स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/१३

विकिस्रोतः तः

पूर्ववर्ती पृष्ठः (अध्यायाः १११ - १२०) | आगामी पृष्ठः ( अध्यायाः १३१ - १४०)



सनत्कुमार उवाच
तेथ१ दृष्टवा महादेवं सप्तलोकैकबान्धवम् ।
ऊचुः प्राञ्जलयः सर्वे जानुभ्यां शिरसा नताः२ ।।१ ।।
भगवँल्लोककामेन हरिणा देवसत्तम ।
कृतः प्रतिग्रहः पूर्वं येन पाप्मा तमर्च्छत३ ।।२।।
तदस्य जगतो नाथ भक्तस्य प्रणतस्य च ।
अस्माभिर्याच्यमानस्त्वं कुरु श्रेयः४ सुरेश्वरः ।।३।।
समाप्यतामयं यज्ञः पाप्मना मुच्यतां हरिः ।
स्वामूर्जां प्रतिपद्यन्तां५ देवाः सर्वे सवासवाः ।।४।।

२० शिशुं सुतम् - ख । २१ शतानि संप्राप्य - क, स तानि संप्राप्य - (?) । २२ तत्त्वं - ख., ततो (?) । २३ त्रिदिवौकसंश्रयाः - क. ख.,... संश्रयादिति - ख. ।
१ ते तं - घ. । २ च शिरोनताः - क. ख. । ३ पाप्मानमर्च्छत - क. ख. । ४ श्रेष्ठाः - ख. । ५ प्रतिपद्यन्तु - क. ख. ।

667
सनत्कुमार उवाच
तेषां तद्वचनं श्रुत्वा भगवान् हृषिताननः ।
समाप्य यज्ञं शूलेन गिरिं तं समवारयत् ।।५। ।
तस्माद् भेदात्ततो ह्यापः सुधाशंखेन्दुपाण्डराः ।
निःसृतास्तत्र ते६ विष्णुं स्नपयाञ्चक्रिरे तदा । ।६।।
तस्याथ स्नातमात्रस्य शरीरादभिनिःसृता ।
पाप्मासुरी महाघोरा विकृता विकृतानना । ।७। ।
देवानभिद्रुता हन्तुं निरुद्धा देवबन्धुना ।
-. ........ . .. . . . - - ।
उवाच तां न हन्तव्या देवाः सर्वे सवासवाः । ।८ । ।
इहैव च तव स्थानं भविष्यति सुपूजितम् ।
पुण्या च७ सर्वतीर्थेभ्यः सर्वपातकनाशनी ।।९। ।
सप्त पूर्वान् परांश्चैव तारयिष्यसि९ नित्यशः ।
संध्येति जगति ख्याता सर्वतीर्थवरा शुभा ।। 8.121.१० । ।
वारिधारा शुभा दिव्या सर्वयज्ञफलप्रदा ।
त्वामुपास्य१० कुलान् सप्त११ तारयिष्यन्ति मानवाः । । ११ । ।
सनत्कुमार उवाच
ततस्ते दैवताः१२ सर्वे रुद्रस्य वचनात्तदा१३ ।
अर्चयित्वा यथान्यायं देवदेवमुमापतिम् ।। १२ ।।
देवस्यायतनं कृत्वा जग्मुस्त्रिदिवमेव च१४ ।
गतेषु देवसंघेषु शिवकूटे१५ तदा हरिः । । १३ । ।
अश्वमेधं तदा यष्ट्वा देवमाराधयत् स्थितः ।
तस्याथ वर्षैः षड्भिस्तु सहस्रेण च तन्यतः ।
मासैः षड्भिश्च देवेशस्तुतोष वृषभध्वजः । । १४। ।
सोमः सनन्दिः सगण इदं प्रोवाच तं पुनः ।
हृष्यमाणः सुतुष्टात्मा१६ ब्रूहि किं प्रददानि ते । । १ ५। ।

६ तं - क. ख. घ. । ७ पुण्यं च - ख । ८ नाशना - क. । ९ तारयिष्यति - ख । १० तामुपास्य - क. । ११ सप्तकुलं (?), कुलान्युपास्य त्वां सप्त (?) । १२ देवताः - क ख. । १३ वचनन्तदा - क. । १४ ह - ख. । १५ शिवकूटं - क. ख. - । १६ सुहृष्टात्मा - क ।

668
विष्णुरुवाच
भगवन् पाप्मना१७ वापि तपसा वापि लोकप ।
लोपो न मे यथा स्याद्वै तन्ममाचक्ष्व कालहन् । । १ ६।।
सनत्कुमार उवाच
ततः प्रहस्य देवेशः प्रीयमाणः प्रजापतिः ।
उवाच विष्णुमामन्त्र्य गुह्यं चर महाव्रतम् । । १७।।
स चाथ१८ कृतरक्षस्तं१९ सर्वधर्मावहं शुभम् ।
योगं यन्त्रं व्रतं चैव परमैश्वर्यसाधनम२० ।। १८ ।।
यत्तत्पाशुपतं दिव्यं विधानं सार्वकामिकम् ।
तच्चीर्त्वा द्वादश समाः परमैश्वर्यमाप्तवान् । । १९ । ।
तस्य देवः स्वयं शूली तुष्टः प्रेक्ष्य तथाविधम् ।
शरीरार्धं ददौ तस्मै२१ तदभूद्विष्णुशङ्करम् । ।8.121.२० ।।
य इमं शृणुयान्मर्त्त्यः सदा पर्वसु पर्वसु ।
अर्चयेच्छिवविष्णुं च स गच्छेत् परमां गतिम्२२ ।। २१ । ।
एवं स विष्णुर्जित्वा तु वामनः सुमहाबलः२४ ।
त्रैलोक्यं सर्वदेवेभ्यः सर्वं२५ प्रति समर्पयत्२६ ।।२२ । ।
सनत्कुमार उवाच
ततो देवैः समाक्रान्ते त्रैलोक्ये मुनिपुङ्गव ।
येसुरा हतशेषास्तु ते समाश्रित्य दानवौ । । २३ ।।
तारकं च मयं चैव चक्रुर्युद्धं सहामरैः२७ ।
मयश्च तारकश्चैव पुत्रपौत्रसमावृतौ । । २४। ।
विप्रचित्तिश्च दनुजो२८ ये च तस्य सुताः स्मृताः ।
निवातकवचाः सर्वे पौलोमाः कालकासुताः ।
सैंहिकेयाश्च विक्रान्ता बालेयश्च२९ तथा३० गणः । ।२५ । ।

१७ कर्मणा - क. । १८ पञ्चार्थं - क । १९ रक्षन्तं - क. । २०. साधकम् - ख. । २१ ददावस्मै - क. । २२ ञ वाध्यायसमाप्तिपुष्पिका घ पुस्तके । २३ एवञ्जित्वा - ख । २४ वामनञ्च महाबलः - क ख, महाबल - ख, एव विष्णुः स जित्वा तु वामनत्वे महाबल - घ । २५ सर्वान् - क. । २६ प्रतिसमर्पण - ख । २७ महामुनैः (ने?) - ख. । २८ स्तदनुजो - घ. । २९ जाने यश्च - ख । ३० यथा - क, ।

669
एते चान्ये च बहवो दानवा बलदर्पिताः ।
सन्नद्धाः समभिक्रुद्धा आह्वयन्त तदा सुरान् । ।२६। ।
संप्रेक्ष्य तानाह्वयतो३१ देवा अपि सुदंशिताः ।
तैस्सहैत्य तदा चक्रुः समरं समरैषिणः३२ । ।२७।।
तेषां तदभवद् युद्ध तुमुलं लोमहर्षणम् ।
वर्षाणान्तु३३ शतान्यष्टौ सहस्राणि च षोडश । । २८। ।
दिव्यानि न च संग्रामे३४ एकपक्षे३५ जयोभवत् ।
अथ देवास्तदा३६ युद्धे सैंहिकेयैर्दुरासदैः । ।२९।।
पराजिता महासत्वाः सिंहैः पशुगणा इव ।
तेषां तद्बलमालक्ष्य सहस्राक्षः पुरन्दरः । ।8.121.३ ० । ।
जगाम देवदेवेशं शरणं रुद्रमव्ययम् ।
स गत्वा स्वर्णचूडस्य३७ गिरेः शृङ्गे कृतालयम् । ।३ १ । ।
देव्या सह महादेवमपश्यद् गणसंवृतम् ।
दीप्यमानं यथा वह्निं दुर्दृश्य३८मकृतात्मभिः । ।३ २। ।
तमसौ नन्दिना पूर्वमाख्यातो३९ देवसत्तमः४० ।
दृष्टवा प्रणम्य शिरसा इदं वचनमूचिवान् ।।३ ३ ।।
देव वर्षशतान्यष्टौ सहस्त्राणि च षोडश ।
दिव्यानि समतीतानि संग्रामस्य दिवौकसाम् ।।३४। ।
तारकश्च मयश्चैव दानवौ युद्धदुर्मदौ ।
तावाश्रित्यासुराः४१ सर्वे देवान् घ्नन्ति यथा पशून्४२ ।।३५।।
तेषां तु वध्यमानानां देवानां देवसत्तम ।
जीवितं संप्रयच्छस्व यथा वा देव युज्यते । । ३६ ।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा भगवान् गोवृषध्वजः ।
चिन्तयित्वा ततस्तत्र रामरामेत्यथाब्रवीत् । । ३७। ।

३० तानाह्वयत संप्रेक्ष्य - क. । ३२ दिव्यमाने च संग्रामे नैकपक्ष - घ. । ३३ वर्षाणाञ्च - ख. । ३४ ततो दैत्या - घ. । ३५ एकपक्षो - क. । ३६ स्सदा - ख । ३७ गत्वा सुवर्णचूडस्य - क । ३८ दुर्दर्श (?) । ३९.. माख्यातं (?) । ४० देवसत्तमं ( ?) । ४१ तावाश्रित्वासुरा. - क. । ४२. पशुम् - क, ।

670
भगवानुवाच
राम राम महाबाहो चीर्णं ते सुमहत्तपः ।
गच्छ देवान् सुयुद्धेन कुरु सर्वान् गतज्वरान्४३ ।।३८। ।
सनत्कुमार उवाच
एवमुक्तस्तदा रामो जामदग्न्यः प्रतापवान् ।
उवाच दीनया वाचा प्रणम्य बहुमानतः । ।३ ९।।
राम उवाच४४
भगवन्नल्पवीर्योस्मि तपसा कर्षितो भृशम् ।
अनस्त्रविच्च देवेश न शक्ष्ये संयुगं४५ विभो । ।8.121.४० ।।
देववव? उवाच
गच्छ शक्ष्यसि विप्राद्य योद्धुं त्वं त्वद्य मा शुचः ।
अहं त्वाप्याययिष्यामि मा व्यथां४६ कुरु भार्गव । ।४१ । ।
सनत्कुमार उवाच
ततः स भगवानिन्द्रं प्राह देवपतिं हरः ।
एष हंस्यति ते शत्रून् रथमस्मै प्रयच्छ च४७ । ।४२। ।
सनत्कुमार उवाच
ततः प्रणम्य शक्रोपि राममादाय चैव ह ।
जगाम तं तदोद्देशं४८ संग्रामो यत्र सोभवत् । ।४३ । ।
ततः स रथमुख्येन संपाद्य तु पुरन्दरः ।
राममाह स्वयं शक्रः सैंहिकेयानुपाह्वय । ।४४।।
स तेन रथमुख्येन रामः प्रहरतां वरः ।
कवची बद्धतूणीरः शरी खङ्गी शरासनी । ।४५। ।
बद्धगोधांगुलित्रश्च बद्धध्वजपताकवान्४८ ।
अभिदुद्राव वेगेन सैंहिकेयान् दुरासदान् ।।४६ । ।

४३ कुरुष्वोद्धारितज्वरान - ख. । ४४ स न. उ - क. । ४५ नक्ष्ये संयुगतां - क. । ४६ मान्यथां - क. । ४७ प्रधत्स्व च - ख., प्रयच्छत - क. । ४८ ततो देशं - ख. । ४९ बहुध्वजपताकवान् - ख. ।

671
तेषां तस्य च संग्रामः सुघोरस्समपद्यत ।
शार्दूलानां यथारण्ये सिंहेन सह भीषणः । ।४७। ।
तत्राद्भुतमपश्यन्त५० सिद्धगन्धर्वचारणाः ।
येदेकोपि तदा रङ्गे दृश्यतेनेकरूपवान्५१ । ।४८। ।
नाददानः शराँश्चित्रान् सन्दधानस्तथैव च ।
धनुर्विकर्षमाणो५२ वा दृश्यते भार्गवस्तदा । ।४९ । ।
मण्डलीकृतमेवास्य कार्मुकं सुमहत्तदा ।
दृश्यते शत्रुभिश्चैव दुर्निरीक्ष्यश्च सोभवत् ।।8.121.५ ० ।।
तेषां स भार्गवः क्रुद्धः परावृत्य महाबलः ।
चिक्षेपैकैकशो व्यास मुखे तीक्ष्णाञ्छरान् दश ।।५१ । ।
तत्राद्भुतमपश्यन्त लाघवं तस्य धीमतः ।
साधु साध्विति भूतानां तत्र शब्दो महानभूत् । ।५२ ।।
सनत्कुमार उवाच
तैः शरैर्भिन्नवदनाः सैंहिकेया महाबलाः ।
सगन्धा५३ निपतन्त्युर्व्यां ताला वाय्वाहता इव । ।५ ३ । ।
स तदा५४ दशसाहस्रस्तेषां वै देवविद्विषाम्५५ ।
भार्गवेण गणो दग्धः कालेनेव५६ यथा जगत्५७ । ।५४। ।
ततो देवाः सऋषयो गन्धर्वाश्च सचारणाः ।
साधु साध्विति तं प्रोच्य५८ तुष्टुवुर्हृषिताननाः ।।५५। ।
सनत्कुमार उवाच
तस्य तत्कर्म संवीक्ष्य भगवान् पाकशासनः ।
बहुमानेन संपूज्य भार्गवं सह दैवतैः५९ ।।५६।।
इदमाह महातेजाः परिष्वज्य६० पुनः पुनः ।
तवैतत्कर्म नान्यस्य६१ सदृशं दिवि विद्यते । ।५७। ।

५० तत्रार्पितमपश्यन्त - क. । ५१ केन रूपवान् - ख. । ५२ धनुर्विदार्यमाणो - ख. । ५३ स गत्वा (र्वा) - क ख. । ५४ तथा - ख. । ५५ देवतारिणाम् - क. ख. । ५६ कालेनैव - क. ख. । ५७ गजम् - क. । ५८ संप्रोच्य - क. । ५९... देवतैः - क. । ६० परिपूज्य - क. । ६१ वान्यस्य - क ।

672
यदि ते सिंहिकापुत्राः सहसैव हतास्त्वया ।
तव वै तन् महत्कर्म६२ त्रिपुरे त्र्यम्बकस्य वा ।
न त्वयास्ति समो लोके सत्यमेतद् ब्रवीम्यहम् । ।५८ । ।
एते न तुल्या देवेन मानुषेण न केनचित् ।
अवध्याः सर्वभूतानां त्वयैकेन निषूदिताः६३ । । ५९। ।
तस्मात्तव वयं तुष्टाः प्रयच्छामो ह्यवध्यताम् ।
अक्षयं च बलं युद्धे यशञ्च परमं भुवि । । 8.121.६० । ।
त्र्यम्बकश्च वरैर्दिव्यै६४ रिष्टैस्त्वां प्रतिपत्स्यते ।
यथाकामञ्च युद्धेषु समूहं त्वं विजेष्यसि६५ । ।६ १ । ।
सनत्कुमार उवाच
स एवमुक्तस्तैर्व्यास देवैस्तुष्टैर्महातपाः ।
जगाम त्र्यम्बकं देवं हृष्टतुष्टमना यतिः । । ६२ । ।
देवा अपि सुसंयत्तास्तारकं युद्धदुर्मदम् ।
अवाकिरन्त वेगेन मयेन सहितं तदा । । ६३ । ।
ते दैत्यवेगप्रतिरुद्धवेगा महाबलाः सिन्धुसमानवेगाः ।
जघ्नुर्भृशं दैत्यगणान्निपत्य सिंहा यथारण्यचरा मतङ्गान्६६ । । ६४। ।
इति स्कन्दपुराणे जामदग्न्यवरप्रदानो नाम एकविंशोत्तरशततमोध्यायः

सनत्कुमार उवाच
सैहिकेयवधं दृष्टवा सुराणां च जयं तथा ।
सहसा दैत्यसैन्यानि प्रभग्नानि समन्ततः । । १ । ।
. . . . .. . .. .. . . . .. . .. . .. . ।
- - - - - - - - - - - - - - - - ।
अन्येन प्रच्युतस्तारो१ मयो वीरो विरोचनः । । २ । ।

६२ तवै वैतद्भवेत्कर्म... - ख., बद्धवै.. - ख । ६३ निसूदिताः - ख. । ६४ शरैर्दिव्यै - क. । ६५ विजहि ( यि?) ष्यसि - क., विजयिष्यसि - ख. । ६६ न्मतङ्गान् - क. ।
१ प्रश्रुतस्तारो - क. ।

673
विप्रचित्तिश्च षण्डश्च प्रह्लादश्च महासुरः ।
कालनेमिस्ततः क्रुद्धः केशवं प्रति संयुगे ।। ३ । ।
सरथं महदास्थाय शतनल्वोर्ध्वकेतुमत् ।
अभिदुद्राव वेगेन केशवं प्रति दानवः । ।४। ।
तस्यापतत एवाथ चक्रमप्रतिघं महत् ।
ससर्ज केशवो व्यास स तद् व्यष्टम्भयत्तदा । ।५ । ।
तद् विष्टब्धं तदालक्ष्य सर्वे देवाः प्रमन्यवः ।
पराजिता२ बभूवुर्हि३ विशस्त्राः कालनेमिना । ।६। ।
. . . . ... . .. .. . .. . .. .. .. .. .. . . .. ।
स तान्विद्राव्य दैत्येन्द्रो विमुखान् प्रचकार ह ।
कृत्वा चकार च तदा लोकपालत्वमव्ययः । ।७। ।
भुवं द्याञ्च तदा व्याप्य वर्तमानो महाबलः ।
स्वयम्भू४रिव लोकाँस्त्रीनचरल्लोकमायया ।।८। ।
सनत्कुमार उवाच
तं तथावस्थितं दृष्ट्वा दैत्यं देवाः सवासवाः ।
भयत्रस्तास्तदा जग्मुः शरणं हरिमव्ययम् । ।९ । ।
शरण्यः स च देवेशो हरिस्त्रैलोक्यबान्धवः ।
तेषां प्रादाद् भयत्राणं दानवस्य वधेप्सया । । 8.122.१० ।।
स तदा द्यां भुवञ्चैव व्याप्य रूपेण सर्वशः ।
चक्रं तदब्जं सस्मार यत्तद् रुद्रेण निर्मितम् । । ११ ।।
ततस्तेन तदा व्यास दानवस्य शिरो महत् ।
जहार पक्वं तालाग्रात्५ फलं वायुरिवोद्धतः । । १ २। ।
तस्मिन् विनिहते दैत्ये तारकश्च मयश्च ह ।
विनिवृत्तौ महायोधौ पातालं प्रतिवेगितौ६ । । १३ ।।
सनत्कुमार उवाच
एवं व्यासाभवद्युद्धमुग्रं तत्तारकामयम् ।
कालनेमिर्हतो७ यत्र विश्रुतश्च विरोचनः । । १४। ।

