स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०६
पूर्ववर्ती पृष्ठः (अध्यायाः ४१ - ५०)
आगामी पृष्ठः (अध्यायाः ६१ - ७०)
अध्यायाः ५१ - ६०
सनत्कुमार उवाच
सुकेशस्तु ततो व्यास पितुः श्रुत्वा सुदीनवत्१ ।
दुःखित२ श्चिन्तयामास जन्तुना तां गतिं तदा३ ।। १ । ।
५८ विद्विष्टः - ख. । ५९... स्तदा - ख. । ६.... भक्ष्यो - ख. । ६१ तव पुत्रक - क. । ६२ यथागति - क., यथामति - ख. । ६३ भक्तः - घ. । ६४ सर्वयम्येः - ख. । ६५ धन्यैर्विंशस्य- मायुष्यं - ख. । ६६ श्राव्यं - क. ख. । ६७ स्वर्गमिच्छता - ख. । ६८ सुमतिप्रदं - घ. । ६९ नरककीर्तनं समाप्तं - घ. ।
१ दीनवाक् - क.. वान् - ख. घ. । २ दीनवत् - क. घ. । ३ गतिचिन्तकः - ख. ।
279
चिन्तयाभिपरीतात्मा दुःखेन च समाहतः४ ।
जन्तूनां मोक्षणोपायं मूढचेता न जज्ञिवान्५ । । २। ।
चिन्तापन्नः६ स तु यदा पितॄँ स्तान्नाभ्यभाषत८ ।
तदा ते पितरः सर्वे सुकेशमिदमूचिरे । ।३ ।।
पितर ऊचुः
अतीव किं चिन्तयसि कुतश्चिन्ता तवानघ ।
ईश्वरस्य सतः पुत्र९ नेदं तव विधीयते ।।४। ।
सुकेश उवाच
जन्तूनां कर्मजं क्लेशं श्रुत्वा युष्माभिरीरितम् ।
चिन्तयामि कथं तेषां मोक्षोपायो भवेदिति ।।५। ।
पितर ऊचुः
अनादृत्य क्षयं१० पुत्र मोक्षस्तेषां न विद्यते ।
कर्मणः स्वकृतस्येह स च भोगात् क्षयो मतः ।।६।।
भोगश्च नरकेवश्यं जन्तुना सं११ विधीयते ।
न च ते नारकाः१२ शक्या हर्त्तुं१३ कर्मक्षयं विना ।।७। ।
अशक्याः खलु ये ह्यर्था न तान् प्राज्ञस्समारभेत् ।
अर्णवस्य१४ प्रतरणं यथा त्वां मृत्युमृच्छति१५ ।।८।।
सनत्कुमार उवाच
एवमुक्तः स१६ तेजस्वी पितॄँ स्तान् हॄच्छयावृतः१७ ।
उवाच प्रणतो भूत्वा मावमध्वं१८ सुतं हि माम् । ।९।।
४ सर्वेषां करुणात्मनां - ख., समाहितः - घ. । ५ मूढचेता - क., कथं स्यादिति निश्चयं - ख., चिंतयामास वै तदा - घ. । ६ चिन्तयानः - घ. । ७ तदा - ख. । ८ तान्यु (नु) वाच पितॄन् स तु (सुतः?) - ख., नाभ्यभाषत - क. ख.,.. .श्चागत्य भाषते - घ. । ९ महादेवप्रसादाद्धि - ख. । १०... मनादृत्य - घ.. पापक्षयं विना - ख. । ११ स - क. ख. । १२ नरकाः - क. घ. । १३ हन्तुं - घ. । १४ अर्णवस्येव - ख. । १५ तीरमप्राप्य नश्यति - ख. । १६... श्च - ख. । १७ कृपया वृतः - घ. । १८ मावमंस्था - क. ख. घ. ।
280
का शक्तिर्मम१९ तान् जन्तून् बलात् तारयितुं शुभान्२० ।
महादेवप्रसादस्तान्२१ तारयिष्यति२२ दुर्गतीन्२३ । ।8.51.१ ० ।।
यूयं यथैव२४ तीर्णाः स्थ नरकस्था विचेतसः२५ ।
तथा ते२६ जन्तवस्सर्वे तरिष्यन्ति२७ न संशयः । । ११ । ।
सनत्कुमार उवाच
ततस्तान् स तदा२८मन्त्र्य महात्मा गणनायकः ।
संप्रविश्य समुद्राम्भो ह्यन्तर्जलगतस्तदा२९ ।। १२ । ।
जजाप रुद्रान् शुद्धात्मा निश्चलः सुसमाहितः ।
जपतस्तस्य योगेन युक्तस्य च महात्मनः ।।१ ३ । ।
त्रैलोक्यमखिलं व्यास३० तपसाभूत् प्रतापितम्३१ ।
ततो देवास्तदा सर्वे पितामहमथाब्रुवन् ।। १४।।
किमिदं भगवन् सर्वे तप्याम विवशा वयम् ।
कस्येदं तपसो वीर्यं कस्य योगोयमीदृशः ।। १५ ।।
क एष सुरशार्दूल तपस्तप्यति३२ दारुणम्३३ ।
यावदेवं न दहति यावन्नैव न कुप्यते ।। १ ६।।
तावत् सर्वानभिप्रायान् तस्य संपादय प्रभो ।
स एवमुक्तो३४ देवैस्तैर्भगवान् देवसत्तमः३५ । ।१७। ।
उवाच मा भयं वोस्तु नायं कश्चिदसंमतः ।
स एष देवदेवस्य३६ महात्मा३७ गणनायकः । । १८।।
समुद्रान्तर्जलासीनो३८ रुद्रान् जपति योगवान् ।
न चास्य दुष्टोभिप्रायो लोकान्प्रति महाबलाः३९ । ।१ ९ ।।
१९ का गतिर्मम - ख. । २० पितः - घ. । २१... प्रसादात्तान् - क., प्रसादात्तां - घ. । २२ नाशयिष्यति - घ नाशयिष्यामि - क. घ. । २३ दुर्गतिम् - घ. । २४ तथैव - क. । २५ पितामहाः - ख. । २६ तथैव - घ. । २७ भविष्यान्ति - घ. । २८ पितरो - ख. । २९?. .स्तथा - क । ३० सर्वं - क. । ३१ प्रधूपित इ (मि) वाभवत् - ख. । ३२.?. स्तप - क., स्तपस्यति - ख. । ३३ सुदारुणम् - ख. । ३४ एवमुक्तः सः - घ । ३५ कमलासनः - ख । ३६ एष देवस्य रुद्रस्य - क घ । ३७ सुकेशो - ख. । ३८ र्जले सम्यक् - ख. । ३९ परिपूर्णोर्थः सर्वेषां करुणात्मकः - ख. ।
281
नारकानेव नरकादुद्धर्तुमभिमन्यते ।
तद्४० यूयं यदि४१ मन्यध्वे४२ गत्वा रुद्रं प्रणम्य च ।।8.51.२०।।
अर्थयामोस्य देवस्य क्रियतामीप्सितो वरः ।
एवमस्त्विति ते सर्वे ब्रह्मणा सह संगताः ।।२१ ।।
गता मन्दरमव्यग्रा४३ नन्दिना संप्रवेशिताः ।
ते दृष्टवा देवमीशानं स्तुत्वेदमब्रुवन्४४ विभुम्४५ ।।२२।।
सुकेशो भगवन् तुभ्यं वल्लभो गणनायकः ।
कारुण्यं४६ प्राणिनां कृत्वा तपस्तप्यति दुश्चरम् । ।२३ ।।
तस्य कामं सकामं४७ त्वं कुरुष्व भुवनेश्वर ।
तेषां विज्ञप्तिमाकर्ण्य देवदेवस्ततो४८ भवः ।।२४।।
ब्रह्माद्यैः सहितोभ्यागात्४९ सुकेशस्य तदान्तिकम्५० ।
समुद्रस्तत्र ये चान्ये५१ मुनयः५२ शंसितव्रताः ।।२५।।
अर्ध्यमादाय शतशो५३ नेमुः शङ्करमागतम् ।
तमसौ गणपश्रेष्ठं देवदेव इदं वचः । ।२६।।
प्रोवाच मधुरं व्यास मनःश्रोत्रसुखावहम् ।
वत्सोत्तिष्ठ सुकेश त्वं प्रार्थयस्व यथेप्सितम् ।।२७।।
सर्वं तत्५४ संप्रदास्यामि त्वं हि५५ नन्दिसमो मम ।
ततः सुकेश उत्थाय स्तुत्वा च५६ वृषभध्वजम् ।।२८।।
प्रणिपत्य पुनर्वव्रे कामं पूर्वसमीहितम्५७ ।
नरकेषु नरा देव यात्यन्ते पापकारिणः५८ ।।२९।।
तेषामुपरि५९ चेतो मे दुःखेनार्दितमीश्वर६० ।
ते यथा प्रतिमुच्यन्ते सर्व एव जगत्प्रभोः६१ । ।8.51.३ ० ।।
४. ते - क. । ४१.. .मभि - ख. । ४२ मन्यध्वं - क. ख. घ. । ४३ मन्दिरमव्यग्रा - क. । ४४.. .त्वैवमब्रुवन् - घ । ४५ चिरम् - घ. । ४६ करुणां - ख. । ४७ सकाम - क., प्रकाम - ख. । ४८.. सदा - क. । ४९ ह्यागात् - ख. । ५० महात्मनाः (नः) - क. । ५१ समुद्रा - क, समुद्रो मुनिभिस्सार्धं - ख. । ५२ यत्र ये - ख । ५३ सततं - क. । ५४ तत्सर्वं - घ., सर्व हि त्वत् - ख । ५५ तु - ख. । ५६ तं - क । ५७ तन्निष्पत्ति न संशयः - क. । ५८ स्वेन कर्मणा - ख, पापकर्मिणः - घ. । ५९ तेषामर्थे - व. । ६० मे चिन्ता कृपया परमेश्वर - ख, मनो मेद्य - घ. । ६१ सुदुःखिताः - ख ।
282
तथा कुरु ममाद्यैव वर एष मयार्थितः६२ ।
ये चाधुना नरा देव यात्यन्ते नरकेषु वै ।।३ १ ।।
तेषान्तु प्रतिमोक्षार्थं याचेहं त्वां सुरेश्वर६३।
ततस्तदर्थितं६४ देवः प्रयच्छन्निदमब्रवीत् ।।३२।।
एवं भवतु ते वत्स मुक्ता६५ नारकिणो नराः ।
अनयापि च भक्त्या त्वं कारुण्येन च वल्लभः६६ । ।३ ३ ।।
सुतरां भव निर्व्यग्रः परमैश्वर्यसंयुतः ।
ततस्ते नारकाः सर्वे६७ विमानानि समाश्रिताः ।।३४।।
देवदेवं ततोभ्येत्य सुकेशञ्च प्रणेमिरे ।
तमुवाच पुनर्देवः सुकेशं गणनायकम् ।। ३५। ।
यो हि६८ तारयते जन्तूनापदः६९ काँश्चिदेव तु ।
तेषां धर्मपिता भूत्वा संसारं न स पश्यति७० ।।३ ६। ।
मनसापि हि यः प्राणी क्लेशाज्जन्तून्सदेच्छति७१ ।
विमोक्तुं७२ सोपि धर्मात्मा सर्वदुःखैः प्रमुच्यते ।।३७। ।
यश्चोपार्ज्य स्वयं धर्मं जन्तुभ्यः संप्रयच्छति ।
सुखार्थं सोपि सर्वेभ्यो७३ दुःखेभ्यः७४ संप्रमुच्यते७५ ।।३८। ।
स त्वं परेण योगेन ऐश्वर्येण च संयुतः ।
जन्तूनां तारणे युक्तस्त्वयान्यः कः समो७६ भुवि ।।३९। ।
सुकेश उवाच
भगवन् त्वत्प्रसादान्मे सर्वमेतद् भविष्यति ।
शक्तिर्मम कुतो देव त्वयैवैतत् कृतं विभो ।।8.51.४० ।।
६२ वृतः - घ. । ६३ याचयेयं - क. घ., याचयेयन्त्वत्सकाशतः - ख. । ६४ स्तुष्टस्तदार्थितं - ख. । ६५ युक्ता - क. । ६६ सत्वानां करुणाय च - ख. । ६७ सत्वा - घ., सत्वा मुक्ता यातनसंस्थिताः - ख. । ६८ मे ( यो) पि - क. । ६९ जन्तूनापदं - क. . दा - ख,.. पादं - घ. । ७० प्रयच्छति - ख घ. । ७१ समुद्धरेत् - घ. । ७२ विमुक्तः - घ. । ७३ धर्मात्मा - ख । ७४ सर्वदुःखै,.. - ख । ७५ संप्रयुज्यते - घ. । ७६ नरः - ख., भवेत् - घ. ।
283
द(न?) चान्यदस्ति कर्त्तव्यं७७ कृत्यं७८ यन्मे मनोगतम् ।
तवास्मि किङ्करो दासो नाश्चर्यं यन्ममेदृशम्७९ । ।४१ ।।
सनत्कुमार उवाच
ततः स भगवान् देवो विसृज्य गणनायकम् ।
अभ्यगात् मन्दरं८० व्यास वृतः सर्वामरैस्तदा ।।४२ ।।
देवा अपि विमानस्थान्८१ नारकान् वीक्ष्य सर्वशः ।
शान्तं च जगतो दुःखं दृष्ट्वा जग्मुर्यथागतम् ।।४३ ।।
य इमं नारकोत्तारं शृणुयाद्वा पठेत वा ।
स दुःखं समनुप्राप्य८२ नावसीदति कर्हिचित् । ।४४। ।
एतद्योगविधानसर्वसमयं८३ श्रुत्वा नरो नित्यशः
पापात्मापि सुनिर्घृणं प्रतिभयं नाभ्येति पापाश्रयम् ।
किन्त्वेतद् य इहाभ्युपेत्य सततं शौचान्वितः श्रावयेत्
देवब्रह्मणवैद्यसंसदि दृढं भक्तः८४ सदा शङ्करम्८५ ।।४५। ।
इति स्कन्दपुराणे नारकीयमोक्षणे८६ एकपंचाशोध्यायः
व्यास उवाच
के पुनस्तं न गच्छन्ति नरकं शुभकर्मिणः ।
पापेष्वपि रता ब्रह्मन्नेतदिच्छामि वेदितुम् । । १ ।।
तथा स्त्रीणां च का युक्ता गतिः परमिका शुभा ।
केन कर्मविपाकेन एतदिच्छामि वेदितुम् । ।२। ।
७७ कर्ता मां - ख. । ७८ कृतं - ख. । ७९ नाश्चर्याय ममेदृशम् - ख. । ८० मन्दिरं - घ. । ८१ विमानस्था - ख. घ. । ८२ महदप्राप्य - घ. । ८३... मभयं - ख. । ८४ भक्त्या - ख. । ८५ शङ्करेति - ख. । ८६ सुकेशमाहात्म्यं - घ. ।
१... भिरताः पापे - क. ख,... षु निरता - घ. । २.. श्चैव - क., देव - ख. ।.
284
सनत्कुमार उवाच
न गच्छन्ति नरा येन३ नरकं तं सुदुःखिताः४ ।
पापकर्मण्यपि रता५स्तानिमान्६ शृणु मानद७ । ।३।।
नाग्निचिन्नरकं याति न त्रिसूत्री८ न गोव्रती९ ।
नाश्वमेधेन यो यष्टा१० गो सहस्रप्रदो न च११ । ।४। ।
न च स्वाध्यायनित्यो यो रुद्रजापी च यो द्विजः१२ ।
ब्राह्मणान्१३ तारयेद्यश्च१४ आपदो मरणान्तिकात् । ।५ । ।
ब्राह्मणं१५ व्याधितं दीनमनाथं दुःखपीडितम्१६ ।
शुश्रूषेद्यावदेतेन युक्तो धर्मेण मानवः१७ ।।६ । ।
ब्राह्मणं वासयेद्यस्तु गृहवासपरिच्छदैः ।
निःस्वं स्वाध्यायसंपन्नं नरकं न स पश्यति ।।७।।
तथा गाञ्चैव संमग्नां१८ पतितां शक्तिवर्जिताम् ।
संरक्षति च युक्तात्मा स च तं नैव गच्छति । ।८। ।
महेशं यश्च भावेन परमेण समाधिना ।
भक्त्या१९ समर्चयेन्नित्यं स च तं२० नैव गच्छति । ।९।।
इतरेषां तु संसारो भवत्येव न संशयः ।
ब्राह्मणास्तं न गच्छन्ति वेदवेदाङ्गपारगाः । । 8.52.१० । ।
षट्कर्मनिरता व्यास आत्मधर्मव्यवस्थिताः२१ ।
तपःशौचसमायुक्ता दयावन्तो दृढव्रताः२२ । ।१ १ ।।
प्रतिग्रहनिवृत्ताश्च ईशभक्ताश्च ये द्विजाः ।
क्षत्रिया ये च रक्षार्थं प्रजानां२३ नित्यमुद्यताः ।। १ २। ।
त्यजन्ति समरे प्राणान् न ते नरकगामिनः ।
वैश्या वार्तासमायुक्ता२४ न्यायधर्मव्यवस्थिताः । । १३ ।।
३ तु भूतानि - घ. । ४ सुदुःखित - घ । ५. भिरता - ख. विरता - घ । ६ निमान् घ.। ७ महामते घ.। ८ न सपुत्रो - ख, न सपुत्री. - घ. । ९ गोप्रदी - घ. । १० येन यष्टोश्वमेधेन - ख. । ११ गोपालनरतश्च यः - घ. । १२ नरः - क. । १३ ब्राह्मणं - क. घ. । १४ यस्तु - घ. । १५ तमेव - क., तमेवं वादिनं - घ १६ न कर्मण्यं तथैव च - क. घ । १७ मुक्तः स्यादिह मानवः- - ख. । १८ संभग्नां क. ख. । १९ भक्तः - क. घ. । २० तान् - घ । २१ शान्त (ा) दान्त (ा) जितेन्द्रियाः -ख. । २२ ह्यलोलु (पाः) - ख. । २३ प्रजाया - घ. । २४ स्ववृत्तिसंयुक्ता - घ. ।
285
येषां वृत्तिरविच्छिन्ना२५ देवब्राह्मणपूजकाः२६ ।
नरकं ते न पश्यन्ति स्वर्गगास्ते प्रकीर्तिताः२७ । । १४।।
भक्ता वर्णत्रयं२८ ये च शूद्रा दर्पविवर्जिताः ।
ब्राह्मणांश्च विशेषेण नित्यं ये समुपासते२९ ।।१ ५। ।
ते न३० पश्यन्ति नरकं३१ सुगतिञ्च३२ मृता ययुः ।
चतुर्ष्वपि च वर्णेषु मनुजा भावतः३३ शिवम् । ।१ ६।।
शर्वार्पितक्रियावस्था३४ भक्ता नित्यमनुव्रताः ।
न ते प्रयान्ति नरकं प्राप्नुवन्ति परां गतिम् ।। १७।।
प्रासादं चैव ये कृत्वा देवदेवमुपासते ।
अन्यानपि पितॄँस्ते तु नरकादुद्धरन्त्युत ।।१८।।
खनिताः पुष्करिण्यो यैस्तडागानि ह्रदानि च ।
रोपिता वृक्षषण्डाश्च३५ तेपि तान्३६ न प्रयान्ति३७ हि । । १९।।
परित्राणं द्विजातीनामन्येषां चैव दुःखिनाम् ।
नित्यं प्रकुर्वते ये च तेपि तान्३८ न व्रजन्ति हि ।।8.52.२० । ।
अक्रोधनाश्च ये नित्यं देवब्राह्मणपूजकाः ।
नित्यं दानरताश्चैव३९ न ते गच्छन्त्यधोगतिम् ।।२१ ।।
सत्याभिधानसंयुक्ता दु्ष्टारम्भविवर्जिताः४०।
स्वधर्माचारसंयुक्ताः४१ पश्यन्ति नरकं न ते ।।२२।।
लिङ्गार्चनरतस्तस्मात्४२ सर्वस्मात् परिमुच्यते ।
ध्यानी त सर्वदा यो वै गणाञ्जपति वा शुचिः । ।२३ । ।
योगी तु४३ सर्स(र्व?)पापानि कुर्वन्नपि न लिप्यते ।
स्त्रीणां तु परमो देवः पतिर्भवति सर्वदा ।।२४। ।
२५ सततं न व्यवच्छिन्ना - ख. । २६.. पूजने - क. घ । २७ गोप्ता गोब्राह्मणस्य च - ख. । २८ ... वर्णत्रये - ख. । २९ ये नित्यमुपसेवते - क. । ३० न ते - ख. । ३१ नरकान् - क., नरकानागतिञ्च - घ. । ३२.. .रवा - घ., खनन्ति - ख. । एतदनन्तरं - त्रिसंध्यं सततं भक्त्या इति मे व्रत- मास्थिता, ब्राह्मणा ये न पश्यन्ति (?) नरकं न स गच्छति, इति पाठाधिकः ख. पुस्तके । ३३ पुण्यश्च - क. ख., पुण्यो ये (?) । ३४ तानि - क., शर्वार्पितानि च पुष्पाणि - घ. । ३५... नि - ख. । ३६. .नि - क., तत्र --ख. । ३७ न यान्ति - क. ख., न व्रजन्ति - घ. । ३८ तं - ख. । ३९ ये च - घ. । ४० दुष्टता - क., ये नरा धर्मशीलिनः - घ. । ४१ स्वधर्मकरणे शक्ता - क. घ. । ४२ नित्यं लिङ्गार्चनरतः - ख. । ४३ योगज्ञः - ख. ।
286
तस्मान्नान्यं४४ प्रपश्यन्ति याः काश्चि४५द्धर्मचिन्तिकाः४६ ।
कर्मणा मनसा वाचा यद् ददाति४७ जुहोति वा ।। २५। ।
परित्यज्य पतिं नारी न तस्य फलमश्नुते ।
पतिशुश्रूषणे रक्ता मनोवाक्कायकर्मभिः४८ ।।२६ ।
पतौ४९ मृतेपि मनसा नान्यमिच्छति या नरम्५० ।
करोति पुण्यं यच्चापि पत्युः सर्वं५१ प्रयच्छति ।
सा नारी नरकान् सर्वान् मनसापि न गच्छति५२ । ।२७।।
संसारं नैव सा घोरं५३ सर्वं संप्रतिपद्यते५४ ।
अन्यासां तु न संदेहो नरकं प्रति सुव्रत५५ ।।२८।।
सनत्कुमार उवाच
सुकेशं त्वनुगृह्यैवं देवोपि वृषवाहनः ।
- - - - - - - - काष्ठकूटाश्रमं गतः ।
अनुजग्राह तं विप्रं काष्ठकूटं तपोधनम् ।।२९।।
व्यास उवाच
किं तपस्तस्य भगवन् ब्राह्मणस्य महात्मनः ।
कियता चैव कालेन वरं लेभे महेश्वरात् ।।8.52.३ ० ।।
कस्य पुत्रः कस्य नप्ता किन्नामा स च सत्तमः ।
एतदिच्छामि कथितं भगवन् विस्तराच्छुभम्५६ ।।३ १।।
सनत्कुमार उवाच
गौतमस्यान्वये५७ विप्रो नाम्ना कृष्ण इति प्रभुः५८ ।
तस्य पुत्रोभवत् ख्यातो भूमन्युरिति नामतः ।।३ २ । ।
तस्य पत्न्यभवत् सुभ्रू रात्रेयी नामतो यशाः ।
स कदाचित् कृतोद्वाहो भूमन्युर्न्नाम गौतमः । ।३ ३ ।।
४४... वन्यत् - क. । ४५ ये केचिद् - क. ख. । ४६ चिन्तकाः - क. ख. घ. । ७ करोति. - घ. । ४८ त्रिविधेनापि कर्मणा - क. घ. । ४९ पत्यौ (?) । ५० न चान्यं सेवते पतिं - घ । ५१ कृत्वा पुण्यानि सर्वाणि फलं पत्युः... - ख. । ५२ न पश्यति - ख. । ५३ घोरान् - ख. । ५४ न प्रतिपद्यते - ख । ५५ प्रतिपद्यते - घ. । ५६?.? वृतं - घ. । ५७ गोतमस्यानुजो - घ. । ५८ प्रभो - घ. ।
287
नाविन्दत सुतं तस्यां जरया चाभिसंवृतः ।
स भार्यामाह दुःखार्त इदं वचनकोविदः ।।३४। ।
पुत्रेणेच्छन्ति लोकांश्च अनृणाश्च भवन्त्युत ।
जरां परिगत५९ श्चाहं न च मे दृश्यते सुतः ।। ३ ५।।
सा त्वं कञ्चित्६० सगोत्रं मे अनुज्ञाता मया शुभे ।
अभिपद्यस्व६१ पुत्रार्थं याचे त्वां६२ प्राञ्जलिर्न्नतः ।।३६ ।
सुयशोवाच६३
न मया श्रुतमेतत्ते तथा नोक्तं त्वयानघ ।
मादृशी कथमेतद्धि मनसाप्यभिचिन्तयेत् ।।३७।।
अत्रीणान्तु कुले जाता गौतमं कुलमागता ।
मद्विधा कथमेतद्धि कुर्यात् सद्भिर्विगर्हितम् ।।३८।।
तपसा धनमन्विच्छेज्जीवितानि सुखानि च ।
पुत्रान् कुलञ्च लोकांश्च तपः कुरु महामुने ।।३ ९।।
तपसा६४ हि सुतो६५ लब्धः शक्तिना स पराशरः ।
और्वश्च तपसा स्वेन च्यवनेन महामुनिः ।।8.52.४० ।।
वसिष्ठेन कपिञ्जल्यामिन्द्रप्रमतिरेव च ।
शिलादोजनयच्चैव तपसा नन्दिनं सुतम् ।।४१ । ।
तथा भवानपि तपः करोतु सुसमाधिना ।
लप्स्यसे त्वं सुतं श्रेष्ठं महायोगबलान्वितम् ।।४२।।
मां हि दृष्ट्वा पुरा प्राह अत्रिर्ब्रह्मसुतः स्वयम् ।
सत्पुत्रिणी६६ भवित्रीयं न मिथ्या तद् भविष्यति । ।४३ ।।
तपोस्ति मयि यत्किञ्चित् त्वत्प्रसादात् समर्जितम्६७ ।
तेन स्वेन च संयुक्तो रुद्रमाराधय प्रभो६८ । ।४४।।
५९ जरा - क., जरापरिणतः - ख. । ६० किञ्चित् - क. । ६१ मन्यस्व - क. । ६२ ये त्वं - क. । ६३ यशोवाच -क., आत्रेय्युवाच - ख । ६४ तपसो - क. । ६५ सुता - क. । ६६ सुपुत्रिणी - ख. । ६७ समार्जितम् - क. ख. । ६८ प्रभो - क ।
288
सनत्कुमार उवाच
एवमुक्तस्स६९ तेजस्वी ह्रिया७० परमया युतः ।
