स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/१२

विकिस्रोतः तः

पूर्व पृष्ठः (अध्यायाः १०१ - ११० ) | आगामी पृष्ठः (अध्यायाः १२१ - १३०)



व्यास उवाच१
गते दिवं महादेवे व्रतमादेष्टुमुत्तमम् ।
एकाकिनी महादेवी किञ्चक्रे तदनन्तरम् । । १ । ।
सनत्कुमार उवाच
गते दिवं महादेवे देवीं गिरिवरात्मजाम् ।
उपतस्थुर्महाभागा देव्यो लोकस्य मातरः । ।२। ।
भरतस्य सुताग्नेस्तु मालिनीत्यभिविश्रुता ।
शुचावती च देवस्य पर्जन्यस्य सुताव्यया । । ३ ।।

१ सन उ - क. । २ तस्मिन - क ।

582


सावित्री वेदमाता च गायत्री दुर्गया सह ।
श्रीः कीर्तिश्चैव लक्ष्मीश्च धृतिः प्रज्ञा तथैव च ।।४। ।
ख्यातिर्दितिर्दनुश्चैव अदितिः सिंहिका खशा४ ।
राका कुहूः सिनीवाली तथैवानुमतिः५ शुभा ।। ।।५। ।
गङ्गा सरस्वती चैव तथान्याः सरितः शुभाः ।
ऋषीणां चैव याः पत्न्यो देवानां यक्षरक्षसाम् ।
उरगाणां खगानाञ्च गन्धर्वाणां तथैव च । । ६।।
एतास्सर्वास्तथागम्य नमस्कृत्य च पार्वतीम् ।
पप्रच्छुः सर्वधर्मज्ञा धर्मं धर्मार्थसंश्रिताः । ।७।।
केन धर्मेण देवेशे तपसा वा शुभानने ।
सुमहत् प्राप्य पुण्यं किञ्चाक्षय्यं प्रकीर्तितम् । ।८ ।।
देव्युवाच
युष्माकन्तु हितार्थाय लोकानाञ्चैव सुव्रताः ।
कथयिष्याम्यहं धर्मं यथावदनुपूर्वशः । ।९। ।
अन्नदानात् परं दानं नैव किञ्चिद्धि८ विद्यते ।
अन्नाद् भवन्ति भूतानि९ तस्मात्तदधिकं स्मृतम् ।। 8.111.१० ।।
अन्नं यस्तु सुसंस्कृत्य प्रयच्छेत द्विजातये ।
स सर्वकामानाप्नोति१० पूज्यते च त्रिविष्टपे ।। ११ ।।
मयूरहंसयुक्तेन११ सर्वकामसमृद्धिना१२ ।
विमानेनार्कभासेन१३ अन्नदो याति वै दिवम्१४ । । १२ ।।
यदि मानुष्यमायाति१५ कदाचित् स नरोत्तमः ।
धनधान्यसमाकीर्णः कुलीनः स्याच्च१६ रूपवान् ।। १३ । ।
यथाशक्ति तु यो दद्याद् दिवसे दिवसे नरः ।
स तेन कर्मणाप्नोति प्रजापतिसलोकताम् । । १४।।

३ देवमाता - क । ४ स्वषा - ख. । ५.. नुमती - क ख । ३ ऋषीणां पत्नयो याश्च - क. ख. । ७ नमस्कृत्वा - क. ख. । ८.. श्च ( च्च) - क । ९ सत्वानि - ख । १० सर्वकामानवाप्नोति - क. । ११ मयूरहंसयुक्तं च - क । १२.,. समृद्धिमत् - क. । १३ विमानं सूर्यसंकाशं - क. । १४ लभते शुभम् - क. १५ मानुष्यांतां याति - ख. । १६ समाकीर्णे कुले जायति - ख ।


583
कदाचिदपि यो दद्यादन्नं विप्राय संस्कृतम् ।
तस्यापि तच्छतगुणं सहस्रगुणमेव च ।। १ ५। ।
उपतिष्ठति लोकेषु इहापि च सुखी भवेत् ।
अवधूतमवज्ञातमसत्कृतमथापि१७ च । ।१ ६ ।।
अन्नं प्रदद्याद्यो देव्यो१८ यादृशं तादृशं शुभाः१९ ।
तस्यापि नरके घोरे यात्यमानस्य राक्षसैः ।। १७। ।
उपतिष्ठेत बहुधा तृप्तिर्येनास्य जायते२० ।
यदि मानुष्यमायाति कदाचित् स नरः पुनः । । १८। ।
म्लेच्छेषु भोगी भवति रमते च यथामरः ।
अन्नेमेवं विशिष्टं हि तस्मान्न परमं२१ भुवि । । १९ । ।
अन्नं प्रजापतिः प्रोक्तं स च संवत्सरो मतः ।
संवत्सरश्च यज्ञोसौ यज्ञे सर्वं प्रतिष्ठितम् । ।8.111.२ ० । ।
तस्माद् भवन्ति भूतानि स्थावराणि चराणि च ।
तस्मादन्नं विशिष्ठन्तु सर्वेभ्य इति वै श्रुतिः ।। २१ ।।
अन्नदानात्परं दानं नैव किञ्चिद्धि विद्यते ।
अन्नाद् भवन्ति भूतानि तस्मात्तद्वै२२ प्रशस्यते । ।२२ ।।
सुगन्धाः शीतलाश्चापो रसैर्दिव्यैः समन्विताः ।
यः प्रयच्छति विप्रेभ्यस्तस्य दानफलं शृणु । ।२३ । ।
विमानं सूर्यसंकाशमप्सरोगणनादितम् ।
सोधिरूह्य दिवं याति वरुणस्य सलोकताम् ।।२४।।
तत्रासावयुतान्यष्टावुषित्वा देववत् सुखी ।
कुले महत्यसंकीर्णो२३ जायते धनधान्यवान् । ।२५।।
आपान्तु पूर्णं यो भाण्डं ब्राह्मणाय प्रयच्छति ।
रसास्तस्योपतिष्ठन्ति पूज्यते च दिवं गतः ।।२६। ।

१७ मसंस्कृतमथापि - ख. । १८ देवि - क. ख. । १९ शुभे - क. ख । २० लभते पुण्यमव्ययं - ख. । २१ न तस्मात् परमं - ख. । २२.. .च्चैतत् - घ. । २३. संकीर्णे - ख. ।

584
। ५८४ ।
भाजनानि च यो दद्यात् सुपूर्णानि शुभाननाः२४ ।
भाजनं स्यात् स भोगानां तारयेच्च२५ पितॄन् भयात् । ।२७। ।
तडागं यस्तु कुर्वीत अपां देव्यः२६ समृद्धिमत् ।
अपः२७ पिबन्ति वै यत्र सर्वे जन्तव एव च ।।२८। ।
तारयित्वा च स पितॄँस्तथैव च पितामहान् ।
प्रपितामहाँश्च लोकेषु कमिकेषु२८ विहङ्गमः ।।२९।।
चरते देववद्देव्यो वर्षायुतशतानि षट् ।
पुनश्च मानुषे लोके सर्वरोगविवर्जितः ।।8.111.३ ० ।।
भोगी भवति भोगानां राजमात्रश्च जायते ।
दाता यज्या च बलवान् सुप्रभः प्रियदर्शनः ।। ३१ । ।
अवटं यो नरः कुर्यादपां पूर्णं शुचिस्मिताः२९ ।
दद्याच्च ब्राह्मणेभ्यस्तं भोजयित्वा यथार्थवत् । ।३ २। ।
अष्टाभिश्च विचित्राभिः३० पताकाभिरलंकृतम् ।
ध्वजेन वैजयन्त्या च पुष्पैश्च समलंकृतम् । ।३ ३ ।।
स तारयित्वा तु पितॄन् विमानेन नरोत्तमः ।
यात्यप्सरोपगीतेन३१ वरुणस्य सलोकताम् ।।३४।।
हिरण्यं हेम भूमिं वा तिलान् रत्नानि वापि यः ।
प्रदद्यात् सर्वभूतेभ्यस्तस्य पुण्यफलं शृणु ।।३५। ।
स विमानेन महता सर्वलोकसमन्वितः ।
इन्द्रस्य लोकं३२ संप्राप्य मोदते विबुधो यथा । ।३ ६।।
ततश्च्युतश्च धर्मात्मा सर्वकामसमृद्धिमान् ।
कुले महति लोकेसौ३३ जायते सुभगश्च ह । । ३७।।
यस्तु वृक्षं प्रकुरुते छायापुष्पफलोपगम् ।
पथि देव्यो३४ नरः सोम्ये३५ स तारयति वै पितॄन् । । ३८।।

२४ शुभानने - क. ख. ।... २५ स्तारणाच्च - क । २६ देवि - क. ख. । २७ गावः - क. । २८ कामकेषु - क । २९ समश्नुते - क,? स्मिते - ख । ३० रविचित्राभिः - क. । ३१ यात्यप्सरस- गीतेन - ख. । ३२ इन्द्रलोकं स - ख. । ३३ लोकेशो - ख. । ३४ देवि - क. ख. । ३५ सोम्याः? ।

585


तथैव दत्त्वा विप्रेभ्यो निष्क्रीय च पुनर्नरः३५ ।
स यत् फलमवाप्नोति तच्छृणुध्वं३६ महाप्रभाः३७ । । ३९ । ।
यावद् वृक्षस्य पुष्पाणि उपयुञ्जन्ति३८ देहिनः ।
फलानि चैव भक्ष्यन्ते जन्तुभिः फलितस्य तु । ।8.111.४० ।।
तावद्वर्षसहस्राणि तारयित्वा पितॄनपि ।
सोमलोकं समासाद्य सोमृतं३९ फलमाप्नुयात् । ।४१ ।।
फलानि यः प्रयच्छेत ब्राह्मणेभ्यस्समाहितः
फलानां स तु भागी स्याद्बहूनां सुभगश्च ह । ।४२ ।।
काष्ठानि यः प्रयच्छेत हेमन्ते नरसत्तमः ।
ब्राह्मणेभ्यस्तदा देव्यः४० सोग्निलोकं समश्नुते । ।४३ । ।
भाजनं यः प्रयच्छेत हैमं रत्नविभूषितम् ।
सोप्सरःशतसंकीर्णे विमाने दिवि मोदते । ।४ ४। ।
राजतं यः प्रयच्छेत विप्रेभ्यो भाजनं शुभाः४१ ।
स गान्धर्वपदं प्राप्य उर्वश्या सह मोदते । ।५५ । ।
ताम्रं यो भाजनं दद्याद् ब्राह्मणेभ्यो विशेषतः ।
स भवेद् यक्षराजस्य यक्षो बलसमन्वितः । ।४६ । ।
गृहं यस्तु प्रयच्छेत सर्वकामसमृद्धिमत् ।
स लोकं ब्रह्मणः प्राप्य सर्वकामैर्निषेव्यते । ।४७। ।
 सर्वकोटीः४२ स तत्रोष्य चतस्रस्तेन कर्मणा ।
गृहमेधी यदा दाता भोगवाँश्चैव जायते । ।४८। ।
ओषधीर्यः प्रयच्छेत धान्यानि विविधानि च ।
स सर्वकामसंमृष्टं४३ सोमलोकं समश्नुते । ।४९ । ।
तत्र वर्षसहस्राणि सप्त स्थित्वा पुनर्नरः ।
इह सर्व धनोपेतो४४ भोगावानभिजायते । ।8.111.५ ० । ।

३५ पुनः पुन - ख. । ३६ तच्छ्रणुष्व - क. ख । ३७ महाप्रभे - क. ख. । ३८ उपयुज्यन्ति - क. । ३९ सोमृतः - क ख. । ४० देवि - क. ख । ४१ शुभे - क. ख. । ४२ वर्षकोट्यः - क ख । ४३ संमृद्धं - क., संपूर्णं - ख. । ८८ सर्वनरोपेतो - ख ।

586
यस्तु क्षेत्रं प्रयच्छेत निष्पन्नं फलवत्पुनः ।
स तु क्षेत्रपतिर्भूत्वा४५ प्राजापत्यं समश्नुते ।।५१ ।।
यस्तु भूमिं प्रयच्छेत ब्रह्मणाय महात्मने ।
स सर्वलोकेषु४६ सुखी विमानेन सुवर्चसा । ।५२। ।
बहून्यब्दसहस्राणि चरते कामरूपवान् ।
यद्धि मानुष्यमायाति स नरः कालपर्ययात् । ।५३ ।।
तत्र कामदुहा४७ तस्य मही भवति सर्वशः ।
यस्तु वस्त्रं प्रयच्छेत ब्राह्मणाय महायशाः ।। ५४। ।
स लोकं प्राप्य वैराजं वर्षकोटिं सुखं वसेत् ।
आसनं यः प्रयच्छेत संवीतं४८ ब्राह्मणाय वै ।।५५। ।
स राज्यस्थानमाप्नोति स्वर्गं चाप्नोति विज्वरः ।
यस्तु शय्यां प्रयच्छेत स्वास्तीर्णां४९ नरसत्तमः ।।५६। ।
स तु भार्याः प्रिया देव्यो बह्वीर्भक्ताः समश्नुते ।
यस्तु कन्यां प्रयच्छेत ब्राह्मणाय स्वलंकृताम् ।।५७।।।
स गत्वा पितृलोकं वै वर्षायुतशतं वसेत् ।
इह चापि पुनर्जातः सर्वकामसमन्वितः । ।५८।।
भार्याः प्राप्नोति भक्ताश्च प्रजावाँश्चोपजायते ।
अश्वं यस्तु प्रयच्छेत हेमचित्रं सुलक्षणम्५० । ।५९ । ।
स तेन कर्मणा देव्यो५१ गान्धर्वं लोकमश्नुते ।
रथमश्वं गजं दासीं कन्यां गृहमथापि च । ।8.111.६० ।।
भूमिञ्च यः प्रयच्छेत स राजा भुवि जायते ।
???? - - - - - - - - - - - - ।। ६१ ।।
विधिना मन्त्रयुक्तेन५२ तस्य धर्मफलं महत्५३ ।
सर्वकामदुघा५० सास्य धेनुर्भूत्वोपतिष्ठति५५ ।।६२। ऽ

४५ क्षेत्रोनुंमां - क, क्षेत्रं पुमां भूत्वा - ख. । ४६ लर्वलोके स च - क. । ४७ कामवहा - क., कामदुघा (?) । ४८ सवीता - क. । ४९ स्वास्तीर्णं - क । ५० सलक्षणम् - क. । ५१ देवि - क. ख. । ५२ यत्र युक्तेव - क । ५३ शृणु - क. । ५४ सर्वकामदुहा - क. ख. । ५५ धेनुभूत्वावतिष्ठति - क. ।

587


जलधेनुं च यो दद्यात् तस्य दानफलं महत् ।
प्रापां शुभां५६ तडागं५७ वा कूपं वापि सुपुष्कलम् । ।६३ । ।
कृत्वा कुम्भान् सुसंपूर्णान् गन्धमाल्यैरलंकृतान् ।
पुष्पैश्च विवधाकारैरभ्यर्च्य द्विजसत्तमान् । ।६४।।
भक्ष्यभोज्यैः सुप्तृप्ताँस्तान्५८ तिलपात्राणि दापयेत् ।
दक्षिणां पुष्कलां दाद्यत् तेभ्यस्तां५९ स्पर्शयेत्ततः ।।६५।।
आपः शिवाश्च सौम्याश्च तर्पयन्तु पितॄन्मम ।
कामगाः कामदातारो भवन्तु पितरः सदा६० । ।६६।।
एवं दत्त्वा तु तां धेनुं पुनः क्रीत्वा६१ च वै तदा ।
वाहयेत्तत्६२ प्रपां देव्यो६३ ब्रह्मलोकसमर्पणीम् ।। ६७। ।
तिलपात्राणि दत्त्वा६४ च तथा वस्त्रयुगं नवम् ।
सुवर्णस्य च सान्निध्यं६५ फलानि विविधानि च ।।६८। ।
ततो दद्याच्छुचिः स्नातो ब्राह्मणेभ्यो यथाविधि ।
- - - - - - - - - - - - - - - - । ।६९ । ।
घृतं गावः प्रसूयन्ते घृतं भूम्यां प्रतिष्ठितम् ।
घृतमग्निश्च देवाश्च घृतं मे संप्रदीयताम् । ।8.111.७० । ।
एवं विधानतो दत्त्वा ब्रह्मलोकमवाप्नुयात् ।
यो नरो गां प्रयच्छेत सवत्सां कांस्यदोहनीम्६६ । ।७१ । ।
हेमशृङ्गीं रूप्यखुरां६७ दुकूलक्षौमवासिताम् । ।
शय्यास्तरणसंपन्नां बहुपुष्पफलैर्युताम् ।।७२ । ।
ब्राह्मणांस्तर्पयित्वा तु गन्धमाल्यैरलंकृताम् ।
दानकाले ततस्तस्याः सुरा गात्राणि६८ संश्रिताः ।७३ । ।
ब्रह्मा तस्याः स्थितो मूर्ध्नि शक्रोपानं६९ समाश्रितः ।
चन्द्रादित्यौ च नेत्रस्थौ घ्राणे७० वायुः प्रतिष्ठितः७१ ।।७४। ।

५६ सभां - क. । ५७ तडागान् - क ख. । ५८ सुतृप्तानां - क ख. । ५९ तेभ्यस्ताः क.। ६० भवत्विति च पैदयत् - ख. । ६१ कृत्वा - क. । ६२ वहायेति - क. । ६३ देवि - क. ख ६४ यो दद्यात् - क. । ६५ सान्नैध्यं - ख. । ६६ कांसदोहनीम् - क., कामदोहनीम् - ख.,.. ६ दोहिनीम् क। ६७ रूक्मखुरां - क. । ६८ शास्त्राणि - क. । ६९ शक्रः पादं - घ. । ७० प्राणे - घ ७१ प्रभञ्जनः - क. ।

588
मुखं तस्याः श्रितो वह्निर्जिह्वा सोमः स्वयं प्रभुः ।
कर्णयोस्तु दिशः सर्वाः शिरा७२ रुद्राः समाश्रिताः ।।७५। ।
पादयोर्लोकपालाश्च७३ सर्वेस्थीनि च पर्वताः ।
समुद्रास्सप्त जठरे ग्रीवायां तपनाः श्रिताः । ।७६ । ।
सास्नां गङ्गा सरिच्छ्रेष्ठा पार्श्वयोर्वसवः७४ शुभाः ।
प्रजापतिरुपस्थश्च मूत्रं७५ तीर्थानि सर्वशः ।।७७। ।
पुरीषं श्रीरभूत्तस्या नागाश्चास्त्राणि सर्वशः ।
साध्या विश्वेथ लोकाश्च पुच्छमाश्रित्य संस्थिताः ।।७८।।
मन्त्रा यज्ञाश्च दानानि यमाश्च७६ ऋषिभिस्सह७७ ।
नक्षत्राणि ग्रहाश्चैव तारारूपाणि यानि च । ।७९। ।
गायत्री चैव त्रिष्टुप् च जगती पंक्तिरेव च ।
अनुष्टुबृग्यजुश्चैव७८ सामान्याथर्वणं७९ तथा । ।8.111.८ ० । ।
लोकस्य मातरश्चैव मेघा वर्षमथापि८० च ।
धर्मो नारायणश्चैव भूतानि सरितस्तथा । ।८ १ । ।
रोमकूपानि संश्रित्य तस्या देवा व्यवस्थिताः ।
यक्षाश्च राक्षसाश्चैव पिशाचाः पक्षिभिः सह । ।८२ । ।
यज्ञाश्च दक्षिणाश्चैव तथा चाप्सरसः शुभाः ।
गन्धर्वाश्च महात्मानो ये चान्येप्येवमादयः । ।८३
तस्या विषाणयोर्व्यास सर्व एव समाश्रिताः ।
फलानि यज्ञदानानां गतयश्च८१ पृथग्विधाः । ।८४। ।
वत्सं समाश्रिताः सर्वे सर्वं८२ देवमयं शुभम् ।
देवैरध्यासितां तां तु सर्वलोकनमस्कृताम्८३ ।।८५।।

७२ शिरो - क. । ७३ स्यात् क, लोकापालाः स्यु - घ । ७४ पार्श्वे तु वसवः - क । ७५ मूर्त्तं - क. । ७६ नियमा - घ, यमानि - क । ७७ नियमैः सह (?) । ७८. प्च यजुश्चैव व - क. । ७९ सामगाथिवर्णं - घ । ८० ऋतुवर्षमथापि - घ. । ८१ ऋ (क्र) तवश्च - घ । ८२ सर्वे - क, सर्वदेवमयं (?) । ८३ सर्वैर्हस्तद्वयेन तु - क. ।

589
विप्रेभ्यो८४ मन्त्रवद्धस्ते प्रदद्यात् सुसमाहितः ।
कुशान्८५ सुवर्णं बीजानि८६ तिलान् सिद्धार्थकाँस्तथा८७ ।।८६।।
प्रदद्याद् गां ततोद्भिस्तु८८ मन्त्रेणानेन सुव्रत८९ ।
सर्वदेवमयीं दोग्ध्रीं सर्वलोकमयीं तथा ।।८७। ।
सर्वलोकनिमित्ताय सर्वलोकहिताय च९० ।
प्रयच्छामि महासत्वामक्षयाय शुभामिति । ।८८।।
एवं स दत्त्वा तां गां तु यत्र यत्र प्रजायते ।
तत्र तत्र गता सा तं९१ जन्तुं तारयते भयात्९२ । ।८९। ।
सर्व९३ कामदुहा९४ चैव सर्वलोकप्रदा तथा ।
सर्वज्ञानप्रदा चैव सर्वयज्ञफला तथा । ।8.111.९० ।।
सर्वांल्लोकान् तया९५ गत्वा रमते च यथामरः ।
इह जातश्च तामेव कामगां संप्रपद्यते । ।९ १ । ।
स तया९६ मानुषो जातो गोसहस्री महाबलः ।
रूपवान् धनवांश्चैव बहुपुत्रश्च जायते । । ९२ । ।
प्रसूयमानां यो गां तु दद्यादुभयतोमुखीम् ।
यथोक्तेन विधानेन स जातिस्मरतां लभेत् । ।९३ ।।
यस्तु गां संप्रयच्छेत ब्राह्मणेभ्यो यथातथम् ।
तमप्यसौ भयार्थेभ्यस्त्रायते नरकादपि । ।९४। ।
कृष्णाजिनं च यो९७ दद्याद् व्रतिने ब्रह्मचारिणे ।
पृथिवीफलमाप्नोति योगश्चास्य प्रवर्तते । ।९५ । ।
योगिभ्यो ब्रह्मचारिभ्यो ब्राह्मणेभ्यो यतात्मवान् ।
यः प्रयच्छेदावसथं सोश्वमेधफलं लभेत् ।।९६। ।
आप्तोर्यामं पौण्डरीकं गोसहस्रञ्च विन्दति ।
स्मृञ्च परमा लब्ध्वा योगमाप्नोति सुव्रताः । । ९७। ।

८४ विप्राय (?) । ८५ दशां - घ । ८६ सुवर्णबीजानि - क. । ८७ सिद्धान्तकाँस्तथा - घ. । ८८ गास्ततोद्भिस्तु - क. । ८९ सुव्रताः (?) । ९० सर्वदेवनमस्कृता - क ख. । ९१ सान्ते - ख, शान्तं - क । ९२.. क्षपात् - क. । ९३ तथा क । ९४ कामदुघा - घ । ९५ तथा - घ. । ९६ तदा - ष । ९७ ततो - घ. ।

590
कमण्डलुं तु यो दद्याद् ब्राह्मणाय नरोत्तमः ।.
स तेन कर्मणा देव्यो धर्मनित्यत्वमाप्नुते९८ । ।९८। ।
व्याधितं यस्तु विप्रर्षे९९ दीनं मूढमचेतसम् ।
उद्धरेत यथाशक्त्या स मुच्येद् ब्रह्महत्यया । ।९९।।
यः सुवर्ण प्रयच्छेत दरिद्राय द्विजातये ।
दशानामश्वमेधानां फलं प्राप्नोति देवताः । ।8.111.१ ०० ।।
यश्चैवेमानि सर्वाणि दानान्युक्तानि कृत्स्नशः ।
ददाति युगपद्देव्यः स पृथ्व्यामेकराड् भवेत्१०० ।। १०१ । ।
इदं यः शृणुयान्नित्यं दद्याच्चैव स्वशक्तितः ।
पठेत च महाभागाः सोपि गच्छेत् त्रिविष्टपम् । । १०२ ।।
 इति स्कन्दपुराणे एकादशोत्तरशतोध्यायः१०१

देव्युवाच१
देव्याः शृणुत भूयोपि यथा दानं विना शुभाः ।
अयमेवोपवासेन यथा धर्मोभिलभ्यते । । १ । ।
एकभक्तेन यो देव्यो मासं मार्गशिरं क्षपेत् ।
स तेन कर्मणा देव्यो गोमान् भवति नित्यशः । ।२। ।
पौषमासेन३ पुत्राँश्च बहूनाप्नोति धार्मिकान् ।
माघमासे च कुर्वाणो भूयः प्राप्नोति वै प्रियाः४ । । ३ ।।
एकभक्तन्तु कुर्वाणः फाल्गुने मासि नित्यशः ।
स्त्रीषु सौभाग्यमाप्नोति स्त्रियश्च परमप्रियाः ।।४। ।
यः क्षपेदेकभक्तेन चैत्रमासं नरोत्तमः ।
धनधान्यसमृद्धे स५ कुले जायेत रूपवान् । ।५। ।

९८ धर्मन्नित्यत्वमाप्नुते - ९९ विप्रर्षि (?) - क । १०० पृथिव्या सैकराड् - क ख, मुच्यते भयात् - घ । १०१ दानध्यायः ११० - घ. ।
१ सनत्कु - क, प र्वत्युवाच (?) । २ धर्मोपि लभ्यते - क । ३ पौष्यमासेन - क. । ४ प्रिया (न्) - क । ५... समृद्धेषु - क. ।

591
वैशाखं यः क्षपेन्मासमेकभक्तेन मानवः ।
याति स श्रेष्ठतां लोके पूजितो धनवानपि ।। ६ ।।
ज्येष्ठमूलं तु यो मासमेकभक्तं समाचरेत् ।
भ्रातॄणां भवति ज्येष्ठो भोगं प्राप्नोति पुष्कलम् । ।७।। ।
आषाढं चापि यो मासमेकभक्तं समाचरेत्७ ।
स राज्ञो मान्यतां प्राप्य कामानाप्नोति पुष्कलान् । ।८। ।
श्रावणे चापि यो मासे तथा चैवाचरेन्नरः ।
सेनापत्यं स संप्राप्य बलवानभिजायते । ।९।।
यस्तु भाद्रपदं मासमेकभक्तं समाचरेत् ।
स तेन कर्मणा देव्यो धनवानभिजायते । । 8.112.१० ।।
योपि चाश्वयुजं मासमेकभक्तेन तिष्ठति ।
वाणिज्यं फलते तस्य कृषिः पशुगणास्तथा ।। ११ । ।
कार्तिकं त्वपि यो मासमेकभक्तेन तिष्ठति ।
सोश्वमेधफलं प्राप्य वह्निलोके महीयते ।।१ २ । ।
यः क्षपेदेकभक्तेन यावज्जीवं नरोत्तमः ।
विमानेनार्कवर्णेन शक्रलोकं स गच्छति८ । । १३ । ।
संवत्सरं तु यः पूर्णमेकभक्तेन तिष्ठति ।
स पार्थिवसमो भूत्वा महीं पाति महेन्द्रवत् ।। १४। ।
अहोरात्रं तूपवासं कुर्यादेकं नरोत्तमः ।
दशानां स सुवर्णानां फलं प्राप्नोति शोभितम् । ।१ ५ । ।
मासे मासे त्वहोरत्रं यः करोति नरोत्तमः ।
स तेन कर्मणा शुद्धो विद्वान् भवति धार्मिकः । । १ ६। ।
चतुर्दशीमष्टमीं च पक्षयोरुभयोरपि९ ।
अहोरात्रं क्षपेद्यस्तु सम्वत्सरमशेषतः । । १७।।
स तेन कर्मणा युक्तः सर्वपापविवर्जितः ।
न याति नरकं देव्यो यमञ्च न स पश्यति ।। १ ८। ।


