स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

पूर्व पृष्ठः (अध्यायाः ९१ - १००) | आगामी पृष्ठः (अध्यायाः १११ - १२०)


सनत्कुमार उवाच
तेभिनिर्गत्य वेगेन दंशिता दैत्यदानवाः ।
वराहं प्रति संजग्मुर्मृगाः सिंहमिवातुराः१ ।।१।।
ते वराहदृशा तेन नीयमानासुरेश्वराः ।
आभान्ति व्यास सन्नद्धाः प्रोक्षिताः पशवो यथा ।।२।।
तान्निहत्य कृतान्तेन मृत्युना चावपाशितान् ।
निनाय स तदा दैत्यान् पशूनिव यथा नरः ।।३ ।।
गत्वा ते योजनान्यष्टौ उत्तीर्णं सागराम्भसः ।
वराहं ददृशुः सर्वे सिंहं क्षुद्रमृगा इव ।।४।।
ते मुहूर्तं निरीक्ष्यैव परिबभ्रुस्समन्ततः ।
विस्फारयन्तश्चापानि संक्रुद्धा दैत्यदानवाः ।।५।।
तानापतत४ एवाथ निरीक्ष्य स समन्ततः ।
वराहेन्द्रस्तदा दैत्यान् प्राहेदं सुमहाबलः ।।६।।

५३... भिनिर्गताः - ख. । ५४ हेमचित्रा - ख. । ५५ असुरागमो - घ. ।

१ सिंहानिवातुराः - ख. । २... भ्याससंबद्धाः - ख. । ३ बभ्रमुश्च समन्ततः (?) । ४ तानापतन्त - ख. ।

545
वराह उवाच
किं मा यूयं दितेः पुत्रा अभिद्रवथ५ सर्वशः ।
दूषयामि न वः किञ्चिदसुहृन्न च वो ह्यहम् ।।७।।
अथैवंवादिनं दैत्या वराहं तं सुविस्मिताः ।
पप्रच्छुः परिवार्यैव सर्वे दितिसुतास्तदा ।।८ ।
कस्त्वं वराहरूपीह तीर्त्वा सागरमूर्जिम् ।
इहागतः किमर्थं वा क्व वा गन्तव्यमित्युत ।।९।।
तेषान्तद्वचनं श्रुत्वा वराहोसौ महामनाः ।
उवाच दानवान्सर्वान् तदा जलदनिस्वनः ।।8.101.१ ० ।।
वराहोहं यथा दैत्यास्तादृग्रूपं च पश्यत८ ।
प्रचारार्थमिमं९ देशमागतोस्मि१० न संशयः ।।१ १।।
हृतभार्योहमन्येन विमना दैत्यपुङ्गवाः ।
पर्यटँस्तस्य दुष्टस्य चिन्तयामि परिग्रहम् ।।१ २।।
दानवा ऊचुः
नायं प्रचारो युष्माकं दैत्यानामयमालयः ।
अनादृत्य कथं दैत्यानिमं देशमुपागतः ।।१३।।
वयं त्वाद्य वधिष्यामः सर्वे मृगकुलाधम ।
हत्वा च त्वां हि नेष्यामः११ सर्वे दैत्येश्वरं प्रति ।।१४।।
ततस्ते दानवास्सर्वे तमायुधवरैर्भृशम् ।
निजघ्नुः पर्वतं यद्वत् मेघा वृष्ट्या समुद्धताः१२ ।।१५।।
बलवान्सोपि देवात्मा१३ वराहः सुमहाबलः ।
वध्यमानोपि तान्दैत्यानिदं वचनमब्रवीत् ।।१६।।
नह्यत्र भवतां किञ्चिदल्पमप्यसुरोत्तमाः ।
अपराधं चकाराहं न करिष्ये करोमि वा ।।१७।।

५ अभिद्रवत - ख. । ६ वाराह - ख । ७ तस्य तद्वचनं - घ । ८ पश्यथ (?) । ९ मिदं - ख. । १० ... म ( ा ) यातोस्मि - घ । ११ ते नयिष्याम. - ख. । १२ समुन्नताः - ख. । १३ अनाह (दृ?) त्व बलं सोपि - घ ।

546
किमर्थं मा शितैः शस्त्रैर्घ्नत (?) सर्वे यथा परम् ।
न हि वो१४ वैरमस्तीह न च कार्यं मया हि वः ।।१८।।
अथ मांसेन कृत्यं वस्ततो मां१५ घ्नत दानवाः ।
यथा प्राणं शितैः शस्त्रैर्युष्मत्तो न च मे भयम् ।।१९।।
एतौ करौ प्रसार्याहं संस्थितो दितिनन्दनाः ।
यदा भवन्तः स्थास्यन्ति तदा हन्तास्मि वस्सकृत् ।।8.101.२०।।
अद्य वेत्स्यथ१६ दैतेया मृगाणामिह१७ यद्बलम् ।
मत्ता यूयं सुरान् जित्वा तं मदं नाशयामि वः ।।२१ ।।
सनत्कुमार उवाच
ततः स भगवान् व्यास शक्रध्वजनिभौ करौ१८ ।
प्रसार्य तस्थावुद्यंचौ१९ भगवानिव शंकरः२० ।।२२।।
तेपि तद्वचनं श्रुत्वा दानवाः क्रोधमूर्छिताः ।
निजघ्नुर्भृशमायस्ता नानाशस्त्रास्त्रपाणयः ।।२३ ।।
मेघैरिव महावायुर्गरुत्मान् भुजगैरिव ।
मृगैरिव यथा व्याघ्रः शशैरिव यथा हरिः ।।२४।।
हविषेवानलो दीप्तो गजो गोमायुभिर्यथा ।
तथा स भगवान् व्यास वराहो नन्दिवर्द्धनः । ।२५।।
तैरर्द्यमानोगणयन्२१ तस्थावचलसन्निभः ।
स यदा तैः शरैश्चैव गदामुशलपट्टिशैः२२ ।।२६।।
भिन्दिपालैर्भुशुण्डीभिः करवालैरयोमुखैः ।
एतैश्चान्यैश्च बहुभिर्वध्यमानो मृगेश्वरः ।
अदृश्यो विबभौ सर्वे तदा ते हर्षिता भृशम् ।।२७।।
सनत्कुमार उवाच
तेषां निनदतां व्यास वराहो नन्दिवर्धनः ।
शस्त्रकूटाद विनिष्क्रम्य शिरांसि समपोथयत् । । २८ । ।
---
१४ हितो - ख. । १५ मा - ख. । १६ वेत्स्यत - ख. । १७ मृगाणामिव - ख. । १८ शुभौ - ख, च तौ - घ. । १९... वुद्यन्वै - घ, वूर्ध्वं वै (?) । २०... भास्करः - घ. । २१ अर्द्यमानो न गणयन् - घ. । २२ पट्टशैः - ख ।

547
कराभ्यां चरणाभ्याञ्च दंष्ट्राभिश्च व्यदारयत्२३ ।
तन्मुक्तैरायुधैश्चैव चिच्छेदान्यान् ररास च२४ ।।२४ ।
ते सर्वे करचरणैर्विमुक्तशस्त्रैर्दंष्ट्राभिर्मखमुखदारितास्तथैव२५ ।
संक्षीणा बहुभिरिवोपभुज्यमाना द्रव्याणामिव२६ निचयाः सदा महान्तः
इति स्कन्दपुराणे किङ्करयुद्धे एकोत्तरशततमोध्यायः

सनत्कुमार उवाच
अथ तान्निहतान् सर्वान् वराहेणाभिवीक्ष्य तु ।
एकः कृच्छ्राद्विनिर्मुक्तो ह्यश्मकं१ पुरमाविशत् ।। १ ।।
स गत्वा तत्सभाद्वारमिदं२ वचनमब्रवीत् ।
मुक्तकेशो रजोध्वस्तो रुधिरेणाभि३संप्लुतः । ।२।।
निवेदयत भो दैत्या४ दानवेन्द्राय धीमते ।
द्वाःस्थो न्यवेदयद्राज्ञे प्रेरितः सोद्यतायुधः५ ।।३ ।।
ये ते गता मृगेन्द्रं तं द्रष्टुं ह्यसुरसत्तमाः ।
ते हतास्तेन विक्रम्य सर्व एव दितेः सुताः ।।४।।
मा गाः प्रमादं दैत्येन्द्र मावमँस्था मृगेश्वरम् ।
मा च कालं प्रतीक्षध्वं७ मृगं तं मा विजानत८ ।
महानसौ न सन्देहो जेतुं शक्यो न दानवैः ।।५। ।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्याक्षो महासुरः ।
स्वयमेवाभिसंक्रुद्ध उत्पपात तदासनात्९ ।।६ ।।
सेन्द्रकेतुरिवोत्तस्थौ पयोद इव चोन्नदन् ।
भृकुटीदूषितमुखः सधूमोग्निरिव ज्वलन्१० ।।७।।
...

२३ विदारयत् - ख., विदारयन् (?) । २४ महासुरान् - घ. । २५. .. मुखरादिभिस्तथैव ख २६... मति - ख. ।

१ विनिर्मुक्तः कथंचित् - घ. । २ तत्सभाद्वारि इदं - ख. । ३ रुधिरेणापि - ख. । ४ निवेदयति तान्दैत्यो - ख. ५ पद्यार्धमिदं प्रक्षिप्तमिव घ पुस्तके पठितम् । ६ मा प्रमादमगा - ख, । ७ प्रतीक्षष्व (?) ८ मा विजानीहि तं मृगं (?), मा विजानत.. - ख. । ९ सदासनात् - ख, । १०. माग्निरिवोज्वलन् - ख

548
अथोत्थितं११ ततो१२ दैत्या१३ विप्रचित्तिश्च दानवः ।
प्रणम्योचुस्तदा दैत्यमिदं१४ श्लक्ष्णपदाक्षरम् । ।८।।
त्वं राजा सर्वदैत्यानां भूतानां च जयावहः ।
तिष्ठत्स्वस्मासु नोद्यन्तुं१५ स्वयमेव त्वमर्हसि ।।९।।
वयं तं सह देवैश्च ये च तस्याभिरक्षिणः ।
हत्वा मांसं महाराज छित्त्वा तस्यानयामहे । ।8.102.१ ० ।।
आदित्यानां सरुद्राणां वसूनामश्विनोरपि१६ ।
भृगूणां पितृभिः सार्धं तथैवाङ्गिरसामपि ।। ११ ।।
विश्वेदेवाश्च ये केचित्साध्या देवास्तथैव च ।
यक्षाणां राक्षसानाञ्च पिशाचानां सहोरगैः१७ । ।१ २ ।।
गन्धर्वपक्षिणाञ्चैव मनुष्याणाञ्च दानव ।
उद्युक्तानां समृत्यूनां लोकपालैस्सहैव च ।। १३ । ।
शक्ता निवारणे दैत्या वधे चैव दुरात्मनाम् ।
निग्रहे च यथाकालं स्वयं मा त्वमितो गमः१८ ।। १४। ।
हतमस्माभिरुद्युक्तैः पश्याद्य दितिनन्दन ।
आज्ञापयति नो यत्र राजा स्वामी प्रजेश्वरः ।। १ ५।।
तद्वयं शिरसा सर्वे करिष्याम न संशयः ।
यदशक्ता वयं कार्यं सर्वेप्यसुरपुंगव ।
कर्तुं तस्य भवान् कर्ता मा नः पश्य परानिव ।। १ ६।।
मृगार्थे दनुदैत्यानां स्वयं राजा महाबलः ।
निर्गतो नास्ति दैत्यानां वक्ष्यन्ति१९ बलमित्युत ।। १७। ।
सनत्कुमार उवाच
ततः स राजा दैत्यानां सर्वानेव समादिशत् ।
काले जलधरानिन्द्रो यथा भिन्नाञ्जनत्विषः । ।१ ८। ।

११ तथोत्थितं (?) । १२ तदा - ख । १३ दैत्यो - ख. । १४ दैत्या इदं - ख. । १५ नोद्योक्तुं (?) । १६.. .मश्विनावपि - ख । १७ पिशाचाः समहोरगैः - ख, महो... (?) । १८ गतः - ख । १९ वक्ष्यन्ते - ख. ।