तयैवं७१ समनुज्ञातो रुद्रं शरणमीयिवान्७२ ।।४५।।
त्वरितं स७३ च समागम्य७४ नर्मदां हर्षसंयुतः ।
तस्यास्तीरे७५ समुद्विश्य७६ तस्थौ वाय्वाशनः७७ समाः ।।४६।।
स तु नैवाभवद्विप्रः कृतार्थस्तेन कर्मणा ।
ततस्स दुःखितो७८ भूयः प्राणायामेन तस्थिवान् ।।४७।।
वर्षमेकं ततो देवस्तमुवाच तदा विभुः ।
किमेवं क्लिश्यसे विप्र न तवास्ति सुतः क्वचित् ।।४८।।
व्यर्थस्तेयं श्च(श्र?)मस्तावन्नास्ति पुत्रस्तवानघ ।
स एवमुक्तो निर्विण्णो७९ निराशः पुत्रजन्मनि८० । ।४९।।
चिन्तयामास मरणं न गन्तुं स्वं गृहं८१ प्रति
स काष्ठकूटं संभृत्य गृहीत्वाग्निं सुदुःखितः८२ ।।8.52.५० ।।
विलप्य बहुदुःखार्त्त आत्मानं दग्धुमैच्छत८३ ।
तस्य रुद्र८४ स्तमालक्ष्य८५ व्यवसायं सुदुष्करम् ।।५१ ।।
पुत्र पुत्रेति गम्भीरमदृश्य इदमब्रवीत्८६ ।
पुत्रस्ते भविता गच्छ मा चैवं८७ साहसं कृथाः ।।५२।।
काष्ठकूटेति नाम्ना च८८ भविष्यति स ते सुतः ।
अथ हृष्टमना विप्रो गत्वा पत्न्यां८९ महातपाः ।।५३।।
उत्पादयामास सुतं९० काष्ठकूटं महामुनिम् ।
संस्कृतस्य तु कालेन तस्य बुद्धिरभूत् ततः९१ ।।५४।।
६९... श्च - ख. । ७० क्रि (श्रिया)? - ख. । ७१ तथैव - क. ख. । ७२.. मेयिवान् - क. ख । ७३ तु - ख. । ७४ समागत्य - ख. । ७५ तस्यास्तटे - ख. । ७६ समुद्दिश्य - क. ख. । ७७ वाय्या- शनः - क. । ७८ ततस्सुदुःखितो? । ७९... विप्रर्षि - ख । ८० पुत्रमात्नः - ख. । ८१ स्वगृहं - घ.. स्वां (न् गृहान्?) - क. ख. । ८२... ञ्व दुःखितः - क ख घ. । ८३... मिच्छति - ध. । ८४ वज्रः - घ. । ८५... स्समालक्ष्य - ख. । ८६ चाभाष्यवचनं चेदमब्रवीत, - घ. । ८७ मा च त्वं - क घ., मैवं त्वं- ख. । ८८ वै - घ. । ८९ पत्नीं - घ. । ९० पुत्रं - घ. । ९१ परा - घ. ।
289
अशक्तोयं वृद्धभावान्मामध्यापयितुं९२ पिता ।
तस्माद् यास्यामि चामत्र्य९३ पितरं वेदकारणात् ।।५५।।
स गत्वा मातरं विप्रः पितरञ्च महायशाः ।
प्रणम्य शिरसा सम्यगिदं९४ वचनमब्रवीत् । ।५६। ।
सुतो युवाभ्यां जातोहं धर्महेतोर्न कामतः९५ ।
आवां९६ तारयिता चायं९७ तथैव च पितामहान् । ।५७। ।
सन्तततिश्चाप्यविच्छिन्ना भविष्यति न संशयः ।
इष्टाँश्च लोकान् प्राप्स्याव सुपुत्रेणेति९८ सर्वथा ।।५८।।
पितॄणाञ्चानृणो स्याव इत्यभीष्टोस्मि वां सुतः ।
सोहं धर्मेष्वकुशलः९९ श्रुतिस्मृतिबहिष्कृतः । ।५९।।
कर्त्ताज्ञानेन१०० तत्कर्म पितरो येन दुःखिताः ।
भवांश्च निरये मग्न१०१ श्चिरं वत्स्यति१०२ दुष्टवत् ।।8.52.६० । ।
भवान्नाध्यापने१०३ शक्तः स्थविरत्वाद्१०४ दिने दिने ।
पुत्रस्नेहाच्च कार्याच्च१०५ न सम्यग् धारयिष्यासि१०६ ।।६ १ ।।
इयं१०७ च जननी नित्यमेकपुत्रोयमित्युत१०८।
त्वया सम्यक् प्रशास्यन्तं नैव मामनुमंस्यते । ।६२।।
सोहमन्यं तपो नित्यं निरनुक्रोशमेव च ।
आचार्यं मतिसंपन्नं१०९ संश्रयामीति मे मतिः । ।६३ । ।
न चापि तद्११० व्यवस्यामि युवयोर्नास्ति कश्चन ।
कुर्याद्यः पादयोर्नित्यं शुश्रूषामिति चिन्तयन्१११ ।।६४।।
न च नाख्येयमेतद्११२ वां मया चिन्ता कृता११३ शुभम्११४ ।
अशुभं वापि यत्किंचिद्युवां मम गतिः परा । ।६५।।
९२ ममाध्यापयितुं - क. घ. । ९३ यास्येहमामन्त्र्य - घ. । ९४ पादौ इद - ख. । ९५ पा (प्रा) र्थित- श्चैव कामतः - घ. । ९६ युवां - घ. । ९७ चाहं - घ. । ९८ सुपुत्रेणैव - घ । ९९ धर्मेषु कुशलः - घ. १०० कर्तुं जाने न - घ., स ज्ञानैर्विरहितः - ख । १०१ दुखं - ख. । १०२ वत्स्याम - ख. । १. ३ न ध्यापने - घ । १०४ स्थविरश्च - ख । १०५... दहार्यश्च - ख. । १०६ वारयिष्यसि - घ. । १०७ इद - क. ख. । १०८ नित्यं ममैकः पुत्र इत्युत - घ । १०९... र्यमभिसम्पन्नं - घ. । ११० तं - क. ख. । १११ चिन्तया - घ. । ११२ वचनाख्येयमेतद् - घ. । ११३ कथं - ख., कृतं - घ. । ११४ शुभा - क. ।
290
एवमुक्तौ तु पितरौ पुत्रेण सुमहात्मना ।
अश्रुपूर्णेक्षणौ११५ स्थित्वा११६ मुहूर्तमिदमूचतुः ।
आघ्रायालिङ्ग्य११७ संमृज्य११८ स्नेहात् प्रियसुतौ११९ तदा ।। ६६।।
भूमन्युरुवाच
शुश्रूषा द्विविधा पुत्र पितॄणां धर्मसंमिता१२० ।
या कर्तव्या प्रयत्नेन सुतेन सुमहात्मना ।। ६७।।
ऐहिकी चाङ्गशुश्रूषा या परत्र च धर्मदा ।
यया तरन्ति पितरः कामाँश्चाप्नुवतेक्षयान् ।
तत्रैहिकं न नो१२१ हीष्टं१२२ यथा ह्यामुष्मिकं हितम्१२३ ।। ६८। ।
तस्मादामुष्मिकं कर्म यद् भवेत्तत् समाचर१२४ ।
गच्छाधीष्व श्रुतिञ्चैव स्मृतिञ्चैव सुकर्मणाम् ।। ६९। ।
सुयशोवाच१२५
यथा१२६ तेयं पिता पुत्र ब्रवीति विदितात्मवान्१२७ ।
तथा कुरु यथा देवो वरदस्ते१२८ भवेद्१२९ भवः । ।8.52.७० । ।
उदरेण१३० मया दुःखं१३१ धारितस्त्वं महामते१३२ ।
तथा च बहुभिः क्लेशैर्ल्लब्धः सर्वार्थसिद्धये ।।७१ ।।
पित्रा च तपसोग्रेण प्राणाँस्त्यक्त्वातिदुस्त्यजान् ।
महादेवाद् भवाँल्लव्धस्तस्य१३३ युक्तं समाचर । ।७२। ।
यथा तुष्टो त्वया पुत्र जीवौ जीवेन संगतौ१३४ ।
आवामुभावपि स्याव१३५ तथा सम्यक् समाचर१३६ ।।७३ । ।
११५ साश्रुपूर्णेक्षणौ - क ख । ११६ दीनौ - घ. । ११७ आघ्राय्यालिङ्ग्य - क., आध्याय्या. - ख. । ११८ संमार्ज्य - क. ख. । ११९... सुतं - ख । इतः परं - ``तथा कुरु यशो नित्यं येन नौ दुःखमाप्तवान् इति पाठोधिको घ पुस्तके । १२० धर्मसंहिता - क. ख । १२१ न मे - ख. । १२२... भीष्टं (?) । १२३ कृतं - ख- । १२४ समाचरेत - क. । १२५ मातो.. - घ. । १२६ अथ - घ. । १२७ विदितार्थवान् - घ. । १२८ वदते - न. । १२९ भवो - ख, यमुक्तवान् - क., करुणात्मवान् - घ. । १३० सुदारुणं - घ. । १३१ दुःखाद् - घ. । १३२ महामुने - घ. । १३३ तपस्तस्माद् - घ. । १३४ संयुतौ - क. । १३५ आवां नैव मरिष्याव - घ.,... स्यातां - क । १३६ त्वमाचरेः - ख. ।
291
सनत्कुमार उवाच
ततस्ताभ्यामनुज्ञात आघ्रातश्चैव मूर्धनि ।
प्रदक्षिणमुपावृत्य जगाम स कृतात्मवान्१३७ । ।७४।।
स जगाम१३८ तदा ताभ्यां विसृष्टश्च्यवनं१३९ प्रति ।
ऋग्यजुर्भ्यामिवोत्सृष्टा स्वाहुतिर्वरुणं प्रति ।।७५।।
स तमासाद्य तुष्टेन तेनासौ सफलः१४० कृतः ।
भागधेयमिव प्राप्य देवैर्मन्त्रः पुरस्सरः१४१ ।।७६। ।
अथ पुत्रे गते तस्मिन् पिता दिष्टान्त१४२ मीयिवान्१४३ ।
काष्ठकूटस्ततोभ्येत्य कृतविद्यः सुधार्मिकः । ।७७। ।
अपश्यन्मातरं दीनां वितोयामिव१४४ पद्मिनीम्१४५ ।
सोमहीनामिव१४६ निशामाज्ञाहीनामिव श्रियम्१४७ ।
रुदतीमश्रुपूर्णाक्षीं१४८ विलपन्तीं सुदुःखिताम् ।।७८ ।।
काष्ठकूटस्तु तां दृष्टवा दुःखेन समभिप्लुताम्१४९ ।
जयंत१५० इव पौलोमीं शक्रे नष्टेब्रवीदिदम् । ।७९ । ।
काष्ठकूट उवाच
श्रुतं मयेदं प्रागेव कृतं चैवोर्ध्वदेहिकम्१५१ ।
मा शोके मन आधत्स्व एष धर्मः सनातनः । ।8.52.८० ।।
देवानाञ्च ऋषीणां च योगिनाञ्च महात्मनाम् ।
मर्त्यानां किं पुनर्मातर्मा१५२ शुच१५३ स्तं तपोधनम्१५४ । ।८१ । ।
अहं तेनात्मनात्मा वै१५५ सृष्टः१५६ स्वेनैव१५७ तेजसा ।
पश्य मां कृतकृत्यं त्वं गायत्रीवात्मनः सुतम् । ।८२ ।।
१३७ सुकृतात्मवान् - क. ख., स कृतार्थवान् - घ. । १३८ आजगाम - ख. । १३९ विशिष्टश्चार्चनं - घ. । १४० फलदः - ख. । १४१ मन्त्रपुरस्सरः - क. ख. घ. । १४२ कालेन - क. घ. । १४३ मेयिवान् - ख, संयुक्त - क, संमृत - घ. । १४४ निस्तोयामिव - घ., नामतो - ख. । १४५ पक्षिणीम् - घ । १४६ चन्द्रहीनामिव - ख. । १४७ यज्ञहीनमपाश्रमम् - घ, प्रियां - क., प्रिये - ख. । १४८ साश्रु- पूर्णाक्षीं - क. ख. घ. । १४९ प्लुतः - घ. । १५० यजंत - ख. । १५१ कृता चैवोदकक्रिया - क. ख । १५२ किमु तन् मातर्मा - - ख. । १५३ मा रुद - क., मा रोदी - घ. । १५४ तपोधने - क. । १५५ सृष्टः - ख, भावः - च. । १५६ स्वेन - ख. । १५७ तेनैव - ख. ।
292
वेदाः सर्वे मयाधीताः साङ्गोपाङ्गास्सविस्तराः ।
तथोपवेदास्सर्वे च१५८ अध्यात्मञ्चैव कृत्स्नशः ।।८३ ।।
यत्किंचित् पुरुषैर्ज्ञेयं तत्सर्वं ज्ञानमेव च ।
श्रोतव्यं च श्रुतं सर्वमुपास्ताश्चापि१५९ योगिनः ।।८४।।
अनेनापि१६० प्रकर्षेण हृष्यमाणा मुदान्विता ।
मां पालय महासत्वे गायत्रीव सदा क्रतुम् । ।८५। ।
सनत्कुमार उवाच
श्रुत्वा तस्य वच१६१ स्तस्तद्वै१६२ माता१६३ तथ्यं१६४ महात्मनः ।
भूयस्तरेण१६५ दुःखेन१६६ रुदती१६७ तमुवाच ह ।।८६ । ।
सुयशोवाच१६८
पुत्र नैतद्धि दुःखं मे मृतः स इति१६९ संमतः ।
सर्वेषां प्राणिनामेतद्विहितं मर्त्यधर्मिणाम् । ।८७।।
स चापि कृतकृत्यश्च महात्मा तपसान्वितः ।
न तस्य१७० शोच्यमस्माभिरिह किञ्चिद्धि१७१ विद्यते ।।८८। ।
आत्मानं पुत्र शोचामि याहं तेन विना कृता ।
तमेवानु मृता नास्मि तवागमनकांक्षिणी ।।८९।।
नार्था न भोगस्वजना न पुत्रा नैव१७२ बान्धवाः ।
योषितां१७३ तत्र तिष्ठन्ति पतिर्यत्रावतिष्ठते । ।8.52.९ ० । ।
पतिर्यदि१७४ ततः सर्वं१७५ नास्ति किञ्चित् पतिं विना१७६ ।
सर्वं हि दुःखदं तासां१७७ यासां नास्ति पतिः सुत१७८ । ।९१ । ।
१५८ तु - ख । १५९.. .श्चैव - ख. । १६० अनेन हि - क. ख. । १ ६१ तत - घ. । १६२ सर्वं - ख. । १६३ याथातथ्यं - घ. । १६४ तस्य - क. । १६५ स्तारेण - ख. । १६६ दुःखार्ता - ख. । १६७ रुदन्ती - ख. । १६८ यशो - क. ख. । १६९ इत्येव - ख., स श्रुतिसागरः - घ. । १७० तस्या घ । १७१ किञ्चिन्न - घ. । १७२ न ममाद्याखिला भोगाः स्वजनाः पुत्र नाखिलान्भोगान् स्वजनाः.. - घ. । १७३ योजिता - घ. । १७४ पतिर्यत्र - घ. । १७५ न तत् सर्वं - ख, गतिः सर्वा - घ. । १७६ पतिव्रता - घ । १७७... मेतासां - ख. । १७८ सुतः - क. ख. ।
293
इदं च१७९ मे पुनर्दुःखं यत्त्वां तेन१८० सहाद्य वै ।
नाभिनन्दामि संहृष्टा सुतं१८१ श्रीरवि विष्णुना ।।९२।।
बहुशः स हि मामाह१८२ काष्ठकूट इहैष्यति१८३ ।
कृतविद्यस्ततस्तस्य वरयिष्ये स्नुषां शुभाम्१८४ ।।९३ । ।
काश्यपस्योदलस्येयं सुता१८५ गुणवती भृशम्१८६ ।
तामहं वरयिष्यामि काष्ठकूटस्य सुव्रताम् ।। ९४।।
तदा१८७ द्रक्ष्यामि तं पुत्रं सपत्नीकं दृढव्रतम् ।
अग्नीँश्चैवाहरिष्यामि१८८ पत्नीवन्तं१८९ समीक्ष्य वै१९०। ।९५। ।
पत्न्याः१९१ कदाहं पुत्रस्य पाणिग्रहणतोषितः ।
शुभानि मनसा वाचा विधास्यामि बहून्यपि ।।९६।।
एवं मनोरथवतस्तस्य पुत्रवतस्तथा१९२ ।
प्रियपुत्रस्य१९३ नैवाभूदेतद् दहति मां सुत ।।९७। ।
मया त्वमुक्तपूर्वश्च१९४ गच्छन्वै तस्य१९५ सन्निधौ ।
जीवौ१९६ यथा त्वां१९७ पश्यावस्तच्च१९८ नैवाभवत्तथा१९९ । ।९८। ।
वज्रसारमयं मेद्य२०० हृदयं न हि२०१ दीर्यते
या त्वां पश्यामि पुत्रेह विना तेनासती२०२ पुनः ।।९९।।
सनत्कुमार उवाच
ततः सा कुररी यद्वद्विना पत्या महायशा ।
विलप्य बहुदुःखार्त्ता पपात धरणीतले ।। 8.52.१०० ।।
तां काष्ठकूटो दुःखार्तां पतितां गतजीविताम् ।
विसंज्ञामग्निना दग्ध्वा विललाप सुदुःखितः । ।१ ०१ । ।
१७९ ततश्च - क. । १८० त्वयानेन - ख. । १८१ सुखं - क. ख., कामं - घ. । १८२ तामाह - घ. । १८३ इहेष्यति - क. ख. । १८४ सुतां - ख. । १८५ शुभा - ख. । १८६... रिह - ख. । १८७ कदा - ख. । १८८ अग्निं चैवाहरिष्यामि - ख. । १८९ पत्नीरत्नं - क. ख । १९० वे - क., ह - ख. । १९१ पत्न्या - क. ख, । १९२... स्तस्य पुत्र तव पितुः... - घ. । १९३ प्रियश्च तस्य - घ. । १९४... स्सर्वञ्च - क. । १९५ स्वै... - ख.,.. न्नैतस्य - ख. । १९६ शिवौ - घ. । २९७.. .वां - घ. । १९८ स्तत्र - घ. । १९९ त्तदा - घ । २०० पुत्र - घ । २०१ यन्न - क. घ. । २०२ नेनासती - क। तेनासतां - घ. ।
294
हा तात मम दुर्बुद्धेरधर्मज्ञस्य चैव हि २०३ ।
- - - - - - - - - - - - - - - - । । १० २। ।
क्व गतोसि न मेद्य त्वं सभार्यः संप्रभाषसे ।
ननु त्वयाहं निर्दिष्टो२०४ गच्छाधीष्वेति हृष्टवत्२०५ । । १०३ । ।
सोहमद्यागतोधीत्य२०६ कस्मान्मां नाभिभाषसे ।
ननु२०७ ते तपसा लब्धः परेण च२०८ समाधिना । ।१ ०४। ।
पुत्रोहं देवदेवाद्वै रुद्रात् किं नाभिभाषसे ।
किं मयापकृतं२०९ तात सहभार्यस्य तेनघ२१० ।। १०५ । ।
यन्मां सहाम्बयागत्य२११ दृढं नैवाभिनन्दसि२१२ ।
हा हतोसि मयैकेन दुष्पुत्रेण दुरात्मना । १० ६। ।
अराजकमिदं मन्ये पितृघ्नं मां न हन्ति यत् ।
एवं स विलपन् व्यास ऋषिभिर्बहुभिस्तथा । । १ ०७।।
संस्थापितः समाश्वस्ते नाकरोदुदकक्रियाम् ।
इमां प्रतिज्ञां चक्रे च२१३ ऋषिमध्ये महातपाः । । १ ०८। ।
दुष्करां२१४ सर्वभूतानामुपस्पृश्य कृताञ्जलिः२१५ ।
अद्यप्रभृति नोच्छ्वासं करिष्यामि कथञ्चन । । १० ९। ।
वायवो मे शरीरस्था न चरिष्यन्ति२१६ कर्हिचित् ।
निमेषोन्मेषरहित एकपादोर्ध्वबाहुमान्२१७ । ।
काष्ठलोष्ठोपलीभूतो भविष्यामि न संशयः ।। 8.52.११० । ।
रुद्रं द्रक्ष्यामि२१८ यावच्च यावच्च पितरं तथा ।
सभार्यं सं२१९ प्रपश्यामि तावद् व्रतमिदं मम । । १११ ।।
२०३ ह - क. टि. । २०४ त्वयाहमुद्दिष्टो - क,... हमादिष्टो (?) । २०५.. वान् - क- । २०६... धीत्वा - क, ख. । २०७ अम्ब - घ. । २०८ परेणैव - घ. । २०९ न कृतं - घ. । २१० सभार्यस्य स (तो?) नघ - ख.,... तेन वै - घ. । २११... गक्वा - क. ख. । २१२... नन्दसे - ख. । २१३ स - ख. । २१४ पुष्करात् - ख. । २१५ कृतांजलिम् - क. । २१६ करिष्यन्ति - ख. । २१७... बाहुना - ख. । २१८ वक्ष्यामि - क. । २१९ च - क. ।
295
सनत्कुमार उवाच
ततः स ऋषिभिस्तैस्तु२२० दृश्यमानो महातपाः ।
महेश्वरं सदा ध्यायन् तत्रैव समतिष्ठत२२१ ।। ११ २। ।
तस्य देवः२२२ स्थितस्यैवं पितृभक्त्या२२३ तथापि च ।
तुष्टो दिनेष्टमे व्यास स्वयमेवाह शङ्करः । । ११३ । ।
देवदेव उवाच
काष्ठकूट प्रयच्छामि दिव्यं चक्षुस्तवानघ ।
पश्य मां त्वं सुविश्रब्धमदृश्यं योगिनामपि ।। १ १४। ।
ब्रूहि पुत्र वरं चापि यस्ते हृदि समाहितः ।
प्रदास्यामि न सन्देहः सुनिश्चित्याभिधत्स्व२२४ माम्२२५ ।।१ १ ५।।
सनत्कुमार उवाच
ततः स दृष्टवा देवेशमुद्यन्तमिव भास्करम् ।
पपात पादयोर्हृष्ट इदञ्चोवाच सुस्वरम्२२६ ।। ११ ६। ।
काष्ठकूट उवाच
भगवन् मृत्युना माता पिता च मम योजितौ ।
जीवेतां तावुभौ देव एतदिच्छाम्यहं वरम्२२७ ।। १ १७।।
देवदेव उवाच
तावुभौ२२८ नरकं घोरं प्रपन्नौ२२९ मृत्युनार्दितौ ।
न तौ शक्यौ पुनर्जीवौ२३० कर्तुमन्यद्वृणीष्व मे२३१ । ।१ १८ ।।
काष्ठकूट उवाच
नाहमन्यं वरं देव कथञ्चिदपि कामये ।
पित्रर्थोयं समारम्भस्तद्विधत्स्व नमस्तव । । ११९ । ।
२२० त (तो) महर्षिभिस्तैस्तु - ख. । २२१... तिष्ठति - ख । २२२ देवे - क, ह्यव - ख । २२३ पितृभक्त - ख. । २२४ सन्देहं - -क ऽ अचिरेणाभिधत्स्व तत् - घ., इतः पूर्वं एतस्मिन्तिरे तत्र देवो रुद्रः समभ्यगात इति पद्यार्धं दृश्यते घ. पुस्तके । २२५ तम् - क । २२६ सत्वरम् - घ. । २२७ एतदिच्छामि वेदितुं - घ. । २२८ तौ मृतौ - क. घ. । । २२९ प्रयातौ - ख. । २३० प्रणेतारौ -घ. । २३१ मया दुष्कृतकर्मणा - घ. ।
296
देवदेव उवाच
शरीरं चेन्मृतस्यास्ति तच्छक्यं२३२ जीवितेन हि ।
सयोजयितुमद्यैव२३३ दग्धस्यैतन्न विद्यते । । 8.52.१२० । ।
तयोर्नचास्ति वै देहो२३४ न चान्यत् करणं२३५ तथा ।
यादृक् च स पिता तुभ्यं भवाँस्तादृक् छरीरतः२३६ ।
शरीरमेतत्त्वं यच्छ ततो जीवौ२३७ भविष्यतः२३८ । । १२१ ।।
काष्ठकूट उवाच
ताभ्यां२३९ वै नास्त्यकर्तव्यं२४० कर्तव्यं चेन्मतं भवेत् (?) ।
शरीरं च विना दृष्टमुत्थानं वै ध्रुवस्य २४१ तु (?) ।। १ २२। ।
न चापि मे शरीरेण विना ताभ्यां२४२ रतिः प्रभो ।
तस्माद् गृहाण देवश शरीरं यदि मन्यसे ।।१ २३ ।।
तस्यैवेदं तहादेव अङ्गादङ्गः समुत्थितम् ।
तस्माद्यच्छस्व देवेश न मे कार्यमनेन हि ।। १ २४।।
सनत्कुमार उवाच
ततः स भगवान्देवः प्रहस्य२४३ ऋषिसत्तम२४४ ।
प्रीतात्मा प्रत्युवाचेदं युयुक्षुस्तं२४५ शुभेन हि ।।१ २५।।
देवदेव उवाच
परीक्षेयं कृता पुत्र तव धर्मवृतां वर२४६ ।
पितृभक्त्यानया सम्यक् तुष्टोस्मि शृणु मे वचः ।।१ २६।।
अक्षयश्चाव्ययश्चापि जरामृत्युविवर्जितः२४७ ।
ऐश्वर्येण च संयुक्तः प्रियो मे गणपो भवान्२४८ ।। १ २७। ।
काष्ठकूट इति ख्यातः सर्वयोगबलान्वितः ।
कामगेन विमानेन मत्कृतेन चरिष्यसि ।। १ २८। ।
२३२ न शक्यं ः घ.। २३३ मन्येन ख घ. । २३४ देहो वै घ.। २३५ कारणं क. ख.घ. । २३६ समीरितः - घ । २३ '७ जीवो - घ. । २३८ भविष्यति - घ । २३९ तुभ्यं - घ., नान्यं - क. । २४. नास्ति कर्तव्यं - घ । २४१ चाध्रुवस्य - घ. । २४२ विज्ञानाभ्यां - घ. । २४३ प्रहृष्ट - घ. । २४४ सत्तमे - घ. । २४५ मुमुक्षुस्तं - घ. । २४६ पुत्रवतां - घ. । २४७ अजरो मृत्युवर्जितः - क. । २४८ भव - घ. ।
297
इमे च ऋषयः सर्व आश्रमेस्मिन् तपस्विनः ।
तवैवानुचरा भूत्वा भविष्यन्ति गणेश्वराः । । १ २९। ।
अक्षयाश्चाव्ययाश्चैव२४९ महायोगबलान्विताः२५० ।
ऐश्वर्येण च तुल्यास्ते भविष्यन्ति न संशयः । । 8.52.१३० । ।
अयञ्च ते पिता पुत्र भूमन्युः सह भार्यया ।