६ चैव - ख. । ७.. मेकभक्तेन वै क्षपेत् - ख. । ८ स गच्छेच्छक्रलोकताम् - क. । ९ उभयोः पक्षयोरपि - क. ।

592
मासे मासे च यः कुर्यात् त्रिरात्रक्षपणं बुधः ।
कौबेरं लोकमासाद्य स विन्देत् परमं सुखम् ।।१९। ।
चतुर्थेहनि यो भुंक्ते प्रयतात्मा शुचिर्नरः ।
गान्धर्वं स पदं प्राप्य मोदते शक्रवद्दिवि । ।8.112.२० । ।
पञ्चमेहनि यो भुंक्ते प्रतिमासमतन्द्रितः ।
वायुलोकं१० समासाद्य स्वर्गलोकं स गच्छति ।।२ १ ।।
यो भुंक्ते दिवसे षष्ठे नित्यं नियममास्थितः ।
वारुणं लोकमासाद्य सोपि विन्देत् महत्पदम् ।।२२।।
सप्तमेहनि यो भुंक्ते जितद्वन्द्वो दृढव्रतः ।
आदित्यलोकमासाद्य सोपि विन्देत् महत्पदम् ।।२३ ।।
अष्टमे चैव११ यो भुंक्ते दिवसे मानवः शुचिः ।
वैष्णवं लोकमासाद्य स भवेत् परमद्युतिः ।।२४। ।
नवमेहनि यो भुंक्ते नरो नियममास्थितः ।
स वसूनां प्रियो भूत्वा चरते वसुभिः सह ।।२५। ।
दशमेहनि भुक्त्वा तु दशाहस्य फलं लभेत् ।
अश्विभ्यां च समो भूत्वा सूर्यवज्ज्वलते सदा ।।२६। ।
मानुष्यञ्च पुनः प्राप्य दशभार्या लभेत सः ।
सुबर्णमक्षयं चैव न चाकाले१२ म्रियेत सः ।।२७।।
एकादशे तु यो भुंक्ते दिवसे मानवः शुचिः ।
एकदश्याः फलं प्राप्य स रुद्रगणतां लभेत् ।।२८।।
स्थित्वा तत्र शतान्यष्टावतिसौख्यसमन्वितः१३ ।
ब्राह्मणत्वमनुप्राप्य यज्वा स इह जायते ।।२९।।
द्वादशे दिवसे यस्तु१४ देव्यो भुंक्ते सदा नरः ।
द्वादशाहं स संप्राप्य१५ शक्रलोकमवाप्नुयात् ।।8.112.३ ० ।।

१० वायुलोके - क. । ११ अष्टमेहनि - क. । १२... काङ्क्षं - क. । १३ . वन्ति (न्ते) सौख्यसमन्वितः - ख. । १४ चैव दिवसे - ख. । १५ समासाद्य - घ. ।

593
तत्रोष्य स सुखं भूय इह जातो नरोत्तमः ।
राजा वा राजमात्रो वा धन्वा१६ वा सुमहान् भवेत्१७ । । ३१ । ।
त्रयोदशे तु यो नित्यमश्नाति दिवसे नरः ।
वसेत्१८ स भार्गवस्थानं प्राप्य दिव्यसुखान्वितः । ।३ २ । ।
अथ चेन्मानुषो भूयस्स नरो जायते 'शुभाः१९ ।
धनधान्यसमाकीर्णे जायते सत्कुले२० शुभः ।।३ ३ ।।
चतुर्दश तु यो नित्यं दिवसानि क्षपेन्नरः ।
तौषितं लोकमासाद्य भवेद् गणपतिर्वरः । । ३४। ।
अर्धमासं क्षपेद्यस्तु नित्यमेव ह्यतन्द्रितः ।
देवराजेन तुल्योसौ भूत्वा स्वर्गेवतिष्ठति । । ३ ५। ।
इह राजा महाभूमौ भूय एवाभिजायते ।
यस्तु मासं क्षपेद्धीरो जितक्रोधो जितेन्द्रियः ।। ३ ६। ।
 विमानेन स दिव्येन अप्सरोभिस्समावृतः ।
पूज्यमानो यथा देवः स्तूयमानश्च सर्वशः । । ३७ । ।
ज्वलन्नादित्यसंकाशो२१ नित्यं सुखमुपाश्नुते२२ ।
सर्वलोकेषु वसते बहून्यब्दायुतानि२३ तु । । ३ ८।
ततो ब्रह्मसदं प्राप्य ब्रह्मणा स सुपूजितः२४ ।
ब्रह्मलोके निवसते यथा ब्रह्मा नरोत्तमः । । ३९ । ।
अथ चेत्पुनरायाति ब्राह्मणो भवतीश्वरः ।
योगञ्च तत्र लभते योगैश्वर्यं२५ समश्नुते२६ । ।8.112.४० । ।
योगीशस्स ततो भूत्वा शम्भोर्गणपतिर्भवेत् ।
सर्वेषां चोपवासानां विधिं परमपुण्यदम् । ।४१ । ।
देव्यः शृणुध्वं मत्तोन्यं यथावदनुपूर्वशः ।
स्नातः शुचिरथाचान्तो हुताग्निः सुसमाहितः२७ ।।४२ । ।

१६ धनी - (?) । १७ स महान् भवेत - ख । १८ विशेत् - क । १९ शुभः - ख । २० स कुले - क. । २१ ज्वलनादित्यसंकाशो - क । २२ सुखं नित्यं समश्नुते - ख । २३ बहूनब्दायुतान् - क. ख । २४ सुपूज्यते - क. । २५ य (ये) नैश्वर्यं - क । २६ समन्वितः - ख. । २७ सुममीहितः - क. ।

594
दीक्षयित्वा तथा२८त्मानमुपवासं चरेद् बुधः ।
स्नायात्२९त्रिषवणं चैव जुहुयादग्निमेव च ।।४३।।
वाग्यतो क्रोधनो दान्तो धार्मिकः सत्यवाग् घृणी ।
जपन्सदैव गायत्रीं पवित्राणि च नित्यशः ।।४४।।
रुद्रानथ गणान् वापि रात्रौ च स्थण्डिलेशयः ।
कुशानास्तीर्य विधिवत् स्त्रीशूद्रैः परिवर्जितः ।।४५।।
समश्नीयात्३० ततो देव्यो वीतशोको३१ विमत्सरः ।
यावन्त्यहानि तिष्ठेत तावद्विप्राँस्तु भोजयेत् ।।४६। ।
ततः पूर्णे तु काले वै ब्राह्मणानां शतं वरम् ।
सहस्रमथवा शक्त्या पूजयित्वा तु सर्वशः ।।४७।।
हविष्यं भोजनं दत्त्वा गाश्च३२ वासांसि च क्रमात् ।
सुवर्णं तिलपात्रं च एकैकस्य प्रदापयेत् ।
ततस्तत्फलमाप्नोति यदन्यैर्दुर्लभं व्रतैः ।।४८।।
वृषभं यस्तु नीलाङ्गमुत्सृजेत नरोत्तमः ।
अन्यं वापि महाभागाः३३ स पितॄँस्तारयेन्नरः ।।४९।।
यावन्ति तस्य रोमाणि वृषभस्य महात्मनः ।
तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ।।8.112.५०।।
तिलपात्राणि यो दद्याद्विप्रेभ्यः शुद्धमानसः ।
अमावास्यां समासाद्य कृष्णानां (?) सुसमाहितः ।।५१।।
स पितॄँस्तर्पयित्वा तु अक्षयं नरपुंगवः ।
पितृलोकं समाप्नोति चिरञ्च सुखमश्नुते ।।५२।।
उपवासविधिस्त्वेष कथितो मे शुभाननाः३४ ।
चान्द्रायणविधिं भूयः शृणुध्वं सुसमाहिताः ।।५३।।
यस्तु चान्द्रायणं कुर्याद्यथोक्तं सुसमाहितः ।
स सोमलोकमासाद्य सोमेन समतां व्रजेत् ।।५४।।

२८ ततो - क ख. । २९ स्नायेत - क., स्नातः - ख. । ३० सपत्नी.. - ख. । ३१ विशोको प्रो.. ख. । ३२ गावो - क । ३३ महाभागान् - क., महाभाग - ख. । ३४ सुशोभनाः - क. ।

595
प्राजापत्यं तु३५ यः कुर्यादेकशो बहुशोपि वा ।
प्रजापतिसमो भूत्वा तस्य लोके महीयते । ।५५। ।
यस्तु सान्तपनं कृच्छ्रं करोति नरसत्तमः ।
आत्मानमुद्धरेत् कृच्छ्रात् सोग्निलोकं च गच्छति३६ । ।५६। ।
महासान्तपनं यश्च करोति सुमहामनाः ।
सर्वज्ञतामवाप्नोति ब्रह्मलोकं च विन्दति । ।५७।।
तुलापुरुषकं यश्च कुरुते द्विजसत्तमः ।
स मुक्तस्सर्वपापैस्तु गच्छेत३७ दिवमूर्जितः३८ ।।५८।।
अतिकृच्छ्रेण तु नरः शर्वस्य३९ भवनं व्रजेत् ।
कृच्छ्रातिकृच्छ्रेण तथा गाणपत्यमवाप्नुयात् । ।५९। ।
यस्तु सर्वाणि कृच्छ्राणि कुरुते नरसत्तमः४० ।
स यं प्रार्थयते कामं तमेव समुपाश्नुते ।। 8.112.६० । ।
यस्य कस्यचिदेतेषां४१ कर्ता स्यात्४२ सुसमाहितः ।
स तेन शुद्धो४३ भवति देवत्वञ्चापि विन्दति ।।६ १ । ।
पयोभक्षस्तु यो नित्यं नरः संवत्सरं वसेत् ।
यावकं चोपयुञ्जानो गोमूत्रेणाभिसंस्कृतम् । ।६२ । ।
पिण्याकफल(?) भक्षो४४ वा अक्षारलवणोपि वा ।
सोश्वमेधफलं प्राप्य ब्रह्मलोकं समश्नुते । । ६३ ।।
सर्वपापविनिर्मुक्तो विमुक्तस्सर्वबन्धनैः ।
विमानेनार्कवर्णेन ब्रह्मवच्चरते च सः४५ । । ६४। ।
यस्त्वेतान्येव४६ सर्वाणि व्यस्तानि नरसत्तमः ।
यावदुच्छ्वासमाशेते महात्मा नष्टकिल्विषः ।।६५। ।
स लोकान्वा महासत्वो यथेष्टान् मोक्षमेव वा ।
ऐश्वर्यं वा महत् प्राप्य दीप्यमानोवतिष्ठते४७ । ।६६। ।

३५ च - ख. । ३६ समश्नुते - ख. । - ख. । ३७ गच्छते - ख. । ३८ दिवि पूजितः - क., दिविमूर्जितः - ख । ३९ सर्वस्य - क. । ४० स नरोत्तमः - क. । ४१. देतेव - क., देवेह - ख. । ४२ कृच्छ्रस्य - क ख. । ४३ सिद्धो - क. । ४४ भक्तो - ख. । ४५... व स (श)ः - क । ४६ यश्चैतान्येव - क । ४७ दीव्यमानो- वतिष्ठते - ख. ।

596
एतान्येव च सर्वाणि दानानि च तपांसि च ।
विना मन्त्रेण सततं शूद्राणामपि सर्वशः । । ६७। ।
विधीयते न सन्देहो एवमाह प्रजापतिः ।
अमन्त्रास्ते स्मृताः सर्वे शूद्रा विगतकल्मषाः । । ६८। ।
स्त्रीणां तु दैवतं४८ भर्त्ता न ततोन्यद्विधीयते ।
स गतिः परमं धाम स धर्मः परमः स्मृतः । । ६९।।
तेन या त्वभ्यनुज्ञाता इमं४९ धर्मं समाचरेत् ।
सा फलं तस्य धर्मस्य प्राप्नोति सुसमाहिता । ।8.112.७० ।।
या तु तेनाननुज्ञाता धर्मं किञ्चित् समाचरेत्५० ।
न तत्फलं सा लभते लभते च सती फलम् ५१ ।। ७१ ।।
या तु भर्त्राभ्यनुज्ञाता५२ कृत्वा धर्मं सुपुष्कलम् ।
दद्यात्तु पत्युर्या५३ नारी तस्यानन्तं भवेत्५४ फलम् । ।७२। ।
यच्च प्रार्थयते किञ्चिदिह लोके परत्र वा ।
तत्सर्वं प्राप्नुते५५ देव्यः सुभगा चापि जायते५६ । ।७३ । ।
वश्यश्चास्या भवेद् भर्त्ता प्रिया तस्य च सा तदा ।
पुत्रप्रजा च भति न च दुःखं समश्नुते । ।७४। ।
एष धर्मो मयाख्यातो युष्माकं लोकमातरः ।
अतो भूयश्च किं त्वन्यच्छ्रोतुमिच्छथ शोभनाः । ।७५ । ।
अयं हि धर्मः सुमहानतिप्रभः सुदुष्करश्चाप्यकृत्मभिर्वराः ।
न चैनमन्यस्य५७ शठस्य कस्यचिदधर्मिणो वा कथयीत धर्मवित्५८ । ।७ ६ । ।
सनत्कुमार उवाच
ततस्ताः सहिताः सर्वा देव्यो लोकस्य मातरः ।
पूजयित्वा महादेवीमूचुः संहृष्टचेतसः । । ७७ । ।

४८ देवता - क । ४९ इदं - क ख । ५० कुर्याच्छुचिस्मिते - ख, कञ्चित् समगचरेत् (?) । ५१ चासतीतफलं - क । ५२ ह्यनुज्ञाता - क । ५३ पतये ( पत्ये या?) - क ख । ५४ तस्यानन्त्यं हि तत, - क । ५५ प्राप्यते - क. । ५६ चाभिजायते - ख । ५७ न चैवमन्यस्य - घ । ५८ इतः परम् इति श्रीस्कन्दपुराणे उमासावित्रीसंवादे एकादशोत्तरशततमोध्यायः, इत्यनन्तर स्त्री धर्मविषयक शतरूपा ब्रह्मसंवादरूपः सावित्रिकर्तृको?पदेशात्मकः प्रायः - पंचचत्वारिंशच्छ्लोकात्मको ग्रन्थोधिक उपलभ्यते घ पुस्तके, स च प्रक्षिप्त इत्यस्माभिरत्रोपेक्षित इति ।

597
अहो धर्मस्त्वयाख्यातः सर्वामरनमस्कृते ।
यस्य संसेवनात् क्षिप्रं प्राप्यते सुमहत् फलम् । ।७८।।
इतो वीक्षामहे देवि गिरेरस्य वनं शुभम् ।
पुष्पजातिसमाकीर्णं बहुपक्षिगणावृतम् । ।७९। ।
तत उत्थाय सा देवी सहिता देवमातृभिः ।
मन्दरस्य गिरेर्दिव्यं द्रष्टुं तद्वनमुत्तमम् ।।8.112.८ ० । ।
विचचार महायोगा चक्षुर्दत्वा सुखापहम५९ ।
मानश्शिलानि शृङ्गाणि सौवर्णानि च वीक्षती । ।८१ । ।
रम्याणि सिततोयानि गिरेः प्रस्रवणानि च ।
सरांस्युत्पलपूर्णानि वापीश्च सुमनोहराः ।
तुतोष गिरिजा दृष्ट्वा पार्श्वसंस्थं च नन्दिनम । ।८२ ।।
तदा६० शुभावती नाम मेरुकन्या सुमध्यमा ।
उवाच हिमवत्पुत्रीं दर्शयंती शुभं वनम् । ।८३ । ।
इदं पर्वतकन्ये त्वं पश्य केलिकलाशुभम् ।
वनं सर्वर्तुसंपन्नं यथाधित्वं सुभाषितम् (?) । ।८४। ।
अयं प्रसूते सुमहान् सपर्वस्यास्य शोभने (?) ।
विदुषामथ कृच्छ्रेषु यथायुक्तं सुभाषितम् (?) । ।८५।।
तथा स्वर्णोपलो भाति गिरेः शिखर उत्तमः ।
यथा लक्षणवद्विद्वान् प्रगीय इव सामगः । ।८६। ।
अयं च मणिमान्नित्यं शैलाग्रः६१ प्रतिभास्वरः ।
भाति उद्यन्निवादित्य उभयस्तो महायुगे (?) । ।८७।।
अयं वैदूर्यशिखर इन्द्रनीलतलोपलः ।
भाति शर्वाणि६२ विभ्राणः६३ स्थलेश्वरहरोपरि (?) ।।८८।।
अयं मत्तो गजो मत्तः करेणुभिरिवावृतः ।
कृत्वाभ्यंजनयः सुभ्रु पल्लवः शिरसा नतः । ।८९।

५९ र्देहसुखावहम् - क. । ६० ततः - घ. । ६१ शिलेग्र घ । ६२ सर्वाणि घ। ६३ शुभ्राणि घ।

598


अहो सुरूपं६४ पश्येमं वनराजियुतं६५ शुभे ।
यौवराज्येभिषिक्तं वै जयंतमिव चामरैः । ।8.112.९० । ।
पादपं चैव६६ शर्वाणि पश्यैनं करपल्लवैः ।
मातुः समीपे नृत्यन्तं पुत्रं प्रियमिवौरसम् । ।९१ । ।
मन्ये प्रियावासमिमं देवताया वनस्य ह ।
अतीव दृश्यते शोभा नेदृशी दृष्टवत्यहम् ।।९२।।
सनत्कुमार उवाच
तस्यास्तद्वचनं श्रुत्वा शुभावत्या गिरेः सुता ।
निरैक्षिष्ट६७ तरुं बालं६८ हिमवत्तनयाव्यया ।।९३।।
तथा सा६९ देवदेवी तं७० विचरन्ती महागिरौ७१ ।
अपश्यद्बालसूर्याभं बालाशोकं सुपुष्पितम् ।।९४।।
आताम्रपल्लवशतैः कृत्वाञ्जलिमवस्थितम्७२ ।
तं दृष्टवा गिरिजा देवी परां प्रीतिमगान्मुने । ।९५।।
मनसाचिन्तयच्चैव पुत्रोयं पादपो मम ।
एष मे तनयः श्लाघ्यो भविता नन्दिवर्धनः ।।९६।।
भगवत्यागते ह्येनमनुज्ञाता स्वयंभुवा ।
ग्रहीष्यामि प्रियं पुत्रं वालाशोकस्य पादपम्७३ । ।९७ ।।
मम चायमपुत्राया७४ भविता पादपोत्तमः ।
पुत्रः पुत्रवतां७५ श्रेष्ठाः पुत्रशोकविनाशनः ।।९८।।
सनत्कुमार उवाच
सैवं विनिश्चित्य तदा पादपं प्रति शोभना ।
अन्यं देशं पक्रिम्य उमा तत्राभ्यपश्यत ।।९९ ।।
अथास्मिन्नन्तरेभूवन्नुत्पातास्तत्र भीषणाः७६ ।
वायुवेगो महानासीद् गिरिवृक्षनिपातनः ।।8.112.१० ० ।।

६४ अहोस्य रूप - घ. । ६५ वनराज्ययुतं (?) । ६६ पादपैरेव - घ. । ६७ निरीक्ष्य... - घ. । ६८ तं तरुं सम्यग् - घ- । ६९ ततस्सा - क. । ७० तु - क. । ७१ महागिरिं - क. । ७२ कृताञ्जलिमवस्थितम् (?) । ७३ बालाशोकं सुपादपम् - क. । ७४ ममैवायमपुत्राया - घ. । ७५ पुत्रवती - घ. । ७६ तत्र उत्पातोतीव भीषणः - क. ।

599
शिखरं पर्वतेन्द्रस्य अपतद्७७ व्यसनं विना ।
पादपाश्च विना वातमुन्मूलाः संबभूविरे । ।१ ०१ ।।
उल्काः पतन्ति चाकाशाद्वाति७८ वायुरशोभनः ।
अक्षि सव्यं स्फुरच्चापि देव्यास्तत् कालिनन्दन । ।१ ० २।।
तान् वीक्ष्य७९ विस्मिता देवी शैलादिमिदमब्रवीत् ।
सखीश्च८० सर्वकालेया इदं वचनकोविदाः । ।१ ०३ । ।
देव्युवाच
प्रमत्तो भाति शैलोयं८१ वृक्षैस्तैः सर्वतो युतः ।
भयं महदिदं मन्ये नैतदाकस्मिकं स्मृतम् ।। १ ०४।।
न चानिमित्तमुत्पाता८२ भवन्त्येते दुरासदाः ।
तथा कुरु यथा मे८३ नो भयं यच्छन्त्यशोभनाः । ।१ ० ५। ।
ततो नन्दी प्रणम्याह देवदेवीं कृताञ्जलिः ।
कुतो भयं भवानि त्वां या त्वं माता दिवौकसाम् ।।१ ० ६। ।
सनत्कुमार उवाच
तस्यैवं वदतो व्यास देवीं विश्वस्य मातरम् ।
अन्धकोपि तदा दैत्यः८४ पातालान्मन्दरं ययौ ।।१ ०७।।
प्रह्लादप्रमुखैर्दैत्यैर्दानवैश्च सहस्रशः ।
वृतः श्रीमान् महादैत्यः शक्रो देवगणैरिव ।।१ ०८।।
स दैत्यानां मतेनैव वरिष्ठानां महासुरः ।
आगतो मन्दरं द्रष्टुं यथेन्द्रो नन्दनं वनम् ।। १० ९।।
प्रह्लादश्चानुह्रादश्च शिनिर्बाष्कलिरेव च ।
तुण्डस्तुहुण्डो८५ वातापी बलिर्बाणो विरोचनः ।।8.112.१ १० । ।
इल्वलो नमुचिर्व्यंसो विप्रचित्तिर्महासुरः ।
सुन्दो निसुन्दो नरको धेनुकोरिष्ट एव च ।। १११ । ।

७७ अपश्यद् - घ. । ७८... द्ववौ - घ. । ७९ दृष्ट्वा - घ. । ८० सख्यश्च - घ. । ८१ शैलश्च - घ. । ८२ नह्यनिमित्तमुत्त्पाता - घ. । ८३ यथेमे (?) । ८४ तथा - घ, नाम दैत्येन्द्रः - घ. । ८५ कुंडो भुकुंडो - घ. ।

600
मुरः८६ कार्त्तस्वनश्चैव हस्ती दुर्योधनो मयः ।
तारकस्तारकाक्षश्च विद्युन्माली प्रभाकरः । ।१ १ २। ।
हालाहलश्च कुम्भश्च संवरः कालसंवरः ।
धुन्धुस्तथेन्द्रदमनो हयग्रीवः शतोदरः । ।१ १३ । ।
मेघनादः सिंहनादो दुन्दुभिः शतदुन्दुभिः ।
कालनेमिर्बको दंडो विपाकः पाक एव च । । १ १४। ।
वृषपर्वा शतावर्तः पुलोमा शरभस्तथा ।
बलो गगनमूर्धा च सूचीरोमा महायशाः । । १ १५। ।
असिलोमा प्रलम्बश्च शंभुर्देवान्तकस्तथा ।
महिषो भीमसेनश्च वायुर्वादित्र८७ एव च । ।
अन्धकानुचराप्येते८८ मंदरं समुपागताः । ।१ १ ६। ।
ते शस्त्रवंतो जितदेवसंघा महानुभावा धर्मपथच्युताश्च ।
सर्वे च शूरा ह्यनिवर्तिनश्च सहान्धका मन्दरगा बभूवुः । । १ १७। ।
सनत्कुमार उवाच
तद् गजानामिव कुलं मत्तानां कालिनन्दन ।
वर्षतामिव मेघानां सविषाणां सरीसृपाम् । । १ १८। ।
दर्पितानां वराहाणां महाकुलमिवोल्वणम् ।
मन्दरे दानवकुलं तथा तत् प्रचचार ह । । ११ ९। ।
सोन्धको विचरँस्तत्र८९ सखीभिः सहितां तदा९० ।
अपश्यद् देवदेवी९१ तु वृकः सिंहवधूमिव९२ ।। 8.112.१२० ।।
---
८६ सुरः - घ. । ८७ वायुरादित्य (?) । ८८ व्यास - घ. । ८९ सोन्धकः सुमहावीर्यः - क. । ९० सहपार्वतीम् - घ. । ९१ दानवः क्रूरः - घ. । ९२ श्वपाको ब्राह्मणीमिव - घ., इतःपरंः-
स पश्यन्नेव कालेय हिरण्याक्षसुतस्तदा ।
स्वपिसंत (अनिमेष) इवायोगाददृश्यत दुरात्मवान् ।। १ । ।

601
दृष्ट्वा भगवतीं देवीं स दैत्यो मूढचेतनः९३ ।
प्रणामं नाकरोद् व्यास अन्ववैक्षत९४ केवलम् । । १२१ । ।
तं दृष्ट्वानिमिषं दैत्यं पश्यन्तमचलात्मजाम् ।
प्रह्लादस्तु महाबुद्धिरिदमाह वचोर्थवत्९५ । । १२२ । ।
- -- - --- -- - -- -- - -- - -- - - --- - - -- - - --- - - - - -- -
नियत्याथ कृतान्तेन मृत्युना मदनेन च ।
कोपेनाथ दुरात्मासौ काले प्राप्ते सुरेतरः ।।२।।
अध्यासितस्तदा तैस्तु सर्वलोकवशंकरैः ।
लोकधात्रीं प्रति सोय(?) मिदं वचनमब्रवीत् । ।३।।
अन्धक उवाच
केयं सुमध्यमा ह्यत्र रूपेणाप्रतिमा शुभा ।
नेदृशी दृष्टपूर्वा मे कदाचिदपि दानवाः । ।४। ।
दिवि वा भुवि वागत्य पश्यतैनां सुमध्यमाम् ।
यदि नाम इयं भार्या कस्येयं पतिरीश्वरः । ।५ । ।
को वाहं किं च जीवामि सत्यमेतद्वचो मम ।
यस्येयं युवती भार्या चारुचित्रायतेक्षणा । ।६। ।
स्वर्गवासेन किं तस्य सुभगस्य महात्मनः ।
मिथ्याराज्यमिदं गुह्यं यस्येयं मे न कामिनी।। ७।।
बहूनि च सहस्राणि मम संति शुभानि च ।
तानि सर्वाणि दासीत्वे अस्यास्तुल्यानि दानवाः । ।८।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्यकशिपोः सुतः ।
उवाचान्धकमाश्लिष्य बहुचित्रं च कालिज ।।९।।
इति वाधिको घ. पुस्तके ।

९२ मूढचेतसः - ख. । ९४ अन्ववेक्षत - क. ख. । ९५ इत उत्तरं प्रह्लाद उवाच' इति घ. पु. पाठः ।

602
इयं लोकस्य जननी९६ हिमवत्तनयाव्यया९७ ।
उमेति जगति ख्याता८ तपोयोगबलान्विता ।।१२३।।
यस्य९९ पुत्रोभवद् ब्रह्मा प्रजापत्यं च यो ददौ१०० ।
वरेण यश्च पुत्रस्य पुत्रतां ब्रह्मणो गतः ।। १२४।।
अस्माकं देवतानाञ्च यो ददाति वराञ्छुभान्१०१ ।
आरध्यः सर्वलोकानां देवानां च महायशाः ।।१२५।।
यः स्थितः सर्वमाविश्य भूतग्राममशेषतः ।
यस्यात्मना सर्वमिदं धार्यते१०२ जगदव्ययम् ।। १२६।।
यः स्वेच्छया सर्वमिदं१०३ निमेषार्धेन संक्षिपेत् ।
पत्नीयं तस्य देवस्य परमेशस्य धीमतः ।
शक्ता हीयं जगत्सर्वं क्षणेन दितिजाधिप ।।१२७।।
दग्धुं वाप्यथवा हर्तुं१०४ क्षेप्तुं नरक एव वा१०५ ।
कथमस्याः प्रणामं त्वं नाकरोर्दैत्य मोहितः ।।१२८।।
सनत्कुमार उवाच
अथैवं ब्रुवतस्तस्य धर्मयुक्तं सुरद्विषः ।
देवीभिः सहिता देवी क्षणेनान्तर्हिता मुने ।।१२९।। ----------- -- - -- -- - - -- ।
अदृश्याः समपद्यन्त ताः स्त्रियो लोकमातरः ।।8.112.१ ३ ०।।
अथ ते तासु नष्टासु मन्दरस्य शुभं वनम् ।
पादचारेण संप्राप्ता बहुदृश्यसमावृतम् । ।१ ३१।।
बलाभिः कलनीषंडैः सातिमुक्तप्रियंगुभिः ।
चंपकैर्बकुलैर्लोध्रैरशोकैर्नागसाह्वयैः । ।१३२।।
पुन्नागैस्तिलकैश्चैव देवदारुवनैरपि ।
सरलैर्नारिकेलैश्च पद्मषंडैश्च शोभितम् ।।१३३।।