549
आज्ञां तस्य गृहीत्वैव तेपि दैत्या मुदान्विताः ।
सन्नह्यन्त महाकाया वाहनानि च भेजिरे । । १९।।
प्रह्लादश्चानुह्लादश्च शिनिर्बाष्कल एव च२० ।
जम्भः कुजम्भो वातापी इल्वलोथ विरोचनः । ।8.102.२ ० ।।
बलिर्बाणश्च वातश्च शंभुः कश्यप एव च ।
शम्बरश्च महाकायः कालशम्बर एव च । ।२१ ।।
प्रदीप्तश्चासिलोमा च शिलिताश्चैव दानवाः ।
शरभः शलभश्चैव धुन्धुर्मूकश्च दानवः । ।२२। ।
शतोदरश्च विख्यातस्तथैवान्यो ह्रदोदरः ।
तारश्च तारकश्चैव मयो कालश्च विश्रुतः ।।२३ ।।
अजको नमुचिश्चैव व्यंसः कार्तस्वनः शुभः२१ ।
इल्वको२२ विल्वकश्चैव२३ विपाकः पाक एव च।।२४।।
हस्ती दुर्योधनश्चैव विप्रचित्तिश्च दानवः ।
हयग्रीवो मुरश्चैव नरकः कुण्ड एव च ।।२५।।
शकुनिर्वृषपर्वा च शतकेतुर्महारवः ।
सरकश्चैव राहुश्च स्वर्भानुः काल एव च ।।२६।।
विराधश्च कबन्धश्च दुन्दुभिः शतदुन्दुभिः ।
शाल्वो द्रुमश्च द्वावेतौ मयूरग्रीव एव च ।।२७।।
कालनेमी मेघनादो महावीर्यस्स चान्धकः२४ ।
महिषानन्दशमकावाटिश्च बक एव च ।।२८। ।
ततो दानवशार्दूला महामाया महाबलाः ।
सर्वे सर्वास्त्रविदुषो२५ लब्धलक्षाश्च संयुगे ।।२९। ।
रथैर्हयैर्गजैश्चैव तथैवान्ये पदातयः ।
जग्मुर्वराहं तं व्यास हन्तुं देवा इवासुरम् ।। 8.102.३० ।।
स चापि हि महातेजा वराहो नन्दिवर्धनः ।
स्तुयमानस्तथात्मस्थैर्मुनिभिर्भगवान् बली । । ३१ । ।

२० ...र्बाष्कलिरेव च - घ. । २१ सुभः (?) । २२ इल्वलो - ख. । २३ विल्वलश्चैव - ख. । २४ वान्धकः - ष. । २५ समास्त्रविदुषो - ख. ।

550

हत्वा तान् किङ्करान्सर्वानश्मकं२६ पुरमागमत् ।
गर्जमानो यथा मेघो युगान्ते२७ वृष्टिसर्जनः । ।३ २ ।।
स गत्वा तत्तदा व्यास पुरं लोकमयः प्रभुः ।
अपसव्यं परावृत्य दक्षिणं द्वारमागमत् । ।३३ । ।
दक्षिणद्वारिभिस्तत्र दानवैर्बहुभिर्भृशम्२८ ।
कृतो हलाहलाशब्दो नगरं येन कोपितम् ।।३४। ।
यो हि भित्वा शतघ्नीश्च कवाटं कूटमुद्गरान् ।
कालचक्राणि यन्त्राणि सोवाचूर्णयदव्ययः२९ ।।३५।।
अथाजग्मुर्भृशाविष्टास्ते दानवमहारथाः ।
शस्त्रवर्षेण चोग्रेण छादयन्तो मृगेश्वरम् । ।३ ६। ।
अथ तैस्तोमरैश्चक्रै३०र्भिन्दीपालैश्च ताडितः ।
द्वारं त्यक्त्वा विनिर्गम्य३१ समां भूमिमुपाश्रितः३२ । ।३७। ।
तेपि तं भग्नमित्येव३३ विजानन्तोसुरास्तदा ।
पृष्ठतोनुययुर्व्यास तक्षयन्तो वरायुधैः । ।३८।।
स तक्ष्यमाणः शरवृष्टितोमरैर्महागदाभिर्मुशलैरयोमुखैः ।
तदाभिनिःसृत्य दितेः सुतानसावयोधयद्देवगणैरधिष्ठितः ।।३९। ।
इति स्कन्दपुराणे असुरसन्देशनं नाम द्व्युत्तरशततमोध्यायः

सनत्कुमार उवाच
अथ व्यास समां भूमिं संप्राप्तान्दानवर्षभान् ।
उवाच सर्वान्१ गम्भीरं२ मृगान्सिंह इवाजने३ । । १ ।।
भवन्तो दानवाः सर्वे दैत्याश्च सुमहाबलाः ।
मया मृगेण समरे युध्यतां तु पुनर्भृशम् । । २। ।

२६. नस्माकं - ख । २७ युगान्त - ख । २८ र्वृतम - ख. । २९ सोवचूर्णयदव्यथः - । ३० अशाक्ति (क्तै )स्तोमरशतै - ख., सशक्तितोमरैश्चक्रे - घ । ३१. भिनिर्गम्य - ख । ३२ समां भूमिं निर्गत्य समुपस्थितः - घ. । ३३ भग्न इत्येव (?) ।

१ सर्वानुवाच - घ. । २ गम्भीरां (न्) - ख । ३ इवाजिरे - घ ।

551
'य

न लज्जा समरेभ्येत्य४ युष्माकं दानवेश्वराः ।
अथवा न बलं वोस्ति मिथ्या देवा हि वो जिताः५ ।।३।।
बहवो बलवन्तश्च मृगश्चाहं वनेचरः६ ।
न मन्ये धर्मयुद्धे वो मतिर्दानवसत्तमाः ।।४।।
न ममास्ति धनुः किञ्चिन्न शस्त्रं च तथाविधम् ।
सशस्त्रैर्बहुभिर्येन युद्धेयमसुरेश्वराः७ ।।५ । ।
ते यूयं यदि मन्यध्वं शस्त्राणि त्यजताधुना ।
मया चैकैकशः सर्वे युध्यध्वं न्यायमास्थिताः ।।६।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा सोन्धको दानवेश्वरः८ ।
उवाच सर्वान्दैत्येन्द्रान् युगान्ताम्बुदवन्नदन् ।।७। ।
एवमेतद्यथाहायं मृगोसुरमहारथाः ।
सन्त्यजामाद्य९ शस्त्राणि योधामैकैकशस्तथा । ।८ ।।
प्रह्लाद उवाच
अबुद्धिरेषा दैत्येन्द्रा यथाहायं मृगाधमः ।
समानानां समैस्सार्धमेतद्युद्धं प्रशस्यते ।।९।।
न मृगाणाञ्च शस्त्राणि न बाहुबलमित्युत ।
वध्यन्ते च सदा शस्त्रैरेष धर्मः सतां मतः । ।8.103.१ ० । ।
ते वयं कथमुत्मृज्य स्वधर्मं दानवेश्वराः ।
मृगधर्मं समास्थाय युध्येम पशवो यथा । ।१ १ ।।
मृगाधमोयं दुर्वृत्त१० अवध्यो नास्मदादिभिः ।
- - - मा११ विचारो वो मृगे भवतु सर्वशः ।।१२।।
मायामास्थाय दुष्टात्मा कोप्ययं सुरपांसनः ।
अस्मान् वञ्चयितुं दैत्याः कांक्षते सुदुरात्मवान् ।।१ ३ । ।

४ त्यज्य - ख. । ५ जिता इति - घ । ६ वनेश्वराः - ख. । ७ तमसुरेश्वराः - ख. । ८ दानवेश्वराः - ख. । ९ सन्त्यजामोद्य - ख । १० युद्धवृत्तिः - ख । ११.. ततेनम्मा (?) - ख ।

552


क्व च श्रुतं वा दृष्टं वा मृगाणामसुरेश्वराः ।
मनुष्यवद्बाहुयुद्धं पुरुषैस्सह संयुगे ।।१४।।
एष विष्णुर्दुराचारो दुरात्मा दैत्यकण्टकः ।
अशक्तः स्वेन वीर्येण मायामास्थाय संस्थितः ।।१५।।
सनत्कुमार उवाच
ततस्तं बलवान् क्रुद्धो धनुषा सोसुरेश्वरः ।
शरैरवाकिरद् व्यास बहुभिर्विररास च ।।१ ६।।
अन्धको विप्रचित्तिश्च सर्वे ते दैत्यदानवाः ।
अवाकिरन् शरैस्तीक्ष्णैः शतशोथ सहस्रशः ।।१७।।
अथ दैवः सुसंरब्धै१२र्विद्धस्तै१३ र्दानवैर्भृशम् ।
शुशुभे भास्करकरैः संविद्धो हिमवानिव ।। १८।।
स वेगं बलवत् कृत्वा विधुन्वानः शरान् शितान्१४ ।
सलीलं प्रययौ देवः प्रह्लादं प्रति दानवम्१५ । । १९। ।
स गत्वा तस्य सहसा सारथिं रथमेव च ।
दंष्ट्राभिश्च कराभ्याञ्च नामशेषं चकार ह । ।8.103.२ ० ।।
ततो रथादवप्लुत्य हन्यमानोपि दानवैः ।
रथध्वजेन१६ तं दैत्यं मूर्ध्नि देवोभिजघ्निवान् ।।२ १ ।।
प्रह्लादोपि ततोत्पत्य१७ गदया भीमरूपया ।
आजघानोरसि क्रुद्धं विघ्नो धर्मे यथा स्थितम् ।।२२। ।
स तेनाभिहतो देवो मुक्त्वा तस्य रथं तदा ।
तमेव देशमायातः पूर्वं यत्राभवत् स्थितः । ।२३ । ।
ततोन्धको विप्रचित्तिः शम्बरः कालशम्बरः ।
शरैराशीविषाकारैर्बिभिदुर्नन्दिवर्धनम् । ।२४।।

१२ वराहो ह्यतिसंरब्धै - घ. । १३ सुसंरब्धे विद्धस्तै - ख. । १४ स्थितान् (?) । १५ दानवं प्रति (?) । १६ ध्वजदण्डेन (?), रथदण्डेन (?) । १७ ततो दैत्य ( ो ) - घ. ।

553
स विद्धस्तैस्तदा व्यास शरैः सन्नतपर्वभिः ।
भिद्यमानश्च बहुधा मण्डलानि चचार ह । ।२५।।
कदाचित् सिंहवच्चापि प्लवते नर्दतेपि च ।
शार्दूलवत् कदाचिच्च भूमावात्मानमाहवे । ।२६।।
वितत्य स महावीर्यस्तिष्ठते सायकान्१८ सहन् ।
पादेन तत उत्थाय अवकीर्य वृषो यथा ।।२७।।
पक्षिवत्स तदाकाशे मण्डलानि मृगेश्वरः ।
भ्रमित्वा निश्चलस्तस्थौ वराहः पर्वतो यथा ।।२८।।
एवं बहुविधान् मार्गान् विचरित्वा महाबलः ।
वेगेनैव कराभ्यां स रथौ जग्राह नादयन् ।।२९। ।
विप्रचित्तेश्च बलवानन्धकस्य च सुप्रभः१९ ।
भ्रामयित्वा मुहूर्त्तं तौ सहाश्वैः२० सहसारथी२१ ।।8.103.३०।।
भूमावुत्क्षिप्य२२ चिक्षेप बभञ्ज च पुनः पदा ।
रथास्थितौ२३ च तौ दैत्यौ पुनर्मूर्धन्यताडयत्२४ ।।३१ ।।
तौ हतावतिसंक्रुद्धौ गदे चोद्यम्य वेगितौ ।
वराहं मूर्ध्नि युगपत्समाहत्य विनेदतुः ।।३२।।
ताभ्यां स बलवान् क्रुद्धो हस्ताभ्यां रक्तलोचनः ।
गदे जग्राह यत्ताभ्यां बलादेव मृगेश्वरः ।।३३।।
ततोचरन्मण्डलानि विविधानि जनार्दनः ।
गदाविशारदः सम्यग् विचित्राणि बहून्यपि ।।३४।।
आक्षिप्तमथ विक्षिप्तमवाक्षिप्तञ्च मण्डलम् ।
उत्क्षिप्तमथ विक्षिप्तं विसृष्टं धावितं तथा ।।३५।।
परावृत्तं निवृत्तं च अर्धचन्द्रमथापि च ।
विष्टब्धं चोद्यतञ्चैव हंसोद्भ्रमितमेव२५ च ।।३६।।