२ पलायिता (?) । ३ बभूव ते (स्ते) - ख । ४ स्वयम्भूरिव - क. ख । ५ तालाग्र्यात् - क, ख, । ६ वेशितौ - क. । ७ जलनेमिर्हतो - ख. ।

674
सैंहिकेयाश्च विक्रान्तास्तुहुण्डश्च महासुरः ।
सुरोचनः८ शतावर्तो हालो गार्ग्यशिरास्तथा ।। १५।।
विपाकः सह पाकेन चण्डः कार्तस्वनः कुभः ।
एते चान्ये च दैत्येन्द्रा निहतास्तारकामये ।
ध्वजे पुनर्हतः क्रूरो विप्रचित्तिः सहानुजः ।। १६।।
व्यास उवाच
कथं तदभवद्युद्धं९ देवानामसुरैः सह ।
कथञ्च ध्वज इत्येवं१० तस्य नाम बभूव ह । ।१७।।
जामदग्न्यश्च तत्कर्म कृत्वा भृगुकुलोद्वहः ।
दुष्करं सर्वभूतानामागत११स्त्र्यम्बकान्तिकम् ।
किमुक्तो देवदेवेन एतदिच्छामि वेदितुम् । ।१८ ।।
सनत्कुमार उवाच
जमदग्नेस्तदा१२ सूनुरमरैः प्रेषितः स्वयम् ।
जगाम गुह्यं देवस्य पुरिश्चन्द्रं निवेशनम् ।।१९।।
व्यास उवाच
कथं तदभवद्दिव्यं पुरिश्चन्द्रं निवेशनम् ।
स्थानं गुह्यं महेशस्य कथयस्व दृढव्रत ।।8.122.२० । ।
सनत्कुमार उवाच
अत्र१३ ते संप्रवक्ष्यामि पुरावृत्तं महामते ।
यच्छ्रुत्वा पापकर्मापि गच्छेत परमां गतिम् । ।२१ । ।
पुराभूतां महात्मानौ नरनारायणावृषी ।
ताभ्यां कार्येण देवानां ब्रह्मवध्या कृता किल ।।२२।।
तयाभिभूतौ तौ देवौ पाप्मयातिमहाबलौ ।
अभूतान्नष्टसंज्ञौ तौ तिर्यग्योनिगतौ भृशम् । ।२३ । ।
अथ संवत्सरे दिव्ये समतीतेमितात्मवान् ।
आगाद् ब्रह्मा स्वयं तत्र दैवतैर्ऋषिभिः१४ सह । ।२४।।

८ प्ररोचनः - ख., मुरोबलः (?) । ९ समभवद्युद्धं - क. ख. । १० इत्येव - क. ख. । ११... मामन्त्र्य - क. । १२ जमदग्निस्तदा - क .। १३ हन्त (?) । १४ देवतैर्ऋषिभिः - क. ख. ।

675
स तं संबोधयामास सनरं देवपस्तदा ।
तथापि हि न तौ बुद्धौ कर्मणा संवृतौ भृशम् । ।२५। ।
तान् ब्रह्मा स तदा प्राह सर्वानेव दिवौकसः ।
यूयं नारायणस्यार्थे चरध्वं धर्ममुत्तमम्१५ ।।२६।।
ततो विमोक्ष्यते देवः१६ सनरो ब्रह्मवध्यया ।
तमेवंवादिनं देवाः प्रणम्य शिरसा तदा ।
ऊचुः प्राञ्जलयः सर्वे किन्तपः कर्म शाधि नः । ।२७। ।
ब्रह्मोवाच
जपध्वं प्रयताः सर्वे वायुभक्षा जितेन्द्रियाः ।
रुद्राणां हृदयं सम्यक् ततो योगमवाप्स्यथ । ।२८ ।।
सनत्कुमार उवाच
त एवमस्त्विति प्रोच्य जजपुः सलिलेशयाः ।
ऋषिभिस्सह देवेशा वर्षायुतशतानि षट् ।।२९। ।
अथ कालेन महता तेषां युक्तात्मनां तदा ।
योगः१७ प्रादुरभूत्१८ सूक्ष्मो१९ यतोग्निरभवच्छुभः । ।8.122.३ ० । ।
तेनाग्निना ब्रह्मवध्या नरनारायणौ तदा ।
सा२० दग्धा संपरित्यज्य उदकं प्रविवेश ह । ।३ १ ।।
नास्तयापः२१ समाविष्टा रसवत्यो न जज्ञिरे ।
अगन्धाश्च विवर्णाश्च प्रभावत्यो न चैव ह ।
पृथिवी चाल्पवीर्याभूत्तेजस्तिग्मं च नाभवत् । ।३ २ ।।
सनत्कुमार उवाच
ततस्ते तन्तथा२२ दृष्ट्वा युयुजुर्भूय एव च ।
हृदयं जजपुश्चैव रुद्राणां युक्तमानसाः । ।३ ३ । ।
अथागाद् भगवान्देवः शूलपाणिर्वृषध्वजः ।
उवाच देवान् तुष्टोस्मि ब्रूत यद्वोभिकांक्षितम्२३ । ।३४। ।

१५ तप उत्तमम् (?), व्रतमुत्तमं (?) । १६ देवाः - क. ख. । १७ योगं - क. ख । १८ प्रादुर्बभौ - क. ख. । १९ सूक्ष्मं - क. ख. । २० स - क. । २१ तास्तदापः - ख. । २२ तत्तथा - (?) । २३ वाञ्छितं - ख. ।

676
सनत्कुमार उवाच
ततस्ता देवताः सम्यग् रुद्रं दृष्ट्वाभिरेमिरे२४ ।
तुष्टुवुश्चानता भूत्वा यज्ञजीमूतवाहनम् ।।३ ५। ।
देवा ऊचुः
नमः परमदेवाय युगान्तानलवर्च्चसे ।
सलिने तप्यमानाय रुद्राणां हृदयाय च । । ३६ । ।
महापरशुहस्ताय हिरण्यायतनाय२५ च ।
वसूनां पतये चैव देवानां पतये नमः ।।३७। ।
शुचये रेरिहाणाय सद्योजाताय मन्यवे ।
ग्रहाणां पतये चैव ग्रहाणां हृदयाय च ।।३८ ।।
महाग्रहानुयाताय ग्रहराजाय वै नमः ।
नमः शमदमोग्राय उग्रदण्डधराय च । ।३ ९। ।
यमाय यमनाथाय यमदण्डधराय च ।
नमः परमदेवाय पराणां परमाय च । ।8.122.४० । ।
महतां पतये चैव कमण्डलुधराय च ।
वामदेवाय ज्येष्ठाय पशूनां पतये नमः । ।४१ । ।
प्रधानपतये चैव प्रधानस्य प्रवर्तिने ।
नमः सहस्रवक्त्राय गदिने शूलिने नमः । ।४२ । ।
नमः पवनरूपाय बहुरूपाय वेधसे२६ ।
नमः क्रतुविहन्त्रे२७ च कामानलविघातिने । ।४३ । ।
नमश्छन्दोङ्गरूपाय विरूपनयनाय च ।
इन्द्रियग्रामघाताय नमो वेदान्तगाय२८ च । ।४४।।
नमोस्त्वशनिघाताय मनसामुन्मनाय च ।
वेदवेदाङ्गमालाय नमस्ते पद्ममालिने । ।४५ । ।

२४ धिनेमिरे - क. । २५ हिरण्यतनयाय - क, हिरण्यनयनाय (?) । २६ वेधये - ख । २७ क्रतु- ( त्व) हन्त्रे - ख. । २८ वेदान्तकाय - क. , वेदान्तताय - ख ।

677
नमः शैलप्रदाहाय२९ शैलजातोद्भवाय च ।
महते विश्वरूपाय महद्भिर्महिताय च । ।४६ । ।
सहस्रशतनेत्राय ललाटनयनाय च ।
महायोगप्रणेत्रे च तथा तत्पुरुषाय च ।।४७। ।
नमो वेदरहस्याय देववेदस्तुताय३० च ।
योगिने ध्यायमानाय अशनीपातहासिने । ।४८।।
हृच्छयाय नमस्तेस्तु नमः सर्वगताय च ।
कुमारवरनाथाय कुमारजनकाय च ।।४९। ।
दण्डहस्ताय चरते अन्तकायाजिताय च ।
शुभाय शुभरूपाय शुभसर्वप्रवर्तिने । ।8.122.५० । ।
शिवाय शिवनाथाय सदा सर्वशिवाय च ।
धनुर्वेदरहस्याय धनुर्वेदप्रवर्तिने ।५१ । ।
सर्वपापापहन्त्रे३१ च सर्वपाप्मविघातिने३२ ।
शिवः सौम्यश्च देवेश दिश नो यन्मनोगतम् । ।५२। ।
यदपव्याहृतं किञ्चिदस्माभिर्भगवन्३३ विभो ।
तत्सर्वं३४ भक्तवात्सल्यादस्माकं क्षन्तुमर्हसि । ।५३ । ।
पाप्मयाभिपरीतात्मा देवबन्धुरयं विभो३५ ।
नरेण सह देवेश३६ स भवेच्चन्द्रनिर्मलः ।।५४। ।
सनत्कुमार उवाच
य इमं त्र्यम्बकस्तोत्रं भक्तिमान् सततं नरः ।
पठति प्रयतो३७ व्यास पाप्मया३८ स विमुच्यते । ।५५।।
सर्वपापैश्च मुच्येत नष्टञ्च लभते पुनः ।
न च दुर्गतिमाप्नोति यदि स्याद्वै सुपापकृत् । ।५६। ।
सनत्कुमार उवाच
एवं स भगवान् देवैः स्तुतस्तुष्टश्च लोकपः ।
उवाच देवान्देवेशः३९ सर्वान् सत्यवतीसुत । ।५७।।

२९.. प्रवाहाय - क. ख । ३० देवदेवस्तुताय - क. ३१ सर्वपापप्रहर्त्रे - ख । २ सर्वपाप्माविघातिने - ख. । ३३ भगवान् - क, । ३४ तत्सर्वां - क. । ३५ विभुः - क. ख । ३६ सर्वदेवेश - ख । ३७ प्रयतः पठते - क ख. । ३८ पाप्मायाः - ख. । ३९ देवदेवेशः - ख. ।

678
देवदेव उवाच
भो देवाः परितुष्टोस्मि वरं वृणुत कांक्षितम्
दास्येहं तन्महाप्रज्ञा मा तूष्णीं ब्रूत सर्वशः । ।५८। ।
देवा ऊचुः
हरिरेष महादेव पाप्मया हतमानसः४० ।
तामस्य४१ निर्णुद क्षिप्रं नीहारमिव भास्करः ।।५९ । ।
एष लोकहितार्थाय देवानाञ्च४२ महाबलः ।
कुरुते कर्म देवेश पाप्मानं ह्यस्य नाशय ।। 8.122.६० ।।
वयं च समतां तुभ्यं४३ गणतां गणमध्यगाः ।
लभेम सर्वदैवेश४४ यदि त्वं मन्यसे विभो । ।६१ । ।
सनत्कुमार उवाच
तेषामेवं तु वदतां देवानामृषिसत्तम४५ ।
उवाच भगवाञ्छर्वः प्रहसन् प्रीतमानसः ।। ६२। ।
विष्णुरेष सुराः सद्यो मोक्ष्यते पाप्मयानया४६ ।
पाप्मा चेयं महाभागा४७ ऊषरे संभविष्यति ।। ६३ । ।
निर्यासश्चैव वृक्षाणामपां फेनस्तथैव च ।
महोरगाणां गन्धश्च स्त्रीणां निन्दा तथैव च । । ६४।।
दीक्षितस्य च४८ विप्रस्य अशुभस्यावकीर्तनम् ।
ब्राह्मणानां परीवादो गवामपरिकीर्तनम्४९ । ।६ ५ ।।
अग्नेरज्वलनञ्चैव नदीनां बन्ध एव च ।
य एतानि नरः कुर्याद्रागमोहसमन्वितः
स एतां प्राप्नुयाल्लोके स्वयंभूरपि५० लोकपः । ।६६ ।।
यदा तु वसुदेवस्य सुतो विष्णुर्भविष्यति ।
तदा स रूपिणीमेनां नर एषोपभोक्ष्यते । ।६७। ।

४० हृतमानसः - क. ख. । ४१ तामस्मै - क. ख. । ४२ देवार्थञ्च - ख. । ४३ तुल्यं - ख । ४४ देवेश - क. ख. । ४५ सत्तमाः - ख. । ४६ तया - क. । 7७ महाभाग - क. । ४८ दीक्षितस्तस्य - क. । ४९ गवाञ्च परिकीर्तितम - ख. । ५० स्वयम्भुरपि - क. ख,,.. रसि - क ।

679
तत्रोपभुज्य वरदो हरेर्जातां स्वसान्तदा ।
विमुक्तः पाप्मया भूय५१ इमं लोकं चरिष्यति । ।६८।।
यथा त्वस्य स्वसापीयं नैव५२ बाधां५३ करिष्यति ।
तथा चरत्वयं घोरं तपः परमदुश्चरम् ।।६९। ।
यूयं च ऋषिभिः सार्धमिहैव सुसमाहिताः ।
पुरश्चरणमव्यग्राः कुरुध्वं मदनुज्ञया । ।8.122.७० ।।
सनत्कुमार उवाच
त एवमुक्ता देवेन देवास्सर्वे तदा हरिम् ।
ऊचुः कुरु तपो घोरं ततः श्रेयो ह्यवाप्स्यसि । ।७१ । ।
ततः स चन्द्रं शैलेन्द्रमारुह्य सुसमाहितः ।
तपश्चचार सुमहदिन्द्रियग्रामतापनम् । ।७२। ।
देवा अपि महात्मान५४ ऋषिभिस्सह सुव्रतैः ।
हिरण्यवर्णं शैलेन्द्रे५५ तपस्तेपुस्समाहिताः ।।७३ ।।
अथ तेषां समाप्ते तु व्रते तस्मिन् पिनाकधृक् ।
आदिदेश व्रतं दीप्तं यत्तत् पाशुपतं महत् । ।७४।।
उवाच स तु तुष्टात्मा आभाष्य सु?रपुंगवान् ।
मेघदुन्दुभिनिर्घोषं धीरम्भीरशब्दवत् । ।७५। ।
देवदेव उवाच
पुरश्चरणमेतद्धि सुचीर्णं लोकपाः स्वयम् ।
इदं५६ पाशुपतं चीर्त्वा निर्वृता यात५७ निर्भयाः ।।७६।।
एतत् परं पवित्रञ्च सांख्ययोगाधिकं व्रतम् ।
नास्मात्परतरं किञ्चित् सूक्ष्मं वा विद्यते क्वचित् ।।७७।।
भस्मना दिग्धसर्वाङ्गो५८ दिग्वासाः शुचिरेव च ।
शरीरस्थैर्यजन् रुद्रं५९ सर्वपापैः प्रमुच्यते । ।७८। ।

५१ भूयो - क. ख । ५२ नैवा. - क. ख. । ५३ बाधं - ख. । ५४ महात्मानो - क ख. । ५५ हिरण्यवण- शैलेन्द्रे - ख. । ५६ इम - क. ख. । ५७ यश - ख. । ५८ सर्वदिग्धाङ्गो - क. ख. । ५९ रुद्रं यजत् - शरीरस्थैः (?) ।

680
आर्द्र स्नानात् परं भस्म आर्द्रे जन्तुवधो ध्रुवम्६० ।
आर्द्रन्तु प्रकृतिं विद्यात् प्रकृतिं चापि बन्धनम् । ।७९ । ।
प्रकृतेस्तु प्रहाणार्थं६१ भस्मना स्नानमिष्यते ।
दिग्वासस्त्वं च शौचञ्च येन जायेन्न६२ कर्हिचित् । ।8.122.८० ।।
यन्त्राणां६३ परमं यन्त्र६४मन्यद्यस्मान्न विद्यते ।
षडङ्ग सर्वकामीयं सर्वलोकनमस्कृतम् ।। ८१ । ।
शुचि सर्वपवित्रं६५ च सर्वपापापहं शुभम् ।
तपसो वर्धनं चैव ते चरन्तु६६ समाहिताः६७ ।
यन्त्रं त्वपापं६८ विज्ञेयं प्रकृतिस्सा च संस्मृता६९ । ।८२ । ।
बन्धश्च त्रिविधः प्रोक्तः सन्यासफलमेव च ।
तस्मात् सर्वप्रहाणार्थं यन्त्रमेतत् समाचरेत् ।।०३ ।
असम्मतः सदा लोके येन जीर्येन्न७० कर्हिचित् ।
योगञ्च परमं प्राप्य योगानां यत्परं७१ महत् । ।८४।।
यस्मात्७२ परतरं नास्ति षडङ्गं सर्वकामिकम् ।
येन मुक्तः पतेद् भूयो न योगी७३ मरणादिषु ।।८५।।
तं योगं समनुप्राप्य सिद्धो दिव्येन कर्मणा ।
न लिप्यते७४ महायोगी कर्मभिस्तु कृताकृतैः ।।८६। ।
सनत्कुमार उवाच
एवं ते देवदेवेन समाज्ञप्ता दिवौकसः ।
समाप्य तद्व्रतं घोरं शंकरस्य गणा बभुः । ।८७।।
ते गणत्वमनुप्राप्य तस्य देवस्य शूलिनः ।
अन्वगृहणन्त तं देशं तपसा भाविता भृशम् । ।८८ । ।
देवा ऊचुः
यस्मादिह सुचीर्णं नः पुरश्चरणमन्तशः७५ ।
तस्मादिदं७६ महेशस्य गुह्यमायतनं स्मृतम् । ।८९।।

