स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/१८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

पूर्व पृष्ठः (अध्यायाः १६१ - १७०) | आगामी पृष्ठः (अध्यायाः १८१ - १८४)



916
व्यास उवाच
श्रुतं मयैतद् भगवन् दहनं त्रिपुरस्य तु ।
विचित्रार्थं यथावृत्तं क एवमभिधास्यति ।। १ । ।
कस्मात् क्रुद्धो नगेन्द्रं तं क्रौञ्चं दारितवान् गुहः ।
पक्षान् सर्वगिरीन्द्राणां१ कस्माच्चिच्छेद वासवः । ।२ ।
सनत्कुमार उवाच
शृणु व्यास महाबुद्धे यन्मां त्वं परिपृच्छसि२ ।
कुमारेण यथा भिन्नो मैनाकिः३ क्रौञ्चपर्वतः ।।३ ।।
गिरिराजमथाभ्येत्य मेरुं सर्वसुरालयम् ।
अपश्यद्वासवः स्कन्दं संघातं तेजसामिव । ।४। ।
शरस्तम्बवने दृष्ट्वा कुमारमनलप्रभम्४ ।
सुरराज्यमदाविष्टः शक्रः पप्रच्छ षण्मुखम् । ।५।।
कस्त्वं दिव्यवपुर्बाल मेरुपर्वतमाश्रितः ।
न मां पूजयसे दृष्ट्वा देवराजमिहागतम् । ।६। ।
तमेवं वादिनं शक्रं प्राह शूलधरात्मजः ।
ब्रह्माद्या मां विजानन्ति सिद्धा वेदविदश्च ये । ।७।।
तपसा लब्धराज्येन न चिरादस्तमेष्यता५ ।
किं त्वया जानता शक्र कार्यं किं पूजितेन वा । ।८ । ।
अथोवाच पुनः शक्रस्तं देव६मनलात्मजम्७ ।
मत्तः परतरो८ नास्ति मुक्त्वा शर्वपितामहौ ।।९। ।
कथमेवमवोचस्त्वं९ विबुधाधिपमागतम् ।
यदि मत्तस्त्वमात्मानं महान्तं मन्यसेनघ । । 8.171.१० ।।
मैनाकतनयो ह्येष क्रौञ्चसिद्धनिषेवितः१० ।
सुविस्तीर्णो महाशैलो नैकनिर्झरनिस्रवः । । ११ । ।
एह्येहि११ त्वं मया सार्धं कुरु शीघ्र प्रदक्षिणम् ।
य एनमावयोरेकः पूर्वमेव क्रमिष्यति । । १२ । ।
- - - - - - - - -- - -
१ सर्वगिरीणां च - ख. । २ पृष्टवानसि - क । ३ मैनाकः - ख. । ४ कुमारं ह्यनलप्रभम् - ख. । ५.. तो - क. ख. ६ शक्रस्तदेव - क. । ७.. मनलात्मजः - क. । ८ परतरं - ख. । ९ कथं मिथ्य(ा)- मवोचस्त्वं - ख. । १० सिद्धर्षिसेवितः - ख. । ११ एह्येवं - ख ।
- - - - - - - - -- - -

917
प्रभावात्तेजसा चैव स महान्नौ भविष्यति ।
बाढमित्येवमुक्त्वाथ कुमारः१२ षण्मुखस्तदा । । प ३ । ।
शक्रेण सह संगत्य मयूरवरमास्थितः ।
महेन्द्रस्याग्रतो गच्छन् चक्रे क्रौञ्चं प्रदक्षिणम्१३ । । १४। ।
अथ बुद्ध्वा महेन्द्रस्तु न्यूनमात्मानमानलात् ।
कुमारमभिसन्धित्सुर्मनसैव प्रदक्षिणम् । । १ ५। ।
कृत्वा सुनिर्वृतस्तस्थौ उपविष्टः४ शिलातले ।
जवेनाथ कुमारस्तं क्रौञ्चं कृत्वा प्रदक्षिणम् । ।१ ६। ।
प्रोवाचेन्द्रं१५ तदा दृष्ट्वा जेताहमिति सत्वरः१६ ।
अहमेव हि जेतेति शक्रस्तमवदद् गुहम् । । १७। ।
असकृद् ब्रुवतोरेवं तयोः शक्रकुमारयोः ।
क्रौञ्चोभ्येत्य वचः प्राह किमेतदिति भूचरः । । १ ८। ।
ततः शक्र उवाचेदं कुमारं वचनं तदा ।
एष एवावयोः क्रौञ्चो जयसाक्षी१७ महाबलः । । १ ९। ।
नानृतं वक्ष्यति ह्येष पौत्रो हिमगिरेर्वरः१८ ।
पृच्छ्यतां शक्र को दोष इत्याह ज्वलनात्मजः । ।8.171.२ ० । ।
तं शक्रः सादरं प्राह केन त्वमचलाग्रतः ।
कृतप्रदक्षिणो१९ ब्रूहि प्रमाणं हि त्वमावयोः । । २१ । ।
ततः क्रौञ्चो विमूढात्मा संचिन्त्य सुचिरं नगः ।
अयं शचीपतिश्चक्रे मामिहाग्रे प्रदक्षिणम् ।। २ २। ।
- -२० र्यं प्रहसन्२१ देवानित्युवाच नगाधिपः ।
अथैवं ब्रुवतस्तस्य सत्यहीनं तदा गिरेः । ।२ ३ । ।
पपात शिखरं तूर्णं कुलिशेन यथा हतम्२२ ।
तत्रासन् यानि भूतानि सुराद्यानि गिरीश्वरे ।
तानि संत्यज्य शीघ्र तं प्रययुः सर्वतो दिशम् । ।२४।।
- - - - - - - - -- - -
१२ मयूरे - ख. । १३ क्रौञ्चप्रदक्षिणम, प्रदक्षिणाम् (?) । १४ तस्थावुपविष्टः (?) ' १५ प्रोवाचेदं - क ख. । १६ सद्वचः - ख. । १७ जये साक्षी - ख । १८... र्वच - ख । १९ कृत प्रदक्षिणं - क. ख । २० आहाष्ट्रं - क. । २१ संशय - क- । २२ हतः - क ख ।
- - - - - - - - -- - -

918
जहृषे वासवश्चापि मनसा पूजयन् गिरिम् ।
ततश्चुक्रोध रुद्रात्मा गिरेः क्रौञ्चस्य षण्मुखः । ।२५। ।
 - - - - गुहं द्रष्टुं२३ संक्रुद्धं वासवस्तदा ।
एकस्थे तेजसी पूर्णे वह्निभास्करयोरिव । । (?) २६ ।।
अथ शक्तिं समुत्क्षिप्य यमानलसमप्रभाम् ।
चिक्षेप भगवान् स्कन्दः क्रुद्धः क्रौञ्चजिघांसया ।।२७।।
सा पपात गिरेर्मूर्ध्नि शक्तिः क्रौञ्चस्य सत्वरम् ।
क्षीणायुषो यथा पुंसो मृत्युपाश - - - - ।।२८।।
स तया भिन्नमर्मा तु शक्त्या क्रौञ्चो नगोत्तमः२४ ।
सर्वतश्छिन्नसर्वाङ्गः स्रवद्रुधिरनिर्झरः ।।२९ । ।
मूर्त्तिमानपतद् भूमौ संज्ञाप्राणविवर्जितः ।
पतिं विनिहतं दृष्ट्वा पत्न्यस्तस्य सुदुःखिताः । ।8.171.३ ० ।।
विलपन्त्यस्तदा दीनं२५ पेतुः क्रौञ्चाचलोपरि ।
मेरुर्हिमाचलो विन्ध्यः कैलासो गन्धमादनः ।।३ १ । ।
पारियात्रश्च सह्यश्च निषधोदयवामनाः२६ ।
क्रौञ्चस्य जनकश्चापि मैनाकः पर्वतोत्तमः ।।३ २ ।।
सर्वे पर्वतराजान२७ आजग्मुः शोकपीडिताः ।
परिवार्य गिरिं क्रौञ्चं रुरुदुर्दुःखिता भृशम् । । ३३ ।।
भ्रातृपुत्र हतं ज्ञात्वा देवदेवी गिरीन्द्रजा ।
शर्वेण सहिता क्रौञ्चमाजगाम महाव्रता । । ३४। ।
कुमारेण हतं दृष्ट्वा क्रौञ्चं बान्धवमात्मनः ।
पीडिताभूत्तदा देवी दृष्ट्वा पितरमर्दितम्२८ । ।३५।।
हिमवन्तं महाशैलं वधात् पौत्रस्य दुःखितम् ।
शुशोच गिरिजा दृष्ट्वा मुहुर्वीक्ष्य सुरेश्वरम् ।। ३६ ।।
भगवन्तमथायातं देव्या सह पिनाकिनम् ।
शोकेनापि सुसन्तप्ता नमश्चक्रुर्महाबलाः२९ । ।३७। ।
- - - - - - - - -- - -
२३ तं क्रुद्धं - क. । २४ क्रौञ्चनगोत्तमः - क. । २५ दीनाः (?) । २६ निषधोदयवामनः - क. । २७ सर्वपर्वतराजान - क. । २८ ... मर्दितुम् क. । २९ मनश्चक्रुर्महमाबलाः - क ।
- - - - - - - - -- - -

919
अथ प्रणम्य देवेशं हिमवानचलोत्तमः ।
व्यज्ञापयत दीनात्मा दुःखशोकपरिप्लुतः ।। ३८ ।।
शक्रेणानेन भगवन्नात्मानं३० बहुमन्यता ।
निधनं नायितः पौत्रो ममायं क्रौञ्चपर्वतः ।।३ ९। ।
स्पर्धा कास्य कुमारेण तव देव सुतेन हि ।
नान्तरं वेद यो३१ दर्पात् कुमारस्यात्मनश्च ह । ।8.171.४० ।।
स्पर्धां कृत्वा कुमारेण हते पौत्रे ममाधुना ।
निर्वृतो गतदर्पोयं सुखं तिष्ठतु वासवः । ।४१ । ।
हते पौत्रे महादेव निमग्नः शोकसागरे ।
न जीवितुमहं शक्तो यास्ये पौत्रगतिं त्वहम् । ।४२ ।।
एवं विलपतस्तस्य मेरुविन्ध्यपुरोगमाः ।
विनेदुर्दुःखसंतप्ता बान्धवाभावपीडिताः ।।४३ ।।
पितरं दुःखितं दृष्ट्वा तथान्यान् बान्धवान् गिरीन् ।
अभवच्छोकसन्तप्ता गिरिजापि जगद्धरा ।।४४।।
अथ तान् दुःखितान् दृष्ट्वा सर्वान् गोवृषवाहनः ।
मा कार्ष्ट शोकमित्युक्त्वा तनयं प्राह षण्मुखम् ।।४५। ।
महान्तस्त्वद्विधाः पुत्र सापराधेपि बान्धवे ।
नाशुभं कुर्वते कस्मात् क्रौञ्चं निहतवानसि ।।४६।।
भ्रातृसूनुर्भवन्मातुरेष क्रौञ्चो महागिरिः ।
कथं भ्रातरमेनं स्वं३२ हतवानसि षण्मुख ।।४७।।
सदृशं कर्म नैतत्ते३३ मन्मयस्य सुतस्य ते३४ ।
ब्रूहि वा साम्प्रतं कर्म किमत्र बहु मन्यसे ।।४८। ।
तमेवं वादिनं देवं३५ षण्मुखः पितरं तदा ।
इदं प्रोवाच सव्रीडं वचनं परमाद्भुतम् । ।४९।।
शक्रस्यापनयाद्देव क्रौञ्च एष हतो मया ।
असन्मन्त्रितवान् यस्माद् विज्ञप्तिमपरां शृणु ।।8.171.५० । ।
- - - - - - - - -- - -
३० भगवान् आत्मान - क. । ३१ वेदयन् - क. । ३२ भ्रातरमेवं त्वं (?) । ३३ नैनत्ते - क. । ३४ सुतस्तव -क ।
- - - - - - - - -- - -

920
त्वत्प्रसादादहं क्रौञ्चं जीवयामि नगोत्तमम् ।
दुष्करं नहि मे चिञ्चित् तव देव सुतस्य हि ।५१ । ।
उत्तिष्ठेति ततः क्रौञ्चं भ्रातरं प्राह षण्मुखः ।
स बिभ्रत् पूर्ववद्देहं क्रौञ्चो नगपतिः क्षणात् ।।५२।।
उत्तस्थौ नीरुजो३६ व्यास आश्चर्यं तदभूत्तदा ।
जीवितेनाचलेनैवं षण्मुखो वह्निसप्रभः । । ५३ ।।
स्मरन् रुद्रादधिक्षेपं कोपसंरक्तलोचनः ।
समक्षं सर्वदेवानां शक्रस्य च महाबलः । ।५४। ।
वायुविष्णुयमानां च ब्रह्मणश्च महात्मनः ।
देवदेवं३७ प्रणम्येशं पितरं ह्युमया सह । । ५५।।
बभाषे वचनं देवः कुमारवररूपधृक् ।
शक्रेणानेन देवेन्द्रा मत्समक्षं प्रभाषितम् । । ५६। ।
महांस्त्वत्तोहमित्येव तत्र मां मन्युराविशत् ।
तन्मयैषा महाशक्तिर्निखाता वसुधातले ।।५७ । ।
उद्धर्त्तुं योमरः शक्तो मुक्त्वा देवं पिनाकिनम् ।
उत्पाटयतु स ह्येतां३८ महान्मत्तस्ततो हि सः । ।५८। ।
एवमुक्त्वा ततो देवो बालार्कसदृशप्रभः ।
तूष्णीं बभूव हृष्टात्मा तस्थौ च पितृपार्श्वतः ।५९। ।
अथेन्द्रो देवतामध्ये राज्यदर्पान्वितोमरः३९ ।
उत्पाटयितुमुत्सेहे तां शक्तिं वसुधां गताम् । ।8.171.६० ।।
न च चालयितुं शक्तो यत्नादपि सुराधिपः ।
अथ लज्जान्वितोत्यर्थं तस्माद्देशादपाक्रमत् । ।६१ ।।
ततोन्ये दैवतश्रेष्ठा४० ये यमानिलपुरस्सराः ।
मतिं चक्रुः समुद्धर्तुं यत्नं शक्त्याश्च दंशिताः (?) ।। ६२ ।।
न च चालयितुं शेकुस्तां शक्तिममरोत्तमाः ।
ततो विष्णुरमेयात्मा देवान् दृष्ट्वा हतौजसः । ।६३ ।।
- - - - - - - - -- - -
३६ निरुजो - क. । ३७ देवी - क. । ३८ सो ह्येता - क. । ३९ राजदर्पान्वितोमरः - क. । ४० देवतेष्ठाः - क. ।
- - - - - - - - -- - -

921
शक्तिमुद्धर्तुमुत्सेहे समक्षं त्रिदिवौकसाम् ।
तेनासौ चाल्यमानापि यस्माच्छक्तिर्धरातले । । ६४। ।
न चचाल महावीर्या स्कन्दतेजोबलान्विता ।
ततो विष्णुरमेयात्मा ज्ञात्वा तत्त्वार्थमादृतः४१ । । ६५ ।।
कुमारं पूजयन् भक्त्या शक्त्युत्क्षेपान्न्यवर्तत ।
अथ सर्वेमरा व्यास विष्णुश्च सुरसत्तमः । ।६६ । ।
संस्तुत्य षड्मुख देवमिदमाहुर्महौजसः ।
- - - - - देवानां महादेवसुतःप्रभुः । । ६७। ।
नाथः पालयिता स्रष्टा आर्तिघ्नः प्रवरो महान् ।
त्वया नाथेन देवेश वयं सर्वे सुनिर्वृताः । । ६८। ।
तिष्ठामः सहिताः सर्वे त्वमस्मान्४२ पाहि सर्वतः ।
शक्रव्यतिक्रमं चैव बालिश्यान्मोहकारितम् । ।६९। ।
प्रणयाद्याचितोस्माभिः क्षन्तुमर्हसि सर्वदा ।
एवं स भगवान् सर्वैः कुमारः संस्तुतोमरैः । ।8.171.७० ।।
क्रोधं तत्याज शक्रे तु तुतोष च दिवौकसाम् ।
ततस्ते गिरयः सर्वे देवी च हिमवत्सुता । ।७ १ । ।
देवराजस्तथा शक्रो हृष्टा गुहमपूजयन् ।
भगवानपि संतुष्टस्तनयाय वरान् ददौ । ।७२ । ।
ययौ चापि गिरेः शृङ्गं दिव्यं हिमवतः शुभम् ।
सार्धं गुहेन देव्या च मातॄणां गणनायकः ।।७३ । ।
क्रौञ्चेन सहिताश्चापि मेरुविन्ध्यादयोचलाः ।
शक्रश्च सुरराट् देवः स्वानि सद्मानि भेजिरे । ।७४। ।
एवमेतद्यथा४३ क्रौञ्चः क्रौञ्चसारसवासिनः ।
गुहेन दारितः शक्त्या पश्चाच्चैव४४ कृतोमरः ३१७५। ।
दृश्यते चापि४५ तत् क्रौञ्चे क्षतं शक्त्याचलोत्तमे ।
नैकदैवतसंवासं यदभूद्विस्तृतं४६ महत् ।।७६ ।।
- - - - - - - - -- - -
४१. मादितः (?) । ४२ तथास्मान् - क । ४३ एतस्मिन्नन्तरे - घ । ४४ पश्चादुभाभ्यां च - घ. । ४५ दृश्यतेद्यापि (?) । ४६ तदभूद्विस्तृतं - क. ।
- - - - - - - - -- - -