१८ निस्सायकान् - ख । १९ सुप्रभौ - घ. । २० सहाश्वौ(?) । २१ सहसा (ना )यको - ख. । २२ उत्क्षिप्य भूमौ (?) । । २३ रथे स्थितौ - घ । २४ पुनर्मूर्ध्नोरताडयत् (?) । २५ हंसोद्म्रण ए (मे?) व - ख. ।

554


गदाविशारदः सम्यग् भ्रमित्वा मण्डलानि सः ।
गदामुपरि चिक्षेप सोन्धकस्य२६ विनादयन् ।।३७।।
अपरां विप्रचित्तेश्च बलवान्नन्दिवर्धनः ।
ते गदे तौ महावेगे२७ दानवौ सुदुरासदौ ।।३८।।
वञ्चयित्वा रणे भूयो वराहं प्रति दानवौ ।
आधावितौ यथा देशमुत्पातौ वेगिताविव ।।३९।।
तयोरापततोरेव वराहोसौ महाबलः ।
मुष्टिनान्धकमाहत्य विप्रचित्तिं पदावधीत् ।।8.103.४० ।।
अन्धकस्तस्य मुष्टिं तं विप्रचित्तिः पदञ्च ह ।
क्रुद्धौ जगृहतुर्दैत्यौ हतस्त्वमिति वादिनौ ।।४१।।
नादयानौ यथा काले कृष्णाविव बलाहकौ ।
स गृहीतस्तदा ताभ्यां महात्मा सुरसत्तमः ।।४२।।
उत्पपात वियद् वेगात् पक्षिराडिव काश्यपः ।
वियत्स्थो२८ विबभौ दैत्यावुद्वहन् स मृगेश्वरः ।।४३।।
गरुत्मानिव पक्षीशो भक्षार्थं गजकच्छपौ ।
विनद्य स तदाकाशे विधूय च करौ बली ।।४४।।
पादञ्चैवाभिचिक्षेप तौ दैत्यौ भुजगाविव ।
तौ क्षिप्तौ प्रेक्ष्य२९ तु व्यास दानवौ युद्धदुर्मदौ ।।४५।।
अभियातौ महीं घोरावशनी खाच्च्युताविव ।
असावपि च देवेशो वराहो नन्दिवर्धनः ।
रथान्वै सर्वदैत्यानां चूर्णयामास वीर्यवान् ।।४६।।
गृहीत्वा कूबरे कञ्चित् सोच्चिक्षेप महार्णवे३० ।
कञ्चित्पदा समाहत्य पांसुसायुज्यमानयत् ।।४७।।
कञ्चिद्रथं रथेनैव पदातिञ्च पदातिना ।
गजं गजेन चाहत्य स निन्ये यमसादनम् ।।४८।।

२६ सोन्धकाय - ख. । २७ महावेगो(?) । २८ वियत्स्थो - ख. । २९ प्रेक्ष - ख. । ३० महार्णवं - ख., महारथ (?) ।

555
सनत्कुमार उवाच
तेपि३१ विद्राविताः सर्वे लज्जां परमिकां गताः ।
दैत्यदानवशार्दूला विनिवृत्ता यथाबलाः ।।४९।।
एकेन३२ सर्वे विजितासुरेन्द्राः परस्परं वीक्ष्य मुखानि शूराः ।
व्रीडान्वितास्ते पुनरेव देवं वराह - - - - - - - ति । ।8.103.५० ।।
इति स्कन्दपुराणे वराहयुद्धे त्र्युत्तरशततमोध्यायः

सनत्कुमार उवाच
अथ ते तं मृगं व्यास दानवा भीमगर्जनाः ।
आयुधैः समभिक्रुद्धाः संततक्षुस्तदा१ भृशम् । । १ । ।
ते मृगा इव शार्दूलं सिंहपोतं गजा इव ।
आजघ्नुर्दानवाः क्रुद्धा वराहं शस्त्रवृष्टिभिः । ।२।।
स चापि मृगशार्दूल उपविश्य महोदधिम् ।
अपोपिबत् समाविश्य वह्निवद्वडवामुखम् ।।३ । ।
तथेरितानि तैर्दैत्यैरायुधानि सहस्रशः ।
व्यादाय सुमहद्वक्त्रं जग्रास च ररास च ।।४। ।
ग्रसित्वा तानि सर्वाणि शस्त्राणि स२ महाबलः ।
दानवान्प्रति संचक्रे वेगं सिन्धुरिवापरः । ।५।।
गजान्प्रति यथा सिंहः सिंहान् शरभराडिव ।
गरुत्मान् भुजगान् यद्वच्छार्दूलश्च मृगानिव ।।६। ।
मेघवृन्दं यथा वायुः कपोतानिव पक्षिराट् ।
तथा स भगवान् व्यास दानवान्प्रति लोकपः ।।७।।
वेगं चक्रे यथा क्षिप्रमिन्द्रियं प्रति वै मनः ।
आसाद्य च स तान्दैत्यान् महाजलदनिःस्वनः । ।८ । ।



३१ वै - (?) । ३२ मृगेण (?) । १ ततक्षुस्तं तदा - ख. । २ सु - ख.।


556
सर्वान् विद्रावयामास रुद्रः पशुगणानिव ।
कांश्चित् पद्भ्यां सुसंक्रुद्धो हस्ताभ्यामपरानिति ।।९।।
दंष्ट्राभिश्चापरांस्तत्र३ स प्रैषीद्४यमसादनम् ।
तुण्डेन५ शम्बरं भूमौ कालशम्बरमेव च । । 8.104.१० ।।
नरकं पादघातेन हयग्रीवं च मुष्टिना ।
उरसा नमुचिं चापि महामायं च सत्वरः६ । । ११ ।।
आहत्याहत्य संक्रुद्धः पातयामास देवपः ।
तांस्तथा द्रावयानञ्च गर्जमानञ्च सिंहवत् ।। १२। ।
विप्रचितिर्वराहं तं मुष्टिनोरस्यताडयत् ।
विप्रचित्तिं जघानोग्रं पार्श्वदेशे स मुष्टिना ।।१३ ।।
स आहतो वराहेण वराहं क्रोधमूर्छितः ।
पुनर्जघान खङ्गेन वक्षस्येनं विनादयन् ।। १४।।
अमृष्यमाणस्तं घातं वराहः सुमहाबलः ।
मुष्टिना मूर्ध्नि तं दैत्यं वज्राभेन व्यताडयत् ।। १ ५।।
स दैत्यस्तेन घातेन भ्रमित्वा चक्रवत्तदा ।
पपात भूमौ वेगेन वाताहत इव द्रुमः ।।१६। ।
पतितं तं तदाभ्येत्य विप्रचित्तिं प्रजेश्वरः८ ।
जग्राह पद्भ्यां९ देवेशो द्रावमाणं दितेः सुतम् ।।१७।।
भ्रामयित्वा ततश्चैनं१० नदित्वा११ चासकृद्बली ।
पुरं प्रति विचिक्षेप महात्मा नन्दिवर्धनः ।।१८। ।
स क्षिप्तस्तेन१२ विबभौ दानबाधिपतिर्बली ।
सबलाकतडिज्ज्वाल परिच्छिन्न इवाम्बुदः । ।१ ९।। स्रस्तहाराम्बरधर१३श्च्युतमाल्यविभूषणः ।
पपातोपरि वेगेन हिरण्याक्षस्य वेश्मनि ।।8.104.२० । ।

३ अपरान् दंष्ट्रया तत्र - ख । ४ ह्यप्रैषीद् - स्व । ५ तर्घंन. - ख । ६ शम्बर - ख । ७ लक्ष्य घ। ८ मृगेश्वरः - घ. । ९ पदे जग्राह - घ. । १० ततश्चैव - ख.। । ११.. थ मर्दित्वा गर्भित्वा - घ । १२ स तेन क्षिप्तो - ख. घ. । १३ स्रस्तहराम्बरधरः - घ., स्रस्तहेमाम्बरधर - ख ।

557
सौधमट्टालकं१४ तस्य विमानमिव संस्थितम् ।
चूर्णयानोपतद् व्यास पर्वतेन्द्रमिवाशनिः । । २१ ।।
महता तस्य शब्देन हिरण्याक्षः स्वयं तदा१५ ।
वेगेनागत्य ददृशे दानवेन्द्रं दितेः सुतः१६ । ।२२। ।
सोपि दानवशार्दूलो वराहेणावपीडितः१७ ।
तेन चैव विघातेन१८ मुहूर्त्तमभवज्जडः ।।२३ ।।
तं समाश्वासयद्राजा तदा शीतेन वारिणा ।
तालवृन्तैश्च बहुभिर्मणिभिश्च दितेः सुतः २४। ।
समाश्वस्योत्थितञ्चैव१९ उपविष्टं वरासने ।
राजा पप्रच्छ तं दैत्यं परं विस्मयमागतः ।।२५।।
हिरण्याक्ष उवाच
केनाद्य हिमवान् दैत्य पृथिवी वा ससागरा ।
महाबलेन सहसा२० तुलिता विश्वकर्मणा ।।२ ६।।
केनाद्य मन्दरः स्रस्तो२१ मृत्युः केन पराजितः ।
केन त्वं दानवेशान क्षिप्तः को बलवान्भुवि ।।२७।।
पृथिव्यास्तुलनं यादृग् मन्दरस्य च चालनम् ।
मृत्योश्च मरण२२ तादृक् तवेदं क्षपणं२३ महत्२४ ।।२८।।
रुद्रेन्द्रमृत्युप्रतिमो लोकपालभयङ्करः ।
केन त्वं तुलितः संख्ये बलवानबलो२५ यथा ।।२९।।
कस्येदं बलमक्षय्यं केन बाह्वोर्बलं महत् ।
ख्यापितं त्रिषु लोकेषु दानवेश्वर कथ्यताम् ।।8.104.३ ०।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा दानवः स महाबलः ।
तमाह दीर्घं निःश्वस्य निरीक्ष्य च पुनः पुनः ।।३१ ।।

१४ सोच्चमट्टालक - घ- । १५ तया - ख. । १६ सुत - ख. । १७... ताडितः - ख. । १८ विपातेन - ख. । १९ समाश्वासोत्थितञ्चैव - ब. । २० महाबलैर्महादैत्य - ख. । २१ ग्रस्तो - घ. । २२ बन्धनं - ष. । २३ क्षिपणं - ख. । २४ मतम् - घ. । २५... नचलो - घ. ।

558
विप्रचित्तिरुवाच
अमानुषमिदं राजन्नतिदेवं तथापि च ।
अतिदैत्यञ्च दैत्येन्द्र न दृष्टं न श्रुतं२६ क्वचित् ।।३२।।
वराहस्य बलं यादृग् न च तादृक् क्वचित् क्वचित् ।
न हि तुल्यं प्रपश्यामि तस्य राजन्महात्मनः ।।३३।।
अस्त्रैः शस्त्रैश्च बहुभिस्तक्ष्यमाणस्य२७ संयुगे ।
नार्त्तिर्न दुःखं दैत्येन्द्र न च संज्ञा प्रहीयते ।। ३४।।
भवेत्तस्याभि२८ दष्टस्य मशकेनाप्यनिर्वृतिः ।
न दैत्यदानवै राजन् निघ्नस्य२९ भयमित्युत ।।३५।।
यथा क्षुद्रमृगान् सिंहो मण्डूकानिव वोरगः३० ।
तथा स कलयामास३१ सर्वान् दैत्येन्द्रदानवान् । ।३६।।
न तं मृगमहं मन्ये न देवं नापि चासुरम् ।
कोप्यसौ दितिपुत्राणामनयः३२ समुपस्थितः ।।३७।।
तेनास्मि मुष्टिना मूर्ध्नि ताडितो भूतलं गतः ।
गृहीत्वा सहसोत्क्षिप्तः३३ पतितस्त्वद्गृहोपरि ।।३८।।
दानवानां सदैत्यानामितरेषाञ्च दानव३४ ।
न जाने समवस्थानं मन्ये ते सर्वशो हताः ।।३९।।
अवध्यस्स महातेजा बलवान् दुर्बला वयम् ।
श्रुत्वैतद् दितिपुत्राणां हितं यत्तत्समाचर ।।8.104.४० ।।
तस्याङ्गे मुनयः सर्वे दृश्यन्ते सह दैवतैः३५ ।
कृत्या सेति मतं मेद्य तव हेतोर्विनिर्मिता३६ ।।४१।।
मनश्च तव दैत्येन्द्र युद्धाय कृतनिश्चयम् ।
विनिवर्तय तच्चैव दैत्यानां हितमाचर । ।४२।।
बलवान् सोबला दैत्या वयं मर्त्याः स चामरः ।
अजय्योसौ जिता दैत्या मा नो युद्धेन योजय ।। ४३ ।।