६० ध्रुवः - व. । ६१ प्रहारार्थं - ख. । ६२ जायेत - ख. । ६३ मन्त्राणां - घ. । ६४ परमं मन्त्र - ख. । ६५. .. स्सर्वपवित्र - क. ख. । ६६ चरन्तः - क. ख. । ६७ समाहितः - क. । ६८ तु पापं - घ. । ६९ संस्थिता - घ. । ७० जीर्येत - ख । ७१ परमं - ख. । ७२ तस्मात् - ख. । ७३ नियोगी - ख. । ७४ लिप्येत - ख. । ७५ पुनश्चरणमन्तशः - क. । ७६.. दिमं - क. ख. ।

681
पुरिश्चन्द्रमिति ख्यातं त्रिषु लोकेषु दीप्तिमत् ।
पञ्चयोजनविस्तीर्णं तावदेवायतं शुभम् ।।8.122.९० ।।
सिद्धचारणसंकीर्णमप्सरोगणनादितम् ।
बहुपक्षिनिनादञ्च नदीप्रस्रवणाकुलम् ।
भविष्यति महापुण्यं तपोधनतपोवनम्७७ । ।९१ ।।
योत्रागत्य चरुं कृत्वा भोजयित्वा च७८ ब्राह्मणम् ।
अर्चयेद्देवदेवेशं रुद्रलोके स मोदते७९ ।।९२।।
यश्चात्र नियमं कृत्वा भस्मस्नायी यतव्रतः ।
मुहूर्तमपि तिष्ठेत स गच्छेद् गणमध्यताम् ।।९३। ।
अक्षयश्चामरश्चैव जरारोगविवर्जितः८० ।
रुद्रस्य गणपो भूत्वा योगैश्वर्यमवाप्स्यति ।।९४।।
कामचारी८१ सुपापात्मा योप्यत्र दिवसं वसेत् ।
सोश्वमेधफलं प्राप्य सर्वपापैः प्रमुच्यते ।।९५।।
सकामोपि दुराचारो योत्र प्राणान् परित्यजेत् ।
सोपि देवसदः८२ प्राप्य देवैः सह चरिष्यति ।।९६।।
सनत्कुमार उवाच
ततस्ते दैवताः८३ सर्वे प्राप्य तत्परमं तपः ।
इज्यास्नानं तदा चक्रुरीशस्य परमात्मनः ।।९७।।
अथ ते कृतकृत्याश्च महायोगबलान्विताः ।
हरिं प्रति मनश्चक्रुर्गन्तुं सर्वे दिवौकसः ।।९८।।
तं ज्वलन्तमिवादित्यमागच्छन्तो८४ महाबलाः ।
हरिश्चन्द्रगिरौ८५ व्यास हरिं ददृशुरव्ययम् ।।९९।।
सोपि कालेन महता धूतपाप्मा८६ महातपाः ।
तदैव८७ लब्ध्वा देवानां समतां मुदितात्मवान् ।।8.122.१ ०० ।।

७७ तपोधनं - ख । ७८ तु - ख । ७९ मोदति - क. ख. । ८० मृत्युरोगविवर्जितः - क. ख. । ८१ कामकारी - क. । ८२ देवसम. - क., सदा - ख. । ८३ देवताः - क. ख । ८४ गच्छन्तं (?) । ८५ हरेः - क., हरिश्चचन्द्रे गिरौ - ख. । ८६ धौतपाप्मा - ख. । ८७ तमेव क ख ।

682
- - ८८ प्रति तदा वेगादुत्थाय८९ ऋषिसत्तम९० ।
शिखरात् सन्निपत्याशु तेषां मध्येवतिष्ठत९१ ।। १०१ ।।
ततस्ते मुदिताः सम्यग्घरिणा सह संगताः ।
शिखरं तद् गिरेस्तस्य फलेन९२ समयोजयन् । ।१ ०२ ।।
यस्माद्धरिरयं९३ ह्यत्र चन्द्रवन्निर्मलो बभौ ।
तपसा महता चैव तस्मादेषोचलेश्वरः ।।१ ०३ ।।
हरिश्चन्द्र इति ख्यातो भविष्यति न संशयः ।
यस्मादप्रकृतेनैव प्रपातोत्र कृतः पुनः ।
तस्माद् भृगुरयं लोके पुण्यो भवतु सर्वशः । ।१ ०४।।
अत्र९४ योभ्येत्य देवेशा भृगुप्रपतनं नरः ।
साधयेत स गच्छेत हरेर्लोकमतिप्रभम् । ।१ ०५। ।
महापातकसंयुक्तो व्याधिना समुपद्रुतः ।
योत्र साधयते प्राणान् सोपि मुच्येन्महाभयात् ।। १ ०६।।
यद्वा प्रार्थयते९५ नित्यं प्रपाते चात्र९६ किंचन ।
तत्प्राप्नुयान्नरः सर्वमचिरात्तच्च९७ वै स्मृतम् ।।१ ०७।।
सनत्कुमार उवाच
हरिश्चन्द्रमिमं९८ यस्तु पुरिश्चन्द्रन्तु९९ धर्मवित् ।
पठेत शृणुयाद्वापि स पाप्मानं विशस्यति । ।१ ०८।।
इदं तु यः शुचिरनसूयवान्१०० सदा नरः पठेद् द्विजगणदेवसंसदि ।
स निर्मलो रविरिव तेजसा ज्वलन् त्रिविष्टपे वसति यथामरोवरः१०१ ।।१ ० ९।।
इति स्कन्दपुराणे हरिश्चन्द्रगिरिवर्णनो नाम द्वाविंशोत्तरशततमोध्यायः१०२

८८ त दात् (?) - ख । ८९ दुत्थितो - क. ख. । ९० मुनिसत्तम - घ., ऋषिसत्तमः - क. ख. । ९१ व्यवस्थितः - ख. । ९२ वरेण - घ. । ९३ तस्माद्धरिरयं - क. । ९४ यत्र - क. । ९५ प्रार्थयन्तु - ख. । ९६ नात्र - क । ९७ सर्वानचिरात्तच्च - क. ख. । ९८ इदं - क. ख. । ९९ पुरिश्चन्द्रञ्च - ख. । १००.. रनुसूयवान् - क, शुचितनु.. - ख, । १०१. परः (?) । १०२ १७५ - ख. ।

683
सनत्कुमार उवाच
तं पुरिश्चन्द्रमासाद्य१ स रामः शक्तिनन्द ।
अपश्यत् परमेशानमसुरैः क्लिष्टमानसः । । १ । ।
स दृष्टवा तु२ महादेवं साम्बं सगणमव्ययम् ।
प्रणतः प्राञ्जलिर्भूत्वा तस्थौ प्रह्वस्तदाग्रतः३ । ।२।।
सनत्कुमार उवाच
सोपि देवस्तदा४ प्रीतो जामदग्न्यं महामनाः ।
उवाच वचसां योनिरिदं गम्भीरशब्दवत् । । ३ । ।
किंशुकैरिव संछन्नं चन्दनेनोक्षितं यथा ।
तथा तं क्षतजेनैव सर्वतश्च समुक्षितम् ।
स्रवन्तं५ गैरिकं धातुमचलेन्द्रमिवापरम् । ।४।।
देवदेव उवाच
जामदग्न्य महत् कर्म कृतं सुरहितेप्सया ।
त्वया पुत्राद्य संग्रामे सैंहिकेयान् विनिघ्नता ।।५।।
तवानेन महाबाहो कर्मणा परितोषितः ।
प्रयच्छामि वरान् सप्त६ तान्वदस्व यथेच्छसि । ।६। ।
राम उवाच
भगवन् यदि तुष्टोसि मम देहि८ स्वयं प्रभो ।
सर्वज्ञानसमुत्पत्तिं९ सर्ववेदप्रवर्त्तिताम्१० । ।७। ।
अवध्यः स्यामहं युद्धे धनुर्वेदञ्च यच्छ मे ।
परशुं सर्वहन्तारमसङ्गं रथमेव च । ।८। ।
अस्त्रग्रामञ्च विपुलममरत्वं तथाक्षयम्११ ।
वरान्मह्यमिमान्देव प्रयच्छस्व नमस्तव ।।९। ।

१ पुरिश्चन्द्रं समासाद्य - ख, हरि.. - घ । २ च - क. । ३... स्तथाग्रतः - ख. । ४. स्तथा - क. । ५ स्रवन्ति- क. । ६ वरानष्टौ - घ - ७.. प्स्यसि. ख। ८ देव - क. ख. । ९ सर्वज्ञज्ञानमुत्पत्ति क. । १० देवप्रवर्तिनं - क., वेदप्रवक्तिवान् (प्रवक्तृतां?) - ख, । ११ .. क्षतं - ख. ।

684
सनत्कुमार उवाच
तस्यैवं वदतौ व्यास प्रहस्य भगवान् हरः ।
उवाच सर्वमेतत्ते भविष्यति ममाज्ञया । । 8.123.१० । ।
धनुर्वेदव्रतञ्चैव वर्षमेकं चरिष्यसि१२ ।
तस्मादिहैव वस्तव्यं१३ त्वया भृगुकुलोद्वह । । ११ । ।
ततस्तस्मै स भगवान् स्वयमेव त्रिलोचनः ।
आदिदेश व्रतं घोरं चचार स च संयतः । । १ २।।
समाप्ते तु व्रते देवः स्वयमागम्य यज्ञहा ।
धनुर्वेदं ददौ तस्मै समन्त्रं सहसङग्रहम्१४ । ।१ ३ ।।
सशुल्वं सपरिस्तोमं सोद्यमं सानुकर्षणम् ।
अस्त्रग्रामं च विपुलं प्रत्यस्त्रसहितं तथा१५ । । १४।।
प्रादात्तस्मै तदेशान१६ इदं चोवाच सुस्वरम्१७ ।
अयं त्वया धनुर्वेदः सहास्त्रैः सुमहाबल१८ । । १५ ।।
क्षत्रियेभ्यो न दातव्य इति मच्छासनं स्मर ।
यदि चेद्दास्यसे मोहात् क्षत्रियेभ्यः कदाचन ।
लघुत्वं यास्यसे तेषां युद्धे चापि जयो१९ न ते२० ।। १ ६। ।
सनत्कुमार उवाच
ततः स परशुं दत्वा रथं कामगमेव च ।
मनसा चिन्तिते२१ युक्तमुपतिष्ठन्त२२मक्षयम् । । १७। ।
यन्तृणा२३ यक्षराजेन अमरेणाभिसंभृतम्२४ ।
जगामादर्शनं तस्य सहसैव२५ पिनाकधृक् ।।१८।।
सोपि लब्ध्वा वरान् व्यास२६ जगाम पितुरन्तिकम् ।
न चापश्यत तं तत्र कार्तवीर्यसुतैर्हतम् । । १ ९। ।

१२ इतः पूर्वं 'तस्मादिहैव वस्तव्य'मित्यादि परवर्तिपद्यार्धं दत्तं ख पुस्तके । १३ स्थातव्य - ख. । १८ सपरिग्रहं (?) । १५ तदा - क. ख. । १६ तदैवेण - ख । १७ सुस्वनम् - ख । १८ सुमहाबल क । १९ युद्धेषु विजयो - ख. । २० तत् - ख. । पे १ चिन्तितं - ख. । २२ मुपतिष्ठन्ति - क. । १३ यन्त्रिणा - क, मन्त्रिणा - ख. । २४ संवृत्तम् - क. ख. । २५ समासेन - क. । २६ तस्य - ख. ।

685
अकृत्वा तस्य कर्तव्यं सोपि रामः प्रतापवान् ।
निःक्षत्रां पृथिवीं चक्रे सप्तकृत्वञ्च२७ सत्रिकम्२८ । ।8.123.२ ० ।।
रुधिरेण स तेषाञ्च ह्रदान् सप्त चकार ह ।
समन्तपञ्चके व्यास पितॄँस्तेनाभ्यतर्पयत् । । २१ । ।
ततश्च कृत्वा निःक्षत्रां पृथिवीं भृगुसत्तमः।
महादेवप्रसादात्तु त्रैलोक्यस्येश्वरो बभौ ।।२२। ।
तं श्रीस्तुष्टिर्धृतिश्चैव सिद्धिः कीर्तिर्यशस्तथा ।
श्रद्धा मेधा तथा क्षान्तिरनसूया२९ प्रसंयमः । । २३ । ।
ऊहा ह्यपोहा तर्कश्च दमश्च शम३० एव च ।
रूपिण्यो भार्गवं सर्वा मातरस्समुपस्थिताः । ।२४।।
तान्सर्वान् स तदा प्राह विशध्वं मामशङ्किताः ।
श्रीरियं तु दुराचारा दूर एवावतिष्ठताम् ।। २५।।
सनत्कुमार उवाच
तं तथावादिनं साध्वी उवाच श्रीर्महाबलम् ।
किमर्थ मां महाबाहो नाभिनन्दसि३१ दुर्लभाम् ।।२६। ।
राम उवाच
चपला मदनीया च अध्रुवा चासि३२ शोभने ।
अतस्त्वां नाभिनन्दामि मम त्वं३३ दूरतो भव ।।२७।।
त्वयाविष्टो नरः३४ सर्वो यदि स्यात् स्वयमीश्वरः३५ ।
ऐश्वर्यमदसंमूढ३६ अकार्येष्वेव वर्तते३७ । ।२८।।
सनत्कुमार उवाच
स राजा भार्गवः श्रीमान् यज्ञैरीजे महामनाः ।
अधोगमच्च पृथिवी तस्य यज्ञे पुरा द्विज३८ । । २९। ।

२७ कृत्वा च - क. । २८ सप्तकाम् - क., सप्तवान् - ख. । २९... रनुसूया - क ख. । ३०. स्समय - क ख. । ३१ नातिनन्दति - क. । ३२ चापि - क । ३३ मत्तस्त्व (?) । ३४ विष्णोर्नरः - क. । ३५ स्वयमी- दृशः - ख. । ३६ समूढो - क ख । ३७ रज्यते - ख, वर्तसे - १. । ३८ विभो - ख. ।

686
व्यास उवाच
किमर्थं पृथिवी तस्य यज्ञे पातालमाविशत् ।
कारणं तत्र किं मन्ये एतदिच्छामि वेदितुम् । । 8.123.३० ।।
सनत्कुमार उवाच
स गत्वा३९ पृथिवीपालः कश्यपं४० मुनिसत्तमम्४१ ।
उवाच मम होता त्वं भव सत्ववतां वर४२ ।।३ १ ।।
तं तथावादिनं व्यास तदोवाच नराधिपम् ।
कश्यपः कुपितस्तत्र निन्दमानो भृगूत्तमम् ।।३ २।।
पतितस्त्वं दुराचारो भिन्नशीलः सुपापकृत् ।
कथं त्वा याजयिष्यामि भ्रूणवध्या४३भिकारिणम् । ।३ ३।।
सनत्कुमार उवाच
ततः स तेन वाक्येन उवाच ऋषिसत्तमम् ।
विषये मम मा तिष्ठ त्वमद्य४४ मुनिसत्तम ।। ३४।।
स्वाम्यहं जगतो विप्र४५ नाहं यत्र ततो व्रज ।
ततस्स तस्य तं देशं परित्यज्या४६ व्रजत्तदा । ।३५। ।
नाससाद च तं देशं यत्रासौ न भवेत् प्रभुः ।
अनासादयमानश्च अटवीमाश्रितस्तदा ।
अन्तर्धानगतो भूत्वा चचार बहुलाः समाः । ।३ ६।।
अथापश्यत् समासीनं४७ कपोतं वृक्षसंस्थितम् ।
अनङ्गेनाभिसंबद्धं कपोत्या हार्यतां४८ गतम् ।। ३७।।
कपोत उवाच
यदाप्रभृति सुश्रोणि मया दृष्टासि शोभने ।
तदाप्रभृति शुष्यामि रतिं नाप्नोमि शोभने ।।३८। ।

३९ कृत्वा - ख । ४० काश्यपं - क । ४१ मुनिसत्तम - क सत्तम (?) । ४२ वरं - क । ४३ भ्रूणवन्ध्या - क. । ४८ मा तिप्ठेस्त्वमद्य - क ख । ४५ विप्रो - क., विप्रा - ख. । ४६ परित्यक्त्वा - क ख । ४७ उमासीनः - क. ख. । ४८ कार्यतां - क. ।

687
कपोत्युवाच
मैवं ब्रूया दुराचार अधर्म्यं हि कदाचन ।
कपोत उवाच
न चेद्दास्यसि मेत्र त्वं बलात्त्वाहं सुमध्यमे ।
स्वीकरिष्यामि यच्छस्व४९ नतोस्मि तव पादयोः ।। ३९।।
कपोत्युवाच
किन्न तेस्ति भयं क्रूर जामदग्न्यान्महाबलात् ।
येन त्वं धर्षसे५०द्येह पतिहीनां पतिव्रताम् । ।8.123.४० ।।
सनत्कुमार उवाच
एवमुक्तः स तु तया कपोतः शक्तिनन्दन ।
उवाच रामः कोयं वै मम तुल्यो न केनचित्५१ । ।४१ ।।
तस्यैवं वदतस्तत्र रामनामाङ्कितस्तदा ।
बाणः शिरो जहाराशु कश्यपस्तदपश्यत५२ ।।४२।।
स तं दृष्ट्वा तथावृत्तं भीतस्तस्मान्महाबलात्५३ ।
याजयामास राजानं जामदग्न्यं महामनाः५४ ।।४३ ।।
कश्यप उवाच
याजयाम्यहमद्यैव राजन् भार्गवसत्तम ।
यदि चेदीप्सितां मे त्वं ददासि शुभदक्षिणाम्५५ ।।४४।।
राम उवाच
यद् ब्रवीषि न सन्देहो दाताहं५६ तन्महातपः ।
मां याजय५७ यथान्यायं तवास्म्यद्य५८ वशे स्थितः ।।४५ ।।
सनत्कुमार उवाच
ततस्तस्याभवद् व्यास सुमहान् भूरिदक्षिणः ।
यज्ञोश्वमेधो देवानां यत्र तृप्तिरजायत ।।४६।।

४९ यच्छत - क. । ५० धर्त्त (र्ष?) से - क । ५१ मम तुल्यः स किं भवेत् घ ... तमपश्यत-क, ख. । ५३ तथा भीतस्तस्माद्रामाद् यज्ञदक्षिणाम् । ५४ यज्ञात्मना -क. ख. । ५५ शुभलक्षणां -क. ख. । ५६ तदा (ददे?) हं - क. । ५७ याजयस्व - घ. । ५८.. .स्माद्य - क. ख. ।

