरभद्रसमन्विता ।। भद्रकाली महादेवी दक्षयज्ञविनाशिनी ।। २ ।।

चैत्रे मासि तृतीयायां देवीं तां यस्तु पूजयेत् ।। नवकोट्यस्तु चामुण्डा भविष्यंति सुपूजिताः ।।

सौभाग्यं विजयं चैव तस्य लक्ष्मीर्भविष्यति ।। ३ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये भद्रकालीमाहात्म्यवर्णनंनामैकनवत्युत्तरद्विशततमोऽध्यायः ।। २९१ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्मादुत्तरभागे तु स्थानात्कौरवसंज्ञकात् ।। भद्रकाली महादेवि तपः कृत्वा सुदुस्तरम् ।। १ ।।

रविं संस्थापयामास भक्त्या परमया युता ।। रविवारेण सप्तम्यां रक्त पुष्पानुलेपनैः ।। २ ।।

यस्तं पूजयते भक्त्या कोटियज्ञफलं लभेत् ।। मुच्यते वातपित्तोत्थै रोगैरन्यैश्च पुष्कलैः ।। ३ ।।

अश्वस्तत्रैव दातव्यः सम्य ग्यात्राफलेप्सुभिः ।। ४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये भद्रकालीबालार्कमाहात्म्यवर्णनंनाम द्विनवत्युत्तरद्विशततमोऽध्यायः ।। २९२ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्माद्वैश्रवण स्थानान्नैर्ऋत्यां वरवर्णिनि ।। स्वयं स्थितः कुबेरस्तु सर्वदारिद्र्यनाशनः ।। १ ।।

मकरादिनिधानैस्तु अष्टाभिः परिभूषितः ।। पञ्चम्यां पूजये द्भक्त्या गन्धपुष्पानुलेपनैः ।।

निधानप्राप्तिरतुला निर्विघ्ना तस्य जायते ।। २ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां  सप्तमे प्रभासखण्डे प्रथमे प्रभामक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये कुबेरस्थानोत्पत्तौ कुबेरमाहात्म्यवर्णनंनाम त्रिनवत्युत्तरद्विशततमोऽध्यायः ।। २९३ ।। ।।।

।। ईश्वर उवाच ।। 

ततो गच्छेन्महादेवि कौबेरात्पूर्वसंस्थितम् ।। गव्यूतिपंचके देवि पुष्करंनाम नामतः ।।

यत्र सिद्धो महादेवि कैवर्तो ।मत्स्यघातकः ।। १ ।।

।। देव्युवाच ।। ।।

सविस्तरं मम ब्रूहि कथं स सिद्धिमाप वै ।। कथयस्व प्रसादेन देवदेव महेश्वर ।। २ ।।

 

170b

।। ।। ईश्वर उवाच ।। ।।

शृणु त्वं यत्पुरावृत्तं देवि स्वारोचिषेंतरे ।। आसीत्कश्चिद्दुराचारः कैवर्तो मत्स्यघातकः ।। ३ ।।

   कदाचिच्चरन्पापः पुष्करे तु जगाम वै ।। ददर्श शांकरं वेश्म लतापादपसंकुलम् ।। ४ ।।

स माघमासे शीतार्त्तः क्लिन्नजालसमन्वितः ।। प्रासाद मारुरोहार्त्तः सूर्यतापजिघृक्षया ।। ५ ।।

ततः स क्लिन्नजालं तच्छोषणाय रवेः करैः ।। प्रासादध्वजदंडाग्रे संप्रसारितवांस्तदा ।। ६ ।।

ततः प्रासादतो देवि जाड्यात्संपतितः क्रमात् ।। स मृतः सहसा देवि तस्मिन्क्षेत्रे शिवस्य च ।। ७ ।।

जालं तस्य प्रभूतेन जीर्णकालेन यत्तदा ।। ध्वजा बद्धा यतो जालैः प्रासादे सा शुभेऽभवत् ।। ८ ।।

ततोऽसौ ध्वजमाहात्म्याज्जातोऽवन्यां नराधिपः ।। ऋतध्वजेति विख्यातः सौराष्ट्रविषये सुधीः ।।

स हि स्फूर्जद्ध्वजाग्रेण रथेन पर्यटन्महीम् ।। ९ ।।

कामभोगाभिभूतात्मा राज्यं चक्रे प्रतापवान् ।। ततोऽसौ भवने शंभोर्ददौ शोभासमन्विताम् ।।

ध्वजां शुभ्रां विचित्रां च नान्यत्किंचिदपि प्रभुः ।। 7.1.294.१० ।।

ततो जातिस्मरो राजा प्रभासक्षेत्रमागतः।। तत्रायतनं ध्वजाजालसमन्वितम्।।११।।

अजोगन्धस्य देवस्य पूर्वमाराधितस्य च ।।प्रासादं कारयामास शिवोपकरणानि च।।१२।।

नित्यं पूजयते भक्त्या तल्लिंगं पापनाशनम् ।। दशवर्षसहस्राणि राज्यं चक्रे महामनाः ।। १३ ।।

तल्लिंगस्य प्रभावेन ततः कालाद्दिवं गतः ।। तस्मात्तत्र प्रयत्नेन गत्वा लिंगं प्रपूजयेत् ।। १४ ।।

स्नात्वा पश्चिमतः कुण्डे पुष्करे पापतस्करे ।। यत्र ब्रह्माऽयजत्पूर्वं यज्ञैर्विपुलदक्षिणैः ।। १५ ।।

समाहूय च तीर्थानि पुष्करात्तत्र भामिनि ।। तस्मिन्कुण्डे तु विन्यस्य अजो गन्ध समीपतः ।।

प्रतिष्ठाप्य महालिंगमजोगन्धेति नामतः ।। १६ ।।

त्रिपुष्करे महादेवि कुण्डे पातकनाशने ।। सौवर्णं कमलं तत्र दद्याद्ब्राह्मणपुंगवे ।। १७ ।।

देवं संपूज्य विधिवद्गन्धपुष्पाक्षतादिभिः ।। मुच्यते पातकैः सर्वैः सप्तजन्मार्जितैरपि ।। १८ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्कर माहात्म्येऽजोगन्धेश्वरमाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरद्विशततमोऽध्यायः ।। २९४ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्मादीशान दिग्भागे इन्द्रस्थानमनुत्तमम् ।। गव्यूतिपञ्चमात्रेण यत्र चन्द्रसरः प्रिये ।। १ ।।

तस्मादुत्तरदिग्भागे नातिदूरे व्यवस्थितम् ।। यत्र चन्द्रोदकं देवि जरादारिद्र्यनाशनम् ।। २।।

चन्द्रानुवृद्ध्या तद्वृद्धिः क्षयस्तत्संक्षये भवेत्।। तस्मिन्पापयुगेऽप्येवं कदाचित्संप्रदृश्यते।।३।।

तत्र स्नात्वा महादेवि यदि पापसहस्रकम्।। कृतं सोऽत्र समायाति नात्र कार्या विचारणा।।४।।

तत्राहिल्याप्रसंगोत्थमहापातकभीरुणा।। गौतमोद्भवशापेन विलक्ष्यीकृतचेतसा ।। ५ ।।         

 

171a

इन्द्रेण च पुरा देवि इष्टं विपुलदक्षिणैः ।। तत्र वर्षसहस्राणि संस्थाप्य शिवमीश्वरम् ।।

इन्द्रेश्वरेति नाम्ना वै सर्वपातक नाशनम् ।। ६ ।।

चन्द्रतीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः ।। इन्द्रेश्वरं च संपूज्य मुच्यते नात्र संशयः ।। ७ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चन्द्रोदकतीर्थमाहात्म्य इन्द्रेश्वरमाहात्म्यवर्णनंनाम पञ्चनवत्युत्तर द्विशततमोऽध्यायः ।। २९५ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्मादाग्नेयदिग्भागे गव्यूतिसप्तकेन च ।। स्थानं देवकुलंनाम देवानां यत्र संगमः ।। १ ।।

ऋषीणां यत्र सिद्धानां पुरा लिंगे निपातिते ।। यस्माज्जातो महादेवि तस्माद्देवकुलं स्मृतम् ।। २ ।।

तस्य पश्चिमदिग्भाग ऋषितोया महानदी ।। ऋषीणां वल्लभा देवि सर्वपातकनाशिनी ।। ३ ।।

तत्र स्नात्वा नरः सम्यक्पितॄणां निर्वपेन्नरः ।। सप्तवर्षायुतान्येव पितॄणां तृप्तिमावहेत् ।। ४ ।।

सुवर्णं तत्र देयं तु अजिनं कंबलं तथा ।। आषाढे त्वमावास्यायां यत्किञ्चिद्दीयते ध्रुवम् ।। ५ ।।

वर्द्धते षोडशगुणं याव दायाति पूर्णिमा ।। ६ ।।

सुवर्णं तत्र देयं तु अजिनं कंबलं तथा ।। मुच्यते पातकैः सर्वैः सप्तजन्मकृतैरपि ।। ७ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितोयानदीमाहात्म्यवर्णनंनाम षण्णवत्युत्तरद्विशततमोऽध्यायः ।।२९६।। ।।

।। देव्युवाच ।। ।।

देवदेव जगन्नाथ संसारार्णवतारक ।। सविस्तरं तु मे ब्रूहि ऋषितोयामहोदयम् ।। १ ।।

ऋषितोयेति तन्नाम कथं ख्यातं धरातले ।। कथं सा पुनरायाता देवदारुवने शुभे ।। २ ।।

।। ईश्वर उवाच ।। ।।

शृणु देवि प्रवक्ष्यामि सावधाना वचो मम ।। माहात्म्यमृषितो यायाः सर्वपातकनाशनम् ।। ३ ।।

देवदारुवने पुण्य ऋषयस्तपसा युताः ।। निवसंति वरारोहे शतशोथ सहस्रशः ।। ४ ।।

तेषां निवसतां तत्र बहुकालो गतः प्रिये ।। पुत्रपौत्रैः प्रवृद्धास्ते दारुकं व्याप्य संस्थिताः ।। ८५ ।।

ते सर्वे चिंतयामासुः समेत्य च परस्परम् ।। सरस्वती महापुण्या शिरस्याधाय वाडवम् ।। ६ ।।

प्रभासं चिरकालेन क्षेत्रं चैव गमिष्यति ।। वापीकूपतडागादि मुक्त्वा सागरगामिनीम् ।। ७ ।।

नाह्लादं कुरुते चेतः स्नानदानजपेषु च ।। ब्रह्माणं प्रार्थयिष्यामो गत्वा ब्रह्मनिकेतनम् ।। ८ ।।

।। ईश्वर उवाच ।। ।।

एवं निमन्त्र्य ते सर्वे ऋषयस्तपसोज्ज्वलाः।। गतास्ते ब्रह्मलोकं तु द्रष्टुं देवं पितामहम् ।।

तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्माणं कमलोद्भवम् ।। ९ ।।

।। ऋषय ऊचुः ।। ।।

नमः प्रणवरूपाय विश्व कर्त्रे नमोनमः ।। तथा विश्वस्य रक्षित्रे नमोऽस्तु परमात्मने ।। 7.1.297.१० ।।

तथा तस्यैव संहर्त्रे नमो ब्रह्मस्वरूपिणे ।। पितामह नमस्तुभ्यं सुरज्येष्ठ नमोऽस्तु ते ।। ११ ।।

 

171b

चतुर्वक्त्र नमस्तुभ्यं पद्मयोने नमोऽस्तु ते ।। विरंचये नमस्तुभ्यं विधये वेधसे नमः ।। १२ ।।

चिदानन्द नमस्तुभ्यं हिरण्य गर्भ ते नमः ।। हंसवाहन ते नित्यं पद्मासन नमोऽस्तुते ।। १३ ।।

एवं संस्तुवतां तेषामृषीणामूर्ध्वरेतसाम् ।। उवाच परमप्रीतो ब्रह्मा लोक पितामहः ।। १४ ।।

स्वागतं वै द्विजश्रेष्ठा युष्माकं कृतवानहम् ।। स्तोत्रेणानेन दिव्येन वृणुध्वं वरमुत्तमम् ।। १५ ।।

।। ऋषय ऊचुः ।। ।।

अभिषेकाय नो देव नदी पापप्रणाशिनी ।। विलोक्यते सुरश्रेष्ठ देहि नो वरमुत्तमम् ।। १६ ।।

।। ईश्वर उवाच ।। ।।

इत्युक्तस्तैस्तदा ब्रह्मा मुनिभिस्तपसोज्ज्वलैः ।। वीक्षांचक्रे तदा सर्वा मूर्तिमत्यश्च निम्नगाः ।। १७ ।।

गङ्गा च यमुना चैव तथा देवी सरस्वती ।। चन्द्रभागा च रेवा च शरयूर्गंडकी तथा ।। १८ ।।

तापी चैव वरारोहे तथा गोदावरी नदी ।। कावेरी चन्द्रपुत्री च शिप्रा चर्मण्वती तथा ।। १९ ।।

सिन्धुश्च वेदिका चैव नदाः सर्वे वरानने ।। मूर्तिमत्यः स्थिताः सर्वाः पवित्राः पापनाशिनी ।। 7.1.297.२० ।।

दृष्ट्वा पितामहः सर्वा गत्वरा धरणीं प्रति ।। देवदारुवने रम्ये प्रभासे क्षेत्र उत्तमे ।।

कमण्डलौ कृता दृष्टिर्विविशुस्ताः कमण्डलुम् ।। २१ ।। ।

। ब्रह्मोवाच ।। ।।

धृताः सर्वा महापुण्या नद्यो ब्रह्मकमण्डलौ।। प्रविष्टाःपृथिवीं यांतु ऋषीणामनुकम्पया ।। २२ ।।

प्रहिणोमि यद्येकां च ह्यन्या रुष्यति मे द्विजाः ।। तस्मात्सर्वाः प्रमोक्ष्यामि कमण्डलुकृता लयाः ।। २३ ।।

।। ईश्वर उवाच ।।  

ततो ब्रह्मा मुमोचाऽथ तत्रस्थाश्च महापगाः ।। मुक्त्वा ब्रह्मा मुनीन्सर्वान्प्रोवाचेदं पुनःपुनः ।। २४ ।।

ऋषिभिः प्रार्थ्यमानेन नद्यो मुक्ता मया यतः ।। तोयरूपा महावेगा अभिषेकाय सत्वराः ।। २५ ।।

ऋषितोयेति नाम्ना सा भविष्यति धरातले ।। ऋषीणां वल्लभा देवी सर्वपातकनाशिनी ।। २६ ।।

।। ईश्वर उवाच ।। ।।

एवं देवि समायाता देवदारुवने नदी ।। ऋषितोयेति विख्याता पवित्रा च वरानने ।। २७ ।।

तूर्यदुंदुभिनिर्घोषैर्वेदमङ्गलनिःस्वनैः ।। समुद्रं प्रापिता देवी ऋषिभिर्वेदपारगैः ।। २८ ।।

सर्वत्र सुलभा देवी त्रिषु स्थानेषु दुर्लभा ।। महोदये महातीर्थे मूलचंडीशसन्निधौ ।। २९ ।।

समुद्रेण समेता तु यत्र सा पूर्ववाहिनी ।। यत्रर्षितोया लभ्येत तत्र किं मृग्यते परम् ।।7.1.297.३०।।

मनुष्यास्ते सदा धन्यास्तत्तोयं तु पिबंति ये ।। अस्थीनि यत्र लीयंते षण्मासाभ्यन्तरेण तु ।। ३१ ।।

प्रातःकाले वहेद्गंगा सायं च यमुना तथा ।। ३२ ।।

नदीसहस्रसंयुक्ता मध्याह्ने तु सरस्वती ।। अपराह्णे वहेद्रेवा सायाह्ने सूर्यपुत्रिका ।। ३३ ।।

एवं जानन्नरो यस्तु तत्र स्नान विचक्ष णः ।। आचरेद्विधिना श्राद्धं स तस्याः फलभाग्भवेत् ।। ३४ ।।

एवं संक्षेपतः प्रोक्तमृषितोयामहोदयम् ।। सर्वपापहरं नृणां सर्वकामफलप्रदम् ।। ३५ ।।

 

172a

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितोयामाहात्म्यवर्णनंनाम सप्तनवत्युत्तरद्विशततमोऽध्यायः ।। २९७  ।।

ईश्वर उवाच ।। ।।

ऋषितोयापश्चिमे तु तत्र गव्यूतिमात्रतः ।। संगालेश्वरनामास्ति सर्वपातकनाशनः ।। १ ।।

गुप्तस्तत्र प्रयागश्च देवो वै माधवस्तथा ।। जाह्नवी यमुना चैव देवी तत्र सरस्वती ।। २ ।।

अन्यानि तत्र तीर्थानि वहूनि च वरा नने ।। स्नात्वा दृष्ट्वा पूजयित्वा मुक्तःस्यात्सर्वकिल्विषैः ।। ३ ।।

।। पार्वत्युवाच ।। ।।

कथय त्वं महेशान सर्वदेवनमस्कृत ।। तीर्थराजः प्रयागस्तु कथं विष्णुः सनातनः ।। ४ ।।

कथं गंगा च यमुना तथा देवी सरस्वती ।। अन्यान्यपि बहून्येव तीर्थानि वृषभध्वज ।। ५ ।।

समायातानि तत्रैव संगालेश्वरसंनिधौ ।। संगालेशेति किं नाम ह्येतन्मे वद कौतुकम् ।। ६ ।।

।। ईश्वर उवाच ।। ।।

पुरा वै लिंगपतने सर्वदेवसमागमे ।। सार्धत्रितयको टीनि पुण्यानि सुरसुन्दरि ।। ७ ।।

तीर्थानि तीर्थराजोऽयं प्रयागः समुपस्थितः ।। आत्मानं गोपयामास तीर्थकोटिभिरावृतम् ।। ८ ।।

ततस्तत्र समायाता ब्रह्मविष्णुपुरोगमाः ।। विबुधास्तीर्थराजं तं ददृशुर्दिव्यचक्षुषा ।। ९ ।।

तीर्थकोटिभिराकीर्णं पवित्रं पापनाशनम् ।। लिंगस्य पतनं श्रुत्वा महादुःखेन संवृताः ।। 7.1.298.१० ।।

स्थिताः सर्वे तदा देवि ब्रह्माद्याः सुरसत्तमाः ।। ११ ।।

एतस्मिन्नेव काले तु देवो रुद्रः सनातनः ।। निरानंदः समा यातो वाक्यमेतदुवाच ह ।। १२ ।।

शृणुध्वं वचनं देवा ब्रह्मविष्णुपुरोगमाः ।। ऋषिशापान्निपतितं मम लिंगमनुत्तमम् ।।

तस्माल्लिंगं पूजयत सर्व कामार्थसिद्धये ।।१३ ।।

एवमुक्त्वा महादेवो देशे तस्मिन्स्थितः प्रिये ।। ब्राह्मं च वैष्णवं रौद्रं तत्र कुण्डत्रयं स्मृतम् ।। १४ ।।

चतुर्थं त्रिसंगमाख्यं नदीनां यत्र संगमः ।। गंगायाश्च सरस्वत्याः सूर्यपुत्र्यास्तथैव च ।। १५ ।।

कोटिरेका च तीर्थानां ब्रह्मकुण्डे व्यवस्थिता ।। तथा च वैष्णवे कुण्डे कोटिरेका प्रकीर्तिता ।। १६ ।।

सार्धकोटिस्तु संप्रोक्ता शिवकुण्डे प्रकीर्तिता ।। पश्चिमे ब्रह्मकुण्डं च पूर्वे वै वैष्णवं स्मृतम् ।। १७ ।।

मध्यभागे स्थितं यच्च रुद्रकुण्डं प्रकीर्तितम् ।। कुण्डमध्याद्विनिर्गत्य यत्र गंगा वरानने ।। १८ ।।

सूर्यपुत्र्या समेता च तत्त्रिसंगम उच्यते ।। अनयोरंतरे सूक्ष्मे तत्र गुप्ता सरस्वती ।। १९ ।।

एषु सन्निहितो नित्यं प्रयागस्तीर्थनायकः ।। अत्रागत्य नरो यस्तु माघमासे वरानने ।। 7.1.298.२० ।।

स्नायात्प्रभातसमये मकरस्थे रवौ प्रिये ।। किञ्चिदभ्युदिते सूर्ये शृणु तस्य च यत्फलम् ।। २१ ।।

आद्येनैकेन स्नानेन पापं यन्मनसा कृतम्।। व्यपोहति नरः सम्य क्छ्रद्धायुक्तो जितेन्द्रियः ।। २२ ।।

वाचिकं तु द्वितीयेन कायिकं तु तृतीयकात् ।। संसर्गजं चतुर्थेन रहस्यं पञ्चमेन तु ।। २३ ।।

उपपातकानि षष्ठेन स्नानेनैव व्यपोहति।।२४।।

अभिषेकेण कुण्डानां सप्तकृत्वो वरानने।। महांति चैव पापानि क्षाल्यंते पुरुषैः सदा।।२५।।

 

172b

यः स्नाति सकलं मासं प्रयागे गुप्तसंज्ञके ।। ब्रह्मादिभिर्न तद्वक्तुं शक्यते कल्पकोटिभिः ।। २६ ।।

यानि कानि च तीर्थानि प्रभासे संति भामिनि ।। तेभ्योऽतिवल्लभं तीर्थं सर्वपापप्रणाशनम् ।। २७ ।।

एषां संरक्षणार्थाय मया वै तत्र मातरः ।। पूजनीयाः प्रयत्नेन नैवेद्यैर्विविधैः शुभैः ।। २८ ।।

कृष्णपक्षे चतु र्दश्यां श्रद्धायुक्तेन चेतसा ।। तासामनुचरा देवि भूतप्रेताश्च कोटिशः ।। २९ ।।

तेषां भयविनाशाय ता मातृश्च प्रपूजयेत् ।। अस्मिंस्तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ।।7.1.298.३०।।

यः कश्चित्कुरुते श्राद्धं पितॄनुद्दिश्य भक्तितः ।। उद्धरेच्च पितुर्वर्गं मातुर्वर्गं नरोत्तमः ।।३१।।

वृषभस्तत्र दातव्यः सम्यग्यात्राफलेप्सुभिः ।। एवं यः कुरुते यात्रां तस्य फलमनन्तकम् ।। ३२ ।।

एवं गुप्तप्रयागस्य माहात्म्यं कथितं तव ।। श्रुत्वाभिनन्द्य पुरुषः प्राप्नुयाच्छंकरालयम् ।। ३३ ।।

 इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुप्तप्रया गमाहात्म्यवर्णनंनामाष्टनवत्युत्तरद्विशततमोऽध्यायः ।। २९८ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्यैव दक्षिणे भागे नातिदूरे व्यवस्थि  तम्।। शंखचक्रगदाधारी माधवस्तत्र संस्थितः ।। १ ।।

एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः ।। यस्तं पूजयते भक्त्या गंधपुष्पानुलेपनैः ।।

स याति परमं स्थानमपुनर्भवदायकम् ।। २ ।।

अत्र गाथा पुरा गीता ब्रह्मणा लोककर्तृणा ।। विष्णुकुण्डे नरः स्नात्वा यो वै माधवमर्चयेत् ।।

स यास्यति परं स्थानं  यत्र देवो हरिः स्वयम् ।। ३ ।।

एतत्ते सर्वमाख्यातं माहात्म्यं विष्णुदैवतम् ।। सर्वकामप्रदं नृणां सर्वपातकनाशनम्।। ४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये माधवमाहात्म्यवर्णनंनाम नवनवत्युत्तरद्वि शततमोऽध्यायः ।। २९९ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्यैवोत्तरदिग्भागे किञ्चिद्वायव्यसंस्थितम् ।। संगालेश्वरनामास्ति सर्वपातकनाशनम् ।। १ ।।

तत्र ब्रह्मा च विष्णुश्च लिंगस्याराधनोद्यतौ ।। शक्रश्चैव महातेजा लिंगं पूजितवान्प्रिये ।। २ ।।

वरुणो धनदश्चैव धर्मराजोऽथ पावकः ।। आदित्यैर्वसुभिश्चैव लोकपालैः समंततः ।। ३ ।।

आराधितं महालिंगं संगालेश्वरनामभृत् ।। पूजयित्वा तु ते सर्वे दृष्ट्वा माहात्म्यमुत्तमम् ।। ४ ।।

ऊचुश्च सहसा देवि परमानंदसंयुताः ।। देवानां निवहैर्यस्मात्समागत्य प्रतिष्ठितम् ।।

संगालेश्वरनामास्य भविष्यति धरातले ।। ५ ।।

संगालेश्वरनामानं पूजयिष्यंति मानवाः ।। न तेषामन्वये कश्चिन्निर्धनः संभविष्यति ।। ६ ।।

गोसहस्रस्य दत्तस्य कुरुक्षेत्रे च यत्फलम् ।। तत्फलं समवाप्नोति संगालेश्वरदर्शनात् ।। ७ ।।

 

173a

अमावास्यां च संप्राप्य स्नानं कृत्वा विधानतः ।। यः करोति नरः श्राद्धं पितॄणां रोषवर्जितः ।।

पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ।। ८ ।।

अर्धक्रोशं च तत्क्षेत्रं समंतात्परिमण्डलम् ।। सर्वकामप्रदं नृणां सर्वपातकनाशनम् ।। ९ ।।

अस्मिन्क्षेत्रे महादेवि जीवा उत्तममध्यमाः ।। कालेन निधनं प्राप्तास्तेऽपि यांति परां गतिम् ।।7.1.300.१०।।।

गृहीत्वानशनं ये तु प्राणांस्त्यक्ष्यंति मानवाः ।। निश्चयं ते महादेवि लीयंते परमेश्वरे ।।११।।

गवा हता द्विजहता ये च वै दंष्ट्रिभिर्हता।। आत्मनो घातका ये तु सर्पदष्टाश्च ये मृताः ।। १२ ।।

शय्यायां विगतप्राणा ये च शौचविवर्जिताः ।। अस्मिंस्तीर्थे महापुण्ये अपुनर्भवदायके।। १३ ।।

दत्तैः षोडशभिः श्राद्धैर्वृषोत्सर्गे कृते पुनः ।। विधिवद्भोजितैर्विप्रैर्भवेन्मुक्तिर्न संशयः ।। १४ ।।

एवमुक्त्वा सुराः सर्वे गतवंतस्त्रिविष्टपम् ।। १५ ।।

संगालेश्वरमाहात्म्यं संक्षेपात्कथितं तव ।। श्रुतं हरति पापानि दुःखशोकांस्तथैव च ।। १६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरमाहात्म्यवर्णनंनामत्रिशततमोऽध्यायः ।। ३०० ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि सिद्धेश्वरमनुत्तमम् ।। तस्यैव पूर्वदिग्भागे नातिदूरे व्यवस्थितम् ।। १ ।।

यदा देवैः समेत्याशु शिवलिंगं प्रतिष्ठितम् ।। संगालेश्वर नामाढ्यं सर्वपापहरं शुभम् ।। २ ।।

तदा सिद्धगणाः सर्वे समाराध्य वृषध्वजम् ।। स्थापयांचक्रिरे लिंगं सर्वसिद्धिप्रदायकम् ।। ३ ।।

तत्सिद्धेश्वर नामाढ्यं महापातकनाशनम् ।। तुष्टुवुर्विविधैः स्तोत्रैस्तदा सिद्धगणाः शिवम् ।। ४ ।।

ततस्तुष्टो महादेवो याच्यतां वरमुत्तमम् ।। नमस्कृत्य ततः सर्वे प्रोचुश्च शशिशेखरम् ।। ५ ।।

इहागत्य नरो यस्तु स्नात्वा च विधिपूर्वकम् ।। अर्चयेत्सिद्धनाथं च जपेच्च शतरुद्रियम् ।। ६ ।।

अघोरं वा जपे न्मन्त्रं गायत्र्यं च महेश्वरम् ।। षण्मासाभ्यन्तरेणैव जपेच्च मुनिसत्तमाः ।।

अणिमादिगुणैश्वर्यं संसिद्धिं प्राप्नुयाद्ध्रुवम् ।।७ ।।

।। ईश्वर उवाच ।।  ।।

एवं भविष्यतीत्युक्त्वा ह्यंतर्धानं गतो हरः ।। सिद्धेश्वरं तु संपूज्य ह्यघोरं च जपेन्नरः ।। ८ ।।

आश्वयुक्कृष्णपक्षे तु चतुर्दश्यां महानिशि ।। धैर्यमालंब्य निर्भीकः स सिद्धिं प्राप्नुयान्नरः ।। ९ ।।

इत्येतत्कथितं देवि माहात्म्यं पापनाशनम् ।। सिद्धेश्वरस्य देवस्य सर्वकामफलप्रदम् ।। 7.1.301.१० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य सिद्धेश्वरमाहात्म्यवर्णनंनामैकोत्तरत्रिशत तमोऽध्यायः ।। ३०१ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि गंधर्वेश्वरमुत्तमम् ।। तस्यैवोत्तरदिग्भागे धनुषां पंचके स्थितम् ।।१।।

 

173b

तै दृष्ट्वा च महादेवि रूपवाञ्जायते नरः ।। गंधर्वैः स्थापितं लिंगं स्नात्वा संपूजयेत्सकृत् ।।

सर्वान्कामानवाप्नोति रक्तकण्ठश्च जायते ।। २ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंधर्वेश्वरमाहात्म्यवर्णनंनाम द्व्युत्तरत्रिशत तमोऽध्यायः ।। ३०२ ।। 

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि उत्तरे देवमुत्तमम् ।। यस्तमाराधयेद्देवं महापातकनाशनम् ।। ।। १ ।।

तस्यैव पश्चिमे भागे धनुषां त्रितये स्थितम् ।। शेषादिप्रमुखैर्नागैर्महता तपसा युतैः ।।

समाराध्य महादेवं स्थापितं लिंगमुत्तमम् ।। २ ।।

यस्तमाराधयेद्देवं सर्पैराराधितं पुरा ।। न विषं क्रमते देहे तस्य जन्मावधि प्रिये ।। ३ ।।

सर्पास्तस्य प्रसीदन्ति न कुंथंति कदाचन ।। तस्मात्सर्वं प्रयत्नेन तल्लिंगं पूजयेन्नरः ।। ४ ।।