२६ श्रुतं न ख.। २७ श्च - ख २८ तस्यापि - ख । २९ राजन्हतस्य - (?) । ३० चोरगः - घ. । ३१ कालयामास (?) । ३२... पुत्राणां प्रलयः (?) । ३३ सहसाक्षिप्तः - ख । ३४ हतशेषाश्च दानवाः - घ. । ३५ देवतै । - ख. । ३६.. .पनिर्मिता - ख. ।

559
हित्वाश्मकं३७ पुरं सर्वे समुद्रस्तम्भमाश्रिताः ।
तिष्ठाम राजन् मा युद्ध तेन साकं पुनः कृथाः३८ ।।४४। ।
मावमंस्था मृगं दैत्य मृगोसाविति सर्वशः ।
नरसिंहोप्यभूत्पूर्वं मृगस्तद्विनिबृं हितः । ।४५। ।
- ----- .. - - - - - - - ।
यावत्त्वं ध्रियसे दैत्य दानवानां सुखावहः ।
तावत्सर्वे सुरा जीवा भविष्यन्ति न संशयः । ।४६ । ।
मा रुशन्तु३९ दितेः पुत्रा दनोश्चैव सुबालिशाः ।
अपयाम पुरादस्मादसुरेश्वर सर्वशः । ।४७। ।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्याक्षः प्रतापवान् ।
उवाच दानवेशानं भीतं४० तस्मान्४१ महात्मनः । ।४८।।
असंशयं महात्मासौ मृगो दानवसत्तम ।
येन मन्दरकल्पस्त्वं तुलितः सुमहाबलः । ।४९ ।।
अद्य वर्षसहस्राणि दिव्यान्यसुरपुंगव ।
चत्वारि भुञ्जतो राज्यं गतानि सुमहान्ति मे । ।8.104.५ ० । ।
पञ्चपञ्चा (?) तु संप्राप्तन्तावद्देवाश्च नाशिताः (?) ।
सबला४२ बहुभिर्घोरैः संग्रामैरबला इव । । ५१ । ।
सोहं तथा बलोपेतो भुक्त्वा राज्य४३मकण्टकम् ।
भीतः प्रविश्य सलिलं कथं स्थास्ये भुजङ्गवत् ।।५ २ । ।
मृगरूपी स विष्णुश्च वाराहं४४ रूपमास्थितः ।
यदि स्यात्तच्च कृत्यं मे दानवेश्वर मा भयम् (?) । ।५ ३ । ।
ममापि बलमक्षय्यं तस्माच्च बलवानहम् ।
यो मे भयात् परित्यज्य स्वं रूपं मृगतां गतः । ।५४। ।

३७ हित्वास्माकं - ख. । ३८ कृशाः - ख. । ३९ नुशन्तु (नश्यन्तु?) - ख. । ४० भीमं - ख. । ४१... स्तस्य - ख. । ४२ सबाला - ख. । ४३ सर्व - ख. । ४४ वराहं - ख. ।

560


यो हन्याद्धस्तिनं संख्ये सिंहं शरभमेव च ।
तस्य कास्था भवेद्दैत्य मृगे ह्यस्मिन्महाबल ।।५५।।
मद्भयात् स वराहश्च सर्वदेवैरधिष्ठितः ।
मामाह्वयति४५ दैत्येन्द्र जय एव ततो हि मे ।।५६।।
भवानेव हि मे दैत्य तेन दूतः - - - - ४६ ।
त्वरता मृत्युलोकन्तु गत्वा दानवपुंगव ।।५७। ।
यदहं म्रातृहन्तारं दानवानां भयङ्करम् ।
अहत्वा न निवर्तिष्ये शपे सत्येन दानव ।।५८।।
सनत्कुमार उवाच
सूतं ततः समादिश्य रथं सज्जमचीकरत् ।
समाश्वासयितुं पत्नीः४७ स विवेश४८ पुनर्गृहान् ।।५९।।
स तत्र ताभिः कृतमङ्गलस्तदा दितेः सुताँस्ताँश्च निरीक्ष्य सर्वशः ।
गृहाण५० सर्वं रणयोग्यमुज्ज्वलं महाबलः५१ शत्रुनिवारणक्षमम् ।।8.104.६० ।।
इति स्कन्दपुराणे विप्रचित्तिपातने चतुरुत्तरशततमोध्यायः

सनत्कुमार उवाच
स धन्वी कवची भूत्वा बद्धगोधांगुलित्रवान् ।
बद्धपृष्ठेषुधी१ चैव शरी खङ्गी महाबलः ।।१।।
हरिश्मश्रुश्चतुर्दंष्ट्रः शंकुकर्णो महाहनुः ।
आजानुबाहुर्दीर्घाक्षो न्यग्रोधपरिमण्डलः ।।२।।
हस्तयोः पद्मशंखौ च चक्रमत्स्यौ च पादयोः ।
दधानो जालहस्तश्च जालपादोल्पमेहनः ।।३।।
बालादित्यनिभाक्षश्च अञ्जनाचलसन्निभः ।
स निर्ययौ तदा व्यास भृकुटीभूषिताननः ।।४।।

४५ ममाह्वयति - ख, समा... (?) । ४६ प्रवेरितः - ख. । ४७ पत्यः (पत्न्यः) - ख. । ४८ प्रविवेश - ख. । ४९ सुतास्ताश्च - घ. । ५० जग्राह - घ. । ५१ महाबलं - ख. ।

१ पृष्ठबद्धेषुधी (?) ।

561
द्वार्यपश्यच्च सूतेन रथं समुपकल्पितम् ।
सहस्रनल्वमात्रञ्च२ हयैर्दिव्यैस्समन्वितम् । ।५ ।।
सहस्रैर्दशभिर्व्यास सर्वोपकरणान्वितम् ।
खट्वाङ्गेन च संयुक्तं ध्वजेनादित्यवर्चसा । । ६ । ।
आरुरोह जयेत्युक्तो३ दानवैर्बहुभिस्तदा ।
दिवाकरो रथं यद्वद् भगवान् तेजसां पतिः । ।७। ।
विबभौ स तदारूढो रथं तं दितिनन्दनः४ ।
सौवर्णे भाजने यद्वदिन्द्रनीलं समर्पितम् । ।८ । ।
किरीटस्त्वाबभौ५ तस्य शिरस्थः६ सुमहाद्युतिः७ ।
यथाञ्जनगिरेः शृङ्गे दावाग्निः समवस्थितः८ । । ९। ।
सञ्चोदयच्च यन्तारं स दैत्यो गमनं प्रति ।
तस्य पार्श्वेभवद् व्यास विप्रचित्तिरवस्थितः । ।8.105.१ ० । ।
केतोरिव यथा व्योम्नि प्रतिकेतुरवस्थितः९ ।
शंखभेरीमृदङ्गैश्च मुरजैर्वेणुभिस्तथा । । ११ । ।
वाद्यमानैर्ययौ राजा हिरण्याक्षोश्मकात्पुरात् ।
अग्रतः पृष्ठतश्चैव पार्श्वयोरुभयोरपि । । १२ । ।
जग्मुः सर्वेसुरा व्यास भास्करस्य यथा ग्रहाः ।
निर्गच्छमानश्च पुरात् शकुन्तान् भयशंसिनः । । १३ ।।
अपश्यद् व्यास दैत्येन्द्रो न च तानकरोदधृदि१० ।
आच्छिनत् तस्य पन्थानं भुजङ्गः कृष्णदेहवान् । । १४। ।
गृध्रश्च रक्तवक्त्रोस्य निलिल्ये ध्वजमूर्धनि ।
गृध्रश्चक्रायते चास्य रथस्योपरि११ गच्छतः । । १ ५। ।
ध्वजश्चाभज्यत महान् रथस्य सुमहाप्रभः ।
वामं चाङ्गं स्फुरत्यस्य१२ शरीरस्य मुहुर्मुहुः । । १ ६। ।

२... याच्छन्नं - ख । ३ जयेत्युक्ता ख, जयेत्युक्त्वा - घ. । ४ इतः परं तस्यपार्श्वेभवद्. . यथा ग्रहाः ' इत्यादि घ पु । ५ न्त्वाबभौ - घ. । ६ शिरःस्थः - घ । ७ सुमहाद्युति - घ । ८ समुपस्थितः - घ. । ९ पद्यार्धमेतत् जग्मुः सर्वे इत्यतः परं दत्तं ख. पुस्तके । १० हृति - ख । ११ यथो! रि च - ख । १२ वामाङ्गं चास्फु- रत्तस्य (?) ।

562
हेषन्ते न हया दीना हस्तिनो विमदाभवन् ।
एतान्यन्यानि च बहूनि१३ दैत्यो मुनिसत्तम । ।१७।।
सोवैक्षत१४ निमित्तानि भयदान्यात्मनोसकृत्१५ ।
नातिदूरे स निर्गत्य१६ नगरस्य१७ मृगेश्वरम्१८ ।।१ ८।।
अपश्यद् दानवः१९ संख्ये युध्यमानमभीतवत् ।
सोपि दैत्यवरः श्रीमान् क्रोधसंरक्तलोचनः२० ।।१ ९। ।
विस्फारयन्महाचापं रथेनाभ्यपतद्बली२१।
वराहोपि महाबाहुर्विद्राव्य दितिनन्दनान् ।
सुवर्णाक्षं प्रति रुषा वेगेनैवाभ्यधावत । ।8.105.२० । ।
तस्यापतत एवाशु दानवः सुमहाबलः२२ ।
सर्वसन्धिषु तीक्ष्णाग्रान्निचखान२३ बहूञ्छरान्२४ । ।२१ । ।
सायकैस्तैर्विनिर्भिन्नः सर्वसन्धिषु सुव्रत२५ ।
न चचाल मृगेन्द्रोसौ विष्टब्धः समतिष्ठत२६ ।।२२।।
तं स्तम्भितं तदा व्यास दृष्टवा देवा२७ महाबलम् ।
विशल्यकरणैर्मन्त्रैर्विशल्यमभिचक्रिरे । ।२३ । ।
स विशल्यस्तदा देवैः कृतो मृगपतिर्महान् ।
पुनर्वेगं महत् कृत्वा जगाम दितिजं प्रति ।।२४। ।
स वध्यमानो बहुभिश्शरैर्मृगपतिर्महान् ।
दैत्येन्द्ररथमासाद्य इयेष रथमव्ययः२८ । ।२५ ।।
ग्रहीतुं नादयन् व्यास बहुधा विश्वरूपधृक् ।
यन्ता च मण्डलं कृत्वा भ्रामयामास तं रथम् ।।२६।।
प्रसारितकरं दैत्यो मृगं तं सुमहाबलम् ।
बबन्धास्त्रेण नागानां स बद्धो न्यपतद् भुवि ।।२७।।

१३ एतांश्चान्यांश्च सुबहून् स - ख. । १४ अवैक्षत - ख. । १५ नात्मनोसकृत् - ख. । १६ स्यन्दने- नाभिनिर्गत्य - घ । १७ नगरात् स - घ. । १८ महेश्वरं - क. । १९ दानवो - क ख. । २० क्रोधात् संरक्तलोचनः - क । २१. भ्यद्रवद्बली - ख. घ, एतावतिको ग्रन्थः क पुस्तके नष्टः, ख पुस्तकादुद्धृतोत्र । २२ क्रोधमूर्च्छितः - घ. । २३ चखान - क. । २४ सुबहून् शरान् - क. ख. । २५ सुव्रतः - क. । २६ समपद्यत - घ. । २७ देव - घ. । २८... मव्ययं - क. ।

