स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः ०९

विकिस्रोतः तः

॥ ब्रह्मोवाच ॥ ॥
यदि सृष्टं मया सर्वं त्रैलोक्यं सचराचरम् ॥
तदा मूर्तिमिमां त्यक्त्वा भवः सृष्टो मयाऽधुना ॥ १ ॥
पितामहमहत्त्वं स्यात्तथा शीघ्रं विधीयताम् ॥
ब्रह्मणो वचनं श्रुत्वा विष्णुना स प्रमोदितः ॥ २ ॥
महदाश्चर्यजनके संप्राप्तो गिरिमूर्द्धनि ॥
न विचारस्त्वयाकार्यः कर्त्तव्यं ब्रह्मभाषितम् ॥ ३ ॥
तथेत्युक्त्वा शिवो देवस्तत्रैवांतरधीयत ॥
ब्रह्मा ययौ मेरुशृंगं मनसः शिरसि स्थितम् ॥ ४ ॥
तपस्तेपे प्रजानाथो वेदोच्चारणतत्परः ॥
अथर्ववेदोच्चरणं यावच्चक्रे पितामहः ॥ ५ ॥
मुखाद्रुद्रः समभवद्रौद्ररूपो भवापहः॥
अर्द्धनारीनरवपुर्दुष्प्रेक्ष्योऽतिभयंकरः॥६॥
विभजात्मानमित्युक्त्वा ब्रह्मा चांतर्दधे भयात् ॥
तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाऽकरोत् ॥ ७ ॥
बिभेद पुरुषत्वं च दशधा चैकधा पुनः ॥
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ ८ ॥
कृत्वा नामानि सर्वेषां देवकार्ये नियोजिताः ॥
विभज्य पुनरीशानी स्वात्मानं शंकराद्विभोः ॥ ९ ॥
महादेवनियोगेन पितामहमुपस्थिता ॥
तामाह भगवान्ब्रह्मा दक्षस्य दुहिता भव ॥ 7.2.9.१० ॥
सापि तस्य नियोगेन प्रादुरासीत्प्रजापतेः ॥
नियोगाद्ब्रह्मणो दक्षो ददौ रुद्राय तां सतीम् ॥११॥
दाक्षीं रुद्रोऽपि जग्राह स्वकीयामेव शूलभृत् ॥
अथ ब्रह्मा बभाषे तं सृष्टिं कुरु सतीपते ॥१२॥ ॥
॥ रुद्र उवाच ॥ ॥
सृष्टिर्मया न कर्त्तव्या कर्त्तव्या भवता स्वयम् ॥
पालनं विष्णुना कार्यं संहर्ताऽहं व्यवस्थितः ॥१३॥
स्थाणुवत्संस्थितो यस्मा त्तस्मात्स्थाणुर्भवाम्यहम् ॥१४॥
रजोरूपाः सत्त्वरूपास्तमोरूपाश्च ये नराः ॥
सर्वे ते भवता कार्या गुणत्रयविभागतः॥१५॥
यदा ते तामसैः कार्यं तदा रौद्रो भव स्वयम् ॥
यदा ते राजसैः कार्यं तदा त्वं राजसो भव॥
सात्त्विकैस्ते यदा कार्यं तदा त्वं सात्त्विको भव ॥१६॥
॥ ईश्वर उवाच ॥ ॥
इत्याज्ञाप्य च ब्रह्माणं स्वयं सृष्ट्यादिकर्मसु ॥
गृहीत्वा तां सतीं रुद्रः कैलासमधितिष्ठति ॥ १७ ॥
दक्षः कालेन महता हरस्यालयमाययौ ॥ १८॥
अथ रुद्रः समुत्थाय कृतवान्गौरवं बहु ॥
ततो यथोचितां पूजां न दक्षो बहु मन्यते ॥१९॥
तदा वै तमसाविष्टः सोऽधिकं ब्राह्मणः शुभः॥
पूजामनर्घ्यामन्विच्छञ्जगाम कुपितो गृहम् ॥ 7.2.9.२० ॥
कदाचित्तां गृहं प्राप्तां सतीं दक्षः सुदुर्मनाः ॥
भर्त्रा सह विनिंद्यैनां भर्त्सयामास वै रुषा ॥२१॥
पंच -वक्त्रो दशभुजो मुखे नेत्रत्रयान्वितः॥
कपर्द्दी खंडचंद्रोसौ तथासौ नीललोहितः॥२२॥
कपाली शूलहस्तोऽसौ गजचर्मावगुंठितः ॥
नास्य माता न च पिता न भ्राता न च बान्धवः ॥२३॥
सर्पास्थिमंडितग्रीवस्त्यक्त्वा हेमविभूषणम् ॥
भिक्षया भोजनं यस्य कथमन्नं प्रदास्यति ॥ २४ ॥
कदाचित्पूर्वतो याति गच्छन्याति स पश्चिमे ॥
दक्षिणस्यां वृषो याति स्वयं याति स चोत्तरे ॥ २५ ॥
तिर्यगूर्ध्वमधो याति नैव याति न तिष्ठति ॥
इति चित्रं चरित्रं ते भर्त्तुर्नान्यस्य दृश्यते ॥ २६ ॥
निर्गुणः स गुणातीतो निःस्नेहो मूकवत्स्थितः ॥
सर्वज्ञः सर्वगः सर्वः पठ्यते भुवनत्रये ॥ २७ ॥
कदाचिन्नैव जानाति न शृणोति न पश्यति ॥
दैत्यानां दानवानां च राक्षसानां ददाति यः ॥२८॥
न चास्य च पिता कश्चिन्न च भ्रातास्ति कश्चन ॥
एक एव वृषारूढो नग्नो भ्रमति भूतले ॥२९॥
न गृहं न धनं गोत्रमनादिनिधनोव्ययः ॥