तत्र लिंगान्यनेकानि ऋषिभिः स्थापितानि तु ।। गंगातीरे महापुण्ये पश्चिमे वरवर्णिनि ।। ५ ।।

तानि दृष्ट्वा पूजयित्वा सर्वपापैः प्रमुच्यते ।। अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।। ६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरमाहात्म्य उत्तरेश्वरमाहात्म्यवर्णनंनाम त्र्युत्तरत्रिशततमोऽध्यायः ।। ३०३ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि गंगां त्रिपथगामिनीम् ।। संगालेशादथैशान्यां धनुषां सप्तके स्थिताम्।। १ ।।

तस्यां त्रिनेत्रा मत्स्याः स्युर्नित्य मांभसिकाः प्रिये ।। कलौयुगेऽपि दृश्यंते सत्यंसत्यं मयोदितम् ।। २ ।।

तस्यां स्नात्वा महादेवि मुच्यते पञ्चपातकैः ।। ३ ।।

।। सूत उवाच ।। ।।

तस्य तद्वचनं श्रुत्वा विस्मिता गिरिजा सती ।। उवाच तं द्विजश्रेष्ठाः प्रचलच्चंद्रशेखरम् ।।४।।

।। पार्वत्युवाच ।। ।।

कथं तत्र समायाता गंगा त्रिपथगामिनी ।। कथं त्रिनेत्राः संजाता मत्स्या आंभसिकाः शिव ।। ५ ।।

एतद्विस्तरतो ब्रूहि यद्यहं ते प्रिया विभो ।। ६ ।।

।। ईश्वर उवाच ।। ।।

शृणु देवि प्रवक्ष्यामि यदि पृच्छसि मां शुभे ।। आस्तिकाः श्रद्दधानाश्च भवंतीति मतिर्मम ।। ७।।

यदा शप्तो महादेवो ह्यज्ञानतिमिरावृतैः ।। ऋषिभिः कोपयुक्तैश्च कस्मिंश्चित्कारणांतरे ।। ८ ।।

तदा ते मुनयः सर्वे शप्तं ज्ञात्वा महेश्वरम् ।। निरानंदं जगत्सर्वं दृष्ट्वा चात्मानमेव च ।। ९ ।। 

आराध्य परमेशानं दधतं गजरूपकम् ।। उन्नतं स्थानमानीय सानंदं चक्रिरे द्विजाः ।। 7.1.304.१० ।।

ततः प्रभृति सर्वे ते शिवद्रोहकरं परम् ।। आत्मानं मेनिरे नित्यं प्रसन्नेऽपि महेश्वरे ।। ११ ।।

महोदयान्महातीर्थं सर्व आगत्य सत्वरम् ।। तपस्तेपुर्महाघोरं संगालेश्वरस न्निधौ ।। १२ ।।

संगालेश्वरनामानं सर्वे पूज्य यथाविधि ।। भृगुरत्रिस्तथा मंकिः कश्यपः कण्व एव च ।। १३ ।।

 

174a

 

गौतमः कौशिकश्चैव कुशिकश्च महातपाः ।। शूकरोऽथ भरद्वाजो भार्गविश्च महातपाः ।। १४ ।।

जातूकर्ण्यो वसिष्ठश्च सावर्णिश्च पराशरः ।। शांडिल्यश्च पुलस्त्यश्च वत्सश्चैव महातपाः ।। १५ ।।

एते चान्ये च बहवो ह्यसंख्याता महर्षयः ।। १६ ।।

संगालेश्वरमासाद्य प्रभासे पापनाशने ।। तपः कुर्वंति सततं प्रतिष्ठाप्य महेश्वरम् ।। १७ ।।

ततः कालेन महता ते सर्वे मुनिपुंगवाः ।। ध्यानात्त्रिलोचनस्यैव अदृष्टे तु महेश्वरे ।। १८ ।।

त्रिनेत्रत्वमनुप्राप्तास्तपोनिष्ठास्तपोधनाः ।। परस्परं वीक्षमाणास्त्रिनेत्रस्याभिशंकया ।। १९ ।।

स्तुवंति विविधैः स्तोत्रैर्मन्यमाना महेश्वरम् ।। ज्ञात्वा ध्यानेन देवस्य त्रिनेत्रत्वमुपागताः ।। 7.1.304.२० ।।

चकुरुग्रं तपस्ते तु पूजां देवस्य शूलिनः ।। तेषु वै तप्यमानेषु कृपाविष्टो महेश्वरः ।। २१ ।।

उवाच तान्मुनीन्सर्वाञ्छृणुध्वं वरमुत्तमम्।। प्रसन्नोऽहं मुनिश्रेष्ठास्तपसा पूजयापि च ।। २२ ।।

।। ऋषय ऊचुः ।। ।।

यदि प्रसन्नो देवेश वरं नो दातुमर्हसि ।। गंगामानय वेगेन ह्यभिषेकाय नो हर ।। २३ ।।

तस्यां कृताभिषेकास्तु तव द्रोहकरा वयम् ।। अज्ञानभावात्पूतत्वं यास्यामः पृथिवीतले ।। २४ ।। ।।

।। ईश्वर उवाच ।। ।।

यूयं पवित्रकरणाः पावनानां च पावनाः ।। गंगां चैवानयिष्यामि युष्माकं चित्ततुष्टये ।। २५ ।।

पावित्र्याद्भवतां जातं त्रैनेत्र्यं मुनिसत्तमाः ।। एवमुक्त्वा ततः शंभुर्ध्यानस्तिमितलोचनः ।।

सस्मार क्षणमात्रेण गंगां मीनकुलावृताम् ।। २६ ।।

स्मृतमात्रा तदा देवी गंगा त्रिपथगामिनी ।। भित्वा भूमितलं प्राप्ता तत्र मीनकुलावृता ।। २७ ।।

ऋषिभिश्च यदा दृष्टा गंगा मीनयुता शुभा ।। दृष्टमात्रास्तु ते मत्स्या स्त्रिनेत्रत्वमुपागताः ।। २८ ।।

।। ईश्वर उवाच ।। ।।

युष्माकं दर्शनाद्विप्रास्त्रिनेत्रत्वमुपागताः ।। एतन्निदर्शनं सर्वं लोकानां च प्रदर्शनम् ।। २९ ।। ।।।

।। ऋषय ऊचुः ।। ।।

अस्मिन्कुंडे महादेव मत्स्यानां संततिः सदा ।। त्रिनेत्रा त्वत्प्रसादेन भूयात्सर्वा युगेयुगे ।। 7.1.304.३० ।।

अस्मिन्कुंडे समागत्य नरः स्नानं करोति यः ।। ददाति हेम विप्राय गाश्च वस्त्रं तथा तिलान् ।। ३१ ।।

अमावास्यां विशेषेण त्रिनेत्रः स प्रजायताम् ।। एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो हरः ।। ३२ ।।

ब्राह्मणास्तुष्टिसंयुक्ता गताः सर्वे महोदयम् ।। ३३ ।।

एतत्ते कथितं देवि गंगामाहात्म्यमुत्तमम् ।। श्रुतं पापप्रशमनं सर्वकामफलप्रदम् ।। ३४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरसमीपवर्ति गंगामाहात्म्यवर्णनंनाम चतुरुत्तरत्रिशततमोऽध्यायः ।। ३०४ 

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि तस्याः पूर्वेण संस्थितम्।। नारदादित्यनामानं जरादारिद्र्यनाशनम् ।। १ ।।

पश्चिमे मूलचंडीशाद्धनुषां च शतत्रये ।। आराध्य नारदो देवि भास्करं वारितस्करम् ।।

जरा निर्मुक्तदेहस्तु तत्क्षणात्समपद्यत ।।२ ।।

।। देव्युवाच ।। ।।

कथं जरामनुप्राप्तो नारदो मुनिपुंगवः ।। कथमाराधितः सूर्य एतन्मे वद शंकर ।। ३ ।।

 

174b

।। ईश्वर उवाच ।। ।।

यदा द्वारवतीं प्राप्तो नारदो मुनिपुंगवः ।। सर्वे दृष्टास्तदा तेन विष्णोः पुत्रा महाबलाः ।। ४ ।।

तद्राजकुलमध्ये तु क्रीडमाना परस्परम् ।। आयांतं नारदं दृष्ट्वा सर्वे विनयसंयुताः ।। ५ ।।

नमश्चक्रुर्यथान्यायं विना सांबं त्वरान्विताः ।। अविनीतं तु तं दृष्ट्वा कथयामास नारदः ।। ६ ।।

शरीरमदमत्तोऽसि यस्मात्सांब हरेः सुत ।। अचिरेणैव कालेन शापं प्राप्स्यसि दारुणम् ।। ७।।

।। सांब उवाच ।। ।।

नमस्कारेण किं कार्यमृषीणां च जितात्मनाम्।। आशीर्वादेन तेषां च तपोहानिः प्रजायते ।। ८ ।।

मुनीनां यः स्वभावो हि त्वयि लेशो न नारद ।। विद्यते ब्रह्मणः पुत्र उच्यते किमतः परम्।। ९ ।।

न कलत्रं न ते पुत्रा न च पौत्रप्रपौत्रकाः ।। न गृहं नैव च द्वारं न हि गावो न वत्सकाः ।। 7.1.305.१० ।।

ब्रह्मणो मानसः पुत्रो ब्रह्मचर्ये व्यवस्थितः ।। अयुक्तं कुरुते नित्यं कस्मात्प्रकृतिरीदृशी ।। ११ ।।

युद्धं विना न ते सौख्यं सौख्यं न कलहं विना ।। यादृशस्तादृशो वापि वाग्वादोऽपि सदा प्रियः ।। १२ ।।

स्नानं संध्या जपो होमस्तर्पणं पितृदेवयोः ।। नारदः  कुरुते चान्यदन्यत्कुर्वंति ब्राह्मणाः ।। १३ ।।

कौमारेण तु गर्विष्ठो यस्मान्मां शापयिष्यसि ।। तस्मात्त्वमपि विप्रर्षे जरायुक्तो भविष्यसि ।। १४ ।।

एवं शप्तस्तदा देवि नारदो मुनिपुंगवः ।। एकान्ते निर्मले स्थाने कंटकास्थिविवर्जिते ।। १५ ।।

कृष्णाजिनपरिच्छिन्ने ह्युपविष्टो वरासने ।। ऋषितोया तटे रम्ये प्रतिष्ठाप्य महामुनिः ।। १६ ।।

सूर्यस्य प्रतिमां रम्यां सर्वदारिद्र्यनाशिनीम् ।। तुष्टाव विविधैः स्तोत्रैरादित्यं तिमिरापहम् ।। १७ ।।

नमस्त ऋक्स्वरूपाय साम्नां धामग ते नमः ।। ज्ञानैकरूपदेहाय निर्धूततमसे नमः ।। १८ ।।

शुद्धज्योतिःस्वरूपाय निर्मूर्तायामलात्मने ।। वरिष्ठाय वरेण्याय सर्वस्मै परमात्मने ।। १९ ।।

नमोऽखिलजगद्व्यापिस्वरूपानंदमूर्तये ।। सर्वकारणपूताय निष्ठायै ज्ञानचेतसाम् ।। 7.1.305.२० ।।

नमः सर्वस्वरूपाय प्रकाशालक्ष्यरूपिणे ।। भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ।। २१ ।।

।। ईश्वर उवाच ।। ।।

एवं संस्तुवतस्तस्य पुरतस्तस्य चेतसा ।। प्रादुर्बभूव देवेशि जगच्चक्षुः सनातनः ।।

उवाच परमं प्रीतो नारदं मुनिपुंगवम् ।। २२ ।।

।। सूर्य उवाच ।। ।।

वरं वरय विप्रर्षे यस्ते मनसि वर्तते ।। तुष्टोऽहं तव दास्यामि यद्यपि स्यात्सुदुर्लभम् ।। २३ ।।

।। नारद उवाच ।।

।। कुमार वयसा युक्तो जरायुक्तकलेवरः ।। प्रसादात्स्यां हि ते देव यदि तुष्टो दिवाकर ।। २४ ।।

सप्तम्यां रविवारेण यस्त्वां पश्यति मानवः ।। तस्य रोग भयं माऽस्तु प्रसादात्तिमिरापह।। २५ ।।

।। ईश्वर उवाच ।। ।।

एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो रविः ।। इत्येतत्कथितं देवि माहात्म्यं सकलं तव ।।

नारदादित्यदेवस्य सर्वपातकनाशनम्।। २६ ।।

 

175a

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारदादित्यमाहात्म्यवर्णनंनाम पञ्चोत्तरत्रिशततमोऽध्यायः ।। ३०५ ।। 

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि सांबादित्यमनुत्तमम् ।। तस्मादुत्तरभागे तु सर्वपातकनाशनम् ।। १ ।।

यत्र सांबस्तपस्तप्त्वा ह्याराध्य च दिवाकरम् ।। प्राप्तवा न्सुन्दरं देहं सहस्रांशुप्रसादतः ।। २ ।।

यदा रोषेण संशप्तः पित्रा जांबवतीसुतः ।। आराधयामास तदा विष्णुं कमललोचनम् ।। ३ ।।

अनुग्रहार्थं शापस्य सांबो जांबवतीसुतः ।। प्रसन्नवदनो भूत्वा विष्णुः प्रोवाच तं प्रति ।। ४ ।।

गच्छ प्राभासिके क्षेत्रे ब्रह्मभागमनुत्तमम् ।। ऋषितोयातटे रम्ये ब्राह्मणैरुपशोभिते ।। ५ ।।

तत्राऽहं सूर्यरूपेण वरं दास्यामि पुत्रक ।। इत्युक्तः स तदा सांबो विष्णुना प्रभविष्णुना ।। ६ ।।

गतः प्राभासिके क्षेत्रे रम्ये शिवपुरे शिवे ।। तत्राराध्य परं देवं भास्करं वारितस्करम् ।। ७ ।।

प्रसादयामास तदा स्तुत्वा स्तोत्रैरनेकधा ।। ८ ।। प्रत्युवाच रविः सांबं प्रसन्नस्ते स्तवेन वै ।।

शीघ्रं गच्छ नरश्रेष्ठ ऋषितोयातटे शुभे ।। ९ ।।

इत्युक्तः स तदाऽऽगत्य ऋषितोयातटं शुभम् ।। नारदो यत्र ब्रह्मर्षिस्तपस्तप्यति चैव हि ।। 7.1.306.१० ।।

तत्र गत्वा हरेः सूनुरुन्नतस्थानवासिनः ।। आसन्ये ब्राह्मणास्तान्स इदं वचनमब्रवीत् ।। ११ ।।

।। सांब उवाच ।। ।।

एष वै ब्रह्मणो भागः प्रभासे क्षेत्र उत्तमे ।। अत्र वै ब्राह्मणा ये तु ते वै श्रेष्ठाः स्मृता भुवि ।। १२ ।।

भवतां वचनाद्विप्राः सूर्यमाराधयाम्यहम् ।। मम वै पूर्वमादिष्टं स्थानमेतच्च विष्णुना ।। १३ ।।

।। विप्रा ऊचुः ।। ।।

सिद्धिस्ते भविता सांब आराधय दिवाकरम् ।। इत्युक्तः स तदा विप्रैः प्रवि ष्टोऽथ प्रभाकरम्।। १४ ।।

नित्यमाराधयामास सांबो जांबवतीसुतः ।। तपोनिष्ठं च तं दृष्ट्वा विष्णुः कारुणिको महान् ।। १५ ।।

इदं वै चिन्तयामास पुत्रवात्सल्यसंयुतः ।। यथैश्वर्यप्रदो रुद्रो यथा विष्णुश्च मुक्तिदः ।। १६ ।।

यज्ञैरिष्टो हि देवेन्द्रो यथा स्वर्गप्रदः स्मृतः ।। शुद्धिकर्तृ यथा तोयं मृत्तिकाभस्मसंयुतम् ।।

दहनात्मा यथा वह्निर्विघ्नहर्त्ता गणेश्वरः ।। १७ ।।

स्वच्छंदभारतीदाने यथा ब्रह्मसुता नृणाम् ।। तथाऽऽरोग्यप्रदाता च नान्यो देवो दिवाकरात् ।। १८ ।।

अनेकधाऽऽराधितोऽपि स देवो भास्करः शुचिः ।। न ददाति वरं यत्तु तन्मे शापस्य कारणात् ।। १९ ।।

एवं संचिन्त्य भगवान्विष्णुः कमललोचनः ।। सूर्यरूपं समाश्रित्य तस्य तुष्टो जनार्दनः ।। 7.1.306.२० ।। योऽपरनारायणख्यस्तस्यैव सन्निधौ स्थितः ।। प्रत्यक्षः स ततो विष्णुः सूर्यरूपी दिवाकरः ।।

उवाच परमप्रीतो वरदः पुण्यकर्मणाम् ।। २१ ।।

अलं क्लेशेन ते सांब किमर्थं तप्यसे तपः ।। प्रसन्नोऽहं हरेः सूनो वर वरय सुव्रत ।। २२ ।।

।। सांब उवाच ।। ।।

निर्मलस्त्वत्प्रसादेन कुष्ठमुक्तकलेवरः ।। भवानि देवदेवेश प्रत्यक्षाऽम्बरभूषण ।।

अस्मिन्स्थाने स्थितो रम्ये नित्यं सन्निहितो भव ।। २३ ।।

 

175b

।। सूर्य उवाच ।। ।।

अधुना निर्मलो देहस्तव सांब भवि ष्यति ।। इहागत्य नरो यस्तु सप्तम्यां रविवासरे ।।

उपवासपरो भूत्वा रात्रौ जागरणे स्थितः ।। २४ ।।

अष्टादशानि कुष्ठानि पापरोगास्तथैव च ।। कदाचिन्न भविष्यन्ति कुले तस्य महात्मनः ।। २५ ।।

कृत्वा स्नानं नरो यस्तु भक्तियुक्तो जितेन्द्रियः ।। पूजयेद्रविवारेण सांबादित्यं महाप्रभम् ।।

स रोगहीनो धनवान्पुत्रवाञ्जायते नरः ।। २६ ।।

तस्यैव पूर्वदिग्भागे किञ्चिदीशानमाश्रितम् ।। कुंडं पापहरं पुण्यं स्वच्छोदपरि पूरितम्।। २७ ।।

तत्र स्नात्वा च् विधिवत्कुर्याच्छ्राद्धं विचक्षणः ।। भोजयेद्ब्राह्मणान्यस्तु सांबादित्यं प्रपूजयेत् ।। २८ ।।

सर्वकामसमृद्धात्मा सूर्य लोके महीयते ।। २९।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्य माहात्म्यवर्णनंनाम षडुत्तरत्रिशततमोध्यायः ।। ३०६ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

सांबादित्याच्च पूर्वेण किञ्चिदाग्नेयसंस्थितः ।। अपरनारायणोनाम यस्मान्नास्ति परो भुवि ।। १ ।।

स तु सांबस्य देवेशि सूर्यो विष्णुस्वरूपवान् ।। अपरां मूर्तिमास्थाय विष्णु रूपो वरं ददौ ।। २ ।।

तेनापरेति नाम्ना वै ख्यातो विष्णुः पुराऽभवत् ।। फाल्गुनामलपक्षे तु एकादश्यां विधानतः ।। ३ ।।

पूजयेत्पुण्डरीकाक्षं तत्र सूर्यस्वरूपिणम् ।। मुक्तो भवति पापेभ्यः सर्वकामैः समृध्यते ।। ४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्स्येऽपरनारायणमाहात्म्यवर्णनंनाम सप्तोत्तरत्रिशततमोऽध्यायः ।। ३०७ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्मान्नारायणात्पूर्वे किंचिदीशानसंस्थितम् ।। मूलचण्डीशनाम्ना तु विख्यातं भुवनत्रयं ।। १ ।।

 यत्र लिंगं पुराऽस्माकं पातितं त्वृषिभिः प्रिये ।। क्रोधरक्तेक्षणैर्देवि मूलचण्डीशत गतम् ।। २ ।।

आद्यं लिंगोद्भवं देवि ऋषिकोपान्निपातितम् ।। ये केचिदृषयस्तत्र देवदारुवने स्थिताः ।। ३ ।।

कालांतरे महादेवि अहं तत्र समागतः ।। तेषां जिज्ञासया देवि ततस्ते रोषिता भवन् ।।

शप्तस्ततोऽहं देवेशि चक्रुर्मे लिंगपातनम् ।। ४ ।। ।।

।। देव्युवाच ।। ।।

रोषोपहतसद्भावाः कथमेते द्विजातयः ।। संजाता एतदाख्याहि परं कौतूहलं मम ।। ५ ।।

।। ईश्वर उवाच ।। ।।

डिंडि रूपः पुरा देवि भूत्वाऽहं दारुके वने ।। ऋषीणामाश्रमे पुण्ये नग्नो भिक्षाचरोऽभवम् ।।

भिक्षंतमाश्रमे दृष्ट्वा ताः सर्वा ऋषियोषितः ।। ६ ।।

कामस्य वशमापन्नाः प्रियमुत्सृज्य सर्वतः।। तमूर्ध्वलिंगमालोक्य जटामुकुटधारिणम् ।। ७ ।। ।।

भिक्षंतं भस्मदिग्धांगं झषकेतुमिवापरम् ।। विक्षोभिताश्च नः सर्वे दारा एतेन डिंडिना ।। ८ ।।

 

176a

तस्माच्छापं च दास्याम ऋषयस्ते तदाऽब्रुवन् ।। ततः शापोदकं गृह्य संध्यात्वाऽथ तपोधनाः ।। ९ ।।

अस्य लिंगमधो यातु दृश्यते यत्सदोन्नतम् ।।  इत्युक्ते पतितं लिंगं तत्र देवकुले मम ।। 7.1.308.१० ।।

मूलचण्डीशनाम्ना तु विख्यातं भुवनत्रये ।। तल्लिंगं पतितं दृष्ट्वा कोपोपहतचेतसः ।।

पुनर्हंतुं समारब्धा डिंडिनं ते तपोधनाः ।। ११ ।।

वृसिकापाणयः केचित्कमंडलुधराः परे ।। गृहीत्वा पादुकाश्चान्ये तस्य धावंति पृष्ठतः ।। १२ ।।

डिंडिश्चांतर्हितो भूत्वा त्वामुवाच सुमध्यमाम् ।। रोषोपहतचेतस्कान्पश्यैतांस्त्वं तपोधनान् ।। १३ ।।

एतस्मात्कारणाद्देवि तव वाक्यान्मयाऽनघे ।। न कृतोऽनुग्रहस्तेषां सरोषाणां तपस्विनाम् ।। १४ ।।

अत्रांतरे ते मुनयो ह्यपश्यंतो हि डिंडिनम् ।। निरानंदं गताः सर्वे द्रष्टुं देवं पितामहम्।। १५ ।।

तं दृष्ट्वा विबुधेशानं विरंचिं विगतज्वरम् ।। प्रणम्य शिरसा सर्व ऋषयः प्राहुरंजसा ।। १६ ।।

भगवन्डिंडि रूपेण कश्चिदस्ति तपोधनः ।। विध्वंसनाय दाराणां प्रविष्टः किल भिक्षितुम्।। १७ ।।

शप्तोऽस्माभिस्तु दुर्वृत्तस्तस्य लिंगं निपातितम्।। तस्मिन्नि पतितेऽस्माकं तथैव पतितानि च ।। १८ ।।

गतोऽसौ कारणात्तस्मात्तल्लिंगे पतिते वयम् ।। निरानंदाः स्थिताः सर्व आचक्ष्वैतद्धि कारणम् ।।१९।।। ।।

।। ब्रह्मोवाच ।। ।।

अशोभनमिदं कार्यं युष्माभिर्यत्कृतं महत्। रुद्रस्यातिसुरूपस्य सेर्ष्या ये हन्तुमुद्यताः ।।7.1.308.२०।।

आसुरीं दानवीं दैवीं यक्षिणीं किंनरीं तथा ।। विद्याधरीं च गन्धर्वीं नागकन्यां मनोरमाम् ।।

एता वरस्त्रियस्त्यक्त्वा युष्मदीयासु तास्वपि ।। २१ ।।

आह्लादं कुरुते सर्वे नैव जानीत भो द्विजाः ।। त्रैलोक्यनायकां सर्वां रूपातिशयसंयुताम् ।। २२ ।।

तां त्यक्त्वा मुनिपत्नीनामाह्लादं कुरुते कथम् ।। तया रुद्रो हि विज्ञप्त ऋषीणां कुर्वनुग्रहम् ।। २३ ।।

तेन वाक्येन पार्वत्या जिज्ञासार्थं कृतं मनः ।। चतुर्द्दशविधस्यापि भूतग्रामस्य यः प्रभुः ।। २४ ।।

स शप्तो डिंडिरूपस्तु भवद्भिः करणेश्वरः ।। तच्छापाच्छप्तमेवैतत्समस्तं तद्गुणास्पदम् ।।

देवतिर्यङ्मनुष्याणां निरानंदमिति स्थितम् ।। २५ ।।

शापेनानेन भवतां महा दोषः प्रजायते ।। आराध्यं नान्यथा लिंगमुन्नतिं यात्यधोगतम् ।। २६ ।।

एवमुक्तेऽथ देवेन विप्रा ऊचुः पितामहम् ।। द्रष्टव्यः कुत्र सोऽस्माभिः कथयस्व यथास्थितम् ।। २७ ।।

।। ब्रह्मोवाच ।। ।।

आस्ते गजस्वरूपेण कुबेराश्रमसंस्थितः ।। तत्र गत्वा तमासाद्य तोषयध्वं पिनाकिनम् ।। ।। २८ ।।

एतच्छ्रुत्वा वचस्तस्य सर्वे ते हृष्टमानसाः ।। गंतुं प्रवृत्ताः सहसा कोटिसंख्यास्तपोधनाः ।। २९ ।।

चिंतयंतः शुभं देशं द्रष्टुं तं गजरूपिण म् ।। रुद्रं पितामहाख्यातं कुबेराश्रमवासिनम् ।। 7.1.308.३० ।।

क्षुत्कामकंठास्तृषितान्गौरी मत्वा तपोधनान् ।। आदाय गोरसं तेषां कारुण्यात्सा पुरः स्थिता ।। ३१ ।।

 

176b

असितां कुटिलां स्निग्धामायतां भुजगीमिव ।।वेणीं शिरसि बिभ्राणा गौरी गोरससंयुता ।। ३२ ।।

सा तानाह मुनीन्सर्वान्यन्म या पर्वताहृतम्।। कपित्थफलसंगंधं गोरसं त्वमृतोपमम् ।।३३।। 

तयैवमुक्ता विप्रास्तु आहुस्तां विपुलेक्षणाम् ।। स्नात्वा च सर्वे पास्यामो गोरसं तु त्वयाहृतम् ।। ३४ ।।

ततः श्रुत्वा तथा देव्या स्नानार्थं तीर्थमुत्तमम् ।। तप्तोदकेनसंपूर्णं कृतं कुण्डं मनोरमम् ।। ३५ ।।

तत्र ते संप्लुताः सर्वे विमुक्ता विपुलाच्छ्रमात्।। कृताऽऽह्ना गोरसस्वैव पानार्थं समुपस्थिताः।।३६।।

पत्रैर्दिवाकरतरोर्विधाय पुटकाञ्छुभान् ।। उपविश्य क्रमात्सर्वे ते पिबंति स्म गोर सम् ।। ३७ ।।

गोरसेन तदा तेषाममृतेनेव पूरितान्।। बुभुक्षितानां पुटकान्मुनीनां तृप्तिकारणात् ।।३८।।

पुनः पूरयते गौरी पीत्वा ते तृप्तिमागताः।। क्षुत्तृषाश्रमनिर्मुक्ताः पुनर्जाता इव स्थिताः ।।३९।।

स्वस्थचित्तैस्ततो ज्ञात्वा नेयं गोपालिसंज्ञिका ।। अनुग्रहार्थमस्माकं गौरीयं समुपागता ।।7.1.308.४०।।

प्रणम्य शिरसा सर्वे तामूचुस्ते सुमध्यमाम्।। उमे कथय कुत्रस्थं द्रक्ष्यामो रुद्रमेकदा ।। ४१ ।।

तथोक्तास्ते महात्मानस्तं पश्यत महागजम् ।। गजतां च समासाद्य संचरंतं महाबलम् ।। ४२ ।।

भवद्भिर्निजभक्त्यायं संग्राह्यो हि यथासुखम् ।। ते तद्वचनमासाद्य समेत्यैकत्र च द्विजाः ।। ।। ४३ ।।

पवित्रास्तं गजं द्रष्टुं भावितेनांतरात्मना ।। यत्रैकत्र स्थिता विप्रास्तत्र तीर्थं महोदयम् ।।

संगमेश्वरसंज्ञं तु पूर्वं सर्वत्र विश्रुतम् ।। ४४ ।।

ततस्तस्मात्प्रवृत्तास्ते द्रष्टुकामा महागजम् ।। कुंडिकाः संपरित्यज्य संनह्यात्मानमात्मना ।।४५।।

यत्र ताः कुंडिकास्त्यक्तास्तत्तीर्थं कुण्डिकाह्वयम् ।। सर्वपापहरं पुंसां दृष्टाऽदृष्टफलप्रदम् ।। ४६ ।।

कुबेरस्याश्रमं प्राप्य ततस्ते मुनिसत्तमाः ।। नालिकेरवनीसंस्थं ददृशुस्तं द्विपं तदा ।। ४७ ।।

करे ग्रहीतुमारब्धाः स्वकरैर्हृष्टमानसाः ।। गजस्तान्करसंलग्नान्विचिक्षेप तपोधनान् ।। ४८ ।।

काश्चिदंगसमालग्नान्समंताद्भयवर्जितान् ।। एवं स तैः पुनः सर्वैर्मशकैरिव चेष्टितम् ।। ४९ ।।

क्रीडां करोति विविधां वनसंस्थो हरद्विपः ।। तद्रूपं संपरित्यज्य रुद्रो रौद्रगजात्मकम् ।। 7.1.308.५० ।।

पुनरन्यच्चकारासौ डिंडिरूपं मनोरमम् ।। जयशब्दप्रघोषेण वेदमङ्गलगीतकैः ।। ५१ ।।

उन्नामितं पुनस्तेन यत्र लिंगं महोदयम् ।। तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम् ।। ५२ ।।