तवैवानुचरो२५१ भूत्वा त्वत्समः समुपस्थितः । ।१ ३१ । ।
श्वेतञ्च पर्वतं दिव्यं विमानैरुपशोभितम् ।
कामगं सं२५२ प्रयच्छामि निवासं स्वर्गसन्निभम् । । १३ २।।
सनत्कुमार उवाच
ततः स भगवान्देव अनुगृह्य तमूर्ज्जितम् ।
जगाम मन्दरं भूयः सोपीष्टं देशमाव्रजत् । । १३३ । ।
यावद् देवी तपोयुक्ता पितुः२५३ शिखरमास्थिता २५४ ।
तावद् देव२५५ इदं सर्वं चकार कथितं हि यत्२५६ ।।१ ३ ४।।
य इदं२५७ देवदेवस्य चेष्टितं शृणुयान्नरः ।
श्रावयीत द्विजान् वापि२५८ न स दुर्गतिमाप्नुयात्२५९ ।।१ ३५।।
नित्यमेतदधीयानः२६० शुचिः प्रयतमानसः ।
देहभेदं समासाद्य रुद्रलोकं स गच्छति ।। १३ ६। ।
थ इमं बहुपापनाशनं परमं रुद्रसमीपयोजनम् ।
पठते च गुणप्रसाधनं स मृतो याति न दीनसंभवम् । । १ ३७।।
इति स्कन्दपुराणे काष्ठकूटमहाभाग्यं नाम द्विपञ्चाशोध्यायः
व्यास उवाच
देवी भगवती सा हि हिमवत्तनयाव्यया ।
कियन्तं कालमचरत्तपः परमदुश्चरम् । ।१ । ।
२४९ अक्षयश्चाव्ययश्चैव - क. ख. । २५०.. न्वितः - क । २५१ तथैवानुचरो - घ. । २५२ तं - क. । २५३ गिरे. - घ. । २५४... माश्रिता - क. । २५५ तावदेव - क. ख. घ. । २५६ च - घ. । २५७ इमं - क. ख. घ. । २५८ पापा - घ. । २५९ न दुर्गतिमवाप्नुयात् - ख., म सद्गतिमवाप्नुयात् - घ. । २६० मेतदधीयँश्च - क. ।
298
कथं लब्धवती चापि वरं वरशतारणिः १ ।
एतदिच्छामि कथितं सर्व वै द्विजसत्तम२ । ।२। ।
सनत्कुमार उवाच
शृणु काले व्यतीते हि तपो देव्याः सुदुश्चरम् ।
प्रयता३ प्राञ्जलिर्भूत्वा समाधाय मनस्तथा ।।३ ।।
दिवाकरेभिसन्धाय४ चक्षुषी५ मन एव च ।
तस्थौ वृक्षावबद्धेव दार्वर्च्चानिमिषेक्षणा६ ।।४।।
सुवर्चलेन७ सादित्यमीक्षती पर्यवर्तत८ ।
एकपादोर्ध्वबाहुश्च निरुच्छ्वासा बभूव ह९ । ।५। ।
दिव्यं वर्षसहस्रं सा निश्चलोपलवत् स्थिता ।
व्याघ्रद्वितीया रुद्राणी तपोयुक्ता१० शुभव्रता । । ६।।
न चास्या ग्लानिरभवन्न बलक्षय एव वा ।
पूर्ववच्च हि११ सा देवी तपसो वावतिष्ठत१२ । ।७।।
तस्यास्तपःप्रभावेण सर्वं सस्थाणुजंगमम्१३ ।
अभावोपहतं१४ यद्वज्जगदार्त्तमतिष्ठत१५ । ।८।।
नातिदीप्तोभवत् सूर्यश्चन्द्रमा न प्रकाशते१६ ।
ज्योतींषि तिमिराण्यासन् व्योम्नि सिद्धा न यान्ति च ।।९।।
मम्लुश्च देवमाल्यानि विमानानि च पेतिरे१७ ।
स्वर्गेपि न सुखं तेषामौत्सुक्यं चापि जायते१८ ।।8.53.१ ० ।।
धूमायन्ति दिशः सर्वास्त्रैलोक्यञ्चैव कृत्स्नशः ।
विद्याधृतां गतिर्भग्ना प्रज्वलन्त्यायुधानि च१९ । ।१ १ ।।
मृगा व्याघ्राश्च सिंहाश्च विडालोलूकमूषिकाः२० ।
पन्नगा२१ नकुलाश्चैव एकस्थाः सञ्चरन्त्युत । ।१ २ ।।
१ त्वन्यदुरासदं - घ.,.. रणी - ख । २ च विप्रसत्तम - घ । ३ प्रयतः - क. ख. । ४.. .तिसन्धाय - घ. । ५ चक्षुश्च - क. ख. । ६ सा तदानिमिषेक्षणा - घ । ७ शनैः शनैः - घ. । ८ पर्यवर्तते - क. । ९ च - क. । १० तेन युक्ता - ख । ११... च्चापि - घ. । १२ तपसैवावतिष्ठत - क, तपसे चावतिष्ठत - घ. । १३ स्थावरगंगमम् - घ. । १४ अभवोपहतं - ख । १५ त्तं व्यतिष्ठत - ख. घ. । १६ कान्तिहीन- श्च चन्द्रमाः - ख. । १७ निपेतिरे - ख, निपेदिरे - क. । १८ चोपजायते - ख. । १९ न ज्वलन्त्यायुधानि च - घ. । २०... पक्षिणः - ख. । २१ पक्षिणंः - क. घ. ।
299
ततो देवाः समागत्य ऊचुः सर्वे परस्परम् ।
विपर्ययोयं नाकस्मात्२२ त्रैलोक्यस्यास्य दृश्यते२३ ।।१ ३ ।।
कारणं महदत्रास्ति नेदं निष्कारणं भवेत् ।
तस्माद्वयमजानन्त एतं२४ सर्व२५ विपर्ययम्२६ ।।१४।।
किन्तिष्ठामः समुद्विग्ना गच्छाम२७ ब्रह्मणोन्तिकम् ।
इत्युक्त्वा ते सुराः सर्वे बृहस्पतिपुरोगमाः ।।१५।।
वैराजभवनं गत्वा ब्रह्माणं२८ संप्रणेमिरे२९ ।
पूजिता ब्रह्मणा सम्यगुपविष्टा यथार्हतः ।।१६।।
पृष्टास्तेनागमे हेतुमूचु३० र्हृच्छोकपीडिताः ।
भगवन् लोकतत्त्वं च३१ सर्वं प्रत्यक्षवद्३२ विभोः३३ ।।१७।।
लोकोयं विपरीतोद्य किमर्थं शंस नः प्रभो३४ ।
तेषां तद्वचनं श्रुत्वा भीतानां सर्वयोगवित् ।।१८।।
उवाच मधुरं श्लक्ष्णमिदं गम्भीरवद्वचः ।
एषा हैमवती देवी रुद्राणी लोकधारणी३५ ।
तपश्चरति युक्तात्मा योगमास्थाय निश्चलम् ।।१९।।
अद्य वर्षसहस्रं हि दिव्यं तस्याः समाधिना ।
वर्षाणां द्वे शते चैव तथान्यच्छरदां शतम् ।।8.53.२०।।
तपश्चरन्त्या३६ योगेन तस्यैषा३७ तपसः सुराः ।
प्रभावो येन लोकानां विपरीतत्वमागतम् ।।२१। ।
देवा ऊचुः
यदि तस्याः प्रभावेण महोत्पातभयं त्विदम् ।
अतो भूयो दहेल्लोकाँस्तस्मात्तां सन्निवारय ।।२२।।
२२ त्रैलोक्ये - ख., चास्य - घ । २३ अकस्मात्संप्रदृश्यते - ख. । २४ एतान, - ख., एतत् - घ. । २५ सर्वं - घ,, सर्वे - ख. । २६ विपर्ययान् - ख । २७ गच्छामो - क. ख. । २८ वैराजं - घ. । २९ संप्रपेदिरे - घ., च.. - ख. । ३० हेतुं तमूचुः - घ. । ३१ लोकतत्वज्ञ - घ. । ३२ सर्व दृगक्षवद् - ख. । ३३ विभो - क. ख. । ३४ किंच तत्कारणं ब्रूहि येन सर्वे विमोहिताः - घ. । ३५ लोकधारिणी - घ. । ३६ तपश्चरत्या - क. ख. । ३७ तस्यैव - ख. ।
300
सा हि देवी तपोयुक्ता अतो भूयो विभावरी ।
लोकानिमान् सहास्माभिर्दहेदपि न संशयः । ।२३ ।।
तस्माललोकहितार्थाय अस्माकं वचनादपि ।
तथा कुरु यथा साध्वी३८ विनिवर्त्तेत३९ शोभना । ।२४।।
पितामह उवाच४०
एवं भवतु गच्छध्वं निर्वृता४१ भवता४२ नघाः ।
वरप्रदानेनेष्टेन४३ रुद्राणीं४४ स्थापयाम्यहम् ।।२५। ।
गतेष्वथ तु४५ देवेषु ब्रह्मा लोकपितामहः ।
विमानं काञ्चनं शुभ्रं४६ वेदिकाशतसंकुलम् ।।२६। ।
किङ्किणीजालसन्नद्धं मुक्तादामावभासितम् ।
इन्द्रनीलमयैः स्तम्भै४७ र्जालैर्जाम्बूनदैस्तथा४८ ।।२७।।
घंटाभिर्विश्वरूपाभिः४९ समन्तात् परिवारितम्५० ।
वज्रेन्द्रनील५१ वैदूर्यमहानीलादिभासितम् । । २८।।
स्तूपिकाभिश्च योग्याभिः स्फाटिकाङ्काभिरावृतम्५२।
सर्वलोहमयं५३ तद् वै स्वयं देवेन निर्मितम् ।।२९ । ।
पञ्च भूतमयं५४ तद्धि प्रकृतिस्थमथापि च ।
शब्दाभिजालसम्बद्धं घण्टेन्द्रियसुशब्दवत् । ।8.53.३ ० । ।
मुक्तादामाष्टकैर्युक्तं किङ्किणीषोडशावृतम् ।
विंशति५५ र्वेदिकाश्चात्र विमानं५६ तन्महाप्रभम् । । ३१ । ।
शतार्द्धलक्षणै५७ र्दिव्यैर्मणिमूभि५८ स्तथाचितम् ।
आसनैर्बहुभिर्युक्तं लोकस्थानैः५९ समन्ततः६० । । ३२ । ।
३८ हि - घ. । ३९ विनिवर्त्तंति - क. ख घ. । ४० ब्रह्मा उ - ख । ४१ निवृत्ता - क ख, निर्वृत्ता - क । ४२... था - क । ३ वरदानेन हस्तेन - घ. । ४८ रुद्राणां - घ. । ५८५ गतेषु तेषु - घ । ४६ शुभं - घ । ४७र्जालैः - ख. । ४८ जम्बुनदमयैस्तथा - ख. । ४९ वेश्मरूपाभिः - घ., र्दिव्य... - घ. । ५. परिनादितम् - ख । ५१ वज्रनीलेन्द्र - क. ख घ । ५२ स्फटिकाङ्काभिरावृतम् - ख. । ५३ सर्वलोकमयं - ख. घ. । ५४ पञ्चचूडमयं - घ. । ५५ विशन्ति - ख. । ५६ किंमानं - क., विहायं - ख. । ५७ शातकुम्भमयै - घ । ५८ भूतै क., ख । ५९ स्थाने क । ६० सुसंमितम् - ख, ।
301
आरुरोह विमानं तद् ब्रह्मा स्वमुनिभि६१ स्सह ।
वेदैः६२ सह६३ तथा मन्त्रैः शास्त्रैः६४ सर्वै६५ स्तथैव च । ।३ ३ ।।
मध्ये तस्यासनं दिव्यं६६ स्वर्णपद्मोपगं६७ दृढम्६८ ।
सुखोपविष्टस्तत्रासौ६९ ब्रह्मा लोकपितामहः । । ३४। ।
तस्य पार्श्वे तु सावित्री गायत्री चैव सुप्रभा ।
ऋग्वेदो दक्षिणेनास्य यजुर्वेदश्च७० पश्चिमे ।।३ ५। ।
उत्तरे सामवेदस्तु अग्रतोथर्वणस्तथा ।
प्रायश्चित्तानि धर्माश्च नियमाश्च तपांसि च७१ । ।३ ६। ।
दानानि च विचित्राणि क्रतवः सेष्टयस्तथा७२ ।
सप्तव्याहृतयः७३ पुण्यास्तथा लोकाश्च सर्वशः । । ३७। ।
पर्वताश्चैव नद्यश्च तथा लोकस्य मातरः ।
लोकपालाः प्रजाध्यक्षा दक्षो धर्मस्तथैव च ।।३८ । ।
भृगुरत्रिर्वसिष्ठश्च७४ पुलस्त्यः पुलहः क्रतुः ।
मरीचिरङ्गिराश्चैव रुचिश्चैव महायशाः ।।३ ९।।
ऋभुः सनातनश्चैव विराजश्च महातपाः ।
पितरश्चैव देवाश्च ब्रह्मणो याः७५ प्रसूतयः । ।8.53.४० ।।
पृथिवी वायुराकाशमापो ज्योतिस्तथैव च७६ ।
एते चैव यथोद्दिष्टाः सागरा दिश एव च ।।४१ । ।
विद्याश्च धर्मकाराश्च अग्रतस्तेवतस्थिरे ।
ब्रह्मदण्डश्च दण्डश्च कलशः काञ्चनस्तथा । ।४२ ।।
कमण्डलुश्च तस्यासीत् पार्श्वयोरुभयोरपि ।
यज्ञोपवीतं श्रीमच्च ओङ्कारश्च तथाग्रतः । ।४३ ।।
६१ स मुनिभिः - क. ख. घ. । ६२ देवैः - ख. । ६३... रिह- घ, महाभागैः र - ख. । ६४ चापि - क. । ६५ सर्वैः शास्त्रै - घ. । ६६ हैम - ख. । ६७ पमं - घ. रि - ख. । ६८ प्रभुः - ख. । ६९उपोपविष्टस्तत्रासौ - क. ख. । ७०... दोस्य (दस्य) । - ख । ७१ तपांसि विविधानि च - क. घ. । ७२ सह इष्टिभिः - ख., तपस - घ., । ७३ सर्वव्याहृतयः - घ, तथा व्याहृतयः - क. ख. । ७४ भृगुर्वसिष्ठ अत्रिश्च क. । ७५ ये - क., ब्रह्मणोपि - घ., ये च सृष्टयः - ख. । ७६.. श्च पञ्चमः - ख. ।
302
अक्षसूत्रं७७ च योगश्च७८ जप्यं७९ चैवाग्रतः स्थिताः८० ।
स्वाहा स्वधा वषट् वौष८१ डग्निश्चैतानि पार्श्वतः८२ ।।४४। ।
यमाश्च नियमाश्चैव साधनानि८३ बहूनि च ।
धर्मस्यैतानि८४ सर्वाणि८५ पार्श्वस्थान्यभवँस्ततः८६ । ।४५। ।
दया कृपाथ८७ दानञ्च श्रद्धा चैव ह्रिया८८ सह ।
ऋषीणां पार्श्वगाः सर्वा दक्षिणा यज्ञपार्श्वगा८९ । ।४६। ।
ततो देवाश्च ये केचिद् ब्रह्मलोकनिवासिनः ।
सर्वे समधिरुह्याशु समन्तादवतस्थिरे । ।४७ ।।
एवं तेषु विमानं तत्९० समारूढेषु सर्वशः ।
सुखासीनेषु सर्वेषु ब्रह्मा समनुचोदयत् । ।४८। ।
तच्चोदितं योगविदग्रगामिना९१ महाविमानोत्तमसर्वगामिना९२ ।
ययौ प्रभावेण मनोनुगामिना यथा मनः सर्वसृजेव९३ हेतुना ।।४९। ।
इति स्कन्दपुराणे देवीवरप्रदाने ब्रह्मणः प्रयाणं नाम त्रिपञ्चाशत्तमोध्यायः.
सनत्कुमार उवाच
ततस्तेन विमानेन सर्वसृक् चतुराननः१ ।
जगाम मन्दरं२ धीमान् विचित्रोपलकन्दरम्३ ।। १ ।।
स तमासाद्य विस्तीर्णमनौपम्यमतिप्रभम् ।
दूराद् दृष्टिसुखं४ दृष्टवा सभास्था५निदमब्रवीत् । ।२।।
इदं रुद्रगृहं शुभ्र६मदृश्यं७ सुकृतामपि८ ।
देवानामपि पश्यध्वं भास्कराकारवर्चसम् । ।३ ।।
७७ ब्रह्मसूत्रं - घ. । ७८ योगञ्च - क. ख. । ७९ जाप्यं - ख. । ८० स्थितं - घ । ८१ वषट् चैव - ख., कारः - घ. । ८२ श्चैकपार्श्वतः - ख. । ८३ सध (व) नानि - ख. । ८४ धर्माण्येतानि - क. । ८५ मार्गाणि - घ. । ८६... नि समंततः - घ,... नाभवँस्ततः - क ख., तथा - ख. । ८७ क्षमा दीक्षा थ - घ. । ८८ क्रिया - ख. । ८९ पार्श्वं त. - घ । ९० तं - क ख. घ । ९१ योगविदा समाधिना - क । ९२ महाविमानं वृषसर्वगामिना - घ. । ९३ सर्वसृजेन - ख. घ. ।
१.. .सूक्ष्मचतुर्मुखः - घ. । २... मक्षरं - घ. । ३ शोभितोत्पलकन्दरम् - घ. । ४ मुख - घ. । ५ सद्यस्ता - घ. । ६ शुभ - घ. । ७ सदृष्यं - घ. । ८ न कृतात्मभिः - ख. ।
303
इदं प्रविश्य देवानां९ यज्ञश्री१० 'र्नापसर्पति ।
जयश्च नित्यं युद्धेषु धर्मश्च सुमहानपि । ।४। ।
एतत् सृष्टं स्वयं तेन११ मनसानुपमद्युति ।
न ह्यस्य सदृशं किञ्चिदण्डेस्मिन् विद्यते गृहम् । ।५।।
इदं प्रविश्य धर्मात्मा भूयो१२ दुःखं१३ न विन्दति१४ ।
न चापि जन्म प्राप्नोति१५ नित्यमैश्वर्यगो हि सः । ।६। ।
अनिर्देश्यमिदं योगाद् योगिनामपि नित्यशः ।
अन्यस्तु कुत एवेदं वर्णयीत महानपि ।।७। ।
एतदस्मद्विमानस्य वायुनाभ्याहतं रुषा ।
वर्धते गिरिणा सार्धं विन्ध्यस्य शिखरं यथा । ।८।।
एतदस्मद्विमानस्य मार्गमावृत्यधिष्ठितम् ।
ऊर्ध्वं तिर्यगधस्ताच्च देवदेवस्य तेजसा ।। ९।।
एतदन्धं१६ तमः कृत्वा मेधोसौ जीवनः स्वयम् (?) ।
वज्रोद्यतकरः स्रग्वी प्रत्युद्यात्यभिनादयन् । । 8.54.१० । ।
सनत्कुमार उवाच
ततः स भगवान्देवो ब्रह्मा लोकपितामहः ।
विष्टभ्य तत्१७ विमानाग्य्रमवतस्थे कृताञ्जलिः । । ११ ।।
तुष्टाव च१८ तदा देवं शर्वमुग्रं कपर्दिनम् ।
ते चैव ऋषयः सर्वे विमानस्था सुसंयताः । ।१ २ । ।
प्रकाशं चक्रिरे सर्वं जगत् स्थावरजंगमम् ।
ततस्स मेघः स्वं स्थानमगमद् वृष्टिसर्जनः । ।१ ३ ।।
दिशश्च विमलाः सर्वाः प्रकाशश्चाभवद् भृशम् ।
तं जपन्तं विदित्वा च भगवान् गोवृषध्वजः१९ ।। १४। ।
९ प्रविश्य तां देव - घ., देवाश्च - क. । १० यद्भीतो - घ,... -र्नो - ख. । ११ दुरारोहं - घ. । १२ दुःखं - ख. । १३ भूयो - ख., विन्देन्न - क । १४ न विद्या - ख., दुःभाक् - क. । १५ जायते भूयो - ख. । १६ एतदन्तं - ख. । १७ तं - क. ख. । १८ स - घ., तदेवं हि - ख. । १९ स वृषध्वजः - क. ।
304
नन्दिनं द्वारदेशस्थमिदमाह सुरेश्वरः२० ।
एष ब्रह्मा विमानेन मामिह द्रष्टुमागतः । । १ ५। ।
ब्रूहि येनागतोसीह कार्येण विदितोसि मे ।
कुरु तद् गच्छ शीघ्रं तु२१ कालस्तस्यायमागतः । । १ ६। ।
सनत्कुमार उवाच
स एवमुक्तो रुद्रेण नन्दी प्रमथनायकः२२ ।
द्वाःस्थ२३ एव२४ विमानस्थं ब्रह्माणमिदमब्रवीत्२५ ।।१७। ।
नन्द्युवाच
यूयं ज्ञाता भगवता येन कार्येण चागताः ।
कुरुध्वं किल२६ तच्छीघ्रं कालोयं२७ तस्य वर्तते । ।१८। ।
सनत्कुमार उवाच
ततः स कृत्वा मनसा नमस्कारं हि शम्भवे ।
प्रदक्षिणमुपावृत्य२८ मन्दरं प्रजगाम ह । ।१ ९। ।
स मन्दरगिरिं सर्वं परिहृत्य महामनाः ।
शाकद्वीपस्य मध्येन जम्बूद्वीपमुपागमत्२९ ।।8.54.२ ० । ।
स दृश्यमानो देवैश्च३० मुनिभिश्च यतव्रतैः ।
हिमवन्तं गिरिश्रेष्ठमुपागम्येदमब्रवीत्३१ । । ३१ ।।
एतद्धिमवतः शृङ्गमुच्छ्रितं कान्तिमत् स्थितम् ।
युगान्तादित्यसंकाशं दूरात् समभिलक्ष्यते ।।२२ । ।
अत्र३२ सा जगतो३३ धात्री धात्री३४ पुत्रमिवौरसम् ।
पालयन्ती जगत् सर्वं तपस्तप्यति३५ शैलजा । ।२३ । ।
अहो नु३६ शिखरं पुण्यं भाग्यवच्चापि सर्वथा ।
यदेनं३७ गिरिपुत्र्यर्थे३८ वरैर्योक्ष्यति कामहा । ।२४।।
२० महेश्वरः - ख. । २१ त्वं - ख. । २२ प्रथमनायकः - क. । २३ स्वयं - घ. । २४... मेव - क. ख. घ. । २५... स्थमिदं ब्रह्माणमब्रवीत् - क. घ. । २६ किं न - घ. । २७ किल तच्छीघ्रकालोयं तपसः - ख. । २८ मुपासृत्य - ख. । १९ मयागमत् - क । ३० देवेण - ख. । ३१ मुपगम्येदमब्रवीत् - ख । ३२ यत्र - घ. । ३३ जगतां - घ. । ३४ कालं - घ. । ३५ स्तप्स्यति - क. । ३६ महांतं - घ. । ३७ यदेतद् (?) । ३८ गिरिपुत्र्यर्थं - ख. ।
305
पश्यध्वं तपसो वीर्यं देव्याः सुचरितस्य वै ।
यदेतच्छिखरं दृष्टवा न पश्याम३९ पुनर्भवम्४० । ।२५।।
स एवं कथयन्नेव विमानेन४१ चतुर्मुखः ।
ऋषिभिः सहितः सर्वैः शिखरद्वारमागतः । । २६ । ।
तत्रैनं४२ रुद्रसचिवा उद्यतायुधपाणयः४३ ।
भर्त्सयन्तोभ्यवर्तन्त तिष्ठतिष्ठेतिवादिनः । । २७। ।
तान् ब्रह्मा श्लक्ष्णाया वाचा सान्त्वपूर्वमुवाच ह ।
प्रशंसमानस्तान्सर्वान्४४ प्राञ्जलिर्मुक्तमानसः ।।२८। ।
ब्रह्मोवाच
यूयं सर्वे महात्मनान ऐश्वर्येण समन्विताः ।
अक्षया४५ ह्यमराश्चैव तथाप्रतिहताश्च ह । । २ ९। ।
महायोगबलोपेता अजय्या युधि केनचित्। ।
को युष्मानतिवर्तेत४६ शक्रोपि४७ प्रवरेश्वराः४८ ।। 8.54.३० ।।
देवदेवाज्ञया योहमागतो४९ मन्दरादिह ।
देव्या वरप्रदानार्थमनुज्ञा क्रियतां मम५० । । ३१ । ।
गणेश्वरा ऊचुः५१
देव्या दाता स्वयं देवो वरानिष्टान् महामनाः ।
वरं हि५२ देवी त्वन्यस्मान्५३ मनसापि५४ न चिन्तयेत् ।।३ २।।
शक्तो देवोनुग्रहीतुं जगत्सर्वं महेश्वरः५५ ।
त्वामप्येषोनुगृहणाति किमु देवीं५६ जगत्पतिः५७ ।। ३३ । ।
पितामह५८ उवाच
अशक्तो न महादेवो वरं दातुं महामनाः ।
य एवं चिन्तयेद् देवं न भवेत् स कथञ्चन ।।३४।।
३९ पश्यामः - घ. । ४० पार्वती पुनः - घ.,... र्भयं - क.,.. र्वयं - ख. । ४१ विमानेव (वै) - क. । ४२ तत्र ते - घ. । ४३ आयुधोद्यतपाणयः - क ख. घ., उक्षतायुध... (?) । ४४ प्रवेपमानस्तान् सर्वान् - क. । ४५ अक्षरा - ख । ४६. .नभिवर्तेत - ख । ४७ शक्तोपि - (?) । ४८. श्वरः - क. । ४९ सोहमायातो - ख- । ५० तामिति - ख । ५१ गणेश उवाच - क., गणेश्वर उवाच - ख. । ५२ न चैव - क. घ । ५३ युष्मत्तो - ख, त्वद्विधान् - घ. । ५८ तु - क, हि - घ. । ५५ सर्वमशेषतः - ख. । ५६ किमुतांवै - ख., किन्न - घ. । ५३ जगस्थितिम् - क । ५८ ब्रह्मो - ख ।
306
न देवी भगवत्पार्श्वादिच्छते किल पार्वती५९ ।
वरानिष्टाँस्ततो देवो मामिह प्रैषयच्छिवः६० । ।३ ५ ।।
सनत्कुमार उवाच
अथ ते६१ युक्तमनसो६२ युक्तं प्रत्यक्षमीश्वराः ।
महेश्वरमपश्यन्त कृतानुज्ञं च६४ लोकपम्६५ ।।३ ६। ।
नियुक्ताश्च६६ पुनः६७ सर्वे ब्रह्माणं लोककारणम् ।
ऊचुर्गणेश्वराँस्तत्र६८ विदितार्था६९ महामुने७० । ।३७। ।
प्रेषितो देवदेवेन ज्ञातोस्माभिः पितामह ।
त्वं विशस्वाधुना देव पार्वत्या वरदित्सया७१ ।।३८। ।
अवतीर्य विमानात्तु ततः शीघ्रं पितामहः ।
निलिल्ये७२ शिखरे तस्मिन्नानाधातुविचित्रिते । ।३ ९। ।
अथ सोपलधातुनिर्झरो७३ गिरिराजोतिमहाशिलोच्चयः७४ ।
विनिसृष्टदिवाकरामलो७५ दिदिवे७६ दिव्य इवोदयाचलः७७ । ।8.54.४० ।। .