688
तस्याथ दक्षिणाकाले जामदग्न्यः प्रतापवान् ।
उवाच कस्यपं५९ ब्रूहि दक्षिणां कां ददानि ते । ।४७।।
स प्राह पृथिवीं कृत्स्नां सशैलवनकाननाम् ।
दक्षिणां दत्स्व६० मह्यं त्वं यच्च तेस्ति गृहे वसु । ।४८ । ।
स तस्मै तत्तथा कृत्वा विशुद्धेनान्तरात्मना ।
चीराण्यादाय तं प्राह कश्यपं किं करोम्यहम् ।।४९। ।
कश्यप उवाच
इमं६१ देशं परित्यज्य देशमन्यं प्रयाहि भो६२ ।
मम देशे न वस्तव्यं त्वयाद्य भृगुनन्दन । ।8.123.५० । ।
सनत्कुमार उवाच
स एवमस्त्विति६३ प्रोच्य कृत्वा चाभि६४ प्रदक्षिणाम्६५ ।
जगाम सरितां योनिं समुद्रं वरुणालयम् । ।५१ । ।
तं६६ गत्वा सागरं भीममुवाच भृगुनन्दनः ।
मम देशं प्रयच्छस्व निवासाय महोदधे । । ५२ । ।
समुद्र उवाच
योजयस्व यथान्यायं भवान् माद्य वशे स्थितः ।
वेलासमीपे त्वं स्थित्वा विकृष्य बलवद्धनुः ।
मुञ्चस्व सायकं राम परीप्सन् देशमुत्तमम् । । ५३ । ।
यावत्स सायकः क्षिप्तस्तव प्राणसमीरितः ।
यास्यते तावदेवाहं६७ प्रदास्यामि तवालयम् । । ५४। ।
सनत्कुमार उवाच
ततः स भृगुशार्दूलः कृत्वादरमतन्द्रितः६८ ।
युयोज६९ सायकं व्यास विकृष्य बलवद्धनुः । ।५५। ।
कृत्वा मनसि संकल्पं योजनानां शतं तदा ।
गमिष्यति ममायं वै अथैनमभिमन्त्रयत्७० । । ५६ । ।

५९ काश्यपं - क. । ६० धत्स्व - क., दद - ख. । ६१ मम - क. ख. घ. । ४ वः - क., वै - घ., त्वम् - ख. । ६३ एवमस्त्विति तं - क. घ. । ६४ चापि - क. ख. । ६५ प्रदक्षिणं - क. । ६६ स - घ. । ६७ तावदेवान्तं - ख. । ६८ दमरतन्द्रितः - क., देवमतं त्रिभिः - घ. । ६९ मुमोच - क. ख. । ७०... मभ्यमन्त्रयत् (?) ।

689
सागरेण तदा शम्भुः स्तुतस्तदुपशान्तये ।
सुराणां हितकामार्थं सागराशोषणाय च । ।५७। ।
तं७१ क्षिप्तं जामदग्न्येन रुरोधाप्रतिमं शरम् ।
स रुद्धो योजनान्येत्य७२ न्यपतद् द्वादशैव तु । ।५८।।
तावच्च७३ देशमुदधिर्विससर्ज हसन्निव ।
आवसच्च७४ महातेजा जामदग्न्योपि तं तथा७५ । । ५९। ।
तं देशं भृगुतनयः सुरेन्द्रकल्पो हृष्टात्मा मृगगणपक्षिसंघजुष्टम्७६ ।
सिंहेन्द्रद्विपशरभर्क्षघोरनादं श्रीमन्तं पुरमिव देवता चकार ।। 8.123.६० ।।
इति स्कन्दपुराणे राममाहात्म्ये त्रयोविंशोत्तरशततमोध्यायः७७
सनत्कुमार उवाच
जामदग्न्येन सा दत्ता तथा पृथ्वी महात्मने ।
गिरिशृङ्गं इवापातादधस्तात् सा तदाव्रजत् । । १ । ।
तामुवाच मुनिःक्रुद्धस्तिष्ठतिष्ठ वसुन्धरे ।
किमर्थं मां परित्यज्य अधस्ताद् व्रजसे शुभे ।। २। ।
पृथिव्युवाच
जामदग्न्यं१ विना रामं प्रियं पतिमतिद्युतिम ।
न शक्नोमि मुने स्थातुं तद्गुणाहृतचेतना । ।३ । ।
यदि मा यच्छसेद्य त्वं२ रामाय मुनिपुङ्गव३ ।
यास्याम्यहमधो४ नाथ न तिष्ठेयमतोन्यथा५ ।।४।।
सनत्कुमार उवाच
तस्यास्तद्वचनं श्रुत्वा कश्यप६स्तप्यतां वरः ।
उवाच वसुधां क्रुद्धो दहन्निव तदौजसा८ । ।५। ।

७१ तत् - क । ७२ योजनान् गत्वा - क. ख, योजन गत्वा - घ. । ७२ तावन्तं (?) । ७४ अवसच्च - घ. । ७५ तदा - घ । ७६ संजुघुष्टं - क ७७ १७६ - ख. ।
१ जामदग्निं - क । २ वा यच्छ मह्यं त्व - क., प्रयच्छ.. - ख. । ३ प्रयच्छ मां तु रामाय रक्षार्थं मुनि- पुंगव - घ. । ४ वधो - क. । ५ तिष्ठाम्यद्य तेन्यथा - क. ख. । ६ काश्यप - क. । ७.. स्तपतां वर. - घ. । ८ तदोजसा - क, ततो,.. - ख. ।

690
कश्यप उवाच
गच्छ त्वं सुदुराचारे अधः पुनरवाग्गतिम् ।
वसुधाहं भविष्यामि पश्य मे तपसो बलम् ।।६।।
ततस्स भगवान् व्यास योगं परममास्थितः ।
पृथिवीत्वमनुप्राप्तो धारयामास मानुषान् ।।७।।
बहून्यब्दसहस्राणि यदसौ पृथिवी बभौ ।
तदा पृथ्वी विषण्णा तं प्रसादयत कश्यपम ।।८।।
पृथिव्युवाच
भगवन् तपसा तुभ्यं योगेन च बलेन च ।
न कश्चिदपि तुल्योस्ति दिवि वा भुवि वा विभो ।।९।।
प्रसादये त्वां शिरसा दृष्टन्ते बलमुत्तमम् ।
यन्मयापकृतं किञ्चित्तत् क्षमस्व महामुने ।।8.124.१ ०।।
अहमेव हि लोकेषु पृथिवी स्यां तवाज्ञया ।
दीनाया मम विप्रेन्द्र प्रसादं कर्तुमर्हसि ।।१ १ ।।
सनत्कुमार उवाच
तां तथोपस्थितां दृष्टवा भगवानृषिसतमः ।
उवाच प्रहसन् देवीं पृथिवीं प्रणतां तदा ।।१ २।।
तवैव ह्यपचारेण मयेदं कृतमीदृशम् ।
त्वमिदानीं मया दत्तं पृथिवीत्वं समाचर ।।१ ३ ।।
मम त्वं दुहितृत्वं च गत्वा कश्यपवंशजा९ ।
काश्यपी विदिता लोके भविष्यसि वसुन्धरे ।।१४।।
सनत्कुमार उवाच
एवं सा पृथिवी व्यास अधोगत्वा पुनः स्थिता ।
पृथिवीत्वं समासाद्य बभूव विगतज्वरा ।।१ ५।।

९ वंशजं - क, वंशजां - ख. ।


691
य इमं पृथिवीभावं कश्यपस्य महामुनेः ।
पृथिव्यागमनञ्चैव पुनर्भावं तथैव च । । १६ ।।
शृणुयात्पठते वापि शुचिर्भूत्वा सदैव हि ।
स लभेताक्षयाँल्लोकान्१० पृथिवीफलमेव च११ । ।१७।।
तां सर्वलोकप्रभवामनेकशो मुने१२ प्रणम्येह सदा नरोत्तमः ।
प्रकीर्त्तयेद्यो वसुधां वसुप्रदां स लोकमाप्नोति ऋषेरथाक्षयम् । । १८।।
इति स्कन्दपुराणे कश्यपस्य पृथिवीभावो नाम चतुर्विंशोत्तरशततमोध्यायः१३

सनत्कुमार उवाच
अतः परं प्रवक्ष्यामि ध्वजसंग्राममूर्जितम् ।
देवानामसुराणाञ्च प्राणयोगविनाशनम् । । १ । ।
आसीद् दनुसुतः१ श्रीमान् विप्रचित्तिर्महाबलः ।
तपस्तेपे स२ युक्तात्मा भस्त्रापद इति श्रुतिः३ । ।२ ।।
स राध्य४ तत्र देवेशं भगवन्तं त्रिलोचनम् ।
वरं वव्रेमरत्वञ्च तस्मै प्रादात् स देवपः । । ३ ।।
ध्वजं मायामयं दिव्यं सर्वगं काञ्चनं५ शुभम् ।
उवाच चैनं तुष्टात्मा भगवान्दानवेश्वरम् ।।४।।
अयं तव दनोः पुत्र विश्वरूपो ध्वजोत्तमः ।
एनमाश्रित्य युद्धेषु त्वमजय्यो भविष्यसि । ।५। ।
अमरश्च महाबाहो शब्दं चेन्न करिष्यसि ।
अतोन्यथा तु ते भाग्यै६र्भविता७ विजयो८ रणे ।। ६।।।
स एवमुक्तो देवेन९ ध्वजेन महता युधि ।
दनुजैः सह विप्रेन्द्र देवान्सर्वान्समाह्वयत्१० । ।७। ।

१०... दक्षयाँल्लोकान् - क. ख. घ. । ११ राज्यमेव वा - घ. । १२ नमः - क ख. घ. । १३ १७६ - ख. । १ धुन्धुसुतः - घ । २ सु - क. ख. । ३ श्रुतः - घ., श्रुतं (?) । ४ संराध्य - क.. सोराध्य (?) । ५ काञ्चनं सर्वगं - घ., नामयं - क. । ६ साम्यै - क. । ७ भविष्यति - क. । ८ जयो - क., न जयो - घ. । ९ कालेन - ख, । १०... नुपाह्वयत् - ख. घ. ।

692
तद्युद्धमभवद् घोरं तुमुलं लोमहर्षणम् ।
वर्षाणान्तु शतान्यष्टौ दश११ चैव सुदारुणम् । ।८ ।।
तत्राद्भुतमपश्यन्ते१२ दनुपुत्रस्य धीमतः ।
ध्वजेन विश्वरूपेण यदेको न्यवधीद् बहून्१३ । ।९।।
युध्यतश्चास्य संग्रामे ध्वजमाश्रित्य मायया ।
न१४ देवाः प्रहरन्त्यस्य पश्यमानास्तु१५ मोहिताः ।। 8.125.१० ।।
नापश्यन्ते१६ दनुसुतान्नापि दैत्याँस्तथा रणे१७ ।
ध्वजमेवाभिपश्यन्ति सर्वे मूढा दिवौकसः । । ११ । ।
मुमुचुर्यान्यमोघानि आयुधानि दिवौकसः ।
तानि छन्नान्यभूवन् हि ध्वजच्छायानिलेन वै । । १२। ।
अग्रतः पृष्ठतश्चैव पार्श्वयोरूर्ध्वमेव च ।
ध्वजमेवा१८भिपश्यन्ति न दैत्यान्नापि दानवान् । ।१ ३ । ।
तत्र ते सायकास्तीक्ष्णा ज्वलन्तः पावकार्चिषः१९ ।
निःसृत्य तु ध्वजाद् व्यास दारयन्ति सुरोत्तमान् ।। १४।।
गदाश्च परिघाश्चैव भिन्दिपालास्सतोमराः ।
निःसृतानि तथान्यानि दृश्यन्तेस्त्राणि वै ध्वजात् । । १५ । ।
ते देवास्तेन दैत्येन ध्वजमाश्रित्य सर्वशः ।
भग्ना विचेतसः संख्ये कृता नष्टपराक्रमाः ।। १ ६। ।
तान् भग्नान् भज्यमानाँश्च सर्वान्दृष्ट्वा सुरोत्तमान्२० ।
जगर्ज जलदो यद्वद् ध्वजमाश्रित्य दानवः ।। १७। ।
तस्य तच्छिद्रमालक्ष्य भगवान् पाकशासनः ।
ध्वजमालक्ष्य चिक्षेप वज्रं परममन्युमान् । । १ ८। ।
ज्वलदादित्यसंकाशं२१ तद् वज्रं भीमशब्दवत् ।
सध्वज दानवेशानमकरोद्यमगोचरम् । । १ ९। ।

११ शतं - घ. । १२... मपश्यामो. क, मपश्यन्तो - घ , श्यंस्ते (?) । १३ भृशम् - क. । १४ स - घ. । १५... स्त - घ. । १६ न पश्यन्ते - क. । १७.. न्सुदारुणान् - घ । १८ न ध्वजे वा - क ख, । १९ पावकार्चिषा - क. ख. । २० सुरसत्तमाः - वा । २१ ज्वलनादित्यसंकाशं - क. ख ।

693
ध्वजे लक्ष्यं समाविश्य देवेन्द्रेण महात्मना ।
हतास्ते नानवास्सर्वे सहस्राणि चतुर्दश ।।8.125.२ ० । ।
ते तेन शब्देन महानुभावा हतास्समालक्ष्य सुरेन्द्रकल्पाः ।
ध्वजे निवेश्यैन्द्रसमानचिह्ना वज्रेण देवेन्द्रबलेन सर्वे । ।२ ० ।।
इति स्कन्दपुराणे ध्वजयुद्धे पञ्चविंशोत्तरशततमोध्यायः२२

व्यास उवाच१
भस्त्रापदमिति प्रोक्तं त्वया ब्रह्मसुताव्यय ।
कथं तदभवत् स्थानमेतदिच्छामि वेदितुम् ।। १ । ।
सनत्कुमार उवाच
इक्ष्वाकुकुलसंभूतो बाहुर्नाम प्रजेश्वरः ।
हैहयैस्तालजंघैश्च तस्य राज्यमशेषतः ।
हृतं विप्रेन्द्र विक्रम्य सभार्यः स वनं२ ययौ । । २ ।।
स ऋचीकाश्रमं गत्वा ऋचीकेनानुपालितः ।
उवास वनमध्ये तु४ गर्भिण्या भार्यया सह । ।३ । ।
तस्याः प्रसवकाले तु५ भार्यायाः शक्तिनन्दन ।
सपत्न्या रागमोहेन गरोस्यै संप्रदापितः । ।४। ।
सा तेन वेदनां प्राप्य तप्यमाना६ रुजान्विता ।
शीतं तोयमिति प्रोच्य मूर्च्छिता न्यपतद्७ भुवि । ।५। ।
तां तथा पतितां दृष्ट्वा स राजा मन्युतापितः८ ।
कुम्भमादाय वृद्धोपि तोयार्थं सरितं ययौ । ।६।।
स पूरयित्वा कुम्भं तं स्कन्धेनादाय दुःखितः ।
वृद्धभावाच्छ्रमाच्चैव पापात च ममार च । ।७।।

२२ १७६ - ख., अत्र नाध्यायसमाप्तिर्दृश्यते घ पुस्तके ।
१ सन. उ - क. । २ शरणं - घ. । ३ उवाच - क. । ४ वनमध्येत्र - क । ५ च - ख. । ६ दह्यमाना - ख. । ७, ह्यपतद् - क. ख. । ८.. पासितः - ख. । ९ पूरयित्वा स - क ।

694
मृतो मृत इतीत्येवमृषिभिः समुदाहृते ।
सा देवी मूर्च्छितोत्तस्थौ१० पतिशोकसमाहता । ।८ ।।
सा गरस्य च तापेन पतिमृत्युकृतेन च ।
समाहता तदा व्यास कुररीव व्यनादयत् । ।९ । ।
बाहोस्तु ऋषयस्सर्वे वसिष्ठाद्याः समागताः ।
कृत्वा तु चयनं सम्यक् संस्कारमभिरोचयन्११ । ।8.126.१ ० । ।
तमग्निं प्रविशन्ती सा१२ शैव्या गर्भेण दूषिता ।
वारिता ऋषिभिर्व्यास और्वेण१३ च महात्मना ।। १ १। ।
तस्यास्तत्र दिने व्यास सायाह्ने मन्युनाशनः ।
गरेण सह गर्भोसौ निःसृतोनलसप्रभः१४ । । १ २। ।
तस्मै५ सगर इत्येव नाम चक्रे ऋषिस्तदा ।
संस्कारञ्चाकरोत्तस्य सर्वमेव कृपान्वितः ।।१ ३ ।।
धनुर्वेदं ददौ चैव वेदान् साङ्गाँस्तथैव च ।
अस्त्रग्रामञ्च विपुलं रथञ्चासङ्गमव्ययम् । । १४।।
स तेन रथमुख्येन युधि शत्रूञ्जघान ह ।
और्वास्त्रं१६ चैव सन्धाय तेषां धर्ममनाशयत् ।। १ ५। ।
स हत्वा तांस्तथा व्यास प्राप्य राज्यमथापि च ।
वैनतेयस्वसां प्राप्य शैव्याञ्चैव सुमध्यमाम् । ।१ ६। ।
अनपत्यो महाबाहुस्त्र्यम्बकं देवसत्तमम् ।
आराधयन् महातेजाः पुत्रहेतोर्नराधिपः । । १७। ।
तस्मै प्रादात् स भगवान् पुत्रवंशकरं प्रभुः१७।
षष्टि चैव सहस्राणि सुतानां सुमहात्मनाम् । । १८। ।
सनत्कुमार उवाच
लब्ध्वा स तु वरं राजा भार्याद्वयमुवाच ह ।
वैनतेयस्वसां चैव शैव्याञ्चैव महामनाः१८ । । १९ । ।

१० मूर्छिता तस्थौ - क. ख. घ. । ११... मभ्यरोचयन् (?) । १२ सा प्रविशती - क. । १३ ऊर्वेण - क., पूर्वेण - ख. । १४... सन्निभः - ख. । १५ तस्यै - क. । १६ ऊर्वास्त्रं - क. । १७ शुभं - क. । १८ महात्मना - क. ख. ।