स्थिरबुद्धिर्न चैवासौ क्रीडते भुवनत्रये ॥7.2.9.३०॥
कदाचित्सत्यलोके सौ पातालमधितिष्ठति ॥
गिरिसानुषु शेतेऽसावशिवोपि शिवः स्मृतः ॥ ३१ ॥
श्रीखंडादीनि संत्यज्य सदा भस्मावगुंठितः॥
सर्वदेति वचः सत्यं किमन्यत्स प्रदास्यति॥ ३२ ॥
धिक्त्वां जामातरं धिक्तं ययोः स्नेहः परस्परम् ॥
तस्य त्वं वल्लभा भार्या स च प्राणाधिकस्तव ॥ ३३ ॥
न च पित्रास्ति ते कार्यं न मात्रा न सखीषु च ॥
केवलं भर्तृभक्ता त्वं तस्माद्गच्छ गृहान्मम ॥३४॥
अन्ये जामातरः सर्वे भर्तुस्तव पिनाकिनः ॥
त्वमद्यैवाशु चास्माकं गृहाद्गच्छ वरं प्रति ॥ ३५ ॥
तस्य तद्वाक्यमाकर्ण्य सा देवी शंकरप्रिया ॥
विनिंद्य पितरं दक्षं ध्यात्वा देवं महेश्वरम् ॥ ३६ ॥
श्वेतवस्त्रा जले स्नात्वा ददाहात्मानमात्मना ॥
याचितस्तु शिवो भर्त्ता पुनर्जन्मांतरे तया ॥३७॥
पिता मे हिमवानस्तु मेनागर्भे भवाम्यहम् ॥
अत्रांतरे(?) हिमवता तपसा तोषितो हरः ॥
प्रत्यक्षं दर्शनं दत्त्वा हिमवंतं वचोऽब्रवीत् ॥ ३८ ॥
एषा दत्ता सुता तुभ्यं परिणेष्यामि तामहम् ॥
देवानां कार्य्यसिद्ध्यर्थं गिरिराजो भविष्यसि ॥ ३९ ॥
आत्ममूर्त्तौ प्रविष्टां तां ज्ञात्वा देवो महेश्वरः ॥
शशाप दक्षं कुपितः समागत्याथ तद्गृहम् ॥ 7.2.9.४० ॥
त्यक्त्वा देहमिमं ब्राह्म्यं क्षत्रियाणां कुले भव ॥
स्वायंभुवत्वं संत्यज्य दक्ष प्राचेतसो भव ॥ ४१ ॥
स्वस्यां सुतायामूढायां पुत्रमुत्पादयिष्यसि ॥
एवं शप्त्वा महादेवो ययौ कैलासपर्वतम् ॥ ४२ ॥
स्वायभुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ॥
भवानीं स सुतां लब्ध्वा गिरिस्तुष्टो हिमा लयः ॥ ४३ ॥
मेनापि तां सुतां लब्ध्वा धन्यं मेने गृहाश्रमम् ॥
तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् ॥ ४४ ॥
मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम्॥
पश्य बालामिमां राजन्राजीवसदृशाननाम्॥ ४५ ॥
हिताय सर्वभूतानां जातां च तपसा शुभाम् ॥
सोऽपि दृष्ट्वा महादेवीं तरुणादित्यसन्निभाम् ॥ ४६ ॥
कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम्॥
अष्टहस्तां विशालाक्षीं चंद्रावयवभूषणाम् ॥ ४७ ॥
प्रणम्य शिरसा भूमौ तेजसा तु सुविह्वलः ॥
भीतः कृतांजलिः स्तब्धः प्रोवाच परमेश्वरीम् ॥ ४८ ॥
॥ हिमवानुवाच ॥ ॥
का त्वं देवि विशालाक्षि शंस मे संशयो महान् ॥ ४९ ॥
॥ देव्युवाच ॥ ॥
मां विद्धि परमां शक्तिं महेश्वरसमाश्रयाम् ॥
अनन्यामव्ययामेकां यां पश्यंति मुमुक्षवः ॥ 7.2.9.५० ॥
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥
एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ॥ ५१ ॥
सूर्यकोटिप्रतीकाशं तेजोबिंबं निराकुलम् ॥
ज्वाला मालासहस्राढ्यं कालानलशतोपमम् ॥ ५२ ॥
दंष्ट्राकरालमुद्धर्षं जटामंडलमंडितम् ॥
प्रशांतं सौम्यवदनमनंताश्चर्यसंयुतम् ॥ ५३ ॥
चंद्रावयवलक्ष्माणं चंद्रकोटिसमप्रभम् ॥
किरीटिनं गदाहस्तं नुपुरैरुपशोभितम् ॥ ५४॥
दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ॥
शंखचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् ॥ ५५ ॥
अंडस्थं चांडबाह्यस्थं बाह्यमभ्यंतरं परम् ॥
सर्वशक्तिमयं शुभ्रं सर्वालंकारसंयुतम् ॥५६॥
ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमान पदांबुजम् ॥
सर्वतः पाणिपादांतं सर्वतोऽक्षिशिरोमुखम्॥ ५७ ॥
सर्वमावृत्य तिष्ठंतं ददर्श परमेश्वरम् ॥