922
एतत्ते कथितं सर्वं क्रौञ्चदारणमद्भुतम् ।
य इमं शृणुयान्मर्त्त्यः सर्वपापैः स मुच्यते४७ । ।७७। ।
व्यास उवाच
भगवन्४८ परमेशानो मातॄणां नायकः कथम् ।
का एता मातरश्चापि शंसैतत् पृच्छतो मम । ।७८।।
कथं मातृगणा जाताः किन्निमित्तमथापि च ।
किंवीर्या किंप्रभावाश्च संभूतास्ते गणाः प्रभो ।।७९।।
कश्चासामाश्रयो येन वर्तन्ते तद्गणाः शुभाः ।
केन मृष्टाः स्वयं वापि एतदिच्छामि वेदितुम् । ।8.171.८० । ।
सनत्कुमार उवाच
अत्र४९ ते वर्त्तयिष्यामि मातॄणामुद्भवं शुभम्५० ।
पुरा हि भगवान् ब्रह्मा सृष्ट्वेमा विविधाः प्रजाः । ।८१ । ।
अवेक्षमाणः कालेय चचार विबुधेश्वरः ।
स कदाचित् प्रजाध्यक्षः संध्याकाल उपागते । ।८२।।
देशं रम्यं समासाद्य तीरे पूर्वमहोदधेः ।
रम्ये चकार संध्यां हि वर्षकोटिमतन्द्रितः । ।८३ ।।
कृतसंध्यस्ततो देवः कमलासनसंस्थितः ।
चिन्तयामास रम्योयं देशो दृष्टिमनोहरः ।।८४। ।
करोम्यत्र५१ पुरं रम्यं सर्वकामसमन्वितम् ।
इति संचिन्त्य स व्यास भगवान् सर्वसृक् प्रभुः । ।८ ५।।
तस्मिन् रम्ये प्रदेशे तु चक्रे पुरमनुत्तमम् ।
लोहितासितसौवर्णैः प्रस्तरैश्चामितप्रभम् ।।८६।।
अट्टाट्टहासकैश्चैव खातकैश्च समन्वितम् ।
शृङ्गाटकचतुष्केण चतुष्पादमिव स्थितम् । ।८७।।
- - - - - - - - -- - -
४७ प्रमुच्यते -क, अत्रान्तरेध्यायसमाप्तिपुष्पिकावाक्यं दृश्यते घ पुस्तके । ४८ भगवान् - क ख. । ४९ हन्त(?) । ५० इतिहासं पुरातनं - घ. । ५१ आक्राम्यात्र - घ, ।
- - - - - - - - -- - -

923
वप्रखातकसंयुक्तैर्गृहैश्चापि५२ महाधनैः५३ ।
मध्ये मन्दाकिनी वापी सरिद्दिव्या मनोहरा ।।८८ । ।
नलिनीवनसंछन्ना प्रहृष्टखगनादिता५४ ।
तत् सृष्ट्वा तु पुरं ब्रह्मा सौवर्णं मणिभूषितम् । ।८९ ।
प्रोवाच वचनं व्यास परमाद्भुतमर्थवत् ।
रम्ये पुरवरे येस्मिन् वत्स्यन्ति सुकृताशिनः । ।8.171.९० । ।
अवध्यास्ते जराहीनास्तेजोबलसमन्विताः ।
भविष्यन्ति महाभागा मत्प्रसादान्न संशयः ।।९१ ।।
ततः स भगवान्देव उवाच पुनरेव ह ।
अस्मिन सदैव कामानामिष्टानां सुरसत्तमः । ।९ २। ।
देवो वर्षति कोटिं वै तेनास्मिन्५५ सुखिनो जनाः ।
एवं स भगवानुक्त्वा ब्रह्मा लोकपितामहः ।
अगच्छत् स्वसभां दिव्यां नैकसिद्धनिषेविताम् ।।९३ । ।
तस्मिन् गते ततो व्यास असुरैर्दैत्यभाषितैः (?) ।
अधिष्ठितं पुरं तद्वै सर्वैर्ब्राह्मणकंटकैः । ।९४। ।
येषां पतिरसुक्रोधः सर्वशस्त्रभृतां वरः ।
ब्रह्महा यज्ञहा विप्र देवान्तकसुरान्तकः५६ ।।९५।।
सिंहनादो भीमनादो मद इत्येवमादयः ।
अथ दैत्याः समागम्य हैमकुण्डपुरस्सराः ।
तस्मिन्पुरवरे स्थित्वा पीडां५७ चक्रुरनेकशः५८ । ।९६। ।
द्वेष्टारो जगतस्ते हि जघ्नुर्विप्रान् सहस्रशः ।
यज्ञहोमादिकाश्छिन्नाः क्रियास्तैरसुराधमैः ।।९७ ।।
तानेवंकारिणो ज्ञात्वा सर्व एव दिवौकसः ।
ब्रह्मलोकमथाभ्येत्य सर्वमश्रावयन् विभोः ।९८। ।
वचो दिवौकसां श्रुत्वा ज्ञात्वा दैत्यविचेष्टितम् ।
नैतच्छक्यं मयेत्युक्त्वा ब्रह्मा सार्धं सुरोत्तमैः ।।९९। ।
- - - - - - - - -- - -
५२ ग्रहैश्चापि - घ. । ५३ ..वरै - घ. । ५४ प्रकृष्टखगनन्दिता - ख. । ५५ तेनास्मि - घ. । ५६ सुरान्तकौ (?) । ५७ क्रीडा (?) । ५८ ... श्चक्रुरनेकशः - क. ।
- - - - - - - - -- - -

924
आजगाम भवं द्रष्टुं रम्यं हिमगिरेर्वनम्५९ ।
यत्र गौरी तपस्तेपे भर्तुं देहार्धधारिणी । । 8.171.१०० । ।
प्रविष्टास्तत्र ते देवा ब्रह्माद्याः सर्व एव हि ।
स्त्रिय एवाभवन् तूर्णं पार्वत्यास्तपसो बलात् । ।१ ०१ ।।
ततस्तान् देवदेवेशः स्त्रीभूतान् हि सुरोत्तमान् ।
किमर्थमागता यूयमिति पप्रच्छ शूलधृक् । ।१ ०२ । ।
ततस्ते सहिताः सर्वे पूर्वं दैत्यविमर्दनम् ।
निवेद्य शम्भवे पश्चात् कृच्छ्रं स्त्रीभावमात्मनः । । १०३ ।।
यथैवं पुरुषाः पूर्व भवाम इति तेब्रुवन् ।
तानुवाचाथ देवेशः सुरान् स्त्रीभावमागतान । । १ ०४।।
यात यूयं सुराः सर्वे स्त्रियो भूत्वासुरान्तिकम् ।
स्त्रीणामेव हि ते वध्या दानवा बलदर्पिताः । । १० ५।।
तनूर्मूर्त्तिमतीः कृत्वा परतो मातरः शुभाः ।
यै६० य एव यथा पूर्वं भविष्यथ सुरोत्तमाः । । १०६ ।।
अथ भूयः प्रणम्येशं देवता इदमब्रुवन् ।
आत्मनोपि तनुं देव कुरु मूर्त्तिमतीं स्त्रियम् । । १ ०७। ।
यया सार्धं बलाद् दैत्यान् हंस्यामः परमेश्वर ।
ततो देवोसृजद्देवीं रूद्राणीं मातरं शुभाम् ।।१ ०८। ।
विकृतं रूपमास्थाय द्वितीयामपि मातरम् ।
नाम्ना तु बहुमांसान्तां जगत्संहाररूपिणीम् ।। १० ९। ।
नियोगाद् देवदेवस्य ततो विष्णुरपि प्रभुः ।
मातरावसृजद् द्वे तु वाराहीं वैष्णवीमपि ।
अभूत् पितामहाद् ब्राह्मी शर्वाणी शङ्करादपि । । 8.171.११० । ।
कौमारी षड्मुखाच्चापि विष्णोरपि च वैष्णवी ।
वाराही माधवाद् देवी माहेन्द्री च पुरन्दरात् । । १११ । ।
- - - - - - - - -- - -
५९ र्वरम् - क. । ६० य - क. ।
- - - - - - - - -- - -

925
सर्वतेजोमयो देवी मातॄणां प्रवरा शुभा ।
बहुमांसा महाविद्या बभूव वृषभध्वजात् । । ११२ । ।
सर्वासां६१ देवतानां च देहेभ्यो मातरः शुभाः ।
स्वरूपबलधारिण्यो निर्जग्मुर्दैत्यनाशनाः । । १ रो ३ । ।
वायव्या६२ वारुणी याम्या कौबेरी च महाबलाः ।
महाकाली तथाग्नेयी अन्याश्चैव सहस्रशः । । ११४ । ।
ता गत्वा तत्पुरं रम्यं दैत्यान् भीमपराक्रमान् ।
जघ्नुर्बहुविधं देव्यो घोरनादैर्विभीषणैः । । ११ ५। ।
दैत्यहीनं च तच्चक्रुः पुराग्र्यं हेमभूषितम् ।
अथ दैत्यैर्हतैस्सवैर्देवदेव उमापतिः६३ । । ११६ । ।
आजगाम प्रदेशं तं मातॄणां वरदित्सया ।
तान् दृष्टवा निहतान्सर्वान् दैत्यानमरविद्विषः६४ । । १ १७। ।
परितुष्टस्तदा तासां वरान्प्रादाद् वृषध्वजः ।
जगतो मातरो यूयं मातृभूता भविष्यथः । । ११८ । ।
युष्माकं ये भविष्यन्ति भक्ताः पुरुषपुंगवाः ।
स्त्रियौ वापि महाभागा न तान् हिंसन्ति हिंसकाः । । ११ ९। ।
मृता मम गणाश्चापि भविष्यन्त्यजरामराः ।
भवतीनामिदं स्थानं कोटीवर्षमिति श्रुतम् । । 8.171.१२० । ।
भविष्यति जगत्ख्यातं सर्वपापप्रमोचनम् ।
अहं हेतुर्हि युष्माकं यस्मात् सृष्टा मयैव च । । १२१ । ।
हेतुकेश्वरनाम्नाहं६५ स्थास्याम्यत्र वरप्रदः ।
युष्माभिः सह वत्स्यामि नायकत्वं व्यवस्थितः । । १२२ । ।
यस्तु युष्मान्मया सार्धं विधिवत् पूजयिष्यति ।
सर्वपापविमुक्तात्मा स परां गतिमाप्स्यति । । १२३ । ।
दानवा निहता यस्माच्छूलेन बहुमांसया ।
शूलकुण्डमिदं नाम्ना ख्यातं तीर्थं भविष्यति । । १ २४। ।
- - - - - - - - -- - -
६१-. सर्वेषां क ख ।। ६२ वाथवा (?) । ६३ देवदेवमुमापतिम् - क । ६४ ... विद्विषान् - क. ।
- - - - - - - - -- - -

926
इह शूलोदकं पीत्वा बहुमांसां प्रणम्य च ।
अधृष्यः सर्वहिंस्राणां भविष्यति नरोत्तमः ।। १ २५।।
प्रतिकूलेति विख्याता रम्या मन्दाकिनी नदी ।
रुधिरौघवती सेह भवतीनां भविष्यति । । १ २६।।
अहं ब्रह्मा च विष्णुश्च ऋषयश्च तपोधनाः ।
मातृतन्त्राणि दिव्यानि मातृयज्ञविधिं परम् । । १ २७।।
पुण्यानि प्रकरिष्यामो यजनं यैरवाप्स्यथ ।
ब्राह्मं (?) स्वायंभुवं चैव कौमारं यामलं तथा १ २८।।
सारस्वतं स गान्धारमैशानं नन्दियामलम् ।
तन्त्राण्येतानि युष्माकं तथान्यानि सहस्रशः । । १२९ । ।
भविष्यन्ति नरा यैस्तु युष्मान् यक्ष्यन्ति भक्तितः ।
नराणां यजमानानां वरान् यूयं प्रदास्यथ । ।8.171.१ ३० ।।
दिव्यसिद्धिप्रदा देव्यो दिव्ययोगा भविष्यथ ।
याश्च नार्यः सदा युष्मान् यक्ष्यन्ते सरहस्यतः । । १३१ । ।
योगेश्वर्यो भविष्यन्ति रामा दिव्यपराक्रमाः ।
छगलः कुम्भकर्णश्च मदीयौ गणनायकौ । । १३ २। ।
युष्माकं द्वारपालत्वे स्थास्यतस्तौ ममाज्ञया ।
कोटीवर्षमिदं स्थानं मातॄणां प्रियमुत्तमम् ।। १३३ । ।
श्मशानं प्रवरं दिव्यं भविष्यति सुखप्रदम् ।
वरानेवं हि ताँल्लब्ध्वा मातरो लोकमातरः ।। १ ३४। ।
भक्त्या प्रणम्य देवेशं मुमुदुर्भृशमर्द्दिताः ।
ततःप्रभृति ताः सर्वाः सहिताः शशिमौलिना । । १३ ५। ।
कोटीवर्षे६६ वसन्ति स्म सर्वलोकाभयप्रदाः६७ ।
एवं स भगवान् देवो मातॄणां गणनायकः ।
अभवच्छङ्करो व्यास यन्मां त्वं पृष्टवानसि । । १३ ६। ।
- - - - - - - - -- - -
६६ कौटीवर्षं - क. ख. । ६७ सर्वलोकभयप्रदाः - क ।
- - - - - - - - -- - -

927
उत्पत्तिमेतां जगतीश्वरीणां६८ ब्रह्मेन्द्रशक्रानिलवन्दितानाम् ।
पठेन्मनुष्यः शृणुयाच्च नित्यं यः स्वर्गलोकं स मृतो लभेत ।। १ ३७। ।
इति स्कन्दपुराणे एकसप्तत्यधिकशततमोध्यायः

सनत्कुमार उवाच
शक्रेण गिरयः पूर्वं छिन्नपक्षा यथा कृताः ।
तत् प्रवक्ष्यामि ते व्यास शृणु सर्वमशेषतः । ।१ । ।
पुरा सिंहवपुः कृत्वा विष्णुना परमौजसा ।
दैत्यदानवनाथे तु हिरण्यकशिपौ हते । ।२ ।।
प्रह्रादस्तत्सुतो दैत्यो विष्णुं प्रति चुकोप ह ।
हते पितरि स श्रीमान् महादैत्यपतीश्वरः ।।३ ।।
बहून्यब्दसहस्राणि चकारोग्रं महातपः ।
अथ देवश्चतुर्वक्त्रस्तुष्टस्तमसुराधिपम् । ।४। ।
प्रोवाच स्वयमागत्य वरदोस्मीति सादरम् ।
प्रणम्योवाच वरदमिदं ब्रह्माणमागतम्१ । ।५ । ।
प्रह्लादो मन्युतप्ताङ्गः पितुर्वधमनुस्मरन् ।
भगवन् यदि तुष्टोसि वरदश्च समागतः । ।६।।
राजानं हतवान् विष्णुः पितरं मम मायया ।
संग्रामे तमहं विष्णुं यथा हन्यां तथा कुरु । ।७।।
तमुवाच ततो ब्रह्मा प्रह्लादमसुरोत्तमम् ।
अजय्यः समरे विष्णुरवध्यश्च सुरासुरैः ।।८।।
प्रसादाद्देवदेवस्य जगत्स्रष्टुरुमापतेः ।
नैष शक्यो मया दातुं वरस्तुभ्यं महासुर । ।९ ।।
- - - - - - - - -- - -
६८ जगतीश्वराणां क ।
१ प्रणम्य तमुवाचेदं वरदं ब्रह्ममागमतम् - क. ।
- - - - - - - - -- - -

928
अन्यं वृणु२ यथेष्टं त्वं वरं यावद्ददामि३ ते ।
चिन्तयित्वा ततो भूयो महाबुद्धिर्महासुरः । । 8.172.१० । ।
प्रोवाच४ वचनं देवं कमलासनसंस्थितम् ।
अजय्यो यद्यवध्यश्च स विष्णुर्देवसत्तमः५ । । ११ । ।
तस्य विष्णोस्ततो देव शक्रस्यान्यस्य वा रिपोः ।
अवध्योहमजय्यश्च संभवेयं तवाज्ञया । । १२ ।।
एवस्त्विति तं ब्रह्मा प्रोच्य दानवसत्तम ।
दिव्यपद्मासनो देवस्तत्रैवान्तरधीयत । । १३ । ।
प्रह्लादोपि वरं७ लब्ध्वा ब्रह्मणः परमाद्भुतम् ।
पश्चिमस्योदधेस्तीरे तस्थौ चिन्ताकुलेन्द्रियः । ।१४।।
कथं हन्यामहं विष्णुं शक्रं चैव शतक्रतुम् ।
एवं चिन्तयतस्तस्य प्रह्लादस्य सुरद्विषः ।। १ ५।।
सर्वशैलाधिपः श्रीमाँश्चक्रमन् हिमवान् गिरिः ।
द्वाभ्यामुत्पत्य पक्षाभ्यामाजगाम वियच्चरः ।। १ ६। ।
पुरा हि गिरयो व्यास आसन् पक्षसमन्विताः ।
दिव्या वियद्गमाः सर्वे सर्वलोकचरास्तथा । । १७।।
तमागतमथो दृष्ट्वा प्रह्रादो हिमवद्गिरिम् ।
प्राहेदं वचनं प्रीतः कृत्वा स्वागतमादितः ।। १८ ।।
कश्यपस्य९ वयं पौत्रा दैत्या गिरिवराधिप ।
भवन्तोपि१० सुतास्तस्य देवा अपि महागिरे११ ।।१ ९। ।
अस्माकं भवतां चैव एकस्मात् संभवो गिरे१२ ।
देवता भ्रातरो१३ भूत्वा अस्माकं देवताश्च१४ हि । ।8.172.२० ।।
अवमन्यासुरानस्मान् राज्यं कुर्वन्ति दर्पिताः ।
वयं यूयं च संगत्य जित्वा देवानशेषतः ।
त्रैलोक्यं सर्वमाक्रम्य राज्यं कुर्मो१५ महागिरे ।।२१ । ।
- - - - - - - - -- - -
२ अन्यद् वृणु - क. । ३ वरं दैत्य ददामि - ख, ददानि - क. । ४ उवाच - ख । ५ देवसत्तम - ख. । ६ दानवसत्तमः - क.,. म - ख. । ७ वरान् - ख. । ८ प्रीतो दत्त्वा - क. । ९ कास्यपस्य - क । १० भवतोपि - क ख. । ११ महामुने - क. । १२ मुने - क. । १३ भ्रातरो देवता - क. ख. । १४ देवताञ्च - क. ख. । १५ कुर्म - ख. ।
- - - - - - - - -- - -