695
सगर उवाच
मह्यं देवेन दत्तश्च पुत्रो वंशकरः शुभः ।
षष्टिं चैव सहस्राणि पुत्राणां सुमहात्मनाम् ।।8.126.२० ।।
तत्र का वृणुते देव्यौ वरं देवी शुभं हितम् ।
ब्रूत१९ नाहं विभागं वः२० करोमि विदितात्मनाम् ।।२१।।
वैनतेयस्वसोवाच
षष्टिः पुत्रसहस्राणि२१ मम सन्तु नराधिप ।
शैव्याब्रवीत् सुतो मह्यमेको वंशकरोस्तु वै ।।२२। ।
सनत्कुमार उवाच
असमञ्जसुतं२२ शैव्या ततः सा संप्रसूयत ।
वैनतेयस्वसास्तुम्बं२३ महान्तं संप्रसूयत ।।२३ ।।
तस्मात्तुम्बात्ततस्तानि सहस्राणि दशैव तु ।
गुणितानि व्यास२४ षड्भिः२५ संभवन्त महाबलाः ।।२४।।
असमञ्जः परित्यक्तः सगरेण सुतस्ततः ।
अधार्मिक२६ इति ज्ञात्वा अनाचारे व्यवस्थितः२७ ।।२५। ।
अंशुमाँस्तस्य पुत्रस्तु बाल एवाति धार्मिकः२८ ।
तस्मिन्२९ प्रीतिं तदा चक्रे सगरो राजसत्तमः ।।२६।।
असमञ्जे परित्यक्ते हयमेधेन दीक्षितः ।
षष्टिं तानि सहस्राणि हयस्यारक्षणे दधौ३० ।।२७।।
तेषां हयं चारयतामुद्युक्तानां महात्मनाम् ।
अन्तर्धानगतः शक्र आक्षिपत्तं हयोत्तमम् ।।२८।।
ते लोकान् सर्वशो गत्वा अपश्यन्तो३१ हयोत्तमम् ।
पितरं दीक्षितं प्राप्य तं हयं संन्यवेदयन३२ ।।२९।।

१९ ब्रूयो - क. ख । २० विभागञ्च - ख., वां (?) । २१ षष्टिपुत्रसहस्राणि - क. ख. । २२ असमञ्जसुतं - क, .. .ञ्जस (?) । २३ स्तम्बं - ख., तुम्बं (?) । २४ तथा - क., त्रिधा - ख. । २५ व्यास - क. ख. । २६ आधर्मिक - क. । २७ अनाचारव्यवस्थितः - क. ख. । २८.. भिधार्मिकः - - क. । २९ तस्मात् - क. । ३० ददौ - क. ख. । ३१ अपश्यन्त - क. ख. । ३२ हयं नष्टं न्यवेदयन् (?) ।

696
स संक्रुद्धस्तदा राजा निर्दहन्निव तान्सुतान् ।
उवाच क्रोधताम्राक्षो नश्यध्वं क्षिप्रमद्य वै । ।8.126.३ ० । ।
नागन्तव्यं विना वोद्य३३ हयं क्रूरा विमार्गत३४ ।
सुतैः किं मम युष्माभिर्यात सर्वे यमक्षयम् ।। ३१ । ।
सनत्कुमार उवाच
त एवमुक्ता३५ विप्रेन्द्र त्रैलोक्यमखिलं तदा ।
विमृग्य३६ खानयामासुरिमां सर्वां वसुन्धराम् । ।३ २। ।
दिग्गजाँस्ते ततो दृष्टवा ऋषीँश्च नियतव्रतान् ।
धारयन्तोवनिं३७ सर्वान् दृष्ट्वा चाभिप्रणम्य च । । ३३ ।।
कपिलं ते मुनिं सुप्तमवैक्षन्त३८ जलाशये ।
अदूरेस्य हयं चैव क्रुद्धास्ते३९ मेनिरे तदा । ।३४।।
प्रेरिता भावितार्थेन४० काले पक्वा मुमूर्षवः४१ ।
पितृशापादथोचुस्ते कपिलं मुनिसत्तमम् ।। ३ ५।।
एष नो हयमुख्यस्य हर्ता सुप्तो दुरात्मवान् ।
एनमद्य वयं सर्वे नयाम पितुरन्तिकम् । । ३ ६। ।
सनत्कुमार उवाच
ततस्ते कालपाशेन बद्धास्सर्वे महाबलाः ।
नियतेर्वशगाश्चैव४२ पद्भिस्तं समताडयन् । ।३७। ।
स तैरभ्यर्दितः क्रुद्धः शरदामयुतं तदा ।
निरुद्धं सहसा वायुमुत्ससर्ज यथाहिराट् । । ३८। ।
तस्य वक्त्राद्विनिःसृत्य स वायुर्ज्वलनात्मकः४३ ।
ददाह सागरान् सर्वान् न्यायधर्मबहिष्कृतान् । ।३ ९ ।

३३ चाश्वैः - घ. । ३४ विमार्गतः - क. ख. । ३५ एवमुक्त्वा - क. ख. । ३६ विमृग्य - क. ख., विमृष्य ( श्य) घ. । ३७ दारयन्तोवनिं - घ. । ३८.. मवेक्षन्त - क. । ३९ क्रूरास्ते - ख. । ४० भाविनार्थेन (?) । ४१ मुमूर्षुवत् - ख., - र्थेन कालमूर्तिना - घ. ४२ नियतीवशगाश्चैव - क. ख. । ४३ र्जलदा,.. - घ. ।

697
तेषु दग्धेषु सर्वेषु ऋषयो नारदादयः ।
सगराय यथावृत्तमाचख्यु४४ रतिदुष्करम् । ।8.126.४० । ।
ततस्स राजा दुःखार्त्तः संस्तभ्यात्मानमात्मना ।
अंशुमन्तं प्रियं पौत्रमादिदेश महामनाः४५ । ।४१ । ।
सगर उवाच
इमं रथं समारुह्य गच्छ तं४६ हयमुत्तमम् ।
इहानय महाबाहो कालो नो नात्यगाद्यथा । ।४२ ।।
समाचरेथास्तद्वाक्य यथासावृषिसत्तमः ।
क्रोधं न कुरुतेस्मासु४७ त्वयि नः सन्ततिर्ध्रुवा । ।४३ । ।
सनत्कुमार उवाच
स एवमुक्तो रथमास्थितो नृपो महानुभावः सुरसिद्धपूजितः ।
जगाम वेगेन४८ सुरेन्द्रविक्रमः स यत्र योगी सगरान्तको४९ बभौ ।।४४। ।
इति स्कन्दपुराणे सगरोत्पत्तिर्नाम षड्विंशोत्तरशततमोध्यायः५०

सनत्कुमार उवाच
स गत्वा तं तदोद्देशं१ महागजनिषेवितम् ।
अपश्यद् भस्मभूतांस्तान्मुनिञ्च ज्वलनप्रभम् । । १ । ।
ततस्तं स तदा वाग्भिः स्तवयुक्ताभिरन्तिके ।
प्रणम्याक्षामयत्२ सर्वं पूर्वैर्यद् दुष्कृतं कृतम् । । २।।
कपिल उवाच
राजन्निहाहमेकान्ते युक्तस्तिष्ठामि विज्वरः ।
तैरर्दितोस्मि सहसा वायुं वक्त्रादवासृजम् । ।३ । ।

४४... माचक्ष्यु (क्षु?) - ख । ४५ महात्मना - क ख. । ४६ त्व - घ. । ४७ कुर्यादस्मासु (?) । ४८ विप्रेन्द्र - घ. । ८९ मुनिरिति (?), भवेत (भवत्?) - घ. । ५० शत षड्विंशत्यधिक समाप्त - घ., आध्याय १७६ - ख. ।
१ सगतस्तु ततो देशं - घ. । २ प्रणम्यमक्षयं - घ, म्य क्षमवत् (?) - क. ।

698
दशवर्षशतानि स्म संरुद्धः३ सोनिलो मया ।
विमुक्तः सहसा सर्वाँस्तान् ददाह पितॄँस्तव४ ।।४।।
न बुद्धिपूर्वं ते दग्धा मया राजन् रुषापि वा ।
हतास्ते कालपक्वेन फलेनैव यथा खगाः ।।५। ।
अश्वोयं मम पार्श्वस्थः केनापि विदितात्मना ।
हृतस्तेषां विनाशाय मा क्रुधो५ नीयतां हयः । ।६ ।।
सनत्कुमार उवाच
तस्य त्वनुमते व्यास६ अंशुमान् स नराधिपः ।
पानीयमुपचक्राम तेषां दातुं महामनाः ।।७। ।
वैनतेयस्तमाहेदं स्वस्रीयाणां ममोदकम् ।
न दातव्यं महाबाहो नैतत्तेषां७ गमिष्यति । ।८।।
अंशुमानुवाच
कथं मे८ पितरस्ते वै लोकान् दिव्यानवाप्नुयुः ।
एतदिच्छामि कथितं१० त्वया कश्यपन्दन११ ।।९।।
वैनतेय उवाच
देवलोके सरित् पुण्या गङ्गानामाशुभापहा ।
तदम्भोमि१२ स्तवास्थीनि बन्धूनामिह सर्वशः । । 8.127.१० ।।
संस्पृष्टानि१३ यदा राजन् तदैते१४ मोक्षमाप्नुयुः१५ ।
अशुभाद्राजशार्दूल अन्यथा किं जलेन ते ।।१ १ ।।
सनत्कुमार उवाच
ततः सोश्वं समादाय निवृत्तो व्यास भूपतिः ।
पितामहाय प्रददौ तमश्वं सुकृतात्मवान् ।।१२। ।
सोपि राजा तदा प्राप्य हयमेधं महामनाः ।
समुद्रनाशने बुद्धिं चक्रे सुतवधार्दितः । । १३ । ।

३ निरुद्धः - घ । ४ स?दा - क. । ५ क्रुद्धो - वः ख. । ६. तेर्व्यास - क. । ७ नैवं तेषां - क. ८ अधर्मे - क. । ९ श्रोतुमिच्छमि - ख. । १० कथितुं - क. । ११ काश्यपनन्दन - क. । १२ तस्याम्भोभि - क. ख. । १३ संसृष्टानि - ख. । १४ तदा ते - क., तदेते - ख. । १५ मोक्षमवाप्नुयुः - क. ।

699
अथ तं सरितां भर्त्ता प्रणम्याभिप्रसाद्य च ।
जगाम पुत्रतां तस्य इदं चोवाच तं तदा । ।१४।।
राजंस्त्वद्वंशजेनाहं कर्तव्यः किल सुप्रभः१६ ।
यथापूरं महाबाहो पूर्णो गङ्गाम्भसा नृप ।।१५।।
मा क्रुध१७स्तव पुत्रोहं यशस्कृदमितप्रभ१८।
रत्नानि च प्रदास्यामि शममेहि१९ मम प्रभो ।।१६।।
शान्तः क्रोधस्ततस्तस्य समुद्रं प्रति भूपतेः ।
विष्णुश्चास्मै तदा तुष्टः२० प्रददावीप्सितान् वरान् ।।१७।।
हयमेधशतं साग्रं स्वर्गे वासं तथाक्षयम् ।
वंशस्य चाक्षयं नित्यं यशश्चाग्र्यं तथाक्षयम् ।।१८।।
वयस्यत्वं तथा चैव परां धर्मे२१ च संस्थितिम्२२ ।
एतान्वरान् स लब्ध्वा तु भुक्त्वा राज्यमकण्टकम् ।।१९।।
जगाम वनमेवाथ तपस्तप्त्वा ततो दिवम् ।
ततोंशुमान् बभौ राजा धार्मिकः सत्यसंगरः ।।8.127.२० ।।
पुत्रं राज्येभिषिच्यैव गङ्गावतरणाशया ।
तपस्तप्त्वा दिवं यातो महाबलपराक्रमः ।।२१ ।।
ततो दिलीपः पुत्रोस्य महात्मा देवराडिव ।
कृत्वा राज्यं ययौ व्यास वनमेव महाबलः ।।२२।।
तत्र गङ्गार्थमुद्युक्तस्तपस्तप्त्वा दिवं२३ गतः ।
अनवाप्यैव तं२४ काममस्य पुत्रोभवत् पुनः ।।२३।।
राजा भगीरथो नाम जम्बूद्वीपपतिः शुभः ।
धार्मिकः सत्यवाक् शूरो२५ धर्मो विग्रहवानिव । ।२४।।
तस्य जन्मप्रभृत्येव२६ हृदये मुनिसत्तम ।
स्थितं गङ्गावतरणं कथं कुर्यामिति प्रभो२७ ।।२५ ।।

१६ सलिलैर्युतः - घ. । १७ क्रुद्ध - क. ख । १८. प्रभः - क. ख. । १९ सममेहि - क. । २० विष्णुस्तुतोष विज्ञाय - घ । २१ परन्धर्मँ - ख. । २२ संस्थितम् - क. । २३ वनं - क. ख. । २४ तां - क. । २५ सत्यवाञ्छूरो - क. ख. । २६ जन्मप्रभृत्यैव - ख. । २७ प्रभोः - ख. ।

700
अथ कालेन महता कृत्वा सर्वक्रियां नृपः ।
तपस्तताप सुमहद्येनातुष्यज्जगत्प्रभुः२८ । ।२६। ।
ब्रह्मा स्वयमथाभ्येत्य तमुवाच यतव्रतम् ।
ब्रूहि किन्ते प्रयच्छानि२९ वरान् वृणु नरधिप । ।२७। ।
सनत्कुमार उवाच
ततस्स राजा३० तं दृष्ट्वा३१ प्रणम्य हृषिताननः ।
उवाच धर्मस्याक्षय्यं स्वर्गे वासं तथाक्षयम् ।।२८ ।।
वंशस्य चाक्षयं३२ सम्यक् पुत्राणां च शतं वरम् ।
शूराणां धार्मिकाणाञ्च समरेष्वनिवर्तिताम्३३ ।।२९।।
जयञ्च युद्धे सततं लोके कीर्त्तिं तथाक्षयाम् ।
गङ्गायास्सरितश्चापि अवतारमनुत्तमम् । ।8.127.३ ० । ।
भागीरथीति च यथा लोके ख्याततमा भवेत् ।
एतदिच्छामि देवेश यदि त्वं मन्यसे विभो ।।३ १ । ।
सनत्कुमार उवाच
एवमुक्तस्य भगवान् सर्वमेतदशेषतः ।
प्रादात्तस्मै स्वयं स्रष्टा३४ इदं चोवाच तं नृपम् ।। ३ २।।
गङ्गा त्वं राजशार्दूल स्वर्गान्नेष्यसि भूतलम् ।
तां पतन्तीं दिवः३५ कश्चिच्छक्तो धारयितुं नहि ।
ऋते लोकगुरोर्देवात् त्र्यम्बकाच्छूलपाणिनः३६ । ।३ ३ ।।
तस्मात्त्वं देवदेवेशमाराधय यतव्रतः३७ ।
स धारयिष्यते व्यक्तं वरदानेन ते विभुः ।।३४।।
सनत्कुमार उवाच
एवमुक्तस्तु राजेन्द्रो वायुभक्षोनिमेषणः ।
निरूच्छवासोभवत्३८ तत्र हिमवच्छिखरे शुभे । । ३ ५। ।

२८ जगद्गुरो (रुः) - ख. । २९ प्रयच्छामि - क. ख । ३० दृष्ट्वा - क. ख । ३१ राजा - क. ख । ३२ चाक्षतिं - ख. । ३३ ष्वनिवर्त गाम् - क- । ३४ सृष्ट्वा - क. । ३५ दिवि - क. । ३६?. च्छूलधारिणः (?) । ३७ यतव्रतम् - ख. यतव्रताम् - क । २८ बभौ - क. ख ।

701
तस्य वर्षसहस्रेण तत्परस्य तदाशिषः ।
तुतोष भगवान्देवः कपर्दी नीललोहितः । । ३ ६। ।
वरदोस्मीति चाप्युक्त्वा इत्युवाच पुनः प्रभुः ।
दिव्यं चक्षुः प्रयच्छामि पश्य मां राजसत्तम । । ३७। ।
स तं दृष्ट्वा महेष्वासं त्रिदृष्टिं देवमीश्वरम्३९ ।
उवाच सरितं देव धारयस्व वरं वृणे । ।३ ८। ।
गङ्गां त्रिपथगां दिव्यां यदि मे तुष्यसेव्यय ।
मम कामो महादेव मृतान् पूर्वपितामहान् ।।३ ९।।
स्वर्गं नयेयं निरयात्तारयित्वाथ तान्४० शुभान् ।
तेषामर्थे महादेव प्रयासोयं मया कृतः ।
प्रसादात्तव ते स्वर्गं गच्छेयुर्गङ्गयाप्लुताः ।।8.127.४० । ।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा भगवान् गोवृषध्वजः ।
उवाच राजशार्दूलं सुतुष्टेनान्तनात्मना । ।४१ । ।
देवदेव उवाच
भगीरथ तथा तत्ते भविष्यति न संशयः ।
मत्प्रसादाच्च गङ्गा ते दुहिता सा भविष्यति । ।४२। ।
धारयिष्ये त्वदर्थे४१ च तां पतन्तीं त्रिविष्टपात्४२ ।
विस्मापनाय लोकानां हितार्थञ्च नृपोत्तम ।।४३ । ।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा गङ्गा सा सरितां वरा ।
उवाच को धारयिता मम वेगं सुरोत्तमः । ।४४ । ।
अहं तं सहसैवाद्य गृहीत्वाशु सुदुःसहा ।
गमिष्यामि न सन्देह पातालं सुदुरासदम् । ।४५।।

३९ तां वरम् क. ख. । ४०... क्षयं क. । ४१ तदर्थे क । ४२ त्रिपिष्टपात् क।

702
स्वयंभूर्यद्यसौ४३ ब्रह्मा शक्रो वापि४४ सुरेश्वरः ।
विष्णुर्वाप्यदितेः पुत्रो नयाम्येव न संशयः । ।४६ । ।
अद्य पश्यन्तु मे लोका४५ महद्वेगं दुरासदम् ।
पतन्त्या भुवि दुर्धर्षमेवं सा सरिदब्रवीत् । ।४७। ।
सनत्कुमार उवाच
तस्यास्तद्वचनं श्रुत्वा सावलेपं४६ च शंकरः ।
चकार निग्रहीतुं तां संकल्पं सरितां वराम् ।।४८।।
तस्य संकल्पमात्रेण देवान् वै ज्वर आविशत् ।
मम्लुर्माल्यानि सर्वेषामुत्पाताश्चैव जज्ञिरे ।।४९। ।
विपर्ययोभूल्लोकानां४७ विमानानि च पेतिरे ।
असुराश्च बलोन्मत्ता दृश्यन्तेतिमहाबलाः ।
आह्वयन्तो४८ दितेः पुत्रान् ज्वलनादित्यवर्चसः । ।8.127.५० ।।
सनत्कुमार उवाच
वैकृतं तदथालक्ष्य देवा ऊचुः शतक्रतुम् ।
विपर्ययोयं नाकस्माच्छीघ्रं विज्ञायतां प्रभो ।।५१ । ।
समोहश्चाभवत्तस्य देवस्य ऋषिभिः सह ।
तस्मिन् काले समागम्य ब्रह्मा तानवबोधयत् । ।५२।।
ब्रह्मोवाच
मा विषण्णावतिष्ठध्वं यूयं सर्वे दिवौकसः ।
यद् ब्रबीमि निबोधध्वं कालो मा वो४९तिगादयम् । ।५३ ।।
एष देवो महेष्वासः कपर्दी मेघवाहनः ।
गङ्गां नाशयितुं बुद्धिमकरोद्भीमविक्रमः । ।५४। ।
तेनैवं मनसा देवाश्चिन्तिते लोकनाशने ।
विपर्ययो यथा न स्यात् तथा कुरुत मा चिरम् ।। ५५। ।