दृष्ट्वा नन्दीश्वरं देवं देव्या महेश्वरं परम् ॥ ॥ ५८ ॥
भयेन च समाविष्टः स राजा हृष्टमानसः ॥
आत्मन्याधाय चात्मानमोंकारं समनुस्मरन् ॥ ५९ ॥
नाम्नामष्टसहस्रेण स्तुत्वाऽसौ हिम वान्गिरिः ॥ 7.2.9.६० ॥
भूयः प्रणम्य भूतात्मा प्रोवाचेदं कृतांजलिः ॥
यदेतदैश्वरं रूपं जातं ते परमेश्वरि ॥ ६१ ॥
भीतोऽस्मि सांप्रतं दृष्ट्वा तत्त्वमन्यत्प्रदर्शय ॥
एवमुक्ता च सा देवी तेन शैलेन पार्वती ॥ ६२ ॥
संहृत्य दर्शयामास स्वरूपमपरं परम् ॥
नीलोत्पलदलप्रख्यं नीलोत्पलसुगंधिकम् ॥ ॥६३॥
द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥
रक्तपादांबुजतलं सुरक्तकरपल्लवम् ॥६४॥
श्रीमद्विशालसद्वृत्तं ललाटतिलकोज्ज्वलम् ॥
भूषितं चारुसर्वांगं भूषणैरतिकोमलम् ॥६५॥
दधानं चोरसा मालां विशालां हेमनिर्मिताम् ॥
ईषत्स्मितं सुबिंबोष्ठं नूपुरारावशोभितम् ॥ ६६ ॥
प्रसन्नवदनं दिव्यं चारुभ्रूमहिमास्पदम् ॥
तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ॥
भयं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥ ६७ ॥
॥ हिमवानुवाच ॥ ॥
अद्य मे सफलं जन्म अद्य मे सफलाः क्रियाः ॥
यन्मे साक्षात्त्वमव्यक्ता प्रसन्ना दृष्टिगोचरा ॥
इदानीं किं मया कार्यं तन्मे ब्रूहि महेश्वरि ॥६८॥ ॥
॥ महेश्वर्युवाच ॥ ॥
शिवपूजा त्वया कार्या ध्यानेन तपसा सदा ॥
अहं तस्मै प्रदातव्या केनचित्कारणेन वै ॥ ६९ ॥
यादृशस्तु त्वया दृष्टो ध्येयो वै तादृशस्त्वया ॥
एक एव शिवो देवः सर्वाधारो धराधरः ॥7.2.9.७०॥
॥ सारस्वत उवाच ॥ ॥
तपश्च कृतवान्रुद्रः समागम्य हिमाचलम् ॥
तस्योमा परमां भक्तिं चकार शिवसंनिधौ ॥७१॥
देवकार्येण केनापि देवो वै ज्ञापितः प्रभुः ॥
उपयेमे हरो देवीमुमां त्रिभुवनेश्वरीम् ॥ ७२ ॥
स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः ॥
विनिंद्य पूर्ववैरेण गंगाद्वारेऽयजद्धरिम् ॥७३॥
देवाश्च यज्ञभागार्थमाहूता विष्णुना स्वयम् ॥
सहैव मुनिभिः सर्वैरागता मुनिपुंगवाः ॥ ७४ ॥
दृष्ट्वा देवकुलं कृत्स्नं शंकरेण विनाऽऽगतम् ॥
दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत् ॥ ७५ ॥
॥ दधीचिरुवाच ॥ ॥
ब्रह्माद्यास्तु पिशाचांता यस्याज्ञानुविधायिनः ॥
स हि वः सांप्रतं रुद्रो विधिना किं न पूज्यते ॥ ७६ ॥
॥ दक्ष उवाच ॥ ॥
सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः ॥
न मंत्रा भार्यया सार्द्धं शंकरस्येति नेष्यते ॥ ७७ ॥
विहस्य दक्षं कुपितो वचः प्राह महामुनिः ॥
शृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम् ॥७८॥
यतः प्रवृत्तिर्विश्वात्मा यश्चासौ भुवनेश्वरः ॥
न त्वं पूजयसे रुद्रं देवैः संपूज्यते हरः ॥७९॥
॥ दक्ष उवाच ॥ ॥
अस्थिमालाधरो नग्नः संहर्ता तामसो हरः ॥
विषकंठः शूलहस्तः कपाली नागवेष्टितः ॥ 7.2.9.८० ॥
ईश्वरो हि जगत्स्रष्टा प्रभुर्योऽसौ सनातनः ॥
सत्त्वात्मकोऽसौ भगवानिज्यते सर्वकर्मसु ॥ ८१ ॥
॥ दधीचिरुवाच ॥ ॥
किं त्वया भगवानेष सहस्रांशुर्न दृश्यते ॥
सर्वलोकैकसंहर्ता कालात्मा परमेश्वरः ॥ ८२ ॥
एष रुद्रो महादेवः कपर्द्दी चाग्रणीर्हरः ॥
आदित्यो भगवान्सूर्यो नीलग्रीवो विलोहितः ॥ ८३ ॥ ॥
॥ दक्ष उवाच ॥ ॥
य एते द्वादशादित्या आगता यज्ञभागिनः ॥
सर्वे सूर्या इति ज्ञेया न ह्यन्यो विद्यते रविः ॥ ८८४ ॥
एवमुक्ते तु मुनयः समायाता दिदृक्षवः ॥
बाढमित्यब्रुवन्दक्षं तस्य साहाय्यकारिणः ॥ ८५ ॥