929
देवानां१६ यजनं येषु हूयन्ते येषु चाग्नयः ।
प्रीयन्ते देवता येषु देशाँस्तानचलेश्वर । ।२ २।।
सहितः सर्वशैलैस्त्वमाक्रम्य त्वरितं जहि ।
इज्याहीनान् ततो देवान् सुखं हंस्याम निर्वृताः ।। २३ । ।
इत्युक्तो दैत्यराजेन हिमवानचलोत्तमः ।
नैतद्युक्तमिति प्राह साशङ्को दानवाधिपम् । ।२४। ।
पुनरेव ततः प्राह हिमवन्तं महासुरः ।
मत्तो युक्तं परं१७ त्वं चेद्यदि वेत्सि नगाधिप ।। २५ ।।
एष त्वां सहितं शैलेर्नेष्यामि निधनं समम् ।
अप्रमत्तस्तदा तिष्ठ१८ यावत्त्वां हन्मि पर्वत । ।२६ । ।
दैत्यराजं ततः क्रुद्धं दृष्ट्वा पर्वतसत्तमः ।
करोम्येवमिति प्राह ततो दैत्यस्तुतोष सः१९ । । २७।।
अथ शैलैस्तदा सार्धं हिमवानचलोत्तमः ।
प्रह्लादस्य वचः श्रुत्वा२० चक्रे देशोपमर्दनम् । ।२८। ।
पितृदेवात्मिकाः सर्वा यज्ञहोमादिकाः क्रियाः२१ ।
वर्तन्ते येषु देशेषु गिरयस्तान् समाक्रमन । ।२९ ।।
अथोत्सन्नेषु देशेषु नारदो मुनिसत्तमः ।
शक्रायाश्रावयत्२२ सर्वं पर्वतानां व्यतिक्रमम् ।।8.172.३ ० । ।
तच्छ्रुत्वा क्रोधसन्तप्तो देवराजः शतक्रतुः ।
समागम्याचलान् प्राह किमेतदिति मन्युमान् ३१ ।
अथोचुर्गिरयो व्यास क्रुद्धं देवगणाधिपम् ।
प्रह्लादस्य भयाद्देव महादैत्यपतेर्वयम् । । ३२ । ।
इमं व्यतिक्रमं प्राप्ता न२३ दोषो नः कथञ्चन ।
अथ चेन्मन्यसे दोषमस्माकममराधिप । ।३ ३ ।।
- - - - - - - - -- - -
१६ देवतां - क. । १७ वरं - क., युक्तवरं - ख. । १८ ततस्तिष्ठ - ख. । १९ ह - ख. । २० सर्वं - ख. । २१ यज्ञहोमादिकक्रियाः - क. । २२ शक्रमश्रावयत् - क. । २३ ह - ख. ।
- - - - - - - - -- - -

930
प्रह्रादान्तिक्रमागच्छ प्रयाम सहिता द्रुतम् ।
तेनेदं कारितं सर्वं यज्ञदेशोपमर्दनम्२४ ।
दैत्यराजेन बलिना युष्मदप्रियलिप्सया । ।३ ४। ।
नापराधोयमस्माकं२५ तथा त्वं विद्धि देवप ।
तानेव ब्रुवतः शक्रः सुतरां मन्युमान् गिरीन् । । ३५। ।
पक्षहीनान् तदा चक्रे क्षिप्त्वा वज्रं पुनःपुनः ।
हीनपक्षास्ततस्ते तु सर्व एवाचलेश्वराः । । ३६ । ।
पेतुर्महीतले व्यास छिन्नपक्षाः खगा इव ।
अथ दैत्यपतिः श्रुत्वा प्रह्रादोसुरपुङ्गवः । ।३७।।
पक्षच्छेदं नगेन्द्राणां भृशं चुक्रोध पीडितः२६ ।
किङ्करोमीति संचिन्त्य चिरं दैत्यगणाधिपः । ।३८। ।
वदर्याश्रममागत्य ददर्श२७ विष्णुमास्थितम् ।
तस्यासीत् सुमहद्युद्धं विष्णुना सार्धमद्भुतम् ।।३ ९।।
न शशाक च तं२८ विष्णुर्जेतुं प्रह्लादमोजसा ।
तयोर्युद्धमभूद् घोरं दिव्यमब्दशतं पुरा ।।8.172.४० ।।
आत्मानं वेद हीनं च विष्णुः प्रह्लाददानवात् ।
सोभियुक्तस्तदा युद्धे विष्णुः परमधर्मवित् ।।४१ ।।
अशक्तो दानवं जेतुं मन्युमानभवत् प्रभुः ।
अथ ध्यात्वा महादेवं प्रणम्य च पुनः पुनः । ।४२। ।
सस्मार पर - - - - - - - - - - - ।
- - - - - - - - - - - - पिनाकिनः । ।४३ । ।
अवध्यत्वमजय्यत्वं सर्वलोकनिवासिभिः ।
प्रसादं तमनुस्मृत्य शैवं विष्णुः सुरोत्तमः । ।४४।।
महासत्वबलो भूत्वा दैत्यमभ्यद्रवद् बली ।
हीयमानमथात्मानं हिण्यकशिपोः सुतः । ।४५। ।
- - - - - - - - -- - -
२४ देशयज्ञोपमर्दनम् - क. ख । २५ यथास्माकं - क ख । २६ पि(प)ण्डितः - क. । २७ ददृशे - ख. ।
- - - - - - - - -- - -

931
ज्ञात्वा च बलिनं विष्णुं युद्धदेशादपाक्रमत् ।
अजितं विष्णुनात्मानं शिवतेजोविमोहितः । ।४६ । ।
प्रह्रादो जितमात्मानं२९ बुबुधे दानवेश्वरः ।
ब्रह्मणोपि वरं लब्ध्वा अजयय्यत्वमथात्मनः । ।४७।।
जितमेव तदात्मानममन्यत महासुरः ।
प्रह्रादासुरसंग्रामं घोरं देवभयंकरम् । ।४८। ।
अभूदब्दशतं दिव्यं विष्णुना सार्धमद्भुतम् ।
न श्रुतेन न वीर्येण न शौर्येण न तेजसा । ।४९।।
न बुद्ध्या न च धर्मेण प्रह्रादसदृशोसुरः ।
हिरण्यकशिपुर्नासीद्राजा तत्सदृशो महान् । ।8.172.५० । ।
नान्धको न हिरण्याक्षः प्रह्लादसदृशो बले ।
भृगुशापात् किलायातो दैत्यत्वं विष्णुरेव सः ।।५१ । ।
शौर्येण स्पृहयन्ति स्म श्रुतेन विनयेन च ।
दिवौकसोपि संसिद्धाः प्रह्रादस्य महात्मनः । ।५२। ।
नाभवंस्तस्य राज्ये तु दुःखशोकान्विताः प्रजाः ।
एवं स दानवश्रेष्ठः कृत्वा युद्धं तु विष्णुना । ।५३ ।।
पश्चात्तापोपतप्ताङ्गो विषयेभ्यो गतस्पृहः ।
वरदानमनित्यं तज् ज्ञात्वा च तपसः फलम् ।।५४। ।
निःस्पृहः सर्वकार्येषु विषयेप्साविवर्जितः ।
सर्वसन्न्यस्तकर्मा तु३० ध्यानाभ्यासपरायणः । ।५६ ।।
प्रवव्राज महादैत्यः शमेप्सुर्मोक्षसिद्धये ।
पुनरावर्तकं जन्म बुद्ध्वा चानित्यता पराम् ।।५७। ।
कष्टं राज्यमिति ज्ञात्वा प्रह्रादः परमार्थवित् ।
अभिषिच्य सुतं राज्ये दितिजानां३१ विरोचनम् ।।५ ८ ।।
दैत्यदानवराजानं कृत्वा तमसुरेश्वरम् ।
मोक्षसिद्धिं परामिच्छन् प्रव्रज्याकृतनिश्चयः । ।५९। ।
- - - - - - - - -- - -
२९ जितमित्येव - क. । ३० सन्न्यस्तसर्वकमा तु (?) । ३१ दितिजातां (तं?) - क. ।
- - - - - - - - -- - -

932
वरं तत्त्वमथान्वेष्टुं गुणातीतमजं शिवम् ।
साक्षाद् भगवतः शिष्यं३२ कपिलस्यासुरिं मुनिम् ।।8.172.६० ।।
शिष्यत्वेनोपसंगम्य मोक्षविद्यामवाप्तवान्३३ ।
प्रकृतीनां परं तत्त्वं विकाराणां परं तथा ।। ६१ ।।
क्षेत्रज्ञं पुरुषं ज्ञात्वा भोक्तारं भोक्तृवर्जितम् ।
मोक्षविद्यापरार्थज्ञः सांख्यसिद्धान्तपारगः । ।६२ ।।
सिद्धः पञ्चशिखो नाम्ना सोभवन्मुनिसत्तम३४ ।
स योगं३५ परमं लब्ध्वा सांख्याचार्यो महामुनिः ।
दुःखत्रयविनिर्मुक्तः प्राप्तवान् पदमव्ययम् । ।६३ ।।
श्रीमानेवं त्रिभुवनरिपुर्दैत्यराजो महात्मा
कृत्वा वैरं विबुधगुरुणा विष्णुना दीर्घकालम् ।
सिद्धः पश्चाज्जगदभयदः प्राप्तयोगश्च भूत्वा
मुक्तः पश्चात्३६ स पदममृतं३७ ब्रह्म चाद्यं ह्यवाप । ।६४।।
क्षेत्रज्ञबोद्धा गुणविप्रयुक्तो३८ दुःखैर्विहीनो भवपाशबन्धैः ।
तामिस्रमोहप्रतिबन्धमुक्तो३९ योगोश्वरोसौ दितिजाधिपोभूत् ।।६५। ।
एवं ताँश्छिन्नपक्षाँस्तु गिरीन् सर्वान् पुरन्दरः ।
प्रचकार मुनिश्रेष्ठ प्राक् पृष्टो यदहं त्वया ।।६ ६।।
इति स्कन्दपुराणे प्रह्रादचरिते पर्वतपक्षच्छेदोनामा द्विसप्तत्यधिकशततमोध्यायः४०

व्यास उवाच
नगेन्द्रो जीविते क्रौञ्चे तोषिते च सुरैर्गुहे ।
यातो१ हिमवतः शृङ्गं पार्वत्या सहितो हरः । ।१ ।।
किमन्यदकरोद्देवः किं चैनं प्राह पार्वती ।
एतत् कथय विप्रेन्द्र न तृप्तिः शृण्वतो हि मे । । २ ।।
- - - - - - - - -- - -
३२ सिद्धं - ख । ३ मवाप्नुयात् - क. । ३४ मुनिसत्तमः - क. । ३५ संयोग. - क । ३६ शान्तं - क. । ३७ परममृदुता (?) - ख. । ३८ विप्रमुक्तो - क- । ३९ प्रतिबद्धमुक्तो - ख। । ४० २२० - ख. । १ तया - क., यात्वा - ष ।
- - - - - - - - -- - -

933
सूत उवाच एवमुक्तो मुनीन्द्रेण ब्रह्मणस्तनयोव्ययः ।
ऋषिः परमयोगीशः कथयामास तत्त्वतः । । ३ । ।
प्रयाते हिमवच्छृङ्गं देवदेवे सहोमया ।
बभाषे गिरिजा देवं प्रणम्य परमेश्वरम् । ।४। ।
उञ्छवृत्तेर्हिरण्यस्य२ नैमिशारण्यवासिनः ।
शौचेन तपसा भक्त्या युक्तस्य च शमेन हि । ।५। ।
स्वयमेव प्रयाताहं द्विजं पूजां प्रतीच्छितुम् ।
माहात्म्यं तस्य तद् दृष्ट्वा ब्राह्मणस्य तपस्विनः । ।६ ।।
गताहं विस्मयं देव द्विजाः श्रेष्ठतमा इति ।
देवेभ्योपि गरीयांसो ब्रह्मणा इति मे मतिः ।
त्वत्तोथ३ श्रोतुमिच्छामि द्विजमाहात्म्यमुत्तमम् ।।७।।
देवदेव उवाच
एवमेतज्जगद्धात्रि सुरासुरनमस्कृते ।
श्रेष्ठास्तपस्विनो विप्रा देवेभ्योपि गरीयसः४ । ।८। ।
मदीया याः प्रजाः५ सृष्टाः६ प्रथमाः प्रभवो ह्यहम् ।
रुद्रा द्विजातयः पूर्वं मया सृष्टा महौजसः । ।९। ।
मदीयां मृष्टिमालोक्य ब्रह्मणापि सिसृक्षुणा ।
ब्राह्मणा मूर्धतः सृष्टाः पूर्वमेव महाप्रभाः । । 8.173.१० । ।
अग्रभूतो७ ह्यहं तेषां द्विजश्रेष्ठस्तदाभवम् ।
ततस्ते८ मत्सखाः९ सर्वे बभूवुर्विप्रसत्तमाः । । ११ ।।
उत्तमैषापरा१० सृष्टिर्ब्राह्मणाः११ परमेष्ठिनः ।
धर्मादिकं चतुर्वर्णं सर्वं तेषु प्रतिष्ठितम् ।। १२ । ।
यज्जुह्वति१२ हविर्विप्रास्तेन तृप्यन्ति देवताः ।
जगत् प्रतिष्ठितं सर्वं ब्राह्मणानां१३ हि तेजसा । । १३ । ।
- - - - - - - - -- - -
२ उञ्छवृत्तिर्हिरण्यस्य - ख टि. ३ तत्त्व?- - ख. । ४ गरीयांसः (?) । ५ पुरा - क. । ६ सृष्ट्वा - क. । ७ अग्रीभूतो? - क. । ८ ततते - ख । ९ मत्समाः (मन्मयाः) - ख, १० पुरा - ख. । ११ ब्राह्मणं - क । १२ जुह्वन्ति - क. ख. । १३ ब्राह्मण्येन (?) ।
- - - - - - - - -- - -

934
मृत्युजन्मापहं यत्तन्मम पाशुपतं व्रतन् ।
न वर्णाः साधयन्त्यन्ये मुक्त्वा ब्राह्मणसत्तमान् ।।१४। ।
लक्षणं संप्रवक्ष्यामि द्विजातीनामिदं शृणु ।
शौचार्जवविधानं च प्रभावं कर्म चैव ह । ।१ ५। ।
ब्राह्मणस्तु भवेज्जात्या१४ संस्काराद् द्विज उच्यते ।
विद्यया विप्रतां याति ब्राह्मण्यं त्रिविधं स्मृतम् । । १६।।
यश्च जात्या भवेद् विप्रो यश्च१५ स्याद् वेदपारगः ।
तयोस्त्राणे वधे चापि१६ पुण्यपापे१७ समे१८ स्मृते१९ ।। १७। ।
जात्या च यो भवेद्विप्रः सर्वागमविशारदः२० ।
तपशौचसमायुक्तस्त्र्यवदातः स उच्यते । । १८ । ।
तादृशं भोजयेच्छ्राद्धे दैवे कर्मणि वापि२१ यः ।
अक्षयं तद् भवेत् तस्य व्यवदातस्य तर्पणात् ।।१ ९।।
वेदविद्यो भवेद्विप्रो नित्यं होमपरायणः ।
सोपि श्रेष्ठः स्मृतो देवि पूजितस्तारयेत् कुलम् ।।8.173.२० ।।
सर्वथा जातिमात्रेण योपि स्याद् ब्राह्मणः क्वचित् ।
सोपि लोकगुरुर्देवि पूजितः स्वर्गदो भवेत । ।२ १ । ।
अग्निहोत्रं तपो यज्ञः शौचमार्जवमेव च ।
सत्यं वेदप्रसङ्गश्च द्विजकर्म परं स्मृतम् । ।२२ ।।
नानृतं ब्राह्मणो ब्रूते न हन्ति प्राणिनं द्विजः ।
न सेवां कुरुते विप्रो न द्विजः पापकृद्भवेत् ।। २३ ।।
ब्राह्मणश्च तपस्वी च न जन्म पुनराप्नुते ।
विद्वद्ब्राह्मणतां लब्ध्वा किन्न लब्धं हि देहिना२२ । । २४। ।
मूर्त्तयो याः स्मृता ह्यष्टावर्कसोमादयो मम ।
सर्वास्ता निवसन्ति स्म ब्राह्मणे तपसैधिते२३ ।।२५।।
- - - - - - - - -- - -
१४ भवेज्जन्मात् - क. । १५ यच्च - क. । १६ वापि - ख. । १७ पुण्यपापौ - क ख । १८ समौ - क- ख. । १९ स्मृतौ - क. ख. । २० विदे(व च) विशारदः - ख । २१ चापि - ख । २२ देहिनाम् - ख. । २३ तपमधिते - क. ख. ।
- - - - - - - - -- - -

935
द्विजतेजो ह्यवष्टभ्य अमृतं गाव एव च ।
प्रभवन्ति सदा देवि विप्राः श्रेष्ठतमास्ततः ।।२६।।
नासाध्यं२४ विद्यते तेषां द्विजानां परमौजसाम् ।
रुषितास्ते२५ प्रसन्ना वा प्रयच्छन्ति शुभाशुभम् । ।२७।।
द्विजास्तपस्विनो ये तु वेदविद्याविशारदाः ।
मुक्तिदास्तु२६ भवेयुस्ते देवानामपि देवताः । ।२८। ।
अहं पितामहश्चैव तेषां योनिद्वयं२७ स्मृतम् ।
मत्तः पूर्वं प्रसूतास्ते ततो देवि पितामहात् ।।२९।।
आवां हेतू द्विजातीनां प्रकृतित्वात् त्वमेव च ।
प्रकृतिस्त्वं समाख्याता पुरुषः परमो ह्यहम् ।।8.173.३ ० । ।
ब्रह्मविष्णू स्मृतौ यौ तौ रजःसत्वगुणात्मकौ ।
आवाभ्यां तौ प्रजायेते सृष्टिकाले प्रजापती । ।३१ ।।
अहं२८ ह्यग्निस्तमो विष्णुः सत्वं ब्रह्मणि संस्थितम् ।
रजस्त्वं व्यापितं विद्धि गुणभूतेषु कर्मसु ।।३ २।।
मोहात्मको स्मृतावेतौ तमो रागस्तथैव च ।
सत्वं नाशयते तौ हि स चाग्नेः२९ संप्रजायते । ।३ ३ ।।
वह्नितेजाः स्मृता ह्येते महात्मानो द्विजातयः ।
सर्वतः प्रभवन्त्येते नास्ति तेषां निवारणम् ।। ३४। ।
आर्जवं समतां चैव विद्धि तेजो द्विजातिषु ।
तपोविद्यासमायुक्तादार्जवस्तु विशिष्यते ।।३ ५। ।
अशाठ्यं३० हन्ति पापानि समता मोहबन्धनम् ।
उभेप्येते निहन्ति स्म आर्जवं सेवितं द्विजैः ।। ३ ६।।
पुरा भागीरथीतीरे द्विजः परमधर्मवित् ।
नाम्ना दानरुचिर्नाम उञ्छवृत्तिर्बभूव ह ।।३७। ।
सर्वविद्याविनीतात्मा सर्वभूताभयप्रदः ।
सह पत्न्या च मद्भक्तो वह्निहोमपरायणः ।।३८।।
- - - - - - - - -- - -
२४ नासाद्यं - ख. । २५ तुषितास्ते - क. । २६ वृत्तिदास्तु - क. । २७ योनीद्वयं - क ख. । २८ अह - क. । २९ तच्चाग्नेः (?) । ३० असाध्यां - ख. ।
- - - - - - - - -- - -