563
पतितं तञ्च दैत्येन्द्रा विविधायुधपाणयः ।
विजघ्नुर्भृशमायस्ता बहुधा क्रोधमूर्छिताः ।।२८ ।।
तं बद्धं वध्यमानञ्च पतितं नन्दिवर्धनम् ।
गरुत्मान् भुजगेन्द्रेभ्यः क्षिप्रमेव व्यमोचयत् ।।२९।।
मुक्तश्च स तदोत्पत्य२९ द्रावयाणो दितेः सुतान् ।
हिरण्याक्षरथं तूर्णमभ्यधावन्महायशाः ।। 8.105.३० । ।
तं धावन्तं पुनर्दैत्यः शरेणानतपर्वणा ।
विव्याध हृदये व्यास नर्दमानो३० यथाम्बुदः ।।३ १ । ।
मृगेश्वरश्च भिन्नोसौ३१ हृदये मोहमास्थितः ।
पपात भूमौ निर्वृत्ते शक्रध्वज इवोत्सवे ।।३ २।।
ततो हाहा कृतं३२ सर्वैः समेतैर्देवपुंगवैः३३ ।
ऋषयस्तुष्टुवुश्चैनं भास्करश्चाप्रभोभवत् । ।३ ३ । ।
अथ सोप्यायितस्तत्र ऋषिभिर्ब्रह्मवित्तमैः ।
प्रतिलभ्य३४ तदा संज्ञामिदं वचनमब्रवीत् ।।३४।।
आप्याययध्वं मां क्षिप्रं मूढोहं सर्वशः सुराः ।
नाल्पवीर्येण शक्योयं दैत्यो योधयितुं रणे ।। ३५ ।।
ततस्ते दैवता३५स्सर्वे ऋषयश्च तपोधनाः ।
तपसा३६ स्वेन तं देवं सर्व एवाभ्यपूरयन्३७ ।।३ ६। ।
तस्य त्वाप्यायमोनस्य३८ ऋषिभिर्दैवतैश्च३९ ह ।
बभौ रूपं युगान्ताग्निकालमृत्युसमप्रभम् । ।३७। ।
स दीप्यमानो विबभौ महात्मा४० देवैश्च सर्वैर्ऋषिभिः स्तुतश्च ।
दीप्तस्तदा४१ भास्करसप्तकल्पो४२ लोकान्दहिष्यन्निव देवदेवः ।।३८।।
इति स्कन्दपुराणे वराहाप्यायने पञ्चोत्तरशतो४३ध्यायः

२९ ततोत्पत्य - ख. । ३० नदमानो - ख. । ३१ मृगेश्वरगतिर्योसौ - ख. । ३२ हाहा कृतः - क. । ३३ समूहे - क., मम दैत्येय ( न्द्र) पुंगवैः - ख. । ३४ प्रतिपद्य - घ. । ३५ दैवता - क, ख. । ३६ सोंशेन - क. । ३७ भ्यपूजयन् - क- । ३८ त्वाप्याय्यमानस्य - क । ३९... र्देवतैश्च - क । ४० वराहो - घ । ४१ दीप्तो यथा - घ । ४२ भास्कर सप्तिकल्पो (?) - घ. । ४३ चतुरुत्तर० - घ., अध्यायः १६० ख.

564


सनत्कुमार उवाच
स तथाप्यायितो व्यास१ बलवान्भास्करद्युतिः ।
चित्रं बहु च शीघ्रं च मण्डलानि परिभ्रमत्२ । ।१ । ।
प्लुतानि३ सिंहवत् कृत्वा अवलोकयते४ सकृत् ।
पृष्ठतश्चाग्रतश्चापि५ पुनर्गजवदाचरत्५ । ।२। ।
पुनर्व्यात्ताननो भूत्वा शस्त्राणि ग्रसते रिपोः ।
पुनर्वृक्षैः शिलाभिश्च७ दानवान् स न्यसूदयत् । ।३ । ।
पुनराकाशगो भूत्वा पक्षिराडिव सोभ्रमत् ।
पुनर्जहास संक्रुद्धो ह्यशनीपातसन्निभम् ।।४।।
पुनश्च सूक्ष्ममात्मानं कृत्वा तस्थावथाग्रतः ।
एवन्तं वल्गमानञ्च नर्दमानञ्च दानवः ।।५।।
उवाच भृकुटीवक्त्रो हिरण्याक्षोभिनादयन्९
भो क्षुद्रमृग दुर्बुद्धे न त्वं मोक्षमवाप्स्यसि ।। ६। ।
हत्वा त्वाहं१० प्रदास्यामि रुद्राय बलिमोजसा ।
त्वया हतश्छद्मना मे भ्राता ज्येष्ठो दुरात्मना ।
तस्याद्य कर्मणः प्राप्तं फलं दुष्टात्मनस्तव ।।७। ।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्याक्षस्य संयुगे ।
उवाच भगवान्विष्णुः क्रोधयानो दितेः सुतम्११ ।।८ । ।
हतोसौ नरसिंहेन मया दैत्यः प्रतापवान् ।
विक्रम्य संयुगे तद्वद१२ भवतोपि वधो ध्रुवः१३ । ।९। ।
यदि त्वं गच्छसे खं वा पातालं वाप्यतः१४ परम् ।
पर्वतं वोदधिं वापि न तथापि विमोक्ष्यसे ।। 8.106.१० ।।

१ देवो - ख घ. । २ परिभ्रमन् - क । ३ प्लुतादि - क । ४ अवलोकयतो - क. ख. अवलोकयता - घ. । ५.. श्चैव व - ख. । ६... चरन् - क. । ७ पुनर्वृक्षाशलाभिश्च - ख. । ८ रवन्तं - क. । ९ निनादयन् - ख । १० च हं - क । ११ सुतान् - क. । १२ यद्वत् - ख. । १३ ध्रुवं वधः - ख. । १४ वाप्यतो - क ख. ।

565
यत्ते बलं तपो यच्च या च१५ माया तवासुर ।
तत्सर्वं निर्धमाम्यद्य तव देहात् सजीवितम् ।।१ १ ।।
हिरण्याक्ष उवाच
त्वं मया शरविष्टब्धो देवैर्मन्त्रैर्विमोक्षितः ।
बद्धं चास्त्रेण भूयस्त्वां पक्षिराजो व्यमोचयत्१६ ।।१ २।।
भूयो मृतस्त्वं१७ दुर्बुद्धे देवैरुज्जीवितो१८ भवः१९ ।
भूयस्त्वाहं२० वधिष्यामि सिंहो मृगमिवाजने ।।१३ ।।
तव का शक्तिरद्येह महेश्वरमृते२१ वरम् ।
मां स्प्रष्टुमपि हस्तेन नरस्येव हुताशनम् ।।१४।।
त्वं लोकमयमास्थाय शरीरं तैरधिष्ठितम् ।
सर्वैराप्यायितश्चैव संयुगे मामुपागतः ।। १ ५।।
अहन्तु स्वेन तपसा बलेन च समन्वितः ।
न च मां त्वं तथाप्यद्य शक्तः सिंहं यथा मृगः ।।१६।।
योद्धुं वाप्यभिसर्तुं२२ वा सह देवैर्दुरात्मवान् ।
न त्वावयोरेतदेव ह्यन्तरं सुमहत्तरम् ।।१७।।
यः स्यात्२३ कुलीनो विद्वान्वा सतां मार्गे च संस्थितः ।
सोनेनैव जितं मत्वा आत्मानं संयुगं त्यजेत् ।।१८।।
निर्घृणस्त्यक्तलज्जश्च छिद्रघाती दुरात्मवान् ।
त्वदन्यः को भवेत्तिर्यङ२४ नैतद्दैत्यस्य२५ विद्यते ।।१९।।
न त्वं मम कृतो मृत्युरहन्तु तव संयुगे ।
एते सिद्धाः प्रपश्यन्तु चारणाश्च सहस्रशः ।
आवयोरन्तरं संख्ये बहुधा युध्यमानयोः ।।8.106.२० ।।

१५ यच्च - क यश्च - ख । १६ ह्यमोचयत् - क ख । १७ मृतश्च - ख । १८ हि (ह्युजीवितो) - क । १९ भ्रमन् - क ख । २० श्चाह - क । २१ सहस्व न मृतो - ख । २२... हन्तु - ख । २३ यस्मात् - ख । २४ तिर्यो - क, निन्द्यो (?) । २५ दैत्येषु - ख ।

566
सनत्कुमार उवाच
एवमुक्त्वा हिरण्याक्षः शरैराशीविषोपमैः ।
जघ्ने वराहं संक्रुद्धो वज्राशनिसमत्विषम्२६ ।।२१ ।।
सोथ तेनार्द्यमानोपि वराहः सुमहाबलः ।
गत्वा वेगेन संक्रुद्धो रथं जग्राह नादयन् ।।२२। ।
गृहीत्वा कूबरे चापि आक्षिप्योत्क्षिप्य२७ वेगवत् ।
साश्वं ससारथिं२८ देवश्चिक्षेप च ररास च ।।२३ ।।
तस्य त्वाक्षेपविक्षेपैश्छिन्नयोक्त्राश्च ते हयाः ।
उद्भ्रान्ता रथमुख्यश्च विसन्धिः समपद्यत ।।२४।।
हिरण्याक्षो रथं त्यक्त्वा पदातिर्धनुषा तदा ।
मृगेन्द्रं मोहनास्त्रेण बलवानभ्यताडयत् ।।२५।।
मोहः समाविशच्चैव तं देवं नन्दिवर्धनम् ।
देवैर्मन्त्रप्रभावेण नष्टमोहः कृतः पुनः३० ।।२६।।
एष शस्त्रै३१ र्बहुविधैर्देत्येन्द्रो३२ हि रुषान्वितः ।
आजघान न चाप्येनं रुजा स समयोजयत् ।।२७।।
अथैनं स३३ महातेजा वराहः प्रहसन्निव ।
वृक्षमुत्पाट्य वेगेन दैत्यं मूर्ध्नि३४ व्यताडयत्३५ ।।२८।।
तस्य तेन प्रहारेण दैत्यस्याभिहतस्य ह ।
धनुः पपात वेगेन हस्तावापश्च३६ पञ्चकः३७ ।।२९।।
ततो हाहा कृतं दैत्यैर्दानवैश्च सुदुःखितैः ।
शस्त्रैश्च बहुभिः क्रुद्धा वराहं समताडयन् ।।8.106.३ ० ।।
स हन्यमानस्तैर्दैत्यैर्व्यदाय सुमहाबलः ।
मुखं३८ सर्वाणि शस्त्राणि जग्रास३९ च ररास च ।।३ १।।
तत्तथा४० विकृतं दृष्ट्वा हिरण्याक्षः प्रतापवान् ।
शूलं जग्राह संक्रुद्धः कृत्वा रुद्राय वै नमः ।।३ २।।

२६.. सनिसमत्विषम् - क । २७ आक्षिप्तोत्क्षिप्त - ख । २८ ससादिनं - घ । २९. श्चर्तुहयाः - ख. । ३० पुन कृतः - क ख । ३१ मन्त्रै - क ख । ३२ र्दैत्येन्द्रं - क ख । ३३ सु (?) । ३४ दैत्यमूर्ध्नि - ख । ३५ न्यपातयत् - ख । ३६ . ञ्च - ख । ३७ ह - ख । ३८ मुखे - क । ३९ जग्राह - क. । ४० तन्तथा - ख ।

567
तद्युगान्तानलप्रख्यं महाशूलमतिप्रभम् ।
चिक्षेप दैत्यः संक्रुद्धो वराहाय महास्वनम् ।।३ ३ । ।
तमापतन्तं बहुधा नदन्तं ज्वालाः स्फुलिङ्गाश्च समुद्गिरन्तम् ।
दृष्ट्वा सुराः सिद्धगणाश्च सर्वे हाहेति चक्रुर्भयमूढचित्ताः । ।३४।।
इति स्कन्दपुराणे त्रिशूलाक्षेपणे षडुत्तरशततमोध्यायः

सनत्कुमार उवाच
तमापतन्तं१ वेगेन२ न शूलं३ दृष्टवान्मृगः ।
दैत्यसन्धे४ समासक्तः सर्वप्राणिभयङ्करम्५ ।।१ ।।
अलक्षितेन तेनासौ शूलेनादितिनन्दनः ।
विभिन्नो हृदये व्यास मृतकल्पः पपात ह७ ।।२।।
ततो हाहा कृतं भूतैरदृश्यैर्मुनिसत्तम ।
उद्वेलाः सागराश्चासन् भास्करश्चाप्रभोभवत् ।।३।।
उल्काः पेतुश्च सर्वत्र म्लानमाल्याः सुराभवन् ।
ग्रहाणामभवद्युद्धं विमानानि च पेतिरे ।।४।।
जजपुर्मुनयः सर्वे वराहे पतिते तदा ।
महादेवं नमस्कृत्य ब्रह्मा सस्मार तं९ तदा ।।५।।
ततो वितिमिरं सर्वमभवत् पूर्ववच्छुभम् ।
महादेवं नमस्कृत्य१० वराहश्चोदतिष्ठत ।।६।।
तेजो माहेश्वरं दिव्यं विवेश मधुसूदनम् ।
सोप्यायिततनुस्तेन शूलं निष्कृष्य माधवः ।।७।।
सहसानलसंकाशो११ बभूव स महाबलः ।
ततस्तेनैव शूलेन तं दैत्यं देवनन्दनः१२ ।।८।।