तपसाविष्टमनसो न पश्यंति वृषध्वजम् ॥
सहस्रशोऽथ शतशो बहुशोऽथ य एव हि ॥ ८६ ॥
देवांश्च सर्वे भागार्थमागता वासवादयः ॥
नापश्यन्देवमीशानमृते नारायणं हरिम् ॥ ८७ ॥
रुद्रं क्रोधपरं दृष्ट्वा ब्रह्मा ब्रह्मासनाद्ययौ ॥
अन्तर्हिते भगवति दक्षो नारायणं हरिम् ॥ ८८ ॥
रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥
प्रवर्तयामास च तं यज्ञं दक्षोऽथ निर्भयः ॥ ८९ ॥
रक्षको भगवान्विष्णुः शरणागतरक्षकः ॥
पुनः प्राहाध्वरे दक्षं दधीचो भगवन्नृप ॥ 7.2.9.९० ॥
निर्भयः शृणु दक्ष त्वं यज्ञभंगो भवि ष्यति ॥
अपूज्यपूजनाद्दक्ष पूज्यस्य च विवर्जनात् ॥ ९१ ॥
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥
असतां प्रग्रहो यत्र सतां चैव विमानता ॥ ॥ ९२ ॥
दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥
एवमुक्त्वा स विप्रर्षिः शशापेश्वरविद्विषः ॥ ९३ ॥
यस्माद्बहिष्कृतो देवो भवद्भिः परमेश्वरः ॥
भविष्यध्वं त्रयीबाह्याः सर्वेऽपीश्वरविद्विषः ॥ ९४ ॥
मिथ्यारीतिसमाचारा मिथ्याज्ञानप्रभाषिणः ॥
प्राप्ते कलियुगे घोरे कलिजैः किल पीडिताः ॥ ९५ ॥
कृत्वा तपोबलं घोरं गच्छध्वं नरकं पुनः ॥
भविष्यति हृषीकेशः स्वामी वोऽपि पराङ्मुखः ॥ ९६ ॥
॥ सारस्वत उवाच ॥ ॥
एवमुक्त्वा स ब्रह्मर्षिर्विरराम तपोनिधिः ॥
जगाम मनसा रुद्रमशेषाध्वरनाशनम् ॥ ९७ ॥
एतस्मिन्नंतरे देवी महादेवं महेश्वरम् ॥
गत्वा विज्ञापयामास ज्ञात्वा दक्षमखं शिवा ॥ ९८ ॥
॥ देव्युवाच ॥ ॥
दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि ॥
तेन त्वं दूषितः पूर्वमहं चातीव दुःखिता ॥
विनाशयस्व तं यज्ञं वरमेनं वृणोम्यहम् ॥ ९९ ॥
॥ सारस्वत उवाच ॥ ॥
एवं विज्ञापितो देव्या देवदेवो महेश्वरः ॥
ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया ॥ 7.2.9.१०० ॥
सहस्रशिरसं क्रूरं सहस्राक्षं महाभुजम् ॥
सहस्रपाणिं दुर्द्धर्षं युगांतानलसन्निभम् ॥ १०१ ॥
दंष्ट्राकरालं दुष्प्रेक्ष्यं शंखचक्रधरं प्रभुम्॥
दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम् ॥ १०२ ॥
वीरभद्र इति ख्यातं देवदेवसमन्वितम् ॥
स जातमात्रो देवेशमुपतस्थे कृतांजलिः ॥ १०३ ॥
तमाह दक्षस्य मखं विनाशय शमस्तु तं ॥
विनिन्द्य मां स यजते गंगाद्वारे गणेश्वर ॥ १०४ ॥
ततो बंधप्रमुक्तेन सिंहेनेव च लीलया ॥
वीरभद्रेण दक्षस्य नाशार्थं रोम चोद्धुतम् ॥ १०५ ॥
रोम्णा सहस्रशो रुद्रा निसृष्टास्तेन धीमता ॥
रोमजा इति विख्यातास्तत्र साहाय्यकारिणः ॥ १०६ ॥
शूलशक्तिगदाहस्ता दण्डोपलकरास्तथा ॥
कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश ॥१०७॥
सर्वे वृषसमारूढाः सभा र्याश्चातिभीषणाः ॥
समाश्रित्य गणश्रेष्ठं ययुर्दक्षमखं प्रति ॥ १०८ ॥
देवांगनासहस्राढ्यमप्सरोगीतिनादितम् ॥
वीणावेणुनिनादाढ्यं वेदवादाभि नादितम् ॥ १०९ ॥
दृष्ट्वा दक्षं समासीनं देवैब्रह्मर्षिभिः सह ॥
उवाच स वृषारूढो दक्षं वीरः स्मयन्निव ॥ 7.2.9.११० ॥
वयं ह्यचतुराः सर्वे शर्वस्यामितते जसः ॥
भागार्थलिप्सया प्राप्ता भागान्यच्छ त्वमीप्सितान् ॥ १११ ॥
भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् ॥
ततो वयं विनिश्चित्य करिष्यामो यथोचितम् ॥ ११२ ॥
एवमुक्ता गणेशेन प्रजापतिपुरःसराः ॥ ११३ ॥
॥ देवा ऊचुः ॥ ॥
प्रमाणं नो विजानीथ भागं मंत्रा इति धुवम्॥ ११४ ॥
॥ मंत्रा ऊचुः ॥ ॥