गजरूपधरस्तत्र स्थितः स्थाने महाबलः ।। गणनाथस्वरूपेण ह्युन्नतो जगति स्थितः ।। ५३ ।।

डिंडिरूप धरो भूत्वा रुद्रः प्राह तपोधनान् ।। यन्मया भवतां कार्यं कर्तव्यं तदिहोच्यताम् ।। ५४ ।।

एवमुक्तस्तु तैरुक्तः सर्वज्ञानक्रियापरैः ।। सानन्दाः प्राणिनः संतु त्वत्प्रसादात्पुरा यथा ।। ५५ ।।

क्षंतव्यं देवदेवेश कृतं यन्मूढमानसैः ।। त्वत्प्रसादात्सुरेशान तत्त्वं सानुग्रहो भव ।। ५६ ।।

 

177a

एवमस्त्विति तेनोक्तास्ते सर्वे विगतज्वराः ।। तल्लिंगानुकृतिं लिंगमीजिरे मुनयस्तथा ।।

चक्रुस्ते मुनयः सर्वे स्तुतिं विगतमत्सराः ।। ५७ ।।

क्षमस्व देवदेवेश कुर्वस्माकमनुग्रहम् ।। अस्मिँल्लिंगे लयं गच्छ मूलचण्डीशसंज्ञके ।।

त्रिकालं देवदेवेश ग्राह्या ह्यत्र कला त्वया ।। ५८ ।। ।।

।। ईश्वर उवाच ।। ।।

चण्डी तु प्रोच्यते देवी तस्या ईशस्त्वहं स्मृतः ।। तस्य मूलं स्मृतं लिंगं तदत्र पतितं यतः ।। ५९ ।।

तस्मात्तन्मूल चण्डीश इति ख्यातिं गमिष्यति ।। वापीकूपतडागानां शतैस्तु विपुलैरपि ।। 7.1.308.६० ।।

कृतैर्यज्जायते पुण्यं तत्पुण्यं लिंगदर्शनात् ।। ब्रह्माण्डं सकलं दत्त्वा यत्पुण्यफलमाप्नुयात् ।। ६१ ।।

तत्पुण्यं लभते देवि मूलचण्डीशदर्शनात् ।। तत्र दानानि देयानि षोडशैव नरोत्तमैः ।। ६२ ।।

एवं तद्भविता सर्वं यन्मयोक्तं द्विजोत्तमाः ।। यात दारुवनं विप्राः सर्वे यूयं तपोधनाः ।।

मया सर्वे समादिष्टा यात दारुवनं द्विजाः ।। ६३ ।।

ततस्तु संप्राप्य महद्वचो मम सर्वे प्रहृष्टा मुनयो महोदयम् ।।

गत्वा च तद्दारुवनं महेश्वरि पुनश्च चेरुः सुतपस्तपोधनाः ।। ६४ ।।

एतस्मात्कारणाद्देवि मूलचण्डी शसंज्ञितम् ।। लिंगं पापहरं नृणामर्द्धचन्द्रेण भूषितम् ।। ६५ ।।

दोहनी दुग्थदानेन मुनीनां तृषितात्मनाम् ।। श्रमापहारं यद्देवि त्वया कृत मनुत्तमम् ।।

तत्तप्तोदकनाम्ना वा अभूत्कुण्डं धरातले ।।६६ ।।

ऋषितोयाजले स्नात्वा चण्डीशं यः प्रपूजयेत् ।। स प्रचण्डो भवेद्भूमौ भुवना नामधीश्वरः ।। ६७ ।।

एतत्संक्षेपतो देवि माहात्म्यं कीर्तितं तव ।। मूलचण्डीशदेवस्य श्रुतं पातकनाशनम् ।। ६८ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये तप्तोदककुण्डोत्पत्तौ मूलचण्डीशोत्पत्तिमाहात्म्यवर्णनंनामाष्टोत्तर त्रिशततमोऽध्यायः ।। ३०८ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि विनायकमनुत्तमम् ।। चतुर्मुखेति विख्यातं चण्डी शादुत्तरे स्थितम् ।। १ ।।

किञ्चिदीशानदिग्भागे धनुषां च चतुष्टये ।। तं प्रयत्नाच्च संपूज्य सर्वविघ्नैः प्रमुच्यते ।। २ ।।

गन्धपुष्पादिभिस्तत्र भक्ष्यैर्भोज्यैः समोदकैः ।। चतुर्मुखं चतुर्थ्यां तु संपूज्य सिद्धिभाग्भवेत् ।। ३ ।।

इति श्रीस्कांदे महपुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चतुर्मुखविनायक माहात्म्यवर्णनंनाम नवोत्तरत्रिशततमोऽध्यायः ।। ।। ३०९ ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्माद्वायव्यदिग्भागे धनुषां द्वितये स्थितम् ।। कलंबेश्वरनामानं सर्वपातकनाशनम् ।। ।। १ ।।

तं दृष्ट्वा पूजयित्वा च मुक्तः स्यात्सर्वकिल्बिषैः।।। सोमवारे त्वमावास्या तत्रैव बहुपुण्यदा ।।

विप्राणां भोजनं देयं तत्र पुण्य फलेप्सुभिः ।। २ ।। 

 

177b

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कलंबेश्वरमाहात्म्य वर्णनंनाम दशोत्तरत्रिशततमोऽध्यायः ।। ३१० ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि गोपालस्वामिनं हरिम् ।। चण्डीशा त्पूर्वदिग्भागे धनुषां विंशतौ स्थितम् ।। १ ।।

सर्वपापोपशमनं दारिद्र्यौघविनाशनम्।। तं दृष्ट्वा पूजयित्वा च माघे मासि विशेषतः ।।

पूजा जागरणं कृत्वा तत्र गच्छेत्परं पदम् ।। २ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गोपाल स्वामिहरिमाहात्म्यवर्णनंनामैकादशोत्तरत्रिशततमोऽध्यायः ।। ३११ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्मादुत्तरदिग्भागे धनुषामष्टभिः प्रिये ।। बकुलस्वामिनं सूर्यं तं पश्येद्दुःखनाशनम् ।। १ ।।

रविवारेण सप्तम्यां कुर्याज्जागरणं नरः ।। सर्वान्कामानवाप्नोति सूर्यलोके महीयते ।। ।। २ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये बकुलस्वामिमाहात्म्यवर्णनंनाम द्वाद शोत्तरत्रिशततमोऽध्यायः ।। ३१२ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्माद्वायव्यदिग्भागे धनुःषोडशभिः स्थितः ।। उत्तरार्कश्च नाम्ना वै सद्यः प्रत्ययकारकः ।।

मुच्यते सर्वरोगैस्तु कृत्वा वै निंबसप्तमीम्।। १ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उत्तरार्कमाहात्म्यवर्णनंनाम त्रयोदशोत्तरत्रिशततमोऽध्यायः ।। ३१३ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

अथ देवकुलाग्नेय्यां गव्यूत्या तत्र संस्थितम् ।। समुद्रस्य तटे रम्यमृषितीर्थमनुत्तमम् ।। १ ।।

पाषाणाकृतयस्तत्र ऋषयोऽद्यापि संस्थिताः ।। दृश्यंते मानुषे देवि सर्वपातकनाशनाः ।। २ ।।

तत्र ज्येष्ठे त्वमावास्यां प्राप्यते नाधमैर्न्नरैः ।। पिंडदानं विशेषेण स्नानं श्रद्धासमन्वितैः ।। ३ ।।

ऋषितोयासंगमे तु स्नानं श्राद्धं सुदुर्लभम् ।। गोप्रदानं प्रशंसंति तत्र ते मुनिपुगवाः ।।

भोजनं ब्राह्मणानां तु यथाशक्त्या प्रदापयेत् ।।४।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मूलचंडीशमाहात्म्य ऋषितीर्थसंगममाहात्म्यवर्णनंनाम चतु र्दशोत्तरत्रिशततमोऽध्यायः ।। ३१४ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि मरुदार्यां महाप्रभाम् ।। तस्मात्पश्चिमदिग्भागे क्रोशार्द्धेन व्यवस्थिताम् ।। १ ।।

मरुद्भिः पूजितां देवीं सर्वकामफलप्रदाम् ।। महानवम्यां यत्नेन सप्तम्यां पूजयेन्नरः ।।

गंधपुष्पादिविधिना सर्वकामप्रसिद्धये ।। २ ।।

 

178a

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मरुदार्यादेवीमाहात्म्य वर्णनंनाम पंचदशोत्तरत्रिशततमोऽध्यायः ।। ३१५ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

अथ देवकुलात्पूर्वे पंचगव्यूतिमात्रतः ।। शंबरस्थान मध्ये तु क्षेमादित्येति विश्रुतः ।। १ ।।

तं दृष्ट्वा मानवो देवि भवेत्क्षेमार्थसिद्धिभाक् ।। सप्तम्यां रविवारेण पूजितः सर्वकामदः ।। २ ।।

इति देवकुलस्थाने कथिता तीर्थसंस्थितिः ।। ३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये क्षेमादित्यमाहात्म्यवर्णनंनाम षोडशोत्तरत्रिशततमोऽध्यायः ।। ३१६ ।। 

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि देवीं कंटकशोषिणीम् ।। उत्तरेण देवकुलाद्दक्षिणेनोन्नतात्स्थितात् ।। १ ।।

तस्योत्पत्तिं प्रवक्ष्यामि शृणु ह्येकमनाः प्रिये ।। उन्नताद्द क्षिणे भागेयजंते द्विजसत्तमाः ।। २ ।।

भृगुरत्रिर्मरीचिश्च भरद्वाजोऽथ कश्यपः ।। कण्वो मंकिश्च सावर्णिर्जातूकर्ण्यस्तथैव च ।। ३ ।।

वत्सश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ।। मनुर्यमोंऽगिरा विष्णुः शातातपपराशरौ ।। ४ ।।

शांडिल्यः कौशिकश्चैव गौतमो गार्ग्य एव च ।। दाल्भ्यश्च शौनकश्चैव शाकल्यो गालवस्तथा ।। ५ ।।

जाबालिर्मुद्गलश्चैव ऋष्यशृंगो विभांडकः ।। विश्वामित्रः शतानंदो जह्नुर्विश्वावसुस्तथा ।। ६ ।।

एते चान्ये च मुनयो यजंते विविधैर्मखैः ।। यज्ञवाटं च निर्माय ऋषितोयातटे शुभे ।। ७ ।।

देवगन्धर्वनृत्यैश्च वेणुवीणानिनादितम् ।। वेदध्वनि तघोषेण यज्ञहोमाग्निहोत्रजैः ।। ८ ।।

धूपैः समावृतं सर्वमाज्यगंधिभिरर्चितम् ।। शोभितं मुनिभिर्दिव्यैश्चातुर्वेद्यैर्द्विजोत्तमैः ।। ९ ।।

एवंविधं प्रदेशं तु दृष्ट्वा दैत्या महाबलाः ।। समुद्रमध्यादायाता यज्ञविध्वंसहेतवे ।। 7.1.317.१० ।।

मायाविनो महाकायाः श्यामवर्णा महोदराः ।। लंबभ्रूश्मश्रुनासाग्रा रक्ताक्षा रक्तमूर्धजाः ।। ११ ।।

यज्ञं समागताः सर्वे दैत्याश्चैव वरानने ।। तान्दृष्ट्वा मुनयः सर्वे रौद्ररूपान्भयंकरान् ।। १२ ।।

केचिन्निपतिता भूमौ तथान्ये ऽग्नौ स्रुचीकराः ।। पत्नीशालां समाविष्टा हविर्धानं तथा परे ।। १३ ।।

ऋत्विजस्तु सदोमध्ये स्थिता वाचंयमास्तथा ।। १४ ।।

एवं देवि यदा वृत्तं मुनीनां च महात्मनाम् ।। तदाध्वर्युर्महातेजा धैर्यमालम्ब्य सादरः ।। १५ ।।

अग्निहोत्रं हविष्यं च हविर्विन्यस्य मन्त्रवित् ।। सुसमिद्धं जुहा वाग्निं रक्षसां नाशहेतवे ।। १६ ।।

हुते हविषि देवेशि तत्क्षणादेव चोत्थिता ।। शक्तिः शक्तित्रिशूलाढ्या चर्महस्ता महोज्ज्वला ।। १७ ।।

तया ते निहता दैत्या यज्ञविध्वंसकारिणः ।। ततस्तां विविधैः स्तोत्रैर्मुनयस्तुष्टुवुस्तदा ।। १८ ।।

प्रसन्ना भूयसी देवी तानृषीन्प्रत्युवाच ह ।। वरं वृणुध्वं मुनयो दास्यामि वरमुत्तमम्।। १९ ।।

।। ऋषय ऊचुः ।। ।।

कृतं वै सकलं कार्यं यज्ञा नो रक्षितास्त्वया ।। यदि देयो वरोऽस्माकं त्वया चासुरमर्द्दिनि ।। 7.1.317.२० ।।

 

178b

अस्मिन्स्थाने सदा तिष्ठ मुनीनां हितकाम्यया ।। कंटकाः शोषिता दैत्यास्तेन कंटकशोषिणी ।।

अद्यप्रभृति नामास्तु तेन देवि सदा त्विह ।। २१ ।।

।। ईश्वर उवाच ।। ।।

एवं भविष्यतीत्युक्त्वा सा देव्यन्तर्हिता तदा ।। अष्टम्यां वा नवम्यां वा पूजयिष्यति मा नवः ।। २२ ।।

राक्षसेभ्यः पिशाचेभ्यो भयं तस्य न जायते ।। प्राप्नुयात्परमां सिद्धिं मानवो नात्र संशयः ।। २३ ।।

इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कंटकशोषणीमाहात्म्यवर्णनंनाम सप्तदशोत्तरत्रिशततमोऽध्यायः ।।३१७।। ।।

।। ईश्वर उवाच ।। ।।

तस्याश्च पूर्वदिग्भागे नातिदूरे व्यवस्थितम् ।। लिंगं महाप्रभावं हि सर्वपातकनाशनम् ।। १ ।।

ब्रह्मेश्वरेति नामाढ्यं ब्राह्मणैश्च प्रतिष्ठितम् ।। ऋषितोयाजले स्नात्वा तल्लिंगं यः प्रपूजयेत् ।।

स भवेद्वेदविद्विप्रो जाड्यभावविवर्जितः ।। २ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनामाष्टादशोत्तरत्रिशततमो ऽध्यायः ।। ३१८ ।। 

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि ह्युन्नतस्थानमुत्तमम् ।। तस्यैवोत्तरदिग्भाग ऋषितोयातटे शुभे ।। १ ।।

एतत्स्थानं महादेवि विप्रेभ्यः प्राददां बलात् ।। सर्वसीमासमायुक्तं चंडीगणसुरक्षितम् ।। २ ।।

।। देव्युवाच ।। ।।

कथमुन्नतनामास्य बभूव सुरसत्तम ।। कथं त्वया बलाद्दत्तं कियत्सीमासमन्वितम् ।। ३ ।।

एतत्सर्वं ममाचक्ष्व संक्षेपान्नातिविस्तरात् ।। ४ ।।

।। ईश्वर उवाच ।। ।।

शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।। यां श्रुत्वा मानवो देवि मुच्यते सर्वपातकैः ।। ५ ।।

एतत्सर्वं पुरा प्रोक्तं स्थानसंकेतकारणम् ।। तृतीये ब्रह्मणः कुंडे सृष्टिसंक्षेपसूचके ।। ६ ।।

तथापि ते प्रवक्ष्यामि संक्षेपाच्छुणु पार्वति ।। ७ ।।

उन्नामितं पुनस्तत्र यत्र लिंगं महोदये ।। तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम्।। ८ ।।

अथवा चोन्नतं द्वारं पूर्वं प्राभासिकस्य वै ।। तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम् ।। ९ ।।

विद्यया तपसा चैव यत्रोत्कृष्टा महर्षयः ।। तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम् ।। 7.1.319.१० ।।

यदा देवकुले विप्रा मूलचंडीशसंज्ञकम् ।। प्रसाद्य च महादेवं पुनः प्राप्ता महोदयम् ।। ११ ।।

षष्टिवर्षसहस्राणि तपस्तेपुर्महर्षयः ।। ध्यायमाना महेशानमनादिनिधनं परम् ।। १२ ।।

तेषु वै तप्यमानेषु कोटिसंख्येषु पार्वति ।। ऋषितोयातटे रम्ये पवित्रे पापनाशने ।।

भिक्षुर्भूत्वा गतश्चाहं पुनस्तत्रैव भामिनि ।। १३ ।।

त्रिकालं दर्शिभिस्तत्र दोषरागविवर्जितैः ।। तपस्विभिस्तदा सर्वैर्लक्षितोऽहं वरानने ।। १४ ।।

दृष्टमात्रस्तदा विप्रैर्विरराम महेश्वरः ।। क्व यासि विदितो देव इत्युक्त्वानुययुर्द्विजाः ।। १५ ।।

यावदायांति मुनय ईशेशेति प्रभाषकाः ।। धावमानाः स्वतपसा द्योतयन्तो दिशोदश ।। १६ ।।

 

179a

लिंगमेव प्रपश्यंति न पश्यंति महेश्वरम् ।। १७ ।।

येये च ददृशुर्लिंगं मूलचण्डीशसंज्ञकम् ।। तदा च मुनयः सर्वे सदेहाः स्वर्गमाययुः ।। १८ ।।

यदा त्रिविष्टपं व्याप्तं दृष्टं वै शतयज्वना ।। आयांति च तथैवान्ये मुनयस्तपसोज्वलाः ।। १९ ।।

एतदंतरमासाद्य समागत्य महीतले ।। लिंगमाच्छादयामास वज्रे णैव शतक्रतुः ।। 7.1.319.२० ।।

अष्टादशसहस्राणि मुनीनामूर्ध्वरेतसाम् ।। स्थितानि न तु पश्यंति लिंगमेतदनुत्तमम् ।। २१ ।।

शक्रस्तु सहसा दृष्टो वज्रेणै व समन्वितः ।। यावद्वदंति शापं ते तावन्नष्टः पुरंदरः ।। २२।।

दृष्ट्वा तान्कोपसंयुक्तान्भगवांस्त्रिपुरांतकः ।। उवाच सांत्वयन्देवो वाचा मधुरया मुनीन् ।। २३ ।।

कथं खिन्ना द्विजश्रेष्ठाः सदा शांतिपरायणाः ।। प्रसन्नवदना भूत्वा श्रूयतां वचनं मम ।। २४ ।।

भवद्भिर्ज्ञानसंयुक्तैः स्वर्गः किं मन्यते बहु ।। यत्रैके वसवः प्रोक्ता आदित्याश्च तथा परे ।।२५ ।।

रुद्रसंज्ञास्तथा चैके ह्यश्विनावपि चापरौ ।। एतेषामधिपः कश्चिदेक इन्द्रः प्रकी र्तितः ।। २६ ।।

स्वपुण्यसंख्यया प्राप्ते यस्माद्विभ्रश्यते नरैः ।। एवं दुःखसमायुक्तः स्वर्गो नैवेष्यते बुधैः ।। २७ ।।

एतस्मात्कारणाद्विप्राः कुरुध्वं वचनं मम ।। गृह्णीध्वं नगरं रम्यं निवासाय महाप्रभम् ।। २८ ।।

हूयंतामग्निहोत्राणि देवताः सर्वदा द्विजाः ।। इज्यंतां विविधैर्यागैः क्रियतां पितृपू जनम् ।। २९ ।।

आतिथ्यं क्रियता नित्यं वेदाभ्यासस्तथैव हि ।। 7.1.319.३० ।।

एवं हि कुर्वतां नित्यं विना ज्ञानस्य संचयैः ।। प्रसादान्मम विप्रेन्द्राः प्रांते मुक्तिर्भविष्यति ।। ३१ ।।

।। ऋषय ऊचुः ।। ।।

असमर्थाः परित्राणे जिताहारास्तपोन्विताः ।। नगरेणेह किं कुर्मस्तव भक्तिमभीप्सवः ।। ।। ३२ ।।

।। ईश्वर उवाच ।। ।।

भविष्यति सदा भक्तिर्युष्माकं परमेश्वरे ।। गृह्णीध्वं नगरं रम्यं कुरुध्वं वचनं मम ।। ३३ ।।

इत्युक्त्वा भगवा न्देव ईषन्मीलितलोचनः ।। सस्मार विश्वकर्माणं सर्वशिल्पवतां वरम् ।। ३४ ।।

स्मृतमात्रो विश्वकर्मा प्रांजलिश्चाग्रतः स्थितः ।। आज्ञापयतु मां देवो वचनं करवाणि ते ।। ३५ ।।

।। ईश्वर उवाच ।। ।।

नगरं क्रियतां त्वष्टर्विप्रार्थं सुंदरं शुभम् ।। ३६ ।।

इत्युक्तो विश्वकर्मा स भूमिं वीक्ष्य समंततः ।। उवाच प्रणतो भूत्वा शंकरं लोकशंकरम् ।। ३७ ।।

परीक्षिता मया भूमिर्न युक्तं नगरं त्विह ।। अत्र देवकुलं साक्षाल्लिंगस्य पतनं तथा ।। ३८ ।।

यतिभिश्चात्र वस्तव्यं न युक्तं गृहमेधिनाम् ।। ३९ ।।

त्रिरात्रं पंचरात्रं वा सप्तरात्रं महेश्वर ।। पक्षं मासमृतुं वापि ह्ययनं यावदेव च ।।

पुत्रदारयुतैस्तीर्थे वस्तव्यं गृहमेधिभिः ।। 7.1.319.४० ।।

वसत्यूर्ध्वं तु षण्मासाद्यदा तीर्थे गृहाधिपः ।। अवज्ञा जायते तस्य मनश्चापल्यभावतः ।।

तदा धर्माद्विनश्यंति सकला गृहमेधिनः ।। ४१ ।।

इत्युक्तः स तदा देवस्तेन वै विश्वकर्मणा ।। पुनः प्रोवाच तं तस्य प्रशस्य वचनं शिवः ।। ४२ ।।

रोचते मे न वासोऽत्र विप्राणां गृहमेधिनाम् ।। यत्र चोन्नामितं लिंगमृषितोयातटे शुभे ।।

तत्र निर्मापय त्वष्टर्नगरं शिल्पिनां वर ।। ४३ ।।

 

179b

तस्य तद्वचनं श्रुत्वा विश्वकर्मा त्वरान्वितः ।। गत्वा चकार नगरं शिल्पिकोटिभिरावृतः ।। ४४ ।।

उन्नतं नाम यल्लोके विख्यातं सुरसुन्दरि ।। ततो हृष्ट मना भूत्वा विलोक्य नगरं शिवः ।।

आहूय ब्राह्मणान्सर्वानुवाचानतकन्धरः ।।४५ ।।

इदं स्थानं वरं रम्यं निर्मितं विश्वकर्मणा ।। ग्रामाणां च सहस्रैस्तु प्रोक्तं सर्वासु दिक्षु च।।४६ ।।

नगरात्सर्वतः पुण्यो देशो नग्नहरः स्मृतः ।। अष्टयोजनविस्तीर्ण आयामव्यासतस्तथा ।। ४७ ।।

नग्नो भूत्वा हरो यत्र देशे भ्रांतो यदृच्छया ।। तं नग्नहरमित्याहुर्देशं पुण्यतमं जनाः ।। ४८ ।।

पूर्वे तु शांकरी चाऽऽर्या पश्चिमे न्यंकुमत्यपि ।। उत्तरे कनकनंदा दक्षिणे सागरावधिः ।।

एतदंतरमासाद्य देशो नग्नहरः स्मृतः ।। ४९ ।।

अष्टयोजनमानेन आयामव्यासतस्तथा ।। प्रोक्तोऽयं सकलो देश उन्नतेन समं मया ।। 7.1.319.५० ।।

गृह्यतां नगरश्रेष्ठं प्रसीदध्वं द्विजोत्तमाः ।। अत्र भक्तिश्च मुक्तिश्च भविष्यति न संशयः ।। ५१ ।।

इत्युक्तास्ते तदा सर्वे विप्रा ऊचुर्महेश्वरम् ।। ५२ ।।

।। विप्रा ऊचुः ।। ।।

ईश्वराज्ञा वृथा कर्तुं न शक्या परमात्मनः ।।तपोऽग्निहोत्रनिष्ठानां वेदाध्ययनशालिनाम् ।।५३।।

अस्माकं रक्षिता कोऽस्ति कलिकाले च दारुणे ।। को दाताऽऽरोग्यदः कश्च को वै मुक्तिं प्रदास्यति ।। ५४ ।।

।। ईश्वर उवाच ।। ।।

महाकाल स्वरूपेण स्थित्वा तीर्थे महोदये ।। नाशयिष्यामि शत्रून्वः सम्यगाराधितो ह्यहम् ।। ५५ ।।

उन्नतो विघ्नराजस्तु विघ्नच्छेत्ता भविष्यति ।। गण नाथस्वरूपोऽयं धनदो निधीनां पतिः ।। ५६ ।।

युष्मभ्यं दास्यति द्रव्यं सम्यगाराधितोऽपि सः ।। आरोग्यदायको नित्यं दुर्गादित्यो भवि ष्यति ।। ५७ ।।

महोदयं महानन्ददायकं वो भविष्यति ।। सम्यगाराधितो ब्रह्मा सर्वकार्येषु सर्वदा ।।

सर्वान्कामांश्च मुक्तिं च युष्मभ्यं संप्रदास्यति ।। ५८ ।।

।। विप्रा ऊचुः ।। ।।

यदि तीर्थानि तिष्ठंति सर्वाणि सुरसत्तम ।। संगालेश्वरतीर्थे च तथा देवकुले शिवे ।। ।। ५९ ।।

कलावपि महारौद्रे ह्यस्माकं पावनाय वै ।। स्थातव्यं तर्हि गृह्णीमो नान्यथा च महेश्वर ।। 7.1.319.६० ।।

स तथेति प्रतिज्ञाय ददौ तेभ्यः पुरं वरम् ।। सप्तभौमैः शशांकाभैः प्रासादैः परिभूषितम् ।।

नानाग्रामसमायुक्तं सर्वतः सीमयान्वितम् ।। ६१ ।।

।। सूत उवाच ।। ।।

एवं तेभ्यो हि नगरं दत्त्वा देवो महेश्वरः ।। ददर्श विश्वकर्माणं प्राञ्जलिं पुरतः स्थितम् ।। ६२ ।।

।। विश्वकर्मोवाच ।। ।।

विलोक्यतां महादेव नगरं नगरोपमम् ।। सौवर्णस्थलमारुह्य निर्मितं त्वत्प्रसादतः ।। ६३ ।।

विश्वकर्मवचः श्रुत्वा भगवांस्त्रिपुरान्तकः ।। समारुरोह स्थलकं सह सर्वैर्मह र्षिभिः ।। ६४ ।।

नगरं विलोकयामास रम्यं प्राकारमडितम् ।। ऋषयस्तुष्टुवुः सर्वे तत्रस्थं त्रिपुरान्तकम् ।।

तानुवाच महादेवो वृणुध्वं वरमुत्त मम्।। ६५ ।।

।। ऋषय ऊचुः ।। ।।

यदि तुष्टो महादेव स्थलकेश्वरनामभृत् ।। अवलोकयंश्च नगरं सदा तिष्ठ स्थले हर ।। ६६ ।।

 

180a

इत्युक्तस्तैस्तदा देवः स्थलकेऽस्मिन्सदा स्थितः ।। कृते रत्नमयं देवि त्रेतायां च हिरण्मयम् ।। ६७ ।।

रौप्यं च द्वापरे प्रोक्तं स्थलमश्ममयं कलौ ।। एवं तत्र स्थितो देवः स्थलकेश्वरनामतः ।। ६८ ।।

सदा पूज्यो महादेव उन्नतस्थानवासिभिः ।। माघे मासि चतुर्दश्यां विशेषस्तत्र जागरे ।। ६९ ।।

इत्येत त्कथितं देवि ह्युन्नतस्य महोद्यम् ।।श्रुतं पापहरं नृणां सर्वकामफलप्रदम् ।। 7.1.319.७० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थानमाहात्म्यवर्णनंनामैकोनविंशत्युत्तरत्रिशततमोऽध्यायः ।। ३१९ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्माच्च पूर्वदिग्भागे किञ्चिदाग्नेयसंस्थितम् ।। लिंगद्वयं महापुण्यं विश्वकर्मप्रतिष्ठितम् ।। १ ।।

यदा वै नगरं कर्तुं त्वष्टा तत्र समा गतः ।। प्रतिष्ठाप्य महादेवं नगरं कृतवांस्ततः ।। २ ।।

कृत्वा च नगरं रम्यं लिंगस्यास्य प्रभावतः ।। पुनः प्रतिष्ठितं र्लिगं तेन वै विश्वकर्मणा ।। ३ ।।

कर्मादौ कर्मणश्चान्ते यात्रोद्वाहगृहादिके ।। लिंगद्वयं पूजयित्वा सिद्धिमाप्नोति तत्क्षणात् ।। ४ ।।

तस्मात्सर्वप्रयत्नेन गंधामृतरसोदकैः ।। नैवेद्यै विविधैर्देवि लिंगयुग्मं प्रपूजयेत् ।। ५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थानमाहात्म्ये लिंगद्वयमाहात्म्यवर्णनंनाम विंशोत्तरत्रिशततमोऽध्यायः ।। ३२० ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

अथ ते कीर्तयिष्यामि रहस्यं स्थानमुत्तमम् ।। सर्वपापहरं नृणामुन्नतस्थानवासिनाम् ।। १ ।।

श्रेष्ठदेवस्य माहात्म्यं ब्रह्मणोऽव्यक्तजन्मनः ।। उन्नतस्थानसंस्थ स्य देवस्य बालरूपिणः ।।

यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ।। २ ।।

।। देव्युवाच ।।

बालरूपीति यत्प्रोक्तमुन्नतं तत्कथं वद ।। स्थानेष्व न्येषु सर्वत्र वृद्धरूपी पितामहः ।। ३ ।।

कस्मिन्स्थाने स्थितस्तत्र किमर्थं तत्र वा गतः ।। कथं स पूज्यो विप्रेन्द्रैस्तिथौ कस्यां क्रमाद्वद ।। ४ ।। ।।