936
अतिथिं भोजयित्वा च३१ पूर्वं देवि यथागतम् ।
षष्ठे काले ततोश्नाति तस्येदं व्रतमुत्तमम् । ।३ ९ । ।
अथैवं वर्तमानस्य भूयान् कालो जगाम ह ।
अतिथावागते३२ तस्य न विकल्पः प्रजायते । ।8.173.४० ।।
तपशौचसमायुक्त३३ आर्जवैकरतो द्विजः ।
बभूवात्यर्थमर्चिष्मानर्काग्नी इव३४ तेजसा । ।४१ ।।
तस्यैवं तपसो३५ वह्निः प्रीतस्तुष्टिमगात् पराम् ।
शुभदित्सुरभूच्चास्य समीहितफलप्रदः । ।४२ । ।
कदाचिदथ कालेन षष्ठे काले समागते ।
हिममेघोल्बणे शीते दुर्दिने पर्यटन् द्विजः । ।४३ ।।
नापश्यदतिथिं कञ्चिद्३६ बुभुक्षाक्लमखेदितः ।
यदा नासदितस्तेन दिनान्तेप्यतिथिः क्वचित् । ।४४।।
अप्राश्यैव तदा किञ्चिदुपवासपरायणः ।
बभूव द्विजमुख्योसौ नात्मखेदमचिन्तयत्३७ । ।४५।।
पत्न्यप्यस्य महाभागा पतिभक्तिव्रते रता ।
यथैवास्याः३८ पतिश्चक्रे तथा साप्यकरोत्तदा ।।४६। ।
शीतक्षुदुपतप्ताङ्गो नैकद्वन्द्वसमावृतः ।
क्लेशेन महतातीव खिन्नोभूद्देवि स द्विजः । ।४७।।
द्वितीयेथ समायाते षष्ठे काले स ह द्विजः३९ ।
शीतदुर्द्दिनजाद्दोषान्नैवातिथिमवैक्षत४० । ।४८ । ।
अथाग्निस्तस्य४१ तज्ज्ञात्वा४२ निश्चयं परमं महत् ।
श्वपाकसदृशं रूपं विकृतं कुत्सितं च हि४३ ।।४९।।
कृत्वा पादपमूलस्थः४४ प्रददौ तस्य दर्शनम् ।
क्षुधार्तोथ स विप्रेन्द्रः पर्यटन्नतिथीप्सया । ।8.173.५० । ।
- - - - - - - - -- - -
३१ तु - ख । ३२ अतिथेरागमे(?) । ३३ तपसः शौचसंयुक्त - क. ख.। ३४. .नर्काग्न्योरवि(ग्न्योरिव? - ख. । ३५ तप(प्य)तो (?) । ३६ किञ्चिद् - क. । ३७ मन्नखेदमचिन्तयत् - ख. । ३८ यथैव च - ख. । ३९ समागते - क, महाद्विजः - ख. । ४० मवेक्षत - क । ४१ तथाग्निस्तस्य - क. ख । ८२ तं ज्ञात्वा - क. । ४३ बहिः (?) । ४४पादमूलस्थो - क. ख. ।
- - - - - - - - -- - -

937
अपश्यद् वृक्षमूलस्थं घोरं विकृतरूपिणम् ।
श्वपाकं शीतसंखिन्नं नैकव्रणशताङ्कितम्४५ ।।५१ ।।
दुर्दृशं४६ वृद्धमार्त्तञ्च प्रस्रवत्कृमिशोणितम् ।
विक्रोशन्तं च तातेति सोपश्यद् द्विजसत्तमः ।।५२ । ।
कृपणं तमथो दृष्ट्वा श्वपाकं द्विजसत्तमः ।
समाश्वसिहि भद्रेति प्रोवाच मधुरं वचः । ।५३ । ।
शीतापनयनार्थञ्च वह्निमस्यानयद् द्विजः ।
अथ तं४७ वह्निसंसर्गात् समाश्वस्तमुवाच सः४८ । ।५४।।
एहि भुंक्ष्वातिथिर्मे त्वं४९ भव भद्रेति सादरम् ।
तमुवाच ततो५० दीनं५१ श्वपाकस्तपसां निधिम् ।।५५। ।
श्वपाकोहं द्विजश्रेष्ठ मह्यमन्नमिहैव हि ।
कुत्सिताय प्रयच्छस्व यथैव मृगपक्षिणाम् ।। ५६ । ।
नाहं संस्कृतमाहर्तुं योग्योन्नमिति चाब्रवीत् ।
तमेवं वादिनं ध्यानाज्ज्ञात्वा५२ वह्निमुपस्थितम् । ।५७। ।
 प्रोवाच द्विजशार्दूल इदं वचनकोविदः ।
नाहं जातिं गर्हयामि पूजयामि .न चानघ । ।५८। ।
आत्मा सर्वगतो ह्येष सर्वप्राणिषु संस्थितः ।
आत्मानं तमहं भक्त्या पूजयामि परं शिवम् । ।५९। ।
सर्वत्र संस्थितं मत्वा पुरुषं परमेश्वरम् ।
तिर्यक्षु नहि मे कुत्सा त्वद्विधेषु विशेषतः । । 8.173.६० । ।
सर्वमेव स एवेति तपःशौचपरायणः ।
पूजयाम्यहमव्यग्रस्तत्र निस्संशयो भव । ।६१ । ।
कृमिकीटाखुसर्पेषु५३ श्वपाग्देवद्विजातिषु ।
यदा सर्वगतो ह्यात्मा तदा कुत्सा कथञ्च नः५४ । । ६२ ।।
- - - - - - - - -- - -
४५ व्रणशतार्दितम् - ख. । ४६ दुर्दर्श - ख. । ४७ श्वपाकं (?) । ४८ ह - ख । ४९. मंह्य - ख. । ५० तदा - क. । ५१ दीनः - क । ५२ ध्यात्वा ज्ञात्वा - ख. । ५३ क्रिमिकीटाखुसर्पेषु - ख. । ५४ कथञ्चन (?) ।
- - - - - - - - -- - -

938
न हि मे कुत्सितो भद्र एहि मे त्वमकुत्सितः५५ ।
भुंक्ष्व संस्कृतमन्नन्तु प्रापयास्माननुग्रहम् ।। ६३ । ।
एवमुक्तो द्विजेन्द्रेण श्वपाकः प्रीतिमाँस्तदा ।
गृहं जगाम विप्रस्य तस्यानुग्रहलिप्सया । । ६४।।
अथ दानरुचिस्तस्य अतिथेरिव पूजितम् ।
आतिथ्यं विधिवच्चक्रे भावशुद्धेन चेतसा ।।६५ ।।
मूर्त्तिमान् सोभवत् प्रीतो भोजितो हव्यवाहनः ।
प्रददावीप्सितं चास्मै योगैश्वर्यमनुत्तमम् । ।६ ६ ।।
स योगं परमं प्राप्य उञ्छवृत्तिर्द्विजोत्तमः ।
विमुक्तः सह पत्न्या तु प्राप्तवानमृतं पदम् । । ६७।।
यथैव कपिलः सिद्धस्तत्त्ववित् परमो मुनिः ।
एवमार्जवसंपन्नो ब्राह्मणः कृतलक्षणः ।
न किञ्चिन्नाप्नुयाद्देवि शुभाच्छुभतरं पदम् । ।६८ ।।
एतत्ते कथितं नगेन्द्रतनये माहात्म्यमग्र्यं परं
विप्राणाममरत्विषां सुबहुशः पुण्यायुषः५६ प्रापकम्५७ ।
शृण्वन्नित्यमिदं पठँश्च विधिवद्विद्वाञ्छुचिर्मानवः
पुण्यं सौख्यमथायुरीप्सितफलं तेजो बलं चाप्नुयात् । ।६९।।
माहात्म्यमेतत् कथितं यथावत्
महामहीध्रेन्द्रसुते द्विजानाम् ।
सृष्टेः प्रभवान्मम ते द्विजेन्द्रा
माहात्म्यमित्थं परमं ह्यवापुः । ।8.173.७० । ।
सनत्कुमार उवाच
द्विजमाहात्म्यमुल्लिख्य पार्वतीपरमेशयोः ।
बभूवेत्थं सुसंवादः पुण्यः पापविनाशनः ।।७१ । ।
- - - - - - - - पाराशर्य तपोधन ।
श्रोतव्यं मन्यसे मत्तस्तत् पृच्छस्व समाहितः ।।७२। ।
इति स्कन्दपुराणे द्विजमाहात्म्यवर्णनं नाम त्रिसप्तत्युत्तरशततमोध्यायः५८
- - - - - - - - -- - -
५५ त्वा कुत्सितो मया - ख. ५६ पूर्णायुषः (?) । ५७ पूर्णायुषो ह्या(वा)पकम् - ख. । ५८ २२१ - ख. ।
- - - - - - - - -- - -

939
व्यास उवाच भगवन् यत्त्वया प्रोक्तं दक्षयज्ञवधे तदा ।
प्राप्य पाशुपतं योगं ब्रह्माद्यास्त्रिदिवौकसः१ ।। १ ।।
लेभिरे परमं तत्त्वं ज्ञानेन हि महामुने ।
तन्मे कथय भक्ताय शिष्याय परिपृच्छते । ।२ ।।
कीदृशं तत्परं योगं ज्ञानं पाशुपतं शुभम् ।
यज्ज्ञात्वा२ ब्राह्मणाः सिद्धाः प्राप्नुयुर्मोक्षमुत्तमम् ।
इति३ पृष्टस्तु शिष्येण प्रोवाच मुनिसत्तमः ।।३ । ।
सनत्कुमार उवाच
साधु व्यास महाबुद्धे मुमुक्षुरसि पुत्रक ।
यन्मां पृच्छसि तज्ज्ञानं योगं माहेश्वरं परम् ।।४। ।
सर्वासां योगविद्यानां यत्तत्त्वं परिकीर्त्यते ।
सांख्ययोगागमोपेताः सर्वाध्यात्मविशारदाः ।। ५। ।
योगैश्वर्यमपि प्राप्य तत्त्वं नैवोपलेभिरे ।
यदबुद्ध्वा महाभाग ज्ञानं शङ्करभाषितम् ।। ६। ।
तद्यथा कथितं तेषां त्र्यम्बकेण४ दिवौकसाम् ।
तत्तेहं संप्रवक्ष्यामि संक्षेपात्तत्त्वनिश्चयम् । ।७। ।
विस्तरेण न तच्छक्यं वक्तुं वर्षशतैरपि ।
तस्याहं स्थि?तपक्षन्तु संसारोत्पत्तिनाशनम् । ।८।।
मुक्तिसिद्धिप्रदं वक्ष्ये संक्षेपान्मतमुत्तमम् ।
नमस्कृत्य महेशानं पुरुषं भूतभावनम् ।। ९।।
प्रकृतेः परमं गुह्यं पुद्गलं परमेष्ठिनम् ।
यं सांख्याः पुरुषं प्राहुः पञ्चविंशमजं विभुम् । । 8.174.१० । ।
योगाश्चापि हि षड्विंशं व्यापिनं त्रिगुणात्मकम् (?) ।
योसृजत् सृष्टिकाले तु देवौ सर्वजगत्सृजौ ।।१ १ । ।
- - - - - - - - -- - -
१ ब्रह्माद्यास्ते दिवौकसः (?) । २ यं ज्ञात्वा - क. ख. । ३ अथ - क. ख. । ४ त्र्यम्बकेण (?) । ५ नमस्कृत्वा - क. ख. । ६ प्रभुः (भुं) - क. ।
- - - - - - - - -- - -

940
प्रजापती महात्मानौ ध्यात्वा विष्णुपितामहौ ।
तं प्रणम्य महादेवं त्र्यक्षं वरदमीश्वरम् । । १२ । ।
प्रवक्ष्यामि मतं तस्य योगसिद्धान्तनिश्चयम् ।
लक्षणं विद्धि योगस्य प्रोच्यमानमिदं मया । । १३ । ।
छिद्यन्ते७ पशुपाशानि यस्याभ्यासान्महामुने ।
प्रत्ययस्य बहिर्लोपो मनस्यात्मनि संस्थिते । । १ ४। ।
अभिसन्धिः परे चैव ईश्वरस्यात्मनश्च ह ।
एष योग इति व्यास कीर्तितः शम्भुना पुरा । । १ ५।।
भवजन्मापहः सूक्ष्मः प्रपन्नानां दिवौकसाम् ।
शरीरे तिष्ठतः पुंसो यदात्मनि मनः स्थितम् । । १६ । ।
अवितर्कं बहिश्चैव सूक्ष्ममभ्यासयोजितम् ।
कृतानां प्रत्ययैः सूक्ष्मैः सुखदुःखादिसंज्ञिनाम्८ ।। १७। ।
अशेषलोप इत्यक्त साधकस्य तु युञ्जतः ।
परो महेश्वरो देवः सोभिसन्धिस्तु योजकः । ।१ ८ । ।
अभिसन्धिस्तदा९ यस्मादीश्वरस्यात्मनश्च ह ।
सुखादानमथैकेन भावना - - योजनात् । । १९। ।
प्र - - - - - - - - - - तिष्ठतस्सतः ।
साधकस्य भवेन्नित्यं ह्यद्रिः (?) सिद्धमिदं फलम् । । 8.174.२० । ।
अथाधिकरणं तत्र क्रमशः परिकीर्त्यते (?)
प्रत्याहारमतो१० विद्या प्राणायामस्तथैव च ।
ध्यानञ्च धारणा चैव११ योगाभ्यास उदाहृतः१२ ।।२१ । ।
तिस्रो मृत्युमतिक्रम्य क्रिया हि चतुरात्मिकाः ।
वर्त्तन्ते न च वै - - मृत्युः प्रभवते मुने । । २२ ।।
वश्या हि धातवस्तस्माद् भवन्त्यस्य न संशयः ।
ततोसौ पवमृत्युश्च साधको भवति - - ।। २३ । ।
- - - - - - - - -- - -
७ छिद्यन्ति - क. ख । ८ सं व्रतम् - ख । ९ अभिसन्धिस्तु - क, अभिसन्धिस्सा(?), इतः परं पत्रमेकं खण्डितं क पुस्तके । १०.. .स्ततो (।) । ११ धारणाच्चैव - ख । १२ उदाहृतं - ख. ।
- - - - - - - - -- - -

941
इमास्तर्क्कक्रिया व्यास मस्तके हृदि चैव हि ।
अन्तरिक्षे च सर्वास्तु कीर्तिता हि न संशयः । । २४। ।
स्थानत्रयनिबद्धास्तु चतुर्लक्षणसंस्थिताः ।
क्रियाः प्रमादिना नैताः शक्याः साधयितुं क्वचित् । । २ ५।।
तिस्र एताः सदा मृत्युं प्रवृत्ता मोहलक्षणाः ।
वियोगो न भवेत्तासु क्रियास्वेकैक - - - । । २६ । ।
अज्ञानं कम्पते१३ तासु बहिरन्तश्चरास्वपि ।
क्रियासु१४ साधको युक्तस्तथा मध्यगतासु च । । २७। । भूतेन्द्रियमनःकालदिङ्निवृत्तिः प्रभावतः ।
दशैवाशास्त्रयः काला१५ भूतानीन्द्रियविस्तरः ।। २८ । ।
मनःप्रचारसंयुक्तो विषयाभावलक्षणः ।
प्रत्याहार इति प्रोक्तः पुरा भगवता स्वयम् । । २९ । ।
दिगन्तरगमाभावात् मनस्यविचलस्थितौ ।
प्रत्याहारसमुत्पतिर्योगोत्पत्तौ सकृद् भवेत् । । 8.174.३० । ।
त्रिकालविषयं ज्ञानमैश्वर्योदग्रमेव च ।
चले मनसि नाभूतां भवेतां संस्थिते१६ समम् । । ३१ ।।
मनः सर्वमिदं यस्मात् साधनं योगकर्मणः ।
एकतो मनसः स्थाने तस्माद् यत्नं समाचरेत् । ।३ २ । ।
प्राणनिग्रहणे१७ ध्यानं प्राणायाममिति स्मृतम ।
प्राण एव हि वायूनां सारथ्ये वर्तते सदा । ।। ३३ । ।
प्राणनिग्रहणे योगी नित्यमभ्यासमाचरेत् ।
उत्तरोत्तरसंसिद्ध्या वायु - - - गोचरे । । ३४। ।
ज्योतिः प्रवर्तनं विद्यान्नित्यमभ्यासयोजितम् ।
द्विरपाने सकृत्प्राणे समाने च । ' - - - । । ३५ । ।
- - - र - -) - - ५ - - । - - - ।
- - - - । - - - ' - - - ' - - - । । ३६ । ।
- - - - - - - - -- - -
१३ अज्ञो न कम्पते (?), प्राज्ञो - (?) । । १४ क्रियातु - ख. । । १५ कालो - ख. । १६ संस्थिता - ख. ।
- - - - - - - - -- - -
942
                              ।।
कुम्भ एष तृतीयस्तु योगवह्निप्रदीपकः । ।३७। ।
एभिर्ध्यानगतिः सूक्ष्मा वायुसंरोधकारिता ।
प्रवर्तते यया योगी परमं वेष्टि पुद्गलम् । । ३ ८।।
सकृदेव समाहारादसकृत्परिमोक्षणात् ।
कुम्भकं चैतदुद्दिष्टं१८ प्राणायामादिधारणात् । । ३ ९। ।
प्राणो वायुरसावात्मा शरीरे जीव - - - ।
विद्याद् रूपद्वयं तस्य स्थूलं सूक्ष्मं च सर्वतः ।।8.174.४०।।
अव्यक्तं सूक्ष्मरूपं तु स्थूलमाकारलक्षणम ।
स्थूलादारभ्य सूक्ष्मं तु ध्यानाभ्यासान्निरूपयेत् १९ ।।४१ । ।
सूक्ष्मसंरोपणाज्ज्योतिः प्रकाशो जायते मुने ।
ध्यायतः स्थूललक्ष्यं२० तु सर्वदिक्षु सृतं मनः ।
यदा दीप्तिमदुत्पद्येत् तदाशु स्थापयेत् पुनः ।।४२ । ।
गिरौ वृक्षे मरुत्पृष्ठे श्वभ्रे प्रासादपंक्तिषु ।
समुद्रे वसुधायां वा मनःसंयोगमाचरेत् । ।४३ ।।
स्थापितं तन्मनस्तत्र पुनः संहारमाव्रजेत् ।
अचैतन्यं दिशेन्मोहाद् वायुर्दृष्टमतोन्यथा२१ । ।४४। ।
संहृत्य च ततो व्यापि भूयो ध्यानगतिं चरेत् ।
ध्यायतो नित्यमभ्यासान्मनो वायु - - - - । ।४५। ।
प्रवृत्तज्ञानयोगस्य२२ विषयासंगसंक्षये ।
प्रातिभानि२३ हि विघ्नानि सत्वादिगुणजानि तु ।
विघ्नभूतानि योगस्य प्रोद्भवन्ति हि युञ्जतः । ।४६।।
तानि विद्वान् प्रयत्नेन विषयेच्छाविवर्जितः ।
जित्वा निर्वाणमार्गस्थो भवेत् त्रैगुण्यवर्जितः ।।४७। ।
आकाशगमनं दिव्यमप्सरोगणसंगजम् ।
अभिषेकश्च देवेभ्यश्चित्रकाव्यप्रवर्तनम् । ।४८ । ।
- - - - - - - - -- - -
१८ कुम्भकमेतदुद्दिष्टं - ख., इतः पूर्व पत्रमेकं खण्डितं क. पुस्तके । १९ - सन्निरूपयेत् - ख. २० लक्षं - ख । २१ दृष्टमतोन्यथा - ख. । २२ ध्यानयोगस्य (?) । २३ प्रतिभा(न्) ति - ख,
- - - - - - - - -- - -