१ तदापतन्तं - घ । २ तं स्वेन - क । ३ तं शूलं - क, त्रिशूलं - ख । ४ दैत्यः - क, दैत्यैः सर्वैः - घ दैत्यसंघैः (?) । ५... भयङ्करः - क. । ६ विच्छिन्नो - ख, । ७ च - क. । ८ जजल्पुर्मुनयः - घ । ९ ब्रह्माणंस्मरण - ख., संस्कारयत् - घ. । १० प्रकृतिस्थं जगत्च्चाभूद् - ख. । ११ सहस्रानलसंकाशो- क. । १२ दितिनन्दनम् - घ. ।

568

जघान हृदये क्रुद्धः क्रौञ्चं शक्त्या यथा गुहः ।
स भिन्नहृदयस्तेन वराहेण महासुरः । ।९। ।
नार्त्तिमानभवद् व्यास कृच्छ्रे विद्वानिव स्थितः ।
मध्ये भिन्नं स तच्छूलं निष्कृष्य च विसृज्य च ।। 8.107.१० । ।
खङ्गं निष्कृष्य वेगेन वराहं मूर्ध्न्यताडयत् ।
स तेन सुप्रहारेण१३ वराहो नन्दिवर्धनः । ।१ १ । ।
नार्तिमानभवद् व्यास बभूव रुधिराप्लुतः ।
नानाधातुविचित्रोसौ हिमवानिव पर्वतः । ।१ २।।
बभौ वराहो देवात्मा सर्वासुरविमर्दनः ।
पुनराहन्तुकामस्य तस्य दैत्यस्य सुव्रत । । १३ । ।
अपहस्तप्रहारेण खङ्गं हस्तादपातयत् ।
अकुर्वातां ततो युद्धं नियुद्धकुशलावुभौ । ।१४।।
तौ गजाविव संक्रुद्धौ महिषाविव दर्पितौ ।
सिंहाविव च नर्दन्तौ संक्रुद्धौ वृषभाविव ।।१ ५। ।
शरभाविव चायस्तौ१४ शार्दूलाविव निर्घृणौ ।
परस्परमयुध्येतां परस्परजयैषिणौ । ।१ ६ । ।
अंकुशैर्हस्तयोक्त्रैश्च क्षेपणैरपसर्पणैः ।
मण्डलैश्च पुनश्चित्रैः कर्षणैरपकर्षणैः ।। १७।।
तलैश्च मुष्टिभिश्चैव भुजैस्स१५ चरणैरपि ।
नखैश्च दशनैश्चैव तथान्यैश्च महाबलौ । । १८ । ।
तयोरेवमभूद्युद्धमुभयोर्देवदैत्ययोः ।
अहानि दश चाष्टौ च तथान्यानि चतुर्दश । ।१९। ।
अन्यत्सहस्रमेवासीद्वर्षाणां तच्च मानुषम् ।
एष कालोभवत्तत्र ततो दैत्योबलोभवत् ।।8.107.२०।।
तं हीयमानमालक्ष्य दैत्याधिपतिमूर्जितम्१६ ।
आकाशे वागुवाचेदमशरीराति सुस्वना ।।२१ ।।


---


१३ तेनासिप्रहारेण (?) । १४ चायत्तो - क. । १५ भुजैश्च (?) । १६... मूर्जितः - क., ता (?)

569


शृणु देव वराहेदं श्रुत्वा चैव समाचर ।
अशक्योयं त्वया ह्येवं हन्तुं दैत्यो महाबलः । ।२२।।
अबलोयं कृतः क्रूरो ध्रुवं माहेश्वरेण हि ।
तेजसा पश्य चैवैनमेष कालोस्य वर्तते ।।२३ ।।
मुक्त्वैनं दैत्यराजानं चक्रेण विनिसूदय ।
माहेश्वरेण वैकुण्ठ ततो मृत्युमवाप्स्यति ।।२४। ।
सनत्कुमार उवाच
ततस्तमभिसंश्रुत्य भगवान्नन्दिवर्धनः ।
मुमोच दैत्यराजानं पादेनाहत्य वक्षसि ।।२५।।
स मुक्तस्तेन देवेन विबभौ दैत्यपुंगवः ।
भुक्तमुक्तो यथा सूर्यः सैंहिकेयेन राहुणा ।।२६।।
भगवानपि दीप्यन्तं श्रिया दैत्यं समीक्ष्य तम् ।
सस्मार तत्तदा१७ चक्रं नमस्कृत्य१८ पिनाकिनम्१९ ।।२७।।
ततः सर्वा दिशो व्यास वह्निकुण्डानिभा बभुः ।
शब्दश्च सुमहानासीद्युगान्ताम्बुदसन्निभः२० । ।२८। ।
सिद्धाः पेतुश्च मेदिन्यां देवाँश्च भयमाविशत् ।
स्वस्त्यस्तु सर्वभूतानामित्यूचुर्मुनयस्तदा२१ । ।२९।।
सागराश्च व्यशुष्यन्त२२ विनेशु२३र्नागपक्षिणः ।
दैत्याश्च दानवाश्चैव सर्वे ते विविशुर्विलम्२४ । ।8.107.३ ० ।।
भयत्रस्तानि भूतानि उल्काः पेतुर्नभस्तलात् ।
आगच्छति युगान्ताग्निकल्पे चक्रे२५ सुभास्वरे ।।३ १।।
क्षुरान्तं तन्महाचक्रं मज्जज्जलचरान्तकम्२६ ।
दुर्निरीक्ष्यं सर्वघाति अभेद्यं प्रतिघाति२७ च ।।३२।।

१७ तन्तदा - क. ख. । १८ नमस्कृत्वा - ख. । १५ पिनाकिने - ख. । २०.. वन्नदन् - ख. । २१... स्सदा - ख. । २२ सागर श्चोपशुष्यन्ति - क. । २३ विवे ( वि?) शु - ख. । २४ विविशुः परम् - ख । २५ कालचक्रे - क. । २६ गर्जज्जलधरोपम (?) । २७ अभेद्यमविघाति - ख ।

570

तथाप्रतिहतं दिव्यं मोहनं सर्वदेहिनाम् ।
करमागाद्वराहस्य शताशनिसमस्वनम् । ।३ ३ । ।
तदापतन्तं२८ संवीक्ष्य सर्वभूतानि सर्वतः ।
पेतुर्भूमौ महाघोरमपश्यन्न च किञ्चन ।।३४। ।
सोपि देवस्तदा कृत्वा रूपं सुमहदव्ययम् ।
त्रैलोक्यव्यापि चिक्षेप दानवं प्रति नादयन् । ।३ ५। ।
तद्युगान्तानलप्रख्यं क्षुरान्तं२९ स्फोटयन्नभः ।
जगाम दानवं क्षिप्रं दिशः सर्वा दहन्निव ।।३ ६ ।।
तत् स दानवशार्दूल३० उपयान्तं महारवम् ।
जघानास्त्रैर्बहुविधैरव्यथः३१ शक्तिनन्दन ।। ३७।।
तच्च तानि महाचक्रमस्त्राण्यनलसन्निभम् ।
चकार भस्मसाद् व्यास जगाम च विनादयन् ।।३८।।
अथ मायां समसृजत्३२ तैजसीं पार्थिवीमपि३३ ।
वायवीं३४ वारुणीञ्चैव तामसीमिन्द्रियात्मिकाम्र३५ ।।३९।।
तथैवोत्पातकीं मायां मोहनीं स्तम्भनीमपि३६ ।
निवर्तनीं जम्भनीं च चकारान्याश्च संयुगे ।।8.107.४० । ।
ताः सर्वास्त३७त्तदा चक्रं नाशयद्३८ भीमनादवत् ।
गत्वा३९ तस्य शिरः कायादुन्ममाथ यथाचलम् ।।४१ ।।
तत्तेन कृत्तं सुमहच्छिरोग्र्यं४० व्यात्ताननाग्निप्रतिमोग्रनेत्रम्४१ ।
दंष्ट्रालमत्यद्भुतभीमनादं४२ पपात मेरोरिव शृङ्गमुच्चम्४३ ।।४२ । ।
रथाङ्गनिष्पीतवपुर्विरागं न भाति तद्वक्त्रमतीव दीनम् ।
निशाप्रहाणे४४ विनिवृत्तरश्मि विम्बं४५ यथा चन्द्रमसो विशोभम् । ।४३ । ।

२८ तमापतन्त - क ख । २९ क्षुरन्तं - क । ३० तं स तं नवशार्दूल - क. । ३१.. ..रव्यर्थैः - ख. । ३२ समावर्जत् - क.,.. .मसार्ज्यन्त - ख. । ३३ पार्थिवानपि - क ख. । ३४ वायव्यां - ख क. । ३५ .. यात्मकां - ख । ३६ स्तम्भिनीमपि - ख. । ३७ तां सर्वां तां - क. ख. । ३८ सुमहद् - क. ख., ताः सर्वाणि गृहीत्वा तु - घ । ३९ भित्त्वा - घ. । ४०.. .च्छिरोग्रं - ख. । ४१ व्यात्तानमग्निप्रतिमोग्रनेत्रम् - क. । ४२ दंष्ट्राकरालाद्भुतभीमनादं - घ. । ४३ शृङ्गमुच्छ्रम् - ख । ४४.. प्रहाणो - क, प्रहाणौ - ख. । ४५. .र्बिम्ब - क ।

571
तद्दन्तपंक्तिच्छदमादशानं मुहुश्च दन्तानपि४६ संदशानम् ।
पपात दैत्यस्य शिरो निकृत्तं यथा गिरेः शृङ्गमतिप्रवृद्धम् ।।४४। ।
इति स्कन्दपुराणे हिरण्याक्षवधे सप्तोत्तरशतोध्यायः ।

सनत्कुमार उवाच
तस्मिन्विनिहते दैत्ये सुराः सर्वेभितुष्टुवुः ।
ऋषयश्च तपोयुक्ता पुष्पवृष्ट्यश्च पेतिरे१ ।।१।।
देवदुन्दुभयो नेदुरदृश्याः सुमहास्वनाः ।
भूतानां चाभवच्छर्म प्रकृतिस्थं जगद्बभौ ।।२।।
जगामादृश्यतां चक्रं ततः२ स्वस्थाभवन् सुराः ।
ऋषयश्चैव लोकाश्च दैत्यं तं३ ददृशुर्हतम् । ।३।।
असुरा अपि ते सर्वे पुरद्वाराणि सर्वशः ।
पिधाय यत्नात्५ सन्नद्धाः प्राकरेष्ववतस्थिरे ।।४।।
ते भीता मुक्तकेशाश्च रजोध्वस्ता भयार्दिताः ।
जीवितं सं६ परीप्सन्तः स्थिताः प्राकारगा७स्तदा ।।५।।
भगवानपि दीप्तार्चिर्हविषेद्ध८ इवानलः ।
भीषयानोसुरान्सर्वान् पृथिवीमन्वचिन्वत ।।६ ।।
स बहिः सर्वतोन्विष्य९ उत्पाट्य च महीरुहान् ।
प्रणष्टामिव गां गोपः समन्तादन्वचिन्वत ।।७।।
पर्वतान्स तदोत्पाट्य१० दैत्योद्यानान्यचूर्णयत्११ ।
आरामान् स तडागानि बभञ्ज च ररास च । ।८।।
ततो दक्षिणतो गत्वा मुहूर्त्तं देवसत्तमः ।
शंखं पर्वतमासाद्य ननर्द जलदो यथा ।।९।।

४६ दन्तान्यपि - क. ख. ।
१ पेदिरे - ख. । २ बभुः - क । ३ दैत्यञ्च - क ख. । ४... पि हितैस्सर्वे - क., अपि - घ. । ५ यत्ताः - घ. । ६ स्वं - घ. । ७ प्रकारान्तरगा - घ. । ८ हविषाक्त - ख. । ९ सर्वतोत्क्षिप्य वेगेन - घ. । १० ततोत्पाट्य - ख. । ११ देवोद्यानान्यचूर्णयत् - क. ।