सुरा यूयं तमोभूतास्तमोपहतचेतसः ॥
ये नाध्वरस्य राजानं पूजयेयुर्महेश्वरम् ॥ ११५ ॥
ईश्वरः सर्वभूतानां सर्वदेवतनुर्हरः ॥
॥ गण उवाच ॥ ॥
पूज्यते सर्वयज्ञेषु कथं दक्षो न पूजयेत्॥११६॥
मंत्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥
यस्मादसह्यं तस्मान्नो नाशयाम्यद्य गर्वितम् ॥११७॥
इत्युक्त्वा यज्ञशालां तां देवोऽहन्गणपुंगवः ॥
गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः॥११८॥
प्रस्तोतारं सहोतारमध्वर्युं च गणेश्वरः ॥
गृहीत्वा भीषणाः सर्वे गंगास्रोतसि चिक्षिपुः ॥११९॥
वीरभद्रोऽपि दीप्तात्मा वज्रयुक्तं करं हरेः॥
व्यष्टंभयददीनात्मा तथान्येषां दिवौकसाम् ॥ 7.2.9.१२० ॥
भगनेत्रे तथोत्पाट्य कराग्रेणैव लीलया ॥
निहत्य मुष्टिना दंडैः सप्ताश्वं च न्यपातयत् ॥ १२१ ॥
तथा चंद्रमसं देवं पादांगुष्ठेन लीलया ॥
धर्षयामास वलवान्स्मयमानो गणेश्वरः ॥ १२२ ॥
वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ॥
जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वरान् ॥ १२३ ॥
तथा विष्णुं सगरुडं समायातं महाबलः ॥
विव्याध निशितैर्बाणैः स्तंभयित्वा सुदर्शनम् ॥ १२४ ॥
ततः सहस्रशो भद्रः ससर्ज गरुडान्बहून् ॥
वैनतेयादभ्यधिकान्गरुडं ते प्रदुद्रुवुः ॥ १२५ ॥
तान्दृष्ट्वा गरुडो धीमान्पलायनपरोऽभवत् ॥
तत्स्थितो माधवो वेगाद्यथा गौः सिंहपीडिता ॥ १२६ ॥
अंतर्हिते वैनतेये विष्णौ च पद्मसंभवः ॥
आगत्य वारयामास वीरभद्रं शिवप्रियम् ॥ १२७ ॥
प्रसादयामास स तं गौरवात्परमेष्ठिनः ॥
तेऽदृश्यं नैव जानंति रुद्रं तत्रागतं सुराः ॥ १२८ ॥
स देवो विष्णुना ज्ञातो ब्रह्मणा च दधीचिना ॥
तुष्टाव भगवान्ब्रह्मा दक्षो विष्णुदिवौकसः॥ १२९ ॥
विशेषात्पार्वतीं देवीमीश्वरार्द्धशरीरिणीम् ॥
स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः ॥ 7.2.9.१३० ॥
ततो भगवती प्राह प्रहसंती महेश्वरम् ॥
त्वमेव जगतः स्रष्टा संहर्ता चैव रक्षकः ॥ १३१ ॥
अनुग्राह्यो भगवता दक्षश्चापि दिवौ कसः ॥
ततः प्रहस्य भगवान्कर्पद्दी नीललोहितः ॥
उवाच प्रणतान्देवान्दक्षं प्राचेतसं हरः ॥१३२॥
गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् ॥
संपूज्यः सर्वयज्ञेषु प्रथमं देवकर्मणि ॥ १३३ ॥
त्वं चापि शृणु मे दक्ष वचनं सर्वरक्षणम् ॥
त्यक्त्वा लोकेषणामेनां मद्भक्तो भव यत्नतः ॥ १३४ ॥
भविष्यसि गणेशानः कल्पांतेऽनुग्रहान्मम ॥
तावत्तिष्ठ ममादेशात्स्वाधिकारेषु निर्वृतः ॥
इत्युक्त्वाऽदर्शनं प्राप्तो दक्षस्यामिततेजसः ॥ १३५ ॥
दधीचिना शिवो दृष्टो विज्ञप्तः शापमोचने ॥
कथं शापं मया दत्तं तरिष्यंति तवाज्ञया ॥ १३६ ॥
॥ शिव उवाच ॥ ॥
भविष्यंति त्रयी बाह्याः संप्राप्ते तु कलौ युगे ॥
पठिष्यंति च ये वेदास्ते विप्राः स्वर्गगामिनः ॥ १३७ ॥
आगमा विष्णुरचिताः पठ्यन्ते ये द्विजातिभिः ॥
तेपि स्वर्गं प्रयास्यंति मत्प्रसादान्न संशयः ॥ १३८ ॥
कलिकालप्रभावेन येषां पाठो न विद्यते ॥
गृहस्थधर्माचरणं कर्तव्यं मम पूजनम् ॥ १३९ ॥
अवश्यं च मया कार्यं तेषां पापविमोचनम् ॥
भिक्षां भ्रमामि मध्याह्ने अतीते भस्मगुंठितः ॥ 7.2.9.१४० ॥
जटाजूटधरः शांतो भिक्षापात्रकरो द्विजः ॥
यो ददाति च मे भिक्षां स्वर्गं याति स मानवः ॥ १४१ ॥
उपानहौ वा च्छत्रं वा कौपीनं वा कमंडलुम् ॥
यो ददाति तपस्विभ्यो नरो मुक्तः स पातकैः ॥
दधीचेः स वरान्दत्त्वा वभाषे सह विष्णुना ॥ १४२ ॥