।। ईश्वर उवाच ।। ।।

ऋषितोयापश्चिमे तु ऐशान्यां स्थलकेश्वरात् ।। ब्रह्मणः परमं स्थानं ब्रह्मलोक इवापरः ।। ५ ।।

ब्रह्मा विष्णुश्च रुद्रश्च पूज्याः प्राभासिके सदा ।। ब्रह्मभागे स्थितो ब्रह्मा ऋषितोयातटे शुभे ।। ६ ।।

रुद्रभागेऽग्नितीर्थे च पूज्यो रुद्रः सनातनः ।। गिरौ रैवतके रम्ये पूज्यो दामोदरो हरिः ।। ७ ।।

सोमेन प्रार्थितो देवो बालरूपी पितामहः ।। आगतश्चाष्टवर्षस्तु ह्युन्नते स्थान उत्तमे ।। ८ ।।

दृष्ट्वा ब्रह्मा द्विजा ञ्छ्रेष्ठांस्तत्र स्थाने स्थितो विभुः ।। ९ ।।

नास्ति ब्रह्मसमो देवो नास्ति ब्रह्मसमो गुरुः ।। नास्ति ब्रह्मसमं ज्ञानं नास्ति ब्रह्मसमं तपः ।। 7.1.321.१० ।।

तावद्भ्रमंति संसारे दुःखशोकभयाप्लुताः ।। न भवंति सुरज्येष्ठे यावद्भक्ताः पितामहे ।। ११ ।।

समासक्तं यथा चित्तं जंतोर्विषयगोचरे ।। यद्येवं ब्रह्म णि न्यस्तं को न मुच्येत बंधनात् ।। १२ ।।

परमायुः स्मृतो ब्रह्मा परार्धं तस्य वै गतम् ।। उन्नतस्थानसंस्थस्य द्वितीयं भविताऽधुना ।। १३ ।।।

 

180b

यदासावुन्नते स्थाने ब्रह्मलोकात्पितामहः ।। आगतश्चाष्टवर्षस्तु बालरूपी तदोच्यते ।। १४ ।।

स्थानेष्वन्येषु विप्राणां वृद्धरूपी पितामहः ।। युक्तं तदुन्नतस्थानं सदा च ब्रह्मणः प्रियम् ।। १५ ।।

स्नात्वा च विधिवत्पूर्वं ब्रह्मकुंडे नरोत्तम ।। पूजयेत्पुष्पधूपाद्यैर्ब्रह्माणं बालरूपिणम् ।। १६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थाने ब्रह्ममाहात्म्यवर्णनंनामैकविंशत्युत्तर त्रिशततमोध्यायः ।। ३२१ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि तस्य दक्षिणसंस्थितम् ।। दुर्गादित्येतिनामानं सर्वपाप प्रणाशनम् ।। १ ।।

यदा दुःखमनुप्राप्ता दुर्गा दुःखविनाशिनी ।। सूर्यमाराधयामास तदा दुःखविनुत्तये ।। २ ।।

ततः कालेन बहुना तस्यास्तुष्टो दिवाकरः ।। उवाच मधुरं वाक्यं दुर्गां देवो महाप्रभाम् ।।

वरं वरय देवेशि तपसा तुष्टवानहम् ।। ३ ।।

।। दुर्गोवाच ।। ।।

यदि तुष्टो दिवानाथ दुःखसंघं विनाशय ।। ४ ।।

।। सूर्य उवाच ।। ।।

अचिरेणैव कालेन भगवांस्त्रिपुरांतकः ।। संप्राप्स्यत्युत्तमं लिंगमुन्नते स्थान उत्तमे ।। ५ ।।

दुर्गादित्येति मे नाम इह देवि भविष्यति ।। एवमुक्त्वा महादेवि तत्रैवान्तर्दधे रविः ।।

सप्तम्यां रविवारेण दुर्गादित्यं प्रपूजयेत् ।। ६ ।।

तस्य दुःखानि सर्वाणि कुष्ठानि विविधानि च ।। विलयं यांति देवेशि दुर्गादित्यप्रपूजनात् ।। ७ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसा हरुयां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुर्गादित्यमाहात्म्यवर्णनंनाम द्वाविंशत्युत्तरत्रिशततमोऽध्यायः ।। ३२२ ।। छ ।। ।।

।। ईश्वर उवाच ।। ।।

ततः पश्येन्महादेवि तस्य दक्षिणतः स्थितम् ।। क्षेमेश्वरेति विख्यातमृषितोयातटे स्थितम् ।। १ ।।

भूतीश्वरेतिना मास्य पूर्वं च परिकीर्तितम् ।। क्षेमेशेति कलौ देवि तस्य नाम प्रकीर्तितम् ।।२।।

तं दृष्ट्वा पूजयित्वा च मुक्तः स्यात्सर्वकिल्बिषैः ।।३।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेमेश्वरमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तरत्रिशततमोऽध्या यः ।। ३२३ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्मादुत्तरदिग्भागे किंचिद्वायव्यमाश्रितम् ।। विनायकं प्रपश्येच्च सर्वसिद्धिप्रदायकम् ।। १ ।।

योऽसौ देवि मया ख्यातः सखा मे धनदः पुरा ।। गणनाथस्वरूपेण निधीनां परिपालकः ।।

लोकानां सिद्धिदानार्थमस्मिन्स्थाने स्थितः प्रिये ।। २ ।।

चतुर्थ्यां भौमवारेण भक्ष्यभोज्यः समोदकैः ।। पूजयेद्विधिवद्देवि तस्य सिद्धिर्भवेद्ध्रुवम् ।। ३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां  सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गणनाथमाहात्म्यवर्णनंनाम चतुर्विंशत्युत्तरत्रिशततमोऽध्यायः ।। ३२४ ।। ।। छ ।। ।। ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि विनायकमनुत्तमम् ।। ऋषितोयातटे रम्ये सर्वविघ्ननिवारणम् ।। १ ।।

 

181a

योऽसौ देवगणाध्यक्षः साक्षाच्च त्रिपुरान्तकः ।। गजरूपं समाश्रित्य द्युन्नते जगति स्थितः ।।

प्राभासिके महाक्षेत्रे गणानां कोटिभिर्वृतः ।। २ ।।

तस्मात्सर्वप्रयत्नेन यात्रा निर्विघ्नहेतवे ।। आराध्यो गणनाथश्च पुष्पधूपादिभिः सदा ।। ३ ।।

चतुर्थ्यां च चतुर्थ्यां च सर्वैर्नगरवासिभिः ।। तस्मिन्महोत्सवः कार्यो राष्ट्रक्षेमार्थ सिद्धये ।। ४ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्वामिमाहात्म्यवर्णनं नाम पंचविंशत्युत्तरत्रिशततमोऽध्यायः ।। ३२५ ।। 

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि तस्यैवोत्तरतः स्थितम् ।। महाकालेश्वरं देवं सर्वरक्षाकरं परम् ।। १ ।।

अधिष्ठाता पुरस्यास्य भैरवो रुद्ररूपधृक् ।। दर्शे च पूर्णिमायां च महापूजां प्रकारयेत् ।। २ ।।

महोदये नरः स्नात्वा महाकालं प्रपश्यति ।। धनाढ्यो जायते लोके सप्तजन्मसहस्रकम् ।। ३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये महाकालमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरत्रिशततमोऽध्यायः ।। ३२६ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो महोदयं गच्छेत्तस्मादीशानसंस्थितम् ।। १ ।।

विधिना तत्र यः स्नाति तर्पयेत्पितृदेवताः ।। प्रतिग्रहकृताद्दोषान्न भयं तस्य विद्यते ।। २ ।।

महोदयं महानन्ददायकं च द्विजन्मनाम् ।। प्रतिग्रहप्रसक्तानां विषयासक्तचेतसाम् ।।

तेषामपि ददेन्मुक्तिं तेन ख्यातं महोदयम् ।। ३ ।।

तस्य वै रक्षणार्थाय महाकालस्य चोत्तरे ।। नियुक्ताश्च महादेवि मातरस्तत्र संस्थिताः ।।

तस्मिन्स्नात्वा नरः पूर्वं मातॄस्ताश्च प्रपूजयेत् ।। ४ ।।

एवं देवि मया ख्यातं महोदयमहोदयम् ।। सर्वपापहरं नृणामभिषेकाच्च मुक्तिदम् ।। ५ ।।

अर्धक्रोशे च तत्तीर्थं समंतात्परिमंडलम् ।। एतन्मध्यं महासारं सदैव मुनिवल्ल भम् ।। ६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये महोदयमाहात्म्यवर्णनंनाम सप्त विंशत्युत्तरत्रिशततमोऽध्यायः ।। ३२७ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्माद्वायव्यदिग्भागे स्थितं पापप्रणाशनम् ।। संगमेश्वरनामाढ्य मृषयो यत्र संगताः ।। १ ।।

तस्यैव पूर्वदिग्भागेकुण्डिका पापनाशिनी ।। वडवानलसंयुक्ता यत्रायाता सरस्वती ।। २ ।।

कुंडिकायां नरः स्नात्वा संगमेश्वरमर्चयेत् ।। तस्य जन्मसहस्राणि लक्ष्म्याः पुत्रै प्रियैः सह ।।

असंगमं महादेवि न कदाचित्प्रजायते ।। ३ ।।

मुच्यते पातकैः सर्वैराजन्म मरणांतिकैः ।।४।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनं नामाष्टाविंशत्युत्तरत्रिशततमोऽध्यायः ।। ३२८।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

अथोत्तरे देवकुलात्तत्र गव्यूतिमात्रतः ।। उत्तमस्थानमिति च प्रख्यातं धरणीतले ।। १ ।।

तस्योत्तरे तु दिग्भागे धनुर्द्वादशकांतरे ।। उन्नतो विघ्नराजस्तु सर्वप्रत्यूहनाशनः ।। २ ।।

 

181b

चतुर्थ्यां पूजितः सम्यक्सुगंधैः फलमोदकैः ।। ददाति वांछितान्कामांस्त्रैलोक्ये विजयी भवेत् ।।३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतविनायकमाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरत्रिशततमोऽध्यायः ।। ३२९ ।।

।।  ईश्वर उवाच ।। ।। 

तस्मात्तदुन्नतस्थानादुत्तरे योजनत्रयात् ।। तत्र तप्तोदकस्वामी तलो यत्र हतः पुरा ।। १ ।।

दैत्यानामधिपो देवि विष्णुना प्रभविष्णुना ।। कृत्वा वर्षशतं युद्धं तलस्वामी ततोऽभवत् ।। २ ।।

तप्तकुण्डे नरः स्नात्वा तलस्वामिनमर्चयेत् ।। हृत्वा पिंडप्रदानं तु कोटियात्राफलं लभेत् ।। ३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये तलस्वामिमाहात्म्यवर्णनंनाम त्रिंशदुत्तरत्रिश ततमोऽध्यायः ।। ३३० ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि कालमेघेति विश्रुतम् ।। तस्मात्तं पूर्वदिग्भागे क्षेत्रपं लिंगरूपिणम् ।। १ ।।

अष्टम्यां वा चतुर्द्दश्यां पूज्योऽसौ बलिभिर्नरैः ।। वांछितार्थप्रदः सम्यक्स कलौ कल्पपादपः ।। २ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कालमेघमाहात्म्यवर्णनंनामैकत्रिंशदुत्तरत्रिशततमोऽध्यायः ।। ३३१ ।। ।।

।। ईश्वर उवाच ।। ।।

तस्माद्दक्षिणदिग्भागे धनुषां पंचभिः प्रिये ।। तत्र तप्तोदकुंडानि संत्यद्यापि वरानने ।। १ ।।

कुण्डतः पूर्वदिग्भागे धनुषां पञ्चविंशतौ ।। रुक्मिणी संस्थिता देवी सर्वपातकनाशिनी ।। २।।

स्नात्वा तप्तोदके कुण्डे कोटिहत्याविनाशने।। ततः संपूजयेद्देवीं रुक्मिणीं रुक्मदायिनीम् ।।

सप्त जन्मानि नारीणां गृहभंगो न जायते ।। ३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे  प्रथमे प्रभासक्षेत्रमाहात्म्ये रुक्मिणीमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरत्रिशततमोऽध्याय ।। ३३२ ।।

।। ईश्वर उवाच ।। ।।

बलभद्राच्च पूर्वेण स्थिता चासीत्सरिद्वरा ।। दुर्वासेश्वरनामेति बललिंगं प्रतिष्ठितम् ।। १ ।।

सर्वपापप्रशमनं दृष्टं सर्वसुखावहम्।। स्नात्वा चास्य त्वमावास्यां पिंडदानं ददाति यः ।। २ ।।

कल्पकोटिशतं साग्रं पितॄणां तृप्तिमावहेत् ।। दुर्वासेश्वरनामानं तत्र पूज्य विधानतः ।। ३ ।।

कोटियज्ञफलं प्राप्य सर्वान्कामा नवाप्नुयात्।। तत्र लिंगान्यनेकानि ऋषिभिः स्थापितानि तु ।। ४ ।।

दृष्ट्वा स्पृष्ट्वा पूजयित्वा मुक्तः स्यात्सर्वकिल्बिषैः ।। इत्येतत्कथितं देवि क्षेत्राद्यं तं यथाक्रमम् ।। ५ ।।

भद्रायाः पश्चिमात्पूर्वं यथानुक्रममादितः ।। श्रुतं पापोपशमनं कोटियज्ञफलप्रदम् ।। ६ ।।

अथ क्षेत्रस्य परिधिस्थानं मधुमतीति च ।। तस्मान्नैर्ऋत्यदिग्भागे स्थानं खंडघटेति च ।। ७ ।।

तत्र पिंगेश्वरो देवः समुद्रतटसन्निधौ ।। कूपानां सप्तकं तत्र  पितॄणां यत्र पाणयः ।।

 

182a

दृश्यंतेऽद्यापि देवेशि यत्र पर्वणिपर्वणि ।। ८ ।।

तत्र श्राद्धं नरः कृत्वा गयाकोटिगुणं फलम् ।। लभते नाऽत्र सन्देहः सोमामा यदि जायते ।। ९ ।।

तत्रैव नातिदूरे तु भद्रायाः संगमः स्मृतः ।। पश्चिमात्संगमात्पूर्वः संगमः समुदाहृतः ।। 7.1.333.१० ।।

यत्पुण्यं लभते देवि पूर्व पश्चिमसंगमे ।। गंगासागरयोस्तत्र तद्भद्रासंगमे लभेत् ।। ११ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तप्तोदकस्वामिमाहात्म्ये मधुमत्यां पिंगेश्वरभद्रामाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरत्रिशततमोऽध्यायः ।। ३३३ ।। ।।

।। ईश्वर उवाच ।। ।।

भगवन्देवदेवेश संसारार्णवतारक ।। पृच्छामि त्वामहं भक्त्या किञ्चित्कौतूहलात्पुनः ।। १ ।।

यत्त्वया कथितं देव तलस्वामिमहोदयम् ।। किं तत्र कारणं देव तलो येन निपातितः ।। २ ।।

कोऽसौ तलः समाख्यातः किंवीर्यः किंपरायणः ।। कस्मात्स्थानात्समु त्पन्नः कथं जातश्च मे वद ।। ३ ।।

।। ईश्वर उवाच ।। ।।

शृणु देवि प्रवक्ष्यामि रहस्यं पापनाशनम् ।। यन्न कस्यचिदाख्यातं तत्ते वक्ष्याम्य शेषतः ।। ४ ।।

देवा अपि न जानंति तलसोत्पत्तिकारणम् ।। पूर्वं कृतयुगे देवि गोविन्देति प्रकीर्तितः ।। ५ ।।

त्रेतायां वामनः स्वामी स्तुतिस्वामी तृतीयके ।। कलौ युगे महादेवि तलस्वामी प्रकीर्तितः ।। ६ ।।

तथा तप्तोदकस्वामी तस्य नामांतरं प्रिये ।। अधुना संप्रवक्ष्यामि तलोत्पत्तिं तव प्रिये ।। ७ ।।

आसीन्महेन्द्रनामा च दानवो रौद्ररूपधृक् ।। कोटिवर्षाणि तेनैव तपस्तप्तं पुरा प्रिये ।। ८ ।।

स तपोबलमाविष्टो जिग्ये देवान्सवासवान् ।। जित्वा देवांस्ततः सर्वांस्ततः काले समागतः ।। ९ ।।

युद्धं स प्रार्थयामास मया सार्द्धं सुभीषणम् ।। ततोऽभवन्महायुद्धं ब्रह्माण्डक्षयकारकम् ।। 7.1.334.१० ।।

ततः कोपान्महायुद्धे मम देहाद्वरानने ।। ज्वाला तत्र समुत्पन्ना तन्मध्ये स तलोऽभवत् ।। ११ ।।

तेन दृष्टो महेन्द्रोऽसौ गर्जन्गिरिगुहाश्रयः ।। १२ ।।

कथं गर्जसि हे मूढ युद्धं कुरु मया सह ।। इत्युक्ते तत्र देवेशि तेन युद्धमवर्तत ।। १३ ।।

तत्र प्रवर्त्तिते युद्धे तलमाहेन्द्रयोस्तयोः ।। १४ ।।

रुद्रवीर्यस्य युक्तेन तलेनोदारकर्मणा ।। मल्लयुद्धेन बलिना महेन्द्रो विनिपातितः ।। १५ ।।

ततस्तं पतितं दृष्ट्वा विस्मयं स तलो गतः ।। गतप्राणं तदा ज्ञात्वा हर्षान्नृत्यमथाकरोत् ।। १६ ।।

तस्मिन्संनृत्यमाने तु सर्वे स्थावरजंगमम् ।। चकंपे तु  वरारोहे प्रभावात्तस्य वीर्यतः ।। १७ ।।

ततो भारभराकान्ता धरणी तलपीडिता ।। अतीवभयसंत्रस्ताः सदेवासुरमानुषाः ।। १८ ।।

क्षुभिता गिरयः सर्वे विद्रुताश्च महार्णवाः।।तरवो निधनं जग्मुर्नद्यो वाहांश्च तत्यजुः।।१९।।

गतप्रभावाः सूर्याद्या ज्योतींषि न विरेजिरे।। त्रैलोक्यं व्याकुलीभूतं तलनृत्यप्रभावतः ।। 7.1.334.२० ।।

 

182b

ततो देवगणाः सर्वे शरणं रुद्रमाययुः ।। वृत्तं यथावत्कथितं ततो रुद्र उवाच तान् ।।२१।।

अवध्यो मे तलो देवाः पुत्रत्वे हि प्रतिष्ठितः ।। एवमुक्त्वा हृषीकेशं प्रभासक्षेत्रवासिनम् ।। २२ ।।

स्तुतिस्वामीतिनामानं स्थितं दुर्वाससः पुरः ।। प्रभासक्षेत्रसामीप्ये पूर्वभागे प्रतिष्ठितम् ।। २३ ।।

तप्तोदकुंडसामीप्ये तत्र गच्छत भोः सुराः ।। कल्पेकल्पे तु तेनैव विध्यतेऽसौ हि दानवः ।। २४ ।।

एवमुक्ते तदा देवाः प्रभासं क्षेत्रमागताः ।। तत्र ते विबुधा जग्मुर्यत्र तप्तोदकाधिपः ।। २५ ।।

दृष्ट्वा नारायणं तत्र देवाः श्रद्धासमन्विताः ।। तुष्टुवुः परया भक्त्या देव देवं जनार्द्दनम्।। २६ ।।

वैकुंठ त्राहि नो देवांस्तलेनोच्चाटिता वयम् ।। महेन्द्रक्रोधसंभूतरुद्रतेजोद्भवेन वै ।। २७ ।।

अस्माभी रुद्रसामीप्ये कार्यं सर्वं निवेदितम्  ।। ततः प्रस्थापिताः सर्वे रुद्रेण परमेष्ठिना ।।

तव पार्श्वे महादेव नस्त्वं देव गतिर्भव ।। २८ ।।

इति श्रुत्वा वचस्तेषां देवदेवो जनार्द्दनः ।। दानवस्यवधार्थाय देवानां रक्षणाय च ।।

चक्रे यत्नं महाबाहुः प्रभासक्षेत्रवल्लभः ।। २९ ।।

समाहूय तदा दैत्यं प्रभासक्षेत्रमध्यतः ।। युद्धं चक्रे ततो देवि विश्वप्रलयकारकम् ।।7.1.334.३० ।।

ततस्तु देवाः सर्वे च स्वसैन्यपरिवारिताः ।। चक्रुर्युद्धं च दैत्येन सुमहल्लोमहर्षणम् ।। ३१ ।।

ततः पर्वतसंकाशं दृष्ट्वा दैत्यं महाबलम् ।। उवाच चपलापांगो गरुडकृतवाहनः ।। ३२ ।।

अहो दैत्य महाबाहो मल्लयुद्धं ददस्व मे ।। त्वद्बाहुयुगलं दृष्ट्वा न युद्धे वांछितं मम ।। ३३ ।।

नारायणवचः श्रुत्वा करमुद्यम्य दानवः ।। अभ्यधावत्तदा दैत्यः कालान्तकसमप्रभः ।। ३४ ।।

ततः प्रवर्तितं युद्धमन्योन्यं जयकांक्षिणोः ।। जंघाभ्यां पादबन्धेन बाहुभ्यां बाहुबंधनम् ।। ३५ ।।

कंठेन बन्धयन्कंठमुदरेणोदरं तथा ।। एतस्मि न्नन्तरे देवाः सभयाः संबभूविरे ।। ३६ ।।

ततः पीडासमाक्रांतो विष्णुः संस्मरते हरम् ।। तत्क्षणादागतो रुद्रः किं करोमि महाबलः ।। ३७ ।। ।।

।। विष्णुरुवाच ।। ।।

श्रांतोऽहं देवदेवेश मल्लयुद्धेन शंकर ।। तप्तोदकं कुरुष्वेह श्रमनाशाय सांप्रतम् ।। ३८ ।।

ततस्तलं हनिष्यामि क्षण मात्रेण भैरवम् ।। ३९ ।।

।। ईश्वर उवाच ।। ।।

आदौ कृतयुगे कृष्ण उमया यत्कृतं पुरा ।। ऋषीणां श्रमनाशार्थं तप्तोदं तत्र निर्मितम् ।। 7.1.334.४० ।।

तद्दैत्यपापमाहात्म्यात्पुनः शीतलतां गतम् ।। पुनस्तदुष्णतां नीतं ततः कल्पांतसंस्थितौ ।। ४१ ।।

एवमुक्त्वा तदा देवं वीक्षांचक्रे महेश्वरः ।। तृतीय लोचनेनैव ज्वालामालोपशोभिना ।। ४२ ।।

तेन ज्वालासमूहेन व्याप्तं कुण्डं चतुर्दिशम् ।। तप्तोदकुण्डमभवत्तेन ख्यातं धरातले ।। ४३ ।।

ततो नारायणेनेह क्षालितं गात्रसुत्तमम्।। क्षालनात्तस्य देवस्य श्रमो नाशमुपागमत् ।। ४४ ।।

ततस्तुष्टमना देवस्तीर्थानां दशकोटिकाः ।। स स्मृत्वा तत्र विधिवत्क्षिप्त्वा स्नात्वा वरानने ।। ४५ ।।

 

183a

ततश्चक्रे महायुद्धं तलेनातिभयंकरम् ।। जघान स तलं दैत्यं मुष्टिघातेन मस्तके ।। ४६ ।।

तस्मिन्प्रवृत्ते तुमुले तु युद्धे चकंपिरे भूभिसमेतलोकाः ।।

वित्रस्तदेवा न दिशो विरेजुर्महांधकारावृतमूर्छितं जगत् ।। ४७ ।।

नष्टाश्च सिद्धा जगतोऽस्य शांतिं करोतु वै पापविनाशनो हरिः ।।

त्राहीति देवेशि महर्षिसंघा भूतानि भीतानि तथा वदन्ति ।।४८।।

ततो वै मल्लयुद्धेन पातितो भुवि दानवः।। कंठमाक्रम्य पादेन खङ्गेन परिपीडितः ।। ४९ ।।

हास्यं चकार दैत्योऽथ विष्णुनाऽऽक्रांतकंधरः ।। तमाह पुण्डरीकाक्ष किमेतद्धास्यकारणम् ।।7.1.334.५०।।

वृद्धौ हर्षमवाप्नोति क्षये भवति दुःखितः ।। इत्येषा लौकिकी गाथा तत्ते दैत्य विपर्ययः ।।५१।।

इत्युक्तस्तु तदा दैत्यः प्रत्युवाच जनार्द्दनम् ।। अग्नि ष्टोमादिभिर्यज्ञैवेदाभ्यासैरनेकधा ।। ५२ ।।

नित्योपवासनियमैः स्नानदानैर्जपादिभिः ।। निर्मलैर्योगयुक्तैश्च प्राप्यते यत्परं पदम् ।। ५३ ।।

तन्मया दुष्टभावेन प्राप्तं विष्णोः परं पदम् ।। इत्युक्ते भगवान्विष्णुर्वरदानपरोऽभवत् ।। ५४ ।।

उवाच परमं वाक्यं तलं दैत्याधिनायकम् ।। वरं वरय दैत्येंद्र यत्ते मनसि संस्थितम् ।। ५५ ।।

इति विष्णोर्वचः श्रुत्वा प्रार्थयामास दानवः ।। ममाख्या वर्त्तते लोके तथा कुरु महीधर ।। ५६ ।।

मार्गमासे तु शुक्लायामेकादश्यां समाहितः ।। यस्त्वां पश्यति भावेन तस्य पापं विनश्यतु ।। ५७ ।।

एवं भविष्यतीत्युक्त्वा देवो हर्षमुपागतः ।। नानादुंदुभयो नेदुः पुष्पवर्षं पपात च ।। ५८ ।।

विष्णोर्मूर्ध्नि महाभागे लोकाः स्वस्था बभूविरे ।। ततो देवगणाः सर्वे नृत्यंति च मुदान्विताः ।।

वदंति हर्षसंयुक्ता नारायणपरायणाः ।। ५९ ।।

एतत्तीर्थं महातीर्थं सर्वपापप्रणाशनम् ।। श्रमापनोदनं विष्णोर्ब्रह्महत्यादिशोधनम् ।।7.1.334.६०।।

स्थितो नारायणस्तत्र भैरव स्तत्र शंकरः ।। क्षेत्रपालस्वरूपेण कालमेघेति विश्रुतः ।। ६१ ।।

तस्य यात्राविधिं वक्ष्ये गत्वा तत्र शुचिर्नरः ।। स्मरेद्विष्णुं महादेवि तलस्वामीति यः श्रुतः ।। ६२ ।।

स्तुयाद्विष्णुं महादेवि इदं विष्णुऋचा प्रिये ।। सहस्रशीर्षामंत्रेण तर्पणादि प्रकारयेत् ।। ६३ ।।

एवं स्नात्वा विधानेन दत्त्वा चार्घ्यं जनार्द्दने ।। संपूज्य गंधपुष्पैश्च वस्त्रैः पुष्पानुलेपनैः ।। ६४ ।।

मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत् ।। कर्पूरोशीरमिश्रेण मृगनाभियुतेन च ।। ६५ ।।

वस्त्रैः संवेष्टयेत्पश्चाद्दद्यान्नैवेद्यमुत्तमम् ।। धर्मश्रवणसंयुक्तं कार्यं जागरणं ततः ।। ६६ ।।

 वृषभस्तत्र दातव्यः सुवर्णं वस्त्रयुग्मकम् ।। । विप्राय वेदयुक्ताय श्रोत्रियाय प्रदापयेत् ।। ६७ ।।

उपवासं ततः कुर्यात्तस्मिन्नहनि भामिनि ।। रुक्मिणीं च प्रपश्येक नमस्कृत्य जनार्द्दनम् ।। ६८ ।।

एवं कृत्वा नरो भक्त्या लभते जन्मजं फलम् ।। सर्वेषामेव यज्ञानां दानानां लभते फलम् ।। ६९ ।।

तथा च सर्वतीर्थानां व्रतानां लभते फलम् ।। उद्धरेत्तु पितुर्वर्गं मातृवर्गं तथैव च ।। 7.1.334.७० ।।

 

183b

जन्मप्रभृतिपापानां कृतानां नाशनं भवेत् ।। न दुःखं च न दारिद्र्यं दुर्भगत्वं न जायते ।। ७१ ।।

सप्त जन्मांतरं यावत्तलस्वामिप्रदर्शनात् ।। सुवर्णानां सहस्रेण ब्राह्मणे वेदपारगे ।।

दत्तेन यत्फलं देवि तत्कुण्डे स्नानतो लभेत् ।। ७२ ।।

एवं तल स्वामिचरित्रमुत्तमं श्रुतं पुरा सिद्धमहर्षिसंघैः ।।

श्रुत्वा प्रभावं तलदेवसन्निधौ प्राप्नोति सर्वं मनसा यदीप्सितम् ।। ७३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तलस्वामिमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरत्रिशततमो ऽध्यायः ।। ३३४ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततः पश्चिमतो गच्छेन्न्यंकुमत्यास्तटे शुभे ।। दक्षिणां दिशमाश्रित्य स्थितं तीर्थं महाप्रभम् ।। १ ।।

शंखावर्त्तमितिख्यातं यत्र चित्रांकिता शिला ।। स्वयंभूता महादेवि रक्तगर्भा सुशोभना ।। २ ।।

छिन्ने त्वद्यापि तत्रैव सुरक्तं संप्रदृश्यते ।। विष्णुक्षेत्रं हि तत्प्रोक्तं शंखो यत्र हतः पुरा ।। ३ ।।

वेदापहारी देवेशि विष्णुना प्रभविष्णुना ।। कृतं शखोदकं तीर्थं शंखाकारं तु दृश्यते ।। ४ ।।

तत्र स्नात्वा नरो देवि मुच्यते ब्रह्महत्यया ।। सप्त जन्मानि विप्रत्वं शूद्रस्यापि प्रजा यते ।। ५ ।।

पूर्वं तत्रैव गत्वा च ततो रुद्रगयां व्रजेत् ।। गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ।। ६ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंखावर्त्ततीर्थमाहात्म्यवर्णनंनाम पञ्चत्रिंशदुत्तरत्रिशत तमोऽध्यायः ।। ३३५ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि गोष्पदं तीर्थमुत्तमम् ।। यत्र श्राद्धं नरः कृत्वा गयासप्तगुणं फलम्।।