९६ जगतो जननी ह्येषा - क. । ९७ दृहिताव्यया - क. ख. । ९८ लोकविख्याता - घ. । ९९ यस्याः - क ख । १०० सर्वलोकपितामहः - क. ख. । १०१ यो वराँस्तोषितो ददौ - घ., शुभाः - क. । १०२ धारितं - ख । १०३ इच्छया सर्वमाविश्य - घ । १०४ हन्तुं - क. । १०५ च - ख. ।

603
गह्वरैश्च नितम्बैश्च गुहाभिर्निर्झरैरपि ।
न तस्माद्रमणीयं हि पृथिव्यां विद्यते क्वचित् ।। १ ३४।।
अथ ते दैत्यपास्सर्वे व्यचरन्त१०६ महागिरौ ।
बहुनिर्झरसंकीर्णे नानापादपसंकुले । । १३ ५।।
तत्र ते विचरन्तस्तु एकस्मिन्निर्झरे स्थितान् ।
सिद्धानपश्यन् सप्तर्षीन् योगयुक्तान्१०७ महामुनीन् । । १३ ६।।
उपविष्टान् शिलापट्टे मिथः कथयतः कथाः१०८ ।
धर्मयुक्ताश्च चित्रार्था मार्मिकाः१०९ सुसुखावहाः ।। १ ३७। ।
तान्दृष्ट्वा सोन्धकोपृच्छत् प्रह्लादमसुरोत्तमम्११० ।
क इमे ऋषयो ह्यत्र१११ किमर्थञ्चेह संगताः । । १ ३८। ।
तमुवाच११२ तदा धीमानसुरो११३ देवकण्टकम्११४ ।
हिरण्यकशिपोः पुत्रो बुद्ध्वा मध्यं समास्थितः ।।१३ ९।।
प्रह्लाद उवाच
एतेन्धक११५ महात्मान ऋषय११६स्सप्त संगताः ।
भृगुरत्रिर्मरीचिश्च विश्वामित्रोङ्गिरास्तथा ।।8.112.१४० ।।
भरद्वाजो वसिष्ठश्च योगसिद्धास्तपोधनाः११७ ।
इहागता महात्मानस्तपसा दग्धकिल्बिषाः ।।१४१ ।।
नैषान्निष्कारणं११८ मन्ये मन्दरागमनं प्रभो ।
इतो११९ वयमिहैकान्ते स्थित्वा सर्वेसुरेश्वराः१२०।
जानीम किमिमे कार्यमिह कुर्वन्ति साधकाः । ।१४२ । ।
एते वै निभृता भूतास्तूष्णीं१२१ कृत्वा यथाबलाः ।
मतं गृह्णीम् सर्वेषां तूष्णीं तिष्ठत दैत्यपाः ।। १४३ ।।

१०६ विचरन्तो - क ख । १०७ अपश्यन्सप्तर्षिसिद्धान् - क ख., सप्तर्षीन् तपसा शुद्धान् अपश्यन्त - घ । १०८. .कथंयस्ते महामुनीन् - घ. । १०९ कथाश्चित्रा धार्मिकाः -घ. । ११० ते सुरास्तत्र अपृच्छन्त परस्परम् घ । १११ यत्र - क, व्यास - घ. । ११२ तानुवाच - घ- । ११३... नसुरान् - घ । ११४ देवकण्टकान् - घ । ११५ चात्र - घ. । ११६ मुनय - घ. । ११७ सप्तैते ऋषयः शुभाः - घ. । ११८ नैषांनिरीक्षणम् - घ, । ११९ ततो - घ. । १२०.. .स्थिताः सर्वसुरेश्वराः - घ । १२१ भूत्वा तूष्णी (?) ।

604
सनत्कुमार उवाच
ततस्ते समयं कृत्वा स्थिता असुरपुंगवाः१२२ ।
योस्माकं तु वदेत् किञ्चिद् वध्यो नः स भवेदिति । ।१४४। ।
तत्र तेषु१२३ स्थितेष्वेवमसुरेषु दुरात्मसु ।
ऋषयस्ते तपोयुक्ता वाक्यान्यूचुः१२४ परस्परम् । । १४५। ।
न शुद्धोयं गिरेर्देशोद्य१२५ गच्छामोन्यतो१२६ द्विजाः ।
इहागमो हि दैत्यानां दृश्यते सुदुरात्मनाम् । । १४६। ।
भवान्यपि गतान्यत्र असुराणां भयार्दिता ।
असुरास्ते दुरात्मानो येषामेष क्षयो ध्रुवः । । १४७।।
गतास्ते निधनं सर्वे धर्मं ये नाशयन्नुत१२७ ।
राज्यार्थं यदि तैः क्रूरैर्न धर्मो१२८ नाशितो भवेत् ।। १४८।।
नैवं ते निधनं सर्वे प्राप्ताः स्युरमरद्विषः१२९ ।
स्वराज्यपरिसंतुष्टा१३० भवेयुर्यदि संस्थिताः ।
तेपि सर्वेषु लोकेषु बभुः पूज्याः सुरा इव । । १४९ । ।
सनत्कुमार उवाच
अंगिरास्तानुवाचेदं न तेषां कामिनं त्विह ।
राज्यहेतोः प्रवृत्तानामधर्मः ससुपस्थितः । । 8.112.१५० । ।
उपार्जयति राज्यं वै धर्म एव हि कामिनः१३१ ।
सोधर्मं नैव कुर्वीत स्थैर्यं राज्यं न१३२ किंचन । । १५१ । ।
अत्रिरुवाच
अधर्मे राज्यमिच्छन्ति जयन्ति युधि सर्वदा ।
नो१३३ प्रियाश्चैव लोकस्य भवन्ति हितजीविनः । ।१ ५२।।

१२२ प्रणम्यासुरपुंगवाः - घ । १२३ तं तस्तेपु - क ख. । १२४ वाक्यमूचुः - ख, इदमूचु - घ. । १२५ अयं देशोह्यशुद्धोद्य - घ. । १२६ गच्छामोत्र वै - क ख, गच्छामो वयमन्यतः - घ. । १२७ नाशयन्त्युत - क,.. न्तु ते - ख. । १२८.. रधर्मो - क । १२९... रसुरद्विपः - ख । १३० स्वरा- ज्यापरिसन्तुष्टा - क । १३१ कामिकः - घ । १३२ च - घ. । १३३ न (?) ।

605
धार्मिकास्त्वचिरेणैव हत्वा शत्रूनविक्लवाः ।
राज्येषु संप्रतिष्ठन्ते तस्माद्धर्मं समाश्रयेत् ।। १५३ । ।
ये तु राज्यं बलेनैव धर्मं त्यक्त्वाशुभेरताः१३४ ।
इच्छन्तोपि१३५ न तद्राज्यं प्राप्नुवन्ति कदाचन । । १ ५४। ।
अथ यत् प्राप्यते राज्यं तैस्तु क्रूरेण कर्मणा ।
न चिरं तद् भवेत्तेषां विद्विष्टाश्च भवन्त्यत ।।१५६।।
भृगुरुवाच
धर्म एष पुरा प्राप्तो१३६ ह्यसुराणां भयावहः१३७ ।
ब्रह्मणा सृष्टिकामेन न च ते वर्तयन्त्युत । । १५७। ।
स्वभावेन च ते सर्वे दारुणा वै निसर्गतः ।
दारुणाभिगमाच्चैव १३८ तत्कर्म समुपाश्रिताः ।। १ ५८।।
सनत्कुमार उवाच
असुरान्प्रति तेषां तु एवं१३९ कथयतां तदा ।
आगाद्१४० धाता विधाता च कृतान्तश्चेति ते त्रयः१४१ । ।१ ५९।।
तांस्ते संपूज्य१४२ विधिवत् परस्परमनुव्रताः१४३ ।
उपविष्टाः शिलास्वेव मनुयोपि च ते त्रयः ।।8.112.१ ६० । ।
उपविष्टाँश्चर्षयस्ताननमञ्च बहुमानतः ।
ऊचुः क्वेदं१४४ भवन्तोद्य प्रस्थिता लोकधारिणः१४५ । । १६१ ।।
धातोवाच१४६
ब्रह्मलोकाद्ध्युपावृत्य१४७ वयमद्य गता१४८ द्विजाः ।
ब्रह्मणा स्म समाज्ञप्ताः कश्यपस्य१४९ ततोन्तिकम् । ।१ ६२। ।

१३४ शुभेतराः  ? । १३५ इच्छन्ति ते (?] । १३६ प्रोक्तो (?) । १३७ जयावहः ( दयावह) ( ?) । १३८. मश्चै ( श्चै ?) व - घ । १३९ सर्वेषामेवं - क ख । १४० आगुर् ( ?) । १४१ श्च महाबल - क ख । १४२ संगृह्य - घ । १४३ म् ति प्रभाः - घ. । १४४ कस्माद् - घ । १४५ लोकचिन्तकाः - - घ. । १४६ धातौ ( धातारौ ?) ऊ व रुः - क । १४७... दुपावृत्य - ख.,.. दपावृत्य - घ, दुपावृत्ता - घ । १४८ वयमभ्यागता - घ. । १४९ काश्यपस्य - क ।

606

भूयोपि मुनयः प्रोचुः किमुक्तः कश्यपो द्विजः ।
अथा१५०ब्रवीन्मुनीन्१५१ धाता कश्यपं तु यदुक्तवान्१५२ ।।२६३ ।।
यत्त्वया ज्ञापितो ब्रह्मन् ब्रह्मा लोकपितामहः ।
असुरा अपि मे पुत्रा देवाश्चापि प्रियाः प्रभो । । १ ६४।।
तेषां नैव यथान्योन्यं वैरं स्याल्लोकभावन ।
तथा कुर्वमरश्रेष्ठ१५३ भवेयं निर्वृतस्ततः । । १ ६५।।
तत्राहं१५४ ब्रह्मणाज्ञप्तो ब्रवीमि त्वां महामुने ।
देवासुरं यथावृत्त१५५मन्योन्यं सख्यमेव च । । १ ६६। ।
अमृतोत्पादनं चैव राज्यं संस्थाञ्च१५६ कृत्स्नशः ।
त्वयोक्तं१५७ भगवान्१५८ सर्वं भविष्यमृषिसत्तम ।। १ ३७।।
कथयामास लोकेशो१५९ देवासुरविचेष्टितम् ।
निवेद्य तस्य तत्सर्वं ब्रह्मणा प्रेषिता वयम् ।
इहागता भगवतीं द्रष्टुं हिमगिरेः सुताम् ।।१ ६८ । ।
सनत्कुमार उवाच
तानेव वादिनो१६० भूय ऋषयस्ते तपोधनाः ।
पप्रच्छुर्नियतात्मानः सर्व एव तदा मुने । १ ६९। ।
देवासुराणां यद् वृत्तं भविष्यं कथितं शुभाः१६१ ।
तद्वयं१६२ श्रोतुमिच्छामो यदि वोनुग्रहे मतिः । । 8.112.१७० ।।
किञ्च विज्ञापिता देवी युष्माभिः सुरसत्तमाः ।
कथयध्वं च तत्सर्व यद्यनुग्राह्यता हि नः । । १७१ ।।
तेषां तद्वचनं श्रुत्वा त्रयस्ते देवसत्तमाः ।
त्वमाचक्ष्व कृतान्तेति वाक्यमूचुर्महाबलाः । ।१७२।।

१५० ततो - घ. । १५१ मुनिं - क. । १५२ त प्रजापतिम् - क ख । १५३ कुरु नरश्रेष्ठ - क. ख., कुरु गुरु श्रेष्ठ - घ. । १५४ पुत्राहं - घ । १५५ देवासुराणां यद् वृत्त - घ । १५६ राज्यसंथाञ्च - ख. । १५७ तस्यैवं - क. ख. । १५८ पृच्छतः - क. ख. । १५९ भूतार्थं - क. ख. । १६० तमेवं (वादिनं?) - घ. । १६१ सुराः - घ, सुताः(?) । १६२ यद्वयं - क. ।

607

ततः स तेषां बहुचित्रकारणं१६३ यथा भविष्यं कथयाञ्चकार ।
सुरासुराणां जगतश्च कारणं पुरा विधात्रा विहितं यथार्थवद् । ।१७३ । ।

इति स्कन्दपुराणे मन्दरारोहणो नाम द्वादशोत्तरशततमोध्यायः

व्यास उवाच
यत्तेषां कथितं तेन कृतान्तेन महात्मना ।
ऋषीणां मन्दरे पूर्वं तत्सर्वं कथयस्व मे ।।१ ।।
सनत्कुमार उवाच
भविष्यत्यसुराणां तु हिरण्यकशिपोः सुतः ।
इन्द्रो महाबलो विद्वान् प्रह्लादोसुरपुङ्गवः ।।२।।
सोमृतं सह देवैस्तु कृत्वा सुरगणाधिपः ।
जित्वा युद्धेमृतं देवान्नीतवान्दैत्यपुङ्गवः ।
विष्णुना निर्जितो युद्धे पुत्रं राज्येभिषेक्ष्यति । ।३।।
व्यास उवाच
कथं तदमृतं देवैरसुरैश्च महाबलैः ।
मथितं ब्रह्मणः पुत्र एतदिच्छामि वेदितुम् ।।४।।
सनत्कुमार उवाच
ब्रह्मणाभ्येत्य शक्रत्वे प्रह्लादोसुरपुङ्गवः ।
अभिषिक्तस्तदा व्यास असुरान् प्रजुगोपह ।।५।।
अथ देवैस्तदा१ संख्यमसुराणां बभूव ह ।
अमन्त्रयन्त देवाश्च भगवन्तं पितामहम् ।।६।।
देवा ऊचुः
भगवन्नसुरैर्देवा हन्यन्ते युधि मर्त्यवत् ।
न म्रियन्ते यथा देवा३स्तथाज्ञापय सुव्रत ।।७।।

१६३ बहुचित्तहारणं - क
१ मां - क. । २. स्ते - ख, ३ नामराःस्युर्यथा दैत्या - क. ख. ।

608

स एवमुक्तस्तानाह ब्रह्मा देवान्सवासवान् ।
क्षीरोदादमृतं शीघ्रमुत्पादयत गच्छत ।।८। ।
मन्वन्तरेषु सर्वेषु४ ये ये देवा भवन्ति ते५ ।
क्षीरोदादमृतं सर्व६ जनयन्त्य७ सुरैस्सह । ।९।।
तदश्नन्ति च देवेशास्तेन तृप्तिश्च जायते ।
उत्तिष्ठन्ति मृताश्चैव पीत्वा च न म्रियन्ति८ ते ।।8.113.१ ०।।
देवा ऊचुः
कथं तदमृतं देवा भुवि मन्वन्तरेश्वराः ।
उत्पादयन्ति तत्सर्वमुपायं कथयस्व नः ।।१ १।।
ब्रह्मोवाच
वारुण्यां सोमपुर्यां तु क्षीरोदं तत्सरः शुभम् ।
समुद्रा यत्र ते सप्त सदा सन्निहिताः शुभाः । ।१२ ।।
इरा९ माला सिनीवाली कुहू राका इरावती ।
सावित्री चैव गायत्री सुरभी कद्रुरेव च । ।१३ ।।
अदितिश्च दितिश्चैव देविका विश्वसंभवा ।
गावः सर्वसहा१० यत्र सर्वकामदुघाः११ शुभाः ।।१४।।
क्षरन्ति वत्सलाः क्षीरं षड्रसं ह्यमृतोपमम् ।
ऋषयः फेनपा यत्र तपोदमशमात्मकाः१२ ।।१ ५।।
ओषध्यस्तत्र याः काश्चिल्लोकेस्मिन्देवसत्तमाः ।
ग्राम्यारण्याश्च१३ दिव्याश्च मानुषाश्च सहस्रशः ।।१६।।
वृक्षान्वल्लीर्वीरुधश्च गुल्मानन्यांश्च तादृशान्१४ ।
प्रक्षिप्य भेषजञ्चैव१५ सोमं राजानमेव च ।।१७।।

४ पूर्वेषु - घ. । ५ वै - क., च - ख. । ६ सर्वं - क- । ७ जनयन्ति - क. । ८ मृयन्ति - क. ख. । ९ इरू - ख. । १० सर्वा. - ख. । ११ कामद्रुहाः - क. ख. । १२ समात्मकाः - क. । १३... रण्याथ - क. । १४ वीरुधः र - क. । १५ भिषजञ्चैव - क. ख. ।

609
श्रियं लक्ष्मीं तथा ख्यातिं१६ यशस्तुष्टिं तथैव च ।
कीर्त्तिं श्रद्धां१७ धारणां च१८ ऊहापोहे तथैव च ।। १८।।
बलं धर्ममथोर्ज्जश्च१९ तृप्तिं देवीं सरस्वतीम् ।
तीर्थानि चैव सर्वाणि दानानि विविधानि च ।। १ ९। ।
वृषं रथं ध्वजं२० चैव गजमश्व२१ तथैव च ।
अष्टौ च मंगलान्यत्र तथा छन्दांसि चाक्षिपन्२२ । ।8.113.२ ० ।
वेदान् विद्याश्च२३ याः काश्चिद्याश्चैता लोकमातरः ।
मन्त्रान्यज्ञान् सुवर्णं च२४ मन्त्रोपकरणानि च ।।२ १ । ।
यत्किञ्चिच्छोभनं चैव तृप्तिमद्रसवच्च२५ ह ।
प्रक्षिप्य तत्र तत्सर्वं ततो मन्थानमावहन्२६ । । २२ । ।
मन्दरं पर्वतश्रेष्ठमकूपारञ्च कच्छपम् ।
तस्य पृष्ठे च मन्थानं मन्दरं पर्वतेश्वरम्२७ ।।२३ । ।
कृत्वा विष्णुगृहीतं ते२८ वासुकिं प्रग्रहं तथा ।
यतो मुखं ततो दैत्या यतः पुच्छं ततः सुराः । । २४।।
कर्षन्तस्तं तु मन्थानं मथ्नन्ति बहुलास्समाः२९ ।
ततो वर्षसहस्रेण तस्मादुत्थास्यते हयः । ।२५।।
गावश्चैव सहाभागा गजो मत्तश्च वै शुभः ।
वृषभो भीमनादश्च कन्याः कीचकवेणवः । ।२६। ।
अष्टमङ्गलकञ्चैव भिषग् धन्वन्तरिस्तथा ।
श्रीर्लक्ष्मीरेवमाद्याश्च वारुणी च मदोत्कटा । ।२७।।
ओषध्यश्च तथा दिव्या ग्राम्यारण्याः समानुषाः ।
वृक्षादयश्च ते सर्वे ततः सोमश्च पार्थिवः । ।२८ ।।
अमृतं नत् समाहृत्य विषं तच्च दुरासदम् ।
यज्ञादीँश्चैव तत् सर्वान् यत्किञ्चित्तत्र संभृतम्३१ । ।२९।।

१६ क्षान्तिं - क । १७ तेजो (?) । १८ धृतिं चैव - ख । १९ ऊर्जञ्च - ख,.. जञ्च (श्च?) - क. । २० वृषध्वजरथं - घ । २१ जंगमञ्च - ख. । २२ चासृजन् - क ख. । २३ देवविद्याश्च - घ. । २४- सुवर्णाश्च - कः । २५ दीप्तिमद्रसवच्च - ख. । २६ मन्दरमावहन् - क. । २७ पर्वतं मन्दरेश्वरम् - क. । २८ तं - क. । २ ९ ममन्थुरतुलं समाः - घ । ३० तान् - ख । ३१ संस्थितं - क. ख. ।

610
एवं मन्वन्तरेष्वत्र देवैः सासुरमानुषैः ।
मथ्यते त्वमृतं देवास्तच्च संजायते तथा ।।8.113.३ ०।।
तस्माद्यूयमितो गत्वा दानवैस्सह देवताः ।
मन्थध्वममृतं३२ क्षिप्रं ततः प्राप्स्यथ३३ तद्धितम् । ।।३१।।
सनत्कुमार उवाच
त एवमुक्ता देवेशा ब्रह्मणा लोककर्तृणा ।
इमं लोकमुपावृत्य३४ तथाकुर्वन्त३५ सर्वशः ।।३२।।
तस्मिंस्तु मथ्यमाने वै विषमग्रे समुत्थितम् ।
देवासुरत्रासकरं तत्पपौ३६ शङ्करस्तदा ।।३३ ।।
ततस्तस्मात् पुनरपि ह्युदतिष्ठन्३७ पयोनिधेः ।
रत्नानि बहुचित्राणि तान्यगृह्णन्त३८ देवताः ।।३४।।
असुरा जगृहुर्नैनान्यशपँ३९ स्ताँस्ततोसुरान् ।
मङ्गलान्यवमन्यन्त४० तेन ते निधनं गताः ।।३५।।
रत्नान्यूचुः ।
यस्माद्यूयं दुरात्मानो नास्मान्नन्दथ दारुणाः ।
तस्मात् समीहितं यद्वस्तत्तथा न भविष्यति ।।३६।।
वारुणीं नाप्यगृह्णन्ता४१सुरा मदबलावहाम्४२ ।
यस्मात्ततोसुरास्ते वै दुरात्मानश्च सर्वशः ।।३७।।
तत उच्चैःश्रवा नाम४३ वाजी४४ परमशोभनः ।
हस्ती चैव चतुर्दन्तो भिषक् च सुमहायशाः ।।३८।।
घृताची पूर्वचित्तिश्च देवी रम्भा मनोरमा ।
अमृतं च ततः सोमो गृहीत्वोत्थितवान्४५ सुराः४६ ।।३९।।

३२ मथध्वममृतं - क. ख. । ३३ प्राप्स्यत - क. । ३४.. मनुवाप्य - ख. । ३५ कुर्वन्ति - ख. । ३६ तम्पपौ - क. ख । ३७ ह्युतिष्ठत् - क. ख । ३८ तान्यगृह्णन्ति - क.,.. न्तु - ख. । ३९... नुशपं - क. ख. ४०.. न्यवपन्यन्ते - क. । ४१ वारुणीञ्चाप्यगृहंणन्त - ख. । ४२.. .न्महान् - क. । ४३ नाम्ना - ख. । ४४ हयः - घ. । ४५ यः प्रगृह्योत्थितवान् - क. । ४६ सुरः - ख. ।

611
सनत्कुमार उवाच
तत उत्सृज्य ते रत्नान्यसुरा४७ दर्पिता भृशम् ।
सोमहस्ताद्४८ बलेनैव अमृतं जगृहुस्तदा४९ ।।8.113.४० ।।
तान्देवाः सहिताभ्येत्य ऊचुः सान्त्वेन मोहितान्५० ।
न युक्तं कर्तुमेवं बः सहिता उपयुञ्ज्महे ।।४१ ।।
सख्यं हि नोस्तु सुदृढं मा नो बलमदान्विताः५१ ।
क्लेशमेनं वृथा येह५२ कुरुध्वं दानवेश्वराः । ।४२। ।
तांस्तथावादिनः सर्वान् प्रह्लादो दानवेश्वरः ।
इदमाह महामायो धर्मं कृत्वा तु पृष्ठतः ।।४३ ।।।।
प्रह्लाद उवाच
यदा रत्नान्य५३ गृहणीध्वं सागरादुत्थितानि वै ।
तदा न यूयमस्माभिः किञ्चिदुक्ताः सुरेश्वराः ।।४४।।
इदमेवं५४ वयं सर्वे रत्नं गृह्णीम देवताः ।
नैतद् विना हि युद्धेन दास्यामो वयमद्य वै ।।४५।।
इदमस्मद्गतं देवा अमृतं सर्वमङ्गलम् ।
युद्धेन यदि वः कार्यं गृह्णीध्वं यदि शक्यते । ।४६। ।
सनत्कुमार उवाच
त एवमुक्तास्तैः क्रूरैर्देवा भीता इवाभवन् ।
विवर्णवदना दीना न किञ्चित्ताँस्तदोचिरे५५ । ।४७।। व्रीडितास्तेन५६ महासत्वा विनिवृत्ताः सुरेश्वराः ।
निरुत्साहा बभूवुर्हि हता५७ स्मेति च चिन्तयन्५८ ।।४८।। तांस्तथा चिन्तयानाँस्तु सहस्राक्षः पुरन्दरः ।
उवाच किं विषादेन युद्धेनैनान्निहन्महे५९ । ।४९ ।।

४७ रत्नानामसुरा - क., ते नागमसुरा - घ. । ४८ सोमं हस्ताद् - क । ४९ अजहुस्तथा - क. । ५० मोहिताः - ख । ५१ मदबलान्विताः - (?) । ५२ क्लेशमेवंविधंचेह - घ., तथा - क., विधं - घ । ५३ रत्नानि - क. ख. । ५४ इदमेव - ख., इदमेकं - ख । ५५.. त्ताँस्तदाब्रुवन् - (?) । ५६ वृडितास्ते - क. ख. । ५७ हाहताः (?) । ५८ चाब्रुवन् (?), चेत्यचिन्तयन् (?) । ५९. न्निहन्यते - ख. ।

612
विष्णुरुवाच
अबुद्धिरेषा शक्रस्य युद्धं प्रति सुरेश्वराः ।
नहि युद्धे सुराः शक्याः सर्वे हन्तुं महाबलाः ।।8.113.५० ।।
तस्मात्ते न पिबन्ति स्म यावदेवामृतं शुभम् ।
तावदेव हरिष्यामि मायामास्थाय तच्छलात्६० ।।५१ ।।
सन्नह्यध्वं सुरास्सर्वे६१ व्यूहं कृत्वावतिष्ठत६२ ।
गृहीत्वा यावदमृतमिहायामि दिवौकसः ।।५२। ।
सनत्कुमार उवाच
ततः सं६३ मोहनीं६४ मायामास्थाय विबुधेश्वरः ।
यज्ञश्रीरूपमास्थाय जगाम दितिजान्प्रति । ५३ ।।
स गत्वासुरराजं तमिदमाह महाबलः ।
यज्ञश्रीरूपसंपन्नः पद्महस्तोमलेक्षणः६५ ।।५४।।
विष्णुरुवाच
अबलान् दैवतान्६६ ज्ञात्वा६७ बलिनस्सुदुरासदान् ।
यज्ञश्रीरस्मि संप्राप्ता दानवान् बलदर्पितान् ।।५५ । ।
प्रतिगृह्णन्तु मां सर्वे दानवाः सुरविद्विषः ।
गतास्ते निधनं देवा यूयं देवा न संशयः ।।५६। ।
ततोसुरास्तदोत्थाय प्रह्लादश्चैव दानवः ।
प्रदक्षिणमुपावृत्य हस्तेस्य६८ कलशं ददुः६९ । ।५७। ।
स प्राह दानवान् देवः स्त्रीरूपा७०कृष्टमानसान्७१ ।
नेदं मयि भवन्तोद्य क्षेप्तुमर्हन्ति सर्वशः । ।५८।।
मायामास्थाय विबुधा माहार्षुस्ते७२ कदाचन ।
ते हि सर्वे दुराचारा मायानिकृतिमाश्रिताः । ।५९।।

६० तं बलात् - क. त्व. तद्वलात् (?) ६१ भवन्तो वै - क. ख । ६२ च तिष्ठत - क ख. । ६३ स - ख- । ६४ मोहनी - क. । ६५ पद्महस्तोपलक्षणः - ख.,. .त्पलेक्षणः - घ । ६६ देवतान् क. ख. । ६७ त्यक्त्वा - घ. । ६८ हस्तयोः - घ. । ६९ दधुः - घ. । ७० श्रीरुपो - घ, स्त्रीरूपी - क. । ७१ हृष्टमानसः - क. घ । ७२ मामार्षुस्ते - घ ।