४३ स्वयंभुर्यदसौ - क. । ४४ प्यनु (त्र?) क. । ४५ लोको - क. । ४६ अवलेपं - क. ख. । ४७ विपर्ययश्च लोकानां - क. ख. । ४८ आह्वयन्ते - ख । ४९ माद्य .. - क. ख ।

703
मया सह इतो गत्वा ऋषिभिः सह संगताः ।
आपद्भावेन देवेशं शरणं यात५० शङ्करम् ।।५६।।
सनत्कुमार उवाच
ते सहैव तदा देवा ब्रह्मणा पद्मयोनिना ।
जग्मुर्हिमवतः कूटं सर्वरत्नविभूषितम् ।।५७। ।
नाम्ना हिरण्मयं नाम यत्र हैरण्वती नदी ।
अपश्यन्त च तं देवास्तपोभक्त्या सुरेश्वरम् ।।५८।।
सनत्कुमार उवाच
ते तं क्रुद्धमिवालक्ष्य युगान्तानलसप्रभम् ।
दुर्निरीक्ष्यं तदा व्यास देवीं शरणमागताः५१ ।।५९। ।
देवा ऊचुः
सदेवतानां लोकानां जनन्यसि विभावरि ।
अतोसि भस्त्रा रुद्राणि यच्छ नोभयदं पदम् ।।8.127.६०।।
शरणागता वयं मातः पुत्रास्तव वयं शुभे ।
रक्ष नो देवदेवेशे एतदिच्छामहे वयम् । ।६१ ।।
सनत्कुमार उवाच
तेषां तद्वचनं श्रुत्वा भीतानां शरणैषिणाम् ।
देवानामभयं देवी ददौ वरमनुत्तमम् ।। ६२।।
ततस्तं देवदेवेशं भगवन्तं पिनाकिनम् ।
प्रणम्य शिरसोवाच भीतवत्साचलात्मजा ।।६३।।
सनत्कुमार उवाच
तां भीतां प्रणतां देवः पादयोर्गतमूर्धजाम्५२ ।
उत्थापयामास तदा पाणिनाब्जदलत्विषा५३ ।।६४।।
उवाच च तदा साध्वीं भीतासि हिमवत्सुते ।
किमर्थं किञ्च ते सुभ्रु५४ भयं ब्रूहि शुभानने ।।६५ ।।

५१... मागताम् - क. । ५२ र्गजत - क. । ५३... ब्जतलत्विषा - क. ।

704
सनत्कुमार उवाच
उवाच तं तदा व्यास भीतवत् हिमवत्सुता ।
दृढं भीतास्मि ते देव रूपं दृष्ट्वातिभास्वरम् ।।६६ ।।
संवर्त्तकानलप्रख्यं दुर्निरीक्ष्यं सुरैरपि ।
लोका विषण्णा देवेश देवाश्च ऋषिभिस्सह ।।६७।।
उपासते५५ भीतभीताः सर्व एते सुरेश्वराः ।
भीताहं ते महादेव मत्तोधिकमिमे सुराः । ।६८।।
मां चैव शरणं प्राप्तास्तेषां त्वमभयं दिश ।
त्वं कर्ता सर्वलोकानां देवानामृषिभिस्सह ।
मा विनाशय तान् कृत्वा याचे त्वां शिरसा नता ।।६९।।
सनत्कुमार उवाच
तस्यास्तद्वचनं श्रुत्वा देवान्दृष्ट्वा च यज्ञहा ।
उवाच न भयं वोस्ति मत्तस्त्रिदशसत्तमाः ।।8.127.७० ।।
इयन्तु स्त्रीस्वभावेन५६ हिमवत्तनये सरित् ।
मयि दुष्टं मनः कृत्वा पतिष्यति ममोपरि ।।७१ ।।
तामहं सन्निरोत्स्यामि पतन्तीं सरितं दिवः ।
यूयमप्यालयान् स्वान्स्वान् विश्रब्धा५७ व्रजतानघाः ।।७२। ।
सनत्कुमार उवाच
ततस्ते तद्वचः५८ श्रुत्वा प्रणता विबुधोत्तमाः ।
ऊचुः प्राञ्जलयो भूत्वा वाचा ते लज्जमानया ।।७३।।
देवा ऊचुः
एषा लोकहितार्थाय त्वया सृष्टा सरिद्वरा ।
चपलाः सरितश्चैव स्त्रीस्वभावश्च५९ तादृशः ।।७४।।
सैषा तेन स्वभावेन अस्माकं चाभिसंश्रयात्६० ।
गर्वं महान्तमास्थाय६१ कत्थते ह्यकुतोभया ।।७५।।

५५ उपासन्ते - क. ख. । ५६ स्त्रीसभावेन - क. । ५७ विश्रब्धं - ख. । ५८ ततस्तद्वचनं - ख. । ५९ स्त्रीस्वभावाच्च - क. । ६० चापि संश्रयात् - ख. । ६१ सुमहदास्थाय - क. ख. ।

705
गर्वोयं च यतस्तस्या६२ येन सा६३ कत्थते६४ नदी ।
तन्नः शृणुष्व देवेश मा क्रुधो६५ भीमविक्रम६६ ।।७६।।
कार्यार्थं प्रार्थ्यमानो हि सर्वो भवति गर्वितः ।
लोके तनुरपि स्वामिन् किमुतेयं सरिद्वरा । ।७७। ।
सैषा सरिन्महादेव धारणायेप्सिता त्वया ।
सर्वश्रेष्ठेन देवेन गर्विता कत्थते६७ ततः६८ । ।७८। ।
त्वया दैवतनाथेन धारितेयं सरिद्वरा ।
पुण्या भवित्री लोकेस्मिन् सर्वकिल्विषनाशनी।।७९। ।
यः कश्चित् पातिनीमेनां६९ सरितं देवताधिप ।
शक्तो धारयितुं देवो न तु श्रेयो७० भवेत्ततः ।।8.127.८ ० । ।
तस्मात्त्वं याचितो देवै राज्ञा चानेन कालहन् ।
धारयस्व७१ नदीमेनां७२ शिवो७३ भूत्वा सुरोत्तम७४ ।।८ १ । ।
सनत्कुमार उवाच
एवं स भगवान् देवै७५स्तथ्यं बह्वविरोधि च७६ ।
उक्तः सब्रह्मकैर्देवः सनारायणलोकपैः७७ ।।८ २।।
राज्ञो वरप्रदानं च तदवेक्ष्य पुनः पुनः७८ ।
उवाच देवान्देवेश७९ इदं गम्भीरशब्दवत् । ।८३ ।।
एतं८० राजानमुद्दिश्य क्षुधापर्याकुलेन्द्रियम् ।
भवतां चैव मान्यानां वचनाद्देवसत्तमाः । ।८४।।
न नाशयिष्ये सरितमिदं तु शृणुतानघाः ।
यद् ब्रवीमि महासत्वा गर्वस्यास्य विनाशनम् ।।८५।।
पर्वतेन्द्रोस्य गर्वस्य विघातो भविता महान् ।
अनु८१ जह्नुश्च धर्मात्मा गर्वं नाशयिता पुनः ।।८६ । ।

६२ चैव यत्तस्या - घ. । ६३ वा (?) । ६४ कत्थ्यसे - ख., गर्विता - घ. । ६५ क्रुद्धो - क. ख. । ६६.. विक्रमः - क. ख । ६७ कत्थ्यते - ख. । ६८ तव - क, यतः (?) । ६९ पतिनीमेनां - क., पतितामेनां - स्व. । ७० श्रेय - क., श्रेष्ठा - ख. । ७१ तां धारय - घ. । ७२ नदीमेकां - ख. । ७३ विवो - क । ७४ सरित्तमाम् - घ., सरित्तमः - क. । ७५ देव - घ. । ७६ पक्ष्यविरोधि - क. , च मुनिबोधितः - घ. । ७७ देवैः - घ., नारायणसलोकपैः - क । ७८ ...न्तु यदुक्तवान् - घ. । ८९ देवदेवश - घ. । ८० एवं - ख. । ८१ अथ - ख ।

706
मच्छापोपहता चेयं दुराचारा महानदी ।
पतिं मानुषमासाद्य पुत्रान् सप्त निहंस्यति ।।८७।।
सनत्कुमार उवाच
एवमुक्त्वा ततः शर्वो देवान् दैवतसत्तमः८२ ।
उवाच ब्रूत किं वोन्यद् ददान्यद्य यथेप्सितम्८३ ।।८८।।
देवा ऊचुः
भगवन् स्थानमिच्छामो८४ देवस्य८५ सुमहर्द्धिमत् ।
समन्तपञ्चकं क्षेत्रं सदाविरहितं त्वया ।।८९।।
भस्त्रेत्युक्ता८६ यदस्माभिहिमवत्तनयाव्यया ।
पदं चाभयमिच्छन्ति तस्माद्८७ भस्त्रापदं स्मृतम् ।।8.127.९०।।
योत्रागच्छेन्नियमवानर्चयेद् वृषभध्वजम् ।
सोश्वमेधफलं प्राप्य रुद्रलोकमवाप्नुयात् ।।९१।।
अहोरात्रोपवासेन चरुं यश्च निवेदयेत् ।
स नन्दीश्वरतुल्यस्ते भविता देवसत्तम ।।९२।।
प्राणान् यश्चात्र देवेश त्यजेत् सनियमो नरः ।
अथवानियमाद्देव यदृच्छामरणेन तु ।।९३ ।।
सोपि भूत्वा गणैस्तुल्यः८८ स्थास्यत्याभूत८९ संप्लवम् ।
युक्तो दिव्येन वपुषा तवानुचरतां गतः ।।९४।।
नमो९० भस्त्रेश्वरायेति यश्च कृत्वा सदा शुचिः९१ ।
उत्तिष्ठेद्वा स्वपेद्वापि शक्रलोके स मोदते ।।९५।।
इदं९२ महद् दिव्यमनन्तलाभं पठेत् सदा यो द्विजदेवसंसदि९३ ।
महानुभावो गणपो महाजवो भवेत् स दिव्यस्तव देव संश्रयात् ।।९६।।
इति स्कन्दपुराणे गङ्गावतारे९४ सप्तविंशोत्तरशततमोध्यायः

८२ देवतसत्तमः - क. । ८३ दाता - क.,.. न्यद्य दातान्यन्मवसे - ख, .. ददामि वरमीप्सितम् - घ. । ८४ मिच्छाम - क. ख. । ८५ देवश्च - क. । ८६. त्युक्त्वा - क. ख. । ८७ चाभयमिच्छद्भिस्तस्माद् - घ. । ८८ तुल्यो गणैर्भूत्वा - क. ख, घ. । ८९... त्याहूत - क. । ९० भूयो - क. । ९१ शुचिं - ख. । ९२ इमं - क । ९३ द्विजवैद्यसंसदि - क. । ९४ गङ्गावतारे - ख. । ९५ अध्यायः १७७ - ख., अ. १२७ - घ. ।

707
सनत्कुमार उवाच
तस्मिन् सब्रह्मका देवाः स्थाणोः स्थाने मनोरमे ।
लिङ्गं संस्थाप्य तीर्थानि सर्वे चक्रुः पृथक् पृथक् ।।१।।
. .. . . .. . . .. . . .. . .. .. . . .. . .. . .. ।
- - - दित्यतीर्थञ्च विख्यातं चाश्वमेधिकम् । ।२।।
रुद्रतीर्थं स्थाणुतीर्थं ब्रह्मणस्तीर्थमेव च ।
इन्द्रतीर्थं वसूनाञ्च अश्विनो१रपरं स्मृतम् ।।३।।
यमस्य चापरं तीर्थं वायोस्तीर्थमथापरम् ।
विष्णोश्चाप्यपरं तीर्थं विख्यातं सुरपूजितम् ।।४।।
स्नात एतेषु विप्रर्षे चरुं कृत्वा निवेद्य च ।
एषु स्थानेषु दिव्येषु चरते ह्यकुतोभयः ।।५।।
अद्यापि तत्र ब्रह्मर्षे श्रूयते मधुरः स्वनः ।
मेखलावलयोन्मिश्रो२ वंशवीणारवोत्कटः ।।६। ।
गायन्तीनां वराङ्गीनां नृत्यन्तीनां तथैव च ।
नित्यमप्सरसां व्यास स्तुवन्तीनां त्रिलोचनम् ।।७।।
सनत्कुमार उवाच
ततस्ते सहिता देवा३ ब्रह्मणा देवसत्तमम्४ ।
ऊचुः पश्येम५ भगवन्नस्या धारणमुत्तमम्६ ।।८।।
देवदेव उवाच
यथेष्टं श्वः प्रभाते मां पश्यध्वं विबुधेश्वराः ।
धारयन्तं त्रिपथगां नदीं स्वगुणगर्विताम् ।।९।।
ते तथोक्ताः७ प्रणम्येशं जग्मुर्गङ्गान्तिकं तदा ।
उवाच तां ततो ब्रह्मा देवीं लोकसुखावहाम् ।। 8.128.१० ।।

१ अश्विनौ - ख । २ मलयोर्मिश्रो - ख. । ३ सह देवेन - क. ख. । ४ देवसत्तमाः - क, ख । ५ कल्ये समभवत् - क.,. दन्त्ये (न्ये) - ख. । ६ तव योगो (योगं) महेश्वर - क ख., न्नद्या (?) । ७ तथोक्त्वा (?) । ८ तदा - क. ।

708
मा गर्व त्वं९ कृथा गङ्गे मा विनाशमवाप्नुहि१० ।
ऋजुभावं समास्थाय पतेथास्त्वं सरिद्वरे । । ११ । ।
स्तुवती त्र्यम्बकं सोमं भक्त्या परमया युता ।
तवाकूतं विदित्वासौ विनाशायोद्यतः११ प्रभुः । । १२ । ।
कृच्छ्रेण तोषितः शम्भुस्तवैव१२ हितकाम्यया ।
मापराधं कृथा भूयो लोकानां हितकाम्यया ।। १३ । ।
नाशात्तव सरिच्छ्रेष्ठे ध्रुवं लोकक्षयो भवेत् ।
एवं ते तां१३ समाधाय देवाः सब्रह्मकास्तदा । । १४। ।
द्वितीयेहनि लोकेशाः समाजग्मुर्दिदृक्षवः ।
हिमवच्छिखरं दिव्यं नाम्ना वज्रोपलं१४ महत् । ।१ ५।।
ब्रह्मा विष्णुरथानन्तो नरा१५ ऋषय एव च ।
आदित्या वसवो रुद्रा अश्विनौ समरुद्गणाः ।।१ ६।।
साध्या देवास्सपितरो यक्षराक्षसपन्नगाः१६ ।
पिशाचाश्चासुराश्चैव शृङ्गिणः पृश्नयस्तथा ।। १८ ।।
ऋषिरत्रिर्वसिष्ठश्च मरीचिः पुलहस्तथा ।
पुलस्त्यश्चाङ्गिराश्चैव भृगुः कश्यप एव च । । १ ९। ।
औशिजो१८ वामदेवश्च गौतमश्च महतपाः ।
च्यवनोथ भरद्वाज इन्द्रप्रमतिरेव च । ।8.128.२ ० । ।
रैभ्यश्च जमदग्निश्च कुणिबाहुश्च१९ वीर्यवान् ।
अथर्वा श्वेतकेतुश्च दत्तात्रेयश्च विश्रुतः । । २१ । ।
रुचिर्धर्मश्च दक्षश्च सावर्णी मुनयश्च ये२० ।
अग्निश्च वेदबाहुश्च शङ्खपान्नामतश्च यः । ।२२।।
अम्बरीवाँश्च विख्यातः केतुमानपि चापरः ।
एते चान्ये च बहव२१ ऋषयो देवतास्तथा । । २३ । ।

९ तं - ख. । १०.. मवाप्स्यसि - ख. । ११ विनाशायोद्यते - ख. । १२ स्तथैव - ख । १३ तेषां - ख । १४ वज्रोपमं - ख., भस्त्रापदं ( ?) । १५ नरो - ख. । १६ यथा राक्षसन्नगाः - ख. । १७ शृङ्गित.. - ख. । शृङ्गिणो दंष्ट्रिणस्तथा - घ । १८ कौशिको - घ । १ ९ दानबाहुश्च - घ.,... वाहश्च (?) । २० सावर्णाः साधवश्च - घ. । २१ बहवो - ख ।

709
विमानानि च सर्वाणि गन्धर्वाप्सरसां गणाः२२ ।
जम्भका ऋतवश्चैव निकायाश्चैव सर्वशः । ।२४। ।
तत्राजग्मुर्मुदा युक्ताः सर्वे परमवर्चसः ।
तेषां गगनसंस्थानां देवानां प्रेक्षतां तदा । ।२५ । ।
मेरुमन्दरसंकाशे२३ तस्मिञ्छिखरसत्तमे२४ ।
उमासहायो देवेशः सहसैवान्वदृश्यत । ।२६। ।
तडिज्ज्वलनपिङ्गेन जटाभारेण राजता ।
ऊर्ध्वस्थितेन महता भगीरथमुवाच सः२५ । ।२७।।
देवदेव उवाच
भगीरथ क्व सा गङ्गा पितॄणां तव तारणी२६ ।
समाह्वय२७ महाबाहो धारयिष्ये न संशयः । ।२८। ।
सनत्कुमार उवाच
ततः स राजशार्दूलः स्मृत्वा तद् ब्रह्मणो वचः ।
सस्मार सरितं व्यास शिरसा प्राञ्जलिर्नतः ।। २९। ।
सा तेन मनसाहूता स्वर्लोकनिलया नदी ।
क्षणेनाभ्याययौ देवी भुवर्लोकं२८ शुभावहा२९ ।।8.128.३ ० । ।
तं लोकं सा३० समासाद्य मनोनिलजवा नदी ।
अलंचक्रे महावेगा सर्वं शुभशतारणिः३१ । ।३ १ ।।
ततः सा तिर्यगागम्य आकाशस्था महानदी ।
आकाशगङ्गा संजज्ञे नाम्ना ओघवतीति वै ।।३ २ ।।
आकाशगङ्गा सा भूयो महावेगा महानदी ।
शिवमस्तु ममेत्येवं३२ पापातार्धपथात्तु सा३३ ।
शिवगङ्गा ततः प्रोक्ता नाम्ना शिवतरा३४ हि सा ।।३३ ।।