लभते नात्र संदेहो यदि श्रद्धा दृढा भवेत् ।। १ ।।

यत्र श्राद्धं पृथुः कृत्वा पितरं पापयोनितः ।। उद्दधार महादेवि वेनंनाम महाप्रभुम् ।। ।। २ ।।

।। देव्युवाच ।। ।।

कस्मिन्स्थाने स्थितं तीर्थमुत्पत्तिस्तस्य कीदृशी ।। कथं स वेनराजो वा उद्धृतः पापयोनितः ।। ३ ।।

गयासप्तगुणं पुण्यं कथं तत्र प्रजायते ।। श्राद्धस्य किं विधानं तु के मंत्रास्तत्र के द्विजाः ।।

एतन्मे कौतुकं देव यथावद्वक्तुमर्हसि ।। ४ ।।

।। ईश्वर उवाच ।। ।।

इदं रहस्यं देवेशि यत्त्वया परिपृच्छितम्।। अप्रकाश्यमिदं तीर्थमस्मिन्पापयुगे प्रिये ।। ५ ।।

तथापि संप्रवक्ष्यामि तव स्नेहात्सुरेश्वरि ।। न पापि न इदं ब्रूयान्नैव तर्करताय वै ।। ६ ।।

न नास्तिकाय देवेशि न सुवर्णेतराय च ।। अस्ति देवि महासिद्धा पुण्या न्यंकुमती नदी ।। ७ ।।

मर्यादार्थं मयाऽऽनीता क्षेत्रस्यास्य महेश्वरि।। संस्थिता पापशमनी पर्णादित्याच्च दक्षिणे।। ८ ।।

नारायणगृहात्सौम्ये नातिदूरे व्यवस्थिता।। तस्या मध्ये महादेवि तीर्थं त्रैलोक्यविश्रुतम् ।। ९ ।।

 

184a

गोष्पदं नाम विख्यातं कोटिपापहरं नृणाम्।। गोष्पदस्य समीपे तु नातिदूरे व्यवस्थितः ।। 7.1.336.१० ।।

अनन्तो नाम नागेन्द्रः स्वयंभूतो धरातले ।। तस्य तीर्थस्य रक्षार्थं विष्णुना सन्नियोजितः ।। ११ ।।

कांक्षंति पितरः पुत्रान्नरकादतिभीरवः ।। गंता यो गोष्पदे पुत्रः स नस्त्राता भविष्यति ।।

गोष्पदे च सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ।। १२ ।।

पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किं न दास्यति ।। अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलांजलिम् ।।

प्रभासक्षेत्रमासाद्य गोष्पदे तीर्थ उत्तमे ।। १३ ।।

अपि स्यात्स कुलेऽस्माकं खड्गमांसेन यः सकृत् ।। श्राद्धं कुर्यात्प्रयत्नेन कालशाकेन वा पुनः ।। १४ ।।

अपि स्यात्स कुलेऽस्माकं गोष्पदे दत्तदीपकः ।। आकल्प कालिका दीप्तिस्तेनाऽस्माकं भविष्यति ।। १५ ।।

गोष्पदे चान्नशता यः पितरस्तेन पुत्रिणः ।। दिनमेकमपि स्थित्वा पुनात्यासप्तमं कुलम् ।। ।। १६ ।।

पिण्डं दद्याच्च पित्रादेरात्मनोऽपि स्वयं नरः ।। पिण्याकेंगुदकेनापि तेन मुच्येद्वरानने ।। १७ ।।

ब्रह्मज्ञानेन किं योगैर्गोग्रहे मरणेन किम् ।। किं कुरुक्षेत्रवासेन गोष्पदे यदि गच्छति ।। १८ ।।

सकृत्तीर्थाभिगमनं सकृत्पिण्डप्रपातनम् ।। दुर्ल्लभं किं पुनर्नित्यमस्मिंस्तीर्थे व्यवस्थितम्।। १९ ।।

अर्द्धकोशं तु तत्तीर्थं तदर्द्धार्द्धं तु दुर्ल्लभम् ।। तन्मध्ये श्राद्धकृत्पुण्यं गयासप्तगुणं लभेत् ।। 7.1.336.२० ।।

श्राद्धकृद्गोष्पदे यस्तु पितॄणामनृणो हि सः ।। पदमध्ये विशेषेण कुलानां शतमुद्धरेत् ।। २१ ।।

गृहाच्चलितमात्रस्य गोष्पदे गमनं प्रति ।। स्वर्गारोहणसोपानं पितॄणां तु पदेपदे ।। २२ ।।

पायसेनैव मधुना सक्तुना पिष्टकेन च ।। चरुणा तंदुलाद्यैर्वा पिंडदानं विधीयते ।। २३ ।।

गोप्रचारे तु यः पिण्डा ञ्छमीपत्रप्रमाणतः ।। कन्दमूलफलाद्यैर्वा दत्त्वा स्वर्गं नयेत्पितॄन् ।। २४ ।।

गोष्पदे पिण्डदानेन यत्फलं लभते नरः ।। न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ।। २५ ।।

अथातः संप्रवक्ष्यामि सम्यग्यात्राविधिं शुभम् ।। यात्राविधानं च तथा सम्यक्छ्रद्धान्विता शृणु ।। ।। २६ ।।

यदि तीर्थं नरो गच्छेद्गयाश्राद्धफलेप्सया ।। तथाविधविधानेन यात्रा कुर्याद्विचक्षणः ।। २७ ।।

ब्रह्मचारी  शुचिर्भूत्वा हस्तपादेषु संयतः ।। श्रद्धावानास्तिको भावी गच्छेत्तीर्थं ततः सुधीः ।। २८ ।।

न नास्तिकस्य संसर्गं तस्मिंस्तीर्थे नरश्चरेत् ।। सर्वोपस्करसंयुक्तः श्राद्धार्ह द्रव्यसंयुतः ।।

गच्छेत्तीर्थं साधुसंगी गयां मनसि मानयन् ।। २९ ।।

एवं यस्तु द्विजो गच्छेत्प्रतिग्रहविवर्जितः ।। पदेपदेऽश्वमेधस्य फलं प्राप्नोत्य संशयम्।। 7.1.336.३० ।।

तत्र स्नात्वा न्यंकुमत्यां सिद्धये पितृमुक्तये ।। स्नात्वाथ तर्प्पणं कुर्याद्देवादीनां यथाविधि ।। ३१ ।।

 

184b

ब्रह्मादिस्तंबपर्यंता देवर्षि मनुमानवाः ।। तृप्यन्तु पितरः सर्वे मातृमातामहादयः ।। ३२ ।।

एवं संतर्प्य विधिना कृत्वा होमादिकं नरः ।। श्राद्धं सपिण्डकं कुर्या त्स्वतंत्रोक्तविधानतः ।। ३३ ।।

आमन्त्र्य ब्राह्मणांस्तत्र शास्त्रजान्दोषवर्जितान् ।। एवं कृतोपचारस्तु इमं मन्त्रमुदीरयेत् ।। ३४ ।।

कव्यवाडनलः सोमो यमश्चैवार्यमा तथा ।। अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ।।

आगच्छन्तु महाभागा युष्माभी रक्षिता स्त्विह ।। ३५ ।।

मदीयाः पितरो ये च कुले जाताः सनाभयः ।। तेषां पिण्डप्रदाताऽहमागतोऽस्मिन्पितामहाः ।। ३६ ।।

एवमुक्त्वा महादेवि इमं मन्त्रमुदीरयेत् ।। ३७ ।।

पिता पितामहश्चैव तथैव प्रपितामहः ।। माता पितामही चैव तथैव प्रपितामही ।। ३८ ।।

मातामहः प्रमाता च तथा वृद्धप्रमातृकः ।। तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।। ३९ ।।

ॐ नमो भानवे भर्त्रेऽब्जभौमसोमरू पिणे ।। एवं नत्वाऽर्चयित्वा तु इमां स्तुतिमथो पठेत् ।। 7.1.336.४० ।।

तत्र गोष्पदसामीप्ये चरुणा सुशृतेन च ।। पितॄणामनाथानां च मंत्रैः पिंडांश्च निर्व पेत् ।। ४१ ।।

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।। रौरवे चांधतामिस्रे कालसूत्रे च ये गताः ।।

तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ।। ।। ४२ ।।

अनेकयातनासंस्थाः प्रेतलोकेषु ये गताः ।। तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ।। ४३ ।।

पशुयोनिगता ये च ये च कीटसरी सृपाः ।। अथवा वृक्षयोनिस्थास्तेभ्यः पिंडं ददाम्यहम् ।।४४।।

असंख्या यातनासंस्था ये नीता यमशासकैः।। तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ।। ४५ ।।

येऽबांधवा बांधवा ये येऽन्यजन्मनि बांधवाः ।। ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा ।। ४६ ।।

ये केचित्प्रेतरूपेण वर्त्तंते पितरो मम ।। ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा ।। ४७ ।।

दिव्यांतरिक्षभूमिस्थपितरो बांधवादयः ।। मृताश्चासंस्कृता ये च तेषां पिंडोस्तु मुक्तये ।। ।। ४८ ।।

पितृवंशे मृता ये च मातृवंशे तथैव च ।। गुरुश्वशुरबंधूनां ये चान्ये बांधवा मृताः ।। ४९ ।।

ये मे कुले लुप्तपिंडाः पुत्रदारविवर्जिताः ।। क्रियालोपगता ये च जात्यंधाः पंगवस्तथा ।। 7.1.336.५० ।।

विरूपा आमगर्भा येऽज्ञाता ज्ञाताः कुले मम ।। तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम्।। ।।५१।।

प्रेतत्वात्पितरो मुक्ता भवंतु मम शाश्वतम् ।।यत्किंचिन्मधुसमिश्रं गोक्षीरं घृतपायसम् ।।५२।।

अक्षय्यमुपतिष्ठेत्त्वत्त्वस्मिंस्तीर्थे तु गोष्पदे।। स्वाध्यायं श्रावयेत्तत्र पुराणान्यखिलान्यपि ।। ५३ ।।

ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च।। ऐंद्राणि सोमसूक्तानि पावमानीश्च शक्तितः ।। ।। ५४ ।।

बृहद्रथंतरं तद्वज्ज्येष्ठसाम सरौरवम्।। तथैव शांतिकाध्यायं मधुब्राह्मणमेव च ।।५५।।

मंडलं ब्राह्मणं तत्र प्रीतकारि च यत्पुनः ।। विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत्।।५६।।

 

185a

एवं न्यंकुमतीमध्ये गोष्पदे तीर्थ उत्तमे ।। दत्त्वा पिंडांश्च विधिवत्पुनर्मंत्रमिमं पठेत् ।। ५७ ।।

साक्षिणः संतु मे देवा ब्रह्माद्या ऋषिपुंगवाः ।। मयेदं तीर्थमासाद्य पितॄणां निष्कृतिः कृता ।।५८।।

आगतोऽस्मि इदं तीर्थं पितृकार्ये सुरोत्तमाः ।। भवंतु साक्षिणः सर्वे मुक्तश्चाहमृणत्रयात्।। ५९ ।।

एवं प्रदक्षिणीकृत्य गोष्पदं तीर्थमुत्तमम् ।। विप्रेभ्यो दक्षिणां दत्त्वा नद्यां पिंडान्विसर्जयेत् ।। 7.1.336.६० ।।

गोदानं तत्र देयं तु तद्वत्कृष्णाजिनं प्रिये ।। अष्टकासु च वृद्धौ च गयायां मृतवासरे ।। ६१ ।।

अत्र मातुः पृथक्छ्राद्धमन्यत्र पतिना सह ।। वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम्।। ६२ ।।

गयावदत्रैव पुनः श्राद्धं कार्यं नरोत्तमैः ।। तस्माद्गुप्तगया प्रोक्ता इयं सा विष्णुना स्वयम् ।। ६३ ।।

गंधदानेन गंधाप्तिः सौभाग्यं पुष्पदानतः ।। धूपदानेन राज्याप्तिर्दीप्तिर्दीपप्रदानतः ।। ६४ ।। ध्वजदानात्पापहानिर्यात्राकृद्ब्रह्मलोकभाक् ।। श्राद्धपिंडप्रदो लोके विष्णुर्ने ष्यति वै पितॄन्।। ६५ ।।

एकं यो भोजयेत्तत्र ब्राह्मणं शंसितव्रतम्।। गोप्रचारे महातीर्थे कोटिर्भवतिभोजिता ।। ६६ ।।

इति संक्षेपतः प्रोक्तस्तत्र श्राद्धविधिस्तव ।। अथ ते कथयिष्यामि इतिहासं पुरातनम् ।। ६७ ।।

वेनस्य राज्ञश्चरितं पृथोश्चैव महात्मनः ।। यथा तत्राभवन्मुक्तिस्तस्य चांडा लयोनितः ।।

तत्सर्वं शृणु देवेशि सम्यक्छ्रद्धासमान्विता ।। ६८ ।।

पिशुनाय न पापाय नाशिष्यायाहिताय च ।। कथनीयमिदं पुण्यं नाव्रताय कथंचन ।। ६९ ।।

स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदेन संमितम् ।। रहस्यमृषिभिः प्रोक्तं शृणुयाद्योऽनसूयकः ।। 7.1.336.७० ।।

यश्चैनं श्रावयेन्मर्त्यः पृथो र्वैन्यस्य संभवम् ।। ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताऽकृते ।।७१।।

गोप्ता धर्मस्य राजाऽसौ बभौ चात्रिसमप्रभः ।।अत्रिवंशसमुत्पन्नो ह्यंगो नाम प्रजापतिः ।। ७२ ।।

तस्य पुत्रोऽभवेद्वेनो नात्यर्थं धार्मिकस्तथा ।।जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः।।७३ ।।

समातामह दोषेण तेन कालात्मकाननः ।। स धर्मं पृष्ठतः कृत्वा पापबुद्धिरजायत ।। ७४ ।।

स्थितिमुत्थापयामास धर्मोपेतां सनातनीम् ।। वेदशास्त्राण्यतिक्रम्य ह्यधर्म निरतोऽभवत् ।। ७५ ।।

निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रशासति ।। डिंडिमं घोषयामास स राजा विषये स्वके ।। ७६ ।।

न दातव्यं न यष्टव्यं मयि राज्यं प्रशासति ।। आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ।। ७७।।

अहमीड्यश्च पूज्यश्च सर्वयज्ञैर्द्विजोत्तमैः ।। मयि यज्ञा विधात व्या मयि होतव्यमित्यपि ।।७८।।

तमतिक्रांतमर्यादं प्रजापीडनतत्परम् ।। ऊचुर्महर्षयः क्रुद्धा मरीचिप्रमुखास्तदा ।।७९।।

 

185b

माऽधर्मं वेन कार्षीस्त्वं नैष धर्मः सनातनः ।। अत्रेर्वंशे प्रसूतोऽसि प्रजापतिरसंशयम् ।। 7.1.336.८० ।।

पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः ।। तांस्तथावादिनः सर्वान्ब्रह्मर्षीन ब्रवीत्तदा ।। ८१ ।।

वेनः प्रहस्य दुर्बुद्धिरिदं वचनकोविदः ।। स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ।। ८२ ।।

वीर्यश्रुततपःसत्यैर्मयान्यः कः समो भुवि ।। मदात्मानो न नूनं मां यूयं जानीथ तत्त्वतः ।। ८३ ।।

प्रभवं सर्वलोकानां धर्माणां च विशेषतः।। इत्थं देहेन पृथिवीं भावेन यज नेन च ।। ८४ ।।

सृजेयं च ग्रसेयं च नात्र कार्या विचारणा ।। यदा न शक्यते स्तंभान्मत्तश्चैव विमोहितः ।। ८५ ।।

अनुनेतुं नृपो वेनस्तत्र क्रुद्धा महर्षयः ।। आथर्वणेन मंत्रेण हत्वा तं ते महाबलम् ।। ८६ ।।

ततोऽस्य वामबाहुं ते ममंथुर्भृशकोपिताः ।। तस्माच्च मथ्यमानाद्वै जज्ञे पूर्वमिति श्रुतिः ।। ८७ ।।

ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चापि तदा प्रिये ।। स भीतः प्राञ्जलिश्चैव तस्थिवान्संमुखे प्रिये ।। ८८ ।।

तमात्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल ।। निषादो वंशकर्ता वै तेनाभूत्पृथुविक्रमः ।। ८९ ।।

धीवरानसृजच्चापि वेनपापसमुद्भवान् ।। ये चान्ये विन्ध्यनिलयास्तथा वै तुंबराः खसाः ।। 7.1.336.९० ।।

अधर्मे रुचयश्चापि वर्द्धिता वेनपापजाः ।। पुनर्महर्षयस्तेथ पाणिं वेनस्य दक्षिणम् ।।९१।।

अरणीमिव संरब्धा ममंथुर्जात मन्यवः ।। पृथुस्तस्मात्समुत्पन्नः कराज्ज्वलनसंनिभः ।। ९२ ।।

पृथोः करतलाच्चापि यस्माजातस्ततः पृथुः ।। दीप्यमानश्च वपुषा साक्षादग्निरिव ज्वलन् ।। ९३ ।।

धनुराजगवं गृह्य शरांश्चाशीविषोपमान् ।। खङ्गं च रक्षन्रक्षार्थं कवचं च महाप्रभम् ।। ९४ ।।

तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः ।। संबभूवुर्महादेवि वेनश्च त्रिदिवं गतः ।। ९५ ।।

ततो नद्यः समुद्राश्च रत्नान्यादाय सर्वशः ।। अभिषेकाय ते सर्वे राजानमुपतस्थिरे ।। ।। ९६ ।।

पितामहश्च भगवानृषिभिश्च सहामरैः ।। स्थावराणि च भूतानि जंगमानि च सर्वशः ।। ९७ ।।

समागम्य तदा वैन्यमभ्यषिंचन्नराधि पम् ।। सोऽभिषिक्तो महातेजा देवैरंगिरसादिभिः ।। ९८ ।।

अधिराज्ये महाभागः पृथुर्वैन्यः प्रतापवान् ।। पित्रा न रंजिताश्चास्य प्रजा वैन्येन रंजिताः ।। ९९ ।।

ततो राजेति नामास्य अनुरागादजायत ।। आपः स्तस्तंभिरे चास्य समुद्रमभियास्यतः ।। 7.1.336.१०० ।।

पर्वताश्चापि शीर्यंते ध्वज संगोऽपि नाऽभवत् ।। अकृष्टपच्या पृथिवी सिध्यंत्यन्नानि चिंतया ।।

सर्वकामदुघा गावः पुटकेपुटके मधु ।। १०१ ।।

तस्मिन्नेव तदा काले पुन र्जज्ञेऽथ मागधः ।। सामगेषु च गायत्सु स्रुग्भांडाद्वैश्वदेविकात् ।। १०२ ।।

सामगेषु समुत्पन्नस्तस्मान्मगध उच्यते ।। ऐंद्रेण हविषा चापि हविः पृक्तं बृहस्पतिः ।। १०३ ।।

यदा जुहाव चेंद्राय ततस्ततो व्यजायत ।। प्रमादस्तत्र संजज्ञे प्रायश्चित्तं च कर्मसु ।। १०४ ।।

 

186a

शेषहव्येन यत्पृक्तमभिभूतं गुरोर्हविः ।। अधरोत्तरस्वारेण जज्ञे तद्वर्णवैकृतम् ।।१०५।।

यज्ञस्तस्यां समभवद्ब्राह्मण्यां क्षत्रयोनितः ।। ततः पूर्वेण साधर्म्यात्तुल्यधर्माः प्रकीर्त्तिताः।। ।। १०६ ।।

मध्यमो ह्येष तत्त्वस्य धर्मः क्षत्रोपजीवनम् ।। रथनागाश्वचरितं जघन्यं च चिकित्सितम् ।। १०७ ।।

पृथोः कथार्थं तौ तत्र समा हूतौ महर्षिभिः ।। तावूचुर्मुनयः सर्वे स्तूयतामिति पार्थिवः ।। १०८ ।।

कर्मभिश्चानुरूपो हि यतोयं पृथिवीपतिः ।। तानूचतुस्तदा सर्वानृषींश्च सूतमागधौ ।। १०९ ।।

आवां देवानृषींश्चैव प्रीणयाव स्वकर्मभिः ।। न चास्य विद्वो वै कर्म न तथा लक्षणं यश ।। 7.1.336.११० ।।

स्तोत्रं येनास्य संकुर्वो राज्ञस्तेजस्विनो द्विजाः ।। ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति ।।१११।।

यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः ।। तानि गीतानि बद्धानि स्तुवद्भिः सूतमागधैः ।। ११२ ।।

ततः श्रुतार्थः सुप्रीतः पृथुः प्रादात्प्रजेश्वरः ।। अनूपदेशं सूताय मागधान्मागधाय च ।। १ १३।।

तदादि पृथिवीपालाः स्तूयन्ते सूतमागधैः ।। आशीर्वादैः प्रशंस्यंते सूतमागधबंदिभिः ।। ११४ ।।

तं दृष्ट्वा परमं प्रीताः प्रजा ऊचुर्महर्षयः ।। एष वो वृत्तिदो वैन्यो विहितोऽथ नराधिपः ।। ११५ ।।

ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः ।। त्वं नो वृत्तिविधातेति महर्षिवचनात्तथा ।। ।। ११६ ।।

सोऽभीहितः प्रजाभिस्तु प्रजाहितचिकीर्षया ।। धनुर्गृहीत्वा बाणांश्च वसुधामार्दयद्बली ।। ११७ ।।

ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ।। तां धेनुं पृथुरादाय द्रवन्तीमन्वधावत ।। ११८ ।।

सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ।। ददर्श चाग्रतो वैन्यं कार्मु कोद्यतपाणिनम् ।। ११९ ।। ज्वलद्भिर्विशिखैस्तीक्ष्णैर्दीप्ततेजःसमन्वितैः ।। महायोगं महात्मानं दुर्द्धर्षममरैरपि ।। 7.1.336.१२० ।।

अलभंती तु सा त्राणं वैन्यमेवाभ्यपद्यत ।। कृतांजलिपुटा देवी पूज्या लोकैस्त्रिभिस्सदा ।।१२१।।

उवाच चैनं नाधर्म्यं स्त्रीवधं परिपश्यसि ।। कथं धारयिता चा सि प्रजा राजन्मया विना ।। १२२ ।।

मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् ।। मदृते तु विनश्येयुः प्रजाः पार्थिव विद्धि तत् ।। १२३ ।।

स मां नार्हसि हंतुं वै श्रेयश्चेत्त्वं चिकीर्षसि ।। प्रजानां पृथिवीपाल शृणुष्वेदं वचो मम ।।१२४।।

उपायतः समारब्धाः सर्वे सिध्यंत्युपक्रमाः ।। हत्वा मां त्वं न शक्तो वै प्रजाः पालयितुं नृप ।। १२५ ।।

अनुकूला भविष्यामि त्यज कोपं महाद्युते ।। अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिगता अपि ।। ।।१२६।।

एकस्मिन्निधनं प्राप्ते पापिष्ठे क्रूरकर्मणि ।। बहूनां भवति क्षेमस्तत्र पुण्यप्रदो वधः ।।

सत्येवं पृथिवीपाल धर्म्मं मा त्यक्तुमर्हसि ।।१२७।।

एवंविधं तु तद्वाक्यं श्रुत्वा राजा महाबलः ।। क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ।। १२८ ।।

 

186b

एकस्यार्थे च यो हन्यादात्मनो वा परस्य वा ।। एकं वापि बहून्वापि कामतश्चास्ति पातकम् ।। १२९ ।।

यस्मिंस्तु निधनं प्राप्ता एधन्ते बहवः सुखम् ।। तस्मिन्हते च भूयो हि पातकं नास्ति तस्य वै ।। 7.1.336.१३० ।।

सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे ।। यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ।। १३१ ।।

त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम्।। आत्मानं पृथुकृत्वेह प्रजा धारयितास्म्यहम् ।।१३२।।

सा त्वं वचनमास्थाय मम धर्मभृतांवरे।। सञ्जीवय प्रजा नित्यं शक्ता ह्यसि न संशयः ।। १३३ ।।

दुहितृत्वं हि मे गच्छ एवमेतन्महच्छरम् ।। नियच्छे त्वद्वधार्थं च प्रयुक्तं घोरदर्शनम् ।।

प्रत्युवाच ततो वैन्यमेवमुक्ता महासती ।। १३४ ।।

सर्वमेतदहं राजन्विधास्यामि न संशयः ।। वत्सं तु मम संयुक्ष्व क्षरेयं येन वत्सला ।। १३५ ।।

समां च कुरु सर्वत्र मां त्वं सर्वभृतां वर ।। यथा विस्यन्दमानाहं क्षीरं सर्वत्र भावये ।।१३६।।

।। ईश्वर उवाच ।। ।।

तत उत्सारयामास शिलाजालानि सर्वशः।। धनुष्कोट्या ततो वैन्यस्तेन शैला विवर्द्धिताः ।।१३७।।

मन्वतरेष्वतीतेषु चैवमासीद्वसुन्धरा ।। स्वभावेनाभवत्तस्याः समानि विषमाणि च ।।१३८।।

न हि पूर्वनिसर्गे वै विषमं पृथिवीतलम्।। प्रविभागः पुराणां च ग्रामाणां चाथ विद्यते ।। १३९ ।।

न सस्यानि न गोरक्षं न कृषिर्न वणिक्पथः ।। 7.1.336.१४० ।।

चाक्षुषस्यांतरे पूर्वमासीदेतत्पुरा किल ।। वैवस्वतेऽन्तरे चास्मिन्सर्वस्यैतस्य संभवः ।।

समत्वं यत्रयत्रासीद्भूमेः कस्मिंश्चिदेव हि।।१४१।।

तत्रतत्र प्रजास्ता वै निवसन्ति स्म सर्वदा ।। आहारः फलमूलं तु प्रजानामभवत्किल ।। १४२ ।।

कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम ।। वैन्या त्प्रभृतिलोकेऽस्मिन्सर्वस्यैतस्य संभवः ।।१४३।।

संकल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरम् ।। पृथुर्दुदोह सस्यानि स्वहस्ते पृथिवीं ततः ।।१४४।।

सस्यानि तेन दुग्धा वै वेन्येनेयं वसुन्धरा ।। मनुं वै चाक्षुषं कृत्वा वत्सं पात्रे च भूमये ।। १४५ ।।

तेनान्नेन तदा ता वै वर्त्तयन्ते सदा प्रजाः ।। ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ।।१४६।।

वत्सः सोमस्ततस्तेषां दोग्धा चापि बृहस्पतिः ।। पात्रमासन्हि च्छन्दांसि गायत्र्यादीनि सर्वशः ।। १४७ ।।

क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम्।। पुनस्ततो देवगणैः पुरंदरपुरोगमैः ।। १४८ ।।

सौवर्णं पात्रमादाय दुग्धेयं श्रूयते मही ।। वत्सस्तु मघवा चासीद्दोग्धा च सविताऽभवत् ।। १४९ ।।

क्षीरमूर्जामधु प्रोक्तं वर्तंते तेन देवताः ।। पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ।। ।। 7.1.336.१५० ।।

राजतं पात्रमादाय स्वधा त्वक्षय्यतृप्तये ।। वैवस्वतो यमस्त्वासीत्तेषां वत्सः प्रतापवान् ।। १५१ ।।

अंतकश्चाभवद्दोग्धा पितृणां भगवा न्प्रभुः ।। असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ।। १५२ ।।

आयसं पात्रमादाय बलमाधाय सर्वशः ।। विरोचनस्तु प्राह्लादिस्तेषां वत्सः प्रतापवान् ।। १५३ ।।

 

187a

ऋत्विग्द्विमूर्द्धा दैत्यानां दोग्धा तु दितिनन्दनः ।। मायाक्षीरं दुदोहासौ दैत्यानां तृप्तिकारकम् ।। १५४ ।।

तेनैते माययाऽद्यापि सर्वे मायाविदोऽसुराः ।। वर्त्तयंति महावीर्यास्तदेतेषां परं बलम्।। १५५ ।।

नागैश्च श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् ।। अलाबुपात्रमादाय विषं क्षीरं तदा महत् ।। १५६ ।।

तेषां वै वासुकिर्दोग्धा काद्रवेयो महायशाः ।। नागानां वै महादेवि सर्पाणां चैव सर्वशः ।।१५७।।

तेन वै वर्त्तयन्त्युग्रा महाकाया विषोल्बणाः ।। तदाहारास्तदाचारास्तद्वीर्यास्तदपाश्रयाः ।। १५८ ।।

आमपात्रे पुनर्दुग्धा त्वंतर्द्धानमियं मही ।। वत्सं वैश्रवणं कृत्वा यक्षपुण्यजनैस्तथा ।। १५९ ।।

दोग्धा रजतनागस्तु चिन्तामणिचरस्तु यः ।। यक्षाधिपो महातेजा वशी ज्ञानी महातपाः ।। 7.1.336.१६० ।।

तेन ते वर्त्तयं तीति यक्षा वसुभिरूर्जितैः ।। राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा ।। १६१ ।।

ब्रह्मोपेन्द्रस्तु दोग्धा वै तेषामासीत्कुबेरतः ।। वत्सः सुमाली बलवान्क्षीरं रुधिरमेव च ।।१६२।।

कपालपात्रे निर्दुग्धा त्वंतर्द्धानं तु राक्षसैः ।। तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः ।।१६३।।

पद्मपत्रेषु वै दुग्धा गंधर्वाप्सरसां गणैः ।। वत्सं चैत्ररथं कृत्वा शुचिगन्धान्मही तदा ।। १६४ ।।

तेषां वत्सो रुचिस्त्वासीद्दोग्धा पुत्रो मुनेः शुभः ।। शैलैस्तु श्रूयते देवि पुनर्दुग्धा वसुंधरा ।। १६५ ।।

तदौषधीर्मूर्तिमती रत्नानि विविधानि च ।। वत्सस्तु हिमवांस्तेषां दोग्धा मेरुर्महागिरिः ।। १६६ ।।

पात्रं शिलामयं ह्यासीत्तेन शैलाः प्रतिष्ठिताः ।। श्रूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा ।। १६७ ।।

पालाशं पात्रमादाय च्छिन्नदग्धप्ररोहणम् ।। दोग्धा तु पुष्पितः शालः प्लक्षो वत्सो यशस्विनि ।।