॥ रुद्र उवाच ॥ ॥
यस्ते मित्रं स मे मित्रं यस्ते रिपुः स मे रिपुः ॥
यस्त्वां पूजयते विष्णो स मां पूजयते ध्रुवम् ॥ १४३ ॥
यः स्तौति त्वां स मां स्तौति प्रियो यस्ते स मे प्रियः ॥
अहं यत्र च तत्र त्वं नास्ति भेदः परस्परम् ॥ १४४ ॥
॥ कृष्ण उवाच ॥ ॥
एवमेतत्परं देव वक्तव्यं यत्तथैव तत् ॥
अर्द्धनारीनरवपुर्यदा दृष्टो मया पुरा ॥ १४५ ॥
नेयं नारी मया दृष्टा दृष्टं रूपं किलात्मनः ॥
शंखचक्रगदाहस्तं वनमालाविभूषितम् ॥ १४६ ॥
श्रीवत्सांकं पीतवस्त्रं कौस्तुभेन विराजि तम् ॥
द्वितीयार्द्धं मया दृष्टं शूलहस्तं त्रिलोचनम् ॥ १४७ ॥
चंद्रावयवसंयुक्तं जटाजूटकपालिनम् ॥
एकीभावं प्रपन्नोहं यथा पूर्वं तथाऽधुना ॥
न मां गौरी प्रपश्येत प्रपश्यामि तथैव च ॥ १४८ ॥
॥ ईश्वर उवाच ॥ ॥
आवयोरंतरं नास्ति चैकरूपावुभावपि ॥
यो जानाति स जानाति सत्यलोकं स गच्छति ॥ १४९ ॥
इत्युक्त्वा स ययौ तत्र कैलासं पर्वतोत्तमम् ॥
कृष्णोपि मंदरं प्राप्तो देवकार्येण केनचित् ॥ 7.2.9.१५० ॥
अत्रांतरे दैत्यराजो महादेवप्रसादतः ॥
हिरण्यनेत्रतनयो बाधतेसौ जगत्त्रयम् ॥ १५१ ॥
अमरत्वं हराल्लब्ध्वा कामांधो नैव पश्यति ॥
हरांगधारिणीं देवीं दिव्यरूपां सुलोचनाम् ॥१५२॥
ममेति स च जानाति याचते च हरं प्रति॥
हरोऽपि कार्यव्यसनस्त्यक्त्वा कैलासपर्वतम् ॥१५३॥
मंदरं समनुप्राप्तो देवं द्रष्टुं जनार्द्दनम् ॥
परस्परं समालोच्यामुंचद्देवीं स मंदरे ॥ १५४ ॥
नारायणगृहे देवी स्थिता देवीगणैर्वृता ॥
अत्रांतरे गौतमस्तु गोवधान्मलिनीकृतः ॥ १५५ ॥
पवित्रीकरणायास्य भिक्षुरूपधरो हरः ॥
गौतमस्य गृहं प्राप्तो मंदरं चांधको गतः ॥१५६॥
ययाचे पार्वतीं दुष्टो युद्धं चक्रे स विष्णुना ॥
हारितं तु गणैः सर्वैर्देवीं दैत्यो न पश्यति ॥१५७॥
स्त्रीरूपधारी कृष्णोऽसौ गौरीं रक्षति मंदिरे ॥
गौरीणां तु शतं चक्रे हरिस्तत्र स मायया ॥ १५८ ॥
विष्णोर्देहसमुद्भूता दिव्यरूपा वरस्त्रियः ॥
अन्धको नैव जानाति कैषा गौरी नु पार्वती ॥ १५९ ॥
विलंबस्तत्र सञ्जातो मोहितो विष्णुमायया ॥
तावच्छिवः समायातः कृत्वा गौतमपावनम् ॥ 7.2.9.१६० ॥
भिक्षामात्रेण चान्नेन गौतमो निर्मलीकृतः ॥
सोंधकेन तदा युद्धं चक्रे रुद्रोऽपि कोपितः ॥ १६१ ॥
अमरोऽसौ हराज्जातः शूले प्रोतः सुदारुणे ॥
शूलस्थस्तु स्तुतिं चक्रे तस्य तुष्टो महेश्वरः ॥ १६२ ॥
गणेशत्वं ददौ तस्मै यावदाभूतसंप्लवम् ॥
स्वसरूपामुमादेवीं कृष्णस्तस्मै ददौ स्वयम् ॥ १६३ ॥
गौरीरूपाः स्त्रियश्चान्या धरित्र्यां तास्तु प्रेषिताः ॥
कृत्वा नामानि सर्वासां लोके पूज्या भविष्यथ ॥ १६४ ॥
एता ये पूजयिष्यंति पूजयिष्यन्ति ते शिवाम् ॥
शिवां ये पूजयिष्यंति तेऽर्चयन्ते हरं हरिम् ॥१६५॥
उमां समादाय ययौ हरो गिरिं वृषं समारुह्य सुरासुरार्चितः ॥
हरिस्तु रेमे रमया सहांधके हते च देवाः सुरराजमाययुः ॥१६५॥
ब्रह्मेशनारायणपुण्यचेतसां शृण्वन्ति चित्रं चरितं महात्मनाम्॥
मुच्यंति पापैः कलिकालसंभवैर्यास्यंति नाकं गणवृन्दवंदिताः ॥ १६७ ॥
एवं काले वर्त्तमाने हरः कैलासपर्वते ॥
रक्षोदानवदैत्यैस्तु गृह्यतेऽसौ वरान्बहून् ॥ १६८ ॥
ब्रह्मदत्तवरो रौद्रस्तारकाख्यो महासुरः ॥
तेन सर्वं जगद्व्याप्तं तस्य नष्टा सुरा रणे ॥ १६९ ॥
महादेवसुतेनाजौ हंतव्योऽसौ ससर्ज तम् ॥
कार्तिकेयमुमापुत्रं रुद्रवीर्यसमुद्भवम् ॥ 7.2.9.१७० ॥
देवैरिन्द्रादिभिः सर्वैः सेनाध्यक्ष्येभिषेचितः ॥