613
प्रह्लाद उवाच
जाने मायाविदस्ते वै निकृत्या बलिनश्च ह७३ ।
माययैव वयं तान्वै निहंस्यामः सुदंशितान्७४ ।।8.113.६० । ।
निकृत्या निकृतिज्ञास्तु हन्तव्या दुष्टचेतसः ।
मायाविदश्च मायाभिरिति धर्म७५ प्रभाषितम्७६ ।।६१ ।।
त्वन्तु नो गतिरद्येह तथा चैव परायणम ।
त्वया दत्तमिदं सर्वे उपोयक्ष्याम७७ शोभने ।।६२।।
त्वञ्चेन्न७८ यच्छसेस्माकं तद्धि ते परमं हितम् ।
वयं च त्वां७९ तथा सर्वे नावमंस्यामहे सदा ।।६३।।
ततः स तं तदा धीमान् प्रहस्य शुभदर्शनः ।
उवाच यत् त्वया गीतं सत्यं तच्च करोमि ते ।।६४। ।
सनत्कुमार उवाच
ततो निरीक्षतां८१ तेषां८२ विष्णुः कृत्वा स्वकं वपुः ।
प्रगृह्यामृतमुत्पत्य देवेभ्यः प्रददौ विभुः ।।।६५।।
इति स्कन्दपुराणे अमृताहरणे त्रयोदशोत्तरशततमोध्यायः

व्यास१ उवाच
कथं तदुत्थितं घोरं विषं सूर्यायुतप्रभम्२ ।
कथं पीतं भगवता शङ्करेणामितौजसा ।।१ ।।
कथञ्च देवदेवस्य कण्ठे कुन्देन्दुसप्रभे ।
नीलो वर्णः समुत्पन्न एतदिच्छामि३ वेदितुम् ।।२। ।
सनत्कुमार उवाच
कस्मिन्देशे महापुण्ये एतदाख्यानमुत्तमम ।
वृत्तं ब्रह्मपुरोगाय कस्मिन् काले महाद्युते ।।३।।

७३ निकृता निपुणाश्च ये - घ. । ७४.. स्तु दंशितान् - घ. । ७५ धर्मे - क, धर्मः (?) । ७६ प्रभाषितः (?), प्रभाषत - क., प्रभाषते (?) । ७७ उपभोक्षाम (?) । । ७८ तं ( तद्) - क । ७९ वयमेतत् - ख, वयं ततः - क । ८० निरीक्ष्यत तान् - क । ८१ सर्वान् - क. । ८२ अमृतमथन अध्यायः १६६ इति ख । पूर्वाध्यायोपि १६६ ।

१ कृष्णद्वैपायन - ख. । २ सूर्यानलप्रभमम् - घ. । ३ एतदिच्छाम - क । ४ अत्र सन उवाचेत्यनन्तरं दीर्घ- सत्रयाजिषट्कुलीयप्रश्नवायूत्तररूप पूर्वापरसंबन्ध्राध्रायकः कियानंश. खण्डितः प्रतिभाति ।

614
एतदाख्याहि नः सम्यग् यथावृत्तं तपोधन ।
नीलकण्ठः कथं देवः शर्वस्त्रिभुवनेश्वरः । ।४।।
सूत उवाच
यथा श्रुतं मया पूर्वं वायुना जगदायुना ।
कथ्यमानं द्विजश्रेष्ठाः सत्रे वर्षसहस्रिके ।।५।।
नीलता केन कण्ठस्य देवदेवस्य शूलिनः ।
तदहं कीर्तयिष्यामि शृणुध्वं संश्रितव्रताः । ।६।।
उत्तरे शैलराजस्य सरांसि सरितो ह्रदाः ।
- - - - - कीर्णेषु देशेषु पर्वतेषु च ।।७।।
गिरिशृङ्गेषु तुङ्गेषु गह्वरोपवनेषु च ।
- - भक्षा महात्मानो मुनयः शंसितव्रताः ।।८।।
संस्तुवन्ति महादेवं यजन्तोत्र यथाविधि ।
ऋग्यजुःसामवेदैश्च नृत्यगीतार्चनादिभिः ।।९।।
. . .. . . . . .. . . . .. . .. . .. . ... .. .।
प्रवृत्ते ज्योतिषां चक्रे मध्यं प्राप्ते दिवाकरे । ।8.114.१ ०। ।
दैवता७ नियतात्मानः सर्वे तिष्ठन्ति तां कलाम् ।
नियमानि समाप्यान्ते९ तस्मिन् काले दिवौकसाम् ।।१ १।।
तेषां मध्ये गतो१० वायुः प्राणिनां जीवितोद्भवः११ ।
नमस्ते नीलकण्ठाय इत्युवाच१२ सदागतिः१३ ।।१२।।
तच्छ्रुत्वा भावितात्मानो मुनयः संशितव्रताः१४ ।
बालखिल्या१५ इति ख्याताः पतङ्गसहचारिणः ।।१३।।
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
ते स्म पृच्छन्ति वै१६ वायुं वायुपर्णाम्बुभोजनाः ।।१४।।

५ तमहं - ख. । ६ संशितव्रताः - ख. । ७ देवता - क. ख. । ८ उपतिष्ठन्ति (?) । ९ समाप्यैते - क. । १० मध्य गतो (?) । ११. द्भवं - ख । १२... (यो) मित्युवाच - क. । १३ समागतः - ख. । १४ शसितव्रताः (?) । १५ बालिखिल्या - क. ख. । १६ तं - घ. ।

615
बालखिल्या ऊचुः
नीलकण्ठेति यत् प्रोक्तं त्वया पवनसत्तम ।
तद्वयं१७ श्रोतुमिच्छाम त्वत्प्रसादात् प्रभञ्जन ।।१५।।
नीलता केन कण्ठस्य१८ प्रकारेणाम्बिकापतेः१९ ।
श्रोतुमिच्छामहे सम्यक् त्वद्वक्त्रात्तु२० विशेषतः ।।१६।।
एतत्पुण्यं यदस्माभिस्तद्धि नः२१ परमं हितम् ।
वाचो याः संप्रवर्तन्ते२२ सर्वास्तास्तु त्वयेरिताः२३ ।।१७।।
वर्णस्थानगते वायौ वाग्विधिः२४ संप्रवर्तते ।
ज्ञानं विज्ञानमुत्साह२५स्त्वत्तो वायो प्रवर्तते ।।१८। ।
- - - - - न२६ योगेन२७ सर्वे वर्णाः प्रवर्तिताः ।
यतो२८ वाचो निवर्तन्ते२९ देहबद्धाश्च३० दुर्लभाः ।।१९ ।।
तत्रापि तेस्ति सद्भावः३१ सर्वगस्त्वं सदानिल ।
नान्यः सर्वगतो देवस्त्वदृतेस्ति समीरण३२ । ।8.114.२० ।।
स चैव जीवलोकोयं धारितः पवन त्वया ।
एष वै जीवलोकस्ते प्रत्यक्षो३३ जीवितोद्भव३४ ।।२१।।
वेत्थ वाचस्पतिं देवं३५ मनोनायकमीश्वरम् ।
ब्रूहि त्वं३६ केन देशेस्य३७ किं कृता रूपविक्रिया३८ ।।२२।।
श्रुत्वा वाक्यं ततस्तेषामृषीणां भावितात्मनाम् ।
प्रत्युवाच महातेजा वायुर्लोकनमस्कृतः ।।२३।।
वायुरुवाच
पुरा कृतयुगे३९ विप्रा४० वेदनिर्णयतत्परः४१ ।
वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतिः४२ ।।२४।।

१७ यदयं - ख. १८ कण्ठेस्य (?) । १९ प्रहारेणाम्बिकापतेः - क. । २० तव वक्त्राद् - ख. । २१ नो - घ. । २२ यतो वाचःप्रवर्तन्ते - घ., सुप्रवर्तन्ते - क. । २३... स्त्वत्पुरोदिताः - ख. । २४ र्वायो- र्वाग्विधिः - ख. । २५ ज्ञानपूर्वमधो... - ख. । २६ त्वयाद्ध्व - घ., निष्पत . - ख, निष्ठीव - घ. । २७ मानेन - ख. घ. । २८ यत्र - क । २९ प्रवर्तन्ते - ख, विवर्तन्ते (?) । ३०... वत्त्वाच्च - ख. । ३१ सद्भावो - क. ख. । ३२ शरीरिणः - घ. । ३३ प्रत्यक्ष्यं - क. ख. । ३४ जीवितोद्भवं - क. । ३५ देव - ख । ३६ तत् - ख । ३७ देशस्य - क. ख. । ३८ त्वापविक्रिया - क. । ३९ कृते युगे - क. । ४० विप्रो - क. । ४१ तत्पराः - ख. । ४२ प्रजापतेः (?) ।

616
पप्रच्छ कार्तिकेयं वै मयूरवरवाहनम् ।
क्रौञ्चदेहान्तकरणं४३ देव्या हृदयनन्दनम्४४ । ।२५ । ।
महिषासुरनारीणां४५ नयनाञ्जनतस्करम् ।
महासेनं महात्मानं४६ मेघस्तनितनिस्वनम् । । २६ । ।
उमामनोहर्षकरं४७ बालकं छद्मरूपिणम्४८ ।
बहुमङ्गलसंयुक्तां४९ कथां पापप्रणाशनीम् ।
वसिष्ठः प्रार्थयामास तस्मिन् काले महातपाः ।।२७। ।
वसिष्ठ उवाच
शुचिं प्रपद्ये वरदं ब्रह्मण्यममितौजसम् ।
भक्तानुकम्पिनं नित्यं सर्वज्ञं प्रियदर्शनम् । ।२८ । ।
- - - - - - - - - - - - - - - म् ।
नमस्ते - - - ष्यन्द अग्निगर्भ नमोस्तु ते । । २९ । ।
नमस्ते शरजन्माय नमस्ते कृत्तिकासुत ।
नमो द्वादशनेत्राय षण्मुखाय नमोस्तु ते । । 8.114.३० । ।
नमस्ते शक्तिहस्ताय दिव्यस्र - - - - - ।
- - - - - - - - - - - - - - - - । । ३१ । ।
नमो हिरण्यरेताय नमस्ते भृतशम्भवे ।
नमः कुक्कुटहस्ताय तथा छागप्रियाय च । । ३२ । ।
नमस्ते रक्तवासाय नमो नीलशिखण्डिने ।
नमोत्यन्तकुमाराय सर्वदैवतपूजिते५० । । ३३ । ।
नमः क्रौञ्चविनाशाय महिषासुरघातिने५१ ।
नमस्तेर्णव - - - मूर्त्तये - - - - - ।। ३४। ।
नमस्ते बालरूपाय उन्मत्तललिताय च ।
यदेतद् दृश्यते स्थाणोः५२ शुभं शुभ्राञ्जनोपमम् ।। ३ ५। ।

४३... जीवितनाशेशं - क. । ४४ पार्वतीहृदि नन्दनम् - ख., ४५ तारकासुरनारीणाम् (?) । ४६ महात्मानं महासेनं - घ. । ४७ मनः प्रहर्षणं - क., वनप्रहर्षेण - घ. । ४८ बुद्धरूपिणम् - घ. । ४९ ब्रूहि - क. । ५० सर्वदेवतपूजिते - ख. । ५१ तारकासुरघातिने (?) । ५२ न्चर्य - क., शुर्या - ख. ।

617
तत् किमर्थं समुत्पन्नं कण्ठे कुन्देन्दुसन्निभे ।
एतदाप्ताय दान्ताय भक्ताय तव५२ पृच्छते । ।३ ६ ।।
ब्रूहि मङ्गलसंयुक्तां कथां पुण्यसमाश्रिताम् ।
एवं स्तुतो५३ च वसिष्ठेन मुनिना५४ भावितात्मना । ।३७।।
श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः ।
प्रत्युवाच महातेजा दैत्यारिः पावकोद्भवः । । ३८। ।
यदुक्तं भवता५५ प्रश्नं यन्मां पृच्छसि वै द्विज ।
श्रूयतां वदतां श्रेष्ठ कथ्यमानमिदं मया । ।३ ९ । ।
उमोत्सङ्गोपविष्टेन यथा पूर्वं मया श्रुतः५६ ।
पार्वत्याश्चैव५७ संवादः शंकरस्य५८ महात्मनः । ।8.114.४० ।।
तमहं५९ संप्रवक्ष्यामि यथातथ्यं६० महामुने६१ ।
कैलासशिखरे रम्ये नानाधातुविचित्रिते६२ । ।४१ ।।
तरुणादित्यसंकाशे तप्तकाञ्चनसन्निभे ।
वज्रस्फटिकसोपाने चित्रपट्टशिलातले । ।४२ । ।
जाम्बूनदमये दिव्ये नानारत्नविभूषिते ।
नानाद्रुमलताकीर्णे नानापुष्पफलोदके ।।४३ ।।
हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते ।
षट्पदोद्गीतकमले धारासंपातनादिते ।।४४ । ।
मत्तक्रौञ्चमयूराणां६३ नादैर्विक्रुष्टकन्दरे६४ ।
अप्सरोगणसंकीर्णे किन्नरैश्चोपशोभिते । ।४५। ।
जीवन्जीवकदात्यूहविरुतैश्च६५ प्रणादिते ।
कोकिलारावमधुरे सिद्धचारणसेविते । ।४६ । ।
सौरभेयनिनादाढ्ये मेघस्तनितनिस्वने ।
विनायकभयोद्विग्नैः कुञ्जरैर्मुक्तकन्दरे । ।४७। ।

५२ ब्रूहि - क. । ५३ स्तुत्वा - ख. । ५४ मुनीनां - ख । ५५ भविता - ख. । ५६ श्रुत - ख । ५७ चैव - (?) । ५८ शर्वस्य च - ख । ५९ तदहं - ख । ६० प्रियार्थन्तु - ख । ६१ महात्मनि - ख । ६२ विभूषिते - क. । ६३ तत्र क्रौञ्चमयूराणां - ख. । ६४ विस्पष्टनो (ना?) दिते - ख. । ६५ जातीनां विरुतैश्च - क. ख. ।

618
वंशवादित्रनिर्घोषे श्रोत्रेन्द्रियमनोहरे ।
दोलाललितविक्षेपै६६ र्वनितासिद्धसेविते६७ ।।४८।।
ध्वजैर्ल्लम्बितदोलानां६८ घण्टानां विरुताकुले ।
बल्लकीघोषबहुले नृत्तव्यापारसंकुले ।।४९। ।
मुखैर्दर्द्दरवाद्यैश्च६९ वल्गितास्फोटिते तथा ।
क्रीडाचेष्टाविनोदानां रवैराक्रन्द(?) कन्दरे । ।8.114.५० ।।
हासैः सन्त्रासजननैर्विकरालैस्तथा मुखैः ।
देहबन्धैर्विचित्रैश्च प्रक्रीडितगणेश्वरे७० । ।५ १ । ।
व्याघ्रसिंहमुखै७१ र्घोरैस्सर्पाखुवदनैरपि ।
मृगमेषमुखैश्चान्यैर्गजवाजिमुखैस्तथा ।।५२ । ।
विडालवदनैश्चोग्रैः क्रोष्टुकाकारमूर्त्तिभिः७२ ।
ह्रस्वैर्दीर्घैः कृशैः स्थूलैर्लम्बोदरमहोदरैः ।।५३ ।।
ह्रस्वजंघैः प्रलम्बोष्ठैस्तालजंघैस्तथापरैः७३ ।
गोकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः । ।५४।।
एकपादैर्महापादैर्बहुपादैरपादकैः ।
एकमूर्धभिरत्युग्रैर्बहुमूर्धभिरुल्बणैः ।।५५ ।।
अमूर्धभिश्च गणपैर्महामूर्धभिरेव च ।
एकनेत्रैर्महानेत्रैर्बहुनेत्रैश्च सर्वशः । ।५६। ।
कबन्धाकृतिभिश्चान्यैरनेत्रैर्गणनायकैः ।
एकनासैर्महानासैर्बहुनासैरनासिकैः । ।५७। ।
एकवक्त्रैर्महावक्त्रैर्बहुवक्त्रैरवक्त्रकैः ।
एकदंष्ट्रैर्महादंष्ट्रैर्बहुदष्ट्रैरदंष्ट्रकैः । ।५८।।
एकहस्तैर्महाहस्तैर्बहुहस्तैरहस्तकैः ।
विश्वरूपैर्विरूपैश्च सुरूपै रूपवर्जितैः ।
एवंविधैर्महायोगैर्भूतैर्भूतपतिर्वृतः । ।५९।।

६६ दोलाललितविक्षेपैः (?) । ६७ सिंहसेविते - क । ६८ ध्वजोल्लम्बितदोलानां (?) । ६९ मुखदर्दर- वाद्यैश्च - क । ७०. गणेश्वरैः - क. । ७१ सिंहव्याघ्रमुखै (?) । ७२ क्रोष्टुकाकारिमूर्तिभिः ख, । ७३. स्तयापरे - क.

619
विशुद्धरत्नाङ्गविभूषिताङ्गदा७४ शिलातले हेममये मनोरमे ।
सुखोपविष्टं मदनाङ्गनाशनं चुचोद७५ वाक्यं गिरिराज्यनन्दना७६ ।।8.114.६ ० ।।
देव्युवाच
भगवन् भूतभव्येश गोवृषाङ्कितशासन ।
तव कण्ठे महादेव भ्राजतेम्बुदसन्निभम७७ । । ६१ । ।
नात्युल्वणं शुभं शुभ्रं७८ नीलाञ्जनचयोपमम् ।
किमिदं देव दीप्तं ते७९ कण्ठे कामाङ्गनाशन ।
को हेतुः कारणं किं वा येनेदं नीलमीश्वर ।
एतत्सर्वं यथान्यायं श्रोतुमिच्छामि तत्त्वतः८० । ।६२ ।।
श्रुत्वा वाक्यं ततो देव्याः पार्वत्याः पार्वतीप्रियः ।
कथां मङ्गलसंयुक्तां कथयामास शङ्करः । ।६३ । ।
महेश्वर उवाच
मथ्यमानेमृते पूर्वं क्षीरोदे सुरदानवैः ।
अग्रे समुत्थितं घोरं विषं कालानलप्रभम् ।। ६४।।
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम् ।
त्रैलोक्योत्सादसूर्याभं विस्फुरत्तत्८१ समन्ततः ।।६५।।
तं दृष्टवा८२ सुरसंघाश्च दैत्याश्चैव वरानने ।
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोन्तिकम् ।।६६। ।
दृष्टवा सुरगणान् भीतान्ब्रह्मोवाच महाद्युतिः ।
मया८३ष्टगुणमैश्वर्यं भवतां संप्रकल्पितम् ।।६७। ।
त्रैलोक्यस्येश्वरा यूयं सर्वे च विगतज्वराः ।
विमानचारिणः८४ सर्वे सर्वे स्वच्छन्दचारिणः । । ६८।।
प्रजाभिः सत्कृताः सम्यङ् नित्यं बहुमता मम ।
किमर्थे वा८५ महाप्रज्ञा भृशमुद्विग्नचेतसः ।।६९।।

७४ रत्नांशुविभूषिताङ्गदा - ख. घ., विभूषिताङ्गै ( ङ्गे) - क टि.,.. ङ्गी - घ । ७५ जगाद - घ., उवाच - ख. । ७६गिरिराज पुत्री - ख. । ७७... म्बुजसन्निभम् (?) । ७८ शुभ्रे (?) । ७९ दीप्यंते - क, दीप्यते - ख । ८० वक्तुमर्हस्यशेषतः - ख. । ८१ विस्फुरन्तं - क. । ८२ तन्दृष्ट्वा - क. । ८३ यथा - ख. । ८४ विमानगामिनः - ख. । ८५ वो - ख. ।

620
केन व्यावर्तितैश्वर्या येन मां समुपस्थिताः ।
प्रजासर्गे न सोत्रास्ति८६ योज्ञान्मम निवर्तयेत् ।।8.114.७० ।।
अध्यात्मे चाधिभूते च अधिदैवे च नित्यशः ।
प्रजाकर्मविपाके च शक्ता यूयं प्रवर्तितुम् । ।७१ ।।
किं कार्यं कारणं किं वा८७ कुतो वा भयमागतम् ।
येन८८ यूयं समुद्विग्ना मृगा सिंहार्दिता इव । ।७२। ।
एतत्सर्वं यथान्यायं शीघ्रमाख्यातुमर्हथ ।
श्रुत्वा वाक्यं ततस्तस्य८९ ब्रह्मणः सुमहात्मनः९० ।।७३ । ।
ऊचुस्त ऋषिभिः सार्धं सुरदैत्येन्द्रदानवाः९१ ।
सुरासुरगणैर्ब्रह्मन्९२ मथ्यमाने९३ महोदधौ९४ ।।७४। ।
भुजङ्गभृङ्गसंकाशं नीलजीमूतसन्निभम् ।
प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् । ।७५।।
कालमृत्युरिवोद्भूतं युगान्ताग्निसमप्रभम् ।
त्रैलोक्योत्सादसूर्याभं विस्फुरत्तत्९६ समन्ततः । ।७६। ।
तेजसामिव संघातं सुमहत् समुपस्थितम् ।
विषण्णवदनाः सर्वे दृष्टोद्भूतं महाविषम् । ।७७। ।
विषेणोत्तिष्ठता तेन९७ कालानलसमत्विषा९८ ।
निर्दग्धो रक्तगौराङ्गः कृतः कृष्णो जनार्दनः । ।७८।।
तं दृष्टवा रक्तगौराङ्गं कृतं कृष्णं जनार्दनम् ।
सर्वे भीता९९ वयं ब्रह्मँ१००स्त्वामेव शरणं गताः ।।७९। ।
सुराणामसुराणाञ्च श्रुत्वा वाक्यं भयावहम् ।
प्रत्युवाच महातेजा ब्रह्मा लोकपितामहः१०१ । ।8.114.८० ।।

८६ मोदन्ति - ख । ८७ किन्नु - ख । ८८ केन - ख । ८९ नु ते तस्य - क. । ९० परमात्मनः - क । ९१ सुरा दैत्येन्द्रदानवाः - क । ९२ सुरासुरैर्मथ्यमाने - क । ९३ पयोत्सङ्गात् - क. । ९४ महातपाः - क, महोदधेः (?) । ९५ ... सप्रभं - क । ९६ विस्फुरन्तं - क. । ९७ विषेणोत्तिष्ठमानेन - क,? त्थितमात्रेण (?) । ९८. समार्चिषा क । ९९ ततस्सर्वे - क. । १०० भीता - क । १०१ लोकनमस्कृतः - ख. ।

621
शृण्वन्तु देवताः सर्वे ऋषयश्च१०२ तपोधनाः ।
यत्तदग्रे१०३ समुद्भूतं मथ्यमाने महोदधौ१०४ । ।८ १ । ।
विषं कालानलप्रख्यं कालकूटमिति श्रुतम्१०५ ।
तस्य१०६ प्रोद्भूतमात्रस्य विराजन्ते न१०७ देवताः ।।८२। ।
तस्य१०८ विष्णुरहं वापि सर्वे वा सुरपुङ्गवाः ।
शक्नुवन्ति न वै१०९ सोढुं वेगमन्यत्र शङ्करात् । ।८३ ।।
इत्युक्त्वा पद्मगर्भाभः पद्मयोनिरयोनिजः ।
मामेवं स्तोतुमारेभे११० ब्रह्मा वेदविदां वरः । ।८४।।
ब्रह्मोवाच
नमस्तुभ्यं विरूपाक्ष नमस्ते नैकचक्षुषे१११ ।
नमःपिनाकहस्ताय वज्रहस्ताय वै नमः । ।८५। ।
नमस्त्रिशूलहस्ताय दण्डपाशासिपाणये ।
नमस्त्रैलोक्यनाथाय भूतानां पतये नमः । ।८६ । ।
नमः सुरारिहन्त्रे च११२ सोमसूर्याग्निचक्षुषे ।
ब्रह्मणे चैव रुद्राय विष्णवे चैव ते नमः । ।८७। ।
सांख्याय चैव योगाय भूतग्रामाय वै नमः ।
मन्मथाङ्गविनाशाय कालकालाय११३ वै नमः ।।८८। ।
रुद्राय वसुरेताय देवदेवाय रंहसे ।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ।।८९। ।
कपर्दिने करालाय११४ शङ्कराय हराय च ।
विरूपाय सुरूपाय शिवाय वरदाय च ।।8.114.९० । ।
त्रिपुरघ्ने मखघ्नाय मातॄणां पतये नमः ।
बुद्धाय चैव शुद्धाय मुक्ताय११५ केवलाय च । ।९१ । ।

१०२ मु तयश्च - ख । १०३ यत्र चाग्रे - ख । १०४ पयोनिधौ - क । १०५ कालकूटेति विश्रुतम् - क । १०६ येन - ख । १०७ प्रोद्भूमात्रेण न विराजति - ख । १०८ न च - क । १०९ न शक्नुवन्ति च - क. । ११० इदं स्तोत्रं समारब्धो - क , गत्वेशं स्तोतुमारब्धो - घ. । १११ नेक चक्षुषे - ख । ११२.. नाशाय - क. । ११३ कालाकालाय - ख. । ११४ कधीराय - क. । ११५ मुक्तायै - क ख ।

622
लोकत्रयविधात्रे च शक्राय वरदाय च११६ ।
अग्रायाथ तथोग्राय विप्रायानन्तचक्षुषे११७ ।।९२।।
रजसे चैव सत्वाय तमसेव्यक्तयोनये ।
नित्याय चैवानित्याय नित्यानित्याय वै नमः ।।९३।।
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ।
चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः ।।९४।।
सूक्ष्माय चैवासूक्ष्माय सूक्ष्मासूक्ष्माय वै नमः ।
भक्तानामार्तिनाशाय प्रियनरायणाय च ।।९५।।
उमाप्रियाय शर्वाय नन्दिवक्त्राङ्कनाय च ।
पक्षमासार्धमासाय११८ ऋतुसंवत्सराय च ।।९६।।
बहुरूपाय मुण्डाय दण्डिनेथ वरूथिने११९ ।
रथिने१२० धन्विने नित्यं१२१ जटिने ब्रह्मचारिणे ।।९७।।
ऋग्यजुःसामरूपाय१२२ पुरुषायेश्वराय च१२३ ।
नमस्ते भगवनू २ ' व्यक्ष नमस्ते भगवञ्छिव ।।९८।।
नमस्ते देवदेवेश नमस्ते भूतभावन ।
इत्येवमादिचरितैः स्तुतं स्तुत्यं१२५ नमोस्तुते१२६ ।।९९।।
प्रणम्य मूर्ध्ना प्रणतोस्मि रुद्रं जगद्गुरुं देववरं त्रिनेत्रम् ।
सूक्ष्मोसि योगातिशयाधिगम्यं तेजोनिधे१२७ व्यक्तमुपैमि रुद्रम् ।।8.114.१००।।
ज्ञात्वा तु भक्तिं मम देवदेव प्रसीद गङ्गाम्बुनिषिक्तकेश ।
त्वां सौरभेयाम्बुदचित्रयानं१२८ शिवं प्रयत्नात् शरणं गतोस्मि१२९ ।।१०१।।
एवं तेन तदा१३० पूर्वं ब्रह्मणा लोककर्तृणा ।
स्तुतोहं विविधैः स्तोत्रैर्वेदवेदाङ्गसंभवैः । ।१०२।।

११६ इन्द्रियाणां वराय च - ख. । ११७ नेकचक्षुषे - क । ११८ वर्षाय (?) । ११९ ... न्धवरूथिने - घ. । १२० ध्वजिने (?) । । १२१ चैव - क । १२२ सामर्ग्यजुरथर्वाय (?),... माथर्वाय - क. । १२३ पुरुधामे- श्वराय च (?) । १२४ भगवान् - क ख । १२५ स्तुतिस्तुत्यं - क. ख., तुभ्यं - क. । १२६ नमो नमः - (क?) । १२७ योगातिशयाभिगम्यं तेजोनिधिं - ख. । १२८... चिन्तयानं - ख, । १२९ शरणा- गतोस्मि - ख. । १३० भगवता - ख. ।