943
ऐश्वर्यसुखसंसक्तिर्हेमरत्नागमं बहु ।
सत्वादेतानि विघ्नानि प्रातिभानि तु लक्षयेत् ।।४९।।
उत्पत्तिमदयुक्तानि२४ भिन्नाचारक्रमाणि तु ।
रजोविघ्नानि संविद्यात् प्रातिभानि न संशयः । ।8.174.५० ।। क्षयशूलज्वरोन्मादकुष्टसर्पग्रहाणि तु ।
यातनोद्गमपूर्वाणि तामसानि विनिर्दिशेत् ।।५१। ।
गुणत्रयसमुत्थानि प्रातिभानि सदा मुनिः ।
युञ्जन् संलक्षयेच्छीघ्रं चिकित्सेदाशु चैव हि ।।५२ ।।
प्राणाद्यानभिसन्धाय२५ मनः संहृत्य चैव हि ।
प्राणायामेन कुम्भेन हन्याद्विघ्नानि सर्वतः । ।५३ ।।
रजः सत्वं तमश्चैव प्रधानस्य२६ गुणास्त्रयः ।
तस्यैव हि महेशस्य प्रजासंसर्गहेतवः ।। ५४।।
योगमोहाद् भवन्त्येते साभिमानस्य युञ्जतः ।
निरीहो निर्वृतो योगी सचेता घटते यदा । ।५५। ।
प्रातिभानि तदा यान्ति विघ्नानि हि समं क्षयम् ।
प्रादुर्भावस्ततस्तेषां गुणानां मोहकारणम् (?) ।।५६ ।।
तमो रौद्रं विजानीयात् सत्वं ब्रह्मणि संस्थितम् ।
रजस्तु बैष्णवं विद्यात्तेषां हन्ता२७ महेश्वरः । ।५७। ।
महादेवं परं ज्ञात्वा योगाभ्यासरतो द्विजः ।
गुणत्रयविनिर्मुक्तः शङ्करे लयमाप्नुयात् ।।५८ ।।
यमैः सनियमैः पूर्वं शोधयेदात्मनस्तनुम् ।
ततः शास्त्रप्रणीतेन धर्माधर्मविवर्जितः२८ ।।५९।।
क्रमेण सोपदेशेन ध्यानाभ्यासं समाचरेत् ।
शब्दादीन् विषयान् जित्वा श्रोत्रादीन्द्रियगोचरान्२९ ।।8.174.६० । ।
- - - - - - - - -- - -
२४ उन्मत्तमदयुक्तानि - क. । २५ नाभिसंबन्धान् - ख. । २६ प्राधान्यस्य - क., प्राधान्येन(?) । २७ हर्ता - ख. । २८ -धर्मविवर्जितात् - क. । २९ त्वगादिन्द्रियगोचरान् - क. ख. ।
- - - - - - - - -- - -

944
समो दैवततिर्यक्षु३० निर्ममः सर्ववस्तुषु ।
सर्वारम्भविनिर्मुक्तः पुण्यपापविवर्जितः । ।६ १ । ।
निर्द्वन्द्वो३१ निर्जने३२ ईशे योगाभ्यासं समाचरेत् ।
साभिमानं सनियमं त्यक्त्वा३३ सांख्यविनिश्चयम् ।। ६२ । ।
परे माहेश्वरे योगे नित्यमम्यासमाचरेत् ।
अष्टौ प्रकृतयो नित्या विकाराश्चैव षोडश । ।६३ ।।
पुरुषः पञ्चविंशश्च सांख्यसिद्धान्तगोचरः ।
एतदेव परं गुह्यं३४ द्र्ये सांख्यानां तत्त्वनिश्चये ।
प्रकृतेरन्तरं ज्ञात्वा पुरुषस्य च मुच्यते३५ । ।६४। ।
इति स्कन्दपुराणे पाशुपतयोगवर्णनं नाम ध्यानविधौ प्रथमोयं चतुःसप्तत्युत्तरशततमोध्यायः

सनत्कुमार उवाच
योगं सांख्यञ्च सर्वत्र द्विविधं ज्ञानमुच्यते ।
तत्र सांख्यरताः केचित् केचिद् योगपथाश्रिताः १ ।। १ ।।
अव्यक्तं प्रकृतिश्चैव तथाहङ्कार एव३ च ।
अष्टौ प्रकृतयो ह्येतास्तन्मात्रः पञ्चभिः सह । । २ । ।
पञ्च बुद्धीन्द्रियाण्याहुः पञ्च कर्मेन्द्रियाणि च ।
मनः पञ्च च भूतानि विकाराः षोडश स्मृताः ।।३ ।।
पुरुषः पञ्चविंशश्च सर्वारम्भविवर्जितः ।
नित्यः सर्वगतः सूक्ष्मश्चेतावान्४ त्रिगुणेज्झितः । ।४। ।
संशुद्धो विमलो भोक्ता अकर्ता साक्षिवत् स्थितः ।
विदित्वा न विशन्त्येनं भूयः संसारपञ्जरम् ।। ५।।
पञ्चविंशति तत्त्वानि सांख्यैरेतानि योगिभिः ।
प्रोक्तानि यद्५ विदित्वा हि मुच्यते किल जन्मनः६ । ।६ । ।
- - - - - - - - -- - -
३० देवतातिर्यक्षु - क. ख. । ३१ निर्द्वन्द्वे - क. ख. । ३२ विजने - ख. । ३३ ज्ञात्वा (?) । ३४ ब्रह्म - क.। ३५ मुच्यतीति - क. ।
१ योगपथे रताः (?),. ग्रताः - क । २ च महांश्चैव () । वे. ..मेव - ख. । ४ श्चैतावान् - क, श्चैत्यवान् (?), ..श्चेतन (?) । ५ यान् - क., ये या - ख. । ६ जन्तवः - क. ।
- - - - - - - - -- - -

945
( ९४५) सूक्ष्मा प्रकृतिरव्यक्ता भोज्या७ सर्वरता चला ।
नित्या चाचेतना चैव विज्ञेया सर्वकामिकी ।।७।।
तमः सत्वं रजश्चेति८ विषयस्थं गुणत्रयम् ।
येषामव्यभिचाराद्धि९ सर्वमेतदवस्थितम् ।।८ ।।
प्रकाशजननं सत्वं रजः सङ्गप्रवर्तनम् ।
तमो विमोहनञ्चैव गुणविस्तर उच्यते१० । ।९ । ।
भिन्नकार्यप्रचाराणामेतेषां गुणसंज्ञिनाम्११ ।
हेतुना पुरुषार्थेन साधिका वृत्तिरुच्यते१२ । ।8.175.१ ० । ।
दैवमष्टविभेदन्तु१३ तिर्यक् सप्तविधं स्मृतम् ।
अविकल्प्यं च मानुष्यं सर्वतेतद्१४ गुणात्मकम् । ।१ १ । ।
मूढं निश्चेतनं भूतं स्थूलं सूक्ष्ममथापि वा१५ ।
अमूर्त्तं मूर्त्तिमद्वापि१६ त्रिगुणं सर्वमुच्यते१७ । । १२ । ।
मोक्षविघ्नकरा ह्येते कीर्तिता योगिनो गुणाः ।
सक्तस्यैव१८ हि बन्धः स्यादसक्तो मुक्त उच्यते ।
विभागात् प्रकृतिस्थस्य स्थिता नित्यं गुणत्रयम् (?) ।। १३ । ।
विभागेन विकारस्था यथाधर्मं समाश्रिताः ।
भूतसर्गस्त्रिधाभूतः१९ सांख्यज्ञैः परिपठ्यते । । १४ ।
संसिद्धः२० प्राकृतश्चैव२१ तथा वैकृत उच्यते२२ ।
तत्र धर्मेण संसिद्धा योगे माहेश्वरे स्थिताः ।। १ ५। ।
नेच्छन्ति संभवं व्यास धर्मो (?) पञ्चात्मतः स्मृतः ।
ते पुनर्द्रव्यसंबन्धात् सांख्यदृष्टान्तपण्डिताः । । १ ६।।
इच्छन्ति२३ कार्यमाश्रित्य कारणाश्रयिणो न हि ।
प्रधानात् पुरुषाद् बुद्धिरभूत् सत्वाधिकासकृत् ।।१७। ।
- - - - - - - - -- - -
७ भोग्या (?) । ८ रजश्चैव - ख. । ९ येषामाद्यविचाराद्धि - ख. । १० मुच्यते - क. ख. । ११ सज्ञिना गुणः - क, । १२ वृत्तिरीरिता - ख. ' १३ विभिन्नन्तु - क ख । १४ सममेतद् - ख । १५ च - ख । १६ भूर्तिमच्चापि - ख. । १७ सर्व त्रिगुणमुच्यते (?) । १ न सक्तस्यैष - क. । १९ स्त्रिधाभूता - ख. । २० संसिद्धं - ख. । २१ प्राकृन्तञ्चैव - ख. २२ मुच्यते - ख. । २३ इच्छन्ते - ख. ।
- - - - - - - - -- - -

946
गुणानां परिणामेन प्राकृतानां जलादिवत्२४ ।
ब्यवसायस्तथा रूपं निश्चयश्चेति भाष्यते । । १८ । ।
बुद्धिरेव ह्यहङ्कारः प्रत्ययान्तरसंभवात्२५ ।
मनः केचित् तमिच्छन्ति२६ क्रियाजं गुणसंग्रहम् ।। १९ । ।
अहमेव हि कर्तेति२७ अहङ्कार उदाहृतः ।
मनसः कल्पनं वापि२८ स्मृतमिन्द्रियगोचरम् ।
बुद्धिभूतादहङ्कारात् सत्वोत्पन्नात् प्रकाशिनः ।। 8.175.२० ।।
बुद्धीन्द्रियाणि जातानि पञ्च सत्त्वोदयानि तु ।
बोध्यते बुध्यते वापि मुमुक्षुस्त्विन्द्रियैर्यतः२९ । । २१ । ।
ततो बुद्धीन्द्रियाणीति कीर्त्यन्ते तत्त्वचिन्तकैः ।
- - - - - - - - - - - - - - - - । । २२। ।
अतः कर्मेन्द्रियाण्याहुर्गुणाज्जातानि राजसात् ।
तामसादप्यहङ्कारात् तन्मात्राण्यभवन् पुनः ।।२ ३ । ।
केचित् सर्वगतान्याहु - - - - - - - - ।
- - - - विधं तच्च धर्माधर्मसमुद्भवम् ।। २४। ।
याति सर्वत्र सिद्धार्थं भूतव्यापि विमोहनम् ।
शक्तं सर्वाश्रयं सूक्ष्ममनिवारितदिक्पथम् । । २५।।
लिङ्गः तच्च समाख्यातं देहिनां यच्च कारणम् ।
यश्च सर्गस्त्रिधा प्रोक्तः स एव नवधा पुनः । । २६।।
प्राकृतस्य विकारस्य देहभेदाः सहस्रशः ।
तत्त्वसर्गः स्मृतः पूर्वः३० पिण्डसर्गस्ततोपरः । । २७। ।
प्रत्ययानां ततः सर्गस्तृतीयः समुदाहृतः ।
असक्ति३१ र्विलयस्तुष्टिः सिद्धिश्चेति चतुस्थि - ।।२८।।
भेदाः प्रत्ययसर्गे तु वैषम्यादपरे स्मृताः ।
पञ्चाशत् परितो भेदा ये च तेषां गुणा दश । । २९ ।।
- - - - - - - - -- - -
२४ जलाद्रिवत् - ख. । २५ प्रयात्यन्तरसंभवात् - ख., .. संभवाम् - ख. । २६ समिच्छन्ति - ख. । २७ तर्केति - ख. । २८ व्यापि - ख. । २९ .. र्युतः - ख. । ३० पूर्वं - ख. । ३१ अशक्ति - ख. ।
- - - - - - - - -- - -

947
षष्टिरेते पदार्था हि गीयन्ते कपिलादिभिः ।
सा तुष्टिर्नवधा भिन्ना सिद्धिश्चैवाष्टधा पुनः ।।8.175.३ ० । ।
स्मृतः पञ्चविधश्चापि तेषामेव विपर्ययः ।
अष्टभेदा३२स्त्रिभिन्ना३३ स्याद् दशभिः कार्यबन्धनैः ।।३ १ ।।
एते षष्टिपदार्थास्तु संख्याज्ञानमिति३४ श्रुतिः ।
न्यूनामेकाधिकामेके३५ षष्टिमन्ये३६ तु जानते ।।३२।।
ममैव हि पुरा वत्स गुणजे पदपञ्चके ।
अन्तरं तत्त्वमन्वेष्टुं प्रकृतेः पुरुषस्य च । ।३ ३ ।।
सांख्यतन्त्रं महद् बुद्ध्वा ज्ञात्वा तत् प्रकृतेः परम् ।
पचविंशमजं तत्त्वं भोक्तारमभिमानिनम् ।।३४।।
सन्देहापगमो नाभूदबुद्ध्वा परमेश्वरम् ।
यदाहं देवदेवेन स्वयमेव जगत्सृजा । ।३ ५। ।
स्वयोगं शम्भुना वत्स ग्राहितो गतसंशयः ।
तदा षड्विंशकं तत्त्वं ज्ञात्वा सर्वगमीश्वरम् ।। ३ ६।।
विमुक्तो योगसंसिद्धौ जातोहं मोहवर्जितः ।
भोक्ता चेत् प्रकृतेरस्ति भुंक्ते च पुरुषः स्वयम् ।
- - - - - - - - - - - - नपि द्विज ।।३७।।
यस्तयोः परतो नित्यम्३७ षड्विंशस्त्वीश्वरो विभुः ।
तं ज्ञात्वा परमं तत्त्वं मुच्यते जन्मबन्धनात् ।।३८।।
सांख्यं कृत्स्नमपि ज्ञात्वा गुणान्तरविचारणात् ।
पञ्चविंशकसंबोधान्नैव मुक्तिः प्रजायते ।
स बद्धो३८ भोक्तृपाशैस्तु गुणैः प्रकृतिसंभवः । ।३ ९।।
अभिमानात्मको भोक्ता पुरुषत्वादमोचकः ।
तं विदित्वापि नैव स्यान्मुक्तिः प्रत्ययवर्जिता । ।8.175.४० ।।
एष उक्तस्समासेन सांख्यसिद्धान्तविस्तरः ।
योगतत्त्वं प्रवक्ष्यामि दुःखजन्मविनाशनम् ।।४१ ।।
- - - - - - - - -- - -
३२ भेद (?) । ३३ त्रिभिन्नः (?) ३४ सांख्या (सांख्य?) ज्ञानमिति - ख. । ३५ ... नेकाधिके - ख. । ३६ रन्ये - ख. । ३७ नित्यं - ख, इतः पूर्व पत्रमेकं खण्डितम् क पुस्तके । ३८ संबन्धो - क. ।
- - - - - - - - -- - -

948
संभवं देहिनश्चैव वैराग्यं येन चोद्भवेत् ।
धर्माधर्मपरित्यागं३९ सत्यानृतविवर्जितम्४० । ।४२। ।
योगाभ्यासं४१ परासङ्गं४२ सूक्ष्मज्ञानमनिन्दितम् ।
सर्वसंसक्तिनिर्मुक्त४३ मीश्वरप्राप्तिकारणम्४४ । ।४३ । ।
सिद्धिनिर्द्वन्द्वसंयोगमशुभोदयनाशनम् ।
परोपलब्धिविज्ञानं तत्त्वार्थपदनिश्चयम् ।।४४। ।
भवजन्मापहं योगं विषयेन्द्रियवर्जितम् ।
मतं पशुपतेः कृत्स्नममृतास्पदलम्भनम् । ।४५ । ।
इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ द्वितीयोयं पञ्चसप्तत्युत्तरशततमोध्यायः४५

सनत्कुमार उवाच
उत्पद्यते१ यथा जन्तुर्वैराग्यं व्रजते यथा ।
यथा प्रबुध्यते चैव तत्ते व्यास वदाम्यहम् ।। १ । ।
आकाशः२ पवनस्तेजो भूमिरापस्तथैव च ।
एषामेकत्र संघाताच्छरीरं नाम जायते ।। २। ।
रसाः सोमात्मकाः सर्वे तथाहारश्चतुर्विधः३ ।
देहिनान्तु रसोत्पत्तिराहारस्य निषेवणात्४ । ।३ । ।
रसाद्रक्तसमुत्पत्तिः शोणितात् पिशितं स्मृतम् ।
मेद उत्पद्यते मांसात्तस्मादस्थीनि चाभवन् ।।४। ।
मज्जा चास्थिभवा ज्ञेया ततः शुक्रसमुद्भवः ।
रक्तशुक्रसमायोगाद् गर्भः५ संभवति स्त्रियाः । ।५ । ।
ऋतुयोगसमाधानाद् दैवकर्मवशादपि ।
स्त्रियाः पुंसश्च रत्यन्ते द्वावप्येकत्वमागतौ । । ६ ।।
- - - - - - - - -- - -
३९ परित्याग - क, परित्याग, (?) । ४० विवर्जिता - ख, विवर्जितः - क । ४१ योगाभ्यासः - (?) । ४२ परासङ्गः - ख-, परासंगः (?) । ४३ संसक्तनिर्मुक्त - ड । ४४ कारणात् - क. । ४५ २२३ - ख. ।

१ उत्पद्यति - कु. । २ आकाशं - ख । ३ तथाहारञ्चतुर्विधम् - क. । ४ निसेवनात् - क. । ५ गर्भं - क. ।
- - - - - - - - -- - -