572
असुरा ह्यपि ते१२ भीताः प्राकारान्तरसंस्थिताः ।
अवैक्षन्त मृगेन्द्रं तं धावन्तं सर्वतोदिशः । ।8.108.१ ० ।।
सोपि देवस्तदा शंखमुत्पाट्य नगमुत्तमम् ।
अपश्यत् पृथिवीं बद्धां रक्ष्यमाणां च दानवैः ।। ११ ।।
सागराम्भसि विक्षिप्य शंखं तं पर्वतोत्तमम् ।
अवधीद्दानवान् सर्वान् मेदिन्या येभिरक्षिणः । ।१ २।।
ततो विद्राव्य नागेन्द्रान् प्रगृह्य पृथिवीं बलात् ।
जगाम दैत्यान् सन्धृष्य१३ रत्नान्यदाय सर्वशः । ।१३ ।।
स तां दंष्ट्रांकुरे१४ लग्नां वहन् भाति मृगेश्वरः ।
विषाणलग्नां लम्बन्तीं मृणालीं गजराडिव । ।१४।।
स तां सागरमध्येन वहन्भाति मृगेश्वरः ।
वराहरूपी कालान्ते ब्रह्मेव वसुधां पुरा१५ । ।१५।।
स सागरन्तमुत्तीर्य१६ भगवान्नन्दिवर्धनः ।
स्वस्थाने स्थापयामास महीं तां पुनरेव हि । ।१६।।
ततः शक्राय लोकाँस्त्रीनदात् स मधुसूदनः ।
उवाच राजा त्वन्नोद्य मित्रञ्चाहं१७ तवानघ ।। १७।।
येन्येपि तेरयः केचिद्भविष्यन्त्यसुरेश्वराः ।
तेषामपि वधं घोरं करिष्यामि न संशयः ।। १ ८। ।
ततस्तमृषयः सर्वे देवताश्च सवासवाः ।
ऊचुः स्वां मूर्त्तिमास्थाय यथा पूर्वं तथा भव । । १ ९। ।
वराह उवाच
इयं मूर्त्तिर्मया देवाः प्राप्ता परमवर्च्चसा१९ ।
न चानया रतिः काचित् प्राप्ता मे सदृशी१९ भुवि । । 8.108.२० ।।

१२ पि हि ते क. ख.। १३ सन्दृश्य क. । १४ दष्ट्रान्तरे ख.। १५ परः ख। । १६ सागरान्त- मुखीयं। ( १) । १७. .श्चाहं - क । १८ परमवर्चसः - ख । १९ सदृसा - ख. ।

573
सोहं कञ्चिद्२० विहृत्येह कालं मूर्त्यानया सुखम् ।
भविष्यामि पुनर्देवः२१ सत्यमेतद् ब्रवीमि वः ।।२१ । ।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा सर्वे देवाः सवासवाः ।
प्रदक्षिणमुपावृत्य जग्मुः स्थानानि सर्वशः ।२२।।।
गतेषु देवसंघेषु भगवान्नन्दिवर्धनः ।
विजहार सुखं तत्र हत्वा दानवपुंगवम् ।।२३।।
तस्य तत्रोपतिष्ठन्त२२मृग्यो भूत्वा सहस्रशः ।
वैदिक्योप्सरसः शुभ्रास्ताभिस्सह रराम सः२३ ।।२४।।
स ताभिर्विचरन्देवो महात्मा नन्दिवर्धनः ।
रेमे मत्तो महानागो यथारण्ये करेणुभिः ।।२५।।
स सिंह इव सिंहीभिः शार्दूल इव चोन्नदनन् ।
रराम सागरानूपे२४ ऐरावत इवापरः ।।२६।।
रममाणस्य सिद्धाश्च ऋषयश्च तपोधनाः ।
पुष्पाणां रुचिरा वृष्टीः पातयन्ति वियत्स्थिताः । ।२७।।
तुष्टुवुश्चापरे नित्यं चक्रुश्चैनं प्रदक्षिणम् ।
देवदुन्दुभयो नित्यं सर्व२५ एवान्ववादयन् ।२८
नृत्यन्त्यप्सरसश्चास्य२६ वराहस्याग्रतस्तदा ।
वादयन्ति च गन्धर्वा गायन्ति च महात्मनः ।।२९।।
रमयन्तो२७ वराहन्तं देवाश्चेन्द्रपुरोगमाः ।
यक्षाः पुण्यजनना ये च तथा देवजनाश्च ये ।।8.108.३ ० ।।
यातुधानाश्च ये केचिद् ब्रह्मधानाश्च सर्वशः ।
मनुष्याः पशवश्चैव ऋषयश्चैव सर्वशः । ।२१ ।।
राजन्याः क्षत्रियाः सर्वे निकायाश्चैव सर्वशः ।
तत्राजग्मुर्निरीक्षन्तो वराहस्योत्सवं२८ शुभम् ।।३२।।
--

२० कश्चिद् - ख. । २१ पुनर्देवाः - क । २२?.. पविष्टन्तं - ख । २३ च - ख । २४ सागराम्भस्सु - ख । २५ गन्ध. क. । २६... श्चापि - ख । २७ रामयन्तो - ख । २८ वराहस्योत्तम - ख. ।

574

बह्वाश्चर्यसमाकीर्णं बह्वालक्ष्य सदैव च ।
एवं तस्याभवद् व्यास वराहस्य महात्मनः ।
उत्सवः सुमहान् दिव्यः प्रत्यहं नन्दिवर्धनः । ।३ ३ । ।
तस्योत्सोवोसौ ऋषिसंघजुष्टः सदा सुरैः सिद्धजनैश्च जुष्टः ।
गन्धर्वयक्षोरगराक्षसैश्च विद्याधरैश्चैव सहाप्सरोभिः । । ३४।।।
इति स्कन्दपुराणे वराहोत्सवे२९ अष्टोत्तरशतोध्यायः३०

सनत्कुमार उवाच
तस्य कालेन महता रमतः शक्तिनन्दन ।
भार्यायां चित्रलेखायां वृकोनामा१भवत्सुतः ।।१ । ।
स वृको बलवान्नित्यं विचरन् पृथिवीमिमाम् ।
नर्दमानोवधील्लोके भूतानि शतशो महान् ।।२ । ।
अथाससाद शैलेन्द्र हिमवन्तं महागिरिम् ।
गौरीकूटसमीपे च कार्तिकेयालयं शुभम । । ३ । ।
तमजानँस्तदाभ्येत्य बलेनाविनयेन२ च ।
नादयानो३ द्रुमाञ्छुभ्रान् रत्नहेमविभूषितान् ।।४। ।
सर्वर्तुपुष्पफलदान्४ सर्वकामप्रदानपि ।
शिलामणिमयाः शुभ्राः शातकुम्भमयास्तथा५ । ।५ ।।
हरितालमयाश्चान्यास्तथा मानःशिलोपालान्६ ।
उत्पाट्योत्पाट्य वेगेन बभञ्ज रूषितो यथा । ।६। ।
स गर्जमानः सततं गजो मत्त७ इवापरः ।
बभञ्ज तद्वनं शुभ्रं कार्तिकेस्य धीमतः ।।७। ।
तस्य गर्जितशब्देन वनभङ्गस्वनेन च ।
स्कन्दस्य गणपः शूरो निर्जगाम स मन्दिरात्८ ।।८। ।

२९ नन्दिवराहवर्णनो नाम - क । ३० तमोध्यायः अध्यायः १६२ ( १७२?) - ख, १८७ घ. ।
१ नाम - क । २ विजनेन - ख । ३ नोदयानो - ख. । ४ सर्वर्तुकफलान्पुष्पान् - ख. ५... श्शुभाः - क. । ६ मानःशिलोचलाः ५ - क. । ७ गजोन्मत्त - क. । ० निशामयन् - ख. ।

575
कोकवक्त्र इति ख्यातो दृढं स्कन्दस्य वल्लभः ।
महात्मा बलसंपन्नो गत्वा वृकमवैक्षत ।।९।।
स तं दृष्ट्वा महाकायं तरुणं प्रियदर्शनम ।
जीमूतमिव नर्दन्तं किञ्चित्प्रकुपिताननम् । ।8.109.१ ० ।।
उवाच वचनं हृष्टः९ कोकवक्त्रो हसन्निव ।
कस्य त्वमिह संप्राप्तो बालो देवगृहं शुभम् । १ १।।
न जानीषे किमेतत्त्वं१० स्कन्दस्य सुमहात्मनः ।
वेश्म देवैस्सगन्धर्वैः सयक्षोरगकिन्नरैः११ ।।१ २।।
कृतं दयितभत्यर्थं गणैश्चापि सुपूजितम् ।
कुमारो मन्दरं यातः सर्वैस्सह गणेश्वरैः ।।१३ ।।
रक्षार्थं मामिह स्थाप्य१३ वारयामि१४ ततो१५ हि ते ।
तुष्टोस्मि तव रूपेण बलेन वपुषा१६ तथा ।।१४।।
उपारमस्व तेन१७ त्वा ब्रवीमि सुमहाबल ।
अहं करिष्ये यद् भग्नं तथैव पुनरेव हि ।।१५।।
वक्ष्ये देवं च तं सम्यक् त्वदर्थं१८ शूकरेश्वर ।
यथा न कुप्यते तुभ्यं प्रसादं ते१९ करोति च ।।१ ६।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा वृकः संरक्तलोचनः ।
उवाच कोकवदनमिदं मृगपतिस्तदा२० ।।१७।।
न बिभेमि कुमारस्य तव वा पापचेतसः ।
बले मम कुमारोसौ न तुल्यः सगणेश्वरः ।।१८।।
यद्वो बलञ्च दर्पश्च२१ तत् कुरुध्वमशंकिताः ।
नामावशेषमेतद्वः कर्ताहं वनमन्ततः । ।१९।।

९ दृष्टः - क. । १० किमेतच्च - क ख. । ११. पन्नगैः - क ख. । १२ गणेशैश्चापि पूजितम् - ख. । १३ प्राप्तो - ख. । १४ वरयामि - क. । १५ तते - क. । १६ पुरुषा ( त्) - क. ख. । १७ उमावमसुतेन - घ । १८ तवार्थं - ख. । १९ प्रवरं त्वां - क ख. । २०. स्तथा - ख । २१ दर्पञ्च - क. ख. ।

576
सनत्कुमार उवाच
ततः स वृक्षमुत्पाट्य हैमं वैदूर्यपल्लवम् ।
कोकवक्त्राय चिक्षेप ननाद च यथा वृषः । ।8.109.२ ० । ।
ततः प्रहस्य कोकास्यस्तमेवोद्गृह्य पादपम् ।
वृकं तं तेन संक्रुद्धः शिरस्यभिजघान ह ।।२१ ।।
स तेन सुप्रहारेण भ्रमित्वा मण्डलं मृगः२२ ।
पपात भूमौ निःसंज्ञो यथा शक्रध्वजो महान् ।।२२।।
ततस्तं पतितं दृष्टवा कोकास्यः प्रहसँस्तदा ।
बबन्ध पाशैर्बहुभिर्वेश्म चैव प्रवेशयत् । ।२३ ।।
तं वद्धं पतितं दृष्टवा सहायास्तस्य ते मृगाः ।
प्रद्रुता सहसा सर्वे भयार्ता जीवितैषिणः । ।२४। ।
अथागात्तेन कालेन गणपैर्बहुभिर्वृतः ।
कार्तिकेयो मयूरेण कूजमानेन सानुगः ।।२५। ।
तस्य तत् कथयामास कोकवक्त्रो गणेश्वरः ।
वृकं च दर्शयामास पाशैर्बद्धं महाबलम् । ।२६। ।
कोकवक्त्र उवाच
भगवन् वराहरूपस्य सुतः श्रीमान् वृकः किल ।
हिरण्याक्षो हतो येन दानवो देवकण्टकः ।।२७। ।
बभञ्जायं सुदुष्टात्मा२३ सहितोन्यैर्वनं तव ।
ततः पाशैर्मया बद्धः क्रियतामस्य यत् परम् । ।२८।।
स्कन्द उवाच
नायं शक्यो मयाद्येह मोक्तुं मृगकुलाधमः ।
मुक्ते वक्तव्यता लोके भविष्यति न संशय ।।२९। ।
देवो मां वक्ष्यते२४ व्यक्तं स्कन्दो भीतो न संशयः ।
यो मुमोच सुतं तस्य वराहस्य कृतागसम् । ।8.109.३ ० ।।