इति स्कन्दपुराणे देव्या वरप्रदाने बह्मागमनं नाम चतुष्पञ्चाशत्तमोध्यायः
सनत्कुमार उवाच
अथ तं सहसायातमपश्यत्साचलात्मजा ।
ऋषिभिस्तैर्महाभागैस्समन्तात्परिवारितम् । ।१ । ।
रश्मिभिस्तेजसां योनिं मध्याह्न इव भास्करम् ।
सा तमर्घेण१ पाद्येन मधुपर्केण चैव हि२ ।
पूजयामास रुद्राणी चतुर्वक्त्रमुपागतम् ।।२।।
५९ न देवीं भगवान् दद्यान्नेच्छते किं न पार्वती । - घ. । ६० प्रेशयच्छिवः - क. ख. । ६१ तं - क. ख. । ६२ युक्तमनसा - घ. । ६३ युक्ता - घ. । ६४ कृतानुज्ञाश्च - ख. घ. । ६५ लोकपः - ख. । ६६ बुद्ध्वा कार्यं - ख. । ६७ ततः - घ. । ६८.. स्सर्वे - क. ख घ. । ६९ विदितात्मा - घ. । ७० महात्मनि - घ. । ७१... लिप्सया - ख. । ७२ निलिख्य क. । ७३ सोत्पलधातुनिर्झरो - ख. । ७४ शिलोच्चये - क. । ७५... लः - ख.,.. .लं - क.,... लः - घ. । ७६ स गिरिं - क., स गिरिर्दिव्य - ख. घ. । ७७ इवोदयाकरः - क. ख. घ. ।
१... मर्घ्येण - क । २ ह - ख. ।
307
ब्रह्मोवाच
लोकस्य जननी भूत्वा धारयित्वा जगत्तथा ।
किमिदं तपसा भूयो लोकं दग्धुमिहेच्छसि । । ३ । ।
मा सृष्ट्वा जगदेतत्त्वं तपस्यन्ती विनाशय ।
बुद्ध्वैवं३ धारयस्वेमं लोकं देवि नमस्तव । ।४।।
त्वत्तो रुद्रेण लोकोयमहञ्चैव पुरानघे ।
सृष्टाः स्मो४ वरदे देवि मा नः कृत्वा विनाशय ।।५। ।
तपसा तव५ रुद्राणि जगत् स्थावरजङ्गमम् ।
तप्यते ग्रीष्ममध्याह्ने जलात्६ पद्ममिवोद्धृतम् । ।६ ।।
किं वा ते हृदये देवि यद्यपि७ स्यात् सुदुष्करम् ।
वरं वृणीहि सर्वाणि दातास्मि हिमवत्सुते । ।७। ।
देव्युवाच
वरदोसि यदीशान मम देव चतुर्मुख ।
अयं भक्तोनुरक्तश्च मम नित्यं प्रियः प्रभो । ।८।।
व्याघ्रोस्य८ तावद्यच्छस्व ततो दास्यसि मे वरम् ।
अद्य वर्षसहस्रं वै स्थितस्यास्य ममाग्रतः । । ९। ।
ध्यायतो निमिषस्यैव स्तब्धकर्णस्य लोकप ।
अस्मै धत्स्व वरं देव नास्मि तावद्वरार्थिनी । ।8.55.१ ० ।।
पितामह९ उवाच
एष तिर्यग् दुरात्मा च त्वां भक्षयितुमागतः ।
नास्य शुद्धं मनो देवि क्रूरोयं पापचेतनः१० ।
पश्यैनं दुष्टमनसं११ नास्य श्रेयो मनस्त्वयि१२ ।। ११ ।।
३... मं - क.,. व - घ. । ४ स्म - क. ख. घ. । ५ .. तीव - क. । ६ दिनात् - घ. । ७ यदपि? । ८ व्याघ्रस्य - क. ख. । ९ ब्रह्म - ख, देव - घ. । १० पापचेतसः - घ. । ११ दुष्टचेतासौ - ख. । १२ मनस्विनि - ख. ।
308
सनत्कुमार उवाच
अथ सा तद्वचः श्रुत्वा रुद्राणी लोकभावनी१३ ।
दिव्येन चक्षुषापश्यदज्ञानात् कृतसाहसम् ।।१२।।
अनन्यभक्तः१४ पूर्वञ्च१५ जातिदोषेण दूषितः१६ ।
विदितार्था ततो भूत्वा उवाच हिमवत्सुता । ।१३।।
भगवन् को१७ हि लोकेषु१८ तिर्यक्त्वे सति निश्चलः१९ ।
स्तब्धकर्णेक्षणो दिव्यमहोप्येकमभोजनः ।।१४।।
अवतिष्ठेत किं योयं सहस्रमवतिष्ठत ।
वर्षाणां सुमहातेजा नायं तिर्यक्षु संस्कृतः२० ।।१ ५।।
भवत्वयं दुष्टचेतास्त्वदुष्टो२१ वा महाबलः२२ ।
ममानुग्राह्य इत्येव२३ वरो ह्यस्य२४ प्रदीयताम् ।।१६।।
सनत्कुमार उवाच
ततः स भगवान् देवश्चतुर्वक्त्रः पितामहः ।
उवाच वचनं देवीमृषीणां शृण्वतां तदा ।।१७।।
आर्याणां दस्यवोपीह२५ संसर्गात् सिद्धिमाप्नुयुः ।
यथायं क्रूरकर्मापि२६ सिद्धिं प्राप्स्यत्यनुत्तमाम्२७ ।।१८।।
तस्मादार्याः सदा सेव्या नित्यं पापकृतापि२८ हि ।
सिद्धिमेति नरः क्षिप्रमपापानां समीपगः२९ । ।१ ९।।
अनुग्राह्यस्तवानिन्द्ये पापोयं दुष्टचेतनः ।
अतोस्मै३० ब्रूहि देवेशे वरो यस्तव रोचते ।।8.55.२० ।।
देव्युवाच
अमरो जरया त्यक्त अक्षयश्चाव्ययस्तथा ।
महायोगबलोपेतो महदैश्वर्यसंयुतः३१ ।
गणेश्वरो ममेष्टश्च भवत्वेष यदीच्छसि ।।२१।।
१३ भाविनी - घ. । १४ अत्यन्तभक्त - ख. । । ९ पूर्वम्मे - ख । १६ दूषित - ख. । १७ भगभक्षो - क । १८ लोकोयं - क. । १९ निश्चलं - क । २० संवृतः (संभृतः) - ख., स्वयं गतः - घ. । २१ अ दुष्टो - ख. घ. । २२ महामनाः - घ. । २३ इत्येवं - ख. । २४ ह्यस्मै - ख., ह्येष - घ । २५ दर्प (र्श) नादेव - ख. । २६ हि कुकर्मापि - ख, कुरुतेकर्म - घ. । २७ यास्यत्यनु्त्तमाम् - ख. घ । २८ पापकृतोपि - क. घ. । २९ समीपत - घ. । ३० अतो मे - घ. । ३१ महदाश्चर्यमयुतः? - घ. ।
309
पितामह३२ उवाच
एवं भवतु भद्रं ते सर्वमेतद् भविष्यति ।
जानासि ब्रह्मबन्धूनां ब्रह्मदत्तस्य मंत्रिणम् । ।२२ । ।
त्वयि भक्तिः३३ पुराप्यस्य शापाद् व्याघ्रगतिं गतः ।
पञ्चालस्य च यक्षोयं प्रतीहारोभवत् पुरा । । २३ ।।
त्वया मया यदद्यास्य कृतेयं नन्दिरीदृशी ।
तस्माद् गमिष्यति ख्यातिं सोमनन्दीति नामतः । ।२४। ।
यश्चैनं३४ कीर्तयेद् दुर्गे कान्तारेषु भयेषु३५ च ।
शार्दूलसिंहद्वीपिभ्यो न भयं तस्य जानते । । २५। ।
वद३६ त्वमपि चेशानि३७ यस्ते प्रियमनोरथः ।
यावद्३८ ददामि३९ सर्वन्ते४० नियोगात् पारमेश्वरात्४१ । ।२६।।
देव्युवाच
इच्छामि भगवन् दिव्यं वर्णं कनकसप्रभम् ।
गौरीति४२ लोके ख्याता च भवेयं कमलोद्भव । ।२७। ।
पितामह४३ उवाच
एवमस्तु जगन्मातर्यदिच्छसि तपोधने४४ ।
अन्यं वरय भद्रन्ते४५ वरं४६ देवि ददामि४७ ते । ।२८। ।
महद्धीदं तपस्तप्तं भवत्या लोकभावनम् ।
नानुरूपो वरस्तस्य तस्मादन्योपि मृग्यताम् ।।२९। ।
देव्युवाच
इच्छामि भगवन्पुत्रं सर्वधर्मभृतां४८ वरम् ।
महाबलं महोत्साहं४९ सर्वलोकनमस्कृतम् । ।8.55.३ ० । ।
३२ ब्रह्मो - ख. । ३३ भक्तिं - घ । ३४ यश्चैवं - ख । ३५ वनेषु - घ. । ३६ वरं - घ. । ३७ याचस्व - घ. । ३८ तावद् - घ. । ३९ ददानि - क घ. । ४० देवेशि - घ. । ४१ परमेश्वरात् - घ. । ४२ सौरीति - ख. । ४३ ब्रह्मो - ख. । ४४ महामते - ख, महाधने - घ. । ४५ वरं प्रयच्छामि - ख । ४६ ब्रूहि - ख । ४७ यत्प्र ददानि - क ख । ४८ लोकधर्मभृतां - ख ४९ महात्मानं - घ. ।
310
पितामह उवाच
पुत्रस्ते भविता देवि महायोगबलान्वितः ।
अजेय५० स्सर्वभूतानामष्टैश्वर्यगुणान्वितः५१ । ।३ १ ।।
जेता हन्ता तथा देष्टा५२ अजरोवध्य एव च ।
अनादेश्यश्च५३ सततं सर्वेषां प्राणिनां वरः ।। ३ २। ।
सदा बालोथ सुभगो धर्मज्ञो धर्मवत्सलः ।
देवब्राह्मणगोप्ता च विद्वान् सर्वज्ञ एव च । । ३३ ।।
षण्मुखो द्वादशभुजः शक्तिपाणिस्तथैव च ।
ब्रह्मण्यश्च शारण्यश्च५४ देवद्विट्संघहा तथा ।। ३४। ।
अयोनिजो महातेजा५५ लोकानां सुखकृच्च हि५६ ।
शनैरेतदुवाचासौ ततश्च विरराम ह । ।३ ५। ।
सनत्कुमार उवाच
वरान् स५७ दत्त्वा देवेशः कृत्वा चापि५८ प्रदक्षिणाम्५९ ।
विमानं तं समारुह्य स्वं लोकमगमत्तदा६० ।३ ६।।
रुद्राण्यपि गते तस्मिन् सोमनन्दिपुरःसरा ।
स्थिताकाशं समास्थाय रोहिणीव बुधानुगा । ।३७ । ।
मन्त्रानुगेव गायत्री जयन्तेन शची यथा ।
तथा सा भाति रुद्राणी सोमनन्दिपुरःसरा । । ३८ । ।
य इमं पठते सदा विपश्चित् पुरुषः प्रातरतन्द्रितो हि कश्चित्६१ ।
कुरुते न भयं हि सोमनन्दिर्वरदस्तस्य हरश्च सोमनन्दी६२ ।। ३९ ।।
इति स्कन्दपुराणे सोमनन्दिदेव्योर्वरप्रदानं नाम पंचपंचाशत्तमोध्यायः
५० अजय्यः - ख । ५१ समन्वितः - क. । ५२ तथा चेष्टा - क. । ५३ अनावेश्यश्च - ख. । ५४ सदा देवि - घ. । ५५ महातेजो - क ख । ५६ त्सदा - (?) । ५७ दत्त्वा च - घ. । ५८ चाभि... - घ. क. । ५९ प्रदक्षिणं - क ख. घ. । ६० स्वर्लोकमगमत्तदा - घ. । ६१ कर्हिचित् - घ. । ६२ सोमनन्दिरिति - घ. ।
311
व्यास उवाच
भगवन् यत्त्वयाख्यातं पूर्वं नरकवर्णने१ ।
दुष्कृतं कर्म कृत्वा तु नरा नरकगामिनः२ । ।१ ।।
भवन्ति३ सुकृताः सर्वे४ स्वर्गसौख्यसमायुताः५ ।
ब्राह्मणा दुष्कृतं कृत्वा गत्वा दुर्गतिमापदम् ।।२। ।
कथं भूयः समायन्ति स्वर्ग७सौख्यफलं महत् ।
योनीर्वा कथमागम्य बह्वीः संकरजातिषु ।
भूयः सुकृतिनो भूत्वा प्राप्नुवन्ति शुभां गतिम् ।।३ । ।
सनत्कुमार उवाच
शृणु व्यास पुरावृत्तं८ दशार्णेषु तु यच्छ्रुतम्९ ।
सप्तानां१० द्विजशिप्याणामशुभं शुभमेव च । ।४। ।
आसीत् सुपर्वा विख्यातः कौशिको ब्राह्मणः शुचिः ।
धार्मिकश्च वदान्यश्च विद्वान् विप्रैः सपूजितः । ।५ । ।
तस्य शिष्या बभूवुर्हि सप्त दुर्मेधसश्च ते११ ।
गुरुशुश्रूषणेसक्ता१२ नामतस्तान्निबोध मे ।।६। ।
आत्रेयः कण्डरो१३ नाम उपमन्युश्च दामनः१४ ।
शाण्डिल्यश्चैव हालोभूद् गार्ग्यश्च१५ विदलस्तथा । ।७।।
शैशिरो गौतमश्चैव दण्डकीलश्च काश्यपः ।
विदर्भश्चैव हारीत इतीमे सप्त विश्रुताः । ।८ ।।
उपाध्यायोथ तान्विप्रान् प्रोवाचेदं महातपाः ।
अचिराद् गामितो गत्वा याज्यदत्तां सुरूपिणीम् । ।९।।
गत्वानयत होमार्थे१६ शीघ्रं माहिष्मतीं पुरीम् ।
त एवमुक्तास्तेनैव माहिष्मत्यास्त्वतन्द्रिताः । । 8.56.१० ।।
१ नरकवर्णनं - घ. । २ - - निर्भयाः - ख. । ३ तरन्ति - घ. । ४ स्वर्गे - क. ख । ५ सर्वसौख्यसमायुताः - क. ख. । ६ ब्राह्मणं - क. । ७ स्वर्गे - क. । ८ यथावृत्तं - घ. । ९ यच्छुभं - क. ख., द्विजन्मनां - घ. । १० मर्त्यानां - घ. । ११ स्तु - ख., स्तथा - घ. । १२ भक्ता - क., रक्ता - ख., शुश्रूषणरताः - घ. । १३ कुंडुरो - घ । १४ नामतः - क. ख. घ. । १५ ... द्दर्भश्च - घ. । १६ होमार्थं - ख. ।
312
गामादाय निवर्तन्तो१७ मृत्तिकावतिमन्तशः१८ ।
अनावृष्ट्या ततस्तेतु दुर्भिक्षे परिवर्तति१९ ।। ११ । ।
क्षुधापरिगताः सर्वे किंभक्षाः संबभूविरे ।
सप्तमेहनि२० संजाते२१ निराहाराः सुदुःखिताः ।। १२ ।।
अमन्त्रयन्त२२ गामेतां भक्षयाम किमास्यते ।
तेषां यः कण्डरो२३ नाम आत्रेयकुलसंभवः ।। १३ ।।
स तानुवाच मा धेनुं भक्षयाम गुरोरिमाम् ।
गुरोरर्थे हि नः श्लाघ्या२४ मृत्युरप्यविचक्षणाः । ।१४।।
मा गुरोः क्रोधनिर्दग्धा यास्याम निधनं वयम् ।
ते यदा तद्वचो नैव जगृहुः क्षुत्प्रपीडिताः ।। १५। ।
स तदोवाच भूयस्तानिदं वचनमर्थवत् ।
यदि वोवधृतं२५ विप्रा भक्षणेस्यास्तपोधनाः ।। १ ६।।
मा वृथा भक्षयामैनां पित्रर्थे२६ प्रोक्षयामहे ।
मा नो दोषद्वयेनेह लोपो२७ भवतु शोभनाः ।। १७।।
एवं ह्यल्पेन दोषेण२८ वयं योक्ष्येम२९ सर्वथा ।
त एवमुक्ताः सम्यक्तु वचस्तस्यावधार्य च३० । ।१८। ।
प्रोक्षयामासुरव्यग्रा पित्रर्थे तां३१ पयस्विनीम् ।
ततः संस्कृत्य विधिवद् निवेद्य च महामुने३३ । ।१ ९।।
हुताग्नयस्ततो भूत्वा प्रत्येकमुपभुज्य३४ च ।
वत्समेकं गले बद्ध्वा आनिन्युर्गुरवे३५ तदा । ।8.56.२ ० । ।
अथ दृष्टवा स३६ तं वत्सं धेनुं पप्रच्छ३७ तान्द्विजः ।
त ऊचुः पथि शार्दूलोवधीत्तामिति निर्घृणाः३८ ।।२१ ।।
१७ वर्तन्ते - घ. । १८ मृत्युकालवशं गता - - घ.,. तरः - - क. । १९ परिवर्तत - क. । २० मासि - ख. । २१ जाते च - क., एते च - ख. । २२ आमन्त्रयन्त - ख. घ । २३ काण्डरो - क. । २४ श्लाघ्यो - ख. । २५ वोवभृतं - क,, वा निश्चितं - घ । २६ पित्र्यर्थे - क, पित्र्यर्थं - ख., पितॄणां - घ. । २७ लेपो - क., लोभाद्. घ । २८ श्रिया पुष्ट्या ततस्ते तु - घ, त्व (स्व) - क. । २९ योक्ष्य - ख., योक्ष्या - क., मोक्षा -घ. । ३० वचस्तस्य प्रधार्य च - घ. । ३१ तु - ख. । ३२ तपस्विनीम् - ख. । ३३ महात्मने - क. ख. । ३४ मुप. - घ. । ३५ बद्धमानिन्युर्गुरवे (?) । ३६., .धार्य च - ख. । ३७ यच्छ मे - ख. । ३८ तमूचूस्तस्य वै शिष्या न लब्धा गोरितस्ततः - घ. ।
313
अथ तेषां वचः श्रुत्वा शंकया च दुरात्मनाम् ।
दिव्येन चक्षुषापश्यद् भक्षितां तैर्महातपाः । । २२ । ।
सतः स रोषाद् रक्ताक्षो३९ निर्दहन्निव ताँस्तदा४० ।
उवाच वत्सं दृष्टवा च४१ कृपया भृशदुःखितः४२ ।।२ ३ । ।
युष्माभिर्भक्षिता सा हि तथ्यं४३ न कथितं च मे ।
कर्मणा तेन तस्माद्वो गतिः कष्टा४४ भविष्यति४५ । ।२४। ।
प्रसादितः स तैः शिष्यैर्ब्राह्मणः सुमहाद्युतिः४६ ।
कृपया स च तानाह भूयः सर्वानिदं वचः ।।२५।।
यदुक्तं४७ तन्मया तथ्यं४८ न४९ तन्मिथ्या५० भविष्यति ।
येषां तु कृतवन्तः५१ स्थस्तेध्यवस्यन्ति५२ यच्छुभम्५३ ।।२ ६।।
मत्समीपे च न स्थेयमिदानीं वः कथञ्चन ।
दृष्टवा वत्समिमं बालं मा वो धक्ष्यामि गच्छत५४ ।।२७।।
अथ ते सहिताः सर्वे नष्टसंज्ञा विचेतसः५५ ।
कालेन समयुज्यन्त चिन्तयन्तो गुरोर्वचः । ।२८। ।
दशार्णा नाम सा व्यास सरित् पुण्यजला शुभा५६ ।
तस्यास्तीरे वनं दिव्यं विश्रुतं तत् सुभास्वरम् ।।२९। ।
तत्र व्याधोभवच्छूरः क्षुपको५७ नाम वीर्यवान् ।
तस्य पुत्राभवँस्ते वै चितकायां महाबलाः ।।8.56.३ ० ।।
चितका संप्रसूता५८ तु पुत्राँस्तान् सप्त संमतान् ।
व्याधाः सर्वेभवंस्ते वै चैतका इति विश्रुताः ।। ३ १। ।
चरन्ति सधनुष्कास्ते निघ्नन्तो५९ मृगपक्षिणः ।
सिंहान् व्याघ्रान् गजाँश्चैव६० वराहादीँश्च सर्वशः६१ । ।३ २।।
३९ रोषताम्राक्षो - घ. । ४. तेजसा - ख. । ४१ तु - घ. । ४२ च सुदुःखितः - ख., दुःखपीडितः - क घ. । ४३ तया - घ. । ४४ नष्टा.. - घ. । ४५ संसारान् प्रतिपद्य (त्स्य) थ - ख । ४६ ब्राह्मणैस्स महाद्युतिः - क. ख घ । ४७ यद्युक्तं - घ. । ४८ चोक्तं - घ. । ४९ च - ख. । ५०... थ्यं - क । ५१. न्तो - क । ५२ योध्य... - क. । ५३ योध्यवस्यत - ख. । ५४ व्याधत्वं समगच्छत - घ. । ५५ विसंज्ञा नष्टचेतसः - क. घ. । ५६ पुण्यजला सदा - क. । ५७ क्षुपजो - ख. । ५८. ते - घ. । ५९ घ्नन्तो वै - क. ख. । ६० गणाँश्चैव - घ. । ६१ वराहाँश्च सुदारुणः - घ. ।
314
तेषां नामानि यानि स्म व्याधत्वे६२ तानि मे शृणु ।
काण्डारोर्जुनको नाम दमनः सिंहकोभवत्६३ । ।३ ३ ।।
हालोभूद् व्याघ्रकश्चैव विदलः६४ शरभस्तथा ।
शैशिरो हिमवाँश्चैव हस्तिको दण्डकीलकः । ।३४।।
विदर्भो६५ वज्रकश्चैव नामान्येतानि तेषु हि६६ ।
एकश६७ स्तेटवीं घोरां चरन्ति६८ पिशिताशनाः६९ । ।३५।।
हिंस्राः सत्वान्तकाः सर्वे योनिं दुष्टामुपागताः ।
कदाचिद्विचरन्तस्ते मृगान् घ्नन्तस्तथैव च । ।३ ६ ।।
उपाध्यायाश्रमं प्राप्ताः कर्मणा७० सुकृतेन ह ।
तत्र७१ तेषां भयोद्विग्नाः सर्व एवाभवन् मृगाः । ।३७। ।
मृगान् भीतान् समालक्ष्य स विप्रः सुमहातपाः ।
न्यवैक्षत७२ दिशः सर्वा व्याधाँश्चापश्यदागतान् ।। ३८।।
स्वशिष्याँस्तान्७३ परिज्ञाय ध्यानाद् व्याधत्वमागतान्७४ ।
प्रोवाच करुणाविष्टस्तेषामेव शुभेप्सया७५ । ।३ ९।।
शुश्रूषितः पुरा विप्रैर्युष्माभिरहमादरात्७६ ।
कर्मणा तेन चेदानीं गोबध्याकृतशापतः । ।8.56.४० । ।
व्याधत्वमिह संप्राप्ताः कुत्सितं हिंस्रवृत्ति यत्७७ ।
सा च७८ गौः पितृकार्येण भक्षिता वो न हिंसया । ।४१ ।।
तस्माद् यूयमितो भ्रष्टा७९ जातिस्मरणसंयुताः ।
मृगाः कालञ्जरे भूत्वा८० चक्रवाकाः पुनः८१ सरे ।।४२ । ।
द्वीपे ततः पुनर्हंसा भूत्वा वै मानसे ह्रदे ।
भूयश्च मानुषा भूत्वा जातौ जातौ८२ सचेतनाः ।।४३ । ।
योगयुक्ता महात्मानो मत्प्रसादादतन्द्रिताः ।
सर्वकिल्बिषनिर्मुक्ता ब्रह्मलोकमवाप्स्यथ । ।४४।।
६२ व्याधानां -घ. । ६३ शिशिरो हिमवाँश्चैव विरूपो विश्वरेतनः । वीरो वीरतरुः स्वेदो नामान्येतानि तेषु च- घ. । ६४ विशदः - ख. । ६५ विभर्गो - क, विभग्नो - ख. । ६६ च - घ. । ६७ एकदा - क. घ. । ६८ चरन्तः - घ. । ६९ पिषितैषिणः - घ. । ७० कर्म स्म (स्व?) - घ. । ७१ तस्य - घ. । ७२ अवैक्षत - ख । ७३ स शिष्याँस्तान् - ख., स मुनि - घ. । ७४ ध्यानात्मा समुपस्थितान् - घ. । ७५ शुभं वचः - घ. । ७६... रिदमातरात् - घ. । ७७ हिंस्रवृत्तिमत् - ख. घ. । ७८ साधु - घ. । ७९ भूय इयमितो - ख, तस्मात् शापात् परिभ्रष्टा - घ. । ८० भूता - घ. । ८१ पुरा - घ. । ८२ याताः - घ. ।