949
तावेकत्वमथापन्नौ प्रेरितौ पवनेन च ।
कललं त्वेकरात्रेण पञ्चरात्रेण चार्बुदम् । ।७। ।
पिशितं सप्तरात्रेण मासाच्चाङ्कुरसंभवः ५ ।
ततःप्रभृति गर्भस्य विभागो भवति द्विज । ।८।।
शिरः पाणिमुखस्कन्धग्रीवापृष्ठादिसंयुतः७ ।
पञ्चानामथ मासानामक्षिकर्णादिसम्भवः । ।९।।
सर्वसंपूर्णगात्रस्तु स्रोतोभिर्नवभिर्युतः ।
व्यक्तीभवति तद्गर्भो मासैरष्टभिरेव तु ।। 8.176.१० । ।
संप्राप्ते नवमे मासि सर्वद्रव्यसमन्वितः ।
पञ्चभूतात्मकं तत्तु चेतोवदवतिष्ठति । । ११ ।।
गर्भक्लेदेन सिक्ताङ्गः८ सर्वदुःखसमन्वितः९ ।
जातिं स्मरेद्वसँस्तत्र१० जन्तुः सर्वसमुद्भवाम् । । १२ । ।
मृतः पुनरहं जातो जातश्चैव पुनर्मृतः ।
इदानीं जातमात्रस्तु योगमेवाभ्यसाम्यहम् । । १३ ।।
न पुनर्येन११ संसारं प्रवेक्ष्याम्यशुभोदयम् ।
एवं चिन्तयतस्तस्य नवमे मासि संगते । । १४।।
स्वकर्मविनिबद्धस्य जातमात्रस्य देहिनः ।
दहेमाविशते१२ वायुः स्मृतिमाक्षिप्य तामसः । । १ ५।।
येन मूढो निरानन्दो नैवाध्यात्मरतिर्भवेत् ।
अग्नीषोमात्मकं सर्वं भूतग्रामं चतुर्विधम् । । १ ६। ।
संयोगादेवमुत्पन्नमुत्पत्स्यति च सुव्रत ।
तत्र ये साधुसंपर्काच्छुभकर्मोदयादपि । ।१७। ।
आगमान्वेषणे सक्ताः पापानुष्ठानवर्जिताः ।
मत्वा संसारजं क्लेशं१३ जन्ममृत्युभयार्दितम्१४ ।।१ ८ ।।
- - - - - - - - -- - -
६ मासादङ्कुरसंभवः - क । ७ ग्रीवपृष्ठादिसंयुत - ?, संयुतम् - क. ख. । ८ सिक्ताङ्गं - क. । ९ समावृतः - क. ख. । १० स्मरति - ख, स्मरन् विसँस्तत्र (?) क, (वि)शेस्तत्र क., संत्रस्तः - (?) । ११ पुनःप्रत्य - ख. । १२ मोहमाविशते (?) - ख । १३ संसारसक्लेश - ख. । १४.. ..भयादितः (?) ।
- - - - - - - - -- - -

950
कामक्रोधरतिद्रोहलोभमोहसमावृतम् ।
वैराग्यं जन्मतः१५ कृत्वा सर्वारम्भपरिक्षयात् ।। १ ९। ।
अन्विषन्ति१६ शुभार्थं हि गुह्यमध्यात्मदर्शनम् ।
ते योगं परमं प्राप्य ब्रह्म विन्दन्ति तत् परम् । ।8.176.२ ०।।
तस्य ते संप्रवक्ष्यामि ब्रह्मसंबोधकारणम् ।
सर्वेषां योगिनां गुह्यं सर्वयोगनिदर्शनम्१७ । ।२१ । ।
ततो माहेश्वरं१८ योगमाख्यास्ये तत्परन्तव१९ ।
तेजोग्निः कामजो वह्निः क्रोधाग्निर्वीक्षणानलः । ।२२। ।
जठराग्निश्च भूतात्मा पञ्चैते देहवह्नयः ।
प्राणापानः समानश्च२० उदानो व्यान एव च । ।२३ ।।
पञ्चैते वायवो नित्या देहिनो देहसंभवाः२१ ।
आकाशप्रभवा ह्येते शरीरं चैषु तिष्ठति२२ । ।२४। ।
मांसरक्तसमाकीर्णं स्नायुमेदोस्थिसंचयम् ।
त्वचावनद्धं२३ दुर्गन्धं शकृन्मूत्रसमावृतम् ।।२५।।
तडिदभ्रागमानित्यं मृत्पात्रापातसन्निभम् ।
सर्वानर्थसमायुक्तं२४ नचिरान्नाशगामि च२५ ।।२६। ।
एकरूपं नवद्वारं त्रिस्थूणं पञ्चदेवतम् ।
विषयेन्द्रियसंकीर्णं नैकव्याधिसमार्दितम्२ ६ ।। २७।।
प्राणादिभिरवष्टब्धं शरीरं यन्त्रवत् स्थितम् ।
विमुक्तमसकृत्२७ तैस्तु वायुभिर्जीवसंहतैः ।। २८। ।
आमपात्रमिवापाताच्छीर्यते कालपर्ययात्२८ ।
पञ्चभूतानि भूतानि देहान्निष्क्रम्य सर्वशः । ।२९। ।
आविशन्ति तथात्मानमात्मा च विशते द्रुतम् ।
भूतेषु पवनः श्रेष्ठो जीवस्तद्विनिबन्धनः ।। 8.176.३ ०। ।
- - - - - - - - -- - -
१५ जन्मनः (?) - क., जन्मना - ख. । १६ अन्वेषन्ति - ख, अन्विष्यन्ति (?) । १७ सर्वयोगिनि- दर्शनम - क. । १८ विभोर्माहेश्वरं - ख । १९ तत्परन्तपः - क । २० प्राणोपानः समानस्तु - क. ख. । २१ देहसंभवान् - क । २२ तिष्ठते - क. । २३ त्वचावबद्ध - ख. । २४ सर्वानित्यसमायुक्तं - क. ख. । २५ नाशगामिनम् - क. ख । २६ शतार्दितम् - क । २७ वियुक्तमसकृत् (?) । २८ कालपर्यये - ख. ।
- - - - - - - - -- - -

951
वाय्वग्नी सहितौ जीवो२९ न जीवः प्राणिनां पृथक् ।
मूर्तिरन्या न जीवस्य मृत्यौ३० दृश्यति३१ देहिनः ।।३१ ।।
पञ्चरूपात्परो देवः सूक्ष्मात् सूक्ष्मतरो मतः ।
नासौ पश्यति न घ्राति न शृणोति न जल्पति । ।३२।।
न जानाति न च स्पर्शेज्जीवः३२ प्राणसमावृतः३३ ।
प्राणो नाम महावायुर्जीवं धारयते द्विज ।।३ ३।।
भासते श्वसते चैव सर्वेष्वपि३५ हि देहिषु ।
स प्राणो धारयत्यग्निं स च जीव इति स्मृतः । ।३४।।
वायुसन्धारणो ह्यग्निः क्रियासु परिवर्तते ।
यो वह्निमानसौ३६ देहे स जीव इति शब्द्यते ।।३ ५।।
अन्तर्गतो हि भूतानां कर्मारम्भनिबन्धनः३७ ।
एवमेतच्छरीरन्तु पञ्चभूतगुणात्मकम् । ।३६।।
तद्विकारे प्रनष्टे३८ तु मृत इत्यभिधीयते ।
भूतेन्द्रियमनोजीवविषया रागबन्धने (?) ।।३७। ।
हृदये कर्णिकायां तु मध्यस्थस्तेजसां निधिः ।
आत्मा सर्वगतो नित्यं वर्जितो विषयादिभिः । ।३८।।
तिष्ठते स विभुस्तत्र यं विदित्वा विमुच्यते ।
स येन योगसंसिद्ध्या ध्यानकर्मक्रियाविदा ।।३९।।
नाडीकर्मसमाधानात् सतताभ्यासयोगतः ।
भाभिः३९ प्रकाशितो दृष्टो विकारैर्विप्रमोचितः ।।8.176.४० ।।
दृष्टो भवति विप्रेन्द्र मुक्तिश्चैव ततः स्मृता ।
षड्विंशकपरिज्ञानाल्लयमाधाय तत्र हि ।।४१ ।।
सर्वप्राणिगतं सूक्ष्ममात्मदेहे च संस्थितम् ।
यं प्रपश्यन्ति संसिद्धा योगिनो गतबन्धनाः ।।४२ ।।
- - - - - - - - -- - -
२९ जीतो - क. ख. । ३० सृष्टौ (?) । ३१ दृश्येत (?) । ३२ न स्पृशेच्च जीवः (?) । ३३.. स्पर्शं जीवः प्राणसमावृतः - क. । ३४ भाषते - क. । ३५ सर्वेष्वेव - क. । ३६ वह्निर्मानसो - क- ख । ३७ निबन्धनम् - ख. । ३८ तद्विकारप्रनष्टे - ख । ३९ नाभिः - क. ।
- - - - - - - - -- - -
952
योभ्युपायः परस्तस्य विज्ञानादीश्वरस्य तु ।
योगाभ्यासं परं तं ते प्रवक्ष्यामि द्विजोत्तम । ।४३ । ।
इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ तृतीयः षट्सप्तत्युर४० शततमोध्यायः

सनत्कुमार उवाच
अन्तरात्मा च १चेतोवान्मनः२ संकल्पजं स्मृतम् ।
महाभूतप्रचाराच्च३ क्षोभाग्निर्जोव४ उच्यते । । १।।
न शरीरं विना चेतस्तच्चेन्५ नास्ति कुतश्च तत् ।
चेतोपि न विना जीवं स चापि न विना मनः । ।२। ।
प्राणो जीव इति प्रोक्तः स्पर्शादन्यत् प्रवर्तते ।
मनः सर्वं निबध्नाति कर्मारम्भमिति७ श्रुतिः ।। ३ ।।
सर्व एते हि संगत्य८ धारयन्ति शरीरिणम् ।
यस्य९ चेतोधिकन्तेषां१० स चेतोवान् प्रकीर्तितः । ।४। ।
चेतसा तु विजानाति शुभाशुभनिबन्धनम् ।
तन्मनश्चेतसि स्थाप्य नित्याध्यात्मरतिर्भवेत् ।।५। ।
शब्दादिविषयातीत इन्द्रियाणि निगृह्य तु ।
ध्यानारम्भपरो११ देही स१२ स्यात् कर्मविवर्जितः । ।६। ।
इन्द्रियाणि न बध्नन्ति मनो देहसमास्थितम् ।
जीवो बन्धात्मको ज्ञेयः शुभाशुभनिबन्धनात् ।।७। ।
रजसस्तमसश्चैव गुणयोरशुभात्मनोः ।
उद्रेकाज्जायते दुःखं सौख्यं सत्वात् प्रजायते । ।८।।
सौख्यस्य परिणामाद्धि दुःखोत्पत्तिः शरीरिणाम् ।
जायते च सुखं विप्र भूयो दुःखविपर्ययात् ।।९।।
- - - - - - - - -- - -
४० षटषष्ट्युत्तर - क. ।

१ तु - क. । २ मनः - क. । ३ प्रचाराश्च - क. । ४ ... ग्नीजीव - ख. । ५ चेतस्तत्ते - ख. । ६ कुतश्चन - ख. । ७ कर्मभिस्तमिति - ख । ८ एवेति संतत्य - ख. । ९ तस्य - ख. । १० तेषां - क. ख.। ११ मनो - ख. । १२ देहीश - ख. ।
- - - - - - - - -- - -

953
एवमन्योन्यसंबद्धं गुणत्रयविकारजम् ।
सुखदुःखात्मकं मोहं भूतान्याविश्य तिष्ठति । ।8.177.१० ।।
मनश्चेतःसमाधानाद्विषयोद्विजनादपि१३ ।
तस्य नाशः समाख्यातः सङ्गस्य च विवर्जनात् ।।१ १। ।
इच्छानिग्रहणे सक्ताः१४ क्रोधादिपरिवर्जिताः ।
निर्ममा निरहङ्कारा बध्यन्ते नैव कर्मभिः । । १ २। ।
आत्मा सर्वगतो ह्येषः१५ सूक्ष्मः संभोगवर्जितः ।
योगिनस्तं प्रपश्यन्ति ध्यानाद्वायुविवर्जनात्१६ ।। १३ । ।
तावद् भ्रमति संसारे चतुर्योनिषु जन्तुषु ।
यावन्नात्मानमन्वेष्टि स च विन्नो न जन्म च (?) ।।१४।।
यद्यपि ध्यानसंसर्गादबुद्ध्वा ब्रह्म नश्यति ।
तथापि ब्रह्मसायुज्यान्न१७ तु जन्म पुनर्लभेत् । ।१५। ।
अथैश्वर्यं परं ध्यानाद्योगजं प्राप्नुते मुनिः ।
विदित्वा परमात्मानं ततो न पुनराव्रजेत् । । १६ ।।
असुखान्यपि१८ कर्माणि महापापकृतान्यपि ।
कृत्वा ध्यानरतो जन्तुस्तरसा नयति क्षयम् । ।१७। ।
प्राप्य कर्मक्षयं कृत्स्नं ध्यानयुक्त्या१९ महामुने ।
तिष्ठते निर्भयो योगी परमैश्वर्यसंयुतः । । १८। ।
कामरोषौ तथा सङ्गो२० द्वेषो रागविनिश्चयः२१ ।
एते क्षुद्रतरा२२ भावा मुक्त एभिर्विमुच्यते । ।१ ९ । ।
गर्वो दम्भो२३ ह्यहङ्कारस्तर्को मानोथ मत्सरः ।
पारुष्यं क्रूरता चैव भावाः क्षत्रनिबन्धनाः२४ । । 8.177.२० । ।
यस्यैते मोहना न स्युर्विन्दन्त्यात्मानमीश्वरम् ।
मोहभावान्तरातीतः समदुःखसुखस्सदा ।। २१ । ।
- - - - - - - - -- - -
१३ विजनादपि - क. ख., द्वेजनादपि (?) । १४ शक्तिः - क- । १५ योगैः - क. ख- । ५६ वायुर्विवर्जयेत् - क. । १७ ब्रह्मसायुज्यान्न (?) । १८ अभावान्यपि - ख. । १९ ध्यानशक्त्या - क- ख. । २० तथा सङ्गौ - ख. । २१ द्वेषरागविनिश्चयः - क. ख. । २२ शूद्रतरा - क ख. । २३ गर्भस्तम्भो - ख. । २४ क्षात्रनिसबन्धनाः - क. ख. ।
- - - - - - - - -- - -

954
निर्ममत्वादिभिर्युक्तो योगीति परिपठ्यते ।
यज्ञकर्म समुत्सृज्य वैष्णवं मोहबन्धनम् ।।२२ । ।
अध्यात्मपरमो नित्यं मुमुक्षुर्ब्राह्मणो भवेत् ।
त्रिवर्गं संपरित्यज्य योपवर्गे रतिं लभेत्२५ । । २३ ।।
दिवौकसामसौ२६ पूज्यो विप्र इत्यभिधीयते ।
ध्यानेन क्षीयते कर्म पापं वा यदि वा शुभम् । । २४। ।
क्षीणकर्मा ततो योगी तत्परं ब्रह्म विन्दति ।
प्राप्तयोगो मुनिर्ध्यानी यद्यत् कर्तुमभीप्सते२७ । ।२५।।
तत्तद् भवति तस्याशु मनसा चिन्तितेन वा ।
योगिनं पुरुषं दृष्ट्वा पापैर्मुच्यन्ति तत्क्षणात् ।
योपि संभाषते तेन२८ सोपि सद्गतिमाप्नुते२९ ।।२६ ।।
योगमेव परं३० ज्ञात्वा सर्वाशुभविमोचनम् ।
सचेतसो द्विजा विप्र बभूवुर्हि मुमुक्षवः । ।२७।।
ध्यानं ध्येयं परं चैव धातारं चैव ये विदुः ।
तापनात् तपनात् ताप्यान्मुक्तास्ते दुःखबन्धनात् । ।२८। ।
सर्वारम्भपरित्यागान्ममत्वादिविवर्जनात् ।
सांख्ययोगागमावेकौ भेदस्तत्वविमोचने३१ । ।२९ ।
निर्गुणः सांख्यमुख्यानां पुरुषः परिपठ्यते ।
दीपनिर्वाणवत्तेषां देहभेदे गतिः स्मृता । । 8.177.३० ।।
ईश्वरः सर्वनिर्मुक्तः क्षेत्रज्ञो योगिनां मतः ।
परमैश्वर्यसंयुक्तास्तं विशन्ति हि योगिनः ।।३ १ । ।
धारणाभिः समं ताभिः३२ प्राणायामैस्तथैव च ।
आत्मानं योजयेद्यस्तु स यागं लभते परम् । ।३ २। ।
अहिंसादिसमायुक्तो३३ योगी विगतमत्सरः ।
ध्यानमभ्यसते यस्तु स जयेन्मृत्युजन्मनी । । ३३ । ।
- - - - - - - - -- - -
२५ योपवर्गरतो भवेत् (?), योपवर्गरतिर्लभेत् - ख. । २६ दिवौकसामपि - क. ख. । २७ मभीप्सति - क. ख.। २८ योभिसभाषते - ख., संभावितस्तेन - क. ख. । २९. माप्नुयात् - ख. । ३० योगेश्वरपदं - क. । ३१ विमोचनैः - क. । ३२ समन्त्राभिः - क. ख., समस्ताभिः (?) । ३३ अहिंसाभिः समायुक्तो - क. ।
- - - - - - - - -- - -