२२ तथा - घ. । २३ सकाशाः - ख । २५ शिखरि सत्तमे (?) । २५ ह (?) । २६ तारणात् (णीं) - ख । २७ तामाह्वय - घ. । २८ भुवं लोकं - ख । २९ सुखावहा - ख. । ३० च - ख । ३१ थ नोरणिः - ख. । ३२ शिवं मेस्तु शिवो देव - घ. । ३३ धर्म्यस्तु सा - ख., पातालगमनो यथा - घ. । ३४ शिवकरा - घ. ।

710
कुर्वती विपुलं शब्दं नदी वज्राशनिस्वनम्३५ ।
यतो देवैः समं दृष्टा३६ देवगङ्गा ततः स्मृता । ।३४।।
तां दृष्ट्वा मुनयः सर्वे देवलोकाश्च सर्वशः ।
जेपुस्ते३७ सहसा शान्तिं संप्रहृष्टतनूरुहा । ।३ ५।।
तेषां सा जपतां व्यास नदी लोकसुखावहा ।
स्तुवंती भीतभीतेव त्रिधा भूत्वापतद् भुवि३८ । ।३ ६।।
तां पतन्तीं महादेवस्त्रिभिर्वेगैर्महाजवाम् ।
जटाभारेण जग्राह देवानामेव सन्निधौ३९ ।।३७।।
तं४० जटाभारमासाद्य सा त्रिस्रोता निरुल्वणा४१ ।
न तस्यान्तं४२ समासेदे निरुद्धा योगमायया४३ । । ३८। ।
यस्मात्सा भीतभीता तु स्तुवंती४४ पतिता तदा ।
तस्मात्सा भीतगङ्गेति स्तोत्रगङ्गेति चोच्यते ।।३ ९ ।।
त्रिभिर्वेगैश्च पतिता यस्मात्सा सरिदुत्तमा ।
त्रिस्रोतेति ततः सा वै प्रोच्यते ब्रह्मवादिभिः४५ ।।8.128.४० ।।
सनत्कुमार उवाच
सा तु तस्मिन्निपतिता धृता देवेन मायया ।
जटारन्ध्रं४६ विचिन्वाना उवास बहुलाः समाः । ।४१ । ।
पूर्णं सहस्रं वर्षाणां४७ संस्थितां तां४८ जटागृहे ।
देवास्तां ददृशु४९स्सर्वे कोटरान्तर्गतामिव । ।४२ । ।
ततस्ते सहसा देवाः प्रणिपत्य वृषध्वजम् ।
ऊचुर्विमनसो व्यास सरितं मा विनाशय५० । ।४३ ।।

३५ ... शनिप्रभम् - घ. । ३६ दृष्ट्वा - घ । ३७ जग्मुस्ते (?) । ३८ स्तुवता भीतभीतेति त्रिधाभूतापतद्दिवः - घ. । ३९ पश्यतां - घ. । ४० ता - ख. । ४१ तिस्रोस्रोता - ख., त्रिभिः स्रोतोभिरुल्वणैः - घ. । ४२ च सा तं (न्तं?) - घ । ४३ लोकबन्धुना - घ. । ४४ स्तुवता (ती?, - ख । ४५ ब्रह्मचारिभिः - ख. । ४६ तत्र रन्ध्रं (?) । ४७.. वर्षसहस्रं तु - घ. । ४८ तां म (तां) - ख. । ४९ देवा ना (न?) ददृशुः - ख., ते देवाः - घ । ५० व्यनाशय - क. ख, यः - ख ।

711
सनत्कुमार उवाच तेषां तद्वचनं श्रुत्वा दृष्टवा राजानमेव च ।
विदुधाव जटाभारं५१ देवदेवो दयामय ।।४४।।
विधुन्वतो जटाभारं पेतुर्वै तत्र बिन्दवः ।
ते मुक्ताफलसंकाशाः पूर्णचन्द्रांशुनिर्मलाः५२ ।।४५। ।
चक्रुर्बिन्दुसरो दिव्यं सागराकारवर्चसम्५३ ।
तस्माच्छ्रोतांसि५४ सप्तैव निःसृतानि महान्ति च ।।४६।।
नलिनी ह्लादिनी५५ चैव प्लावनी५६ चैव पूर्वगा ।
सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीचिगाः५७ ।।४७।।
मध्यमं५८ त्वन्वगात्स्रोतो राजा येन भगीरथः ।
भागीरथीति सा गङ्गा प्रोच्यते ब्रह्मवादिभिः ।।४८।।
दारयन्ती५९ जगामाथ हिमवन्तं सरिद्वरा ।
निरुद्धा हिमवत्पादे रत्नशृंगे शिलोच्चये ।।४९।।
तां निरुद्धां ततो वीक्ष्य विषण्णवदनस्तदा६० ।
राजा भगीरथो व्यास ब्रह्माणं मनसास्मरत् ।।8.128.५० ।।
ततस्स भगवान् ब्रह्मा सुप्रतीकं महागजम् ।
उवाच दन्तवज्राभ्यां६१ दारयैनं शिलोच्चयम् । ।५१ ।।
स यत्र गिरिराड् भिन्नः सुप्रतीकेन हस्तिना ।
गङ्गाद्वारं तु तत्६२ प्रोक्तं सुपुण्यं चैव तत् स्मृतम्६३ । ।५२।।
गजश्चाभिमुखो यावन्नातिष्ठत महायशाः ।
स्रोतसा तावदध्वानमूढो द्वादशयोजनम् ।।५३ ।।
सनत्कुमार उवाच
एतत् पुण्यतमं व्यास गङ्गावतरणं स्मृतम् ।
स्थानं भस्त्रापदं नाम मया यत् परिकीर्तितम् ।।५४। ।

५१ वित्रु (दु) धाव - क., विधुन्वतो जटाभारं - घ, । ५२ शीतलाः - ख. । ५३ वर्चसा - क. ख. । ५४ तस्य स्रोतांसि - ख. । ५५ ह्लादनी - क., ह्रदिनी - ख । ५६ मालिनी - घ. । ५७ प्रतीच्यगाः - क. ख. । ५८ मध्यगं - क., तटगा - घ. । ५९ जग्मुषी सा (?), जिगमीषुर् (?) । ६०.. स्तथा - ख. । ६१ वज्रहस्ताभ्यां - घ. । ६२ यत् - ख. । ६३ दैवतं स्तुतम् - घ. ।

712
य इदं६४ शृणुयान्मर्त्यः सदा पर्वसु पर्वसु ।
स देवलोकं संप्राप्य देवैः सह चरिष्यति । ।५५। ।
इदं महत्पापविमोचनं६५ शुभं विमानयानाप्सरसां विलम्भनम्६६ ।
शृणोति यो नित्यमदीनमानसः स याति लोकान्विदितान्दिवौकसाम् ।।५६ ।।
इति स्कन्दपुराणे गङ्गावतरणे अष्टाविंशोत्तरशततमोध्यायः

सनत्कुमार उवाच
अतः परं प्रवक्ष्यामि हालाहलमशेषतः ।
संग्रामं दितिपुत्राणां देवानां च भयावहम् ।। १ ।।
हालाहल इति ख्यातो गणो विक्रान्तपौरुषः ।
असुराणां बभौ व्यास दारुणो ब्रह्मकण्टकः । ।२। ।
गतेषु१ दनुपुत्रेषु स गणः२ क्रोधमूर्च्छितः ।
बलं कृत्वा मुखं३ सर्वान्४ देवान्युद्धे समाह्वयत् । । ३ ।।
तेषां तेषाञ्च संग्रामः सुघोरः समवर्तत ।
असुराणां जयश्चैव सदैव समपद्यत ।।४० । ।
ततस्ते विबुधाः सर्वे विदर्पा हतविक्रमाः ।
हृतराज्याभ्यगच्छन्त ब्रह्माणं लोककारणम् ।।५।।
ते तमूचूश्च संहत्य हृतराज्याः स्म सांप्रतम ।
कथं राज्यं पुनर्देव लभेम तव तेजसा । ।६।।
तेषां श्रुत्वा वचस्तद्वै देवः सलिलसम्भवः ।
उवाच देवान् देवेशं प्रसादयत मा चिरम् ।।७।।
स वो दाता महावीर्यो बलं देवस्त्रिलोचनः ।
येन तान् समरे सर्वान् विक्रमेण विजेष्यथ५ । ।८। ।

६४ इमं - क. । ६५ विनाशनं - ख । ६६ विले (लो) भनं - क. ।
१ हतेषु (?) । २ बलः - ख. । ३ मुखे (?) । ४ सर्वे - ख. । ५ विजेष्यत - क., विजेष्यते - ख. ।

713
सनत्कुमार उवाच
त एवमुक्ता देवेशं तपसाराध्य शङ्करम् ।
ऊचुः प्राञ्जलयो देवा बलं नो देहि यज्ञहन् । ।९। ।
तेषां तु जपतामेवं६ तपसा तोषितो हरः ।
ददौ मन्त्रमनाधृष्यं७ सर्वमन्त्रोत्तमं८ तदा । । 8.129.१० ।।
तं ते संप्राप्य विप्रर्षे कृतरक्षा दिवौकसः ।
अमूढा मूढवत् सर्वे असुरेष्वचरन् ततः९ । । ११ । ।
असुरास्तु१० तदा मूढान् दृष्ट्वा सर्वान्दिवौकसः ।
अमन्यन्त दुराचारा मूढा इति यथातथम् । । १२ । ।
हृतरज्या इमे देवाः सर्वे मूढेन चेतसा ।
उन्मत्ता विभ्रमन्त्येवं पश्यतैतान्११ सुरेतराः । । १३ ।।
आक्रोशन्तोपरे ताँस्तु अभिजघ्नुश्च दारुणम् ।
बबन्धुश्च यथाकामं मुमुचुश्च तथापरे । । १४। ।
एवं तेषां तदा व्यास वर्ततां शुभकर्मणाम् ।
सुमहानभवद् धर्मः असुराणां व्यनीनशत् । । १ ५। ।
तेषां तेनापचारेण असुराणां दुरात्मनान् ।
धर्मनाशाद् बलं क्षीणं बुबुधुर्देवतागणाः१२ ।।१ ६। ।
सनत्कुमार उवाच
ततस्ते ब्रह्मणा१३भ्युक्ताः१४ सर्वे दिव्यास्त्रधारिणः ।
आहूयासुरशार्दूलान् युद्धे सर्वान्न्यसूदयन् । । १७। ।
बलो यत्र हतः संख्ये१५ वज्रेण शतपर्वणा ।
देवेन्द्रेणाभिविक्रम्य बलहा स यतः१६ स्मृतः । ।१८। ।
सनत्कुमार उवाच
अन्धकारकमन्यच्च१७ युद्धमासीत् सुभैरवम् ।
दशवर्षसहस्राणि शतानि च पुनर्दश ।। १ ९। ।

६ जपतामेव - क । ७ यन्त्रमनाधृष्यं - घ । ८. यन्त्रोत्तमं - घ. । ९ तदा - क., तपः - ख. । १० असुराँस्तु क., असुरास्तान् (?) । ११ पश्यैनं (नान्?) - क. । १२ ववृधुर्देवतागणाः - घ. । १३ ब्राह्मणा - क. ब्रह्मणो (?) । १४ द्युक्ताः - क. । १५ शंखे - क ख. । १६ ततः - घ. । १७ अ-धकारं तथान्यश्च - घ ।

714
आसीद् दनुसुतः श्रीमान् देवतान्तक इत्युत ।
स मायां संपरीप्सन्१८ वै रुद्रमाराधयत् पुरा । ।8.129.२०। ।
तस्मै वर्षसहस्रेण वरकाल उपस्थिते ।
ब्रह्मा ददौ वरं व्यास दनोः पुत्राय धीमते ।।२ १ ।।
स वव्रे तामसीं मायां सर्वभूतप्रबाधनीम् ।
अभेद्या१९मनिवार्याञ्च यां तु२० वेत्ति न२१ कश्चन ।।२२ ।।
तस्मै प्रादात् स तां मायामिदं चोवाच तं तदा ।
भविष्यति हि२२ मायेयं यथोक्ता२३ ते महाबल ।
करिष्यसि२४ न चेच्छब्दं२५ यथाकामं दनोः सुत ।।२३ ।।
सनत्कुमार उवाच
अथ लब्धवरो व्यास मायाच्छन्तोसुरस्ततः ।
बहुभिर्दानवैः सार्धं सर्वाँल्लोकानबाधत । ।२४। ।
देवा अपि भयात्तस्य नावतिष्ठन् तदग्रतः ।
देवाः सर्वे भयोद्विग्नास्तस्थुर्नैव तदग्रतः ।
स्थानानि ते परित्यज्य यत्र तत्रावतस्थिरे ।।२५। ।
आहूताः क्रूरशब्देन दानवैर्बलदर्पितैः ।
तथापि नावतिष्ठन्त तेषामग्रे दिवौकसः । । २६। ।
ऋषयस्तानिदं प्राप्य ऊचुः सर्वे प्रमन्यवः ।
रक्षां कुरुत लोकानां मावलीनावतिष्ठत । ।२७। ।
वयं च तपसा२६ देवा धारयिष्याम संयताः ।
मा भयं वोस्तु युध्यध्वं कुरुध्वं विज्वरं जगत् । । २८ । ।
त एवमुक्तास्तैर्व्यास ऋषिभिर्लोककारणात् ।
भयान्नैवावतिष्ठन्त तस्य दस्योस्तदाग्रतः ।।२९। ।

१८ परिसन्धाय - घ । १९ अवेद्या - ख । २० तान्न - क. घ. । २१ हि - घ. । २२ च - घ । २३ यथोक्त - क. । २४ करिष्यति - ख. । २५ भवेच्छब्द - ख., . च्छन्दं - क. । २६ वस्तपसा - ख. ।

715
यदा नैवावतिष्ठन्ते तथाप्युक्ता दिवौकसः ।
उपायमपरं प्राहुस्तदा ते मुनिसत्तमाः । ।8.129.३ ० । ।
आहूयाप्सरसः सर्वा विसृज्यन्तां सुरोत्तमाः ।
कामेनाविष्टमनसामसुराणामुपान्तिकम् । ।३ १ । ।
ताँस्तास्वासक्तहृदयान् पीतमैरेयविह्वलान् ।
विक्रम्य हंस्यथ२७ सुरा बलाद्युद्धे२८ बलीयसः । ।३ २। ।
ततस्ताः प्रहिता देवैर्वञ्चनार्थं सुरद्विषाम् ।
क्वणन्नूपुरनिर्ह्रादकूजितोत्कर्णसारसाः२९ । । ३३ । ।
पीनोत्तुङ्गस्तनाभोगहारविक्षिप्तयष्टयः३० ।
वित्रस्तबालहरिणीसदृशायतलोचनाः । ।३४। ।
चलत्कुण्डलसंघृष्टपाण्डरागण्डमण्डलाः ।
शिखिकण्ठच्छविहर३१ श्लक्ष्णवासोधराः पराः । ।३५।।
प्रत्यग्रविद्रुमच्छेदताम्रोष्ठाधरपंक्तयः३२ ।
वस्त्रान्तकुसुमापीडसंसक्तकरपल्लवाः३३ । ।३ ६ ।।
नैकरत्नप्रभाकीर्ण्णकेयूराबद्धबाहवः ।
मयूरबर्हसंकाशचारुकुञ्चितमूर्धजाः । । ३७।।
कल्पद्रुमसमुद्भूतकुसुमस्रग्विभूषणाः ।
शुकाङ्गहरिताकारकञ्चुकोत्तंसितस्तनाः । ।३८। ।
मत्तमातङ्गविक्रान्तलीलाविभ्रमरेचकाः ।
मत्तकोकिलदात्यूह कलनिस्वनभाषिताः ।।३ ९। ।
महतामप्युपात्तानां तपसां विघ्नहेतवः ।
दर्शयामासुरात्मानं विद्विषां वधहेतवः । ।8.129.४० । ।
अथ तेप्सरसो दृष्टवा दैतेयाः काममोहिताः ।
तासामर्थे वराङ्गीनामभिजघ्नुः परस्परम् ।।४१ । ।
गदा३४ परिघचक्रासिशूलमुद्गरशक्तिभिः ।
धनुःकुलिशतीक्ष्णाग्र भिन्दिपालपरश्वधैः । ।४२। ।

२७ हंस्यत - क. । २८... न्युद्धे - क. ख । २९ त्कीर्णसारसाः - ख. । ३० दृष्टयः (?) । ३१ हरि (हरि) - क., हरित् - घ. । ३२ पल्लवाः - (?) । ३३ संरक्तपल्लवाः - क. । ३४ तदा - क. ।

716
ममेयञ्चारुसर्वाङ्गी न तवेयं सुमध्यमा ।
अथवा युद्धशुल्कास्तु मुञ्चैनां प्रहरस्व माम् ।।४३ । ।
इत्युक्त्वा विविधा वाचो दैतेयाः कालचोदिताः ।
अन्योन्यवधमासाद्य प्रजग्मुस्ते यमक्षयम् । ।४४। ।
हतशिष्टास्तु ये तत्र दानवाः शान्तपौरुषाः ।
विबुधैरुग्रतेजोभिस्तेपि सर्वे रणे हताः । ।४५ । ।
य इदं३५ पठते विशुद्धबुद्धिर्निधनं३६ संसदि३७ दानवेश्वराणाम् ।
मनुजो युवतीरिहैव लोके स लभेदप्सरसां समानरूपाः ।।४६ । ।
इति स्कन्दपुराणे अन्धकारयुद्धे ऊनत्रिंशोत्तरशततमोध्यायः३८