315
एतच्छ्रुत्वा ततस्तेषां पूर्वा स्मृतिरजायत ।
उपाध्यायोयमस्माकमिति बुद्धौ८३ तदा८४ भवत् ।।४५।।
ततः कर्म जुगुप्सन्तः पूर्व८५जातिकृतं च यत्८६ ।
प्रदक्षिणमुपावृत्य दशार्णामभितो८७ ययुः ।।४६। ।
दशार्णातीरमासाद्य संमन्त्र्य च परस्परम् ।
जातिं पूर्वां८८ स्मरन्तस्ते मृत्युमेव प्रवव्रिरे ।।४७।।
निश्चितानां८९ ततस्तेषां काण्डरो९० योभवद् द्विजः ।
व्याधोर्जुनकनामा९१ स इदं वचनमब्रवीत् ।।४८।।
भवन्तो यन्मया९२ पूर्वमुक्तास्तन्न कृतं हि वः ।
इदानीं समनुप्राप्तं मावमन्यत मे वचः ।।४९।।
श्रेयो वोहं प्रवक्ष्यामि शृणुध्वं कुरुतैव च ।
जातिमेतां विमोक्ष्याम येन हास्याम न स्मृतिम् । ।8.56.५० ।।
पुत्रानिच्छन्ति पितरः पुष्ट्यर्थं तारणाय च ।
वयं च जनितास्तेन व्याधेन सुमहात्मना ।।५१ । ।
संवर्द्धिताश्च क्लेशेन मात्रा पित्रा तथैव च ।
अनापृच्छ्य९३ कथं तौ तु मृत्युमिच्छामहे वयम् ।।५२। ।
ते यूयं९४ यदि मन्यध्वं तावापृच्छ्य९५ विसर्जिताः९६ ।
योक्ष्याम श्रेयसात्मानमेतद्वो९७ हितमुत्तमम् । ।५३ । ।
न चेद्विसर्जयेतां तौ९८ तयोः९९ शुश्रूषणे रताः ।
ततस्तावद्धि तिष्ठामो यावत् कालेन तौ मृतौ । ।५४। ।
ततो वयं कृतात्मानो ह्यनृणाः१०० सर्वथापि च ।
गमिष्यामो गतिं१०१ पुण्यामेतन्नः श्रेय उत्तमम् ।।५५। ।
एवमस्त्विति ते सर्वे गृहीत्वा तस्य तद्वचः ।
चिन्तयन्तः पुरो१०२ जन्म गृहानेवाभिजग्मिरे ।।५६। ।
८३ बुद्धि - घ । ८४... स्ततो - घ. । ८५ जुगुप्समानास्ते पूर्वं - ख । ८६ तत् - घ. । ८७ दशार्ण- मभितो - क घ. । ८८ पूर्वां जातिं - ख. । ८९ निश्चिन्तानां - क. । ९. काण्डारो - ख. । ९१ जनकनामा - घ. । ९२ ये मया - ख. । ९३ दृष्ट्वा - क., दृष्टा - ख. । ९४ तद्यूयं - ख., ते मृत्युं - घ. । ९५ मा पृष्ट्वा तौ - क. ख. घ. । ९६ विवर्जिताः - ख. । ९७ श्रेयसे मानमेतद्वो - ख. । ९८ तं - घ. । ९९ ताभ्यां - क. ख. घ. । १०० कृतात्मान अनृणाः - क. ख । १०१ मतिं - क. । १०२ पुरा - क. घ. ।
316
तानागतान् पिता दृष्ट्वा माता च चितका तदा ।
तुष्ट्या परमया१०३ युक्ता इदं तानूचतुर्वचः१०४ ।।५७। ।
पुत्रकाः सुचिरादद्य यूयमभ्यागता गृहम्१०५ ।
अद्यावां१०६ सुदृढं मूढौ१०७ किं चिरं कृतमित्युत१०८ ।।५८।।
चितकोवाच
क्षुधाविष्टः पिता वोद्य१०९ पुत्रस्नेहेन पुत्रकाः ।
नात्ति मांसमिदं११० पक्बं सुराञ्च न पिबत्ययम् । ।५९।।
सनत्कुमार उवाच
तेपि जातिं जुगुप्सन्तः सर्वे वै पापयोनयः ।
इदमूचुः क्षुपं चैव चितकाञ्च शुभं वचः ।। 8.56.६० । ।
भवन्तोश्नन्त्वविघ्नेन पुष्टये शान्तयेपि च ।
नाश्नीमो१११ वयमद्येह११२ श्वो भोक्ष्यामो११३ न संशयः ।।६१ । ।
ततस्तौ वृद्धभावेन न बुभुक्षासहौ तदा ।
आहारयेतामाहारं सुतुष्टौ च बभूवतुः ।। ६२। ।
तौ तु तुष्टौ समालक्ष्य सर्वेथ शिरसा नताः ।
ऊचुः प्रयत्नतो११४ वाक्यमैक११५मत्येन ते तदा । । ६३ । ।
पितरौ परिनिर्विण्णा वयमेतेन जन्मना ।
इच्छामस्तत् परित्यक्तुं११६ तन्नः संमन्तुमर्हथः११७ ।।६४।।
तेषां तद्वचनं श्रुत्वा पिता तानिदमब्रवीत्११८ ।
परिष्वज्य सुतान्११९ सर्वान् बाष्पपर्याकुलेक्षणः१२० । ।६५। ।
अहमासं पुरा पुत्रा ब्राह्मणः शंसित१२१व्रतः१२२ ।
दिवोदासस्य राजर्षेः सखा परमसंमतः । ।६६। ।
१०३ च परया - घ. । १०४ तावूचतुर्वचः - क. । १०५ गृहान् - क. । १०६ अद्य वः - ख. । १०७ किंचित् - ख., भूमौ - घ. । १०८ चैवं कृत्यमित्युत - घ., चिरादागम्यतेत्युत - ख. । १०९ चाद्य - घ. । ११० मांसमिमं - क. ख. । १११ म - क, नाश्नीया - ख. । ११२. .मद्याहं - क. ख. । ११३ वयमद्य न भुंजाना भक्षात्मानो - घ.,.. म - क. ख. । ११४ प्रयततो - क, प्रमनसो - ख घ । ११५ मेकमत्येन - क. ख. । ११६. संपरित्यक्तुं - क.,.. स्तौ - ख., इदं तु सं... - घ । ११७ शंसितुमर्हथः - घ. । ११८ माता समब्रवीत् ख, । ११९ स तान् - घ । १२०... लेक्षणौ - ख । १२१ सं शितव्रतः - घ । १२२... व्रताः - क. ।
317
स कदाचिद्वने रम्ये धनुषा कुरुते भृशम् ।
......... ।।। ६७। ।
योग्यात्तमहमाहेदं१२३ न त्वं१२४ वेत्सि धनुर्नृप ।
अजानन्१२५ किमिदं क्लेशं व्यर्थमेव१२६ करोषि च ।।६८। ।
प्रोवाच राजा विप्राणां मन्त्रज्ञानं विधीयते ।
आमन्त्रणे भोजने च वाचा च कुशला द्विजाः१२७ ।।६९।।
- . . . . . .. . . - ।
स मया हसता१२८ प्रोक्त आनयस्व धनुर्मम ।।8.56.७० । ।
यावत् क्षिपामि लक्ष्याय१२९ शरं यत्र ब्रवीषि माम्१३० ।
स तथोक्तस्तदा१३१ मह्यं सशरं धनुरर्पयत् ।।७१। ।
तेनोक्तं लक्ष्यमुद्दिश्य१३२ शरः क्षिप्तो मया ततः ।
तत्राभवत् स्थितो विप्रो मृगचारी दृढव्रतः ।।७२ । ।
स तेन विद्धस्तेजस्वी ममार सहसैव च ।
सोहं१३३ तं मृतमालक्ष्य१३४ राज्ञा तेन विसर्जितः । ।७३ ।।
ब्रह्मवध्याभयाद् घोरात् पितरं परिपृष्टवान् ।
प्रोवाच न भयं तेस्ति ब्रह्मवध्या कुतस्तव ।।७४।।
जात्यन्तरशतं१३५ गत्वा दृष्टमेतत्१३६ स्वयंभुवा ।
ततोहं परया भक्त्या पितृशुश्रूषणे रतः ।।७५। ।
अनया भार्यया सार्धं१३७ स्थितो वै१३८ बहुलाः समाः ।
स कदाचित् पिता चापि मम कालेन संयुतः१३९ ।७६।।
अवतस्थे च तत्रैव अनयैव सहानघाः ।
अथ कालेन महता गवाहं विनिपातितः ।।७७। ।
१२३ यो स्यान्त... - ख, यो ध्यातु मृगकामे - घ. । १२४ तत्त्वं - ख. । १२५ न जानन् - घ., अज्ञानं- (नात्) । - घ. । १२६ व्यर्थं कर्म - घ. । १२७ सदा - क. घ., तदा - ख । १२८ सहसा - ख. । १२९ लक्षाय - क. ख. घ । १३० हि - ख । १३१ तदोक्तस्तदा - क. ख. घ । १३२ लक्षमुद्दिश्य - क ख. । १३३ साह - ख. । १३४ मृगमालक्ष्य - क. ख घ । १२५ जात्यन्तारगतं - ख., ज्ञातं - घ. । १३६ हृष्टमेतत् - क., दृढमेतत् - ख । १३७ साकं - घ । १३८. हं - ख. । १३९ संवृतः - घ. ।.
318
अग्निस्थं चावरूढैषा रुदन्ती मां१४० शुभेक्षणा ।
सोहं गवा हतश्चेति मृगचारिवधेन च । । ।७८ ।।
व्याधजन्मनि विप्रत्वाद् भ्रष्टः१४१ पापेन जज्ञिवान् ।
जातोस्मि१४२ जन्मनां पुत्राः सहस्रं भृशदारुणम् ।।७९। ।
पितृभक्त्या च हि तया सम्यगाराधनेन च ।
नानशन्मे१४३ स्मृतिः पुत्रा ज्ञानं चापि प्रवर्तते१४४ । ।8.56.८०।।
जानामि ब्राह्मणान् भ्रष्टान्१४५ सर्वान् वै गोकृतेन वः१४६ ।
गुरोश्चैवानुशापेन भ्रष्टसज्ञाँस्तथैव च१४७ । ।८१ । ।
पश्चात्तदाज्ञया पुत्रान् सर्वान्वै मुक्तचेतसः ।
लब्धसंज्ञाँस्तथा चैव सर्वानद्य महाबलाः१४८ ।।८२।।
माता चेयं१४९ हि वो१५० वेत्ति साध्वी नित्यं पतिव्रता ।
यदहं वो ब्रवीम्यद्य तत्कुरुध्वं मम प्रियम१५१ । ।८३ ।।
अवाप्स्यथ१५२ ततः श्रेयः सर्वे यूयमतन्द्रिताः१५३ ।
अनामया विशोकाश्च१५४ न च संज्ञां प्रहास्यथ१५५ । ।८४। ।
पुत्रा जन्मेदमन्त्यं मे१५६ मनुष्येषु१५७ न संशयः ।
इतो मृतेन गन्तव्यं मया ब्रह्मसदः शुभम् । ।८५। ।
ते१५८ यूयं मां प्रतीक्षध्वं कंचित्काल१५९मतन्द्रिताः१६० ।
स्वर्गते मयि यच्छ्रेयस्तत्करिष्यथ मा शुचः । ।।८६।।
अवश्यञ्च सुतैर्माता पिता चैव सुदुःखितौ१६१ ।
शुश्रूषितव्यौ१६२ नान्योस्ति धर्मोस्माद्१६३ बलवत्तरः ।।८७। ।
सनत्कुमार उवाच
ततस्ते विस्मिता भूत्वा नष्टशोका विमत्सराः ।
तं१६४ कालं पर्युपासन्त यावत्तौ जहतुस्त्वसून्१६५।।८८।।
१४० रुदती - क. । १४१ विप्रत्वभ्रष्टः - ख. । १४२. .स्मिन् - ख. ख. । १४३ न नाशं मे - क. । १४४ मे संप्रवर्तते - ख., चाप्यप्रवर्तते - क., प्रवर्तत - क. । १४५ तुष्टान् - घ. । १४६ सर्वानाग (स्) ।। कृतेन वः - घ. । १४७ भ्रष्टसंगाँस्तथैव च - घ. । १४८ महाबलान् - घ. । १८९ मात्रेयं (यी) - ख. । १५० नो - घ. । १५१ कुरुध्वमतन्द्रिताः - क । १५२ अवाप्स्यत - घ. । १५३.. मतन्त्रिताः - घ. । १५४ विकोशाश्च - ख । १५५ प्रहास्यते - घ । इतः पूर्वं क्षुप उ. इति क. - घ. । १५६ ममेदं- यज्जन्म - घ. । १५७ मनुष्यत्वे - ख. । १५८ तद् - ख । १५९ किंचित्काल. - क. ख. घ. । १६०... मतंत्रिताः - घ, । १६१ सुदुःखितैः - क., सुखेधितैः - ख. । १६२ शुश्रूषितव्यो - क. ख घ । १६३ धर्मोन्यो - ख । १६४ तत् - क. ख. । १६५... स्तनूम् - घ. ।
319
तयोरतीतयोः सम्यक्१६६ कृत्वा ते ह्यौर्ध्वदेहिकम्१६७ ।
दशार्णायां महानद्यां विधिनानशनेन१६८ ह ।।८९। ।
असाधयन्त आत्मानं व्याधाः सप्तापि ते तदा१६९ ।
कालञ्जरे गिरौ१७० भूयो मृगाः सप्तैव जज्ञिरे । ।8.56.९० ।।
स्मरन्तस्तत्र ते जातिं मरुत्प्रपतनेन ह ।
साधयित्वा तदात्मानं चक्रवाकेषु१७१ जज्ञिरे१७२ ।।९ १ । ।
मृगत्वे यानि नामानि तेषां तानि निबोध मे ।
दीर्घजीवी ह्यनाधृष्टो वायुवेगोभिकम्पनः१७३ ।।९२ ।।
श्रीपार्श्वः शंखपाच्चैव सोमलक्ष्यश्च१७४ सप्तमः ।
जातिं स्मरन्तस्ते पूर्वामन्योन्यमभिमान्य१७५ च । ।९३ । ।
सहिताः सहसा प्राणान् मरुत्प्रपतनाज्जहुः ।
ते सप्तसंख्या व्याधेषु मृगेषु च तथा पुनः । ।९४।।
जन्म प्राप्य पुनर्जाताः शरद्वीपे खगास्ततः ।
शरद्वीपमिति ख्यातं१७६ काम्पिल्येषु सरः शुभम् । ।९५।।
तत्रापि चक्रवाकास्ते सप्ताजायन्त सोदराः ।
मरुद्देवः१७७ शिखंडी च रथनेमिस्वरस्तथा१७८ ।
शिखी जीवोथ वृक्षश्च ध्वज इत्येव ते स्मृताः ।।९६ ।।
तेषां तत्रोपपन्नानां कदाचिदणुहः स्वयम् ।
काम्पिल्यको महातेजा राजा तं देशमागमत् । ।९७। ।
स तत्सरः समासाद्य स्त्रीभिः सहः१७९ मुदान्वितः ।
रेमे मन्दाकिनीं प्राप्य अप्सरोभिरिवामरः ।।९८। ।
तं क्रीडमानं संदृश्य मरुद्देवस्य तत्र वै ।
चक्रवाकस्य तस्यासीत्१८० स्पृहा तान् विषयान् प्रति१८१ ।।९९। ।
१६६ सद्यः - क. । १६७ ह्यूर्ध्वदैहिकम् - क, ह्यूर्ध्वदेहिकम् - ख. । १६८ नसनेन - घ., ना शकेन - क. ख. । १६९ सप्तव्याधास्तथापि ते - ख. । १७० कालाञ्जरगिरौ - ख । च ७१ चक्रवाकाश्च - ख. । १७२ जग्मिरे - घ. । १७३... तिकोपनः - ख । १७४... क्ष्योथ - क. । १७५ मतिमान्य - ख. । १७६ इति ख्यातः - क. ख. । १७७ मनोदेव - घ. । १७८ रथनेमिस्वनस्तथा - घ, । १७९ सहस्त्रीभिः - ख. । १८. तत्रासीत् - ख. । १८१ विषयानपि (भि) - क., विषयं प्रति - ख. ।
320
यद्यस्याहं१८२ सुतः स्यां वै प्राप्नुयां राज्यमेव च१८३ ।
ततोहं विषयानेतान् प्राप्नुयां नात्र संशयः । ।8.56.१ ०० ।।
तस्य तच्चिन्तितं ज्ञात्वा द्वितीयश्चक्रसाह्वयः ।
शिखंडीति समाख्यातः स तमाह तदा हसन् । । १०१ । ।
भवता राजपुत्रत्वं राज्यं चैव विचिन्तितम् ।
तत्राहं ते१८४ पुरोधाः स्यां ममाप्येष मनोरथः ।। १० २। ।
ताभ्यां१८५ तच्चिन्तितं ज्ञात्वा रथनेमिस्वरस्ततः१८६ ।
अचिन्तयत तत्राहं सचिवः स्यां तव प्रभो१८७ । ।१ ०३ । ।
सनत्कुमार उवाच
तेषां तथा चिन्तयतां त्रयाणामितरे ततः१८८ ।
चक्राह्वयास्तदा क्रुद्धा इदं तानब्रुवन् वचः ।। १ ०४।।
अचिन्तनीयं युष्माभिश्चिन्तितं विषयार्थिभिः ।
तस्माद् यूयमितो१८९ मुक्ता अवाप्स्यथ मनोरथम् । ।१ ०५। ।
ताञ्छप्त्वा१९० दीनमनसः समालक्ष्य पुनश्च ते ।
येन तद्राजपुत्रत्वं चिन्तितं राज्यमेव च । ।१ ० ६।।
कृपया तमिदं वाक्यमब्रुवन्नष्टचेतसम् ।
बहुसान्त्वगुणोपेतं१९१ स्वयं दुःखितवद्यथा१९२ । । १ ०७।।
वयं तव प्रभावेण तीर्णाः कृच्छ्रमिदं प्रभो ।
भवान् मतिप्रदोस्माकं सेतुभूतो मतो हि नः ।।१ ०८। ।
भवान् यदि१९३ हि न ब्रूयात् पितॄणां गौर्निवेद्यताम् ।
शुश्रूषेमश्च न१९४ पितॄन् न स्म१९५ संज्ञा ततो भवेत् । ।१ ०९।।
तव प्रभावादेतन्नो१९६ यौगैश्वर्यप्रवर्तनम् ।
ततो वयं पुनः१९७ श्रेयस्तव ब्रूमः शृणुष्व नः१९८ ।।8.56.१ १० ।।
१८२ अद्यास्याहं - क. । १८३ प्राप्नुयाद्राज्यमेव च - क. ख. । २८४ त्वत् - घ. । १८५ तस्य - घ. । १८६... स्वनस्ततः - घ. । १८७ प्रभोः - ख । १८८... मितरेतरं - घ. । १८९ भूय इतो - ख. । १९० तान्दृष्टवा - घ । १९१ बहुशास्त्रगुणोपेतं - घ. । १९२ त्तथा - घ. । १९३ भवानपि - घ. । १९४ शुश्रूषध्वमपि - घ. । १९५ नष्ट (ा) संज्ञा -क । १९६ तस्मात्तव प्रभावान्नो - घ. । १९७ भूयोप्यथ वयं - घ. । १९८ स्तु शृण्वत ख , तत् घ ।
321
तावत्त्वं सक्तहृदयो१९९ भविष्यसि नराधिप ।
यावदस्मद्वचस्तत्थ्यं न श्रोष्यसि सहायवान् ।
योगज्ञानमवाप्यैव२०० प्राप्स्यसे च गतिं शुभाम२०१ । ।१ ११ ।।
सनत्कुमार उवाच
ततस्ते सहिताः सर्वे युक्तात्मानो२०२ महाखगाः ।
खगत्वं संपरित्यज्य२०३ योनिमन्यां२०४ प्रपेदिरे. ।।१ १२।।
सर्वे ततस्ते मुनिकोपदग्धा व्याधा मृगाश्चक्रसमाह्वयाश्च ।
जाताः पुनर्मानुषविग्रहेषु योगेश्वरास्ते त्रय एव राज्ये ।।१ १३ । ।
इति स्कन्दपुराणे सप्तव्याधोपाख्याने कौशिकशापे षट्पञ्चाशोध्याय
सनत्कुमार उवाच
चत्वारस्ते तु शास्तारः१ खगाः स्वच्छन्दतः पुनः ।
यायावरस्यः विप्रस्य सुता जाता२ महात्मनः । । १ ।।
तेषु जातेषु विप्रोसावक्लेशेन३ महातपाः ।
वृत्तिं समानयामास४ तेषां भाग्यपुरःसरः । । २। ।
चीर्णवेदव्रतास्ते तु वेदान्साङ्गानधीत्य च ।
योगमेव न्यषेवन्त६ तन्निष्ठास्तत्परायणाः ।।३ । ।
इतरेपि७ त्रयो व्यास कर्मणा स्वेन चोदिताः८ ।
प्रत्यपद्यन्त तज्जन्म यत् पुरा तै९ र्विचिन्तितम् .।।४।।
प्रथमो ह्यणुहाज्जज्ञे ब्रह्मदत्त इति स्मृतः ।
एकोणुहस्य पुत्रोभूद् द्वितीयस्तत्पुरोधसः । ।५।।
१९९-सत्वहृदयो ख, शक्रभवने - घ । २०० मथाप्येवं - घ..... मवाप्यैनं - क. ख. । २०१ शुभां गतिं - ख । २०२ ... मुक्तात्मानो - घ. । २०३ योगज्ञत्वं परित्यज्य - ख. । २०४ गतिमन्यां - ख. । शप्तारः -ख । २, जज्ञे - क., जज्ञु.. - ख., जग्मु.. - घ. । ३... सौ क्लेशेन च - क., सा बहुमान- पुरःसरः - घ. । ४ संजनयामास - ख. । ५ दांता देवव्रतास्तेपि - घ. । ६ -.. नाभ्यसेवन्त -ख. । ७ अपरेपि - घ. । ८ तेजसा - ख. । ९ पुरा तैर्यत्, - घ ।
322
तृतीयः सचिवस्याथ त्रयस्ते जन्म तद्१० गताः ।
त्रयोग्नय इवासंस्ते लोकास्त्रय११ इवाथवा ।
अवर्द्धन्त महात्मान१२ स्त्रयस्ते सागरा इव । ।६।।
तेषामवाप्तविद्यानां योग्यानां च स्वकर्मणि१३ ।
पितरः स्वानि कर्माणि१४ प्रददुर्हृष्टमानसाः ।।७।।
अणुहः प्रददौ राज्यं ब्रह्मदत्ताय पुष्कलम् ।
कीर्तिमत्या च सहितस्ततो वनमगाच्य सः ।।८। ।
पुरोधा धृतरातस्तु१५ पुत्रं स्वे कर्मणि प्रभुः ।
स्थापयित्वा जगामाथ१६ पंचालं शंसितव्रतः । ।९।।
सचिवोपि सुधन्वा तु ब्रह्मधन्वानमच्युतम्१७ ।
पुत्रं स्वे कर्मणि स्थाप्य जगाम सह भार्यया ।। 8.57.१ ०। ।
गतेषु तेषु स्वाँल्लोकान्१८ ब्रह्मदत्तः प्रतापवान् ।
पञ्चालब्रह्मधन्वभ्यां१९ सह राज्यं चकार ह ।।१ १ ।।
प्रशासतस्तथा राज्यं यजतो भुञ्जतश्च ह२० ।
जग्मुः सुखेन बहुलाः समाः सुकृतिनस्तदा२१ ।।१२।।
अथ कालेन महता सभार्यः ससुहृज्जनः ।
तस्थौ स वेश्मनि२२ सुखं कुबेर इव पुष्पके२३ । ।१३ ।।
ततः सर्वरुतज्ञाता२४ पिपीलं कामकारणात्२५ ।
पिपीलिकायाञ्चाटूनि२६ कुर्वाणं सोन्वपश्यत२७ ।। १४। ।