955
निर्गुणो निरहङ्कारो जितद्वन्द्वोनवग्रहः ।
भिक्षोपात्तरसाहारो३४ मुमुक्षुरिति शब्द्यते । ।३४।।
सर्वारम्भसमावस्थः सर्वाश्रयविवर्जितः ।
कर्ममार्गादतिक्रान्तो ध्यानीति परिकीर्त्यते ।।३ ५। ।
यस्य नोद्विजते चेतो दुःखापत्तौ३५ महामुने ।
न हष्यति३६ सुखे चैव ध्यानीति स विशब्दितः । ।३६। ।
मोक्षसिद्धिप्रदः पन्थास्त्रिविधः परिकीर्तितः ।
पूर्वः३७ संकेतनः प्रोक्तः पश्चात् संकथनः स्मृतः ।।३७। ।
संसक्तश्च तृतीयस्तु तेषां भेदमिमं३८ शृणु ।
प्रतिरूपं विभोः कृत्वा दशभिर्नियमैर्युतः । ।३८ ।।
उपास्ते यो मुनिर्ध्यायन् स संकेतन उच्यते ।
वेदादृतसुखासङ्गः३९ सत्वकर्मा त्वबान्धवान्४० ।।३९।।
परित्यज्येश्वरं ध्यायेत्४१ तत्संकथनमुच्यते ।
सर्वारम्भपरित्यागात् कपिलादिनिषेवितः । ।8.177.४० । ।
स्मृतः संकथनः पन्था योगाग्निपरिदीपकः ।
निर्विकल्पस्तु यत्सर्वं ब्रह्म एवेति पश्यति । ।४१ ।।
भिन्नसर्वक्रियाचारो ध्यानी संसक्त उच्यते ।
त्रिविधस्यापि मार्गस्य नियमानियमानि च ।।४२।।
तान्येव परिकीर्त्यन्ते चर्याभेदा स्त्वनेकधा४२ ।
त्रयोपि हेतवो मुक्तेरिमे ध्यानपथा मुने । ।४३ ।।
सम्यगेतान्मुनिर्ज्ञात्वा निर्ममोन्यतमं श्रितः ।
तदाप्नोति परं ध्यानं येन विन्दति तत्परम् ।।४४। ।
सर्वान्ध्यानविधीँस्त्वेतानुच्यमानानिमान्मया ।
शृणु व्यास महाबुद्धे योगैश्वर्यफलप्रदान् । ।४५।।
इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ चतुर्थः सप्तसप्तत्युत्तर४३ शततमोध्यायः४४
- - - - - - - - -- - -
३४ भिक्षावाप्तरसाहारो - क. । ३५ दुखायत्तो - क. । ३६ भविष्यति - क. । ३७ पूर्वं - क. ३८ भेदमिदं - ख. । ३९ वेदामृ?तसुखासङ्गः - क.,. ..सङ्ग - क. ख. । ४० .. र्मत्सबान्धवान् - क. । ४१ ध्याति - क, ख. । ४२ चर्याभेदस्त्वनेकधा क, । ४३ सप्तषष्ट्युत्तर - क. । ४४ २२५ - ख. ।
- - - - - - - - -- - -

956
सनत्कुमार उवाच
द्विविधं ब्रह्म निर्दिष्टं क्षरमक्षरमेव१ च ।
विदित्वोभयमेतद्धि मुच्यते सर्वबन्धनैः । । १ । ।
पञ्चविंशतिमं तत्त्वं क्षरं२ तत् प्रकृतेः परम् ।
अक्षरं च३ परं ब्रह्म षड्विंशकमिति४ स्मृतम् । ।२ ।।
मन एकगतं कृत्वा धारणाभिः पुनः पुनः ।
वायुनिग्रहणं कुर्यात् प्रत्याहारपुरस्सरम् ।। ३ । ।
मुहूर्तार्धं क्षणं वापि प्रत्याहारं समाचरेत् ।
तलात् त्रिंशच्छतं चोर्ध्वं प्राणायामनिबन्धनम् । ।४।।
अभ्यस्तमासनं५ यत् स्यात् स्वस्तिकादि प्रकीर्त्तितम् ।
तद् बद्ध्वा विजने देशे ध्यानाभ्यासं समाचरेत् ।।५।।
क्षुधार्त्तो वातिभुक्तो वा रुजा दुःखान्वितोपि वा ।
न ध्यायीत पुनर्विद्वान् य इच्छेद् ध्यानमात्मनः । ।६ । ।
योगहस्तं ततः कृत्वा वामस्योपरि दक्षिणम् ।
अधोमुखो भवेत् किञ्चित् पश्यन्नासाग्रमात्मनः । ।७।।
अस्पृशन् दशनैर्दन्तानोङ्कारं ब्रह्म संस्मरन् ।
ध्यायीत निर्ममो६ विद्वान प्राणायामपुरःसरम् । ।८।।
आत्मानमात्मना योज्य सर्वाङ्गानि तु संहरेत् ।
निरीहः पिहिताक्षश्च७ निक्षिप्य हृदि धारणाम् । ।९। ।
पाषाण इव निष्पन्दो मुनिर्ध्यानं समाचरेत् ।
एकत्रास्पन्दसन्धानं मनसो८ धारणा स्मृता ।। 8.178.१० ।।
एवं प्रतिदिनं तस्य ध्यायतो योगिनो मुने ।
विकारा गुणजाः सर्वे नश्यन्ते विघ्नहेतवः । । ११ ।
अन्वेष्टि च परं९ ब्रह्म स्वशरीरं समास्थितम् ।
कृत्वैक्यं१० प्राणमनसामिन्द्रियाणां विनिग्रहात् । । १२ ।।
- - - - - - - - -- - -
१ अक्षर क्षरमेव - क., ह्यक्षरंक्षरमेव - ख. २ अक्षर - क., त्वमक्षरं तत्क्षरं? - ख. । ३ अक्षरश्च - क. ख. । ४ इति - क. ख. । ५ स्वभ्यस्तमासनं - ख. । ६ नित्यमों क. । ७ पितिथाक्षश्च - क. क., पतिताक्षश्च - ख.। ८ मानसो - क. । ९ परमं - ख । १० कृत्वैको - क. ख. ।
- - - - - - - - -- - -

957
सर्वभावपरित्यागान्मोक्षमाप्नोत्यसंशयम् ।
प्रत्याहाररतं कृत्वा सर्वमिन्द्रियगोचरम् । । १३ । ।
ततो युञ्जति निर्द्वन्द्वो मनस्सन्धानमाचरन् ।
सर्वं मनसि संस्थाप्य परं तत्त्वं निरूपयेत् । । १४। ।
अथैश्वर्यगतां सिद्धिं ध्यायन्नष्टविधां यदा ।
पश्यते योगसंसिद्ध्या तदा योगी प्रकीर्त्यते । । १५ । ।
ब्रह्मसोमादिकान्११ देवान् यदा युक्तः प्रपश्यति ।
योगिभिः कथ्यते ह्येषा सिद्धिर्योगविकारजा ।। १६ ।।
मनसा योगिनां सिद्धिः साख्यास्तत्त्वविनिश्चयात्१२ ।
न विशेषोस्ति योगानां१३ मुक्त्वा माहेश्वरं१४ विधिम् । । १७।।
योगिनो ध्यानसंसिद्धिं सांख्यास्तत्त्वविनिश्चयम् ।
अविभिन्नावुभावेतौ ध्यानतत्त्वार्थनिश्चयौ१५ । । १८ । ।
सर्वबन्धपरिभ्रष्टः सङ्गदोषविवर्जितः ।
रागमोहादिसंत्यक्तो मुक्त इत्यभिधीयते । । १९ । ।
शब्दादीन् विषयान् युक्तो न ध्यायन्वेत्ति वै यदा ।
असकृद् योगसंसिद्ध्या तदा पश्यति तत्परम् । ।8.178.२ ० । ।
मृत्युजन्मभयोद्विग्नः सङ्गदोषविवर्जितः ।
अरण्ये मौनमाधाय ध्यायेदोङ्कारमक्षरम् ।। २१ । ।
वेदादौ यः स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः
तस्य प्रकृतिलीनस्य१६ यः परः स महान् स्मृतः ।।२ २ ।।
त्रिसंस्थानं त्रिमात्रं च त्रिब्रह्म त्र्यक्षरं तथा१७ ।
मात्राहीनं समात्रं च यो विद्यात् स विमुच्यते ।। २३ । ।
नाग्निस्तत्र न वायुश्च न सोमो न दिवाकरः ।
प्रभवन्ति महेशाने ईश्वरे त्रिविकल्पिते । ।२४।।
- - - - - - - - -- - -
११ ब्रह्मसोमादयो - क. ख. ' । पे सख्याना गुणवर्जिता - ख. । १३ योगिनां न विशेषोस्ति (?), योगिनां - क. ख. । १४ माहेश्वरी - क. ख. । १५ निश्चितौ - क. ख. । १६ प्रकृतिहीनस्य - खः । १७ तदा क
- - - - - - - - -- - -
958
ओङ्कारः१८ परमं तत्त्वमात्मा ब्रह्म च कीर्त्यते ।
क्षेत्रज्ञैरात्मसंबोधाद्योगिभिः सूक्ष्मदर्शनात् । ।२५।।
एवमेव सदा ध्यायन् मन आत्मनि योजयेत् ।
ईश्वरं प्राप्नुते योगी यमवाप्य विमुच्यते । ।२६। ।
इन्द्रियाणि तु सर्वाणि शब्दरूपादिनिग्रहात्१९ ।
विदित्वा कर्मजान् हन्ति योगी दोषानशेषतः२० । ।२७। ।
ध्यानशक्त्या ततः शुद्धः सर्वजिन्मोक्षमाप्नुते ।
युञ्जन् प्रतिदिनं व्यास षड्मासाद् योगमाप्नुते ।।२८।।
पश्यते च परं ब्रह्म येन मुच्येत बन्धनात् ।
तमात्मानं परं ज्ञात्वा योगशक्त्या महामुनिः ।
परमैश्वर्यसंयुक्त अमृतं२१ पदमाप्नुयात्२२ । ।२९ । ।
इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ पञ्चमः२३ अष्टसप्तत्युत्तर- शततमोध्यायः

सनत्कुमार उवाच
अन्तःकरणसंसिद्धो यो महान् कथितो मया ।
पञ्च कर्मेन्द्रियाण्यत्र पञ्च बुद्धीन्द्रियाणि च । । १ ।।
पञ्चभूतं मनश्चात्र विकाराः षोडश स्मृताः ।
महान् बुद्धिरहङ्कारस्तन्मात्राणि च१ पञ्च हि । ।२। ।
इमाः प्रकृतयो व्यास देहमष्टौ समाश्रिताः ।
तत्त्वानि तु२ चतुर्विशत्येतान्युक्तानि३ योगिभिः ।
देहमेभिरवष्टब्धं त्रैलोक्यव्यापिभिः स्थितम् ।।३ । ।
नाभिमध्ये तु नाडीनां शतमेकं प्रतिष्ठितम् ।
सर्वाङ्गेषु तु यास्त्वन्या जलान्नरसवाहिकाः४ ।।४। ।
- - - - - - - - -- - -
१८ ओङ्कारं - ख. । १९ शब्दस्पर्शादोनिग्रहात् - (?) । २० यो गदोवानशेषतः - क. ख. । २१. ..ममृतं - ख.। २२ तदवाप्नुयात् - ख. । २३ ध्यानविधौ (?) । २४ अष्टषष्ट्युत्तर - क. ।

१ तु - क. । २ च - ख । ३. .देतान्युक्तानि - क. ख. । ६ रसवाहिनः - क., रसवाहिनी - ख. ।
- - - - - - - - -- - -

959
तासां त्रिंशत् सहस्राणि व्यानस्रोतसि५ संस्थिताः ।
उदानस्यापरा नाड्यो६ ब्रह्ममूर्ध्नि प्रतिष्ठिताः । ।५। ।
चक्रनाभी समाश्रित्य७ भूतसंघातमास्थितम् ।
तन्मध्ये तु गुणस्पृष्टः८ कर्मात्मा भूतमोहनः ।।६। ।
नक्षत्रोद्योतसंकाशो ज्योत्स्ना पुञ्जनिभः प्रभः९ ।
विघातजननोन्येषां सूर्यायुतनिभः१० स्थितः ।।७। ।
संभूतोग्निरिवोत्पाती गिरिनीहारसन्निभः ।
गुणस्थो भूतयोनिस्तु पुरुषः पञ्चविंशकः ।।८।।
तस्यापि परतः शुद्धो महानग्निरिवोत्थितः ।
अर्चिष्मान् सर्वतो दीप्तो निर्विकल्पो निरञ्जनः ।।९।।
निर्धूमाङ्गारसकाशो नविज्ञातागमक्रियः ।
षड्विंशः पुरुषः सूक्ष्म ईश्वरः परमो विभुः ।। 8.179.१० ।।
स एष११ कथितो व्यास परेषां परतः स्थितः ।
महादेवमिमं ज्ञात्वा मुच्यते तत्क्षणान्मुनिः ।।१ १ । ।
गुणत्रयविकारस्थः कथितःपञ्चविंशकः ।
भूयः संसरते तस्मादज्ञानेनैव मोहितः । । १ २। ।
देवमानुषतिर्यक्षु भ्राम्यते रागमोहितः ।
षड्विंशकसमाधानात् सिद्धिस्तस्य विकारतः ।। १३ । ।
क्रियाकार्यविनिर्मुक्तः सर्वज्ञः सर्वसृक्१२ प्रभुः ।
परमैश्वर्यसंपूर्णः कृतकृत्यो महेश्वरः ।।१४।।
अजः स्वयम्भूः१३ षड्विंशः कूटस्थो ह्यचलो ध्रुवः ।
ततस्तत्त्वानि जायन्ते पुरुषश्च गुणैः सह ।। १५। ।
तस्मिन्नेव च लीयन्ते षड्विंशे तु महेश्वरे ।
विदित्वैनं महेशानं मुक्तिसिद्धिरवाप्यते ।।१ ६ ।।
- - - - - - - - -- - -
५ ध्यानस्रोतसि - ख. । ६ नाडी - क. ख. । ७ चक्रता?भीन्समाश्रित्य - क । ८ च गुणस्पृष्टः - ख । ९ पुञ्जनिभप्रभः - (?) । १० सूर्यातपनिभः - क. ख. । ११ एष स - ख. । १२ सर्वकृत् - क. । १३ स्वयम्भुः - क. । १४ विदित्वैकं - ख. ।
- - - - - - - - -- - -
960
एतज्ज्ञात्वा न लिप्येत कर्मभिर्मोहबन्धनैः ।
यथाग्निर्निर्दहेदन्ते भूतग्राममशेषतः । । १७ । ।
षडविंशकपदार्थज्ञस्तथा कर्माणि निर्दहेत् ।
सर्वव्यापि यथाकाशं सूक्ष्मं नैव तु लिप्यते । ।१ ८। ।
षड्विंशकरतो योगी तथा पापैर्न लिप्यते ।
षड्विंशात् परतो नास्ति तस्मात् तत्परमो१५ भवेत् । । १ ९। ।
एकत्वं सह तेनैव त्यक्त्वा देहमवाप्नुते१६ ।
ब्रह्मविष्ण्वादिकं सर्व भूतग्राममशेषतः । ।8.179.२ ० ।।
ईश्वराज्जायते व्यास तस्मिन्नेव प्रलीयते ।
नास्ति तस्मात् परो ह्यन्य१७स्तं विद्यात् सर्वतः स्थितम् ।।२१ ।।
यमध्यात्मविदः सिद्धाः परमात्मेत्युपासते१८ ।
स एष सर्वगो देवः षड्विंशः परमेश्वरः । ।२२ ।।
प्राणोपानः१९ समानश्च उदानो व्यान एव च ।
ये पञ्चवायवो देहे तेषां निग्रहणं यतेत्२० ।। २३ । ।
अपानञ्च समानञ्च कृत्वैकगतमादृतः२१ ।
व्यानेन सहितं प्राणमुदाने सन्निवेशयेत् । ।२४।।
नासाग्रे तु सकृत् प्राणं२२ प्रापयेद् योगशक्तितः ।
भद्रां दृष्टिं समास्थाय२३ षड्विंशं चिन्तयेत्ततः । ।२५। ।
मात्राः पञ्चदश प्रोक्ताः प्रथमं सन्धिबन्धनम् ।
मात्रा विंशति विज्ञेयाः२४ पञ्चमःसन्धिविग्रहः । ।२६। ।
निश्शब्दे विजने देशे निरीहो विजितेन्द्रियः२५ ।
स्वस्तिकं पद्मकं भद्रमथवा सिंहकच्छपौ२६ । । २७।।
एकमासनमास्थाय षड्विंशं समनुस्मरन् ।
सर्वाङ्गानि समाहृत्य निष्पन्दो ध्यानमाचरेत् । ।२८।।
- - - - - - - - -- - -
१५ परतमो - ख. । १६ त्यक्त्वा देहं स तैनैव सहैकत्वमवाप्नुते (?) । १७. त्स्तं - क. । १८ पर इत्युपसेवते - क. ख. । १९ प्राणापानौ - ख. । २० यतः - क । २१ मादितः (?) । २२ प्राणां (न्) - क. । २३ समादाय - ख. । २४ विंशतिका ज्ञेयाः - (?) । २५ विचलेन्द्रियः - ख. । २६ भद्रं सिंहं कच्छपमेव वा (?) ।
- - - - - - - - -- - -
961
शनैः संचारयेद्वायुं नाडीभिः स्रोतसि स्थितम् ।
तावत्तिष्ठेत युक्तात्मा ध्पानयोगाद् गतस्पृहः । ।२९।।
सोममण्डलसंकाशं यावत् पश्येद्धृदि स्थितम् ।
ज्योतिर्देहाश्रितं दृष्ट्वा योगैश्वर्यं२७ प्रवर्तते । । 8.179.३० ।।
तत एवं सदाभ्यासाद् योगसिद्धिप्रवर्तनात् ।
त्रिकालविषयं ज्ञानं प्रत्यक्षं योगिनो भवेद् । ।३ १ । ।
व्याधयो नाविशन्त्येनं न च दुःखान्वितो भवेत् ।
स्वदेहस्य च सौगन्ध्यं वपुर्दिव्यं च जायते । ।३ २ ।।
अमोघञ्च वचस्तस्य शापानुग्रहकारितम् ।
प्रत्यवायो न चैवास्य भवेत् कर्मनिबन्धनः । । ३३ ।।
सर्वविद्याविदां व्यास यतीनां व्रतचारिणाम्२८ ।
तपस्विनां च विप्राणां योगी श्रेष्ठ उदाहृतः ।। ३४। ।
नान्यथा मुच्यते जन्तुः संसारात् तमसः२९ परात्३० ।
षड्विंशकपरिज्ञानं मुक्त्वा योगनिबन्धनम् । ।३ ५ ।।
षडङ्गेन तु योगेन तथा पञ्चविधेन च ।
जित्वा ह्यष्टप्रकारन्तु३१ आसनानां निबन्धनम् ।।३ ६।।
मात्रोत्कर्षेण जित्वा च प्राणायामं चतुर्विधम् ।
तन्मात्राणीन्द्रियैर्जित्त्वा विषयैरिन्द्रियाणि च । ।३७।। अहङ्कारभयायासक्रोधलोभविवर्जितः ।
विमत्सरोथ निःसङ्गो निःस्नेहो निःस्पृहस्तथा । । ३८। ।
योगास्पदं समाधाय३२ पूर्वोक्तं गुणवर्जितम्३३ ।
ध्यायीत हृदि तं देवं विश्वं विश्वेश्वरं विभुम् ।।३ ९। ।
अनादिनिधनं शान्तं त्रैगुण्यपरिवर्जितम् ।
तालौ जिह्वां समाधाय दन्तैर्दन्तान् न च स्पृशन्३४ । ।8.179.४० ।।
- - - - - - - - -- - -
२७ योगी स्वैरं (?) । २८ ब्रह्मचारिणाम् - ख.। २९ तपसः - क. । ३० पुरान् - क. । ३१ पञ्चप्रकारन्तु - ख.। ३२ समादाय - ध. । ३३ गुणवर्जितः - ख. । ३४ न चास्पृशन् - क., निवास्पृशन् - ख. ।
- - - - - - - - -- - -
962
इन्द्रियाणि मनश्चैव परमात्मनि योजयेत्३५ ।
कृत्वा मनसि तत्सर्वं प्राणापानौ निरुद्ध्य च । ।४१ । ।
ओङ्कारं त्वसकृद् ध्यायन् संहृत्याङ्गानि कूर्मवत् ।
शरीरं सर्वमापूर्य विक्षिपेत् सर्वमात्मनि३६ । ।४२।।
तत्संहृत्य मुनिर्भूयो व्यापि भूतं प्रविस्तृतम् ।
नाडीवायुप्रचारेण भूयोभूयस्तथारभेत्३७ । ।४३ । ।
स पूर्वापररात्रे तु सात्विकं३८ चेत३९ उच्यते ।
मध्याह्ने चापराह्णे च कृष्णं४० ध्यायीत तामसम् । ।४४।।
सन्ध्ययोरुभयोर्नित्यं राजसं ध्यानमाचरेत् ।
तैजसं सर्वतश्चापि ध्यानादेव जयेद् गुणान्४१ ।।४५ ।।
सदैवं ध्ययतो व्यास तदैश्वर्यं प्रवर्तते ।
येन षड्विंशकं बुद्ध्वा हृदयस्थं महेश्वरम् ।।४६।।
स्वेच्छया स्वतनुं त्यक्त्वा तस्मिन्नेव प्रलीयते ।
परमात्मा परं ब्रह्म कारणं पुरुषो महान् ।।४७। ।
ईश्वरो निर्गुणो भोक्ता षड्विंशः समुदाहतः ।
यच्चा४२ सत् सदसच्चैव भूतिभूतो विभुः परः ।।४८।।
जागर्त्ति स्वपते भुंक्ते सन्तिष्ठति ददाति च ।
स स्रष्टा स च संहर्ता गुणातीतो महेश्वरः । ।४९।।
इत्येतत् कथितं सर्वं सर्वयोगनिदर्शनम् ।
योगं पाशुपतं तुभ्य४३ माद्यं४४ मोक्षगतिप्रदम् । ।8.179.५ ० ।।
सर्वप्रसङ्गरहितं हरवक्त्रविनिःसृतम् ।
सूक्ष्मं तत्परमं ज्ञानं प्रवक्ष्यामि तवानघ ।
यस्य सम्यक् परिज्ञानाद् विज्ञेयं नापरं भवेत् । ।५१ । ।
इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ षष्ठः ऊनाशीत्युत्तर४५ शततमोध्यायः४६
- - - - - - - - -- - -
३५ योजयन् (?) । ३६ सर्वतो मनः - ख. । ३७ भवेत् ख., चरेत् (?) ' ३८ सार्थिकं - क । ३९ श्वेत (? ) । ४० कृत्स्नं - ख । ४१ गुणं - ख. । ४२ यच्च (?) । ४३ गुह्यं (?) । ४४. मद्य (?), मया (?) । ४५ ऊनसप्तत्युत्तर - क । ४६ १६९ - क., २२७ - ख. ।
- - - - - - - - -- - -