623
ततः प्रीतो ह्यहं तस्य१३१ ब्रह्मणोथ महात्मनः१३२ ।
नतस्तं१३३ मुख्यया वृत्त्या पितामहमथाब्रुवम् । ।१ ०३ ।।
भगवन् भूतभव्येश भूताधिप१३४ महातपः१३५ ।
किं१३६ कार्यं ते मया ब्रह्मन्१३७ कर्तव्यं वद१३८ सुव्रत ।
श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणे ।। १ ०४। ।
ब्रह्मोवाच
भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर१३९ ।
सुरासुरगणैर्देव मथ्यमाने महोदधौ१४० ।। १०५ । ।
मयूरभृङ्गसकाशं१४१ नीलजीमूतसन्निभम् ।
प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् । । १०६ ।।
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्च्चसम् ।
त्रैलोक्योत्सादसूर्याभं विस्फुरत् तत्१४२ समन्ततः । । १०७ ।
विषेणोत्तिष्ठता तेन१४३ कालानलसमत्विषा ।
निर्दग्धो रक्तगौराङ्गः कृतः कृष्णो जनार्दनः ।। १०८ ।।
तं दृष्टवा रक्तगौराङ्गं कृतं कृष्णं जनार्दनम् ।
ततः सर्वे वयं१४४ भीतास्त्वामेव शरणं गताः१४५ ।।१ ० ९।।
तत्१४६ पिबस्व महादेव लोकानां हितकाम्यया ।
भवानग्रस्य भोक्ता वै भवान्देववरः१४७ प्रभुः ।।8.114.१ १० ।।
भवांस्तस्य१४८ महावेगं समर्थः सन्नियच्छितुम् ।
नान्यः कश्चित् पुमाञ्छक्तो जगत्यस्मिँश्चराचरे१४९ ।।१ ११ । ।
पातुमेको महादेव समर्थस्त्वं महाद्युते१५० ।
तस्यैवोग्रप्रभावस्य कालानलसमत्विषः(?) । । ११२ ।।

१३१ प्रीतोस्मि तस्याहं - ख- । १३२ ब्रह्मणः परमात्मनः - क. । १३३ ततस्तं - क., तमहं - ख. । १३४ लोकनाथ - ख. । १३५ भूताधिक - क., जगत्पते - ख. । १३६ यत् - क. । १३७ महाब्रह्मन् - ख. । १४८ तव - क. । १३९ कारणं परम् (? । । १४० सुरासुरैर्मथ्यमाने क्षीरोदे भगवञ्छिव - क । १४१ अभवन्मेघसंकाशं - क. । १४२ विस्फुरन्तं - क. । १४३ विषेणोत्तिप्ठमानेन - क. ख, त्थितमात्रेण (?) । १४४ भयं (भयाद?) - क । १४५ भृशं वृषभवाहन - ख. । १४६ तं - क. । १४७ भवाँश्च वरदः - घ । १४८ भगवान् स्तां (तं) - क. । १४९ पुमाञ्छक्तस्त्रिषु लोकेषु विद्यते - ख. । १५. महाद्युतिः - ख ।

624
वेगं सोढुं१५१ महादेव समर्थोन्यो१५२ न विद्यते ।
तस्यैवं ब्रुवतो देवि१५३ ब्रह्मणः परमेष्ठिनः ।।११ ३।।
बाढमित्येव तद्वाक्यं प्रतिगृह्य वरानने ।
तदहं१५४ पातुमारब्धो विषमन्तकसन्निभम् ।।१ १४।।
लोकत्रयहितार्थाय सुरदैत्येन्द्रसन्निधौ१५५ ।
पिबतो मे महाघोरं विषं सुरगणार्चिते१५६ ।
कण्ठे समभवत् क्षिप्रं कृष्णं कृष्णाम्बुजे१५७क्षणे ।। ११५ ।।
तद् दृष्ट्वोत्पलपत्राभं१५८ कण्ठे सक्तं महाविषम्१५९ ।
तक्षकं नागराजानं लेलिहानमिवोरगम् ।।१ १ ६।।
अथोवाच महातेजा ब्रह्मा लोकपितामहः ।
शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ।।१ १७।।
इति तस्य वचः श्रुत्वा मया गिरिवरात्मजे ।
पश्यतां सुरसंघानां दैत्यानाञ्च वरानने ।। १ १८।।
यक्षगन्धर्वसिद्धानां१६० पिशाचोरगरक्षसाम् ।
धृतं कण्ठे विषं घोरं ततः श्रीकण्ठता मम ।।१ १९।।
तत्कालकूटं विषमुग्रतेजः१६१ कण्ठे धृतं पर्वतराजकन्ये१६२ ।
पश्यन् समस्तः१६३ सुरदैत्यसंघो१६४ हृष्टः१६५ परं विस्मयमाजगाम१६६ ।।8.114.१२० ।।
ततः सुरगणाः सर्वे सयक्षोरगराक्षसाः ।
ऊचुः प्राञ्जलयो देवि१६७ मत्तमातङ्गगामिनि ।।१२१ ।।
अहो बलं वीर्यपराक्रमस्ते अहो वपुर्योगबलं तवेदम्१६८।
अहो विभूतिस्तव देवदेव गङ्गाजल१६९ प्लावितचन्द्रमौले१७० ।।१२२।।
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव सूर्यो रजनीकरस्त्वम् ।
त्वमेव कालो नियतिस्त्वमेव त्वमेव मृत्युर्धनदस्त्वमेव१७१ ।।१२३।।

१५१ समर्थोन्यो - ख । १५२ वेगं सोढुं - ख. । १५३ ब्रुवतस्तु वरारोहे - ख । १५४ ततोहं - क ख. । १५५ लोकत्रयहितार्थायासुरदैत्येद्रवन्दिते - क. । १५६ सुरगणार्चितं ( न्तिकं?) - क. । १५७ सुरगणार्चितं ( ते?) - क । १५८ तन्नीलोत्पलपत्राभ - क । १५९ शक्तमिवान्तकं - क. । १६० नागानां - ख. । १६१... मुग्रतेजं - क. ख. । १६२ पुत्रि - क? । १६३ संपश्यमानाः - क. ख. । १६४... संघाः - क. ख. । १६५ हृष्टाः - क. ख. । १६६... मीयुरन्ये (?) । १६७ भूत्वा - ख, तेषां - क. । १६८ तदेव - ख. । १६९ देव सङ्गोजटा? - क. । १७० जलाप्लावितकेशदेश - ख. । १७१ मृत्युर्दहनस्त्वमेव - ख ।

625
त्वमेव सूक्ष्मः१७२ पुरुषोव्ययस्त्वं त्वमेव सूक्ष्माच्च परं च सूक्ष्मम् ।
व्यक्तं त्वमेव प्रकृतिस्त्वमेव त्वमेव सत्वं च१७३ भवोद्भवं च । ।१२४।।
त्वमेव भूमिः सलिलं त्वमेव त्वमेव वह्निः पवनस्त्वमेव ।
त्वमेव खं भूतभविष्यभव्यं त्वमेव भूतं भवभव्ययुक्तम् ।।१ २५। ।
त्वमेव यज्ञो नियमस्त्वमेव त्वमेव सर्वं प्रकरोषि धर्मम् ।
त्वमेव सर्वस्य चराचरस्य पृथग् विभक्ता प्रलये च गोप्ता१७४ ।।१ २६।। इत्येवमुक्त्वा१७५ वचनं सुरेन्द्राः प्रणम्य मां सिद्धगणाश्च हृष्टाः१७६ ।
व्यपेतशोकाः प्रविभक्तसोमा गता विमनैरनिलोग्रवेगाः१७७ ।।१२७।।
इत्येतत् परमं गुह्यं पुण्यात्पुण्यतरं महत् ।
स्वयं१७८ स्वयंभुवा प्रोक्तं स्तोत्रं१७९ पापप्रणाशनम् । ।१ २८।।
यस्तु धारयते नित्यं मत्परो नियमे स्थितः१८० ।
ब्रह्मोद्गीतं शिवं ह्येतत्१८१ सर्वरोगनिबर्हणम् ।। १२९।।
गतिं तस्य प्रवक्ष्यामि परत्रेह च' देहिनः१८२ ।
विषं तस्य वरारोहे स्थावरं जंगमं तथा१८३ । । 8.114.१३०।।
संप्राप्य गात्रं१८४ सुश्रोणि क्षिप्रं सप्रतिहन्यते१८५ ।
शममेत्य१८६ शुभं घोरं दुःस्वप्नं चापकर्षति ।।१ ३१ ।।
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ।
विवादे जयमाप्नोति युद्धे चैव न संशयः ।।१ ३ २।।
गच्छतोध्वनि च क्षेमं१८७ सत्वं चैवोपजायते१८८ ।
शरीरभेदे वक्ष्यामि गतिं तस्य वरानने ।।१ ३३ ।।
हरिश्मश्रुर्नीलकण्ठः शशाङ्काङ्कितमूर्धजः ।
त्र्यक्षोभेद्यस्त्रिशूली च वृषकेतुर्महाबलः ।।१३४।।

१७२ ब्रह्म - ख । १७३ नन्त्वञ्च - ख. । १७४ भोक्ता - ख. । १७५. मुक्ता - क. ख. । १७६ प्रगृह्य सोमं प्रणिपत्य माञ्च - ख. । १७७ रनिलोग्रवेगैः - क. ख., इत 'उत्तरं स्वमालयं मेरुमुपेत्य सर्वे । इत्यधिकं ख पुस्तके । १७८ तदा - क. । १ ऽ ९ स्तव - ख. । १८० ब्रह्मोद्गीतमिदं शुभं - ख. । १८१ ह्ये (ही?) दं - क. । १८२ वरप्रद - ख. । १८३ वापि जगम - ख. । १८४ गात्र प्राप्य तु - ख. । १८५ विप्रतिहन्यते - ख । १८६ शमय - क. । १८७ गच्छते क्षेममध्वानं - ख. । १२८ शरीरे नास्ति वै भयं - ख. ।

626
नन्दितुल्यवपुश्चैव नन्दितुल्यपराक्रमः ।
विचरत्यखिलं१८९ सिद्धः सप्तलोकं१९० ममाज्ञया ।।१ ३५। ।
न हन्यते१९१ गतिस्तस्य वायोरिव नभस्तले१९२ ।
मम पार्श्वचरो भूत्वा१९३ तिष्ठत्याभूतसंप्लवम्१९४ ।।१ ३६।।
येपि चैतद्वरारोहे सदा शृण्वन्ति मानवाः ।
तेषां चैव प्रवक्ष्यामि फलं फलसहस्रदे । । १ ३७।।
ब्राह्मणो वेदमाप्नोति क्षत्रियो विन्दते महीम् ।
वैश्यस्तु लभते लाभं शूद्रः प्राप्नोति सद्गतिम् ।।१३८।।
व्याधितो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ।
गुर्विणी जनयेत् पुत्रं कन्या विन्दति सत्पतिम् ।।१३९।।
नष्टञ्च लभते द्रव्यमिह लोके परत्र च ।
गवां शतसहस्रस्य सम्यग् दत्तस्य यत्फलम् । ।8.114.१४० । ।
तत्फलं समवाप्नोति श्रुत्वा मर्त्यः कथामिमाम् ।
अक्षरं वाथ पादं वा श्लोकं श्लोकार्धमेव वा ।।१४१ ।।
अथवा सर्वमध्यायं देवब्राह्मणसंसदि ।
यः पठेन्मानवो नित्यं मद्गतेनान्तरात्मना ।। १४२।।
श्रद्दधानः सदोद्युक्तो रुद्रलोके महीयते ।
पठस्व देवि भद्रन्ते पाठयस्व च बान्धवान् ।। १४३ ।।
अतः परतरं स्तोत्रं न भूतं न भविष्यति ।
नापि यक्षाः पिशाचा वा न भूता न विनायकाः १४४।।
कुर्युर्विघ्नं गृहे तत्र यत्रायं तिष्ठते स्तवः ।
यथाविमुक्तं क्षेत्रेषु क्षेत्रं श्रेष्ठं प्रकल्पितम् ।। १४५। ।
तथा स्तवो वरिष्ठोयं स्तवानां ब्रह्मनिर्मितः ।
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान् पादमन्ततः ।। १४६।।
अक्षय्यमन्नपानं वै पितॄँस्तस्योपतिष्ठति ।
मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् । । १४७।।

१८९ त्यखिलान् - क. । १९० सप्तलोकान् - ख. । १९१ हन्यति - क. ख. । १९२ अनिलस्याम्बरे यथा - ख. । १९३ धरोभूमि - ख. । १९४ प्रत्याभूतः समृद्ध (ध्य) ति - ख. ।

627
सर्वं संपद्यते तस्य स्तवस्यास्यानुकीर्तनात् ।
श्रुत्वैतत् परमं गुह्यं येपि स्युः पापयोनयः ।।१४८।।
स्त्रियः शूद्राश्च तेपीह रुद्रलोकं व्रजन्त्युत ।
यदा मानुष्यतामेति कदाचित् कालपर्ययात् ।।१४९।।
वेदवेदाङ्गतत्त्वज्ञो विमले जायते कुले ।
देवभक्तश्च भवति धर्मञ्च कुरुते तदा ।।8.114.१५०।।
इतिहासमिदं पुण्यं सर्वकिल्विषनाशनम् ।
ऊक्तं मयात्र तुष्टेन स्वयमेवाम्बुजेक्षणे ।।१५१।।
इति स्कन्दपुराणे अमृतमथने नीलकण्ठोपाख्याने ब्रह्मदेवकृतं महादेवस्तोत्रं नाम चतुर्दशोत्तरशततमोध्यायः
व्यास उवाच
अमृतेपहृते तस्मिन् विष्णुना छद्मरूपिणा ।
दैत्याश्च दानवाश्चैव किं चक्रु स्तदन्तरम्१ ।।१।।
सनत्कुमार उवाच
ते क्रोधाद्वञ्चिताः सर्वे विष्णुना दानवेश्वराः ।
सन्नह्य युद्धाय तदा गर्हन्तो२ विष्णुमूचिरे ।।२।।
धिग्बल धिक् च ते शौर्यं पाप धिक् ते पराक्रमम्३ ।
विश्रम्भघाती४ नित्यं त्व५न्नीचकर्मा६ दुरात्मवान् । ।३ ।।
त्वया निकृत्या निहतो हिरण्यकशिपुः पुरा ।
हिरण्याक्षश्च दैत्येन्द्रोमृतं चेदमपाहृतम्७ ।।४।।
न तवास्ति बलं युद्धे निकृत्या हि बली भवान् ।
युद्धे स्थितो भवानस्तु न नो८ मोक्षमवाप्स्यति९ ।।५।।

१ चक्रे तदनन्तरम् - क. । २ गर्हयन - क. ख. । ३ पराक्रमः - ख. । ४ विश्रम्भघातिन - ख. । ५ च - क. ख. । ६ नीचकर्म - ख. । ७ ह्यमृतं चेदमे (मा) हृतं - क. ख. । ८ ततो - क. । ९... नवाप्स्यसि - ख. ।

628
सनत्कुमार उवाच
ततः स दैत्याराट् क्रुद्ध उद्गिरन्१० पावकार्चिषः११ ।
रथेनाम्बुदनादेन विष्णुमेवाभिदुद्रुवे । ।६ ।।
विप्रचितिश्च१२ दैत्येन्द्रो गजेन गजिनं तदा ।
समाह्वयत् सहस्राक्षं गजिन वज्रपाणिनम्(?) । ।७ । ।
विरोचनस्तु संक्रुद्धो धनेशं राक्षसाधिपम् ।
गजेनैवाभिदुद्राव जलदो भास्करं यथा । ।८। ।
बलिर्वैरोचनिश्चापि यमं पितृगणाधिपम् ।
रथेनैवाभिदुद्राव विघ्नो विघ्नमिवापरम्१३ । । ९।।
अनुह्राश्च दैत्येन्द्रो हिरण्यकशिपोः सुतः ।
वरुणं प्रति दुद्राव नदीवेगो यथार्णवम् । ।8.115.१ ० ।।
मयस्तु१४ दानवश्रेष्ठस्तारस्तारक एव च ।
आदित्यैस्सह संसक्ता१५ गजा इव महागजैः । । ११ । ।
शरभः शतकेतुश्च बलो मूकश्च दानवः ।
रुद्रानेवाभ्यभावन्त१६ सिंहाः सिंहानिवाजने ।। १२। ।
शम्भुः कार्तस्वनश्चैव महामायश्च शम्बरः ।
वसुभिः सह संसक्ता व्यसनानीव साधुभिः । ।१ ३ । ।
नरकोथ हयग्रीवस्तथेन्द्रदमनोसुरः ।
अश्विभ्यां सह संसक्ता१७ ग्रहाभ्यामिव तारकाः ।। १४। ।
अन्ये चान्यैस्सुरैस्सार्धं महामाया महाबलाः ।
आहूयाहूय युध्यन्ते१८ सर्वे क्रोधेन दानवाः । ।१ ५ । ।
विप्रचित्तिर्महामायः सहस्राक्षं त्रिभिः शरैः ।
अर्दयामास नादेन नादयानो दिशो दश१९ ।। १ ६। ।

१० उत्किरत्. (?), उद्गिरत् - क., दानवाः - ख. । ११ पावकार्चिषाः - (?। १२. स्तु; ख । १३ मिवापरः - ख. । १४ यमस्तु - क. ख. । १५ संयुक्ता - क. । १६.. नेवाभिधावन्तः - क. । १७ संसक्तो ( क्तौ? - क. । १८ युद्ध्यन्ति - ख. । १०. दिशः - क ख. ।

629
तस्येन्द्रः कार्मुकं चित्रमस्यतो लघुहस्तवान् ।
वज्रेण शतधारेण शतधा व्यभजद्२० बली ।। १७। ।
ततोस्य गजमाघोरे२१ कार्मुकं गृह्णतोपरम् ।
गजेन पोथयामास स पपात यथा गिरिः । ।१८ । ।
तमाप्लुतं२२ गजाच्चैव दानवं देवराड् बली ।
वज्रेणाताडयत् क्रौञ्चं शक्त्या गुह इवाहवे । । १ ९। ।
स तेन वज्रघातेन दानवो मूढचेतनः२३ ।
अपतद् भूतले क्षिप्रं वातरुग्ण इव द्रुमः२४ ।।8.115.२ ० ।।
ततो हाहाकृतमभूद्दानवानां बले तदा ।
साधुसाध्विति देवानां सिंहनादाश्च बृंहिताः । ।२ १ । ।
प्रतिलभ्य ततः संज्ञां स शक्त्या२५ भीमरूपया ।
मातङ्गः तस्य संमत्त२६मनयद्यमसादनम् । ।२२ । ।
ततोस्य पृष्ठरक्षाँश्च कवचञ्च महाप्रभम् ।
शातयामास२७ देवाग्र्यस्स२८ हित्वा संयुगं ययौ । ।२३ । ।
बलिर्यमस्य पुण्ड्रं२९ च कृतान्तं कलहं तथा ।
कालञ्च नियतिञ्चैव किङ्करान् पाशमेव च । ।२४।।
एकैकं पश्यतस्तीक्ष्णैः पञ्चभिः पञ्चभिः शरैः ।
यमञ्चैव चतुष्षष्ट्या हृदये समविध्यत । । २५।।
तस्य चानदतः क्षिप्रं यमः क्रुद्धो हसँस्तदा ।
दण्डेन रथमाहत्य भस्मसायुज्यमानयत्३० । । २ ६।।
हते रथे ससूते तु साश्वे३१ सह पदानुगैः ।
तिष्ठतिष्ठेति सन्नद्य३२ यमं बलिरधावत ।। २७। ।
तस्यापतत एवाशु३३ यमो दण्डमवासृजत् ।
मूर्ध्नि तेन प्रहारेण ततः सोगान्महीतलम् । ।२८ ।।

२० न्यभजत् - क. । २१ माराधे - क., मारोहे - ख. । २२ तमाप्नुतं - क. ख. । २३ मूढचेतसः - ख । २४ इवार्णवः - क. । २५ संज्ञामशन्या - ख. । २६ संमतं तस्य - क. ख. । २७ सातयामास - क. । २८ देवोग्र्यस्स - ख.,. स्त - क. ख. । २९ पुण्यं - क., पुण्ड्राँ - ख. । ३० सायोज्यमानयत् - क ख, । ३१ साश्वै - क. ख । ३२ सन्नाद्या - क., संछाद्य - ख. । ३३ एवः थ - क. ख ।

630
ततो हाहाकृतमभूद्दानवानां बले तदा ।
गृहण गृहणेति चाप्यूचुः कष्टं कष्टं तथापरे ।।२९।।
अनुह्रादस्तु वरुणं नाराचेन महाबलः ।
आहत्य हृदये क्रुद्धो रथोपस्थे न्यपातयत् । ।8.115.३ ० । ।
स उत्थाय क्षणाद्देवो विकृष्य बलवद्धनुः ।
सायकाँस्तस्य संधार्य३४ धनुश्चिच्छेद वीर्यवान् ।।३ १ ।।
अश्वाञ्जघान सूतस्य शिरः कायादपातयत् ।
तस्य प्रस्कन्दतश्चापि हताश्वाद्रथसत्तमात् ।।३२ ।।
बिभेद हृदयं शीघ्रं स पपात यथा मृतः ।
मय३५स्तारस्तारकश्च आदित्यान् दृढमार्दयन् ।।३ ३ ।।
तेपि तान् विरथाञ्चक्रुः सर्वाञ्छरशतैस्त्रिभिः३६ ।
शरभः शतकेतुश्च बलो मूकश्च दानवः ।।३४। ।
रुद्रानस्त्रैर्बहुविधैर्नादयन्तोर्दयन्युधि ।
तेषामस्त्राणि तानि स्म प्रतिवार्य महाबलाः । ।३ ५।।
शलभा इव केदारान् मुहूर्तेन व्यनाशयन्३७ ।
ते काल्यमानास्तै रुद्रै३८र्बहुभिर्विरथास्तदा ।।३६।।
रणं त्यक्त्वा महामाया विपलायन्त३९ सर्वशः ।
शम्भुः कार्तस्वनश्चैव महामायश्च शम्बरः । ।३७।।
वसूनभ्यद्रवन् युद्धे गजाः प्रतिगजानिव ।
तेषान्तु वसवः सर्वे स्वापनास्त्रं४० ससर्जिरे ।।३८।।
रथेष्ववस्थिता येन बभुः सुप्ता यथा मृगाः ।
तान् सुप्तान् रथयन्तारो रणात्तस्मादपाहरन् । ।३९।।
हरतां चैव सूतानामुत्तमाङ्गान्यपातयन् ।
ते हतेष्वथ सूतेषु उद्भ्रान्तैर्वाजिभिस्तदा । ।8.115.४० । ।

३४ संवार्य - क. । ३५ यम - क ख. । ३६ गतस्त्रिभिः - ख., गभस्तिभिः - क. । ३७ व्यशातयन् - ख. । ३८ आहन्यमानास्तै - ख.,?.. स्त्रै - क. । ३९ व्यपलायन्त - क. । ४० श्वा (स्वा) पनार्थं - क ।

631
सुप्ता एव रणे सर्वे भ्राम्यन्ते दितिसूनवः ।
नरकोथ हयग्रीवस्तथेन्द्रदमनोपि च । ।४१ ।।
अश्विनौ द्वौ४१ सुसंयत्ता युयुधुस्ते सुरेश्वराः ।
तानापतत४२ एवाथ तौ देवौ४३ भिषजां वरौ ।।४२।।
दण्डेनास्त्रेण विरथान् सर्वानेव प्रचक्रतुः ।
पुनश्चापततः सर्वान् गदिनः क्रोधमूर्छितान् । ।४३ ।।
वायव्यास्त्रेण सहसा संचिक्षिपतुराहवे ।
अन्ये चान्याँस्तदा देवा दितिपुत्रान् व्यपोथयन्४४ । ।४४। ।
अभज्यन्त यथा सिंहैर्मृगारण्येभिसंहताः४५ ।
प्रह्लादश्चापि दैत्येन्द्रो विष्णुना सह संगतः । ।४५।।
महत् कृत्वा तदा युद्धं विरथः समपद्यत ।
स चक्रेण हताश्वस्तु हतसूतपदानुगः ।।४६ ।।
गदां गृहीत्वा प्रस्कन्द्य जनार्दनमुपाद्रवत् ।
तस्योद्यतकरस्याथ धावतश्च महामुने । ।४७।।
चिच्छेद तां गदामाशु चक्रेणैव जनार्दनः ।
अथ ते दानवाः शूर४६स्तैर्देवैर्भग्नविक्रमाः । ।४८। ।
अभज्यन्त यथा सिंहैर्वने मृगगणा भयात् ।
तान्भग्नान्४७ भज्यमानाँश्च दृष्टवा त्यक्त्वा रणं ययुः । ।४९।।
प्रह्लादोपि रणं त्यक्त्वा तानेवानुजगाम ह ।
तेषु भग्नेष्वथेन्द्रस्य जयशब्दं सुपूजितम् ।।8.115.५० ।।
समं चक्रुस्तदा देवाः सनारायणलोकपाः ।
सिंहनादांश्च विविधान् वादित्राणि न्यवादयन् ।।५१ । ।
इति स्कन्दपुराणे अमृतमथनेयुद्धे पञ्चदशोत्तरशततमोध्यायः४८

४१ च - क । ४२ नाता - क. । ४३ देवे (?) । ४४ न्यपोथयन् - ख. । ४५ पद्यार्धमेतदत्र प्रमादादापतितं प्रतिभाति । ४६ शूरा - ख. । ४७ ते तान्. (?। ४८ अध्यायः १६८ - ख., नात्राध्यायसमाप्तिर्घ- पुस्तके ।

632
सनत्कुमार उवाच
एवं तदभवद् व्यास अमृतस्यावमन्थनम् ।
युद्धञ्च सुमहाघोरं१ प्रह्लादेन सहैव तु ।। १ । ।
स तु कालेन महता कृत्वा युद्धशतान्युत ।
पुत्रे विरोचने राज्यं प्रददावसुरेश्वरः । ।२। ।
विरोचनः पुनर्व्यास राज्यस्यार्थे महाबलः ।
आटीबके हतो युद्धे देवेन्द्रेण महौजसा२ । । ३ ।।
व्यास उवाच
आटीबकः स संग्रामः कथमासीन्महाभयः ।
श्रोतुमिच्छामि भगवन्३ परं कौतूहलं हि मे ।।४। ।
सनत्कुमार उवाच
बभूव पुनरेवेह देवानामसुरैः सह ।
सख्यं४ ते ददृशुश्चैव५ दूराद्वै६ विस्मिताननाः । ।५।।
घोरामिलावृते तस्मिन् वर्षे विकृतरूपिणीम् ।
उग्रामाथर्वणीं कृत्या७मसुराणां भयंकरीम् ।।६। ।
तां दृष्टवा तेब्रुवन् केयमाटिरित्येव देवताः ।
असुरा बक इत्येव विवादश्चाप्यजायत । ।७। ।
सापि कृत्या तदा घोरा देवेभ्यो दर्शनं ददौ ।
आटिरित्येव तेषां च असुराणां बकोभवत्८ । ।८।।
तेषां पणोभवत्तत्र राज्यं प्रति महामुने ।
यो नो जितः स नो दासो जेता स्वामी भवत्विति ।।९। ।
ततस्सा ह्याटिरूपेण सर्वेभ्यो दर्शनं ददौ ।
ततस्ते विजिता देवाः प्रोचुर्ना स्म१० जिता११ इति ।।8.116.१ ० ।।

१ सुमहद् घोरं- क. ख. २ हतौजसा - ख., अत्राध्यायसमाप्तिर्घपुस्तके । ३ भगवान् - क . ख। ४ संख्यं - क. ख. । ५ ददृशिरे चैव - क. ख. । ६ दूरात्ते - क. ख. । ७ ज्ञात्वा - क. । ८ तु (वै) बकः - ख. । ९... न्देवान् - क. ख. । १० न स्म (?) । ११... ज्जिता - क. ।