स तु ज्ञानाद्२८ विनिश्चिन्त्य२९ कृमियोनावपीदृशम् ।
विवृतं३० शब्दवच्चैव हासमुत्सृजतानघ३१ । ।१ ५। ।
१० तां - घ । ११ लोकपाला घ., भूयस्ते - क. । १२ शिवात्मान - घ. । १३ स्वेन कर्मणा - घ. । १४ स्वामिकर्माणः - घ. । १९ धृतराष्ट्रस्तु - ख., श्रुतवागस्तु - घ. । १६ जगामाशु - ख । १७... प्रच्युतः - घ- । १८ स्वर्लोकान् - घ. । १९... न्याभ्यां - क. ख., सत्वाभ्यां - घ. । २० जयतस्तस्य तैः सह - घ. । २१ स्तथा - ख घ. । २२ स्ववेश्मनि - क. । २३ पुष्करे - घ. । २४ सर्वरुतं ज्ञात्वा - क. ख. घ । २५ पिपीलकमकारणात् - घ., कामकारिणं - क. । २६... श्चाटूनि - क. ख., ... ञ्चाशक्तमानसं - घ. । २७ सोनुपश्यत - क. घ । २८ ज्ञात्वा - क. ख. घ. । २९ विनिश्चित्य - ख, घ.. । ३०.. निमित्तं - ख. । ३१... नघ - क. ।
323
तत्तस्य हसितं दृष्ट्वा पत्नी नीलोत्पलेक्षणा३२ ।
चुकोप किमिदं मेद्य विकृतं लक्षितं त्वया ।। १६ ।।
तां स राजा स३३माविग्नः३४ प्रियां प्राणैर्गरीयसीम् ।
प्रसादय३५न्न चैवास्य प्रसीदत३६ शुभानना ।।१७।।
सा यदा बहु तथ्यञ्च३७ उच्यमाना न तुष्यति ।
तदा तस्याः प्रसादार्थे ३८ स विष्णुं संप्रसादयत् । ।१८।।
देवं३९ सालवनं४० गत्वा पञ्चालेन सहैव सः ।
ब्रह्मधन्वपुरोवाहो रथेन महता महान्४१ । ।१ ९। ।
तत्रासौ सप्तमे त्वह्नि४२ विष्णुनाभिविसर्जितः ।
जगाम नरशार्दूलः काम्पिल्यं४३ स्वं पुरोत्तमम्४४ ।।8.57.२० ।।
एतस्मिन्नेव काले तु चत्वारो ब्राह्मणाः शुभाः ।
योगेन महता युक्ता इदमूचुः परस्परम् ।।२१ । ।
वयं कृतार्थाः किं कार्यमिह तिष्ठाम मानुषे ।
गच्छाम४५ ब्रह्मयोनिं स्वां मुच्यामोस्मान्महाभयात्४६ ।।२२।।
अवसीदन्ति ते चैव४७ त्रयोस्माकं४८ सहव्रताः ।
बोधयामेह४९ ताँश्चैव यथा नेयुः पराभवम्५० ।।२३ ।।
ततस्ते पितरं सर्वे प्रणम्योचुर्द्विजातयः ।
वयं योगेश्वरास्तात सिद्धा वै५१ स्वेन कर्मणा । ।२४।।
आपृच्छामो गमिष्यामः स्वां योनिं ब्रह्मनिर्मिताम् ।
त्यक्त्वेमान्५२ मानुषान् देहान्न५३ विसर्जय नमस्तव ।।२५।।
३२ निलोत्पलेक्षणं - घ. । ३३ राजान - ख. । ३४ समाश्वास्य - घ., समाविग्नां- ख. । ३५ अडभवि आर्ष? । ३६ प्रसीदति - घ. । ३७ बहुधा तेन - घ. । ३८ प्रसादार्थं - घ. । ३९ देव - क. । ४० सप्तनंदं - घ. । ४१ तदा - घ. । ४२ चाह्नि - घ. ख. । ४३ कम्पिल्यं - क. ख. । ४४ स्वपुरोत्तमम् - क. । ४५ गच्छामो गतिमिष्टां स्वां - घ. । ४६... पि मुच्यामो महाभयात् - घ. । ४७ चैवात्र - घ. । ४८ येस्माकं च - घ. । 8९ अवबोधेम - क. ख., आराधयाम - घ. । ५० पराभवः - घ. । ५१ सिद्धाश्च - घ, । ५२ त्यक्त्वेमं - ख. । ५३ मानुष देहं - ख. ।
324
पित्रोवाच
पुत्रानिच्छन्ति पितरस्तारयिष्यन्ति नो भयात् ।
भयं तच्चैहिकं पुत्राः परत्र च दुरासदम् । ।२६।।
ते यूयमृणसंयुक्ता५४ अमुक्त्वा स्वं५५ निबन्धनम् ।
कथं गच्छथ५६ भद्रं वो नाधर्मं परिपश्यथ५७ । ।२०।।
सुता ऊचुः
वयं योगेश्वरास्तात लोकाँस्तुभ्यमनामयान्५८ ।
प्रयच्छामो५९ न संदेहो यत्र६० गत्वा न शोचसि६१ ।।२८।।
अस्माभिस्त्वं कथं पुत्रैर्ब्रह्मत्वं नाप्नुयाः पितः ।
इहापि लोके द्रव्यं ते विधास्यामस्तथा६२ शृणु ।।२९।।
इदं६३ त्वं६४ पत्रमादाय६५ ब्रह्मदत्तस्य दर्शय ।
स वाचयन्नेव६६ नृपो वृत्तिं ते संविधास्यति ।।8.57.३ ० । ।
सनत्कुमार उवाच
प्रभावज्ञस्ततस्तेषां६७ पिता स मुनिपुङ्गव६८ ।
मेने तद्वै६९ तथा सर्वमनुमेने च तत्पुनः । ।३ १ ।।
अथासनानि बद्ध्वा ते युक्ता जग्मुस्तपोधनाः७० ।
ज्योतिर्भूतानपश्यच्च पिता तेषामतिद्युतिः । ।३२।।
स तु लेखं समादाय पुत्रान्स्वानभिचिन्तयन्७१ ।
काम्पिल्यमगमत्तूर्णं दिदृक्षुर्नृपसत्तमम् ।। ३३ ।।
स च राजा सालवना७२ दागतः प्राविशत्७३ पुरम् ।
ब्राह्मणो दूरत७४ श्चास्य तं लेखं समदर्शयत ।।३४।।
५४ यूयं मृगसंमुक्ता?- घ. । ५५ अनुक्रोश - घ. । ५६ गच्छत - घ. । ५७ पविपश्यत - क खः- परिपच्यत- घ । ५८ -.. स्त्वद्य निरामयान् - घ. । ५९ प्रयच्छाम - क. ख. । ६० येषु - क., घ । ६१ न शोचति - घ । ६२ तथा - ख । ६३ इम - क ख. । ६४ त - घ. । ६५ पुत्रमादाय - क- ख मंत्रमादाय - घ । ६६ धारयन्नेव - घ । ६७ प्रभावान्निर्गतस्तेषां - घ. । ६८ मुनिपुङ्गवः - क., ख. । ६९ तच्च - घ । ७० युक्तात्मानस्तपोधना. - घ. । ७१ परिचिन्तयन् - घ । ७२ राजा सालवनात् तस्मात् घ- । ७३ प्रविशन् - क. । ७४ ब्राह्मणैर्दूरत - क. ।
325
निमित्तानि च संलक्ष्य शुभानि स नराधिपः ।
लेखमानयतेत्युक्त्वा धारयामास तं रथम् ।।३ ५। ।
स पुरद्वारसंस्थस्तु रथेन महता तदा ।
ब्रह्मधन्व७५ धृतच्छत्रः७६ पञ्चाला७७ वीजिताननः ।।३ ६ ।।
गृहीत्वा लेखमव्यग्रमवाचयत७८ तं तदा ।
श्लोकद्वयं७९ चाप्यभवत्तस्मिँल्लेखे शुभप्रदम् ।।३७।।
ये ते गुरुकृताच्छापाद् गोवधेनावपीडिताः ।
पितृभक्त्या कृतज्ञाना८० जाताः सर्वे शुभोदयाः ।।३८। ।
सप्तव्याधा दशार्णेषु८१ मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शरद्वीपे८२ हंसाः सरसि मानसे ।।३ ९। ।
तेपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ । ।8.57.४० । ।
सनत्कुमार उवाच
श्लोकद्वयं८४ तथा८५ श्रुत्वा त्रयस्ते विषपीतवत् ।
मोहं तदा तु८६ संप्राप्य लब्धसंज्ञा विशन्पुरम् ।।४१।।
ते प्रविश्य पुरञ्चैव वेश्म८७ चैवाप्यतन्द्रिताः ।
इति चेति च संचिन्त्य८८ वनाय दधिरे मनः । ।४२। ।
सा च८९ पत्नी महाभागा अभिगम्य९० नराधिपम् ।
इदमाह मुदा युक्ता राजानं ससुहृज्जनम् । ।४३।।
भवान् योगेश्वरो भूत्वा सक्तो भोगेषु सर्वशः ।
प्रबोधार्थं ततोहन्ते क्रोधमाहारयन्तदा ।।४४।।
७५ पुरोधसा - ष । ७६ धृतं छत्रं - क. । ७७ पाञ्चाली - ख. । ७८ अवाचयत् - क. । ७९ श्लोक्त्रयमित्यन्यत्र । ८० हृतज्ञाना - क. । ८१ तु - क. । ८२ सरद्वीपे । ८३ तेभ्यः - क. ख. । ८४ श्लोकत्रयमित्यन्यत्र । ८५ तदा- - ख; । ८६ नु - ख. । ८७ वेश्यं - ख । ८८... नुता - क. वेनाय - ख. । ८९ सापि - क. । ९०. अधिगम्य ख; ।
326
जानामि त्वां रुतज्ञञ्च९१ जानामि त्वां खगन्तथा ।
अतोहं जानती राजन् प्रतिबोधार्थमुद्यता ।।४५।।
तस्माद्विप्रमिमञ्चैव तेषां पितरमव्ययम् ।
धनेन योजयस्वाद्य पुत्रं९२ राज्येभिषिच्य च९३ । ।४६। ।
श्वो गच्छाव९४ वनं राजन९५ मा कालं प्रतिपालय ।
राजा तत्कृत्यमखिलं९६ कृत्वा पत्न्या सहव्रतः९७ । ।४७। ।
जगाम वनमुद्दिश्य योगेन च दिवं ययौ ।
पंचालोपि गते तस्मिन् तपः कृत्वा सुदुश्चरम्९८ ।।४८ । ।
चकार पारणं९९ चैव यक्षत्वं१०० चाप्यवाप१०१ ह ।
ब्रह्मधन्वा च कालेन१०२ सुमहात्मा१०३ दृढव्रतः ।।४९। ।
हिमवत्तनयां देवीं तपसा समपश्यत१०४ ।
वरदां तां तदा दृष्टवा१०५ ब्रह्मधन्वाब्रवीच्छुभाम् ।।8.57.५० ।।
इच्छामि कामरूपित्वं१०६ त्वद्भक्तिं चैव१०७ नित्यदा ।
कृच्छ्रं महच्च प्राप्तस्य१०८ त्वयैवोद्धरणं ततः ।।५१ ।।
एवमस्त्विति सा चोक्त्वा जगामेष्टां गतिं तदा ।
बह्मधन्वापि मत्तोभून्मदनेन दुरात्मवान्१०९ ।।५२। ।
स भूत्वा धार्मिकः पूर्वमधर्मेणाभिपीडितः११० ।
अभिमेने१११ स कन्याश्च११२ ऋषीपत्नीश्च सर्वशः ।।५३ । ।
भर्तृरूपेण गत्वा च कामेन स विमोहितः ।
न च कश्चिद्विजानाति११३ तथा११४ वर्तन्तमन्तशः । ।५४। ।
अथ हाल११५ इति ख्यातो मृगचारी महातपाः ।
तस्य पत्नी सुधर्माभून्नाम्ना रूपवती११६ दृढम् ।।५५।।
९१ मृगी तं च - घ. । ९२ पुत्रो - ख. । ९३... भिषेच्यतां - ख.,. .ते - घ. । ९४ गच्छावो -क., गच्छाम - ख घ ।. ९५ राज्या (त्) - क. । ९६ तत्सर्वमखिलं - घ. । ९७ दृढव्रतः - घ. । ९८ सुदुस्तरम् - घ.. । ९९ परमं - ख., पावनं - घ. । १०० पञ्चत्वं - घ. । १०१ चैवमाप - घ. । १०२ कामेन - घ. । १०३ स महात्मा - घ. । १०४ तामपश्यत - घ । १०५ ब्रह्मन - घ. । १०६ कामरूपत्व - घ. । १०७ त्वद्भक्तत्वं च - ख । १०८ कृच्छ्रे महति संप्राप्ते - घ. । १०९ दुरात्मना - घ. । ११० तिपीडितः -ख । १११ अभिमाने - ख., अभिरेमे - घ. । ११२ शकल्याश्च - घ., कामाच्च - ख. । ११३ न कश्चित्तं- विजानाति - घ. । ११४ वृत्तं - घ. । ११५ काल - घ. । ११६ धर्मवती - क, ।
327
कथयन्ति हि तां देवाः सिद्धाश्च सह चारणैः ।
असमा रूपतोन्याभि११७स्त्रिषु११८ लोकेषु भामिनी११९ ।। ५६। ।
न च तस्य सभार्यस्य१२० अन्तरं स बुबोध ह ।
कस्मिन्१२१ काले भवेत्तस्या१२२ विरहः१२३ पतिना सह ।।५७।
स ब्रह्मधन्वा तां श्रुत्वा तथा रूपवतीं सतीम् ।
पत्यास्या विरहाकांक्षी व्याघ्ररूपं चकार ह ।।५८ ।।
कृत्वा च सुमहद्रूपं विकृतं भैरवं तदा ।
अत्रसयत् मृगान् व्यास दर्शनेन सुबालिशः१२४ ।।५९। ।
तद्१२५ व्याघ्रभयसंत्रस्तमृगयूथं तदा विभो ।
मनोनिलजवव्यग्र१२६मदृश्यं संप्रपद्यत ।।8.57.६० । ।
मृगैः सह च हालोपि१२७ जीवितैषी तदा गतः ।
सुधर्मा१२८ ब्राह्मणी सापि१२९ भयाद् व्याघ्रस्य भामिनी१३० ।।६ १ । ।
स्त्रीस्वभावाच्च पतिता१३१ नान्वगच्छन्मृगव्रजम् ।
एकाकिनीञ्च तां दृष्टवा ब्रह्मधन्वा दुरात्मवान् ।।६२।।
व्याघ्ररूपं समुत्सृज्य तामिदं प्रत्यभाषत ।
मृदुना सान्त्वयुक्तेन१३२ वचसा भयपीडिताम् ।।३ ३ ।।
मा भीर्भवतु ते भद्रे१३३ पतिस्तेहं सुमध्यमे ।
मृगराजो गतोसौ च समाश्वस मम प्रिये ।। ६४।।
तं समाश्वस्य सापश्यत् पतिरूपं महायशा ।
हृदा चाचिन्तयद्१३४ दृष्टो मयासौ तैर्मृगैः सह ।।६५ ।।
जीवितैषी पलायन् वै१३५ कुतोयं पुनरागतः ।
देवेन्द्रो मा दुराचारः सदा धर्ष१३६त्यतन्द्रितः ।।६६।।
११७ रूपेणासमतां - ख., अभिरेमे स तां चापि - घ. । ११८ स्त्रीषु - घ. । ११९ भाविनी - ख. घ. । १२० न स तस्याः शुभापांग्या - ख घ. । १२१ तस्मिन् - क., यस्मिन् - ख. घ. । १२२... भवत्तस्या - घ. । १२३ विवाहः - घ । १२४ दिवानिशं - घ । १२५ तं - घ. । १२६ मनोनिलवदव्यग्र - क. ख., मनोनी.. - घ. । १२७ सहचरः सोपि - घ. । १२८ सुधन्वा - घ. । १२९ चापि - घ. । १३० कामिनी - ख. । १३१ पतिना- घ. । १३२ शन्तियुक्तेन घ. । १३३ भद्रं मे (ते) - क ख । १३४... पचिन्तयद् - ख. । १३५ पलायँश्च - ख. । १३६ धर्त्तु - क. खः. । धर्षं? ।
328
सोयं कामयितुं प्राप्तः किन्न स्यादन्तरैषिवान् ।
तस्माद् द्रक्ष्याम्यहं सम्यग् दुष्टं दिव्येन चक्षुषा।।६७।।
सनत्कुमार उवाच
एतस्मिन्नन्तरे सोथ ब्रह्मधन्वा करेग्रहीत् ।
तामिदं चोचिवान् हष्टः१३७ किं त्वं चिन्तयसे हृदा ।।६८। ।
न मामालिङ्गसेद्य त्वं१३८ मृत्योरास्याद्विनिर्गतम्१३९ ।
ननु तेहं प्रियो भर्ता मा क्रुधो वरवर्णिनि ।।६९।।
ततस्तां स तदा दौष्ट्यात् कपोले समजिघ्रत ।
परिष्वज्य च दुष्टात्मा गात्रैर्गात्राण्यपीडयत् ।।8.57.७०।।
नीवीं व्यस्रं सयच्चैव१४० अधरं चापिबद् बलात् ।
बुबुधे सा च तं दुष्टं कर्मणा तेन शोभना ।।७१ ।।
सुधर्मोवाच
न त्वं मम पतिर्मूढ शक्रस्त्वं नात्र संशयः ।
न भूयो१४१ मदनस्यास्मि१४२ विषयोहं१४३ सुदुर्मते।।७२।।
स तयाप्येवमुक्तस्तु अवधूतश्च सर्वशः ।
पपात धरणीपृष्ठे स्वं च रूपं प्रपद्यत ।।७३। ।
ततः सा क्रोधताम्राक्षी धक्ष्यमाणेव चक्षुषा ।
निरीक्ष्य वदनं सुभ्रूरिदं वचनमब्रवीत् ।।७४। ।
ऋषिपत्न्यस्त्वया बह्व्यो व्यंसिताः दुष्टचेतसा११४ ।
न मादृशी त्वया काचिदन्या ह्यसादिता१४५ पुरा ।।७५।।
इदानीं कर्मणस्तस्य पूर्वमाचरितस्य ते१४६ ।
फलं प्राप्तमिदं पश्य मत्सकाशाद् दुरासदम्१४७. ।।।७६।।
१३७ दृष्टवा - ख., धृष्ट? । १३८ सोहमालिंग हेभद्रे - ख. । १३९ विनिर्गतः - - ख. । १४० विस्रंयच्चैव - क. ख., विस्रंसयँश्चैव - ख. । १४१ न भये -ख, उभयो. क. । १४२. .स्ति -.क. व. । १४३ बिक्षयोर्ध्वं - ख, विषमेर्ध्वं - क. । ' १४४ दुष्टचेतसः - क, । १४५.. .प्यासादिता - ख. । १४६ च - ख. । १४७ दुरासद - क. ख. ।
329
यदेव रूपं कृत्वा त्वं१४८ मृगानत्रासयो१४९ बलात् ।
विचरिष्यसि तेनैव रूपेण बहुलाः समाः । ।७७। ।
अशक्तश्चापि हन्तुं त्वं भविता मानुषं१५० क्वचित् ।
षष्ठे च काले संप्राप्ते मृगं भक्ष्यमवाप्स्यसि ।।७८। ।
सनत्कुमार उवाच
अभिव्याहृत्य तं क्रूरं शुभाचारा मनस्विनी ।
जगाम तान्मृगाँस्त्वेव ततः पतिमपश्यत । ।७९। ।
सोपि दुःखेन सन्तप्तो मन्वानस्तां हतेति१५१ च ।
विलपन्नेव१५२ तां दृष्टवा परिष्वज्येदमब्रवीत् ।।8.57.८० ।।
दिष्ट्या त्वमसि संप्राप्ता मृत्योरास्याद्विनिःसृता ।
कच्चिन्न तेन दृष्टासि मृगराजेन शोभने । ।८१ । ।
सुधर्मोवाच
नासौ मृगेन्द्रो दुर्बुद्धिः कोप्यसौ कामरूपवान् ।
मदर्थं१५३ समनुप्राप्तो मया१५४ दग्धः पतङ्गवत् ।।८२। ।
स शापान्मम दुष्टात्मा१५५ शार्दूलप्रकृतिं गतः ।
राजेव शक्तिशापेन सौदासो राक्षसीं तनुम् । ।८३ । ।
सनत्कुमार उवाच
तस्यास्तद्वचनं श्रुत्वा हालो धर्मार्थतत्त्ववित् ।
दिव्येन चक्षुषापश्यद् ब्रह्मधन्वानमव्ययम्१५६ । ।८४।।
तामुवाच सतीं भार्यामिदं स करुणात्मकः ।
कृतं दुष्टं त्वयात्रेयि सद्भिः कर्म विगर्हितम्१५७ ।।८५।।
महतस्तपसस्तेद्य क्षयोयं सुमहान् कृतः ।
न दुष्यन्ति स्त्रियः साध्वि नद्यो यद्वद् विगाहनैः१५८ ।।८६।।
१४८ सो (दौ?) - क., तु - ख. । १४९... नत्रासयद् - क ख । १५० मानुषान् - क. । १५१ मत्वातस्तां हतेति च - क., प्रियां पत्नीमचिन्तयत् - ख. । १५२ विललाप च - क. । १५३ मदनं - क । ५५४ समनुप्राप्तस्ततो - क. । १५५ शापाद् दुष्टकर्मासौ - ख. । १५६.. मप्युत - ख. । १५७ सर्वं - क । कर्मसङ्गिन् विगर्हितम्? । १५८ द्धिजन्तुभिः - क., द्विजान्तवैः - ख. ।
330
न चैव शक्यं१५९ धर्मेण संगुप्तां त्वां प्रमर्दितुम्१६० ।
यथा विषेण संछन्नमन्नं भोक्तुं हि मानवैः । ।८७। ।
अत्र ते वर्त्तयिष्यामि पुरावृत्तं महातपे ।
यत् पतिव्रतया पूर्वं कृतं दीप्तेन तेजसा ।।८८। ।
आसीद् भलन्दनो१६१ नाम ऋषिः परमधार्मिकः ।
विद्वाँश्चैव१६२ दयावाँश्च पृथिवीवद् व्यवस्थितः१६३ । ।८९ ।।
ऋग्नाम्नी१६४ तस्य भार्याभूद् वासिष्ठी पुण्यलक्षणा ।
रूपेणाप्रतिमा साध्वी न तस्याः स्त्रीः१६५ समा क्वचित् ।।8.57.९० । ।
पतिव्रता महाभागा सर्वधर्मविदुत्तमा ।
तस्याः पतिमृते नान्यद्दैवतं भुवि विद्यते ।। ९१ । ।
अपश्यत कदाचिद्वै देवास्तौ कमलेक्षणाम् ।
तस्या रूपगुणोन्मत्ता१६६ लेभुर्न१६७ धृतिमेकशः । ।९२। ।
न शक्यते च सा प्राप्तुं न दूतीभिर्न कर्मणा१६८ ।
न दानेन१६९ न संमानै१७० र्न बलेन न सेवया ।।९३ ।।
वह्निस्तामग्न्यगारस्थां१७१ प्रविष्टामग्रहीच्छुभाम्१७२ ।
न चापि१७३ साहमस्मीति१७४ न च नास्मीत्यथा१७५ब्रवीत् ।।९४।।
न क्रोधो नापि दर्पोस्या न मानो१७६ न च मत्सरः१७७ ।
तस्याः प्रियमभून्नान्यत् पतिमेवान्वचिन्तयत्१७८ । । ९५ ।।
विभावसुरपि१७९ व्यक्तमियं मामिच्छतीति ह ।
अभ्युपेत्य न१८० दुष्टेति१८१ भावेन सुरसत्तमः१८२ ।।९६। ।
अथ हित्वा स्वकं देहमदेहः१८३ समपद्यत ।
एवं वै भास्करो वायुर्वरुणश्चन्द्र एव च ।।९७। ।