सर्वकामदुघा दोग्धा पृथिवी भूतभाविनी ।। १६८ ।।

सैषा धात्री विधात्री च धरणी च वसुन्धरा ।। दुग्धा हितार्थं लोकानां पृथुना इति नः श्रुतम् ।। १६९ ।।

चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ।। आसीदियं समुद्रांता मेदिनीतिपरिश्रुता।।7.1.336.१७०।।

मधुकैटभयोः पूर्वं मेदोमांसपरिप्लुता ।। वसुन्धारयते यस्माद्वसुधा तेन कीर्तिता ।। १७१ ।।

ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ।। दुहितृत्व मनुप्राप्ता पृथिवीत्युच्यते ततः ।। १७२ ।।

प्रथिता प्रविभक्ता च शोभिता च वसुन्धरा ।। दुग्धा हि यत्नतो राज्ञा पत्तनाकरमालिनी ।। १७३ ।।

एवं प्रभावो राजासीद्वैन्यः स नृपसत्तमः ।। ततः स रंजयामास धर्मेण पृथिवीं तदा ।। १७४ ।।

ततो राजेति शब्दोऽथ पृथिव्यां रंजनादभूत् ।। स राज्यं प्राप्य वैन्यस्तु चिंतयामास पार्थिवः ।। १७५ ।।

पिता मम ह्यधर्मिष्ठो यज्ञाद्युच्छित्तिकारकः।। कस्मिन्स्थाने गतश्चासौ ज्ञेयं स्थानं कथं मया ।। १७६ ।।

कथं तस्य क्रिया कार्या हतस्य ब्राह्मणैः किल ।। कथं गतिर्भवेत्तस्य यज्ञदानक्रियाबलात् ।। १७७ ।।

 

187b

इत्येव चिंतया तस्य नारदोभ्याजगाम ह ।। तस्यैवमासनं दत्त्वा प्रणिपत्य च पृष्टवान् ।। १७८ ।।

भगवन्सर्वलोकस्य जानासि त्वं शुभाशुभम् ।। पिता मम दुराचारो देवब्राह्मणनिंदकः ।। १७९ ।।

स्वकर्मणा हतो विप्रैः परलोकमवाप्तवान् ।। कस्मिंस्थाने गतस्तातः श्वभ्रं वा स्वर्गमेव च ।। 7.1.336.१८० ।।

ततोऽब्रवीन्नारदस्तु ज्ञात्वा दिव्येन चक्षुषा ।। शृणु राजन्महाबाहो यत्र तिष्ठति ते पिता ।। १८१ ।।

अत्र देशो मरुर्नाम जलवृक्षविवर्जितः ।। तत्र देशे महारौद्रे जनकस्ते नरोत्तम ।। १८२ ।।

म्लेच्छमध्ये समुत्पन्नो यक्ष्मी कुष्ठसमन्वितः ।। उच्छिष्टभोजी म्लेच्छानां कृमिभिः संयुतो व्रणैः ।। ।। १८३ ।।

तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ।। हाहाकारं ततः कृत्वा मूर्छितो निपपात ह ।।१८४ ।।

चिंतयामास दुःखार्तः कथं कार्यं मया भवेत् ।। इत्येवं चिंतयानस्य मतिर्जाता महात्मनः ।।

पुत्रः स कथ्यते लोके पितरं त्रायते तु यः ।। १८५ ।।

स कथं तु मया तातः पापान्मुक्तो भविष्यति ।। एवं संचिंत्य स ततो नारदं पर्यपृच्छत ।। १८६ ।।

भगवन्कथितं सर्वं पितुर्मम विचेष्टितम् ।। केन तस्य भवेन्मुक्तिः कर्मणा द्विज सत्तम ।।

व्रतैर्दानैस्तपोभिर्वा तीर्थानां यात्रया वद ।। १७७ ।।

।। नारद उवाच ।। ।।

गच्छ राजन्प्रधानानि तीर्थानि मनुजेश्वर ।। पितरं तेषु चा नीय तस्माद्राजन्मरुस्थलात् ।। १८८ ।।

यत्र देवाः सप्रभावास्तीर्थानि विमलानि च ।। तत्र गच्छ महाराज तीर्थयात्रां कुरु प्रभो ।। १८९ ।।

एवं ह्यवितथं विद्धि मोक्षस्ते भविता पितुः ।। तच्छ्रुत्वा वचनं राजा नारदस्य महात्मनः ।।

सचिवे भारमाधाय स्वराजस्य जगाम ह ।। 7.1.336.१९० ।।

स गत्वा मरुभूमिं तु म्लेच्छमध्ये ददर्श ह ।। कुष्ठरोगेण महता क्षयेण च समावृतम् ।। १९१ ।।

गव्यूतिमात्रं तत्रैव शून्यं मानुषवर्जितम् ।। एवं दृष्ट्वा स राजा तु संतप्तो वाक्यमब्रवीत् ।। १९२ ।।

हे म्लेच्छ रोगिपुरुषं स्वगृहं च नयाम्यहम् ।। तत्राहमेनं निरुजं करोमि यदि मन्यथ ।। १९३ ।।

ज्ञात्वेति सर्वे ते म्लेच्छाः पुरुषं तं दयापरम् ।। ऊचुः प्रणतसर्वांगाः शीघ्र नय जगत्पते ।।

अस्मद्भाग्यवशान्नाथ त्वमेवात्र समागतः ।। १९४ ।।

दुर्गंधोपहता लोकास्त्वया नाथ सुखीकृताः ।। तत आनाय्य पुरुषाञ्छिबिकावाहनोचितान् ।। १९५ ।।

ततः श्रुत्वा तु वचनं तस्य राज्ञो दयावहम् ।। प्रापुस्तीर्थान्यनेकानि केदारादीनि कोटिशः ।। १९६ ।।

यत्रयत्र स गच्छेत वैन्यो वेनेन संयुतः ।। तत्र तत्रैव तीर्थानामाक्रंदः श्रूयते महान्।। ।। १९७ ।।

हा दैव रिपुरायाति अस्माकं नाशहेतवे ।। अधुना क्व गमिष्याम इति चिंता पुनःपुनः।।१९८।।

दर्शनेनापि तस्यैव हाहाकारं विधाय वै।। ।पलायंते च तीर्थानि देवा नश्यंति तत्क्षणात् ।।१९९।।

एवं वर्षत्रयं राजा तीर्थयात्रां चकार वै ।। न तस्य मुक्तिर्ददृशे ततः शोकमगात्परम् ।।7.1.336.२००।।

 

188a

ततस्तु प्रेरिता भृत्याः कुरुक्षेत्रे महाप्रभे ।। यदि वापि पुनस्तत्र पापमुक्तिर्भवेत्ततः ।। २०१ ।।

गृहीत्वा शिबिकां स्कन्धे कुरुक्षेत्रे गताः प्रिये ।। तत्र नीत्वा स्थाणुतीर्थमवतार्य च ते गताः ।। २०२ ।।

ततः स राजा मध्याह्ने चिकीर्षुः स्नानमादरात् ।। तस्यैव तु पितुस्तत्र तथा दानानि षोडश ।। २०३ ।।

ब्राह्मणेभ्यस्तथा दित्सुः श्रद्धावान्भावतत्परः ।। ततो वायुश्चांतरिक्ष इदं वचनमब्रवीत् ।। २०४ ।।

मा तात साहसं कुर्यास्तीर्थं  रक्ष प्रयत्नतः ।। अयं पापेन घोरेण समंतात्परिवेष्टितः ।। २०५ ।।

वेदनिन्दासमाचारो ब्रह्महत्याशतैर्युतः ।। सोऽयं पापो दुराचारस्तीर्थं नाशं नयिष्यति ।। २०६ ।।

मा तीर्थं नाशय विभो महदेनो भविष्यति ।। एतद्वायोर्वचः श्रुत्वा दुःखेन महतार्दितः ।।

उवाच शोकसंतप्तः पितुर्दुःखेन दुःखितः ।। २०७ ।।

हा दैवेति च चुक्रोश ऊर्द्ध्वबाहुः पुनःपुनः ।। एष घोरेण पापेन अतीव परिवेष्टितः ।। २०८ ।।

यदनेनापि तीर्थेन शुद्धः कर्त्तुं न शक्यते ।। प्रायश्चित्त करिष्येऽहं पितुरर्थे न संशयः ।। २०९ ।।

एवं तस्य वचः श्रुत्वा दयां कृत्वा महीयसीम् ।। अन्तरिक्षभवां वाचं खेचराः पुनरब्रुवन् ।। 7.1.336.२१० ।।

भोभो राजन्नृपश्रेष्ठ त्यक्त्वा शोकं वचः शृणु ।। येन ते जनकस्यास्य भवेत्पापक्षयो महान् ।। २११ ।।

अस्ति क्षेत्रं महासिद्धं प्रभासमिति विश्रुतम् ।। सर्वपापप्रशमनं महापातकनाशनम् ।। २१२ ।।

ब्रह्मतत्त्वं हरितत्त्वं रुद्रतत्त्वं तृतीयकम् ।। तस्मिन्नेव महा क्षेत्रे प्रभासे शंकरप्रिये ।। २१३ ।।

शाक्तेयं यदि वा चांद्रं सौरं सारस्वतं तथा ।। आग्नेयं वारुणं चापि स्मृतं क्षेत्रमनुत्तमम् ।। २१४ ।।

ब्रह्माण्डे यानि तीर्थानि पुरा क्षेत्राणि यानि तु ।। प्रभासमागमिष्यन्ति संप्राप्ते तु कलौ युगे ।। २१५ ।।

अष्टौ कोटिसहस्राणि अष्टौ कोटिशतानि च ।। क्षेत्रं रक्षंति तत्रस्थाः प्रभासं शांकरा गणाः ।। २१६ ।।

इयं सरस्वती पुण्या सर्वत्रैव हि विद्यते ।। पञ्चस्रोताः प्रभासे तु दुष्प्राप्या त्रिदशै रपि ।। २१७ ।।

तस्या यत्पञ्चमं स्रोतन्यंकुमत्यास्तटानि च ।। तस्य मध्ये स्थितं तीर्थं गोष्पदेति च विश्रुतम् ।। २१८ ।।

तत्र प्रेतशिला मध्ये प्रेतानां मुक्तिदायिका ।। यत्र प्रेताः पुरा मुक्ता अष्टाविंशतिकोटयः ।। २१९ ।।

पापिनां मुक्तिदं तीर्थमाद्या रुद्रगया स्मृता ।। तदस्मिन्गोष्पदंनाम कलौ ख्यातं धरातले ।। 7.1.336.२२० ।।

यदा क्षीरोदमथनान्निःसृता लोकमातरः ।। तदा देवैः समेतास्तु आगतास्तीर्थसन्निधौ ।। २२१ ।।

पदं तत्र निमग्नं च नन्दायाश्च शिलातले ।। शिलां खुरांकितां दृष्ट्वा जानुदेशांकितां तथा ।। २२२ ।।

विस्मिताः सर्वदेवा वै पप्रच्छुर्गां च नन्दिनीम् ।। किमेतद्दृश्यते देवि पदं प्रेतशिलातले ।।

कथं तु खेदः सञ्जातश्चास्माकं स्खलनं कथम्।। २२३ ।।

।। नन्दिन्युवाच ।। ।।

 

188b

इदं मम पदं देवाः शिलासंस्थं विराजते ।। गगनांगणभूमिस्थं चन्द्रबिंबमिवापरम्।। २२४ ।।

अद्यप्रभृति भो देवास्त्रैलोक्ये सचराचरे ।। गोष्पदंनाम विख्यातं लोके ख्यातिं गमिष्यति ।। २२५ ।।

अत्रागत्य नरो यस्तु स्नानं श्राद्धं करिष्यति ।। गयासप्तगुणंतस्य फलं देवा भविष्यति ।। २२६ ।।

न वारो न च नक्षत्रं न कालस्तत्र कारणम्।। यदैव दृश्यते तीर्थं तदा पर्वसहस्रकम् ।। २२७ ।।

अथवा पर्वकांक्षा चेत्तानि मे शृणुपार्वति ।। अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे ।। २२८ ।।

अमावास्याष्टकायां च कृष्णपक्षे विशेषतः ।। आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे ।। २२९ ।।

गजच्छाया व्यतीपाते वैधृते धृतचामरे ।। वैशाखस्य तृतीयायां नवम्यां कार्तिकस्य तु ।। 7.1.336.२३० ।।

पञ्चदश्यां च माघस्य नभस्ये च त्रयोदशीम् ।। युगादयः स्मृता ह्येतास्तस्मिन्काले च वा पुनः ।। २३१ ।।

मन्वन्तरादौ कार्यं च तत्र श्राद्धं विजानता ।। आश्वयुक्छुक्लनवमी द्वादशी कार्तिके तथा ।।२३२।।

तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ।। फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा ।। २३३ ।।

आषाढस्यापि दशमी माघमासस्य सप्तमी ।। श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ।। २३४ ।।

कार्तिकी फाल्गुनी चैव ज्यैष्ठी पञ्चदशी तथा ।। मन्वन्तरादयश्चैता दत्तस्या क्षयकारिकाः ।। २३५ ।।

वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च ।। पश्चमी चैत्रमासस्य तस्यैवांत्या तथा परा ।। २३६ ।।

शुक्ला त्रयो दशी माघे कार्तिकस्य तु सप्तमी ।। नवमी मार्गशीर्षस्य सप्तैताः कल्पकादिमाः ।। २३७ ।।

कल्पतृप्तिर्भवेच्छ्राद्धे कल्पादौ तु कृते पुरा ।। इत्येव मुक्त्वा सा नन्दा देवानां प्रतिनन्दिनी ।।

अन्तर्द्धानं जगामाशु दीपो वातहतो यथा ।।२३८।।

इतीदं कौतुकं दृष्ट्वा सर्वे देवाः सवासवाः ।। ब्रह्मर्षयो देवर्षयः श्लोकं पौराणिकं जगुः ।। २३९ ।।

अहो तीर्थस्य माहात्म्यं नन्दायास्तपसो बलम् ।। सकृच्छ्राद्धेन दत्तेन गयासप्तगुणं फलम् ।। 7.1.336.२४० ।।

एवमुक्त्वा ततोदेवाश्चक्रुः श्राद्धादिकां क्रियाम्।। यथोक्तं फलमापुस्ते नंदिन्यापूर्वभाषितम् ।। २४१ ।।

इत्थं त्वमपि राजेन्द्र गच्छ शीघ्रं हि गोष्प दम्।। तत्र श्राद्धादिकं कृत्वा लप्स्यसे फलमीप्सितम् ।। २४२ ।।

अयं ते जनको राजन्पापिनां प्रवरः स्मृतः ।। नान्यैस्तीर्थशतैः शक्यः प्रोद्धर्तुं गोष्पदं विना ।। २४३ ।।

तस्माद्व्रज महाराज मा कार्षीस्त्वं विलंबनम् ।। एवं श्रुत्वा तदा राजा प्रभासं क्षेत्रमागतः ।।२४४।।

तत्र स्थानस्थितान्विप्रांस्तीर्थमाहात्म्यकोविदान्।। अग्रेकृत्य महाराजो ययौ न्यंकुमतीं नदीम् ।। २४५ ।।

तै राज्ञो दर्शितं तीर्थं पदं प्रेतशिलास्थितम् ।। तद्दृष्ट्वा विमलं तीर्थं विस्मयोत्फुल्ललोचनः ।।

चक्रे कुण्डानि वेदीश्च मण्डपान्यज्ञसिद्धये ।। २४६ ।।

ततो यज्ञः समारब्धो विधिवद्भूरिदक्षिणः ।। प्रत्यक्षं पितर स्तस्य बभूवुर्ज्वलनप्रभाः ।। २४७ ।।

ततः श्रद्धां समास्थाय श्राद्धैर्यज्ञैर्महोदयम् ।। ते चाब्रुवन्वचस्तुष्टाः पितरो राजसत्तमम् ।। २४८ ।।

 

189a

धन्योऽसि राजन्पुण्योऽसि वयं धन्यतरास्त्वया ।। यदत्र तीर्थे श्राद्धेन उद्धृता भवता वयम् ।। २४९ ।।

एवमुक्त्वा ततः सर्वे वेनेन पितरः सह ।। विमानवरसंस्थाश्च जग्मुस्ते त्रिदिवालयम् ।। 7.1.336.२५० ।।

गच्छन्नुवाच वेनस्तं राजानं पृथुवक्षसम् ।। राजञ्जन्मानि चत्वारि अभूवं चान्यजन्मनि ।। २५१ ।।

कुष्ठी पापो दुराचारश्चांडालोच्छिष्टभुक्तथा ।। सोऽहं पापविनिर्मुक्तो गच्छामि त्रिदिवालयम् ।। २५२ ।।

तद्गच्छ त्वं महाभाग राज्यं भुंक्ष्व चिराय च ।। कृतं ते सकलं कार्यं पुत्रेण क्रियते च यत् ।। २५३ ।।

एवं श्रुत्वा तदा राजा मुमुदे ज्ञातिसंयुतः ।। ब्राह्मणान्हर्षयामास दानैर्भूकांचनादिभिः ।। २५४ ।।

न तदस्ति जगत्यस्मिंस्तत्र यन्न ददौ नृपः ।। दृष्ट्वा प्रभावं तीर्थस्य प्रत्यक्षं पितृदर्शनम् ।।२५५।।

एवं राजा स कृत्वा तु स्वकीयं स्थान माययौ ।। भुक्त्वा भूमिं तु सकलां प्रेत्य स्वर्गं समाप्तवान् ।। २५६ ।।

एवं प्रभावं तत्क्षेत्रं प्रभासं पापनाशनम् ।। यस्मिन्नायांति तीर्थानि देवास्तिष्ठंति कोटिशः ।। २५७ ।।

प्रभासं क्षेत्रमासाद्य योन्यत्तीर्थं हि मार्गते ।। स करस्थं समुत्सृज्य कूर्परेण समालिहेत् ।। २५८ ।।

अब्रुवन्पितरश्चैनां गाथां पौराणिकीं प्रिये ।। गयां गंतुं न शक्नोति यदि पुत्रः कथंचन ।।

तदा यत्नेन गंतव्यं गोष्पदं तीर्थमुत्तमम् ।। २५९ ।।

कन्दैर्मूलैः फलैर्वापि पिण्याकें गुदकेन वा ।। अपि नः स कुले भूयाद्योऽत्र श्राद्धं प्रदास्यति ।। 7.1.336.२६० ।।

तत्र स्नात्वा प्रयत्नेन ब्राह्मणान्वेदवित्तमान् ।। आमंत्र्य विधिवच्छ्राद्धे भोजयित्वा प्रयत्नतः ।।

पिंडदानं तु कर्त्तव्यं पितृणां तृप्तिमिच्छताम् ।।२६१।।

 न तिथिर्न च नक्षत्रं पर्व मासादिकं न हि ।। सर्वदा तत्र गंतव्यं श्रद्धा युक्तेन चेतसा ।। २६२ ।।

न कालनियमस्तत्र प्रमाणं दर्शनं यतः ।। तत्राक्षयतृतीयायां दुर्ल्लभं गमनं प्रिये ।। २६३ ।।

कार्त्तिक्यां माघसप्तम्यां पद्मके वाऽथ पर्वणि ।।२६४।।

हिरण्यदानं गोदानं वस्त्रं रूप्यं घृतं तिलाः ।। दातव्यास्तत्र युक्तेन पितॄणां तृप्तिमिच्छता ।। २६५ ।।

एवं ते कथितं देवि तीर्थगुह्यं महोदयम् ।। न कथ्यं दुष्टबुद्धीनां पापिनां क्रूरचेतसाम् ।।२६६।।

श्रद्धायुक्ताय दातव्यं पितृभक्तिरताय च ।। श्राद्धकाले विशेषेण पठे द्भक्त्या पुराणवित् ।। २६७ ।।

पितॄणां जायते तृप्तिस्तेन द्वादशवार्षिकी ।। श्रोतव्यं प्रयतैर्नित्यं नरैर्नरकभीरुभिः ।।

पठितव्यं सदा भक्त्या विप्राणां भुंजता पुरः ।। २६८ ।।

पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।।

श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदंति ।।२६९।।

इदं रहस्य यशसो निधानमिदं पितॄणामतिवल्लभं च ।।

इदं च वेदेष्वमृताय नित्यमिदं महापापहरं च पुंसाम् ।। 7.1.336.२७० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीनदीमाहात्म्ये गोष्पदतीर्थमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरत्रिशततमोऽध्यायः ।। ३३६ ।। ।। छ ।।

 

189b

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि नारायणगृहं परम् ।। गोष्पदाद्दक्षिणे भागे सागरस्य तटे शुभे ।। १ ।।

न्यंकुमत्याः समीपे तु सर्वपातकनाशने ।। तत्रकल्पांतरस्थायी स्वयं तिष्ठति केशवः ।। २ ।।

पितॄणामुद्धरणार्थाय ह्यस्मिन्रौद्रे कलौ युगे ।। यदा दैत्यविनाशं स कुरुते भगवान्हरिः ।। ३ ।।

विश्रामार्थं तदा तत्र गृहे तिष्ठति नित्यशः ।। नारायणगृहं तेन विख्यातं जगतीतले ।। ४।।

कृते जनार्दनोनाम त्रेतायां मधुसूदनः ।। द्वापरे पुण्डरीकाक्षः कलौ नारायणः स्मृतः ।। ५ ।।

एवं चतुर्युगे प्राप्ते पुनःपुनररिन्दम ।। कृत्वा धर्मव्य वस्थानं तत्स्थानं प्रतिपद्यते ।। ६ ।।

एकादश्यां निराहारो यस्तं देवं प्रपश्यति ।। स पश्यति ध्रुवं स्थाने प्रत्यानन्तं हरेः पदम् ।। ७।।

तेन पीतानि वस्त्राणि देयानि द्विजपुंगवे ।। स्नानं श्राद्धं च कर्तव्यं सम्यग्यात्राफलेप्सुभिः ।। ८ ।।

इति ते कथितं महाप्रभावं हरिसंकेतनिकेतनोद्भवम् ।। शृणुते वा प्रयतस्तु यः सुधीः पठते वा लभते स सद्गतिम् ।। ९ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये नारायणगृहमाहात्म्यवर्णनंनाम सप्तत्रिंशदुत्तरत्रिशततमोऽध्यायः ।। ३३७ ।। ।। छ ।। ।। ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि देविकातटसंस्थितम् ।। जालेश्वरेति विख्यातं सुरासुरनमस्कृतम् ।। १ ।।

मन्वन्तरे चाक्षुषे च सम्प्राप्ते द्वापरे युगे ।। नाम्ना जालेश्वरं लिंगं देविकातटसंस्थितम् ।। २ ।।

पूज्यते नागकन्याभिर्न तत्पश्यंति मानवाः ।। महा तेजोमणिमयं चंद्रबिंबसमप्रभम् ।।

स्मरणात्तस्य देवस्य ब्रह्महत्या प्रणश्यति ।। ३ ।।

।। देव्युवाच ।। ।।

कथं जालेश्वरं नाम कस्मिन्काले बभूव तत् ।। ४ ।।

साधुभिः सह संवासात्के गुणाः परिकीर्त्तिताः ।। के लोकाः कानि पुण्यानि तत्सर्वं शंस मे प्रभो ।। ५ ।।

।। ईश्वर उवाच ।। ।।

अत्रैवोदाहरंतीममितिहासं पुरातनम् ।। नाभागस्य च संवादमापस्तंबतपोनिधेः ।। ६ ।।

महर्षिरात्मवान्पूर्वमापस्तंबो द्विजाग्रणीः ।। उपावसन्सदा रम्भो बभूव भगवांस्तदा ।। ७ ।।

नित्यं क्रोधं च लोभं च मोहं द्रोहं विसृज्य सः ।। देविकासरितो मध्ये विवेश सलिलाशये ।। ८ ।।

क्षेत्रे प्राभासिके रम्ये सम्यग्ज्ञात्वा शिवप्रिये ।। तत्रास्य वसतः कालः समतीतो महांस्तदा ।। ९ ।।

परेण ध्यानयोगेन स्थाणुभूतस्य तिष्ठतः ।। ततः कदाचि दागत्य तं देशं मत्स्यजीविनः ।। 7.1.338.१० ।।

प्रसार्य सुमहज्जालं सर्वे चाकर्षयन्बलात् ।। अथ तं च महामत्स्यं निषादा बलदर्पिताः ।। ११ ।।

तस्मादुत्तारयामासुः सलिलाद्ब्रह्मनंदनम् ।।तं दृष्ट्वा तपसा दीप्तं कैवर्त्ता भयविह्वलाः ।।

शिरोभिः प्रणिपत्योच्चैरिदं वचनमब्रुवन् ।। १२ ।। ।।

 

190a

निषादा ऊचुः ।। ।।

अज्ञानात्कृतपापानामस्माकं क्षन्तुमर्हसि ।। किं वा कार्यं प्रियं तेऽद्य तदाज्ञापय सुव्रत ।। १३ ।।

स मुनिस्तन्महद्दृष्ट्वा मत्स्यानां कदनं कृतम्।। कृपया परयाविष्टो दाशान्प्रोवाच दुःखितः ।। १४ ।।

केन मे स्यादुपायो हि सर्वे स्वार्थे बत स्थिताः ।। ज्ञानिनामपि यच्चेतः केवलात्महिते रतम् ।। १५ ।।

ज्ञानिनोपि यदा स्वार्थमाश्रित्य ध्यानमास्थिताः ।। दुःखार्त्तानीह सत्त्वानि क्व यास्यंति सुखं ततः ।। १६ ।।

योऽभिवांछति भोक्तुं वै दुःखान्येकांततो जनः ।। पापात्पापतरं तं हि प्रवदंति मुमुक्षवः ।। १७ ।।

को नु मे स्यादुपायो हि येनाहं दुःखितात्मवान्।। अंतः प्रविष्टः सत्त्वानां भवेयं सर्वदुःखभुक् ।। १८ ।।

यन्ममास्ति शुभं किचित्तदेनानुपगच्छतु ।। यत्कृतं दुष्कृतं तैश्च तदशेषमुपेतु माम् ।। १९ ।। दृष्ट्वांधान्कृपणान्व्यंगाननाथान्रोगिणस्तथा ।। दया न जायते यस्य स रक्ष इति मे मतिः ।। 7.1.338.२० ।। प्राणसंशयमापन्नान्प्राणिनो भयविह्वलान् ।। यो न रक्षति शक्तोपि स तत्पापं समश्नुते ।। २१ ।।

आहुर्जनानामार्त्तानां सुखं यदुपजायते ।। तस्य स्वर्गोऽपवर्गो वा कलां नार्हति षोडशीम् ।। ।। २२ ।।

तस्मान्नैतानहं दीनांस्त्यक्त्वा मीनान्सुदुःखितान् ।। पदमात्रं तु यास्यामि किं पुनस्त्रिदशालयम् ।। २३ ।।

।। ईश्वर उवाच ।। ।।

निशम्यैतदृषेर्वाक्यं दाशास्ते जातसंभ्रमाः ।। यथावृत्तं तु तत्सर्वं नाभागाय न्यवेदयन् ।। २४ ।।

नाभागोऽपि ततः श्रुत्वा तं द्रष्टुं ब्रह्मनन्दनम् ।। त्वरितः प्रययौ तत्र सामात्यः सपुरोहितः ।। २५ ।।

स सम्यक्पूजयित्वा तं देवकल्पमुनिं नृपः ।। प्रोवाच भगवन्ब्रूहि किं करोमि तवाज्ञया ।।२६।। ।।

।। आपस्तंब उवाच ।। ।।

श्रमेण महताविष्टाः कैवर्त्ता दुःखजीविनः ।। मम मूल्यं प्रयच्छेति यद्योग्यं मन्यसे नृप ।। २७ ।।

।। नाभाग उवाच ।। ।।

सहस्राणां शतं मूल्यं निषादेभ्यो ददाम्यहम् ।। निग्रहाख्यस्य भगवन्यथाह ब्रह्मनंदनः ।। २८ ।।

।। आपस्तंब उवाच ।। ।।

नाहं शतसहस्रैश्च नियम्यः पार्थिव त्वया ।। सदृशं दीयतां मूल्यममात्यैः सह चिंतय ।। २९ ।।

।। नाभाग उवाच ।। ।।

कोटिः प्रदीयतां मूल्यं निषादेभ्यो द्विजोत्तम ।। यद्येतदपि ते मूल्यं ततो भूयः प्रदीयते ।। 7.1.338.३० ।। ।।

आपस्तंब उवाच ।। ।।

नार्हं मूल्यं च मे कोटिरधिकं वापि पार्थिव ।। सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिंतय ।। ३१ ।।

।। नाभाग उवाच ।। ।।

अर्द्धराज्यं समस्तं वा निषादेभ्यः प्रदीयताम् ।। एत न्मूल्यमहं मन्ये किं वाऽन्यन्मन्यसे द्विज ।। ३२ ।।

।। आपस्तंब उवाच ।। ।।

अर्धराज्यसमस्तं वा नाहमर्हामि पार्थिव ।। सदृशं दीयतां मूल्यमृषिभिः सह चिंतय ।। ३३ ।।

महर्षेस्तद्वचः श्रुत्वा नाभागः स विषादवान् ।। चिन्तयामास दुःखार्तः सामात्यः सपुरोहितः ।। ३४ ।।

 

190b

ततः कश्चिदृषिस्तत्र लोमशस्तु महातपाः ।। नाभागमब्रवीन्मा भैस्तोषयिष्यामि तं मुनिम् ।। ३५ ।।

।। नाभाग उवाच ।। ।।

ब्रूहि मूल्यं महाभाग मुनेरस्य महात्मनः ।। परित्रायस्व मामस्मात्सज्ञातिकुलबांधवम् ।। ३६ ।।

निर्दहेद्भगवान्रुद्रस्त्रैलोक्यं सचराचरम्।। किं पुनर्मानुषं हीनमत्यंतवि षयात्मकम् ।। ३७ ।।

।। लोमश उवाच ।। ।।

त्वमीड्यो हि महाराज जगत्पूज्यो द्विजोत्तमः ।। गावश्च दिव्यास्तस्माद्गौर्मूल्यमम्यै प्रदीयताम्।। ३९ ।।