633
बक१२ एवैष सुव्यक्तं जिता यूयं न संशयः ।
नायमाटिर्बकोयं वै न बकश्चाटिरेव हि१३ । । ११ ।।
एवं विवदतां युद्धमभवद्राज्यकारणात् ।
तेषां दानवमुख्यानां देवैस्सह भयावहम् । । १२ । ।
वर्षाणां वै सहस्रं तु हतो यत्र विरोचनः ।
हते विरोचने ब्रह्मा बलिं तेषां महासुरम् । । १३ । ।
अभ्यषेचयदिन्द्रत्वे१४ स च राजा बभूव ह ।
ततस्स लोकांस्त्रीन् व्यास बलेनाक्रामदव्ययः१५ ।। १४। ।
त्रैलोक्यस्येश्वरश्चैव स जज्ञे ह्यसुरेश्वरः ।
जित्वा युद्धेन१६ देवेन्द्रं स्थानादच्यावयत् प्रभुः । । १५ । ।
इन्द्रत्वमकरोच्चैव यमत्वञ्च महाबलः ।
स एव वरुणश्चाभूद्धनेशोग्निस्तथैव च । । १ ६। ।
आदित्यश्चैव सोमश्च पर्जन्यो वृष्टिसर्जनः ।
सर्वं जगति कर्तव्यं स एव कुरुते सदा१७ । । १७। ।
एवं शासति वै राज्यं१८ देवानामसुखं तदा१९ ।
भ्रष्टैश्वर्या महात्मानो भ्रमन्ति शकुना इव । । १ ८। ।
तेषां ब्रह्मा ददौ बुद्धिं दुःखितानां महात्मनाम् ।
आश्वास्य बहुधा व्यास कारुण्याद् देवसत्तमः । । १ ९। ।
ब्रह्मोवाच
देवा न शक्यो२० युष्माभिर्बलिरेष प्रवाधितुम् ।
महात्मा धार्मिकश्चायममरश्च न संशयः । ।8.116.२ ० । ।
ब्रह्मण्यश्च बलीयाँश्च तथा लब्धवरश्च ह ।
तं गत्वा विप्ररूपेण विष्णुरेष प्रयाचतु२१ । । २१ । ।

१२ एक - ख. । १३ च - ख. । १४... दिन्द्रन्तु - क.,... दिन्द्रस्तु - ख. । १५ बलेकामयदव्ययः - ख. । वशे कास्यद (?), बलेनाक्रम्य दानवः (?) । १६ जिह्वा (ह्म) युद्धेन - । १७.. .न्यदा - क । १८ राज्ये - ख. । १९ तथा - ख. । २० शक्यं - क. ख. । २१ प्रयाचतां - ख ।

634
वामनं रूपमास्थाय भूमेर्वै विक्रमत्रयम् ।
दास्यते स गृहीत्वा तत् क्रमतामेष सर्वशः ।।२२।।
भूमिं क्रमसमां सर्वं करिष्यति न संशयः ।
क्रमं द्वितीयं धातास्य२२ अन्तरिक्षे ततः२३ स्वयम् ।।२३।।
अहं चैव प्रदास्यामि तृतीयं क्रममित्युत ।
एवं वो राज्यलाभोयं२४ दृश्यते नान्यथा सुराः ।।२४।।
यस्मिन्काले प्रक्रमते विष्णुरेष त्रिविष्टपम्२५ ।
तस्मिन्काले च रक्षध्वं सर्वयत्नेन दानवान् ।।२५।।
सनत्कुमार उवाच
त एवमुक्ता देवेशा निश्चित्य बहुधा शुभम् ।
विष्णुमूचुर्महासत्वाः क्रियतां ब्रह्मणो वचः ।।२६।।
दीक्षितश्चासुरश्रेष्ठो हयमेधेन सोद्य वै ।
कल्यं२६ चावभृथं२७ तस्य गत्वा याचस्व तं प्रभो ।।२७।।
सनत्कुमार उवाच
एवमस्त्विति तेनोक्ता देवा युद्धाय दंशिताः ।
अतिष्ठन्त तदा सर्वे शक्रं कृत्वा पुरस्सरम् ।।२८।।
नारदोथ तदा गत्वा पूजितस्तेन भक्तितः ।
सुखोपविष्टः प्राहेदं वचनं वदतां वरः ।।२९।।
धर्मेण तव तुष्टोहमृषयश्च तपोधनाः ।
अनासुरमिद वृत्तं तव दानवसत्तम । ।8.116.३ ०।।
सर्वे२८ हि दानवाः२९ क्रूराः३० ब्रह्मघ्ना३१ लोककण्टकाः३२ ।
त्वं तु ब्राह्मणभक्तश्च लोकानां हितकृत्तथा ।।३१।।
तस्मात्तव शुभं चिन्त्यं सदैवासुरपुङ्गव३३ ।
यथा च ते शुभं किञ्चित् स्याद् राजन्नित्यमेव३४ हि३५ ।।३२।।

२२ दातास्य - ख. । २३ तव - क. ख. । २४ राज्यलम्भोयं - ख । २५ तृविष्टपम - क त्रिवि ख । २६ काल्यां - क., काल्यं - ख. । २७ चावभृतं - ख. । २८ सर्वो - क. । २९ दानवः - क । ३० क्रूरो - क. । ३१ ब्रह्मघ्नो - क. । ३२ लोककण्टकः - क. । ३३ सदेवासुरपुङ्गवाः - क । ३८ राज्यनित्यमेव - क ख । ३५ च - क ।

635
एष देवैः प्रणिहितो विष्णुर्विप्रत्वमास्थितः ।
त्रीँस्त्वा राज्यार्थमुद्युक्तः३६ प्रार्थयिष्यति विक्रमान् । ।३ ३ ।।
तन्न तस्य त्वया देयं३७ राज्यं३८ पश्चान्न ते३९ भवेत् ।
अतः परं भवान् राजन् प्रमाणमसुरेश्वर । । ३४।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा बलिर्वैरोचनिस्तदा ।
उवाच प्रणतो व्यास नारदं दानवेश्वरः ।। ३५।।
शत्रवस्ते मम दृढं तेषां चाहं महामुने ।
यदि ते मां प्रयाचन्ते४० कृतार्थोस्मि ततो ननु ।।३ ६।।
स्वधर्मं४१ सं४२परित्यज्य यदि चेन्मधुसूदनः ।
मां प्रयाचति दीनात्मा सफलं जीवितं मम ।।३७। ।
व्रतं चेदं मम ब्रह्मन् सदैव हि महामुने ।
याचितो४३ न ददामीति न ४४ वदेयमिति प्रभो ।।३८। ।
उर्ध्वं प्राणा ह्युत्क्रामन्ति याचतो४५ विप्रसत्तम ।
ब्रुवतो न ददामीति नरकायोत्क्रमन्त्यथ । ।३९।।
देहीति रुदितस्याख्या४६ नास्तीति प्रतिरोदना ।
मा मां४७ नारद पश्यन्तु रुदन्तमितरे जनाः । ।8.116.४० । ।
एषा४८ भवति सर्वस्य पुरुषस्य महामुने४९ ।
याचतो मम दातायमिच्छा तद्ध्यक्षयं५० फलम् ।।४१ ।।
सोहं यदि न दास्यामि शत्रुभ्यो याचितं५१ महत् ।
नरकं रौरवं नाम प्रतिपत्स्याम्यसंशयम् ।।४२। ।
यो हि वै याचमानाय न ददाति नराधमः ।
स तं हिनस्ति याचन्तमाशाच्छेदान्न संशयः । ।४३ ।।

३६ स वै त्रीन् सुरकार्यार्थं घ। ३७ ते तस्य न त्वया देया घ.। ३८ राजन् (?) । पथ्या न ते क। ४० प्रयाचन्ति - क ख. । ४१ अर्धर्मं - क, सर्धर्मं (?) । ४२ स्वं - ख. । ४३ याचितं - क. । ४४ च - ख. । ४५ याचिते - ख । ४६ रुदितस्याह्वा - ख. । ४७ मा - ख. । ४८ येषां - ख. । ४९ महात्मनः - ख । ५० तद् व्यत्ययं - ख. । ५१ याचितो - ख. ।

636
भबान्मम पिता व्यक्तं५२ पुत्रः स्नेहकृतो५३ ह्यहम्५४ ।
नाहं न दास्ये विप्रेन्द्र निर्वृतिस्ते५५ भवत्वियम्६ ।।४४। ।
सनत्कुमार उवाच
ततस्स तं तदामन्त्र्य तेन चैव सुपूजितः ।
दिवमक्रामदव्यग्र५७श्चिन्तयानः कथं भवेत् । ।४५। ।
गतेथ तस्मिन्दिवसे रजन्यां स५८ महायशाः ।
विष्णुर्वामनरूपेण विप्रो भूत्वा तमर्थयत्५९ । ।४६ । ।
स चापि राजा विप्रेन्द्र६० रत्न३नि च वसूनि च ।
ग्रामान्दासीश्च महिषीर्गवाश्वान् रथहस्तिनः । ।४७।।
वाहनानि च चित्राणि सुवर्णं शयनानि च ।
शय्यास्तरणवस्त्राणि भूषणानि गृहाणि च ।।४८। ।
यं यमर्थयते६१ विप्रो यावद्यश्च६२ यथा यथा६३ ।
तथा तथा स दैत्येन्द्रो ददात्येवाविचारयन् । ।४९। ।
तं तथा वर्तमानं तु वामनः सुमहायशाः ।
प्राह मह्यं प्रयच्छस्व यदहं प्रब्रवीमि ते । ।8.116.५० ।।
स तमर्घेण६४ पाद्येन आसनादिभिरेव च ।
संपूज्यैवाब्रवीद्६५ ब्रूहि यत्तवेष्टं द्विजोत्तम । ।५१ ।।
वामन उवाच
यदि प्रयच्छसे राजन् याचमानाय कामतः ।
ततो ब्रवीम्यन्यथा तु न वक्ष्याम्यसुरेश्वर । ।५२। ।
बलिरुवाच
ज्ञात्वार्थं प्रतिजानीयां देयं ब्राह्मण तद्यदि ।
दातुं च शक्यं तत् स्यात्तु६६ ततोहं६७ दातुमुत्सहे । । ५३ । ।

५२ नित्यं - ख. । ५३ पुत्रस्नेहः कृतः - क । ५४. द्य वै - घ, ५५ निवृतिस्ते - घ । ५६ भवत्वयं - ख. । ५७ दिवमाक्रमदव्यग्र - ख । ५८ च - ख । ५९ तमार्थयत् (?) । ६० विप्रेभ्यो क., विप्रेन्द्रो - ख. । ६१ यद्यवर्थयते (?) । ६२ यावन्तं च (?) । ६३ तथा - क । ६ तमर्घ्येण - क । ६५ संपूज्य चाब्रवीद् - ख । ६६ ते तस्मात् - घ. । ६७ ततस्त (तद्) - घ. ।

637
वामन उवाच प्रतिज्ञा भवतो नित्यमियं६८ ह्यसुरसत्तम ।
यद्यत्प्रयाचते विप्रो दद्यां तत्तदहं त्विति६९ ।।५४।।
दीक्षितश्चाश्वमेधेन त्वं७० ददास्यसुराधिप७१ ।
यद्यत् प्रयाचते विप्रस्तत्तद्दत्से७२ न संशयः ।।५५। ।
सनत्कुमार उवाच
स एवमुक्तो निश्चित्य पुनरेवाह७३ तं नृपः ।
प्रहस्य सुमहावीर्यं इदं वचनकोविदः ।।५६।।
बलिरुवाच
भवान् विष्णुर्विप्ररूपी७४ छद्मना मां प्रयाचसे ।
क्षत्रधर्मं समुत्सृज्य कार्पण्यं७५ च प्रभाषसे ।।५७।।
दीनानामपि७६ सर्वेषामहं दद्यां७७ प्रयाचितः ।
राज्यं विना हि देवाय७८ तुभ्यं दास्ये यथेप्सितम् ।।५८।।
वामन उवाच
सत्यमेतदहं विष्णुर्हृतराज्या वयं त्वया ।
न राज्येद्य स्पृहास्माकं निःस्पृहा हि ततो वयम् ।
गृहं त्वां संप्रयाचाम७९ यत्र वत्स्यामि८० निर्वृतः८१ ।।५९। ।
बलिरुवाच
किंप्रमाणं गृहं तद्वै प्रयाचसि सुरेश्वर ।
कीदृशं क्व च तद्८२ दास्ये ब्रूहि वामन सर्वशः ।।8.116.६०।।
वामन उवाच
सर्वभूमिगुणैर्युक्तं यत्र तत्र महागृहम्८३ ।
मम क्रमैस्त्रिभिर्युक्तं८४ दत्स्व८५ राजन् गृहार्थिने ।।६१ ।।

६८. मिदं - क । ६९ प्रति - क । ७० ष्वं (स्व?) । - क । ७१ वदाम्यसुराधिप - ख । ७२ तत्तद्दत्स्व - घ, तद्ददस्व - क । ७३ पुनराह च - घ. । ७४.. विरूपी च - क., भगवन्विष्णुरूपी ख. । ७५ कार्कश्यं - क । ७६ दानानामपि? । ७७ दद्यात् - क. ख. । ७८ दीनाय - घ. । ७९ प्रयाचामो - ख । ८० वत्स्याम - ख. । ८१ निर्वृताः - ख. । ८ . त - क । ८३ तत्रैवेप्ट गृहं मम - घ. । ८४.. स्तुल्यं - घ.। ८९ धत्स्व - क. ।

638
सनत्कुमार उवाच
अथ शुक्रस्तदा व्यास८६ बलिं प्राह महातपाः ।
न दातव्यं महाराज विष्णुरेव महाबलः ।।।६२ ।।
अयं स हन्ता८७ सर्वेषां दानवानां दुरासदः८८ ।
छद्मनैव८९मिहायातो९० विष्णुरेनं९१ विसर्जय । ।६३ ।।
अनादृत्य वचस्तस्य प्रोवाच दितिनन्दनः ।
दास्ये तुभ्यं गृहं विष्णो यादृशं त्वं प्रयाचसे । ।६४।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा प्रोवाच मधुसूदनः ।
बलिं राजानमनघं सर्वेषामेव सन्निधौ । ।६५। ।
वामन उवाच
साध्यो देवोहमनघ धर्मपुत्रो दितेः सुत९२ ।
ततः प्रतिग्रहे दोषो न ममास्ति महाबल । ।६६।।
यदि देयं गृहं मध्यं पश्चात् तापो न ते यदि ।
हस्ते मम जलं राजन् पातयस्वासुरेश्वर । ।६७ ।।
सनत्कुमार उवाच
ततस्स बाढमित्युक्त्वा भृङ्गारेण महाबलः ।
प्रदातुमुपचक्राम वामनाय गृहं महत् । । ६८। ।
अथ ते९३ दानवाः क्रूराः प्रतिषेधनलालसाः९४ ।
आजग्मुर्भृशमायत्ता९५ बलिं प्रति महामुने ।।६९।।
प्रह्लादो भ्रातृभिः सार्धं मयो जम्भोर्द्धलोचनः९६ ।
विप्रचित्तिश्च विक्रान्त अन्ये च सुमहाबलाः । ।8.116.७० । ।
ऊचुस्ते तं तदा गत्वा९७ कृत्वा प्रह्लादमग्रतः ।
बलिं वैरोचनिं व्यास चिन्तयन्तः पराभवम् ।।७१ । ।

८६... स्तदाभ्येत्य (?) । ८७ निहन्ता - घ. । ८८ महाबल. - घ. । ८१ छलेनैव - क. । ९०.. मिहायातं - क. ख. । ९१ मेनं (?) ९२ सुतः - क. । ९३ ततस्ते - ख. । ९४ प्रतिशोधनलालसाः - ख. । ९५ .मायस्ता - ख. । ९६ जृम्भणोवै नु .. - घ.,... द्य लोचनः - ख. । ९७ ज्ञात्वा - घ. ।

639
प्रह्लाद उवाच
किमिदं पुत्र दुर्बुद्धे त्वया व्यवसितं महत् ।
नाशनं दितिपुत्राणां नैतत् कार्यं महाबल ।।७२। ।
विष्णुरेव महामायो दुरात्मा दैत्यघातकः ।
लोकत्रयमपि ह्येष क्रमिष्यति न संशयः ।।७२ ।।
त्वमस्माकं गतिः पुत्र त्वं वीर्यं त्वं पराक्रमः ।
त्वयि जीवितमायत्तं मा नः क्षिप्रं विनाशय९८ ।।७४।।
हिरण्यकशिपू राजा हिरण्याक्षश्च दानवः ।
तव राज्ञः कलां पुत्र नार्घतः षोडशीमपि९९ ।।७५।।
मैतस्य विबुधस्य१०० त्वं गृहं दत्स्व ब्रवीम्यहम् ।
एतद्धि श्रेयः सर्वेषां तव चैव महाबल ।।७६। ।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा प्रह्लादस्य महात्मनः ।
बलिः प्रणम्य१०१ धर्मात्मा इदमाह महायशाः । ।७७।।
बलिरुवाच
जानेहं१०२ विबुधोयं वै विष्णुः सर्वासुरान्तकः ।
प्रतिज्ञैव ममेयं हि दातव्यं याचितेन मे ।।७८।।
अहं दानपतिः ख्यातस्त्रिषु लोकेषु विश्रुतः ।
कथं तदन्यथा कुर्याञ्जीविते सति दानवाः ।।७९।।
अधर्म्यमयशस्यञ्च अस्वर्ग्यं भयदं महत् ।
कथं नामानृतं कुर्यामिति१०३ मे व्रतमाहितम् ।
प्रतिश्रुत्य कथं भूयोसुरास्ते धर्मकारणात् (?) ।।8.116.८०।।
प्रह्लाद उवाच
दानवानां सदैत्यानां पुत्र धर्मः स्वयं कृतः ।
अधर्मेण हि वर्धन्ते सदैव दितिदानवाः ।८१।।

९८ नैतत्कार्यं महाबल - घ. । ९१ नार्धन्ते - क., नार्हतः (? ), सर्वे नार्हन्ति षोडशीम् - घ. । १००. देव सत्यं - घ. । १०१ बलिम्प्रणम्य - क. । १०२ जानेयं - क. । १०३ कुर्यादिति - ख., कुर्यामिति (?) ।

640
माया चैवानृतं चैव दम्भः सर्ववधस्तथा ।
यज्ञानां परिमोषश्च धर्म एष१०४ हि नः शुभः । ।८२। ।
स त्वं प्रतिश्रुत्य विभो मा ददस्व१०५ दुरात्मने ।
तथा हि नो भवेद् वृद्धिरन्यथेह भयं महत् ।।८ ३ । ।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा बलिर्निश्चिन्त्य१०६ बुद्धिमान् ।
उवाचासुरशार्दूल इदं वचनकोविदः ।।८४। ।
बलिरुवाच
य एष धर्मो धर्मेण भवद्भिः संप्रचोदितः ।
न ह्यस्य फलमानन्त्य क्रूरस्यासुरसत्तम ।।८५।।
हिरण्यकशिपू राजा नात्यन्तं सुखमाप्तवान् ।
हिरण्याक्षस्तथा१०८ चैव अन्धकश्चैव तत्सुतः ।।८६। ।
भवान् पितामहोस्माकं तथा क्रूरेण कर्मणा ।
तस्मान्नेदं प्रशंसन्ति ये केचिद्विदुषो (?) जनाः । ।८७।।
ऋषयः पश्य सत्येन धर्मेण दिवि संस्थिताः ।
देवा जयन्ति चात्यर्थं ग्रहा दिव्यन्ति चैव हि । ।८८ ।।
न कश्चिद् दृश्यते१०९ व्योम्नि तथा क्रूरेण कर्मणा ।
प्रसादयन् क्षामये त्वां ब्रवीमि दितिजेश्वर (?) ।।८९।।
 प्रह्लाद उवाच
दुष्टं वाप्यथवा क्रूरं शोभनं वापि दानव ।
स्वकर्म न विमोक्तव्यं पारम्पर्यागतं महत् ।।8.116.९ ० । ।
- - - पितृभिश्चैव तथा चैव११० पितामहैः ।
आचीर्णं पुत्र नैतत्ते१११ विमोक्तव्यं महामुने ।।९१ ।।
बलिरुवाच
पितृभिर्हि यथा चीर्ण कर्तव्यं यदशङ्कितैः ।
गर्हितं यत्११२ सतां चापि पितामह शृणुष्व मे ।।९२।।

१०४ एषो - ख । १०५ ददक्ष्व - ख. । १०६ निश्चित्य (?) । १०७... ह्यस्या - ख. । १०८... स्तदा - ख.। १०९ दीव्यते (?) । ११० तव - ख. । १११ चैतत्ते - ख. । ११२ च - ख. ।

641
आसीदृषिरदीनात्मा वामदेव इति श्रुतः११६ ।
तस्य दृष्टवोर्वशी मोहाद्रेतः स्कन्दो बभूव ह ।। ९३ । ।
तद् भूमावविद्धं वै चखाद वडवा किल ।
तस्या११४ गर्भः समभवत् सद्यः सोश्वतरी भवत् । ।९४। ।
तामृषिः स सुतस्नेहात् पुपोष बहुला समाः ।
अथागात्तत्र राजर्षिरष्टको नाम वीर्यवान् ।।९५। ।
स तामपश्यद्राजेन्द्र११५ ऋषेराश्रममध्यगाम्११६ ।
अचिन्तयद्धृदा चैव इदं परमहर्षितः । ।९६।।
मम पत्न्यास्तु११७ सदृशी इयं लक्षणसम्पदा११८ ।
यदि दद्यादिमां११९ विप्रः स्यादग्रं मम संगतम् । । ९७।।
न चायं दास्यते विप्रो मह्यमेनां सुदुर्लभाम् ।
उपायं तु करिष्यामि येन दास्यति सुप्रभाम् । ।९८। ।
सनत्कुमार उवाच (?)
ततस्स राजा तं गत्वा वामदेवमुवाच ह ।
प्रणम्य बहुमानेन निकृत्या शक्तिनन्दन । ।९९। ।
राजोवाच
अश्वतर्यानया कार्यं मम किञ्चिन्महामुने ।
संवत्सरं सुसंपूर्णं प्रयच्छस्व प्रयाचितः ।। 8.116.१०० ।।
परिप्राप्ते पुनः कृत्ये तुभ्यं वै द्विजसत्तम ।
पुनः प्रदास्ये विप्रेन्द्र यदि देया प्रदीयताम् ।। १०१ । ।
ततः स ऋषिशार्दूलस्तस्मै प्रादादनिन्दिताम् ।
तां गृहीत्वा ययौ राजा लब्धेति हृषितस्तदा । । १०२ ।।
अथ संवत्सरे पूर्णे तमाह ऋषिसत्तमः ।
तमुवाच ततो विप्रः१२० प्रयच्छाश्वतरीं शुभाम् ।। १०३ ।।

११३ श्रुतिः - ख. । ११४ तस्य - ख. । ११५.. राजेन्द्रो - ख । ११६.. मभ्यगात् - ख. । ११७ ममैव बहुयोग्येदं (यं?) - घ. । ११८ शुभलक्षणसम्पदा - घ. । ११९- --दद्यादयं - ख. । १२० विप्रो - ख. ।

642
न ददौ स हि१२१ दुर्बुद्धिर्ऋषिः क्रोधाज्जघान तम् ।
तस्य पुत्रस्ततो राजा बभूव नरपुङ्गवः । ।१ ०४। ।
तमप्याह ततो विप्रो न ददौ स च तां तदा ।
ततो ममार सोप्येवं१२२ विप्रक्रोधाद् दुरात्मवान् । । १० ५। ।
तस्य पुत्रोभवच्चैव राजा दितिजसत्तमः ।
तमुवाच ततो विप्रः प्रयच्छाश्वतरीमिति । ।१ ०६ । ।
अथ सोपि तथा कृत्वा याचितः सुदुरात्मवान् ।
उवाच नाहं दास्यामि पितृहन्त्रे दुरात्मने । । १ ०७।।
ततस्तमप्यसौ क्रुद्धो विप्रः प्राणैर्व्ययोजयत्१२३ ।
ततो बालः सुतस्तस्य राजाभवदतिद्युतिः ।। १० ८।।
तमप्यसौ तथा१२४ विप्रः प्रोवाच क्रोधमूर्छितः ।
नाशयिष्ये कुलं तद् वै अष्टकस्य दुरात्मनः ।।१ ०९।।
तस्य तद्वचनं श्रुत्वा बालः संपूज्य तं द्विजम् ।
उवाच सचिवान् पृष्ट्वा१२५ पश्चाद्दास्यामि वाडवाम्१२६ ।।8.116.१ १० ।
सचिवान् स तदानाय्य अपृच्छद् दानवेश्वर ।
इयमश्वतरी ब्रूत दातव्या नेति वा शुभा ।। १११ । ।
सचिवा ऊचुः
पितामहस्य ते पित्रा इयमश्वतरी पुरा ।
वर्षमेकं प्रयाच्येह१२७ समानीता१२८ नरेश्वर१२९ । ।१ १ २।।
पूर्णे वर्षे तु१३० विप्रस्य याचतोपि महामुने ।
न दत्ता स च१३१ कोपेन विप्रस्यास्य ममार१३२ ह । ।१ १३ ।।
ततः पितामहस्तुभ्यमासीद्राजा प्रजेश्वर१३३ ।
तथैव सोप्यदत्वैनां विप्रक्रोधान्ममार ह१३४ । । १ १४।।
भवाँस्तु यदि पूर्वेषां वृत्तं समनुवर्तते ।
न देया विप्ररूपस्य मृत्योरस्य दुरात्मनः । । ११ ५।।

१२१ ह - ख । १२२ सौम्ये - ख. । १२३ प्राणैर्वियोजयत् - ख. । १२४ तदा - ख. । १२५ दृष्ट्वा - क ख । १२६ दानवाः - ख, वा न वा (?) । १२७ प्रयाचित्वा - क. ख. । १२८ इहानीता - क. ख. । १२९ सुरेश्वर - क । १३० वर्षेस्य - ख. । १३१ तस्य - ख. । १३२ महा.. - क. । १३३ महेश्वर - क, महेश्वरः - क, ख । १३४ ... त्समाहरत् - क. ।

643
तेषान्तद्वचनं श्रुत्वा सचिवानां१३५ प्रमन्युमान् ।
निर्भत्स्य तान१३६धर्मज्ञानिदमाह महातपाः ।।१ १६।।
पूर्वे ते मौर्ख्यमास्थाय कृतवन्तोतिदारुणम् ।
अधर्म्यमयशस्यञ्च सद्भिश्चैव विगर्हितम् ।।१ १७।।
अहन्न तेषां पन्थानमनुवर्ते कथञ्चन ।
अद्य तानकृतप्रज्ञान् पितॄनथ पितामहान् ।।११८। ।
गर्तस्थान् तारयिष्यामि कुलं च सुमहत्तथा ।
इत्युक्त्वा१३७ निधने तेषां जातः पुत्रो महामतिः ।।११९।।
विप्रस्याश्वतरीदाने मतिं चक्रे सुनिश्चिताम ।
ततस्तमृषिमभ्यर्च्य गन्धमाल्यादिभिर्नृपः ।।8.116.१२० ।
ताञ्चैवाश्वतरीं प्रादादात्मीयां स नराधिपः ।
वसु चैव हि दत्त्वास्मै ऋषिं तं१३८ स प्रसादयत् ।।१२१।।
ततः स ऋषिशार्दूलः प्रहृष्टेनान्तरात्मना ।
उत्थाप्य राजशार्दूलमिदमाह तदा विभुः ।।१ २२।।
त्वया तीर्णाः सुपुत्रेण पितरः सपितामहाः ।
नरकस्था महाबाहो ब्राह्मणस्वेन वेष्टिताः ।।१२३।।
न कृत्यं मम रत्नैश्च नाश्वतर्या नराधिप ।
तुष्टस्तुभ्यं प्रयच्छामि सर्वमेतन्नराधिप ।।१ २४।।
यद्यष्टको ममैवं वै कृतवान् स्याद् दुरात्मवान् ।
तत्पुत्रो वा महाबाहो पिता वा तव दुर्मतिः । ।१२५।।
विनाशं न गतास्ते स्युरहन्तुष्टश्च सर्वशः ।
तदापृच्छे गमिष्यामि तवैषा द्रव्यमेव च ।।१ २६।।
ततस्स ऋषिशार्दूलो जगाम वनमेव हि ।
राजाप्यश्वतरीं लब्ध्वा तया रेमे यथासुखम् । ।१२७।।
एवं हि न१३९ प्रशंसन्ति पूर्वेषां धर्मवर्जितम् ।
कर्म सर्वे द्विजा राजन्१४० ये चान्ये धर्मवादिनः ।
तस्माद्दास्याम्यहं राज्यं वामनाय महात्मने ।।१२८।।

१३५ सचिवाँस्तान् - क. ख. । १३६ निवर्तयित्वा - ख, निभर्त्सयित्वा - क । १३७ अहन्तु - क. ख । १३८ ऋषिस्तं - क. । १३९ नः - क. । १४० राजा - क ।