१५९ शक्तो - क ख. । १६० प्रधर्षितुं - घ । १६१ भलन्दलो - क, भगन्दलो - ख. । १६२ सिद्धश्चैव - ख. । १६३ पृथिव्यामध्यवास्थितः - ख. । १६४ ऋन्नाम? - क, ऋग्नामा - ख. । १६५. सीत् - ख. । १६६ रूपगु- णैर्मत्त-। - ख. । १६७ लेभिरे नैकशो धृतिमिति लेभिरे नैव ते धृतिमिति वा पाठः साधीयान् स्यात्। १६८... भूतैर्न कर्मणा - क. घ. । १६९ दान्येन - क । १७० - -चान्येन - क। १७१... मग्रतीरस्थां - ख. । स्थः? । १७२ मतनीच्छुभाम् ख। १७३ चाहं ख। १७४ मस्तीति क., मास्मेति (?), १७५ तथा - ख । १७६ न च मानो क, ख। १७७ न मत्सरः - क ख. । १७८... भ्यचिन्तयत् - घ. । १७९.. मपि - ख । १८०..न्न - कः, नु - ख. । १८१ न - ख । १८२ मं - ख. । १८३ देहं विदेहः - घ. ।
331
सर्वे विदेहाः संवृत्तास्ततस्तां संप्रसादयन् ।
सापि तान्नावदत् किञ्चित् पुरुषानघशंकया१८४ । ।९८ । ।
भर्तुश्चाकथयत् सर्वं स तानिदमुवाच१८५ ह ।
इयं पत्नी महाभागा मम सर्वाङ्गसुन्दरी । ।९९। ।
नेयं कुप्यति युष्माकं जाने१८६ ह्यस्या व्रतं शुभम् ।
मत्तोपि वो भयं नास्ति नाहं कुप्ये कथञ्चन ।। 8.57.१०० ।।
मत्प्रसादाद्विदेहापि देहवन्तो भविष्यथ ।
ततस्ते देहवन्तो वै तुष्टुवुस्तं भलन्दनम्१८७ । । १०१ । ।
ऊचुर्वरं वृणीष्वाद्य तुष्टाः स्मस्तव१८८ सर्वथा ।
सोवाच रजसा१८९ नार्यः१९० शुद्ध्यन्तु१९१ मदनुग्रहात् ।। १०२ ।।
कर्मणा च विमुच्यन्तां१९२ व्यवहार्या भवन्तु च ।
सर्वशौचा भवेयुश्च अदुष्टाः सर्वकर्मसु१९३ ।। १०३ । ।
हाल१९४ उवाच
ततस्ते तं नमस्कृत्य सभार्यं१९५ ब्रह्मवादिनम् ।
जग्मुर्देवाः प्रशंसन्तः सर्वे१९६ वह्निपुरोगमाः । । १ ०४। ।
एवं त्वमपि धर्मज्ञे१९७ नित्यं पतिमनुव्रता ।
कस्त्वां समर्थो देवोपि स्प्रष्टु१९८मन्ये१९९ कुतो जनाः२०० ।।१ ०५। ।
तीर्थभूताः स्त्रियश्चापि न दुष्यन्ति कथञ्चन ।
मद्रूपं कृतवान् यस्मात्तस्माच्छापं न चार्हति२०१ । ।१ ० ६। ।
तस्मात्करिष्ये तस्याहमदृष्टस्यापि२०२ शोभने२०३ ।
अनुग्रहं धर्मयुक्तं येन श्रेयो ह्यवाप्स्यति२०४ ।। १ ०७। ।
१८४ न्यर्त्ति... - क.,.. त्मनः - ख, परिशंकया - घ. । १८५ तामिदमुवाच - क. । १८६ सत्वं - घ. । १८७ भलन्दलं - क., भगन्दलं - ख । १८८ तव - क । १८९ वचनं - घ. । १९० स्त्रीणां - ख. । १९१ शुद्धिः स्यानृ... - ख. । १९२ मनोवाक्कर्मभिर्मुक्ता - ख. । १९३ पवित्राः सर्वतः शुद्धाः स्त्रिय एव हि कर्मसु - ख. । १९४ सन. - क. । १९५ संभाष्य - घ. । १९६ इन्द्रपुरोगमाः - घ । १९७ धर्मज्ञा - क. । १९८ द्रष्टुं - घ. । १९९... मन्यत् - क. ख., मन्यः - घ । २०० जनः - क. घ । २०१ च नार्हति - क. घ. । २०२... मदुष्टस्यापि - घ.,.. न्दुष्टस्यापि करिष्यति - ख । २०३ हि शोभते - ख. । २०४ यमाप्स्यसि - ख. ।
332
व्याघ्रस्यापि प्रिये तस्य स्मृतिर्नित्यं भविष्यति ।
सर्वकार्येषु२०५ धर्मेषु२०६ धर्मेण च चरिष्यति२०७ ।।१ ०८।।
यतोस्य२०८ कामरूपित्वं येन मत्तः सदा ह्यभूत् ।
तत एव पुनः श्रेयः प्राप्स्यते मदनुग्रहात् ।। १०९।।
सनत्कुमार उवाच
स एष व्यास२०९ दुष्टात्मा विश्वामित्राश्रमे रतः ।
अग्रारण्ये२१० सदा ह्यासीद्देव्या गणापतिः कृतः ।।8.57.१ १ ०।।
य इदं२११ तस्य माहात्म्यं धारयेच्छ्रावयीत वा ।
सततं ब्राह्मणं२१२ व्यास योगैश्वर्यमवाप्नुयात् ।।१ १ १।।
योगेश्वरत्वं कांक्षद्भिरेतदध्येयमन्तशः ।
जन्मान्तरं समासाद्य प्राप्नुवन्ति न संशयः ।।११२।।
शृणुयाच्च इमं सततं प्रयतः शुचिरेकमना मनुजः२१३ ।
प्रियवत्स हि शक्रसमानवपुः सुकृतेन कृतेन पुमान्२१४ ।।१ १ ३।।
इति स्कन्दपुराणे सप्तपंचाशोध्यायः
व्यास उवाच
वरान् गृहीत्वा रुद्राणी१ तस्मिञ्छिखरिसत्तमे२ ।
अकरोत् किमिति ब्रूहि सर्वं देव्या विचेष्टितम् ।।१।।
सनत्कुमार उवाच
स्वयम्भुवि गते देवी तपसो विरराम ह ।
सा तुष्टा वरलाभेन४ चिन्तयन्ती तदा वरम् ।।२।।
न्यवैक्षत५ दिशः सर्वाः प्रसन्नवदनेक्षणा ।
कस्यैतत्६ कथयामीति देवं हित्वेति चाब्रवीत् ।।३ ।।
२०५ सर्वाः कार्येषु - क. । २०६ ष्वधः?, धर्म्येषु? । २०७ करिष्यति च - घ., करिष्यति - क, तत्तथा - घ. । २०८ जातोस्य - घ. । २०९ एष एव स - घ. । २१० अग्न्यारण्ये - घ । २११ इमं - क ख. घ । २१२ ब्राह्मणान् - घ। २१३.. प्रिय. - क. । २१८ मनुजस्स जहाति अधर्मकृतं ससुरेन्द्र- पुरं व्रजते - क. घ ख ।
१ शर्वाणी - घ. । २ शिखर - क. । ३ देव्या सर्व - घ. । ४ वरदानेन - क ख घ । ५ न्यवेक्षत - ख, न्यरीक्षत - क, निरीक्ष्य च - घ. । ६ कस्यैनं ( नत् ?) - क. ।
333
शास्त्रज्ञं कञ्चिदुद्दिश्य७ यथार्थं८ शास्त्रचिन्तकः९ ।
पुत्रलभ्भकृतं१० हर्षं चिन्तयन्त्या मुहुर्मुहुः । ।४।।
अपतज्जलमत्यर्थं११ शीतलं सु१२ सुगन्धि च ।
बह्वभूत् सरसि स्वच्छं तस्यास्तत्तेजसा जलम् । । ५ । ।
शिष्ये बुद्धिगुणेनेव१३ गुरुणा ज्ञानमाहितम् ।
विगाहमाना सा देवी तत्सरो विमलोदकम् । । ६ । ।
रेजे वियन्मध्यगता दीप्तेव सवितुः प्रभा ।
विगाहमाना व्यजहत् कृष्णां कोशीं तदानघा । ।७। ।
सा विरेजे तया मुक्ता कलेवेन्दोर्घनात्यये ।
तस्याः१४ कोश्याः१५ समभवत् कौशिकी लोकविश्रुता ।
विश्वं सिसृक्षतो धातुर्देहादिव पुरा निशा । ।८। ।
विम्बाधरा तीक्ष्णसुचारुदंष्ट्रा प्रसन्नताराधिपचारुवक्त्रा ।
सुजातनीलांचितदीर्घकेशी किञ्चित्समभ्युन्नतरोमराजी ।।९। ।
सुसंस्थिताभ्यां चरणाम्बुजाभ्यां प्रदक्षिणावर्तनिमग्ननाभिः ।
विगूढजान्वस्थिशिरा सुगुल्फा विनाकृतेवाम्बुरुहेण१६ लक्ष्मीः । । 8.58.१० ।।
प्रसन्नरूपा प्रथमोद्गतस्तनी प्रफुल्लनीलाम्बुजचारुलोचना१७ ।
सुसंस्कृतैर्वज्रमणिप्रवेकिभिर्विभूषिता चाभरणै१८ स्सुमध्यमा ।। ११ ।।
साङ्गदा बद्धकेयूरा१९ कटकोद्भासितत्विषा२० ।
बिभर्त्ति सा भुजानष्टौ सायुधानपराजिता ।। १२ । ।
बद्धगोधाङ्गुलित्राणा कवचं बिभ्रती शुभम्२१ ।
दुर्भेद्यं२२ सहजं भास्वत् सेन्द्रैरपि सुरासुरैः ।।१ ३ ।।
निबद्धतूणीरयुगा२३ प्रगृहीतशरासना ।
वसाना पद्मकिञ्जल्करुचिरे वाससी तदा । ।१४। ।
७ किंचिदुद्दिश्य - घ. । ८ यथार्हं - घ. । ९... चिन्तकम् - घ । १० पुत्रलाभकृतं घ । ११.. च्च जलं सद्यः- घ. । १२ च (?) । १३ शिष्यैर्बहुगुणेनैव - क. । १४ तस्यां - क । १५ कोश्यां - क। । १६... वाम्बुरूहेव - क । १७ प्रसन्ननीलाम्बुजचारुनेत्रः- - घ. । १८ विभूषितेवाभरणैः - ख., विभूषितैर्वा - क,?.. तैराभरणैः - घ । १९ वज्रकेयूरा - घ. । २० करकोद्भासितत्विषा - क ख. । २१ शुभा - घ. । २२ दुर्भेदं - घ । २३... युग्मा - घ ।
334
जानुभ्यामवनिं गत्वा शिरस्याधाय चाञ्जलिम् ।
व्यज्ञापयत सा देवी ब्रूहि किङ्करवाणि ते ।। १ ५। ।
मूर्ध्न्युपाघ्राय तां देवीं परिष्वज्य च पीडितम्२४ ।
भवानी प्राह संहृष्टा२५ मूर्त्तिस्थानं२६ ममाव्यये ।।१ ६। ।
जरामरणहीना त्वं शोकदुःखविवर्जिता ।
भविष्यसि महायोगा संयुगेष्वपराजिता ।। १७। ।
कौशिकीति च नाम्ना त्वं लोके ख्यातिं२७ गमिष्यसि ।
अन्यैश्चनामभिः श्लाघ्यैर्गुणकर्माभिसंश्रयैः ।।१८।।
तव भक्ताः२८ स्मरिष्यन्ति येति२९ दुर्गेषु संस्थिताः ।
दुर्गाणि ते तरिष्यन्ति त्वत्प्रसादाद्वरानने । ।१९। ।
वरा वरेण्या वरदा दुर्गा३० सर्वार्थसाधनी ।
इत्थं त्वां नामभिर्दिव्यैः स्तोष्यन्ति मुनयः सदा । ।8.58.२० ।।
जापैः प्रणतिभि३१र्होमैरुपहारैः पृथग्विधैः ।
प्राणिनः पूजयिष्यन्ति भवतीं भुवि सर्वदा ।।२१ ।।
सिंहयुक्तं ततो३२ देवी३३ रथमादित्यवर्चसम् ।
ससर्ज सपताकं च किंकिणीजालमण्डितम् ।
विन्ध्यं गिरिवरं चास्या निवासाय समादिशत् ।।२२। ।
सनत्कुमार उवाच
सैव३४ मुक्ता तदा देवी प्रणम्य भुवनेश्वरीम् ।
आरुरोह रथं दिव्यं कार्तस्वरमयं शुभम् । । २३ ।।
व्योमगेन रथेनाथ नानारत्नांशुमालिना ।
जगामाशु ततो विन्ध्यं नानाद्रुमलतान्वितम् । ।२४। ।
२४ निपीडितम् - ख., निपीडितां - घ. । २५ संयुक्ता - क ख, घ । २६ मूर्त्तिस्थासि - घ. । २७ ख्यांति- लोके - घ. । २८ भक्त्या - क. । २९ येपि - ख । ३० वरेण्या वरदा दुर्गा वरा - ख. । ३१ जप्यैः प्रणामैः - घ. । ३२ महद् - क, महा - घ. । ३३ दिव्यं - क ख. घ. । ३४ एवमुक्ता - क. ख. घ. ।
335
विहङ्गविरुतै३५र्विन्ध्यः स्वागतेनेव३६ कौशिकीम् ।
अपूजयदमेयां तां तत्र प्राप्तां तदानघाम्३७ । ।२५।।
वारिभिर्विमलैः शोक्तंनिर्झरोदरनिःसृतैः३८ ।
स पुष्पनिकरैः पुण्यैरर्घञ्चास्यै ददन्निव । । २६। ।
अथ मृगपतिनागं त्रस्तपर्यन्तनागं
चकितहरिणयूथक्षुण्णदर्भाङ्कुराग्रम् ।
वरमहिषविषाणच्छिन्नगुल्मावतानं
गिरिवरमति रम्यं कौशिकी साभ्यपश्यत् । ।२७।।
व्यरोचयत सा३९ देवी वासाय शिखरं गिरेः४० ।
उत्फुल्लं४१ पादपालीनविहङ्गगणनादितम्४२ । ।२८। ।
निर्झरोदकसंपर्कहरितोपलशाद्वलम् ।
नानाद्रुमलतापुष्पसुरभीकृतमारुतम् ।। २९ ।।
तुहिननिकरशीतैर्निर्झराम्बुप्रवाहै-
र्निचितपृथुनितम्बोत्तुङ्गपर्यन्तसानुम् ।
गिरिवरशिखरं तत्साध्युवासाथ देवी
कुसुमिततरुशाखाश्लिष्टमत्तद्विरेफम् । ।8.58.३ ० । ।
य इदं४३ पठते नित्यं शृणुयाद्वा समाहितः ।
कौशिक्याः संभवं सम्यक् स याति परमां गतिम् ।।३ १ ।।
इति स्कन्दपुराणे कौशिकीसम्भवो नाम अष्टपञ्चाशत्तमोध्यायः
सनत्कुमार उवाच
ततस्तां कौशिकीं तत्र प्रस्थाप्य हिमवत्सुता ।
विरेमे तपसस्तीव्रात् सस्नौ च विधिवत्तदा ।।१ । ।
३५ विकलै (विहङ्गमकलै?) - घ. । ३६.. नेह - क. । ३७ उमाम् - घ । ३८ निर्झरोदकनिःसृतैः - क. ख. । ३९. .त्तदा - घ. । ४० गिरौ - क. । ४१ तत् फुल्ल घ. । ४२... वादितम् - क, ख. । ४३ इमं - क. ख. ।
336
वसाना वाससी शुक्ले१ दिव्य२ स्रगनुलेपना ।
पार्श्वस्थं पर्वतं वीक्ष्य प्रोवाच वरदास्मि ते । । २।।
एवमुक्तवतीं४ देवीं५ शिखरी६ मूर्त्तिमान्७ तदा ।
प्रणिपत्य वरं वव्रे मयि सान्निध्यमस्तु८ ते ।।३ । ।
नाम चैव मम ख्यातिं तव नामा९ भिलक्षितम् ।
यातु लोकेषु सर्वेषु त्वत्प्रसादान्महेश्वरि । ।४।।
अग्निश्च वरदां वव्रे मागाः कोपं मयीश्वरि ।
सदा पुष्पफलत्वं च वृक्षास्तां तत्र वव्रिरे ।।५। ।
सुप्रसन्ना भवास्माकं त्वयि भक्तिश्च नोस्त्विति ।
ततस्तां वव्रिरे देवीं सर्वाश्च परिचारिकाः१० । ।६ ।।
उपास्यमाना बह्वीभिर्देवताभिर्गिरीन्द्रजा ।
अभिभूयान्यतेजांसि भानवीव११ बभौ१२ प्रभा । ।७।।
हृदयेपि स्थिता पत्युः पत्यौ१३ हृदयसंस्थिते ।
सा वै गिरीन्द्रतनया वियुक्ता१४ स्मीत्यमन्यत ।।८। ।
अथ सा तेजसां धाम१५ पतिं सर्वजगत्पतिम् ।
वरदा वरदं द्रष्टुं गमनायोपचक्रमे । ।९।।
नमस्कृता तद्वनदेवताभिः१६ प्रदक्षिणीकृत्य समिद्धमग्निम् ।
ऋषीँस्ततो वन्द्यतमाभिवन्द्य जनञ्च तेषां प्रतिपूज्य पूज्यम् ।।8.59.१ ० । ।
उत्पपात ततो व्योम सा सार्द्धं सोमनन्दिना ।
सिंहेन च१७ जगद्धात्री गणैः परिजनेन च । । ११ । ।
१ शुभ्रे - घ । २ दिव्यगन्धानुलेपना - घ. । ३.. स्थमचलं - घ.,... स्थमथ संवीक्ष्य - क. । ४.. मुक्तवती - ख. घ. । ५ देवी - क. ख घ. । ६ शिखरो - घ., शिखरं - ख. । ७ मूर्तिमत् - क. ख. घ.,... माँस्तदा - घ. । ८ सान्नैध्यमस्तु - क. । ९ नाम्ना - घ । १० परिचारकाः - क. । ११ भवानी - क., भवानी च - घ. । १२ विबभौ - क., ददौ - घ. । १३ पतौ - क । १४ विमुक्ता - क. । १५ धामं - क. । १६ सा वरदेवताभिः - घ. । १७ सिंहेनैव - क.,.. .नैव - घ. ।
337
वियति जलदवृन्दान् विक्षिपन्ती स्वधाम्ना
हिमजलकणशीतैर्वीज्यमाना मरुद्भिः ।
गिरिवरतनया सा पत्युरेव स्मरन्ती
मदनदहनमूर्तेराशु पार्श्वं जगाम ।। १२ । ।
इति स्कन्दपुराणे ऊनषष्टितमोध्यायः
सूत१ उवाच
अथासौ ब्रह्मणः पुत्रं व्यासः प्राह कृताञ्जलिः ।
किमर्थं कौशिकी विन्ध्यं देव्या संप्रेषिता तदा । । १ । ।
एवमुक्तस्तदा धीमान् व्यासेन ब्रह्मणः सुतः ।
यथावृत्तं पुरा सर्वमाख्यातुमुपचक्रमे ।।२ । ।
आरिराधयिषुर्देवीं विन्ध्यस्तेपे पुरा तपः ।
ततस्तुष्टाब्रवीन्विन्ध्यं पार्वती वरदास्मि ते । ।३ । ।
मयि वासोस्तु ते नित्यमेवमादित्यरोधनः ।
वव्रे गिरीन्द्रतनयां प्राह सा च तथास्त्विति ।।४।।
स्वतनुं सा द्विधाभूता२मग्नेर्दीप्तां शिखामिव ।
दाहाय दानवेन्द्राणां प्राहिणोत् कौशिकीमतः३ । ।५ । ।
अथ तं ब्रह्मणः सूनुमुवाच मुनिसत्तमः ।
गिरिर्विन्ध्यो महाप्रज्ञ४ कथमादित्यरोधनः । । ६। ।
सनत्कुमारः प्रोवाच पृष्टो व्यासेन धीमता ।
शृणु यस्मादभूद्विन्ध्यो गिरिरादित्यरोधनः । ।७ ।।
पुरा विन्ध्योब्रवीत् सूर्यं कस्मात्त्वं न करोषि माम्५। ।
प्रदक्षिणं यथा मेरुं का तेवज्ञा मयि प्रभो६ । ।८।।
१ व्यास उ. - क, सनत्कुमार उ. - घ. । २ द्विधीभूता - क ख. । ३ कौशिकी ततः - घ. । ४ महाप्रज्ञः - क. । ५ किमवज्ञां करोषि मां - घ. । ६ प्रभो - क. ।
338
स उवाच तदा विन्ध्यं नैवं कर्तुं हि शक्यते ।
प्रत्याख्यातः स सूर्येण विन्ध्यो गिरिरवर्धत ।
रुद्धा तस्य स्थितो मार्गं७ तस्मादादित्यरोधनः । ।९ ।।
नष्टालोके ततो लोके देवाः संविग्नचेतसः ।
अगस्त्यमुपसंगम्य वाक्यमूचुः समाहिताः । । 8.60.१० । ।
सवितुर्मार्गमावृत्य गिरिर्विन्ध्यो व्यवस्थितः ।
तं वारय महाप्राज्ञ गतिर्नः सर्वदा भवान् । । ११ ।।
ततो८गस्त्यो गिरिं गत्वा प्रोवाचेत्थं महातपाः ।
यास्यामि दक्षिणामाशां पन्थानं देहि पर्वत ।। १ २।।
यावत्प्रतिनिवर्त्तेयं९ तावच्च१० स्थातुमर्हसि ।
ततः प्रभृति चैवेह नाभूदागमनं मुनेः ।।१ ३।।
अथ पप्रच्छ तं व्यासः पितामहसुतं प्रभुम् ११ ।
कौशिकी प्रहिता विन्ध्यं दानावानां विनाशने ।।१४।।
के ते१२ कस्य किमर्थं वा कौशिक्या दानवा हताः ।
एतत् सर्वं समासेन मुने१३ मे वक्तुमर्हसि ।।१ ५।।
पितामहसुतो धीमान् व्यासेनैवं१४ प्रचोदितः ।
प्रश्नमेतं१५ समासेन व्याख्यातुमुपचक्रमे ।। १६ । ।
देवासुरे पुरातीते संयुगे परमाद्भुते ।
सुन्दो निसुन्दश्च सुतौ निशुम्भस्य बभूवतुः । । १७। ।
हतान् निशम्य तौ बन्धून्सुरैः सर्वान्महाहवे ।
देवान्प्रति सुसंक्रुद्धौ गर्जन्तौ गोवृषाविव ।। १८ ।।
सिंहाविव महासत्त्वौ हृतदंष्ट्रानखायुधौ१६ ।
श्वसन्तौ सविषावुग्रौ भग्नदंष्ट्राविवोरगौ ।। १९।।
अशक्तौ तौ सुरैर्योद्धुं हतपक्षौ महासुरौ ।
सुपर्णाविव संक्रुद्धौ छिन्नपक्षौ महाबलौ ।।8.60.२ ० ।।
७ मार्गे - घ. । ८ तस्या - क., अगस्त्यः सुमहातेजास्तत्र गत्वाब्रवीद्वचः - घ । ९ यावच्च न निवर्तेयं (?) । १० त्वं - घ. । ११ प्रभुः - क. । १२ कृते - घ. । १३ मुने - घ., प्रश्नं - क. ख. । १४ व्यासेनैव - क. । १५ प्रश्नमेनं - घ. । १६ कृतदंष्ट्रानाखायुधौ - घ. ।
339
- - - णः१७ सुतौ चैतौ१८ गोकर्णं प्रति जग्मतुः ।
आरिराधयिषू देवं ब्रह्माणममितौजसौ । ।२ १ ।।
अथोवाच ततो व्यासो गोकर्णं कथयस्व मे ।
कस्मिन्देशे किमर्थं वा केन वोत्पादितं१९ पुरा ।।२२।।
प्रोवाच ब्राह्मणः सूनुर्व्यासेनैवं प्रचोदितः ।
शृणु वत्स समासेन पुण्यं गोकर्णसंभवम् ।।२३ । ।
हते त्रिशिरसि त्वष्टा पुत्रे ज्यायसि वज्रिणा ।
बृत्रं२० नाम ततः२१ पुत्रमसृजत्तपसां निधिः२२ । ।२४। ।
प्रलम्बबाहुं वृत्तास्यं पीनविस्तीर्णवक्षसन् ।
सुश्लिष्टजानु सहनुं जलदध्वाननिस्वनम् ।।२५। ।
स्वक्षं सुपार्श्वं सुकटिं दीर्घरक्तान्तलोचनम् ।
समरे सर्वदेवानां जेतारमपराजितम् । ।२६ ।।
स निर्जित्यामरान् सर्वान् जग्रासेन्द्रं महाद्युतिः ।
ततो महर्षिभिः सृष्टा जृम्भिका तं समाविशत् ।।२७।।