तच्छ्रुत्वा वचनं राजा सामात्यः सपुरोहितः ।। हर्षेण महताविष्टः प्रोवाचेदं वचोमुनिम् ।। ३९ ।।

उत्तिष्ठोत्तिष्ठ भगवन्क्रीत एव न संशयः ।। एतद्योग्यतमं मूल्यं भवतो मुनिसत्तम ।। 7.1.338.४० ।।

।। आपस्तंब उवाच ।। ।।

उत्तिष्ठाम्येष सुप्रीतः सम्यक्क्रीतोऽस्मि पार्थिव ।। गोभ्यो मूल्यं न पश्यामि पवित्रं परमं भुवि ।। ४१ ।।

गावः प्रदक्षिणीकार्याः पूजनीयाश्च नित्यशः ।। मंगलायतनं देव्यः सृष्टा ह्येताः स्वयंभुवा।। ।। ४२ ।।

अग्न्यगाराणि विप्राणां देवतायतनानि च ।। यद्गोमयेन शुद्ध्यंति किंभूतमधिकं ततः ।।४३।।

गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च ।। गवां पंच पवित्राणि पुनंति सकलं जगत् ।।४४।।

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।। गावो मे ह्रदये चैव गवां मध्ये वसाम्यहम ।।४५।।

एवं जपन्नरो मंत्रं त्रिसंध्यं नियतः शुचिः ।। मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति ।। ४६ ।।

तृणाहारपरा गावः कर्त्तव्या भक्तितोऽन्वहम्।। अकृ त्वा स्वयमाहारं कुर्वन्प्राप्नोति दुर्गतिम् ।। ४७ ।।

तेनाग्नयो हुताः सम्यक्पितरश्चापि तर्पिताः ।। देवाश्च पूजितास्तेन यो ददाति गवाह्निकम्।।४८।।

मन्त्रः ।।

सौरभेयी जगत्पूज्या देवी विष्णुपदे स्थिता ।। सर्वमेव मया दत्तं प्रतीच्छतु सुतोषिता।।४९।।

रक्षणाद्बालपुत्राणां गवां कण्डूयनात्तथा ।। क्षी णार्तरक्षणाच्चैव नरः स्वर्गे महीयते । 7.1.338.५० ।।

आदिर्गावो हि मर्त्यस्य मध्ये चांते प्रकीर्तिताः ।। रक्षं ति तास्तु देवानां क्षीराज्यममृतं सदा ।। ५१ ।।

तस्माद्गावः प्रदातव्याः पूजनीयाश्च नित्यशः ।। स्वर्गस्य संगमा ह्येताः सोपानमिव निर्मिताः ।। ५२ ।।

एतच्छ्रुत्वा निषादास्ते गवां माहात्म्यमुत्त मम् ।। प्रणिपत्य महात्मानमापस्तंबमथाब्रुवन् ।। ५३ ।।

।। निषादा ऊचुः ।। ।।

संभाषो दर्शनं स्पर्शः कीर्तनं स्मरणं तथा ।। पावनानि किलैतानि   साधूनामिति च श्रुतम् ।। ५४ ।।

संभाषो दर्शनं चैव सहास्माभिः कृतं त्वया ।। कुरुष्वानुग्रहं तस्माद्गौरेषा प्रतिगृह्यताम् ।। ५५ ।।

।। आपस्तंब उवाच ।। ।।

एता वः प्रतिगृह्णामि गां यूयं मुक्तकिल्विषाः ।। निषादा गच्छत स्वर्गं सह मत्स्यैर्जलोद्धतैः ।।५६।।

प्राणिनां प्रीतिमुत्पाद्य निन्दिते नापि कर्मणा ।। नरकं यदि पश्यामि वत्स्यामि स्वर्ग एव तत् ।। ५७ ।।

यन्मया सुकृतं किञ्चिन्मनोवाक्कायकर्मभिः ।। कृतं स्यात्तेन दुःखार्ताः सर्वे  यांतु शुभां गतिम् ।। ५८ ।। 

 

191a

ततस्तस्य प्रसादेन महर्षेर्भावितात्मनः ।। निषादास्तेन वाक्येन सह मत्स्यैर्दिवं गताः ।। ५९ ।।

तान्दृष्ट्वा व्रजतः स्वर्गं समत्स्यान्मत्स्यजीविनः ।। सामात्यभृत्यो नृपतिर्विस्मयादिदमब्रवीत् ।। 7.1.338.६० ।।

सेव्याः श्रेयोऽर्थिभिः सन्तः पुण्यतीर्थे जलोपमाः ।। क्षणो पासनमप्यत्र न येषां निष्फलं भवेत् ।। ६१ ।।

सद्भिः सह सदासीत सद्भिः कुर्वीत सत्कथाम् ।। सतां व्रतेन वर्तेत नासद्भिः किञ्चिदाचरेत् ।। ६२ ।।

सतां समागमादेते समत्स्या मत्स्यजीविनः ।। त्रिविष्टपमनुप्राप्ता नराः पुण्यकृतो यथा ।। ६३ ।।

आपस्तंबो मुनिस्तत्र लोमशश्च महामनाः ।। वरैस्तं विविधैरिष्टैश्छंदयामासतुर्नृपम्।। ६४ ।।

ततः स वरयामास धर्मबुद्धिं सुदुर्लभाम् ।। तथेति चोक्त्वा तौ प्रीत्या तं नृपं वै शशंसतुः ।। ६५ ।।

अहो धन्योऽसि राजेन्द्र यत्ते धर्मपरा मतिः ।। धर्मः सुदुर्लभः पुंसां विशेषेण महीक्षिताम् ।। ६६ ।।

यदि राजा मदाविष्टः स्वधर्मं न परि त्यजेत् ।। ततो जगति कस्तस्मात्पुमानभ्यधिको भवेत् ।। ६७ ।।

ध्रुवं जन्म सदा राज्ञां मोहश्चापि सदा ध्रुवः ।। मोहाद्ध्रुवश्च नरको राज्यं निन्दन्त्यतो बुधाः ।। ६८ ।।

राज्यं हि बहु मन्यंते नरा विषयलोलुपाः ।। मनीषिणस्तु पश्यन्ति तदेव नरकोपमम् ।। ६९ ।।

तस्माल्लोकद्वयध्वंसी न कर्त्तव्यो मदस्त्वया ।। यदीच्छसि महाराज शाश्वतीं गतिमात्मनः ।। 7.1.338.७० ।।

।। ईश्वर उवाच ।। ।।

इत्युक्त्वा तौ महात्मानौ जग्मतुः स्वं स्व माश्रमम् ।। नाभागोऽपि वरं लब्ध्वा प्रहृष्टः प्राविशत्पुरम् ।। ७१ ।।

एतत्ते कथितं देवि प्रभावं देविकोद्भवम् ।। ऋषिणा स्थापितश्चापि भवो जाले श्वरस्तदा ।। ७२ ।।

जाले निपतितो यस्माद्दाशानामृषिसत्तमः ।। जालेश्वरेति नामासौ विख्यातः पृथिवीतले ।। ७३ ।।

तत्र स्नात्वा महादेवि जालेश्वरसमर्चनात् ।। आपस्तंबश्च नाभागो निषादा मत्स्यजीविनः ।। ७४ ।।

मत्स्यैः सह गताः स्वर्गं देविकायाः प्रभावतः ।। चैत्रस्यैव तु मासस्य शुक्लपक्षे त्रयोदशीम् ।। ७५ ।।

दद्यात्पिण्डं पितृभ्यो यस्तस्यांतो नैव विद्यते ।। गोदानं तत्र देयं तु ब्राह्मणे वेदपारगे ।।

श्रोतव्यं चैव माहात्म्यं द्रष्टव्यो जालकेश्वरः ।। ७६ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविका नदीमाहात्म्ये जालेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशदुत्तरत्रिशततमोऽध्यायः ।। ३३८ ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि कूपं त्रैलोक्यविश्रुतम् ।। देविकायास्तटे रम्ये हुंकारेणैव पूर्यते ।। १ ।।

ततोऽधस्तात्पुनर्याति सलिलं तत्र भामिनि ।। तण्डीनाम पुरा प्रोक्तो देविकातटमास्थितः ।। २ ।।

 

191b

तपस्तेपे महादेवि शिवभक्तिपरायणः ।। तस्यैवं तप्यमानस्य तस्मिन्देशे वरानने ।। ३ ।।

आजगाम मृगो वृद्धस्तं देशमन्ध दृक्प्रिये ।। स पपात महागर्ते अगाधे जलवर्जिते ।। ४ ।।

तं दृष्ट्वा कृपयाविष्टः स मुनिर्मौनमास्थितः ।। हुंकारं कुरुते तत्र भूयोभूयश्च भामिनि ।। ५ ।।

अथ हुंकारशब्देन तस्य गर्तः प्रपूरितः ।। ततो मृगो विनिष्क्रांतः कृच्छ्रेण सलिलात्प्रिये ।। ६ ।।

मानुषं रूप माश्रित्य तमृषिं पर्यपृच्छत ।। विस्मयं परमं गत्वा काम्यदं कर्मणः फलम् ।। ७ ।।

मृगत्वे पतितश्चात्र नरो भूत्वा विनिर्गतः ।। सोऽब्रवीत्तस्य माहात्म्यं सलिलस्य द्विजोत्तमः ।। ८ ।।

अतोऽहं नरतां प्राप्तो नान्यदस्तीह कारणम् ।। ततस्तत्सलिलं भूयः प्रविष्टं धरणीतले ।। ९ ।।

ततो हुंकृतवान्भूयः स ऋषिः कौतुकान्वितः ।। आपूरितः पुनः कूपः सलिलेन पुरा यथा ।। 7.1.339.१० ।।

ततः स कृतवान्स्नानं तथा च पितृतर्पणम्।। मत्वा तीर्थवरं तत्र ततः प्राप्तः परां गतिम् ।। ११ ।।

अद्यापि हुंकृते तस्मिन्सलिलौघः प्रवर्तते ।। तत्र गत्वा नरो भक्त्या अपि पापरतोऽपि यः ।। १२ ।।

न मानुष्यं पुनर्जन्म प्राप्नोति जगतीतले ।। तत्र स्नात्वा शुचिर्भूत्वा यः श्राद्धं कुरुते नरः ।। १३ ।।

मुच्यते सर्वपापेभ्यः पितृलोके महीयते ।। कुलानि तारयेत्सप्त अतीताऽनागतानि च ।। १४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये हुंकारकूपमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ।। ३३९ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि तत्र स्थाने तु संस्थितम्।। चण्डीश्वरं महालिंगं सर्वपातकनाशनम् ।। १ ।।

तत्र शुक्लचतुर्द्दश्यां कार्तिके मासि भामिनि ।। उपवासपरो भूत्वा यः करोति प्रजागरम् ।।

स याति परमं स्थानं यत्र देवो महेश्वरः ।। २ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये चण्डीश्वरमाहात्म्यवर्णनं नाम चत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ३४० ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

आशापूरं ततो गच्छेद्विघ्नराजमकल्मषम् ।। शशिभूषण वायव्ये संस्थितं विघ्ननाशनम्।।

आशां पूरयते यस्मात्तेनाशापूरकः स्मृतः ।।१ ।।

यत्र रामेण देवेशि सीतया लक्ष्मणेन च ।। समाराध्य च विघ्नेशं प्राप्तं काममभीप्सितम्।। २ ।।

यत्र चंद्रमसा देवि समाराध्य गणाधिपम् ।। लब्धं तद्वांछितं पूर्वं सर्वकुष्ठविनाशनम् ।। ३ ।।

चतुर्थ्यां शुक्लपक्षे च मासि भाद्रपदे तथा ।। तत्र संपूज्य देवेशं मोदकैर्भोजयेद्द्विजान् ।। ४ ।।

वाञ्छितां लभते सिद्धिं विघ्नराजप्रसादतः ।। क्षेत्रस्यास्य महादेवि रक्षार्थं तु मया पुरा ।। ५ ।।

 

192a

ततो नियुक्तो देवेशि यायिनां विघ्ननाशनः ।। ६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आशापूरविघ्नराज माहात्म्यवर्णनंनामैकचत्शरिंशदुत्तर त्रिशततमोऽध्यायः ।। ३४१ ।।  

।। ईश्वर उवाच ।। ।।

तस्य दक्षिणनैर्ऋत्ये नातिदूरे व्यवस्थितम् ।। लिंगं पापहरं देवि स्वयं सोमप्रतिष्ठितम् ।। १ ।।

तत्रैवामृतकुण्डं तु कलाकुण्डं तु तत्स्मृतम् ।। तत्र स्नात्वा तु चंद्रेशं यो नरः पूजयिष्यति ।। २ ।।

स तु वर्षसहस्रस्य तपःफलमवाप्स्यति ।। तत्रैव संस्थितं देवि तडागं चंद्रनिर्मितम् ।। ३ ।।

धनुःषोडशविस्तारं चंद्रेशात्पूर्वपश्चिमे ।। तत्पूर्वं ते समाख्यातं मुक्तिदानादिपूर्वकम् ।। ४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य आशापूरमाहात्म्ये चंद्रेश्वरकलाकुण्डतीर्थमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ।। ३४२ ।।  ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि कपिलेश्वरमुत्तमम् ।। शीराभूषणपूर्वेण कोटितीर्थाच्च पश्चिमे ।।१ ।।

जरद्गवेशाद्दक्षिणे समुद्रोत्तरतस्तथा ।। एतद्वै कापिलं क्षेत्रं नापुण्यैः प्राप्यते नरैः ।। २ ।।

कपिलेन पुरा देवि यत्र तप्तं तपो महत् ।। वर्षाणामयुतं साग्रं प्रतिष्ठाप्य महेश्वरम् ।। ३ ।।

समाहूता तत्र देवी कपिलधारा महानदी ।। समुद्रमध्ये साऽद्यापि पुण्यवद्भिः प्रदृश्यते ।। ४ ।।

तत्र स्नात्वा महा देवि कपिलाषष्ठ्यां विशेषतः ।। कपिलां दापयेत्तत्र गोकोटिफलभाग्भवेत् ।। ५ ।।

सर्वेषां चैव पापानां प्रायश्चित्तमिदं स्मृतम् ।। कपिलेश्वरं तु संपूज्य कन्याकोटिफलं लभेत् ।। ६ ।।

।। देव्युवाच ।। ।।

आश्चर्यं मम देवेश कपिलषष्ठ्या महेश्वर ।। विधानं श्रोतुमिच्छामि दानमन्त्रादि पूर्वकम् ।। ७ ।।

।। ईश्वर उवाच ।। ।।

जन्मजीवितमध्ये तु यद्येका लभ्यते नरैः ।। संयोगयुक्ता सा षष्ठी तत्किं देवि ब्रवीम्यहम् ।। ८ ।।

प्रौष्ठपद्यसिते पक्षे षष्ठ्यामंगारको यदि ।। व्यतीपातश्च रोहिण्यां सा षष्ठी कपिला स्मृता ।।९।।

तत्र क्षेत्रे नरः स्नात्वा अथवार्कस्थले शुभे ।। मृदा शुक्ल तिलैश्चैव कपिलासंगमे शुभे ।। 7.1.343.१० ।।

कृतस्नानजपः पश्चात्सूर्यायार्घ्यं निवेदयेत् ।। रक्तचंदनतोयेन करवीरयुतेन च ।।

कृत्वार्घपात्रं शिरसि मंत्रे णानेन दापयेत् ।। ११ ।।

नमस्त्रैलोक्यनाथाय उद्भासितजगत्त्रय ।। वेदरश्मे नमस्तुभ्यं गृहाणार्घ्यं नमोऽस्तु ते ।। १२ ।।

सूर्यं प्रदक्षिणीकृत्य संपूज्य कपिलेश्वरम्।। उपलिप्ते शुभे देशे पुष्पाक्षतविभूषिते ।। १३ ।।

स्थापयेदव्रणं कुम्भं चन्दनोदकपूरितम् ।। पंचरत्नसमायुक्तं दूर्वापुष्पाक्षता न्वितम्।।१४।।

रक्तवस्त्रयुगच्छन्नं ताम्रपात्रेण संयुतम् ।। रथो रुक्मफलस्यैव एकचित्रविचित्रितः ।। १५ ।।

 

192b

सौवर्णपलसंयुक्तां मूर्तिं सूर्यस्य कारयेत्।। कुंभस्योपरि संस्थाप्य गंधपुष्पैः समर्चयेत् ।। १६ ।।

कपिलेश्वरसान्निध्ये मण्डपे होमसंस्कृते ।। आदित्यं पूजयेद्देवं नामभिः स्वैर्यथोदितैः ।। ।। १७ ।।

आदित्यभास्कर रवे भानो स्वयं दिवाकर ।। प्रभाकर नमस्तुभ्यं ससारान्मां समुद्धर ।। १८ ।।

भुक्तिमुक्तिप्रदो यस्मात्तस्माच्छांतिं प्रयच्छ नः ।।१९।।

।। प्रार्थनामन्त्रः ।। ।।

नमोनमस्ते वरद ऋक्सामयजुषांपते ।। नमोऽस्तुविश्वरूपाय विश्वधाम्ने नमोऽस्तु ते ।।7.1.343.२०।।

अमृतं देवि ते क्षीरं पवित्रमिह पुष्टिदम्।। त्वत्प्रसादात्प्रमुच्यंते मनुजाः सर्वपातकैः ।। २१ ।।

ब्रह्मणोत्पादिते देवि वह्निकुण्डान्महाप्रभे ।। नमस्ते कपिले पुण्ये सर्वदेवनमस्कृते ।।२२।।

सर्वदेवमये देवि सर्वतीर्थमये शुभे।।दातारं पूजयानं मां ब्रह्मलोकं नय स्वयम्।।२३ ।।

।। पूजामंत्रः ।। ।।

एवं संपूज्य कपिलां कुम्भस्थं च दिवाकरम्।। ब्राह्मणे वेदविदुष उभयं प्रतिपादयेत् ।।२४।।

व्यासाय सूर्यभक्ताय मंत्रेणानेन दापयेत् ।।२५।।

दिव्यमूर्त्तिर्जगच्चक्षु र्द्वादशात्मा दिवाकरः ।। कपिलासहितो देवो मम मुक्तिं प्रयच्छतु ।। २६ ।।

यस्मात्त्वं कपिले पुण्या सर्वलोकस्य पावनी ।। प्रदत्ता सह सृर्येण मम मुक्तिप्रदा भव ।। २७ ।।

पलेन दक्षिणा कार्या तदर्धार्धेन वा पुनः ।। शक्तितो दक्षिणायुक्तां तां धेनुं प्रतिपादयेत् ।। २८ ।।

योऽनेन विधिना कुर्या त्षष्ठीं कपिलसंज्ञिताम्।। सोऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।। २९ ।।

यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम् ।। तत्फलं सर्वमाप्नोति यः षष्ठीं कपिलां चरेत् ।। 7.1.343.३० ।।

कपिलाकोटिसहस्राणि कपिलाकोटिशतानि च ।। सूर्यपर्वणि यद्दत्त्वा तत्फलं कोटिशो भवेत् ।। ३१ ।।

कोटिगोरोम संख्यानि वर्षाणि वरवर्णिनि ।। तावत्स वसते स्वर्गे यः षष्ठीं कपिलां चरेत् ।। ३२ ।।

ज्ञानतोऽज्ञानतो वापि यत्पापं पूर्वसंचितम् ।। तत्सर्वं नाशमा याति इत्याह कपिलो मुनिः ।।३३।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपि लधाराकपिलेश्वरमाहात्म्ये कपिलाषष्ठीव्रतविधानमाहात्म्यवर्णनंनाम त्रिचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ३४३ ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि लिंगं पापप्रणाशनम् ।। कपिलेश्वरस्यैशान्यामुत्तरेण व्यवस्थितम् ।। १ ।।

जरद्गवेश्वरंनाम जरद्गवप्रतिष्ठितम् ।। ब्रह्महत्यादि पापानां नाशनं नात्र संशयः ।। २ ।।

तत्रैव संस्थिता देवि देवी अंशुमती नदी ।। तत्र स्नात्वा विधानेन पिडदानं तु दापयेत् ।। ३ ।।

वर्षकोटिशतं साग्रं पितॄणां तृप्तिमावहेत् ।। वृषभस्तत्र दातव्यो ब्राह्मणे वेदपारगे ।। ४ ।।

ततस्तु पूजयेद्देवं गन्धपुष्पैर्जरद्गवम् ।। पञ्चामृतरसेनैव तथा गुग्गु लुधूपनैः ।। ५ ।।

स्तुतिदण्डनमस्कारैः प्रदक्षिणैरहर्निशम् ।। ब्राह्मणान्भोजयेत्तत्र भक्ष्यभोज्यैः पृथग्विधैः ।।

 

193a

एकेन भोजितेनैव कोटिर्भवति भोजिता ।। ६ ।।

कृते सिद्धोदकंनाम तत्तीर्थं परिकीर्त्तितम् ।। जरद्गवेश्वरं तीर्थं कलौ तु परिकीर्त्यते ।। ७ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येंऽशुमतीमाहात्म्ये जरद्गवेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ३४४ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि लिंगं वै हाटकेश्वरम् ।। जरद्गवात्पूर्वभागे धनुषां षष्टिभिस्त्रिभिः ।। १ ।।

नाम्ना नलेश्वरं देवि स्थापितं तु नलेन वै ।। दमयन्तीयुतेनैव ज्ञात्वा क्षेत्रं तदुत्तमम् ।। २ ।।

तं दृष्ट्वा मानवो देवि पूजयित्वा विधानतः ।। कलि भिर्मुच्यते जंतुर्द्यूते च विजयी भवेत् ।। ३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नलेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ३४५ ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्मादाग्नेयदिग्भागे स्थितः कर्कोटको रविः ।। पूर्वकल्पे महादेवि स्मृतः कर्कोटकान्वितः ।। १ ।।

तस्य दर्शनमात्रेण प्रीताः स्युः सर्वदेवताः ।। सप्तम्यां रविवारेण धूप गंधानुलेपनैः ।।

पूजयेद्यो विधानेन मुच्यते सर्वकिल्बिषैः ।। २ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कर्कोटकार्कमाहात्म्यवर्णनंनाम षटचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ३४६ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि लिंगं वै हाटकेश्वरम् ।। नलेश्वरात्पूर्वभागे शतधन्वंतरद्वये ।। १ ।।

अगस्त्याम्रवनंनाम तत्र स्थाने तु संस्थितम् ।। चिंतामणेस्तु पूर्वेण ईशाने त्रिशतंधनुः ।।

तत्र पूर्वं तपस्तप्तमगस्त्येन महात्मना ।। २ ।।

।। देव्युवाच ।। ।।

कस्मिन्काले महादेव सर्वं विस्तरतो वद ।। ३ ।। ।।

।। ईश्वर उवाच ।। ।।

पुरा दैत्यगणा रौद्रा बभूवुर्वरवर्णिनि ।। कालकेया इति ख्यातास्त्रैलोक्योच्छेदकारकाः ।। ४ ।।

अथ ते निहताः सर्वे विष्णुना प्रभविष्णुना ।। दैत्यसूदननाम्ना तु प्रभासक्षेत्रवासिना ।। ५ ।।

कृत्वा व्याघ्रस्य रूपं तु नाम्ना चक्रमुखीति च ।। हता वै तेन रूपेण ततोऽ भूद्दैत्यसूदनः ।। ६ ।।

हतशेषाः समुद्रांते प्रविष्टा भयविह्वलाः ।। ततस्ते मंत्रयामासुः पीड्यंते देवताः कथम् ।।७।।

हन्यंतां धर्मिणो येऽत्र विद्यंते धर णीतले ।। तपःस्वाध्यायनिरता यज्ञदानरताश्च ये ।। ५ ।।

अथ ते समयं कृत्वा रात्रौ निष्क्रम्य सागरात् ।। निर्जघ्नुस्तापसांस्तत्र यज्ञदानरतान्प्रिये ।। ९ ।।

प्रभासे तु महादेवि तत्र द्वादशयोजने ।। वसिष्ठस्याश्रमे तत्र महर्षीणां महात्मनाम् ।। 7.1.347.१० ।।

भक्षितानि सहस्राणि पंच सप्त च तापसान् ।। शतानि पंच रैभ्यस्य विश्वामित्रस्य षोडश ।। ११ ।।

च्यवनस्य च सप्तैव जाबालेर्द्विशतं मुनेः ।। वालखिल्याश्रमे पुण्ये षट्छतानि दुरात्मभिः ।। १२ ।।

 

193b

यत्र क्वचिद्भवेद्यज्ञस्तत्र गत्वा निशागमे ।। यज्ञदानसमायुक्तानृत्विजो भक्षयंति च ।। १३ ।।

ततो भयाकुलाः सर्वे बभूवुर्जगती तले ।। न च कश्चिद्विजानाति दैत्यानां तु विचेष्टितम् ।। १४ ।।

रात्रौ स्वपंति मुनयः सुखशय्यागताश्च ते ।। प्रभाते त्वध्वरे तेषामस्थिसंघाश्च केव लम् ।।१५।।

ततो धर्मक्रियास्त्यक्ता  भूतले सर्वमानवैः ।। निःस्वाध्यायवषट्कारं भूतलं समपद्यत ।। १६ ।।

अथान्ये तापसा रात्रौ संयुताश्च च धृतायुधाः ।। अथोच्छेदं गते धर्मे पीडितास्त्रिदिवौकसः ।। १७ ।।

किमेतदिति जल्पंतो ब्रह्माणं शरणं गताः ।। भगवंस्तापसाः सर्वे तथा ये ज्ञानशीलिनः  ।। १८ ।।

भक्ष्यन्ते केनचिद्रात्रौ मृत्युमेव प्रयान्ति च ।। नष्टधर्मक्रियाः सर्वे भूतले प्रपितामह ।। १९ ।।

यो धर्ममाचरेदह्नि स रात्रौ मृत्युमेति च ।। न स्वाध्यायवषट्कारं समस्ते भूतले विभो ।। 7.1.347.२० ।।

धर्माभावाद्वयं सर्वे संदेहं परमं गताः ।। तेषां तद्वचनं श्रुत्वा ध्यात्वा देवः पितामहः ।।

अब्रवीत्त्रिदशान्सर्वान्सन्देहं परमं गतान् ।। २१ ।।

कालेया इति विख्याता दानवा रौद्रकारिणः ।। ते समुद्रं समासाद्य तापसान्भक्षयंति च ।। २२ ।।

युष्माकं च विनाशाय ते न शक्या निषूदितुम् ।। यतध्वमेषां नाशाय नो चेन्नाशो भविष्यति ।। २३ ।।

व्रजध्वं भूतले शीघ्रमगस्त्यो यत्र तिष्ठति।। व्रतचर्यारतो नित्यं प्रभासे क्षेत्र उत्तमे ।। २४ ।।

स शक्तः सागरं पातुं मित्रावरुणसंभवः ।। प्रसाद्यश्च स युष्माभिः समुद्रं पिब सत्तम ।। २५ ।।

ततस्तथा कृते तेन ते सर्वे दानवाधमाः ।। वध्या युष्माकं भविष्यंति एवं च त्रिदिवेश्वराः ।। २६ ।।

।। ईश्वर उवाच ।। ।।

एवमुक्ताः सुराः सर्वे ब्रह्मणा लोककारिणा ।। प्रभासं क्षेत्रमासाद्य अगस्त्यं शरणं गताः ।। २७ ।।

।। देवा ऊचुः ।। ।।

रक्षरक्ष द्विजश्रेष्ठ त्रैलोक्यं संशयं गतम् कालकेयैः प्रतिध्वस्तं समुद्रं समुपाश्रितैः ।। २८ ।।

तं शोषय द्विजश्रेष्ठ हितार्थं त्रिदिवौकसाम् ।। नान्यः शक्तः पुमान्कश्चित्कर्तुमीदृक्क्रिया विभो ।। २९ ।।

।। ईश्वर उवाच ।। ।।

एवमुक्तः सुरगणैरगस्त्यो मुनिपुङ्गवः ।। जगाम त्रिदशैः सार्धं समुद्रं प्रति हर्षितः ।। 7.1.347.३० ।।

गीयमानस्तु गंधर्वैः स्तूयमानस्तु किन्नरैः ।। श्लाघ्यमानस्तु विबुधैर्वाक्यमेतदुवाच ह ।। ३१ ।।

एष त्रैलोक्यरक्षार्थं शोषयामि महार्णवम् ।। द्रक्ष्यध्वं कौतुकं देवाः समी नमकरैर्महत् ।। ३२ ।।

एवमुक्त्वा द्विजश्रेष्ठो ह्यगस्त्यो भगवान्मुनिः ।। गंडूषमकरोत्सर्वं सागरं सरितांपतिम् ।। ३३ ।।

पीते तत्र महासिन्धावगत्स्ये न महात्मना ।। दानवा भयसंत्रस्ता इतश्चेतश्च बभ्रमुः ।। ३४ ।।

वध्यमानाः सुरैस्तत्र शस्त्रैः सुनिशितैस्तथा ।। कांतारमन्ये गच्छंतः पलायनपरा यणा ।। ३५ ।।

हतभूयेषु दैत्येषु विदार्य धरणीतलम् ।। पातालं विविशुस्तूर्णं रुधिरेण परिप्लुताः ।। ३६ ।।

 

194a

अथोचुस्त्रिदशा हृष्टा अगस्त्यं मुनिसत्तमम् ।। सिद्धं नो वांछितं सर्वं पूर्यतां सागरः पुनः ।। ३७ ।।

।। अगस्त्य उवाच ।। ।।

जीर्णं तोयं मया देवास्तथैवामेध्यतां गतम् ।। उत्पत्स्य ति रघूणां हि कुले नृपतिसत्तमः ।। ३८ ।।

भगीरथेति विख्यातः सर्वशस्त्रभृतां वरः ।। स ज्ञातिकारणादेव गंगां तत्रानयिष्यति ।। ३९ ।।

ब्रह्मलोका त्सरिच्छ्रेष्ठां तया पूर्णो भविष्यति।। एवमुक्त्वा सुरैः सार्द्धं स्वस्थानं चागमन्मुनिः ।। 7.1.347.४० ।।

ततः स्वमाश्रमं प्राप्तं देवा वाक्यमथाबुवन् ।। अनेन कर्मणा ब्रह्मन्परितुष्टा वयं मुने ।। ४१ ।।