644
सनत्कुमार उवाच
ततस्सोसुरशार्दूलो वामनस्य तदा करे ।
पातयामास विधिवज्जलं परमपूजितम्१४१ । । १ २९। ।
तस्य पातितमात्रे तु जले विष्णोर्महात्मनः ।
दैत्येन्द्रस्योपरि तदा पुष्पवृष्टिः पपात ह । । 8.116.१३० । ।
साधुसाध्विति भूतानामदृश्यानाञ्च निस्वनः ।
देवदुन्दुभयश्चात्र स्वयं नेदुरनाहताः । ।१ ३ १। ।
मरुतश्च शुभान् गन्धानादाय प्रववुः शुभाः ।
हताः स्थ१४२ दानवास्सर्वे१४३ इति चात्राभवत् स्वनः । । १३२
तत्कर्म तस्यातिसुदुष्करं१४४ तदा समीक्ष्य सर्वे ऋषयस्तपोधनाः ।
प्रशंसमाना दितिनन्दनेश्वरं प्रणेमुरारान्मधुसूदनं तदा । । १३३ । ।
इति स्कन्दपुराणे वामने षोडशोत्तरशतोध्यायः१४५

सनत्कुमार उवाच -
ततस्स भगवान् विष्णुरुवाचासुरपुङ्गवम् ।
क्रमामि विक्रमैः पश्य दानवेश्वर सुप्रभ१ । । १ । ।
यदि चेत् पूर्यते दत्तं न चेद्दातव्य२ इत्युत३ ।
भवता भूमिभागोन्यः सत्यवाग् भव दानव । ।२ । ।
बलिरुवाच
क्रमस्व वामनश्रेष्ठ क्रमाँस्त्रीनद्य सर्वशः ।
न चेत् पूर्येत४ दाताहं सत्यमेतद् ब्रवीमि ते । ।३ । ।
सनत्कुमार उवाच
ततस्स देवदेवेशं महादेवमुमापतिम् ।
प्रणेमे परया भक्त्या क्रमिष्यन विष्णुरव्ययः । ।४। ।

१४१ पूजितः - क । १४२ -हतास्तु - क । १४३ स्सर्वा - ख । १४४ तस्याप्यतिदुष्करं - ख । १४५ अध्यायाः १६९ - ख. ।
१ सुप्रभः - क. ख , संप्रति - घ । २ भवेद्दातव्य - ख. । ३.. भित्युत - क. ख. । ४ चेत्पूर्यति - क ख. ।

645
ततो देवाः सुसंयत्ताः सन्नद्धा युद्धलालसाः ।
आकाशेन महासत्वास्तत्राजग्मुर्महाबलाः । ।५। ।
ततस्स पुष्करद्वीपे विष्णुः परमदीप्तिमत् ।
रूपं कृत्वा भुवं द्याञ्च - - वै क्रममाचरत् । । ६। ।
स पादमुदये कृत्वा द्वितीयं सरितां पतौ ।
पुष्करस्यैवोत्तरतस्तेन लोकमिमं गतः५ । ।७। ।
क्रमित्वा विक्रमं चैकपादमुत्क्षिपतस्तदा ।
अजको नाम दैत्येन्द्रः पादं तं समगृह्णत । ।८। ।
स तं सहैवासुरेण उत्क्षिपन्मधुसूदनः६ ।
क्षिप्तोसावसुरो७ व्यास अद्यापि न निवर्तते । ।९। ।
ततो द्वितीयं रुद्रस्य योगं परममास्थितः ।
अन्तरिक्षे भुवर्लोक९ एक एव क्रमोभवत् । । 8.117.१० । ।
ततोन्तरिक्षाद् भूयोपि ब्रह्मणो१० योगमास्थितः ।
स्वर्लोकमखिलं व्यास११ क्रममेकं चकार ह१२ ।। ११ । ।
तं तु लोकं समासाद्य निःसृतं देवसत्तमः१३ ।
जनलोकं समासाद्य१४ न समाप्तञ्च तत्ततः१५ । । १२ । ।
तस्य चो१६त्क्रक्रमतस्तत्र१७ दैत्याः शस्त्रास्त्रपाणयः ।
अभ्यक्रमन्त१८ वेगेन देवास्तान्सन्न्यवारयन् ।। १३ ।।
दश पुत्रसहस्राणि तनयानां बलेस्तदा१९ ।
युध्यमाना हतास्तेन विविधायुधपाणयः । । १४। ।
बाणो वातश्च द्वावेतौ२० बलिपुत्रौ महाबलौ२१ ।
तस्माद् भ्रष्टौ तदा व्यास संग्रामाद्ययतुर्मुने२२ ।। १ ५।।
अथ ब्रह्मा तदाभ्येत्य समयं प्रचकार ह ।
विमुच्य पाशान्देवेश इमं२३ लोक२४ पितामहः ।। १६। ।

५ गतं - ख. । ६.. णोदक्षिपन्मधुसूदनः - (?) । ७ क्षिप्तो वा - क, क्षिप्तः स चासुरो - घ- । ८ न संज्ञातः क्व वा गतः - घ । ९ च भूर्लोकः पूर्णं - घ. । १० ब्राह्मणो - क. । ११ सर्व - क., सर्वे - ख. । १२ क्रममेवं - क., क्रमे तच्च चकार ह - घ. । १३ पूर्णो नैव तृतीयकः - घ । १४ छलं चक्रे ततस्तस्य - घ. । १५ तत्त्वतः - ख. । १६ तस्योर्धं - क ख । १७ चाक्रामतस्तत्र - क. । १० अभिक्रमन्त - क, अति - ख. । १९ स्तथा - क । २० द्वावेव ? । २१ महाबलः - क । २२ संग्रामायोद्यतुर्मुने - क. । २३ इद - क. । २४ लोकं - क ।

646
बले त्वयाखिलं राज्यं देवानां प्रतिपादितम् ।
सत्ये त्वं समये स्थित्वा मा राज्यं कामये पुनः२५ ।।१७।।
यावन्मन्वन्तरमिदमेष ते समयः शुभः ।
परिपाल्यः सदा वत्स गच्छ चैव यथासुखम् । । १८।।
इदं यज्ञफलं सम्यगवाप्स्यसि न संशयः ।
योगञ्च मत्प्रसादेन भूय एव ह्यवाप्स्यसि ।।१ ९।।
सैव२६मुक्तस्तमापृच्छ्य२७ पातालं संविवेश ह ।
देवा अपि ततः प्राप्य स्वं राज्यं२८ मुमुदुर्भृशम् ।।8.117.२०।।
व्यास उवाच
कीदृक् स भगवान् विष्णुस्त्यक्त्वा स्वं धर्ममूर्जितम् ।
प्रत्याहरत त्रैलोक्यं न चैवास्यानयोभवत् । ।२१ ।।
सनत्कुमार उवाच
क्रमतस्तस्य देवस्य बिष्णोर्दीप्तानलप्रभम् ।
बभौ रूपमतीवोग्रं दुर्निरीक्ष्यं सुरैरपि ।।२२।।
अथ देवाः सहेन्द्रेण विष्णुं परमदैवतम्२९ ।
तुष्टुवुः प्रशशंसुश्च कृतकृत्या महाबलम् । ।२३ ।।
प्रीत्या परमया युक्ताः सर्वे दिव्यास्त्रधारिणः ।
दानवैरर्द्यमानानामस्माकं विबुधेश्वरः । ।२४। ।
त्राता राज्यप्रदश्चैव त्वमभूस्सुरसत्तम३०।
त्वया स्म सुखिनः३१ सर्वे कर्मिणः सुकृतैर्यथा ।।२५।।
तव देव प्रभावेण३२ राज्यं भोक्ष्याम विज्वराः ।
तपनस्य(?) प्रभावेण यथा पूर्वं सुरेतराः ।।२६। ।
त्वं हि नः परमं धाम तथैव च परा गतिः३३ ।
परं पवित्रं त्वं चैव ऋते देवमुमापतिम् ।।२७।।

१५ कामयेत् पुनः - क ख । २६ स एव - क. । २७ मुक्त्वा आपृष्ट्वा - क, स्तं पृष्ट्वा - ख. । १८ स्वराज्यं - क. । २९ देवतम् - क. ख. । ३० त्सुरसत्तम - क. ख । ३ १.. त्सुखिनः - क. । ३२ न - क ख. । ३३ त्वं हि नः परमाङ्गतिः - ख. ।

647
सनत्कुमार उवाच तस्यैवं स्तूयमानस्य त्रिदशैः शार्ङ्गधन्वनः ।
अभूत्३४ तुष्टिस्तदात्यर्थं बहुमानस्तथात्मनि३५ ।।२८।।
ततोभिमानतस्तस्य३६ स योगः परमो मुने ।
अभ्रश्यत यथा वह्निः सलिलेन समुक्षितः ।।२९।।
ततस्तदन्तरं लब्ध्वा पाप्मा सा ह्यासुरी मुने ।
प्रहृष्टा संप्रहृष्यैन३७माविवेश जनार्दनम् ।।8.117.३ ० ।।
स तया पाप्मया व्यास आविष्टो विष्णुरव्ययः ।
न बभौ दीप्तिमाँस्तत्र सन्तः प्राप्येव दारुणम् ।।३ १।।
इति स्कन्दपुराणे वामने त्रैलोक्यक्रमणे सप्तदशोत्तरशततमोध्यायः

सनत्कुमार उवाच
तथा स पाप्मया व्यास आसुर्या संगतस्तदा ।
तदेव रूपं संप्राप्तो वामनं देवसत्तमः ।।१।।
तं तथा वर्तमानं तु देवास्सर्वे सवासवाः ।
अब्रुवन् किमिदं देव तव वैकृतमीदृशम्२ ।।२।।
तेषां तद्वचनं श्रुत्वा ऋषयः शंसितव्रताः ।
मरीचिर्भृगुरत्रिश्च अङ्गिरा क्रतुरेव च ।।३ ।
वसिष्ठश्च पुलस्त्यश्च पुलहो रुचिरेव च ।
विश्वामित्रो वामदेवो भरद्वाजस्तथौशिजः ।।४।।
गौतमश्च शरद्वाँश्च कश्यप३श्चोद्दल४स्तथा ।
वत्सारो नैध्रुवश्चैव च्यवनश्चात्मवानपि ।।५।।
दधीचश्च५ ऋचीकश्च जमदग्निश्च विश्रुतः ।
जामदग्न्यस्तथा रामो ह्यगस्तिश्च महातपाः ।।६।।

३४ बभौ - क. ख. । ३५.. नो तथात्मनि - क, माने तथात्मनि - ख. । ३६ ततोतिमानतस्तस्य - ख. । ३७ संप्रहष्यैव - क ।
१ संप्राप्य - क. ख. । २ वै कृत्यमीदृशम् - क. टि. । ३ काश्ययपः - क. । ४. श्चोदल्ल - क. । ५ दधीकश्च - क. ।

648
बृहस्पतिश्च शुक्रश्च शक्तिश्च सपराशरः ।
कुणिश्च कुणिबाहश्च६ तथा सारस्वतश्च यः ।।७। ।
एते चान्ये च ऋषयो नारदश्च सपर्वतः ।
ऊचुर्देवांस्तदा व्यास७ ब्रह्मणा संप्रचोदिताः ।।८ । ।
ऋषय ऊचुः
वयं देवाद्य संप्राप्ता ब्रह्मलोकात् सुरेश्वराः ।
आज्ञप्ता ब्रह्मणा क्षिप्रं देवस्यास्य कृतेन ह ।।९।।
यदनेन परित्यज्य स्वधर्मं देवबन्धुना ।
प्रतिग्रहः कृतो राज्यं वैकुण्ठेन महात्मना । । 8.118.१० । ।
ततः पाप्मासुराणां या सर्वप्राणिभयंकरी ।
सासुरान् संपरित्यज्य केशवं संविवेश ह । । ११ । ।
तथाभिभूतो८ देवोयमशक्तः शत्रुबाधने ।
न चास्य तेजः सर्वे वै९ पश्यध्वं पूर्ववच्छुभम् ।। १२ ।।
स एष यदि मन्यध्वं तीर्थेषु सुसमाहितः ।
स्नात्वाश्वमेधेन पुनर्यजतां दैवतैस्सह१० । । १३ । ।
ततः पिनाकिनं दृष्टवा तेन पूतश्च सर्वशः ।
भविता पाप्मया मुक्त एवमाह पितामहः । ।१४।।
सनत्कुमार उवाच
ततस्ते सहितास्सर्वे देवा मुनिजनैस्सह ।
तीर्थयात्रामकुर्वन् तं११ गृहीत्वा विष्णुमव्ययम् ।। १ ५। ।
ते तु पुष्करिणीं१२ रम्यां सुषुम्णेति सुविश्रुताम्१३ ।
नलिनीवनसंछन्नां१४ प्रहृष्टाण्डजनादिताम् । । १ ६। ।
बहुवृक्षवनोपेतां फुल्लपङ्कजशोभिताम् ।
बहूपवनवृक्षाढ्यां सूक्ष्मकाञ्चनबालुकाम् । । १७। ।

६ कुणिराहुश्च - क. । ७. . भ्येत्य (?) । ८ विभूतो - क- । ९ सर्वेषां - क., षा (शा) - ख । १० देवतैः सहः - क. ख । ११ मकुर्वन्त - क. । १२ पुष्किरणी - क । १३ सुषुम्नामिति विश्रुताम् - क. । १४... षण्डसंछन्ना (?) ।

649
वज्रवैदूर्यनीलाङ्कामिन्द्रनीललतोपलाम् ।
विविधाण्डजशब्दाढ्यां सिद्धचारणसेविताम् ।।१८।।
किन्नरोद्गीतमधुरामप्सरोभिश्च सेविताम् ।
मत्तभ्रमरगीताढ्यां१५ श्रीनिकेतननिकेतनाम्१६ ।। १ ९।।
यस्यां१७ स्नात्वा नरो मर्त्यः१८ स्वशरीरेण सुव्रत ।
विमानेनार्कभासेन गच्छन्ति१९ ह्यमरालयम् ।।8.118.२ ० ।।
तामासाद्य तदा देवाः सुषुम्नामृषिभिस्सह ।
पद्मानि जगृहुश्चैव मृणालानि बिसानि२० च ।।२१ ।।
अथ तत्र महापद्मं विकचं सुमनोहरम् ।
सहस्रपत्रसंछन्न२१ मगस्त्योद्धृत्य गृह्य तत्२२ । ।२२ ।
तस्यास्तीरे निचिक्षेप२३ ततः सस्नौ२४ यथासुखम् ।
जग्राह तच्च देवेन्द्र अदृष्टः केनचिद्विभुः ।।२३ । ।
अथागस्त्यः समुत्तीर्णो न तत्पद्ममपश्यत ।
सर्वांश्च तानुपामन्त्र्य इदमाह महामनाः२५ ।।२४।।
अगस्त्य उवाच२६
मम पद्म महद्देवाः केनादत्तं सुपुष्पितम् ।
सनत्कुमार उवाच
ततस्त ऋषयस्सर्वे देवाश्चापि२७ ऋषेस्तदा ।
प्रत्ययान् विविधाँश्चक्रु२८रेकैकश्येन२९ सुव्रत ।।२५। ।
इन्द्र उवाच
स यज्ञैर्यजतामिष्टैर्बहुभिश्चाप्तदक्षिणैः ।
वसेत् स्वर्गे च नियतं यस्ते हरति पङ्कजम् ।।२६।।

१५ भ्रमरोन्मत्तगीताढ्यां - क ख. । १६ श्रीनिकेतनिभां शुभा - ख. । १७ योस्यां - क. । १८ मर्त्याः - क. । १९ गच्छते - क. । २० वनानि - ख. । २१ संहृष्टः - ख, संगृह्य - क । २२ गृहीतवान् -क. । २३ तीरेथ चिक्षेप - ख. । २४ तस्थौ - घ. । २५ महात्मना - क. ख । २६ अगस्त्तिरुवाच - क ख । २७ देवताश्च - ख । २८.. -ञ्चक्रु - क. । २९... स्य - क,... स्येन - ख. ।

650
सनत्कुमार उवाच
ततस्ते मेनिरे सर्वे देवेन्द्रेण महात्मना ।
गृहीतं पङ्कजं व्यास इन्द्रश्चैनमुवाच३० ह । ।२७। ।
इन्द्र उवाच
ऋषीणां धर्मतत्त्वानि शृणुयाय वयं कथम् ।
उपायोयं कृतस्तस्माद् गृहाणेदं३१ जलोद्भवम् ।।२८ ।।
सनत्कुमार उवाच
ततस्ते तत्र संपूज्य अग्नीन् देवान् पितॄनपि ।
ब्राह्मणांस्तर्पयित्वा च विष्णोः कृत्वा तथाशिषः ।।२९।।
जग्मुरन्यानि तीर्थानि सुपुण्यानि शुभानि च ।
बहूनि व्यास मुनयो देवाश्च सुसमाहिताः । ।8.118.३ ० । ।
अथापश्यन्त ते वृक्षमेकं शुष्कं महातरुम् ।
कोटरे च शुकं तस्य शुष्यन्तं व्याकुलेन्द्रियम् । ।३ १ । ।
ते दृष्टवा तमपृच्छन्त महेन्द्रेण दिवौकसः ।
दिव्येन चक्षुषा दृष्ट्वा शुकं तुष्ट्वा यशस्विनः ।।३ २।।
इन्द्र उवाच
खगेश्वर मृते ह्यस्मिन् कस्मात्तिष्ठसि पादपे ।
अपुष्पफलपत्रे त्वं३२ शुष्के निरुपजीविते३३ ।।३ ३ । ।
शुक उवाच
एष वृक्षः पुरा ह्यासीत् सुमहान् कल्पवृक्षवत् ।
फलैरमृतकल्पैश्च चिरश्चाप्युपजीवितः३४ । ।३४।।
दशामिमां पुनः प्राप्तः३५ कालेन च३६ वनस्पतिः ।
जह्यादेनं कथं प्राज्ञः कृतज्ञो मादृशः पुनः । ।३५। ।

३० इन्द्रश्चैवमुवाच - क., इन्द्रश्चेद - ख । ३१ गृहाणेमं - क. ख. । ३२ तु - क. । ३३ निरुपजीव्यते - क. । ३४. '. जीवितम् - ख. । ३५ प्राप्य - ख. । ३६ कालेनैव - ख ।

651
कृतघ्नः स्यामहं देव३७ भृतमेनं परित्यजन् ।
ये लोका ह्यस्य वृक्षस्य ते मे सन्तु शचीपते । ।३६।।
इन्द्र उवाच
प्रज्ञावानसि मेधावी महात्मा नयतत्त्ववित्३८ ।
कथं मूढमिवात्मानं करोषि खगपार्थिव ।।३७।।
वनस्पतिरयं साधो धर्म एषोस्य नित्यदा ।
अबुद्धिपूर्वं पक्षीन्द्र स्वभावा३९च्चात्र कारितः ।।३८।।
नास्येयं बुद्धिरभवद्वयांसि मयि नित्यशः ।
वसन्तु मम खादन्तु फलानि च यथासुखम् ।।३९ ।।
अचेतनो यथा हद्यग्निरापो वायुश्च तत्त्वतः ।
भूतानामुपकाराय स्वभावान्नान्यथा हि ते ।।8.118.४०।।
तद्वत् त्वं खग वृक्षस्य बुद्ध्वा कर्म स्वभावजम्४० ।
परित्यज्येममन्यत्र४१ गच्छ यत्र सुखं भवेत् ।।४१।।
शुक उवाच
न मूढोस्मि सुरेशान मावमंस्था वचो मम ।
शृणुष्व च यथाप्रज्ञा मम देवेश्वर प्रभो ।।४२।।
अचेतनो यथा ह्यग्निरापो वायुश्च तत्त्वतः ।
न तथा सुरशार्दूल वृक्षगुल्मलतादयः । ।४३ ।।
विहितो ह्येष संसारः सर्वेषामेव कर्मिणाम् ।
तस्मादचेतनत्वन्ते न वृक्षेषु सुरेश्वर ।।४४।।
यथा च बुद्धिर्वृक्षाणां कथं कुर्याम सर्वशः ।
उपकारास्तु भूतानामिति मे तन्निशामय ।।४५।।
स्वयम्भुरेतानवदत् सृष्ट्वा मुख्यान्महायशाः४२ ।
प्रजानामुपकाराय वर्तध्वमिति सर्वशः ।।४६।।
ततस्ते फलपुष्पत्वक्प्रबालादिभिरन्तशः ।
उपकाराय वर्तन्ते सर्वभूतेषु लोकप ।।४७।।

३७ महद्देव - क. । ३८ नयुतत्ववित् - क. । ३९... न्नात्र - क । ४० स्वयं कृतम् - क. ख. । ४१ परित्यजेममन्यत्र - क. । ४२ महायशं - क. ।

652
वायुरग्निस्तथापश्च किन्तवाविदितं प्रभो ।
बुद्धिपूर्वं प्रवर्तन्ते यथावद्धि नगाः शुभाः । ।४८ ।।
इन्द्र उवाच
कथं तवेदं विज्ञानं को धर्मः कश्च ते श्रमः ।
एतद्वेदितुमिच्छामः४३ कथयस्व खगेश्वर । ।४९। ।
शुक उवाच
जन्मप्रभृति देवेश न मित्रद्रुहणे मम ।
बुद्धिः समभवन्नित्यं मृत्यावपि समागते । ।8.118.५० । । ।
मातापितृपरश्चाहं स्वदारनिरतस्तथा ।
नावमन्ये च४४ भूतानि ऋतुकाले व्रजामि च । ।५१ ।।
न भक्षयामि धान्यानि परेषां देवताधिप ।
तेन मे ज्ञानममलं प्रवृत्तं सुरसत्तम । ।५२ । ।
इन्द्र उवाच
तुष्टोस्मि तव सद्बुद्ध्या अनया खगसत्तम ।
वरं वृणु प्रदास्यामि यद् भवान्मन्यते शुभम् ।।५३ । ।
शुक उवाच
जीवतामेष४५ देवेन्द्र त्वत्प्रसादाद् वनस्पतिः ।
अतो नान्यमहं४६ देव वृणुयां वरमुत्तमम् । ।५४।।
इन्द्र उवाच
कर्मणा स्वेन जन्तूनां गतयः संप्रकीर्तिताः ।
स्वेनैव कर्मणा पातः४७ किन्तवानेन बुद्धिमन्४८ ।।५ ५। ।
इदं विमानमारुह्य मया दत्तं खगोत्तम ।
मम लोकं व्रज क्षिप्रं स्तूयमानो यथा नर । । ५६ । ।

४३ मिच्छाम - क, इच्छा मे (?) ख. ? ४४ नावमन्यामि - क, नावमन्यानि -ख। ४५ जीवितामेष -क. ख। ४६ नान्यदहं - ख. । ४७ यातः - क ख., जातः (?) । ४८ बुद्धिमान् - ख. ।

653
शुक उवाच न लोकानहमिच्छामि न विमानं न४९ वै सुखम् ।
प्रयाचितं५० प्रयच्छस्व जीवतामेष५१ वै नगः । । ५७।।
सनत्कुमार उवाच
सद्भावं५२ तस्य तं ज्ञात्वा५३ सर्वं च सुरसत्तमः ।
चकार स५४ यथापूर्वं वृक्षं सर्वगुणान्वितम् । ।५८। ।
शुकश्च कर्मणा तेन दृढभक्तितयापि५५ च ।
दीनेष्वभ्युपपत्त्या च ब्रह्मलोकं जगाम ह । ।५९। ।
इति स्कन्दपुराणे वामनतीर्थयात्रायाम्५६ अष्टादशोत्तरशततमोध्यायः

सनत्कुमार उवाच
ततस्ते दैवता१ स्सर्वे कृमिलां२ नाम वै पुरीम् ।
उपागता ह्यवैक्षन्त४ तत्र चेदं महामुने ।। १ । ।
ब्राह्मणी गौतमी नाम रुद्राणीव यथापरा७ ।
धार्मिकी च वदान्या च तपसा दग्धकिल्विषा । । २। ।
तस्यास्तपसि सक्ताया ब्रह्मलोकं गते पतौ ।
कृष्णसर्पेण महता सुतो दष्टो ममार ह । । ३ । ।
तं देशमागमत्तत्र८ व्याधोर्जुनक इत्युत ।
स आगतस्तदापश्यद्विषेण समभिप्लुतम् । ।४।।
स गत्वा गौतमीं प्राह सुतोयं ते तपोधने ।
दष्टोहिना ममाराशु किन्नैनमवबुध्यसे । ।५ । ।

४९ विमानं न च - क. ख. । ५० प्रयाचितः - ख । ५१ जीवितामेष - क ख । ५२ सद्भाव्यं - ख । ५३ श्रुत्वा - ख । ५४ च - क ख । ५५ दृढभक्तयापि - ख । ५६ शुकप्रश्ने - ख. ।

१ देवता - क. ख. । २ किमिलां - क । ३ तो (न) - क । ४ ह्यवेक्षन्त - क, ह्यपेक्षन्त ख । ५ ब्राह्मणीं - क ख । ६ गौतमीं । - क ख । ७ मपरामिव - क ख. । ८ शब्दे तमागमत्तत्र - क । ९ ज्ञात्वा - क ।

654
सा तथोक्ता समागम्य पुत्रं दृष्ट्वा गतायुषम् ।
रुरोद बहुधा व्यास मृतापत्या महाव्रता । ।६ ।।
तस्या विलपमानाया व्याधः सोर्जुनकस्तदा ।
बिलं खनित्वा निष्कृष्य तमहिं समबन्धत । ।७।।
स बद्बस्तेन दुष्टात्मा कृष्णसर्पः सुदुःखितः ।
उवाच तं तदा१० व्याधं योसावर्जुनकः स्मृतः ।।८।।
किं मया तव बद्धेन नाधर्मं परिपश्यसि ।
न चैव भक्ष्या मर्त्यानां वयं किं मां११ न मुञ्चसि१२ ।।९।।
अर्जुन उवाच
त्वामाद्य खण्डशः कृत्वा भक्षं१३ दास्यामि वहिर्णे ।
त्वयायं भक्षितो१४ यस्मादृषिपुत्रो ममार ह१५ ।।8.119.१ ०।।
सर्प उवाच
कालेन१६ चोदितोहं तं१७ दष्टवानृषिपुत्रकम् ।
न मां दोषेणार्जुनक१८ क्षेप्तुमर्हसि१९ तत्त्वतः ।।११।।
अर्जुन उवाच
चोदितो यदि कालेन दष्टवानसि पन्नग ।
निमित्तं त्वं हि मरणे तस्माद्धंस्यामि ते भृशम् ।।१२।।
सनत्कुमार उवाच
ततस्सा गौतमी व्यास कालं२० मृत्युमथाकरोत्२१ ।
दुःखेन परमेणार्ता२२ कालो भीतस्ततोभ्यगात्२३ ।।१३।।
काल उवाच
अहं हि सर्वसत्वानां कालो नास्त्यत्र संशयः ।
चोदितो मृत्युनैवाहं हतवानृषिपुत्रकम् ।।१४।।

१० तथा - क । ११ भयं - क. । तव भक्षोहं ततः किं मां - घ । । २ मुच्यसे - क । १३ भक्ष्यं - ख । १४ संभक्षितो क । १५ महाबलः - ख । १६ नो - ख । १७. तुं - क. ख. । १८ नार्जुनक - क. ख. । १९ क्षान्तुमर्हसि - ख । २० काले - क. । २१ मकुर्वत - क ख. । २२ परमेणार्तं - क. । २३... भ्यधात् (?) ।