तेनापि दैवयोगेन तारकाख्यो निपातितः ॥ १७१ ॥
कैलासशिखरासीनो देवदेवो जगद्गुरुः ॥
उमया सह संतुष्टो नन्दिभद्रादिभिर्वृतः ॥ १७२ ॥
स्कन्देन गजवक्त्रेण धनाध्यक्षेण संयुतः ॥
अथ हासपरं देवं शनैः प्रोवाच तं शिवा ॥ १७३ ॥
केन देव प्रकारेण तोषं यास्यसि शंकर ॥
मर्त्यानां केन दानेन तपसा नियमेन वा ॥ १७४ ॥
केन वा कर्मणा देव केन मन्त्रेण वा पुनः ॥
स्नानेन केन देवेश केन धूपेन तुष्यसि ॥ १७५ ॥
पुष्पेण केन मे नाथ केन पत्रेण शंकर ॥
कया संतुष्यसे स्तुत्या साहसेन च केन वै ॥ १७६ ॥
नैवेद्येन च केन त्वं केन होमेन तुष्यसि ॥
केन कष्टेन वा देव केनार्घेण मम प्रभो ॥ १७७ ॥
षोडशैते मया प्रश्नाः पृष्टा मे निर्णयं वद ॥ १७८ ॥
॥ शंकर उवाच ॥ ॥
साधु पृष्टं त्वया देवि कथयिष्ये मम प्रियम् ॥
शिवपूजाप्रकारोऽयं क्रियते वचसा गुरोः ॥१७९॥
अभयं सर्वजंतूनां दानं देवि मम प्रियम् ॥
सत्यं तपः समाख्यातं परदारविवर्जनम् ॥ 7.2.9.१८० ॥
प्रियो मे नियमो देवि कर्म तल्लोकरञ्जनम् ॥
मयों नमः शिवायेति मन्त्रोऽयमुररीकृतः ॥ १८१ ॥
सर्वपापविनिर्मुक्तो मम देवि स वल्लभः ॥
पापत्यागो भवेत्स्नानं धूपो मे गौग्गुलः प्रियः ॥ ॥ १८२ ॥
धत्तूरकस्य पुष्पं मे बिल्वपत्रं मम प्रियम् ॥
स्तुतिः शिवशिवायेति साहसं रणकर्मणि ॥ १८३ ॥
न बिभेति नरो यस्तु तस्याग्रे संभवाम्यहम् ॥
हंतकारो गवां यस्तु नैवेद्यं मम वल्लभम् ॥ १८४ ॥
पूर्णाहुत्या परा प्रीतिर्जायते मम सुन्दरि॥
शुश्रूषा वल्लभं कष्टं यतीनां च तपस्विनाम् ॥ १८५ ॥
सूर्योदये महादेवि मध्याह्नेऽस्तमने तथा ॥
अर्घो यो दीयते सूर्ये वल्लभोऽसौ मम प्रिये ॥ १८६ ॥
किं दानैः किं तपोभिर्वा किं यज्ञैर्भाववर्जितैः॥
दया सत्यं घृणाऽस्तेयं दंभपैशुन्यवर्जितम्॥
भक्त्या यद्दीयते स्तोकं देवि तद्वल्लभं मम॥ १८७॥
एवं यावत्कथयति प्रश्नान्सूक्ष्मान्यथोदितान् ॥
तावद्ब्रह्मादिभिर्देवैर्विष्णुस्तत्र ययौ स्वयम् ॥ १८८ ॥
॥ विष्णुरुवाच ॥ ॥
नाहं पालयितुं शक्तस्त्वं ददासि वरान्बहून् ॥
दैत्यानां दानवादीनां राक्षसानां महेश्वर ॥ १८९ ॥
विकृतिं यांति पश्चात्ते कष्टं वध्या भवंति मे ॥
पत्रेण पुष्पमात्रेण ॐकारेण शिवेन च ॥
मुक्तिं याति नरो देव भवभक्तिं करोतु कः ॥ 7.2.9.१९० ॥
इन्द्रादयोऽपि ये देवा यज्ञैराप्याययंति ते ॥
न यजंति द्विजा यज्ञान्भिक्षादानेन तुष्यसि ॥ १९१ ॥
॥ रुद्र उवाच ॥ ॥
इन्द्रादिभिर्न मे कार्यं ब्रह्मा मे किं करिष्यति ॥
येन केन प्रकारेण प्रजाः पाल्यास्त्वया ऽधुना ॥ १९२ ॥
मदीया प्रकृतिस्त्वेषा तां कथं त्यक्तुमुत्सहे ॥
त्वयाहं ब्रह्मणा देवैर्वरकर्मणि योजितः ॥ १९३ ॥
इदानीमेव किं नष्टं मुक्त्वा देवीं तवाग्रतः ॥
भूत्वा मूर्तिं परित्यज्य एकाकी विचराम्यहम् ॥ १९४ ॥
इत्युक्त्वा स शिवो देवस्तत्रैवांतरधीयत ॥
गते तस्मिञ्छिवे तत्र संक्षोभः सुमहानभूत् ॥ १९५ ॥
उमा प्रोवाच चेन्द्रादीन्ब्रह्मविष्णुगणांस्तथा ॥
इदानीं किं मया कार्यं भवद्भिः शिववर्जितैः ॥ १९६ ॥
अत्रान्तरे च ये चान्ये देवास्तत्र समागताः ॥
ऋषयश्चैव सिद्धाश्च तथा नारदपर्वतौ ॥ १९७ ॥
गंगासरस्वतीनद्यो नागा यक्षाः समागताः ॥
ब्रह्मादिभिः समालोच्य कथमेतद्भविष्यति ॥ १९८ ॥
॥ विष्णुरुवाच ॥ ॥
सहैव गम्यतां तत्र यत्र देवो गतः शिवः ॥
स्वल्पा यासेन ते यान्तु नराः स्वर्गं शिवाज्ञया ॥ १९९ ॥
सत्यलोके नरा यान्तु देवा यान्तु धरातलम् ॥