व्यास उवाच
अन्धकः स कथं दैत्यो हरेण विनिपातितः ।
यस्य त्रैलोक्यमखिलं भयात् सर्वं वशे स्थितम् । । १ । ।
सनत्कुमार उवाच
अन्धको नाम दैत्येन्द्र आदौ१ त्रैलोक्यकण्टकः ।
ब्रह्मणस्तु वरान् प्राप्य सोवध्यो देवमानुषैः । ।२। ।
न तस्य युद्धे क्रुद्धस्य विष्णुः शक्रो यमोथवा ।
शक्तो ह्यभिमुखे स्थातुं किमुतान्ये दिवौकसः । ।३ । ।
स कदाचिद् बलोद्वृत्तः पर्यटन् पृथिवीमिमाम् ।
अपश्यन्मन्दरप्रस्थे देवीं हिमवतः सुताम् । ।४। ।
स तामालोक्य दैत्येन्द्रः कामोपहतचेतनः ।
अहमेव प्रभुरिति देव्यां२ दौष्ट्यमचिन्तयत । । ५ । ।
चिन्तयित्वा तु तां प्राह दानवाननुयायिनः ।
आनयध्वमिमां शीघ्रं मत्समीपं नगात्मजाम । ।६। ।

३५ इमं - क ख. । ३६ शुद्धिर्निधनं - ख । ३७ संप्रति (?) । ३८ १७९ - ख., ११९ - घ. । १ आसीत् - ख. । २ दैत्यो - क । ३ तान् (?) ।

717
तच्छ्रुत्वा तस्य वचनं मन्मथाविष्टचेतसः ।
प्रह्लादो वदतां श्रेष्ठ इदं वचनमब्रवीत् । ।७।।
दानवेन्द्र हितं वाक्यं यदायत्यां विशुध्यते ।
अवश्यं तन्मया वाच्यं बन्धुस्नेहाद्विशेषतः ।।८।।
एषा हिमवतः पुत्री पत्नी शर्वस्य धीमतः ।
नास्यां दौष्ट्य४ त्वया चिन्त्यं मा नो५ धक्ष्यति६ तेजसा ।।९।।
जगतो मातरं देवीं पूज्या दुष्प्रेक्ष्यतेजसम्७ ।
उमां दानवशार्दूल नाधिक्षेप्तुमिहार्हसि ।।8.130.१ ०।।
किं कण्ठे महतीं बद्ध्वा शिलां मूढेन चेतसा ।
गम्भीरावर्तिनीं भीमां८ नदीं त्वं तर्तुमिच्छसि९ ।।११ ।।
भूत्वा पतङ्गः किं मोहाच्छिखां दीप्तां विभावसोः ।
दानवानामधिपते नाशाय स्प्रष्टुमिच्छसि ।। १२। ।
मा विनाशं नयेः१० सर्वान् समूलान्दानवेश्वर ।
निवर्त्यतां मनो देव्या नैतद्युक्त विपश्चिताम् ।।१३ ।।
त्वं विपश्चित् कुलीनश्च कुलीनानां च गोत्रजः ।
यज्वा च धर्मनित्यश्च नैतद्युक्त तव प्रभो ।।१४।।
तव सन्ति स्त्रियो बह्व्यः सर्वाश्च स्थिरयौवनाः ।
प्रकृत्यैव सुरूपाङ्ग्यो देव्याश्चेतो निवर्त्यताम्११ ।।१५।।
योस्माकं तपसा तुष्टो यच्छते कांक्षितान् वरान् ।
तस्य त्वं देवदेवस्य देव्याः पापं चिकीर्षसि ।।१ ६।।
येन दक्षः क्रतुः कालः कामश्च गमितः क्षयम् ।
तस्य त्वं देवदेवस्य देहार्धं हर्तुमिच्छसि ।।१७।'
लिङ्गेषु योर्च्यते देवः सुरासुरमहोरगैः ।
तस्य देवी जगद्धात्रीं कथं त्वमवमन्यसे ।।१८।।

४ दुष्टं - क ख. । ५ मारो - क. । ६ धक्ष्यसि - ख., धक्ष्येत?) । ७ तेजसः - ख., चेतसः - क. । ८ अप्सुव सत्सु (वर्षत्सु?) महती - क । ९ तरितुमिच्छसि - क । १० मा विनाशाय नः - ख., नय ः क. । ११ निवर्ततामु - ख, ।

718
स चैको नाभिमन्तव्य१२ स्त्वया देवः पिनाकधृक् ।
इच्छन्१३ कुर्याद्धि रूपाणां सहस्राणि शतानि च । । १९ ।।
प्रमथानां सहस्राणि योगिनां भीमकर्मणाम् ।
तस्याग्रतो व्रजन्त्येते यथैव तव दानवाः । । 8.130.२० । ।
यो हरेद् भास्कराद्दीप्तिं चन्द्रात्कान्तिं क्षितेः क्षमाम् ।
वासुकेर्यो हरेद् दंष्ट्रां स हरेत्तस्य पार्वतीम् । ।२१ । ।
तस्योत्तमाङ्गं सकलं शतधा शकलीभवेत् ।
यः शर्वभार्यां तामार्यामवमन्येत बालिशः । ।२ २ । ।
पितामहेन यच्चोक्तस्तदा त्वं पद्मयोनिना ।
वरदानावसाने तु वचस्तत्१४ स्मर्तुमर्हसि । ।२ ३ । ।
यैषा१५ श्रीस्ते दितिसुत मया दत्ता सुदुर्लभा ।
दुर्नयेन तवैवेयं यास्यत्यन्यत्र दानव१६ । । २४। ।
कटुकान्यपि पथ्यानि बन्धूनां१७ वचनानि ये ।
न शृण्वन्त्यनयोपेतास्ते यान्ति निधनं नराः । ।२५। ।
समेष्याम वयं देवं प्रियार्थे तव शङ्करम् ।
समेत्यानुसमेष्यामः सर्वे वैवस्वतक्षये । ।२ ६। ।
इत्युक्तः स तदा तेन बन्धुना शोभनं वचः ।
नैतदेवमिति प्राह प्रहसन् कालचोदितः । । २७ । ।
तस्मिन्नपरिहार्ये१८ तु कार्याकार्ये प्रिये मम ।
यदि युद्धे क्षयो मे स्यात् क्षयोपि विजयो मम ।।२८।।
मनसैव हि भूतानां विदधानः शुभाशुभम् ।
तथा वाप्यन्यथा१९ वापि काल एव२० करिष्यति । ।२९ । ।
प्रत्याख्याय ततो२१ रागात् प्रह्लादं दानवेश्वरः ।
देवीं स्प्रष्टुं२२ दधे चेतः२३ पतङ्गोग्निशिखामिव । ।8.130.३ ० ।।

१२ नाति ( नाव?) मन्तव्यः - क. । १३ इत्थ - क. । १४. स्त्वं - क ख । १५ येषां (यैषां?) - क. । १६ दानवान् - क. । १७ बहूनां - ख. । १८ तस्मिन्नपिमहार्ये - क. । १९ चाप्यन्यथा - क. । २० एष - क. । २१ तथा? । २२ द्रष्टुं - ख । २३ (ध). . च्चेतः - क. ख ।

719
अथ बुद्ध्वा भगवती दुष्टभावं२४ दुरात्मनः ।
गणानाज्ञापयामास२५ युद्धाय सुमहाबलान् ।।३ १ ।।
अथ ते ज्ञापिता देव्या विविधायुधपाणयः ।
दानवाभिमुखीभूताः सोमनन्दिपुरस्सराः । ।३ २। ।
ते कृत्वा सुमहद्युद्धं दानवानुचरैः सह ।
विक्षिप्ता दानवेन्द्रेण वायुना जलदा इव । ।३ ३ । ।
एतस्मिन्नन्तरे देवी दृष्ट्वोदीर्ण्णं तमन्धकम् ।
स्वयमेवाभिदुद्राव गृहीत्वा सशरं धनुः । । ३४।।
अन्धकं२६ पचविंशत्या सा जघान स्तनान्तरे ।
शराणां निशिताग्राणां स मुमोह पपात च ।। ३ ५। ।
स मुहूर्त्तात्तदा संज्ञां लब्ध्वा मानाच्च दानवः ।
उत्तस्थौ वेगवाञ्छीघ्रमुग्रोद्यतशरासनः२७ । ।३ ६।।
ततः स उत्थाय पुनर्देवीं प्रति महासुरः ।
मुमोच शरवर्षाणि वर्षाणीव बलाहकः । ।३७। ।
ततस्त्रिशूलमुद्यम्य२८ देवीं२९ दीप्ताग्नितेजसम्३० ।
अन्धकं हन्तुमारब्धां३१ शनैर्देवो न्यषेधयत् । ।३८।।
दानवेन्द्रो ममैवायं शास्यो मा त्वं श्रमं कृथाः ।
अहमेवास्य शूलेन भेत्स्यामि हृदयं रणे ।। ३ ९।।
एवमुक्ता३२ तु सा देवी देवदेवेन पार्वती ।
विरराम ततो युद्धाददृश्या संबभूव च । । 8.130.४० । ।
ततो देवः स्वयं प्राह नन्दिनं गणनायकम् ।
युध्यध्वं दानवैस्सार्धं गणानाहूय सर्वशः । ।४१ ।।
आहूय नन्दी३३ तान्सर्वान् गणाञ्छर्वाज्ञया तदा ।
उवाच भूयो३४ देवेशं शृणु येभ्यागता गणाः ।।४२ ।।

२४ दुष्टं भावं - ख. । २५ गणानां ज्ञापयामास - क । २६ अन्धकः - क. । २७ मुद्यतोग्रशरासनः (?) २८ ततश्शूलं समुद्यम्य - घ. । २९ देवी (?) । ३० दीप्तार्कतेजसमम् - घ. । ३१ समारब्धा (?) ३२ एवमुक्त्वा - क ख. । ३३ ततो नन्दी तु - घ । ३४ तत उवाच - घ. ।

720
विशिष्टेष्टास्त्वया३५ सृष्टाः स्वयं सृष्टौ सनातनाः३६ ।
प्रजाभावेन३७ नानात्वं येषां३८ तत्वं सुदुर्वचम्३९ । ।४३ ।।
वृषध्वजा वृषरथाश्चन्द्रावयवभूषणाः ।
त इमे समनुप्राप्ता रुद्रा रुद्र तव प्रियाः । ।४४। ।
कोटीशतसहस्राणां शतमेषां महात्मनाम् ।
तावन्ति च सहस्राणि शतानि च तथा विभो । ।४५। ।
षष्टिश्चैव४० सहस्राणि येषां तुल्यो न विद्यते ।
देवानां नीलकण्ठानां नीलकण्ठमहात्मनाम् । ।४६। ।
एते शूरा बलेषूग्रा४१ उग्रोदग्रपराक्रमाः४२ ।
युध्यमानाः करिष्यन्ति तव प्रमुदितं मनः । ।४७। ।
एतेषामेव रुद्राणामनुरूपाः प्रभावतः ।
तन्मात्रा द्वारपाला वै विक्रान्ताः क्रान्तमन्यवः । ।४८। ।
इतीमे कपिसिंहास्याः कपिसिंहबला रणे ।
दानवैस्सह योत्स्यन्ति वारणा इव वारणैः । ।४९ ।।
रुद्राश्च रुद्रपुत्राश्च रुद्राणां ये च पार्षदाः ।
रुद्राधिप न किञ्चिद्धि येषां४३ साध्यं४४ न विद्यते । ।8.130.५ ० । ।
एकैकस्यास्य रुद्रस्य पुत्राः पुत्रवतां४५ वर४६ ।
पञ्च पञ्च महावीर्याः काकपक्षधराश्च ते ।।५ १ । ।
भुजतः सहसोत्पन्नास्तव ये क्रोध सम्भवाः४७ ।
वीरभद्रं पुरस्कृत्य त इमे४८ समुपस्थिताः ।। ५२। ।
एषां षष्टिः स्मृताः कोट्यः सहस्राणि च षोडश ।
गणपानां गणाध्यक्ष त्वत्प्रियाणामिहागताः ।।५ ३ । ।
एवं देव प्रियार्थं ते दक्षयज्ञः समृद्धिमान् ।
यैर्ध्वस्तः पुरहन् देव पश्य तान् पुनरागतान् ।।५४। ।

३५.. ष्टेष्ट त्वया - क । ३६ सनातना - क., सनातनः (न ) - ख. । ३७ प्रजाभावन - क. । ३८ तव - ख. । ३९ धनुर्धराः - ख । ४० षष्टिञ्चैव - क. । ४१ एतेषुबलषूदग्रा - ख. । उग्रा उग्र- पराक्रमाः - ख. । ४३ एषां (?) । ४४ शोध्यं - क । ४५ पुत्रशतां - क. । ४६ वराः - ख. । ७४ सन्निभाः - क. ख. । ४८ य इमे - क., इतीमे - ख. ।

721
आपद्भावप्रपन्नास्तु४९ येन ध्यातास्त्वयानघ ।
कोटीशतसहस्राख्यास्तेप्यमी समुपस्थिताः । । ५६ । ।
महानला५० यथा वृक्षान् प्रदीप्तान् वायुना सह ।
एतेभिनिर्दहिष्यन्ति दानवाँस्त्वत्प्रिये रताः । । ५७ । ।
गुहावास गुह्यस्यापि क्रीडमानस्य ये सुरैः ।
प्रियार्थं गणपा दत्ता नानामृगशताननाः५१ । ।५८। ।
ज्वलनाचलवत्तेषां त्रिंशत्कोट्यो महेश्वर ।
गणपानामनुप्राप्ताः प्रियं कर्तुं तवानघ । ।५९। ।
इमे रक्तम्बरधरा रक्तस्रगनुलेपनाः ।
ओष्ठजाद्रुधिराज्जाता रक्ता नाम गणेश्वराः । । 8.130.६० ।।
अङ्गारकस्यानुचरा महाबलपराक्रमाः ।
षष्टिकोटिसहस्राणि त इमे समुपस्थिताः । ।६ १ । ।
मन्तव्यं न बलं चापि एतन्मात्रं त्वयानघ ।
एते ह्यष्टगुणैश्वर्यं तव देव प्रसादजम् । । ६२ । ।
संविभ्राणा५२ महेशान करिष्यन्ति बहूनपि ।
लोकानेते समुद्युक्तान् सदेवासुरमानुषान् । । ६३ । ।
संयुगे युगमूलान्तं दहेयुः सुरदानवान् ।
य एते कुन्दसंकाशाः स्वर्णोत्पलविभूषिताः । । ६४। ।
दंशिता गणेपेशान सर्वे युद्धकुतूहलाः ।
ब्रह्मण्या५३स्त इमे शूराश्चन्द्रावयवभूषणाः । । ६५। ।
रुद्रा रुद्रपते प्राप्ताः पश्येमान् युद्धलालसान् ।
बालार्कसमवर्णाभाः सशस्त्राश्च चतुर्भुजाः ।। ६६। ।
द्वारपाला ह्यमी देव कपीन्द्रसदृशाननाः ।
रक्ताम्बरा रक्तमाल्या रक्तचन्दनरूषिताः ।।६७। ।

४१ आमद्भावप्रपन्नास्तु - क । ५० महानलो - ख. । ५१ शुभननाः - ख. । ५२ विभूच्चाणा - क. । विकुर्वाणा - ख. । ५३ ब्रह्मणा - क. ।

722
ब्रह्मण्या वरदाः शूराः कौमारब्रह्मचारिणः ।
मत्तबर्हिसमारूढाः सर्वे वै शक्तिपाणयः ।।६८। ।
एते विक्रान्तविक्रान्ताः स्कन्दा नाम कुमारकाः ।
उच्चैःश्रवःप्रतिसमानश्वान् ये हेममालिनः ।। ६८।।
विरेजुरास्थिता देव५४ पीतकौशेयवाससः ।
बालार्कसमवर्णाभा बालोत्पलदलेक्षणाः ।।8.130.७० ।।
विशाखा नाम ते पुत्रा रुद्राणां शक्तिपाणयः ।
यानेतानीक्षसे देव सितवस्त्रान् सिताननान् । ।७१ ।।
विद्योतमानान् वपुषा५५ बहूँश्चन्द्रानिवोदितान् ।
काकपक्षधरान्मुण्डाँस्ताम्रचूडेष्ववस्थितान् । ।७२। ।
एते विख्यातवीर्यास्ते शाखा नाम कुमारकाः ।
य इमे छागमेषस्थाः किंशुकाशोकवर्चसः । ।७३ । ।
शूराश्चौदार्यवन्तश्च५६ शिशुतामरसाननाः ।
नैगमेषस्य पुत्रस्य तव तुल्यपरिच्छदाः । ।७४। ।
नैगमेषा इति ख्याता ह्येते देव कुमारकाः ।
य इमे कालमेघाभाः कालमेघनिभस्वनाः । ।७५। ।
केशजास्तव ते देव प्रमथाः५७ समुपस्थिताः ।
इमे च रक्ता बहवो गणाः परबलार्दनाः । ।७६ । ।
वरूथिनो वर्मिणश्च रथिनश्चित्रयोधिनः ।
नानाप्रहरणाः सर्वे सर्वे युद्धविशारदाः५८ ।।७७।।
कृतिनो युद्धशौण्डाश्च सर्व एव च दंशिताः ।
सितासितानां मेघानां गिरीणां च समत्विषः ।
सनक्रमीनमकरा ये समुद्रा इवोद्धताः । ।७८।।
सिंहव्याघ्रवराहास्याः परिघाशनिपाणयः ।
तवैवानुग्रहादेते प्रमथास्त्वामुपस्थिताः ।।७९ । ।

५४ देवाः - क. । ५५ विद्योतमानवपुषा (?) । ५६ औदार्यवन्तश्च - क. । ५७ प्रथमाः - क. । ५८ सर्वयुद्धविशारदाः (?) ।

723
एते वै पार्षदाः शूराः स्कन्दस्य परमात्मनः
त्रिदशैः क्रीडनं दत्ताः सर्वशस्त्वामुपस्थिताः ।।8.130.८ ० । ।
दृप्तप्रमुदितं स्फीतं प्रमथानीकमीश्वर५९ ।
दानवानीकभेदार्थे समर्थमिति मे मतिः । ।८१ । ।
प्रविहायान्यकार्याणि६० परमादरमास्थितम् ।
देवारीणामनर्थाय विध्वंसयदनन्तरम् (?) । ।८२। ।
करिगिरितरुतोरणप्रभास्तरुणदिवाकरतुल्यतेजसः ।
गणपतिपतयस्तव ह्यमी रिपुबलमीश्वर जेतुमुद्यताः६१ । ८३ । ।
अचरचरपते ततोन्धकः प्रतिसमतां लभते रणे स्थितः ।
गणपतिशतयूथसंवृतो विसृज विभोवनतान् गणेश्वरान् । ।८४।।
इति स्कन्दपुराणे अन्धकयुद्धोपक्रमे त्रिंशदुत्तरशततमोध्यायः