655
अर्जुन उवाच
त्वया वा मृत्युना वायं चोदितो दष्टवान्यदि ।
वधे निमित्तमेषोस्य तस्मादेनं निहन्म्यहम् ।।१५।।
सनत्कुमार उवाच
अथ मृत्युस्तदाभेत्य तं देशं सुमहामनाः ।
गौतम्यास्तपसो भीत इदं प्रोवाच सुस्वरम् ।।१६।।
अहमप्येष संबद्धं नियत्या सुसमाहितः२४ ।
मारयामि न मे दोषं कर्तुमर्हसि सुव्रते । ।१७।।
अर्जुन उवाच
नियतिर्वास्तु मृत्युर्वा कालो वाप्यस्तु कारणम् ।
कृष्णसर्पो निमित्तं तु तस्माद्वध्यो न संशयः ।।१८।।
सनत्कुमार उवाच
अथागान्नियतिस्तत्र उवाचेदं च सा तदा ।
गौतमीं दुःखितां व्यास भीता प्राह तदा वचः ।।१९।।
कृतान्तवशगा साध्वि जन्तून्नित्यमतन्द्रिता ।
पाशैर्बद्ध्वा वशं मृत्योर्नयामि२५ वरवर्णिनि ।।8.119.२०।।
कृतान्त उवाच
अहं हि किङ्करः साध्वि यमस्य सुमहात्मनः ।
तेन प्रचोदितो जन्तून्नयामि यमसादनम् ।।२१ ।।
अर्जुन उवाच
यमोपि वा२६ कृतान्तो वा एते वाप्यस्य कारणम् ।
नैवमेवं दुराचारो विमोक्ष्येत२७ कदाचन ।।२२।।
सनत्कुमार उवाच
ततो यमस्तदा व्यास स्वयमेव महामनाः२८ ।
तत्रागात्तामिदं चैव गौतमीं सोभ्युवाच ह ।।२३।।

२४ सुसमाहिता - क. । २५ र्नयामि ।; ६ वापि - ख । २७ विमोक्ष्यति - क ख. । २८ महात्मना - क. ख ।

656
नाहं नैते महासत्वास्त पुत्रस्य कारणम् ।
मरणे तस्य वीक्षस्व शृणु चापि२९ वचो मम । ।२४।।
जन्तूनां देहसंयोगो धर्माधर्मकृतः शुभे३० ।
वियोगश्चापि देहेन ताभ्यामेव क्षयात्पुनः । ।२५।।
देहिनां धर्म एवैक आयुषो हेतुरुच्यते ।
तत्क्षये मरणं प्रोक्तं कालो मृत्युश्च स स्मृतः । ।२६। ।
कृते वर्षसहस्रैस्तु चतुर्भिः काल उच्यते ।
त्रेतायान्तु त्रिसाहस्रो द्वापरे द्विसहस्रिकः । ।२७।।
कलौ तु शतमेवाहुः कालं जन्तोर्महाव्रते ।
अकालेन्यत्ततः प्रोक्तं तच्चापि३१ मरणं शृणु । ।२८।।
इन्द्रियेष्वस्य ये देवा वसन्ति द्विपदां वरे ।
तेस्य सर्वे हरन्त्येकं भागं दैवतसत्तमाः३२ । ।२ ९ । ।
चक्षुषा पश्यतो दुष्टं दुष्टं च ब्रुवतस्तथा ।
शृण्वतो मन्वतश्चैव३३ बुध्यतश्चापि पश्यतः३४ । । 8.119.३० ।।
तथा स्पर्शयतश्चैव जिघ्रतो भुञ्जतोपि वा ।
आदानाद् गमानाच्चैव आनन्दोत्सर्गतस्तथा ।।३ १ । ।
भागं भूतानि चान्यं तु हरन्ति पुनरेव हि३५
सुदुष्टं वर्ततस्तेषु३६ भागञ्च व्याधयोपरम् ।। ३२ । ।
अपरं पितरो भागं देवाश्चान्यमतोपरम्३७ ।
अपरं चर्षयो वह्निश्चन्द्रादित्यौ ग्रहास्तथा ।।३ ३ ।।
तस्यैवं देहिनः साध्वि यावदेवाहृतं भवेत् ।
तावदेव स जीवेत अकालः स च वक्ष्यते ।। ३४।।
यथा च म्रियते३८ जन्तुरकाले तपसैधिते३९ ।
तथा शृणु ममाद्येह गदतो वरवर्णिनि । ।३५।।

२९ चैव - ख. । ३० शुभैः - क. । ३१ अकालोन्यस्ततः प्रोक्तस्तत्रापि - (?) । ३२ देवतसत्तमाः - क ख. । ३३ मन्यतश्चैव - क. ख. । ३४ .. भिपश्यतः (?] । ३५ ह - क. ख । ३६., स्ते ते - ख. । ३७.. दतोपरम् - क. ख । ३८ मृयते - क । ३९ तपसेधिते - क. ख. ।

657
यावन्न हीयते४० तस्य जन्तोरायुर्महाव्रते४१ ।
तावत्स जीवितं प्राप्य तस्यान्ते म्रियते पुनः । ।३ ६। ।
तस्य येनापराधेन आयुर्देवा हरन्ति तत्४२ ।
तेनाधर्मो महान्तस्य उत्पन्नो जीवितान्तकः । । ३७।।
प्रादुर्भूतस्तदा साध्वि व्याधिर्मर्माणि कृन्तति ।
स कृत्तमर्मा ह्यवशो४३ देहं त्यक्त्वा महाव्रते । ।३८। ।
अन्यद्देहं समासाद्य गतिमन्यां प्रपद्यते ।
येस्य४४ व्याधिं न कुरुते सोधर्मोनुग्रहात्४५ पुनः । ।३ ९ । ।
देवानां देहवासानां तमप्यन्येन४६ हन्ति वै ।
विषशस्त्रप्रपतनैर्जन्तुभिश्च पृथग्विधैः ।
अन्यैश्च बहुभिर्घोरैर्नात्र दोषः४७ प्रपश्यतः४८।।8.119.४० । ।
सनत्कुमार उवाच
ततस्सा तपसा दृष्टवा४९ गौतमी सुमहाव्रता ।
तमर्जुनकमाहेदं वचनं दुःखवर्जिता । ।४१ ।।
गौतम्युवाच
मुञ्चार्जुनक५० नायं मे पन्नगो वधमर्हति ।
आविष्टोयमधर्मेण दैवतैश्चादशत् सुतम् । ।४२ । ।
ईश्वरास्ते महात्मानो जन्तूनाविश्य चेतनान्५१
अचेतनाँश्च५२ सर्वेत्र५३ प्रयुञ्जन्ति यथातथम् । ।४३ । ।
मृत एष स्वधर्मेण नास्ति दोषस्तपस्विनाम्५४ ।
गच्छध्वं दैवताः५५ सर्वे स्वान् गृहान् किमिहास्यते ।।४ ८।।
सनत्कुमार उवाच
ततस्ता देवताः सर्वाः प्रेषिता ब्रह्मयोषिता ।
सममूचुस्तदा व्यास गौतमीं तामिदं वचः । ।४५ ।।

४०.. तच्च महते? - क । ४१ महाप्रभे - ख. । ४२ ते - क. स्व. । ४३ सुयशो (शे) - क. ख. । ४४ योस्य (?) । ४५ स धर्मानुग्रहात्-क. । ४६ तपमन्येन-क. ख. । ४७ दोषं- ख । ४८ प्रपश्यत - क., प्रपश्यते- ख. । ४९ वचनं श्रुत्वा - घ. । ५० मयार्जुनक - ख. । ५१ चेतनाः - क., चेतनं - ख. । ५२ अचेतनाश्च - क. । ५३ तु - क. । ५४ ... स्तपश्विनः - ख. । ५५ देवताः - क. ।

658
देवा ऊचुः
तुष्टाः स्म तव धर्मज्ञे तपसा दग्धकिल्बिषे ।
जीवतामेष ते पुत्रः स्वधर्मे चावतिष्ठतु ।।४६।।
सर्प एष स्वयं साध्वि अधर्मो मूर्तिमान् स्थितः ।
व्याधरूपी च धर्मोयं पश्यैतौ सुमहाव्रते ।।४७।।
परीक्षा ते कृता ह्येषा५६ देवैरेतैर्महाव्रते ।
तवाक्षया भविष्यन्ति लोकाः सर्वे न संशयः ।।४८।।
सनत्कुमार उवाच
ततस्ते सहसा तत्र देवा इन्द्रपुरोगमाः५७ ।
अवैक्षन्त यथावृत्तं तच्च सर्वं न्यवेदयम् ।।४९।।
स्नात्वा चान्यदगच्छन्ते५८ पुनस्तीर्थं समाहिताः ।
सर्व एव महाभागास्तथान्यानि पुनः पुनः ।।8.119.५० ।।
क्रमेण विहरन्तस्ते कृत्यामभ्यागमत्पुनः ।
यत्र कृत्या हता पूर्वं देवेन्द्रेण महौजसा ।।५१।।
व्यास उवाच
केन सोत्पादिता कृत्या किमर्थं कस्य वा विभो ।
कथं च निहता भूय एतदिच्छामि वेदितुम् । ।५२।।
सनत्कुमार उवाच
तृणबिन्दुरिति ख्यात आसीद्राजा महाबलः ।
स प्रोवाच मुनीन् सप्त इदं वचनकोविदः ।।५३ ।।
याजयध्वं हि मां विप्रा दास्ये वित्तं हि वो बहु ।
तेब्रुवन्न वयं साधो याजयाम नरेश्वर ।।५४।।
स दीक्षितो५९ यदान्येन अनावृष्ट्या६० महामनाः६१ ।
ते वै६२ बुभुक्षयाविष्टा यज्ञं प्राप्ता यदृच्छया ।।५५।।

५६ ह्यद्य - क । ५७ स्सेन्द्रपुरोगमाः क. ख । ५८ मगच्छन्ते -क. ख मगच्छन्त-क। ५९ वीक्षितो ख. । ६० अनावृष्ट्यां - ख. । ६१ महात्मना - क., महात्मनां - ख. । ६२ तवा - क., ते वै (?) ।

659
अथ तानब्रवीद्राजा ब्रूत किं प्रददानि वः ।
ऊचुस्ते क्रुद्धवदनाः सुतं नो दत्स्व६३ पार्थिव । ।५६।।
तेभ्यः सत्कृत्य पुत्रञ्च धनञ्चैव स पार्थिवः ।
प्रणम्य बहुमानेन पाराशर्योपपादयत् ।।५७। ।
तथा तस्यानतस्यैवं६४ द्रव्यं हित्वा तपोधनाः ।
सुतं गृहीत्वागच्छन्ते६५ सौकुमार्यात् स बालकः६६ । ।५८।।
क्षुत्तृषाभ्यर्दितस्तत्रः६७ अध्वना च ममार ह ।
दावाग्नौ ते च तं न्यस्य निरीक्षन्तोवतस्थिरे । । ५ ९।।
तेषां तत्रेक्षतां व्यास आजगाम नराधिपः ।
उवाच तानृषीँश्चेदं६८ प्रहसन् दिव्यकुण्डलः६९ ।।8.119.६० । ।
तृणबिन्दुरुवाच
यूयं प्रतिग्रहं मत्तो नागृह्णत७० तपोधनाः ।
याजयध्वं न चैवास्मान् मुनयस्तपसैधिताः७१ ।।६१ ।।
इह दोषं न पश्यध्वं मरणेस्य शिशोर्द्विजाः ।
अधर्म्ये७२ चायशस्ये च अहो धर्मे हि वो७३ मतिः ।। ६२ ।।
सनत्कुमार उवाच
ततस्ते तमनादृत्य अनुक्त्वा किञ्चिदेव च ।
जग्मुरन्यां दिशं७४ व्यास वने७५ क्षुत्परिपीडिताः । ।६३ । ।
तृणबिन्दुश्च तपसा तत्र वृक्षान् बहूँस्तदा ।
असृजत् तत्क्षणाद् व्यास तेषां सुखहितेप्सया । ।६४। ।
ते च तद्वनमासाद्य बहून् वृक्षान् फलान्वितान् ।
अपश्यन्त तदा व्यास परां तुष्टिं च ते ययुः ।।६५। ।
गृहीत्वा बिभिदुश्चैव ददृशुश्चैव तेष्वथ ।
सुवर्णमन्नं भक्षाँश्च७६ तथा रौप्यञ्च सुप्रभम् । ।६६ ।।

६३ धत्सु - क., धत्स्व (?), यच्छ - ख. । ६४ तस्यानतस्यैव - क. ख. । ६५ त्वागच्छन्त - क. ख । ६६ बालकं - ख. । ६७ तृट्क्षुधाभ्यर्दितस्तत्र - क. ख । ६८ श्चैव - ख. । ६९ दीप्तकुण्डलः (?) । ७० न गृह्णत - क. । ७१... स्तपसेधिताः - क. ख. । ७२ अधर्मे - क. । ७३ हिता - क. । ७४ दिशां - ख. । ७५ वनं - क. । ७६ भक्ष्याँश्च - क ।

660
तृणुबिन्दुकृतं तच्च तेमन्यन्त तपोन्विताः ।
ततस्ते तद्वनं७७ त्यक्त्वा ऋष्यः सप्त सुव्रताः ।
अन्यां दिशं प्रपद्यन्त तृणबिन्दुश्चुकोप च । ।६७।।
उवाच तानृषीन् गत्वा प्रणतः प्राञ्जलिश्च सः ।
मन्युनातिपरीतात्मा संविग्नोथ नराधिपः । । ६८ । ।
तृणबिन्दुरुवाच
नैवास्मि पतितो विप्रा दुष्टकर्मा न चैव ह ।
न चैव वर्जितो विप्रैर्न चायज्वा न पापकृत् ।।६९।।
नराधिपानां वंशेस्मि जातः७८ शुद्धे तपोधनाः ।
सम्यक् प्रजाः पालयामि किं मां न बहु मन्यत । ।8.119.७० ।।
तस्य तद्वचनं श्रुत्वा ऋषयस्ते महाव्रताः ।
ऊचुर्न ते वयं राजन्७९ प्रतिगृहणीम८० सर्वथा ।।७१ ।।
शोभनोसि गुणैर्युक्तः प्रजापालः प्रजापतिः ।
सन्तुष्टाः स्मो८१ न ते द्रव्यं प्रतिगृह्णीम भूपते । ।७२।
सनत्कुमार उवाच
त एवमुक्त्वा राजानं सर्व एव ययुर्मुने ।
सोपि राजा महामन्युस्तदा दीप्तं हुताशनम् ।।७३ । ।
जुहाव कृत्यां तस्माच्च चकार सुमहाबलाम् ।
यातुधानीमिति ख्यातामुवाचेदं च तां तदा ।।७४। ।
गत्वा सप्त मुनीन् कृत्ये भक्षयस्व महाबले ।
उपधार्य हि नामानि वसिष्ठादीँस्तपोधनान् । ।७५ ।।
सा गत्वा तु शुभान्नाम दिव्यां पुष्करिणीं शुभाम् ।
तस्यास्तीरं समासाद्य तस्थौ तान् वै प्रतीक्षती । ।७६। ।
ऋषयस्तेपि संविग्नाः क्षुत्तृष्णाव्याकुलेन्द्रियाः ।
अन्यान्देशान् विमार्गन्तः८२ शुभां वापीं ययुस्ततः । ।७७।

७७ तु वनं - क. । ७८ ञ्जात - क. । ७९ राजा - क । ५० प्रतिगृह्णाम - क. । ८१ स्म - क. । ८२ विमार्गित्वा - क. ।

661
सनत्कुमार उवाच
तेषां तद्गमने व्यास दृष्ट्वा दोषं पुरन्दरः ।
परिव्राजकवेषेण श्वद्वितीयो८३भ्यगच्छत । ।७८। ।
तं दृष्ट्वा तेब्रुवन् सर्वे परस्परमनुल्वणम्८४ ।
हसन्तं तं महाबाहुं त्रिदण्डव्यग्रपाणिनम् । ।७९ । ।
ऋषय ऊचुः
नूनमेष दिवारात्रौ नित्यमेव ह्यतन्द्रितः ।
चखाद यत एषोत्र ततोयं पीवरोभवत् । ।8.119.८ ० । ।
अथवोत्तानहस्तोयं नित्यमेव प्रयाचकः ।
तपःस्वाध्यायविक्रेता तेनायं पीवरोभवत । ।८१ । ।
तमेवं बहुधा कल्प्य ऋषयस्ते तपोधनाः ।
पप्रच्छुरमितात्मानं कस्त्वमित्येव वादिनः । ।८२ । ।
इन्द्र उवाच
अहं परिव्राड् विप्रेन्द्रा आगच्छामि दशेरकात् ।
प्रयास्यामि शुभां वापीं नाम्नाहं तु शुनस्सखा८५ ।।८३ ।।
श्वानो८६ मम सदा हीष्टाः शुनां चैव सदा ह्यहम् ।
तस्माच्छुनः सखा नाम्ना ख्यातोहं द्विजसत्तमाः । ।८४।।
सनत्कुमार उवाच
ततस्ते सह तेनैव शुभां पुष्करिणीं ययुः ।
ददृशुस्तां च कृत्यां ते तया चैव निवारिताः । ।८५। ।
यदि वा रोचते विप्रा अस्यामभ्यवगाहितुम् ।
नामानि कथयित्वेह चरध्वं सुखमव्ययाः । ।८६।।
सनत्कुमार उवाच
ततस्ते तां तदा कन्यामूचुरेवं भवत्विति ।
श्वसखा चेदमाहैनानृषीन् सर्वानरिदन्दमः । ।८७।।

८३ स्वा (श्वा) द्वतीयो - क. । ८४. मथोल्वणम् - (?) । ८५ शुनस्सखः - क. । ८६ शुनो - क. ।

662
विप्रा इयं यातुधानी नेयं प्रकृतमानुषी८७ ।
भवितव्यं हि कार्येण यथेयं वदते हि वः । ।८८। ।
ते यूयं यदि मन्यध्वं श्रेयः परमकं हितम् ।
तथा नामानि विब्रूत यथेयं नोपधारयेत् । ।८९।।
सनत्कुमार उवाच
एवं भवत्विति प्रोच्य ते व्यास मुनयः शुभाः ।
नामानि तस्याः श्राव्यैव८८ यथेष्टं ते जगाहिरे ।।8.119.९०। ।
नैरुक्तानि८९ स्वनामानि दुर्बोधानि च तेब्रुवन् ।
न मेने यानि कृत्या सा ततस्ते जलमाविशन् ।।९१।।
सनत्कुमार उवाच
तेषामलक्षयित्वा सा९० नामानि तु शिखोद्भवा ।
श्वसखं प्राह ब्रूहि त्वं ततो यास्यसि वा न वा । ।९२।।
श्वसख उवाच
शुनामस्मि९१ सखा क्रूरे श्वभिश्च सह संगतः ।
श्वसखं तेन मां विद्धि यातुधानि निशाचरि ।।९३ ।।
यातुधान्युवाच
सकृदेव पुनर्ब्रूहि नाम त्वं मानुषाधम ।
ततो यास्यसि विप्राणां समीपं विदितो मम ।।९४। ।
श्वसख उवाच
शुनामस्मि सखा देवः९२ सख्यं मेनपगं९३ श्वभिः ।
श्वसखा तेन हन्मि त्वा यातुधानि निशामय ।।९५।।
सनत्कुमार उवाच
स एवमुक्त्वा तां क्रूरां त्रिदण्डेन सुरेश्वरः ।
मूर्ध्न्याजघान तेनाशु भस्मसादभवच्च९४ सा । ।९६।।

८७ प्रकृतिमानुषी - क. ख. । प्राकृत (?) । ८८ श्राव्येयं - क. । ८९ नेरुक्तानि - क. । ९० तेषां न च लक्षयित्वा - क. । ९१ शुनामस्मिन् - क. ९२ देवि - घ. । ९३.. मनपगं - क, । ९४ शुभे... -क. ।

663
तृणबिन्दुसुतश्चासौ कृत्यया हतमात्रया ।
शक्रेण जीवितस्तूर्णं९५ पितरं समुपागमत् ।।९७। ।
सनत्कुमार उवाच
एवं तां स निहत्येन्द्रः श्वसखा शक्तिनन्दन ।
मृणालविसपद्मानि ऋषीणामहरत्पुनः । ।९८। ।
ततस्ते सम्यगुत्तीर्णा अपश्यन्तो रुषान्विताः ।
चक्रिरे शपथान् विप्राः परस्परमनुव्रताः । ।९९।।
ततस्ते सर्व एवैत्य९६ श्वसखं मुनिसत्तमाः९७ ।
अब्रुवन् त्वयि शंका नो९८ ब्रूहि येन विमुच्यसे९९ । । 8.119.१०० । ।
श्वसख उवाच
यो वो१०० हरति मूलानि पुष्पाणि च फलानि च ।
स सुखी मिष्टमश्नातु१०१ ससुहृत् सपरिग्रहः । ।१ ०१ ।।
सनत्कुमार उवाच
ततस्ते ऋषयो व्यास ऊचुः सर्वे पुरन्दरम् ।
त्वया गृहीतं द्रव्यं नस्तत् प्रयच्छस्व१०२ नः पुनः ।। १०२ ।।
तेषां स भगवान् व्यास मूलानि च फलानि च ।
सर्वाण्येवाददत् प्रीत इदं चोवाच तानृषीन् ।। १०३ ।।
इन्द्र उवाच
इयं कृत्या हता विप्रा युष्मदर्थे पुरा कृता ।
मया हितार्थं युष्माकं त्रिदण्डेन तपोधनाः ।
क्रुद्धेन राज्ञा युष्माकं कृतैषा तृणबिन्दुना । । १ ०४। ।
सनत्कुमार उवाच
तामागम्य१०३ ततो१०४ देवा ऋषयश्च तपोधनाः ।
विष्णुं तं स्नपयाञ्चक्रुस्तीर्थे ऋषिगणार्च्चिते१०५ ।। १ ०५। ।

९५ शक्रेणोज्जीवित (?) । ९६ एवेत्य - क । ९७ ऋषिसत्तमाः - क. । ९८ नौ - ख । ९९ विमुच्यते - ख. । १०० वा - क. । १०१ मृष्टमश्नातु - क. ख. । १०२ न्नो प्रयच्छश्व हि - क. ख. । १०३ तमागम्य - क. ख. । १०४ तदा - क. । १०५ ऋषिगणान्विते - क. ।

664
ततस्ते हिमवच्छैलं समागम्य मुदान्विताः ।
अयाजययन्१०६ तदा विष्णुमश्वमेधेन सुव्रताः ।
तस्मिन् यजति देवेशस्त्र्यम्बकः१०७ सगणेश्वरः ।
यज्ञं प्रति मुदा युक्त आजगाम विहायसा ।। १ ०७।।
व्यास उवाच
अहो बत त्वयेदं मे कथितं ब्रह्मणः सुत ।
यातुधान्या उपाख्यानं परं गुह्यं सुदुर्विदम् ।।१ ०८।।
इदं१०८ हि गुह्यं परमं महार्थवत्१०९ सदा यशस्यं परमं च पावनम् ।
त्वया११० महायोग यथावदीरितं पुरामृतं पूर्णशशिप्रभं यथा । । १० ९।।
इति स्कन्दपुराणे वामनतीर्थयात्रायां यातुधान्युपाख्याने ऊनविंशोत्तर-शततमोध्यायः१११

व्यास उवाच
अतः परं स भगवान् यथागात्परमेश्वरः ।
यज्ञेन यजमानं तं समीक्ष्य१ कथयस्व नः ।। १ ।।
सनत्कुमार उवाच
स तु शूलधरो देवो भगवान् गोवृषध्वजः ।
कृष्णाष्टम्यामुवाचेदं देवीं हिमवतः सुताम् ।।२। ।
देव्यद्य सुभगे लोके कृष्णपक्षाष्टमी२ शुभा ।
रजन्यामद्य यास्याव श्मशानान्यभिवीक्षितुम् । ।३ ।।
देव्युवाच
यथा ते रोचते देव तथा भवतु लोकप ।
तवेष्टं यन्महादेव ममापि द्विगुणं हि तत्३ ।।४। ।

१०६ याजयन्त - क., याजयन्तं - रव्र. । १०७ देवेशे त्र्यम्बकः - क. । १०८ इमं - क. ख. । १०९ महार्थं - क. ख. । ११० मया - वा. । १११ आध्यायः १७२ - ख. ।
१ संवीक्ष्य - घ. । २ कृष्णी पक्षाष्टमी - ख. । ३ हितम् - क. ।

665
अथ तस्मिन्दिने व्यास उज्जयिन्यां४ महामुने ।
ब्राह्मणस्य सुतो बालः शुचिर्विद्वान्ममार ह५ । ।५। ।
तं तेभिसंस्कृत्य तदा अलंकृत्य यथा८ विधि ।
क्रोशन्तश्च रुदन्तश्च श्मशानायैव निन्यिरे । ।६ । ।
ते श्मशानं तदा नीत्वा७ बालं तं रक्तपादकम् ।
स्नेहाद् दुःखपरीताश्च८ रुरुदुर्बहुधा भृशम् । ।७। ।
तथा तान् रुदतो वीक्ष्य क्रद्धो गृध्रः क्षुधान्वितः ।
प्राज्ञवत् स तु संदिश्य९ तानुवाच द्विजाँस्तदा ।।८ ।
विप्राः शृणुत मे वाक्यं मानुषा१० यद्वदामि वः ।
बुद्धिहीनाः स्थ सुव्यक्तं निशामयत मद्वचः११ । ।९ । ।
मृत एष१२ हि कालेन किं शोचथ१३ यथाबुधाः ।
रुदितो नैष जीवेत१४ स्वार्थं कुरुत विज्वराः । ।8.120.१ ० । ।
सनत्कुमार उवाच
तस्य तद्वचनं श्रत्वा तदा त्यक्त्वा सुतं ययुः ।
मुहुर्मुहुर्निरीक्षन्त अथ तान्१५ जम्बुकोब्रवीत् । । ११ । ।
अहो धिङ् मानुषाः सर्वे वीक्षध्वं बुद्धिवर्जिताः ।
निःस्नेहाश्चा१६कृतज्ञाश्च त्यक्त्वैनं याथ१७ वै कथम् ।।१ २। ।
दुःखेन लभ्यते पुत्रस्तथा चैव प्रसूयते ।
दुःखेन च पुनः क्रूरा वर्द्धते१८ व्याध्युपद्रुतः । । १३ ।।
विस्मृतानि हि वस्तानि चाटूनि सुबहूनि वै ।
अकरोद्यान्ययं बाल अहो निःस्नेहता हि वः१९ । । १४।।
सनत्कुमार उवाच
ततस्ते जम्बुकवचः श्रुत्वा व्यास समागताः ।
परिवार्य रुदन्तश्च तस्थुः पितृवने तदा । । १५ । ।

४ उज्जयन्यां - क. । ५. न्मनोरह- (हरः?) - क. । ६ तदा - क. । ७ गत्वा - क. ख । ८ स्ते - ख । ९ संदृश्य - क., संविश्य - ख, सचिंत्य - घ. । १० यत्नेन - घ. । ११ किमर्थं रुद्यते भृशं - घ. । १२ एव - क. । १३ शोचत - ख. । १४ भविता न सजीवोयं - घ. । १५ अथैतान् - ख., तथैतान् - क । १६ श्च - क. । १७ यात - क. ख. । १८ वध्यते - क. । १९ निःस्पृहतामिव - क.,.. नि च - ख. ।

666
अथागान्निशि देवेशः कपर्दी प्रियया सह ।
गणैः सर्वैर्वृतो देवः सह नन्दीश्वरेण च ।।१ ६।।
स तानीशः समभ्येत्य सर्वभूतसुखावहः ।
वरदोस्मीति तांस्तत्र रुदतः प्रत्युवाच ह ।। १७।।
सनत्कुमार उवाच
ततस्ते दीनया वाचा वाष्पपर्याकुलेक्षणाः ।
ऊचुर्जीवः सुतो नोयं भवेद्देवाज्ञया तव ।।१८।।
तेषां स भगवांस्तत्र जीवयित्वा सुतं शिशुम्२० ।
गणेशत्वं ददौ दिव्यं वासं तत्रैव चाक्षयम् ।।१९।।
सनत्कुमार उवाच
एवं स तां निशां प्राप्य२१ श्मशानानि यथाविधि ।
गत्वा२२ जगाम वैदूर्यं कूटं हिमवतः शुभम् ।।8.120.२०।।
स दीप्ततेजा विभुरव्ययात्मा पिनाकधृक् पर्वतकूटवासी ।
उवाच तान् यज्ञवरेण दीक्षितान् वरं वृणीध्वं त्रिदिवैकसंश्रयाः२३ ।।२१।।
इति स्कन्दपुराणे विंशोत्तरशततमोध्यायः


२० शिशुं सुतम् - ख । २१ शतानि संप्राप्य - क, स तानि संप्राप्य - (?) । २२ तत्त्वं - ख., ततो (?) । २३ त्रिदिवौकसंश्रयाः - क. ख.,... संश्रयादिति - ख. ।