तस्याथ जृम्भमाणस्य निर्जगाम शतक्रतुः ।
वदनादाशु२३ संक्षिप्य स्वां तनुं योगमायया । ।२८ ।।
तस्य योगबलं दृष्ट्वा वीर्यं शौर्यं च संयुगे ।
ततो भीताः सुराः सर्वे ब्रह्माणं शरणं ययुः । ।२९। ।
तान्दृष्ट्वा स तदा भीतानमरान् सुरविद्विषः ।
प्रोवाचाशु२४ प्रजेशानः पद्मयोनिः पितामहः ।।8.60.३ ० । ।
पराजितान् वो जानामि वृत्रेण रणमूर्धनि ।
उपायं तं न पश्यामि येनासौ जीयते युधि । ।३ १ः ।
यास्याम२५ सहिताः सर्वे देवं द्रष्टुमुमापतिम् ।
विश्वेश्वरं विधातारं वरदं भक्तवत्सलम् ।।३ २।।
१७ न पश्यंतौ (तपस्यन्तौ?) - घ । १८ चेतौ - क., चोभौ - घ. । १९... त्पादितः - क. । २० वृन्दं - क. । २१ पुनः - ख । २२ निधिम् - क. ख. । २३ वरदानात्तु - घ. । २४ प्रोवाचासौ - घ. । २५ यास्यामः - ख. ।
340
स नः प्रणामैर्भक्त्या च स्तुत्या चाराधितः प्रभुः ।
महादेवो महायोगी२६ शम्भुः शान्तिं विधास्यति ।।३३।।
अथोत्तस्थुः सुराः सर्वे देवदेवं दिदृक्षवः ।
अपश्यन्तो विचेरुश्च महीं सोदधिपर्वताम् ।।३४।।
अथ विष्णुर्महायोगी देवीं हिमवतः सुताम् ।
अपश्यत् पांशुदिग्धाङ्गीमासीनां बालरूपिणीम् । ।३५।।
लेखामिव नवामिन्दोः प्रातः सूर्यप्रभामिव ।
हविषा हूयमानस्य तन्वीमग्नेः शिखामिव ।।३६।।
विज्ञाय स तदा योगान्महायोगां सुरेश्वरीम् ।
ईश्वरो जगतो विष्णु२७र्जिष्णुस्तुष्टाव पार्वतीम् ।।३७।।
विष्णुरुवाच
त्वं स्रष्ट्री२८ सर्वभूतानां संहर्त्री त्वं सुरेश्वरि ।
त्वमस्य जगतो धात्री नित्या प्रकृतिरव्यया । ।३८।।
त्वं प्रभा शर्वरी ज्योत्स्ना कीर्तिस्तुष्टिरुमा धृतिः ।
बुद्धिमेधा स्मृतिः प्रज्ञा सन्ध्या कान्तिः स्तुतिर्मतिः ।।३९।।
त्वमीशा देवि देवानां गणमाता गणाम्बिका ।
भद्रकाली महागौरी कौशिकी विन्ध्यवासिनी ।।8.60.४० । ।
दुर्गा ख्यातिर्महाविद्या गायत्री त्वं सरस्वती२९ ।
स्वाहा स्वधा महामाया लक्ष्मीर्योगेश्वरेश्वरी ।।४१ ।।
उल्का सती गिरेः पुत्री मैत्रेयी ब्रह्मचारिणी ।
तापसी३० रेवती षष्ठी वरावरसहस्रदा३१ । ।४२ । ।
कुन्दकार्मुकसारङ्गकोकिलाशोकपल्लवैः ।
तुल्यासि३२ दन्तभ्रू नेत्रस्वरपाणिभिरीश्वरि३३ । ।४३ ।।
प्रमत्तोत्फुल्लपूर्णन्तान् नागोत्पलनिशाकरान् ।
विशिनक्षि सदा देवि गतिलोचनकान्तिभिः ।।४४। ।
२६ महायोगः - क. ख । २७ धाता - घ. । २८ सृष्टिः- - क. । २९ सुरेश्वरी - क । ३० तामसी? । ३१ चराचरसहस्रदा - घ. । ३२ तुल्यास्य - क. । ३३... रीश्वरी - क. ।
341
शिरोभिर्महिषोद्भ्रान्तरक्तपर्यन्तलोचनैः ।
नृभिः क्षितितलन्यस्तकरजानुमिरिज्यसे३४ ।।४५।।
मत्तान्यपुष्टाकलवल्गुभाषिता द्विरेफमालासितचारुमूर्धजा ।
प्रफुल्लपुष्पस्तबकोद्गतस्तनी विराजसे कल्पलतेव पुष्पिता ।।४६।।
देवि देवीभिरनिशं भक्त्याभिवन्द्यसे दिवि ।
इज्यसे३५ मुनिभिः शश्वद् गिरिजे गिरिमूर्धसु ।।४७।।
अर्च्यसे द्धिगन्धर्वैर्गन्धपुष्पोत्करैः सदा ।
सदागतिपथं प्राप्ता३६ प्राप्त्या च स्तूयसेनघे ।।४८।।
भासि सिंहं समारूढा चलत्पिङ्गलकेसरम् ।
दीप्ता प्रभेव सावित्री मेरुमूर्धानमास्थिता ।।४९।।
जिघांसती रणे दैत्याञ्छरौघैर्भास्यजिह्मगैः ।
रवेर्मूर्तिस्तमांसीव विकिरन्तो गभस्तिभिः ।।8.60.५०।।
परशुं शितमुदगृह्य देवदानवसंयुगे३७ ।
भ्राजसे देवि संक्रुद्धा पाटयन्तीव३८ रोदसी ।।५१।।
अथ सा शैशवं हित्वा तनुमन्यां समाददे३९ ।
एकीकृतामिवाकाशे संहतिं सर्वतेजसाम् । ।५२।।
दीप्तामपि सुखालोकां शान्तामपि सविभ्रमाम्४० ।
बालामपि जगद्धात्रीं तन्वीमपि सुसंहताम्४१ ।।५३।।
उवाचेदं च सा प्रीता४२ वरदास्मि तव प्रभो ।
एवमुक्तस्तया४३ सोथ प्रोवाचाम्भोदनिस्वनः४४ ।।५४।।
शरण्ये देवि भक्तानां शरणागतवत्सले ।
भवानि भव मे नित्यं सुप्रसन्ना महेश्वरि ।।५५।।
कथयस्व च४५ देवेशं शाश्वतं स्थाणुमव्ययम् ।
विश्वात्मानं महादेवं सर्वयोगेश्वरेश्वरम् ।।५६।।
३४... रीज्यसे - क. । ३५ ईज्यसे -घ । ३६ सदागतिपथप्राप्ता - क । ३७ संयुते- क. । ३८ पातयन्तीव - ख. । ३९ समादधे - घ. ।। ४० तपन्तीमप्यविभ्रमाम् - क घ. । ४१ सुसंयतां क. । ४२ सुप्रीता - क, ख, । ४३... स्तदा घ. । ४४ निस्स्वनः - क. । ४५ त्वं च - घ. ।
342
तथास्त्विति प्रतिज्ञाय कथयामास शंकरम् ।
मृगयूथस्य मध्यस्थं क्रीडन्तं४६ मृगरूपिणम् ।।५७। ।
एकशृङ्गं महाग्रीवमेकाक्षममितौजसम् ।
एकपादं सुसंश्लिष्टमापाण्डुकपिलोदरम् । ।५८। ।
अथ विष्णुर्द्रुतं गत्वा शृङ्गे जग्राह तं४७ प्रभुम् ।
तस्मिन्नेव ततो ब्रह्मा जग्राहेन्द्रश्च वीर्यवान् ।।५९। ।
त्रिधा तदभवच्छृङ्गं चलितं४८ दीप्ततेजसम्४९ ।
त्रयाणां सुरमुख्यानां पृथक् पाणिषु संस्थितम् । ।8.60.६० । ।
अथादृश्यस्तदा शर्वस्तानुवाच सुरोत्तमान् ।
यदर्थमागता यूयं तद् ब्रूत सुरसत्तमाः ।।६१ ।।
अथोवाच तदा५० ब्रह्मा परमेशं वृषध्वजम् ।
राज्यं पुनरवाप्नोतु हत्वा वृत्रं५१ पुरन्दरः । । ६२ ।।
ततस्तानमरान् तत्र वृषकेतुः समागतान् ।
स्वरेण वारिदध्वानगम्भीरेणाब्रवीत्ततः । ।६३ ।।
वैष्णवं परमं तेजः फेनमाचक्ष्यते सुराः५२ ।
शिरश्छेत्स्यति वृत्रस्य तदादाय शतक्रतुः । ।६४। ।
हृषीकेशोथ तत्खण्डमनयत् स्वं निकेतनम् ।
न्यवेशयत५३ तत्रैव५४ वारिजोदरसंभवः५५ ।। ६५।।
नीयमानं तृतीयं५६ च खण्डमाखण्डलेन तु ।
रक्षसामधिपः श्रीमान् जग्राहाथ दशाननः ।।६६।।
चकार सन्ध्यामुदधौ दक्षिणे न्यस्य तत्तदा ।
न विचालयितुं शक्तः सन्ध्यामास्थाय रावणः५७। ।६७।।
तत्पुण्यं देवदेवस्य व्यास क्षेत्रं महाद्युते ।
गोकर्णमिति नामास्य चकार कमलासनः ।। ६८। ।
४६ क्रीडया - क. । ४७ स - ख. । ४८ चलिते - क. ख. । ४९ दीप्ततेजासां - क., दीप्ततेजसि - ख. । ५० ततो - ख. । ५१ वृत्रं हत्वा - घ. । ५२ केन वै निर्मितः पुरा - घ । ५३ निवेशयत - घ. । ५४. त्वद्वारि - घ. । ५५ वारिधेरुदरे ततः - घ. । ५६ द्वितीयं - घ. । ५७ सत्वमन्विष्य वारुणः - घ. ।
343
तत्र गत्वा नरो भक्त्या प्रणिपत्य महेश्वरम् ।
अश्वमेधमवाप्नोति सर्वपापैः प्रमुच्यते । ।६९।।
गोकर्णमुत्तरं५८ व्यास स्थापितं पद्मयोनिना५९ ।
उदन्वतः स्थितं तीरे स्वयमेव तु दक्षिणे ।।8.60.७०।।
यः शृणोति नरो नित्यं पुण्यगोकर्णसंभवम् ।
सर्वपापविधूतात्मा स यातिपरमां गतिम्६० ।।७१ ।।
अथ तौ दानवौ व्यास गोकर्णमभिजग्मतुः ।
तत्र चेरतुरत्युग्रं तपोम्बुपवनाशनौ ।।७२।।
कस्यचित्त्वथ कालस्य विदित्वोग्रं तयोस्तपः ।
आजगाम तयोः पार्श्वं ब्रह्मा सुरनमस्कृतः ।।७३।।
अथ तौ विश्वधातारं चतुर्वक्त्रं पितामहम् ।
अपश्यतां महाबाहू ब्रह्माणं पुरतः स्थितम् ।।७४।।
शुक्लाम्बरधरं दीप्तं शुक्लस्रगनुलेपनम्६१ ।
एकीकृतमसंप्रेक्ष्यं तेजो दिनकृतामिवम्६२ ।।७५।।
प्रीतोस्मि युवयोः पुत्रावथोवाच पितामहः ।
अनेन तपसोग्रेण वरं ब्रूत६३ मभीप्सितम् ।।७६।।
अमरत्वं तु वव्राते तौ प्रणम्य पितामहम् ।
ब्रह्माथाह६४ विना देवानमृतत्वं न विद्यते ।।७७।।
अवश्यमेष्यो६५ युवयोर्मृत्युरेकेन केनचित् ।
अथामरत्वं वव्राते परस्परवधं विना ।।७८।।
एवमस्त्विति ताभ्यां तं वरं दत्त्वा पितामहः ।
हंसयुक्तेन यानेन६६ जगाम स्वं निकेतनम् ।।७९।।
असुरावपि तौ तस्मात्तपसोग्राद्विरेमतुः ।
आजग्मतुर्निकेतं स्वं वरं लब्ध्वा पितामहात् ।।8.60.८०।।
५८... मुत्तमं - ख. । ५९ ब्रह्मयोनिना - घ. । ६० स याति परमं स्थानं यत्र गत्वा न शोचते' ' - घ. । ६१ शुक्रगन्धानुलेपनम् - घ. । ६२ रवि ( रुचि) राकार... - ख. । ६३ ब्रूता - क. । ६४... हाथ - क. ख., ... प्याह - घ. । ६५ अवश्यमेव - घ. । ६६ हंसयुक्तविमानेन - घ. ।
344
वरदानं६७ ततो ज्ञात्वा दैत्याः पातालवासिनः ।
आजग्मुर्दानवाश्चैव तयोः पार्श्वं मुदान्विताः ।।८१ ।।
केशी मुरो६८ मयः शम्भुः६९ कार्तस्वरमहारवौ ।
इन्द्रशत्रुः कतिर्धुन्धुस्त्विल्वलो नमुचिर्द्रुमः ।।८२ । ।
वातापी दुन्दुभिर्मेघः प्रभुरन्ये च दानवाः ।
सर्वे कवचिनः शूरा गदापरिघपाणयः । ।८३ । ।
ऊचुश्च शोकमग्नानामस्माकं शत्रुतापनौ ।
युवां प्लवाविवायातौ शोकसागरतारणौ ।।८४।।
पुरेप्रतिभये रम्ये कान्तां नाम ततः सभाम् ।
आजग्मुस्तुष्टमनसो दानवेन्द्राः७० समागताः७१ । ।८५। ।
तस्यां प्रशस्ते७२ विस्तीर्णे शातकौम्भे वरासने ।
आससाद महाबाहुः सुन्दो दानवसत्तमः । ।८ ६।।
निसुन्दोन्यत्ततो भेजे हेमरत्नमयं शुभम् ।
आससाद ततो धीमान् कार्तस्वरमयं७३ मयः७४।।८७।।
अन्ये च दानवा भेजुरासनानि तदा७५ मुने ।
हेमरत्नविचित्राणि भास्वन्ति च महान्ति च । ।८८ ।।
विरेजे सा सभा तत्र दानवेन्द्रैः समागतैः ।
सबलाकैस्तडित्वद्भिः प्रलये द्यौरिवाम्बुदैः७६ । ।८९ ।।
अथोन्नाम्य शिरो रत्नमरीचिपरिवेषवत् ।
सुन्दो वचनमाहेत्थमम्मोदरुचिरस्वनः७७ । ।8.60.९० ।।
दानवेन्द्राः करिष्यामि सर्वेषामश्रुमार्जनम् ।
विजित्य दैवतैः सार्द्धमिन्द्रमाहवमूर्धनि ।।९१ । ।
प्रयाम७८ दंशिताः सर्वे सज्जीभवत७९ दानवाः ।
त्रैलोक्यविजयं कर्तुमुद्यतायुधपाणयः । ।९२ ।।
६७ वरलाभं (?) । ६८ केशिरुग्रो - घ । ६९ शंखः - घ. । ७० दानवेन्द्र - घ. । ७१ समागतां - घ. । ७२ त्रयस्ते - क. ख. । ७३ कार्तस्वरमये - क, । ७४ शुभम् - घ. । ७५ ततो - ख. । ७६ द्यौरिवाम्बरे - ख. । ७७.. निस्वनं पुनः - घ । ७८ प्रयामो - घ. ७९ सज्जा भवत - घ. ।
345
तस्य तद्वचनं श्रुत्वा प्रभुः प्राहासुरेश्वरम्८० ।
यज्ञैर्व्रतैस्तपोभिश्च८१ नियमैश्चासुरद्विषः८२ ।।९३।।
आप्याययन्ति संरब्धाः शश्वद्वर्णाश्रमा भुवि ।
तानेव प्रथमं हत्वा ततो जेष्याम देवताः ।।९४।।
तस्य तद्वचनं श्रुत्वा प्राहुर्दानवसत्तमाः ।
आयतिं प्रथमं हत्वा विजेष्यामस्ततोमरान् ।।९५।।
अथोवाच तदा८३ धुन्धुर्मेघदुन्दुभिनिस्वनः ।
राजानुगामी लोकोयमपापो बध्यते कथम् ।।९६।।
अस्मत्तो दैवतै राज्यं लोकं हत्वा पुरा हतम् ।
विक्रमेणैव निर्जित्य दैत्यराज्यं सुरैर्हृतम् ।।९७।।
तथा८४ तेभ्यो वयमपि प्रोत्थितध्वजसंकुले८५ ।
आनेष्यामो रणे जित्वा श्रियमाविग्नलोचनाम् ।।९८।।
अपकारे सति समे स्वभावेन मनस्विनाम् ।
तेजो विजृम्भते दीप्तं शक्तिमत्स्वेव सर्वदा ।।९९।।
अथ धुन्धोर्वचः श्रुत्वा मुरो मुरजनिस्वनः ।
उच्चैरुत्क्षिप्य मूर्धानं प्रोवाच प्रहसन्निव ।। 8.60.१० ०।।
पुराभवन्८६ महात्मानो८७ दानवेन्द्रा महाबलाः ।
हिरण्यकशिपुर्वृत्रः प्रह्लादो नमुचिर्बलिः । ।१ ०१ ।।
कोटिशो दानवाश्चान्ये महासत्वा महाबलाः ।
यैः कृता प्रसभं लक्ष्मीः स्ववक्षःस्थलवासिनी ।।१ ०२।।
अल्पावशेषैरधुना८८ युष्माभिरसुरोत्तमाः ।
कथमानीयते राज्यं सुरान्निर्जित्य संयुगे । ।१ ०३। ।
इष्टार्थसाधकेनाशु देशकालाविरोधिना ।
उपायेन परीप्सध्वं राज्यमन्येन केनचित् ।। १ ०४।।
एतछ्रुत्वा तदा वाक्यमंशुमाली८९ महासुरः ।
प्रोवाच मधुरं श्लक्ष्णमर्थानुगमिदं वचः । ।१ ०५।।
८० प्राहासुरेश्वरः - घ. । ८१ यज्ञव्रततपोभिश्च - क. घ. । ८२ यमैश्चासुरविद्विषः - घ. । ८३ ततो - क. घ. । ८८ अथ - घ. । ८५ प्रोच्छ्रितध्वजसंकुले - घ. । ८६. भूवन् - क. ख. । ८७ महोत्साहो - घ. । ८८ स्वल्पावशेषैरधुना - घ. । ८९.. .मंशुमान्स - घ. ।
346
सापराधा बलीयांसो बद्धवैराश्च दानवैः ।
जयिनः श्रीमदोन्मत्ताः साम देवेष्वनर्थकम् । ।१ ० ६।।
सुरेषु मानसी सिद्धिर्विभुता भुवनत्रये ।
अणिमाद्यैर्गुणैर्योगस्तेषु दानमपार्थकम् । । १ ०७। ।
एकार्था नार्थिनः९० सर्वे संहताश्चासुरद्विषः ।
न ते भेदयितुं शक्या दानैस्ते दानवोत्तमाः९१ । ।१ ०८। ।
मन्त्रप्रभावशक्तिभ्या९२ मुत्साहेन परेण च ।
संपन्नाः सर्वथा देवा न युद्धं तैः सहेष्यते । । १ ०९।।
युक्तो दानवमुख्यानां हीन९३ सन्धिः सुरैस्सह ।
स्थानवृद्धिं परीप्सूनां क्षीणानामधुना भृशम् । ।8.60.१ १० ।।
अथाह तेजसा स्वेन तेजांसि सुरविद्विषाम् ।
अभिभूय सदस्युच्चैरंशुमानंशुमानिव । ।१ ११ । ।
प्रणामपूर्वः क्रियते हीनसन्धिः कुराजभिः ।
न चक्रुर्दानवाः पूर्वं कुर्वते न च सांप्रतम् । । १ १२।।
शिरांसि दानवेन्द्राणां कथं यास्यन्ति नम्रताम् ।
सुमेरोरिव शृङ्गाणि भानुमन्त्युच्छ्रितानि च ।।११३ । ।
आदास्यामोथ वा राज्यं देवान्निर्जित्य संयुगे ।
प्राप्स्यामो वा९४ गतिं पुण्यां निहताः समरेमरैः९५ ।।१ १४।।
इत्थमंशुमतः श्रुत्वा वाक्यं वाक्यार्थकोविदः ।
गम्भीरमर्थवत् प्राह महिषो वदतां वरः । ।१ १ ५। ।
विदितं वः समस्तानां९६ पूर्वजा९७ भवतां यथा ।
हता दानवशार्दूला विक्रमैकरसाः सुरैः ।। ११ ६। ।
तदलं दानवश्रेष्ठा वृत्त्या वोग्निपतङ्गयोः९८ ।
सन्धाय दैवतैस्सार्ध वृत्तिं कुर्मः स्वकर्मभिः ।।१ १७।।
९० धन्विनः - घ. । ९१ दानवैर्दानवोत्तमाः - घ. । ९२ शक्त्या च - घ. । ९३ हीनः - घ. । ९४.. .द्य - घ. । ९५ शरैः - घ । ९६ सहस्थानां - घ. । ९७ पूर्वाणां - घ. । ९८... वत् - घ. ।
347
ज्यायोभिर्दानवा देवै रन्ध्रव्यसनवर्जितैः९९ ।
विग्रहेण कथं सिद्धिमिच्छथ स्रस्तशक्तयः । । १ १८।।
गुणातिशययुक्तानां यानमभ्युच्चये सति ।
मन्त्रोत्साहप्रभावाणामवाप्तौ१०० देशकालयोः ।। ११ ९। ।
अथ संभूय यानेन मन्यध्वे१०१ सिद्धिमात्मनः ।
दंशिताः समरे यत्ताः१०२ समेता यक्षराक्षसैः । । 8.60.१२० ।।
रक्षांसि हुतशेषाणि ज्वलने शक्तिसूनुना ।
श्रितानि दैवतान्येव भीतान्यबलवन्ति च ।।१ २१ । ।
आयत्ता सर्वदा यक्षाः कुबेरेसुरसत्तमाः ।
स चापि सुरमुख्यानां कुरुते कार्यमुद्यतः ।। १ २२।।
अन्यत्र दैत्यशत्रुभ्यो भुवनेषु बलीयसः ।
अभावादसुरश्रेष्ठा द्वैधीभावो न विद्यते ।। १२३ । ।
महिषे सदसि स्वस्थमित्युक्तवति दानवे ।
विस्पष्टमर्थवद्वाक्यं द्रुमः प्राह महासुरः । । १ २४। ।
समरे निर्जितैः१०३ पूर्वमस्माभिरबलैस्सह ।
जयिनः शक्तिसंपन्नाः संधास्यन्ते कथं सुराः । ।१२५। ।
संविधायाशु१०४ दुर्गाणि पर्वतानुदकानि च१०५ ।
विजये सततं युक्ता विगृह्यासनमास्महे ।।२२६।।
नाशयन्तः सदा यज्ञान् व्रतानि नियमांस्तथा ।
वर्णाश्रमांश्च१०६ लोकेस्मिन् जिघांसन्तः समन्ततः । । १ २७। ।
ततो लोकविनाशेन विच्छिन्ने१०७ सत्क्रियापथे ।
विदित्वापचितान् देवानभियास्याम दंशिताः । ।१ २८। ।
अथ ते तस्य वचनं सर्व एवानुमेनिरे ।
आसन्नमृत्यवोपथ्यमन्नं१०८ प्राणभृतो१०९ यथा ।। १ २९। ।
उत्तस्थुर्लोकनाशाय मतिं कृत्वामरद्विषः ।
उदन्वन्त इवोद्वेलाः प्रलये मारुताकुलाः ।। 8.60.१३० । ।
९९... रन्तर्व्यसनवर्जितैः - घ. । १००... मधाम्ना - ख. । १०१ मन्यध्वं - क. ख. । १०२ मत्ताः - घ. । १०३ निर्जिताः - क. । १०४ सन्निधायाशु - घ. । १०५ पार्वतान्युदकानि च - क, पार्वतान्यौदकानि च - घ. । १०६ वनाश्रमाश्च - घ. । १०७ विनष्टे - घ. । १०८ पथ्यमर्थं - घ. । १०९ प्राणहरं - घ. ।
348
जलद इव सुनीलः पीनवृत्तोन्नताङ्गो११०
हिमकरकरशुभ्रां हारयष्टिं दधानः ।
उदपतदथ सुन्दस्त्वासनात् स्वात्तदानीं
जलधिरिव विघूर्णन् फेनमाली युगान्ते । ।१ ३१ । ।
तदनु तदनुजोम्बुवाहनीलः परिघभुजः पृथुरक्तदीर्घनेत्रः ।
अजहदविमनाः स्वमासनान्तं प्रतिभयकृद् द्विषतां तदा निसुन्दः । । १३ २।।
इति स्कन्दपुराणे दैत्योद्योगो नाम षष्टितमोध्यायः