२२ वृकः - ख. । २३ सुदृष्टात्मा - ख. । २४ लक्ष्यते- - ख ।

577
उक्तो गतश्चाहमद्य स्थाणुना परमात्मना ।
मा क्षमेथा वराहस्य तनुं त्वा२५ सौ२६ ह्वयेद्यदि२७ । ।३ १ ।।
इयञ्च मम तेनाद्य शक्तिर्दत्तातिभास्वरा ।
संवर्त्तिकेति२८ विख्याता सर्वास्त्रबलनाशनी ।।३ २ ।।
सोयं२९ दुरात्मा दुर्वृत्तः सर्वलोकप्रबाधकः ।
गृह्यतां वध्यतां चैव क्षिप्रमाविष्कृतं बलात् (?) । । ३३ । ।
सनत्कुमार उवाच
तत एनं बहिस्सर्वे स्कन्दस्य गणनायकाः ।
बद्ध्वा बहुविधैः पाशैर्यातयन्त सहस्रशः३० ।।३४।।
स यात्यमानो दुःखार्त्तो विललाप यथा नरः ।
निरयस्थो दुराचारः कर्मभिः स्वैः सुपाशितः३१ ।।३ ५।।
तं यात्यमानं सन्दृश्य नारदः सुमहातपाः ।
गत्वा न्यवेदयत्तस्य३२ वराहस्यामितात्मनः । ।३६ ।।
एष पुत्रो वृकस्तुभ्यं बद्धः पाशैरनेकशः ।
यात्यते कार्तिकेयस्य किङ्करैर्दुष्कृती यथा ।। ३७। ।
न नाम तव देवस्य लोकार्थायोद्यतस्य च३३ ।
करोति सन्नतिं स्कन्दो बालभावाच्च रोषतः३४ । ।३८। ।
अथवा स्वमलं३५ स्कन्दो मन्यते बलवत्तरम् ।
त्वत्तोत्मनस्ततः पुत्रं तव पाशैर्बबन्ध ह ।।३९। ।
तद्यावदेव तं नासौ प्रमापयति देवप ।
तावदेव भवान् गत्वा विमोचयतु मा चिरम् ।।8.109.४० । ।
सनत्कुमार उवाच
नारदस्य वचः श्रुत्वा वराहो नन्दिवर्धनः ।
जीमूत इव कालान्ते ननाद रूषिताननः ।।४१ ।।

२५ तनुक्त्वा? - ख. । २६ सो - क. ख- । २७.. .द्युधि - क ख,. द्यदि (?) । २८ संवर्त्तकेति ख. २९ योय - ख. । ३०... न्तस्सहस्रशः - ख । ३१ सुपातितः - ख । ३२ निवेदयामास ख। ३३ ह - ख. । ३४.. .न्मिरामतः - ख. । ३५ स्वबलं - क.

578
तस्य क्रोधात्तदा वह्निर्नेत्राभ्यामति दीप्तिमान् ।
निश्चक्राम जगत् सर्वं संहरन्निव तेजसा ।।४२। ।
उत्थाय चासनाद्देवः सहसैवोन्निरीक्षणः३२ ।
प्रतस्थे शिखरं दिव्यं गौर्या मृगपतिः स्वयम् । ।४३ ।।
स कम्पयन्महीं सर्वां स्तूयमानो महात्मभिः ।
उत्पातानुत्थितान्३७ पश्यन् जगामा३८ विनिवारितः ।।४४। ।
गच्छतस्तस्य देवस्य पन्थानं भुजगोच्छिनत् ।
दंष्ट्रा च वृक्षमापत्य३९ पपात धरणीतले । ।४५। ।
रुधिरं चास्रवद्वक्त्राद्धृदयञ्च प्रवेपत ।
भयञ्चास्याभवत्तत्र वेगो येनाभिहन्यते४० । ।४६। ।
वायवः प्रतिलोमाश्च उरसा चापतद् भुवि ।
स्नेह४१श्चास्य प्रियां स्मृत्वा तदात्यर्थमजायत ।।४७। ।
एताँश्चान्यान् सुबहुश४२ उत्पातान् भयसूचकान् ।
अनादृत्य मृगेन्द्रोसौ जगामैव महाबलः ।।४८।।
तं प्रस्थितमभिप्रेक्ष्य निमित्तानि च सुव्रत ।
पूजां सज्जामकुर्वन्ते४३ देवलोके दिवौकसः ।।४९। ।
स सिद्धसंघैरनुगम्यमानो यक्षैश्च गन्धर्वमहोरगैश्च ।
रक्षोगणैश्चारणकिन्नरैश्च जगाम गौरीशिखरं महात्मा । ।8.109.५० ।।
इति स्कन्दपुराणे वृकबन्धो नाम नवोत्तरशतोध्यायः

सनत्कुमार उवाच
विनिर्गम्य कुमारोपि रम्यात् स्वभवनात्तदा ।
रराम गणपैः१ सार्धं क्रीडनैर्बहुभिः शुभैः । । १ । ।
आनयामास तञ्चापि वराहस्य सुतं प्रभुः ।
वृकं विमुच्य पाशेभ्य२ उत्ससर्ज हसन् विभुः३।। २। ।

वोग्निरीक्षणः - ख., वाग्निरीक्षणः - क । ३७... न्भयदान् - ख. । ३८ जगाम - क. । मापात्य - क. । ४० भिमन्यते - क. ख. । ४१. स्वेह (स्वेद?) - ख. । ४२... श्चान्याँश्च बहुशः - ख. । मकुर्वन्त - क. ख ।

१ रेमे गणेश्वरेः. । २ पाशैश्च - क. ख. । ३ प्रभुः - ख.

579
)' ४

उत्सृष्टं धावमानञ्च पुनर्जग्राह वेगितम् ।
पुनरेवोत्सृजच्चैनं४ जग्राह च पुनः पुनः ।
एवं रराम५ तेनासौ वराहोभ्यागमच्च६ तम् । ।३ ।।
शिलां गृहीत्वा महतीं संक्रुद्धोन्तकसन्निभः ।
चिक्षेप कार्त्तिकेयाय७ नादयन् जलदो यथा ।।४। ।
तामापतन्तीं बहुधा नदन्तीं विहायसा मृत्युसमानरूपाम् ।
जग्राह वेगेन महातिवेगां८ कोकामुखः प्रज्वलितामिवोल्काम् ।।५। ।
ततश्चक्रं सहस्रारं युगान्ताग्निसमप्रभम् ।
विनायकस्याव्यग्राय गणाय व्यसृजत् प्रभुः । ।६ । ।
तदन्तकप्रतीकाशं९ चक्रं सर्वसुरारिहम्१० ।
विवेश (?) सगणस्तूर्ण११ ततस्तद् विन्यवर्तत । ।७। ।
तन्निवृत्तं पुनश्चक्रमकृत्वा कार्यमुज्ज्वलम् ।
न जग्राह तदा विष्णुरवमेने च तत्तदा । ।८। ।
तत्तदानचितं तेन चक्र दानवघातिना ।
विष्णुना प्रययौ क्षिप्रं स्वमेव भवनं प्रति ।।९।।
तस्मिञ्चक्रे तदा याते भगवान्नन्दिवर्धनः ।
वृक्षमुत्पाट्य वेगेन कुमारमभिजघ्निवान् । । 8.110.१० ।।
अगण्य तं प्रहारन्तु भगवाननलात्मजः ।
शक्तिं संवर्त्तिकां१२ क्रोधाच्चिक्षेप च ननाद च । । ११ ।।
सा दहन्तीव१३ तेजांसि नदन्ती बहुधा तदा ।
हन्तुं वराहं प्रययौ शक्तिर्दिव्य इवाशुगः । । १२।।
तामापमन्तीं वेगेन भगवान्न्नन्दिवर्धनः ।
जघानास्त्रैर्बहुविधैर्नादयन् सिंहराडिव ।। १३ ।।
तानि सा भस्मसात् कृत्वा शक्तिः संवर्त्तिका शुभा ।
विवेश हृदयं तस्य कामिनीव दृढं प्रिया१४ । । १४।।

४ पुनरेवोत्सृजच्चैव - ख. । ५ रेमे स (?) । ६.. भासयच्च - क,.भ्यागतश्च - ख. । ७ कार्तिकेयञ्च- ख. । ८ सहातिवेगां - क. । ९ तमन्तकप्रतीकाशं - क. । १० सर्वसुरारिघम् - क । ११.? न्तूर्णं - ख. । १२ संवर्त्तकां - क, संवर्षिकां - ख. । १३ दहन्निह - ख. । १४ दृढप्रिया - क. ख. ।

580
स तया भिन्नहृदयो योगेन परमेण ह ।
योगीव देहं तं त्यक्त्वा१५ देहेनान्येन तस्थिवान् ।।१ ५।।
सोन्यद्देहं१६ समास्थाय पौराणं सुरसत्तमः ।
देवैः सर्वैः परिवृतो जगाम भवमन्दिरम् । ।१ ६। ।
तत्रापश्यन्महादेवं जटामुकुटधारिणम् ।
चन्द्रलेखांशुजालौघनिरस्ततिमिरोत्करम् ।।१७।।
भद्रपीठे१७ समासीनं काञ्चने मणिभूषणे१८ ।
भ्राजमानं श्रियात्यर्थं पार्वत्या पार्श्वसंस्थया ।।१८।।
गणैश्च विविधाकारैर्बहुभिःकामरूपिभिः ।
नृत्तगीतप्रियैर्नित्यं समन्तात् परिवारितम् ।।१९।।
तं दृष्टवा शंकरं विष्णुः प्रसन्नेनान्तरात्मना ।
तुष्टाव विविधैः स्तोत्रैरिदञ्चोवाच सुस्वरम् । ।8.110.२०।।
वाराहं१९ रूपमास्थाय त्वत्तेजोबृंहितेन मे ।
रणे विक्रम्य भगवन् हिरण्याक्षो निषूदितः ।।२१।।
त्वं देव कारणं नित्यं संभूतेः प्रलयस्य च ।
त्वया सर्वमिदं व्याप्तं जगदव्यक्तमूर्त्तिना ।।२२।।
त्वत्प्रसादेन देवेश ब्रह्माहं शक्र एव च ।
पूज्याः स्म लोके सततं तथैवान्ये दिवौकसः । ।२३।।
त्वयि प्रीते महादेव सर्वे प्रीता वयं प्रभो ।
त्वयि क्रुद्धे विनाशो२० नो भविता नात्र संशयः ।।२४।।
स्तुवन्तमेवं भगवान् विष्णुं चन्द्रार्धशेखरः ।
सहस्रसूर्यतेजस्कः प्रीतः प्रोवाच शंकरः ।।२५।।
भक्त्या तुष्टोस्मि२१ ते विष्णो देवकार्योद्यमेन च ।
वरं वरय भद्रन्ते यस्ते मनसि वर्तते ।।२६।।

१५ संत्यज्य - क., संत्यक्त्वा - ख. । १५ सोन्यदेहं - ख । १७ चन्द्रपीठे - क. । १८ काञ्चनैर्मणि- भूषणैः - ख, । १९ वराह - ख । २० च नाशो - ख । २१ कृतोस्मि - क. ।

581
विष्णुरुवाच
यदि तुष्टोसि नो देव यदि देयो वरश्च नः ।
यत्तत् पापहरं२२ दिव्यं व्रतमादेष्टुमर्हसि ।।२७।।
यदाश्रित्य वयं सर्वे सशक्रास्सार्वकामिकम्२३ ।
युद्धे जेष्याम दैतेयान् दुःखशोकविवर्जिताः ।।२८।।
देवदेव उवाच
हन्त वः कथयिष्यामि गुह्यमेतत् सनातनम् ।
व्रतं पाशुपतं दिव्यं येन कामानवाप्स्यथ । ।२९।।
इत्युक्त्वा देवदेवेशो देवानां हितकाम्यया ।
ययौ दिवमथामन्त्र्य देवीं गिरिवरात्मजाम् ।।8.110.३० । ।
अथ हिमगिरितुल्यचारुमूर्त्तिं वृषभवरं२४ भगवाँस्तदाधिरूढः२५ ।
सुरगणसहितः प्रभुस्सुमेरुं व्रतमुपदेष्टुमना जगाम शर्वः ।।३१।।
इति स्कन्दपुराणे हिरण्याक्षवधे वराहरूपसंहारे देवदेवस्य देवलोकगमनं नाम दशोत्तरशतोध्यायः२६

२२ ततः पाशुपतं - ख २३ स्सर्वकामिकम् क.। २४ चारुमूर्तिर्वृषभवरं ख.। २५ भिरूढः क.। २६ १६४ ख।