किं कुर्मो ब्रूहि तेऽभीष्टं यद्यपि स्यात्सुदुर्लभम् ।। ४२ ।।

।। अगस्त्य उवाच ।। ।।

यावद्ब्रह्मसहस्राणि पंचविंशतिकोटयः ।। वैमानिको भविष्यामि दक्षिणांबरमूर्द्धनि ।। ४३ ।।

अत्रागत्य नरो यस्तु ममाश्रमपदे शुभे ।। हाटकेश्वरसांनिध्ये प्रभा सक्षेत्र उत्तमे ।। ४४ ।।

स्नानमाचरते सम्यक्स यातु परमां गतिम् ।। पातालादवतीर्णं तं लिंगरूपं महेश्वरम् ।। ४५ ।।

मया तपः प्रभावेन स्थापितं यः प्रपूजयेत् ।। दिनेदिने भवेत्तस्य गोशतस्य फलं ध्रुवम् ।। ४६ ।।

लोपामुद्रासहायं मां यो मर्त्यः संप्रपूजयेत् ।। अर्घ्यं दद्याद्विधानेन काश पुष्पैः समाहितः ।। ४७ ।।

प्राप्ते शरदि काले च स यातु परमां गतिम् ।। लोपामुद्रासहायं मां हाटकेश्वरसंयुतम् ।। ४८ ।।

अयने चोत्तरे पूज्य गोलक्ष फलमाप्नुयात् ।। यः श्राद्धं कुरुते चात्र अयने चोत्तरे द्विजः।।

भूयात्तस्य फलं कृत्स्नं गयाश्राद्धस्य सत्तमाः ।। ४९ ।।

।। ईश्वर उवाच ।। ।।

बाढमित्ये व ते चोक्त्वा सर्वे देवाः सवासवाः।। स्वस्थानं तु गताः सर्वे संहृष्टमनसस्तदा ।।7.1.347.५०।।

तस्मात्सर्वप्रयत्नेन प्राप्ते शरदि मानवः।।अगस्त्यस्याश्रमं गत्वा हाटकेशं प्रपूजयेत् ।। ५१ ।।

अगस्त्येश्वरनामानं कल्पलिंगं सुरप्रियम् ।। यश्चैतच्छुणुयाद्भक्त्या ऋषेस्तस्य विचेष्टितम्।।

अहोरात्रकृतात्पापात्तत्क्षणा देव मुच्यते ।। ५२ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये हाटकेश्वरमाहात्म्य वर्णनंनाम षट्चत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ३४६(?) ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि पश्चिमे नारदेश्वरीम् ।। नारदेश्वरसांनिध्ये सर्वदौर्भाग्यनाशनीम् ।। १ ।।

या नारी पूजयेद्देवीं तृतीयायां समाहिता ।। तदन्वये न दौर्भाग्ययुक्ता नारी भविष्यति ।। २ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारदेश्वरीमाहात्म्यवर्णनंनाम सप्तचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ३४७ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि देवीं मंत्रविभूषणा म् ।। भीमेश्वरस्य सान्निध्ये सोमेनाराधितां पुरा ।। १ ।।

श्रावणे मासि विधिना या नारी तां प्रपूजयेत् ।। तृतीयायां शुक्लपक्षे सा दुःखे र्मुच्यतेऽखिलैः ।। २ ।।

 

194b

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मन्त्रविभूषणागौरी माहात्म्यवर्णनंनामाष्टाचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ३४८ ।। 

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि विश्वेशं दुर्गकूट कम् ।। भल्लतीर्थस्य पूर्वेण योगिनीचक्रदक्षिणे ।। १ ।।

आराधितोऽसौ भीमेन सर्वकामप्रदोऽभवत् ।। फाल्गुनस्य चतुर्थ्यां तु शुक्लपक्षे विधानतः ।। ।। २ ।।

यस्तं पूजयते देवं गन्धपुष्पैः समोदकैः ।। निर्विघ्नं जायते तस्य वर्षमेकं न संशयः ।। ३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुर्गकूटगणपतिमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तरत्रिशततमोऽध्यायः ।। ३४९ ।। छ ।। ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि तस्माद्वै कौरवेश्वरीम् ।। यस्य नाम्ना कुरुक्षेत्रं तेन साराधिता पुरा ।। १ ।।

आराधिताऽसौ भीमेन कृत्वा क्षेत्रस्य रक्षणम् ।। महानवम्यां यत्नेन यस्तां पूजयते नरः ।।

तं पुत्रमिव कल्याणी रक्षते नात्र संशयः ।। २ ।।

भोजनं तत्र दातव्यं दंपतीनां न संशयः ।। दिव्यैर्भक्ष्यैः सुमिष्टान्नैः सा तुष्यति ततः स्तुता ।। ३ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कौरवेश्वरीमाहात्म्यवर्णनंनाम पञ्चाशदुत्तरत्रिशततमोऽध्यायः ।। ३५० ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि सुपर्णेलां च भैरवीम् ।। दुर्गकूटाद्दक्षिणतो धनुःपंचशतांतरे ।। १ ।।

सुपर्णेन पुरा देवि पातालादमृतं हृतम् ।। गृहीत्वा तत्र मुक्तं तु नागानां पश्यतां किल ।। २ ।।

ततो देव्या तदा दृष्ट्वा रक्षितं नागपार्श्वतः ।। ततः सुपर्णेलेत्येवं ख्याता सा वसुधातले ।। ३ ।।

इला तु कथ्यते भूमिः सुपर्णेन प्रतिष्ठिता ।। ततः सुपर्णेलेत्येव नाम्ना पातकनाशिनी ।। ४ ।।

सुपर्णकुण्डे तत्रैव स्नात्वा तां पूजयेन्नरः ।। विप्रेभ्यो भोजनं दद्यान्नाप द्भिर्म्रियते नरः ।।

जीववत्सा भवेन्नारी आत्मजैश्चाप्यलंकृता ।। ५ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये सुपर्णेलामाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरत्रिशततमोऽध्यायः ।।३५१।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि भल्लतीर्थमनुत्तमम् ।। तस्याश्च पश्चिमे भागे यत्र विष्णुश्चतुर्भुजः ।। १ ।।

यत्र त्यक्तं शरीरं तु विष्णुना प्रभविष्णुना ।। तस्मिन्मित्रवने रम्ये योजनार्द्धार्द्धविस्तृते ।। २ ।।

युगेयुगे महादेवि कल्पमन्वतरादिषु ।। तत्रैव संस्थितिर्विष्णोर्नान्यत्र च रतिर्भवेत् ।। ३ ।।

क्षेत्राणामादिक्षेत्रं तु वैष्णवं तद्विदुर्बुधाः।। तिस्रः कोट्यर्द्धकोटिश्च तीर्थानां प्रवराणि च।। ४ ।।

दिवि भुव्यंतरिक्षे च तानि तत्रैव भामिनि।। तत्र मूर्तिमती गंगा स्वयमेव व्यवस्थिता ।। ५ ।।

 

195a

विष्णोः संप्लवनार्थाय प्राणिनां च हिताय वै ।। गंगा गया कुरुक्षेत्रं नैमिषं पुष्कराणि च ।। ६ ।।

पुरी द्वारवतीं त्यक्त्वा अत्रैव वसते हरिः ।। तस्यौर्ध्वदैहिकं देवि प्रकरोमि युगेयुगे ।। ७ ।।

नभस्ये द्वादशीयोगे तत्र गत्वा स्वयं प्रिये ।। करोमि तद्विधानेन तत्र ब्राह्मणपुं गवैः ।। ८ ।।

तत्र दत्त्वा तु दानानि विधिवद्वेदपारगे ।। तत्रैव द्वादशीयोगे स्नात्वा चैव विधानतः ।। ९ ।।

सन्तर्प्य च पितॄन्भक्त्या मुच्यते सर्वपा तकैः ।। तत्र विष्णुं तु संपूज्य कृत्वा जागरणं निशि ।। 7.1.352.१० ।।

दीपादिदानं कृत्वा तु कृतकृत्योऽभिजायते ।। ११ ।।

अथ तस्य प्रवक्ष्यामि पुरावृत्त महं प्रिये ।। संहृत्य यादवान्सर्वान्वासुदेवः प्रतापवान् ।। १२ ।।

दुर्वाससाऽनुलिप्तेन पायसेन पदस्तले ।। वज्रांगभूतदेहस्तु सर्वव्यापी जनार्द्दनः ।। ।। १३ ।।

गत्वा तीरे समुद्रस्य समाधिस्थो बभूव ह ।। सर्वस्रोतांसि संयम्य निवेश्यात्मानमात्मनि ।। १४ ।।

एतस्मिन्नंतरे प्राप्तो बाणहस्तो जरा भिधः ।। दाशपुत्रोऽतिकृष्णांगो मत्स्यघाती च पापकृत् ।। १५ ।।

तेन दृष्टस्ततो दूरान्निषादात्मसमुद्भवः ।। विष्णोः पदं मृगं मत्वा शरं तस्य मुमोच ह ।। १६ ।।

ततोऽसौ पश्यते यावद्गत्वा तस्य च संनिधौ ।। चतुर्बाहुं महाकायं शंखचक्रगदाधरम् ।। १७ ।।

पुरुषं नीलमेघाभं पुडरीकनिभे क्षणम् ।। तं दृष्ट्वा भयभीतस्तु वेपमानः कृतांजलिः ।।

अब्रवीन्न मया ज्ञातस्त्वं विभो दिव्यरूपधृक् ।। १८ ।।

अज्ञानात्त्वं मया विद्धस्त्वत्पदाग्रे सुरोत्तम ।। क्षन्तुमर्हसि मे नाथ न त्वं क्रोद्धुमिहार्हसि ।। १९ ।।

।। विष्णुरुवाच ।। ।।

शापस्यांतोद्य मे भद्र शरपातात्कृतस्त्वया ।। तस्मात्त्वं मत्प्रसादेन स्वर्गं गच्छ महाद्युते ।। 7.1.352.२० ।।

ये चान्ये मामिहागत्य द्रक्ष्यंति हि नरोत्तमाः ।। ते यास्यंति परं स्थानं यत्राहं नित्यसंस्थितः ।। २१ ।।

भल्लेनाहं यतो विद्धस्त्वया पादतले शुभे ।। भल्लतीर्थमिति ख्यातं ततो ह्येतद्भविष्यति ।। २२ ।।

हरिक्षेत्रमिति प्रोक्तं पूर्वं स्वायंभुवेऽन्तरे ।। २३ ।। 

।। ईश्वर उवाच ।। ।।

इत्युक्त्वांतर्दधे विष्णुर्लुब्धकोऽपि दिवं गतः ।। येऽत्र स्नानं करिष्यंति भक्त्या परमया युताः ।।

विष्णुलोकं गमिष्यंति प्रीत्या ते मत्प्रसादतः ।। २४ ।।

येऽत्र श्राद्धं करिष्यंति पितृभक्तिपरायणाः ।। तृप्तिं तेषां गमिष्यंति पितरश्चैव तर्पिताः ।। २५ ।।

तस्मात्सर्वप्रयत्नेन प्राप्य तत्क्षेत्रमुत्तमम् ।। दृश्यो देवश्चतुर्बाहुः स्नात्वा तीर्थे तु भल्लके ।। २६ ।।

मद्भक्तिबलदर्पिष्ठा मत्प्रियं न नमंति ये ।। वासुदेवं न ते ज्ञेया मद्भक्ताः पापिनो हि ते।।२७।।

मद्भक्तोऽपि हि यो भूत्वा भुंक्त एकादशीदिने।। मल्लिंगस्यार्चनं कार्यं न तेन पापबुद्धिना।।२८।।

या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा।। न तां चोपोषयेद्यस्तु स पापिष्ठतराधिकः।।२९।।

तद्वत्स द्वादशीयोगे भल्लतीर्थस्य संनिधौ।। यस्तु मां पूजयेद्भक्त्या नारी वाऽपि नरोऽपि वा ।।

 

195b

तस्य जन्मसहस्राणि गृहभंगो न जायते।।7.1.352.३०।।

इत्येतत्कथितं देवि माहात्म्यं पापनाशनम्।। भल्लतीर्थस्य विष्णोस्तु सर्व पातकनाशनम् ।।३१।।

तत्र विष्णोस्तु सांनिध्ये वायव्ये कुम्भमुत्तमम्।। भल्लतीर्थं तु विख्यातं यत्र भल्लहतो हरिः ।।३२।।

तत्र देयानि वासांसि पदं गावो विधानतः ।। देयानि विप्रमुख्येभ्यः सम्यग्यात्राफलेप्सुभिः।।३३।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भल्लतीर्थमाहात्म्यवर्णनंनाम द्विपञ्चाशदुत्तरत्रिशततमोऽध्यायः ।।३५२।। 

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि कर्दमालमनुत्तमम् ।। तीर्थं त्रैलोक्यविख्यातं सर्वपातकनाशनम् ।। १ ।।

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजंगमे ।। चन्द्रार्कतपने नष्टे ज्योतिषि प्रलयं गते ।। २ ।।

रसातलगतामुर्वीं दृष्ट्वा देवो जनार्दनः ।। वाराहं रूपमास्थाय दंष्ट्राग्रेण वरानने ।।

उत्क्षिप्य धरणीं मूर्ध्ना स्वस्थाने संन्यवेशयत् ।। ३।।

उद्धृत्य भगवान्विष्णुर्वाक्यमेतदुवाच ह ।। ४ ।।

अत्र स्थाने स्थितेनैव मया त्वं देवि चोद्धृता ।। ममात्र नियतं वासः सदैवायं भविष्यति ।। ५ ।।

ये पितॄंस्तर्पयिष्यंति कर्दमाले वरानने ।। आकल्पं तर्पितास्तेन भविष्यंति न संशयः ।। ६ ।।

तत्र श्राद्धं करिष्यंति शाकैर्मूलफलेन वा ।। भविष्यति कृतं श्राद्धं सर्वतीर्थेषु वै शुभे ।। ७ ।।

अत्र तीर्थे नरः स्नात्वा यो मां पश्यति मानवः ।। अपि कीटपतंगा ये निधनं यांति मानवाः ।।

ते मृतास्त्रि दिवं यान्ति सुकृतेन यथा द्विजाः ।। ८ ।।

ततो द्वीपेषु जायन्ते धनाढ्याश्चोत्तमे कुले ।। दंष्ट्राभेदेन यत्तोयं निर्गतं ते शरीरतः ।। ९ ।।

तत्र स्नात्वा नरो देवि तिर्यग्योनौ न जायते ।। 7.1.353.१० ।।

।। ईश्वर उवाच ।। ।।

शृणु देवि यथावृत्तमाश्चर्यं तत्र वै पुरा ।। मृगयूथं सुसन्त्रस्तं लुब्धकैः परिपीडितम् ।।

प्रविष्टं कर्दमाले तु सद्यो मानुषतां गतम् ।। ११ ।।

अथ ते लुब्धका दृष्ट्वा विस्मयोत्फुल्ललोचनाः ।। अपृच्छंत च संभ्रातास्तान्मर्त्यान्वरव र्णिनि ।। १२ ।।

मृगयूथमनुप्राप्तं केन मार्गेण निर्गतम् ।। अथोचुस्ते वयं प्राप्ता मानुषं मृगरूपिणः ।। १३ ।।

एतत्तीर्थप्रभावोऽयं न विद्मो ह्यात्म कारणम् ।। ततस्ते लुब्धकास्त्यक्त्वा धनूंषि सशराणि च ।।

तत्र स्नात्वा महाभागे मुक्ताश्च सर्वपातकैः ।। १४ ।।

।। पार्वत्युवाच ।। ।।

भगवन्विस्तरं ब्रूहि कर्दमालमहोदयम् ।। उत्पत्तिं च विधानं च क्षेत्रसीमादिकं क्रमात् ।। १५ ।।

।। ईश्वर उवाच ।। ।।

शृणु देवि रहस्यं तु कर्द मालसमुद्भवम् ।। गूढं ब्रह्मर्षिसर्वस्वं न देयं कस्यचित्त्वया ।। १६ ।।

पूर्वमेकार्णवे घोरे नष्टे स्थावरजंगमे ।। चन्द्रार्कपवने नष्टे ज्योतिषि प्रलयं गते ।। १७ ।।

एकार्णवं जगदिदं ब्रह्मापश्यदशेषतः ।। तस्मिन्वसुमती मग्ना पातालतलमागता ।। १८ ।।

 

196a

ततो यज्ञवराहोऽसौ कृत्वा यज्ञमयं वपुः ।। उद्दधार महीं कृत्स्नां दंष्ट्राग्रेण वरानने ।। १९ ।।

वेदपादो यूपदंष्ट्रः क्रतुदंतःस्रुचीमुखः ।। अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षा महातपाः ।। 7.1.353.२० ।।

अहोरात्रेक्षणपरो वेदांगश्रुतिभूषणः ।। आज्यनासः स्रुवतुडः सामघोषस्वनो महान् ।। २१ ।।

प्राग्वंशकायो द्युतिमान्मात्रादीक्षाभिरावृतः ।। दक्षिणा हृदयो योगी महासत्रमहो महान् ।। २२ ।।

उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ।। नानाच्छन्दोगतिपथो ब्रह्मोक्तक्रमविक्रमः ।।२३ ।।

भूत्वा यज्ञवराहोऽसावुद्दधार महीं ततः ।। तस्योद्धृतवतः पृथ्वीं दंष्ट्राग्रं निर्गतं बहिः ।। २४ ।।

तस्मिन्प्राभासिके क्षेत्रे कर्द्दमेन विलेपितम् ।। तद्दंष्ट्राग्रं यतो देवि कर्द्दमालं ततः स्मृतम् ।। २५ ।।

दण्डोद्भेदं महाकुण्डं यत्र दंष्ट्रा सुसंस्थिता ।। तद्दंष्ट्रयोद्धृतं तोयं कोटिगंगाभिषेकवत् ।। २६ ।।

तत्र गव्यूति मात्रं तु विष्णुक्षेत्रं सनातनम् ।। देशांतरं गता ये च दण्डोद्भेदे म्रियंति वै ।।

यावत्कल्पसहस्राणि विष्णुलोकं व्रजंति ते ।।२७।।

यस्तु पश्येन्महादेवि कर्दमाले तु सूकरम् ।। कोटिहिंसायुतो वापि स प्राप्स्यति परां गतिम् ।। २८ ।।

दशजन्मकृतं पापं नश्येत्तद्दर्शनात्प्रिये ।। जन्मान्तरसहस्रेषु यत्कृतं पापसंचयम् ।। २९ ।।

कर्दमाले तु वाराहं दृष्ट्वा तन्नाशमेष्यति ।। हेमकोटिसहस्राणि गवां कोटिशतानि च ।। 7.1.353.३० ।।

दत्त्वा यल्लभते पुण्यं सकृद्वाराहदर्शनात् ।। कलौ युगे महारौद्रे प्राणिनां च भयावहे ।।

नान्यत्र जायते मुक्तिर्मुक्त्वा क्षेत्रं तु सौकरम् ।। ३१ ।।

एतत्सारतरं देवि प्रोक्तमुद्देशतस्तव ।। कर्द्दमालस्य माहात्म्यं सर्वपातकनाशनम् ।। ३२ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कर्द्दमालमाहात्म्यवर्णनंनाम त्रिपञ्चाशदुत्तरत्रिशततमोऽध्यायः ।।३५३ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि देवगुप्तेश्वरं प्रिये ।। तत्र पश्चिमवायव्ये यत्र सोमोऽकरोत्तपः ।। १ ।।

गुप्तो भूत्वा कुष्ठरोगाल्लज्जयाधोमुखः स्थितः ।। दिव्यं वर्षसहस्रं तु प्रभासक्षेत्र उत्तमे ।। २ ।।

ततः प्रत्यक्षतां यातः सर्वदेवपतिः शिवः ।। तुष्टो बभूव चंद्रस्य क्षयनाशं तथाऽकरोत् ।। ३ ।।

क्षयरोगविनिर्मुक्तस्ततोऽभून्मृगलांछनः ।। प्रतिष्ठाप्य महालिंगं सुरासुरनमस्कृतम् ।। ४ ।।

गुप्तस्तेपे तपो यस्मात्तस्माद्गुप्तेश्वरः स्मृतः ।। सर्वकुष्ठहरो देवो दर्शनात्स्पर्शनादपि ।। ५ ।।

सोमवारे विशेषेण यस्तल्लिंगं प्रपूजयेत् ।। तस्यान्वयेऽपि देवेशि कुष्ठी कश्चिन्न जायते ।। ६ ।।

इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुप्तेश्वरमाहात्म्यवर्णनंनाम चतुष्पञ्चाशदुत्तरत्रिशततमो ऽध्यायः ।। ३५४ ।।  

।। ईश्वर उवाच ।। ।। ततो गच्छेन्महादेवि देवं बहुसुवर्णकम् ।। हिरण्यापूर्वदिग्भागे स्थाने बहुसुवर्णके ।। १ ।। 

 

196b

धर्मपुत्रेण यत्रैव कृतो यज्ञः सुदुष्करः ।। नाम्ना बहुसुवर्णेति स्थाप्य लिंगं महाप्रभम् ।। २ ।।

सर्वक्रतूनां फलदं नाम्ना सर्वेश्वरं विदुः ।। तत्रैव संस्थितं लिंगं पूर्णं सारस्वतैर्जलैः ।। ३ ।।

स्नात्वा तत्र वरारोहे पिण्डदानं ददाति यः ।। कुलकोटिं समुद्धृत्य रुद्रलोके महीयते ।। ४ ।।

यस्तं पूज यते भक्त्या गन्धपुष्पैर्विधानतः ।। कोटिपूजाफलं तस्य तथेत्याह सदाशिवः ।। ५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बहुसुवर्णेश्वरमाहात्म्यवर्णनंनाम पञ्चपञ्चाशदुत्तरत्रिशततमोऽध्यायः ।। ३५५ ।। ।। छ ।। ।। ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि शृंगेश्वरमनुत्तमम् ।। शुकस्थानस्य सान्निध्ये सर्वपातकनाशनम् ।। १ ।।

स्नात्वा तत्रैव विधिव च्छृंगेशं पूजयेन्नरः ।। मुक्तः स्यात्पातकैः सर्वैर्ऋष्यशृंगो   यथा पुरा ।। २ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शृंगेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशदुत्तरत्रिशततमोऽध्यायः ।। ३५६ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

तस्मादीशानदिग्भागे तत्कोटिनगरं स्मृतम् ।। तस्य दक्षिणदिग्भागे स्थितं योजनमात्रकम् ।।

कोटीश्वरं महालिंगं कोटियज्ञफलप्रदम् ।। १ ।।

स्नात्वा तत्र विधानेन यस्तल्लिंगं प्रपूजयेत् ।। स मुक्तः पातकैः सर्वैः कोटियज्ञफलं लभेत् ।। २ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटीश्वरमाहात्म्यवर्णनंनाम सप्तपंचाशदुत्तरत्रिशततमोऽध्यायः ।। ३५७ ।। ।। छ ।। ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि तीर्थं नारायणाभिधम् ।। तस्यैवेशानदिग्भागे वापी शांडिल्यकीर्तिता ।। १ ।।

स्नात्वा तत्रैव विधिवच्छांडिल्यं यः प्रपूजयेत् ।। ऋषिपंचम्यां विधिना नारी चैव पतिव्रता ।।

स्पृष्ट्वास्पृष्ट्वा विमुच्येत रजोदोषभयाद्ध्रुवम् ।। २ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारायणतीर्थमाहात्म्यवर्णनंनामा ष्टापंचाशदुत्तरत्रिशततमोऽध्यायः ।। ३५८ ।। ।। छ ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि स्थानं शृंगसरोऽभिधम् ।। १ ।।

शृंगारेश्वरनामा च तत्र देवः प्रतिष्ठितः ।। शृङ्गारं विधिवच्चक्रे यत्र गोपीयुतो हरिः ।। २ ।।

शृङ्गारेश्वरनामा च तेन पापौघनाशनः ।। पूजयेद्यो विधानेन तत्र स्थाने स्थितं भवम् ।।

दारिद्र्यदुःखसंयुक्तो न स भूयाद्भवे क्वचित् ।। ३ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शृंगारेश्वरमाहात्म्यवर्णनंनामैकोनषष्ट्युत्तरत्रिशततमोऽध्यायः ।। ३५९ ।।

 

197a

।। ।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि हिरण्यातटसंस्थितम् ।। घटिकास्थानमिति च यत्र सिद्धः पुरा ऋषिः ।। १ ।।

नाड्यैकया मृकण्डस्तु ध्यानयोगाद्वरानने ।। तत्रैव स्थापितं लिंगं मार्कंडेश्वरनामतः ।।

सर्वपापोपशमनं दर्शनात्पूजनादपि ।। २ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मार्कंडेश्वरमाहात्म्यवर्णनंनाम षष्ट्युत्तर त्रिशततमोऽध्यायः ।। ३६० ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि मण्डूकेश्वरमित्यपि ।। मांडूक्यायननाम्ना वै लिंगं तत्र प्रतिष्ठितम् ।। १ ।।

तत्र कोटिह्रदो देवि तथा कोटीश्वरः शिवः ।। तत्र मातृगणश्चैव स्थितः कामफलप्रदः ।। २ ।।

स्नात्वा कोटि ह्रदे तीर्थे तल्लिंगं यः प्रपूजयेत् ।। मातॄस्तत्रैव संपूज्य दुःखशोकाद्विमुच्यते ।। ३ ।।

तस्मात्पूर्वेण देवेशि योजनैकेन निर्मलम् ।। त्रितकूपेति विख्यातं सर्वपातकनाशनम् ।।

सर्वेषां देवि तीर्थानां यत्तत्रैव व्यवस्थितिः ।। ४ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटिह्रद मण्डूकेश्वरमाहात्म्य वर्णनं नामैकषष्ट्युत्तरत्रिशततमोऽध्यायः ।। ३६१ ।। 

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि गोष्पदस्योत्तरे स्थितम् ।। गव्यूतिद्वितयेनैव वलाय इति विश्रुतम् ।। १ ।।

तत्रैकादशरुद्राणां स्थानलिंगान्यपि प्रिये ।। अजैकपादहिर्बुध्न्यः संतीत्यादीनि नामतः ।।

पूजयेत्तानि विधिवन्मुच्यते सर्वपातकैः ।। २ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रलिंगमाहात्म्यवर्णनंनाम द्विषष्ट्युत्तरत्रिशततमोऽध्यायः ।। ३६२ ।। ।। छ ।। ।।

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि हिरण्यातटसंस्थितम् ।। स्थानं तुण्डपुरंनाम यत्रासौ घर्घरो ह्रदः ।। १ ।।

तत्र कन्देश्वरो देवो यत्र बद्धा जटा मया ।। तत्र स्नात्वा नरः सम्यक्त्ं देवं यः प्रपूजयेत् ।।

स मुक्तः पातकैर्घोरैः प्राप्नुयाच्छासनं शुभम् ।। २ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये हिरण्यातुण्डपुर घर्घरह्रदकन्देश्वर माहात्म्यवर्णनंनाम त्रिषष्ट्युत्तरत्रिशतत मोऽध्यायः ।।३६३।। 

।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि संवर्तेश्वरमुत्तमम् ।। इन्द्रेश्वरात्पश्चिमतः पूर्वतश्चार्कभास्करात ।। १ ।।

तं दृष्ट्वा तु महादेवं स्नात्वा पुष्करिणीजले ।। दशानामश्वमेधानां फलमाप्नोति मानवः ।। २ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संवर्तेश्वरमाहात्म्यवर्णनंनाम चतुष्षष्ट्युत्तरत्रिशततमोऽध्यायः ।। ३६४ ।। ।। छ ।। ।।

 

197b

।। ।। ईश्वर उवाच ।। ।।

ततो गच्छेन्महादेवि हिरण्यायाश्च उत्तरे ।। सिद्धिस्थानानि दिव्यानि यत्र सिद्धा महर्षयः ।। १ ।।

तत्र लिंगान्यनेकानि शक्यंते कथितुं न हि ।। साग्रं शतं पुनस्तत्र लिंगानां प्रवरं स्मृतम् ।।२।।

वज्रिण्यास्तु तटे देवि लिंगान्येकोनविंशतिः ।। न्यंकुमत्यास्तटे देवि सहस्रं द्विशताधिकम् ।। ३ ।।

प्राधान्येन वरारोहे पूर्वे स्वायंभुवेंऽतरे ।। कपिलायास्तटेदेवि लिंगानां षष्टिरुत्तमा ।। ४ ।।

सरस्वत्यां पुनस्तत्र लिंगसंख्या न विद्यते ।। एवं पंचमुखा देवि लिंगमाला विभूषिता ।। ५ ।।

प्रभासे कथिता देवि पंचस्रोताः सरस्वती ।। यस्याः प्रवाहैः संभिन्नं क्षेत्रं द्वादशयोजनम् ।। ।। ६।।

तत्र वापीषु कूपेषु यत्र तत्रोद्भवं जलम् ।। सारस्वतं तु तज्ज्ञेयं ते धन्या ये पिबंति तत् ।। ७ ।।

यत्रतत्र नरः स्नात्वा सम्यक्छ्रद्धासमन्वितः ।। सारस्वतस्नानफलं लभते नात्र संशयः ।। ८ ।।

यत्प्रोक्तं स्पर्शलिंगं तु श्रीसोमेशेति विश्रुतम् ।। प्रभासक्षेत्रलिंगानां कला तस्यैव शांकरी ।।९ ।।

यद्वा तद्वा पूजयित्वा लिंगं क्षेत्रस्य मध्यगम् ।। श्रीसोमेशमिति ज्ञात्वा सोमेशः पूजितो भवेत् ।।7.1.366.१०।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रकीर्णस्थानलिंगमाहात्म्यवर्णनंनाम पंचषष्ट्युत्तरत्रिशततमोऽध्यायः ।। ३६५ ।। ।। छ ।।

 

इति श्रीस्कान्दे महापुराणे सप्तमे प्रभासखण्डे प्रथमं प्रभासक्षेत्र माहात्म्यं सम्पूर्णम् ।। ( -) ।।

 

पूर्ववर्ती पृष्ठः (अध्यायाः २१० - २८०)

आगामी पृष्ठः (विषयानुक्रमणिका)