963
सनत्कुमार उवाच
ब्रह्माद्या देवता व्यास दक्षयज्ञवधे पुरा ।
शङ्करं शरणं१ जग्मुर्वीरभद्रभयार्दिताः । ।१ । ।
गणेन्द्रेणाभियुक्तास्तु२ भस्मकूटानि भेजिरे ।
यदा भस्म प्रविष्टास्ते३ तेजः शाङ्करमुत्तमम्४ ।।२। ।
अभवंस्ते तदा रौद्राः५ पशवो दीक्षिता इव ।
भस्माभसितगात्राणां६ शङ्करव्रतचारिणाम् । ।३ ।।
स्वं योगं प्रददौ तेषां तदा देव उमापतिः ।
सर्वासां७ मोक्षविद्यानां यत्तत्त्वमतिरिच्यते ।।४।।
हिरण्यगर्भप्रमुखैर्योगिमुख्यैः प्रवर्तितः८ ।
यो योगः सकलो व्यास कृच्छ्रोपायप्रसाधनः ।।५।।
जन्मान्तरसहस्रैस्तु तमभ्यस्य महामुने ।
प्राप्नुवन्ति परं९ ज्योतिर्योगैश्वर्यमथापि वा ।
योयं भगवता साक्षाद् योगो माहेश्वरः परः । ।६। ।
तत्त्वतः कथितस्तेषां प्रपन्नानां१० दिवौकसाम् ।
अस्य सम्यक् परिज्ञानादनेनैव तु जन्मना । ।७। ।
व्रतं पाशुपतं प्राप्य षड्मासाज् ज्ञानमाप्नुते ।
योगैश्वर्यं महद्११ व्यास यदवाप्य विमुच्यते ।।८। ।
सर्वधर्मं बहिः कृत्वा निष्कलस्य प्रभावतः ।
दीक्षां पाशुपतीं प्राप्य तं१२ विशन्ति महेश्वरम् । ।९।।
सर्वज्ञानसमायुक्तं तपोधर्मबहिष्कृतम्१३ ।
भस्मसाधनमात्रं तु शिवेन कथितं व्रतम् ।।8.180.१ ० ।।
पापिष्ठा धर्मवन्तो वा भक्ताः केवलमीश्वरम् ।
सेवनाद्यस्य मुच्यन्ते तन्निबोध महाव्रतम् ।। ११ । ।
- - - - - - - - -- - -

१ शरणं शङ्करं - ख- । २ संयुक्ता - ख- । ३ प्रदीप्तास्ते - ख. । ४ शङ्करमुत्तमम् - क. ख. । ५ महारौद्राः - क । ६ भषित (रुषितः )गात्राणां - ख. । ७ सर्वेषां - क. ।८ प्रवर्तितम् - क । ९ यदि - ख. । १० प्रसन्नानां - क. । ११ गतो - ख. । १२ मा - क. ख. । १३ तयोधर्मविहिष्कृतम् - क. ।
- - - - - - - - -- - -

964
अधर्मं न विना धर्मो न च धर्मं विनाशुभम् ।
एतौ परस्परं बद्धौ त्यक्त्वा तस्मादिमावुभौ ।।१ २ । ।
धर्माधर्मपरित्यक्तश्चरेत् पाशुपतं व्रतम् ।
ततो योगमिमं प्राप्य महदैश्वर्यमाप्नुते ।। १३ ।।
भस्मग्रहणमात्रात्तु१४ ते सर्वबन्धप्रमोचनम् ।
मुच्यते स्पृष्टमात्रस्तु१५ ब्रह्मपूतेन१६ भस्मना ।। १४। ।
दहेत् सोमकृतं वह्निरीश्वरं चानलं१७ विदुः ।
कृताकृत दहत्यग्निर्भूयः१८ सोमसमागतः१९ । । १ ५। ।
भस्मना मोचिताः सर्वे ब्रह्माद्या अभिमानिनः ।
भस्मनस्तेजसो२० वीर्यं भस्म पावनमीश्वरम् ।।१ ६।।
आत्मानमुद्धरेद्२१ व्यास२२ यः स्नानं भस्मना चरेत्२३ ।
भस्मना शिवयोगेन मुच्यते पाशबन्धनात्२४ ।।१७।।
प्रभवन्ति सुराः सोमात् पितरो वह्निसंभवाः२५ ।
वह्निसोमात्मकं२६ तस्माज्जगत्सर्वं प्रतिष्ठितम् । ।१८। ।
ईश्वरोग्निश्च सोमश्च भस्म तत्तेज उच्यते ।
तेजसा तस्य संस्पृष्टो मुच्यते जन्मना२७ द्विज२८ ।।१ ९ ।।
सांख्यं विद्यास्तपश्चैव त्यक्त्वा धर्मांश्च वैदिकान् ।
केवलं भस्मसंस्नानात् पूतो गच्छति तत्पदम् ।।8.180.२ ० ।।
विषयानपि संसेव्य बह्वधर्मरतोपि सन्२९ ।
पश्चाद् भक्तिपरः शम्भोर्भस्मनैव३० हि शुद्ध्यति ।।२ १ ।।
आत्मानं यः३१ पशुं कृत्वा महादेवं हुताशनम् ।
दीक्षितो ब्रह्मभस्मभ्यां शिवयाजी मुनिर्भवेत३२ ।।२२।।
- - - - - - - - -- - -
१४ तन्मात्रात् - क, तन्मात्रं - ख., तन्मात्रं तु (?)। १५ सृष्टमात्रस्तु - ख । १६ ब्रह्मभूतेन (?) । १७ चालनं क । १८ दहेदग्निर्भूयः - ख । १९ समागतम् - क । २० भस्मसस्तेजसो - क. ख । २१ शङ्करे - ख. । २२ न्यस्य - ख. । ३ भस्मसाचरेत् - क ख । २४ पापबन्धनात् क। २५ संभवान् (त्) - क । २६ वह्नीसोमात्मकं - क ख । २७ जन्मनो  ? । २८ द्विजं - क, द्विजः - ख. । २९ सः - ख. । ३० भस्मसैव - क ख. । ३१ स - ख. । ३२ शिवयाजिमुनिर्भवेत् - क., शिवयोगी ? ।
- - - - - - - - -- - -

965
शीघ्रमेव परं योगं प्राप्य मुच्येत३३ बन्धनात् ।
एवं व्रतमनुप्राप्य भूत्वा पाशुपतो मुनिः । । २३ ।।
इदं३४ माहेश्वरं ज्ञानं३५ गुह्यं परममभ्यसेत् ।
ज्ञेयं ज्ञानं तथा ज्ञाता त्रयं देहे यथा स्थितम् ।। २४।।
आत्मा यश्च यथा चासौ स्थानत्रयसमास्थितः ।
नाडीषु च यथा ह्यात्मा आत्मन्येवानुतिष्ठति ।।२५।।
सर्वतः सर्वभूतेषु निगूढस्तिष्ठते यथा ।
पयसीव घृतं व्यास यं विदित्वा विमुच्यते । ।२६।।
न स वेत्तुं३६ विना ज्ञानं शक्य आत्मा कथञ्चन ।
रूपशब्दरसातीतं कस्तं वेत्ति महेश्वरम् ।।२७। ।
तथा ह्यहं महाभाग प्रसादात्३७ त्र्यम्बकस्य तु ।
आत्मज्ञानषरोपायं कथयामि तवानघ । । २८। ।
सर्वमेव तमः पूर्वमिदमासीज्जगत् किल ।
न देवा नानिलो न द्यौर्न सूर्यश्चन्द्रमा न च३८ ।। २९।।
न किञ्चित् सर्वथा भूतं३९ दृश्यते जगति स्थितम ।
शुद्धं विमलमाभाति अक्षरं परमैश्वरम् । ।8.180.३ ० ।।
सर्वभावगुणातीतं निर्विकल्पं निरञ्जनम् ।
बहिरन्तश्चरं दीप्तमविनाशि वरं ध्रुवम् ।
यथा तदक्षरं ब्रह्म प्रोच्यमानं तथा शृणु । । ३१ । ।
ओमित्येकाक्षरं पूर्वं क्षरं तस्माद्विनिर्गतम् ।
व्यक्षरश्च त्रिमात्रश्च ओङ्कारो ब्रह्म शब्द्यते । ।३ २ ।।
अकारे तत्र विष्णुस्तु उकारे तु पितामहः ।
मकारे भगवानीशो मात्रायां प्रकृतिः स्मृता ।।३ ३ । ।
ब्रह्मविष्णू४० स्मृतौ यौ तौ४१ देवावीश्वरनिर्गतौ ।
प्रकृतिस्त्रीत्वमास्थाय४२ नित्यन्तावीशपार्श्वगौ४३ । ।३४।।
- - - - - - - - -- - -
३३ मुच्यति - क. ख- । ३४ इम - क. ख । ३५ योग (?) । ३६ नावसेतु - ख । ३७ महाया (यो)गप्रसादात् - ख. । ३८ न सूर्यो न च चन्द्रमाः (?) । ३९ सर्वभूतानां - ख. । ४० ब्रह्माविष्णु - क. ख. । ४१ तु - क ख. । ४२ प्रकृतिः स्त्रीत्वमास्थाय ( ?) । ४३ तिष्ठन्तावीशपार्श्वगौ - क. ।
- - - - - - - - -- - -

966
पत्नीरूपेण सा शम्भुं भजते प्रकृतिस्सदा ।
क्षरन्तु प्रकृतिः४४ ख्याताक्षरस्तु४५ स्वयमीश्वरः ।।३ ५।।
ईश्वरान्निर्गता सा हि प्रकृतिर्गुणबन्धना ।
तस्याः स्रष्टा महादेवो यतो विष्णुपितामहौ ।। ३ ६।।
प्रजापती समुत्पन्नौ गुणत्रयनिबन्धनौ ।
तावाक्रम्य महेशस्तु प्रकृतिस्थौ गुणात्मकौ ।।३७।।
मकारस्थो विभुर्भूत्वा भुंक्ते संचरते च हि ।
गुह्यमेतत् परं ज्ञात्वा मयोक्तं तत्त्वमक्षरम्४६ ।।३८। ।
येनैव४७ घ्यानिना४८ व्यास ईश्वरोसौ विकल्पितः ।
स तमाविश्य मुक्तात्मा कृतार्थो जायते मुनिः४९ । ।३९। ।
नैनं जानन्त्यमार्गस्थास्तर्कहेतुपरायणाः ।
भोक्तारं प्रकृतेरीशं परं षड्विंशसंज्ञितम् ।।8.180.४० । ।
ओङ्कारः५० प्रकृतिर्नित्यं तन्मध्ये चेश्वरः स्थितः५१ ।
पयोमध्ये यथा व्यास सर्पिरन्तर्गतं स्थितम् ।।४१ ।।
ओङ्कारं ध्यायता येन५२ अतीत्य प्रकृतिं मुने ।
ईश्वरोसौ महान् विन्नः स मुक्तः पशुबन्धनैः ।।४२।।
ईश्वरी प्रकृतिः ख्याता गुणबन्धाद्विमोहनी ।
ब्रह्मत्वाद् बृंहणी ह्ये षा विष्णुत्वाद्विभवाश्रिता । ।४३।।
प्रसादादीश्वरस्यैषा प्रकृतिस्त्रिगुणात्मिका५३ ।
साभिमाना भवस्रष्ट्री५४ भोक्ता तस्या महेश्वरः ।।४४। ।
अष्टबाहुस्त्रिपादा च पञ्चदेहमुखी तथो ।
द्विनेत्रा पंचकर्मस्था सप्तवाजिरथोपगा ।।४५।
जगन्माता स्मृता ह्येषा गुणत्रयविकारजा ।
उभे शुभाशुभे तस्यान्५५ विद्याविद्ये तथा ह्युभे । ।४६। ।
- - - - - - - - -- - -

४४ अक्षरप्रकृतिः - ख. । ४५ क्षरस्तु - ख. । ४६ तत्त्वतोक्षरः - क । ४७ येनैवं - ख । ४८ ध्यानिनो- ख. । ४९ मुने (?) । ५० ओङ्कारं - ख. । ५१ चेश्वरं स्थितं - क. । ५२ ध्यायतो नित्यं - ख. । १३ स्त्री गुणात्मिका - क, । ५४. .भवत् स्रष्टी - क., .. .भवत्स्रष्टा - ख. । ५५ तस्यां - ख. ।
- - - - - - - - -- - -

967
उद्भवोथ प्रणाशश्च क्रियानुष्ठानमेव च ।
निमित्तं चाभवद्योनिर्भावाः५६ संक्षेपतस्त्वमी ।।४७ ।।
ईश्वराज्जात ओङ्कारः५७ स च तस्मिन् प्रतिष्ठितः ।
ओङ्कारात् सर्वमुत्पन्नमाब्रह्मभवनं५८ जगत् ।।४८ ।।
अतः कृत्वा महाभाग योगिनः कपिलादयः ।
ओङ्कारं परमं५९ ब्रह्म निर्विकल्पमुपासते । ।४९। ।
स एव सर्वगो ह्यात्मा कारणं च स एव तु ।
एवं प्रकृतिभूतौ तावोङ्कारप्रभवौ स्थितौ६० । ।8.180.५ ० । ।
ईशभोज्यौ गुणात्मानौ ज्ञात्त्वा विष्णुपितामहौ ।
तत्सृष्टौ वेदयज्ञाख्यौ मुक्त्वा धर्मनिबन्धनौ ।।५ १ । ।
महामोहौ तमोनिष्ठौ६१ विषयासङ्गसंयुतौ ।
सत्वपूर्वौ रजोमध्यौ सुखदुःखान्वितौ सदा । ।५२। ।
संसारभ्रमणौ मूढौ सर्वानित्यसमायुतौ ।
ईश्वरेप्सुर्भवेद्विद्वान् ध्यायोगपरायणः । ।५३ । ।
तस्मात् प्रकृतिरुत्पन्ना तस्मिन्नेव प्रणश्यति ।
येनासावीश्वरो विन्नो योगेनात्मनि संस्थितः ।
प्रकृतिस्तं न बध्नाति मुच्यते च भवार्णवात् । ।५४। ।
इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ सप्तमः अशीत्युत्तरशततमोध्यायः

सनत्कुमार उवाच
आत्मा सूक्ष्मो मनोबुद्धिरहङ्कारो गुणास्तथा ।
भूतानीन्द्रियसंघातस्तन्मात्राणि दशानिलाः१ ।।१ ।।
विभक्ताः क्रमशो देहे विभागेन यथाश्रयम् ।
स्वप्नजाग्रत्सुषुप्तेषु२ स्थानेषु त्रिषु सुव्रत ।।२ । ।
- - - - - - - - -- - -
५६ चारुव द्योनिर्भावाः - क, चाभवेद्योनिर्भावाः - ख. । ५७ जायतोङ्कारः - क. । ५८ भुवनं (?) । ५९ ओङ्कारपरमं - क. ख. । ६० प्रभवास्थितौ - क. ख. । ६१ महामोहतमोनिष्ठौ (?) । १ स्तन्मात्रण्यनिलात्मकः - ख. । २ जाग्रत्स्वप्नसुषुप्तेषु (?) ।
सुषुप्तेषु ()
- - - - - - - - -- - -