रक्षोदानवदैत्यानां वरान्यच्छतु शंकरः ॥ 7.2.9.२०० ॥
तेषां बाधा मया कार्या यै च स्युर्धर्मलोपकाः ॥
हृष्टे शिवे मया कार्या व्यवस्था स्वर्गगामिनाम् ॥ ॥ २०१ ॥
त्रयीधर्मं परित्यज्य येऽन्यं धर्ममुपासते ॥
ते नरा नरकं यांतु यावदाभूतसंप्लवम् ॥ २०२ ॥
यदाऽदृश्यः शिवो जातः प्रवि वेश गिरेर्वनम् ॥
गिरीणां मध्यमास्थाय त्यक्त्वा दिव्ये स वाससी ॥ २०३ ॥
गजाजिनं परित्यज्य त्यक्त्वा मूर्त्तिं महेश्वरः ॥
भित्त्वा भूमितलं देवः स्थाणुरूपो बभूव सः ॥ २०४ ॥
यस्मात्स्वंयभूर्भवति भवंस्तस्मात्स्वयं हरः ॥
अत्रांतरे सुराः सर्वे न पश्यंति महेश्वरम् ॥
ज्ञानातीतं कलातीतं दिव्यध्यानबहिः स्थितम् ॥ २०५ ॥
यदा देवा व्याकुलाः संपतंति रविर्वायुरंबरं तोयमुर्वी ॥
निजे स्थाने वर्त्तमाना उमायाः शशंसुर्वै देवदेवं सुराणाम् ॥ २०६ ॥
स्वर्गे धरित्र्यां चरितं तलेषु देवेषु मर्त्येषु सरीसृपेषु ॥
स्थूलेषु सूक्ष्मेषु यथा तथैव सत्यं हि वाच्यं पदमस्मदीयम् ॥ २०७ ॥
ततो देवाः प्रचलिताः कृत्वा गौरीं पुरस्सरम् ॥
नंदि भद्रादयः सर्वे देवा इंद्रादयस्तथा ॥ २०८ ॥
स्कन्देन सहिता देवी सिंहारूढा ययौ स्वयम् ॥
अधिरुह्य गरुत्मंतं ययौ विष्णुः सनातनः ॥ २०९ ॥
हंसाधिरूढो भगवान्ब्रह्मा याति स पृष्ठतः ॥
ऐरावतं समारुह्य देवराजोऽगमत्स्वयम् ॥ ॥ 7.2.9.२१० ॥
गंगा सरस्वती देवी यमुना च महानदी ॥
देवताश्च गताः सर्वे नागा यक्षाः सकिंनराः ॥ २११ ॥
गताः संक्षेपतः सर्वे यत्र देवो महेश्वरः ॥
अधिरुह्य गिरेः शृंगमंबा देवी व्यवस्थिता ॥ २१२ ॥
विष्णुर्मुक्त्वा गरुत्मंतं स्थितो रैवतके गिरौ ॥
स्तुतिं चक्रे तदा देवी जगुर्गीतं सुसंयताः ॥ २१३ ॥
ऐरावतपदाक्रांतो न चचाल स पर्वतः ॥
भित्त्वा भूमितलं तत्र नागराजः समागतः ॥ २१४ ॥
गंगाद्याः सरितः सर्वास्तेन रंध्रेण चागताः ॥
ब्रह्मा विष्णुर्यदा देवाः स्तुतिं चक्रुः समंततः ॥ २१५ ॥
ददर्श रूपं भगवान्भवो देवस्तदा हरः ॥ २१६ ॥
ततो हृष्टाः सुराः सर्वे अंबा हृष्टा गणाश्च ते ॥
गम्यतां देव कैलासं देव्येति संप्रमोदितः ॥ २१७ ॥
॥ ईश्वर उवाच ॥ ॥
यदि हृष्टाः सुराः सर्वे गंगाद्याः सरितस्तथा ॥
गिरौ रैवतके विष्णुरंबा चात्रैव तिष्ठतु ॥२१८॥
सरस्वती च यमुना रेवा चास्मिन्व्यवस्थिताः ॥
स्वर्णरूपं जलं यस्मात्स्वर्णरेखेति सा नदी ॥ २१९ ॥
वस्त्रापथमिदं क्षेत्रं भवो देवोऽत्र तिष्ठतु ॥
तीर्थमेतन्मया प्रोक्तं भुक्तिमुक्तिप्रदायकम् ॥
अत्र स्नातो नरो नारी मुच्यते सर्व पातकैः ॥7.2.9.२२०॥
इति प्रोच्य शिवो देवः कलां न्यस्य भवे तदा ॥
पश्यतां सर्वदेवानां ययौ कैलासपर्वतम् ॥ २२१ ॥
अंबेति स्कन्दवदनात्कलां न्यस्य गिरौ तदा ॥
देवेन सहिता देवी वृषारूढा ययौ स्वयम् ॥ २२२ ॥
नारायणो रैवतके गिरौ रम्ये स्थितः स्वयम् ॥
कल्पादौ च युगादौ च स्थितो विष्णुः सदा गिरौ ॥ २२३ ॥
बहुरात्रस्थितो देवः कृत्वा दैत्यनिबर्हणम् ॥
रेमे रैवतके देवो यावदाभूतसंप्लवम् ॥ २२४ ॥
नारसिंहेन रूपेण हिरण्यकशिपुर्हतः ॥
हत्वा तदा गतस्तत्र नारसिंहं मुमोच ह ॥ २२५ ॥
महावराहरूपेण हिरण्याक्षो निपातितः ॥
तदेव मुक्त्वा देवेशः स्थितो रैवतके गिरौ ॥ २२६ ॥
स पृथुं पार्थिवं कृत्वा देवकार्येण वै नृप ॥
गिरौ रैवतके देव उवास सुरपूजितः ॥ २२७ ॥
अत्रागत्य पृथुः पूर्वं चक्रे देवप्रपूजनम् ॥
जपमाला तदा कण्ठे पृथुना संनिवेशिता ॥
दामोदरेति देवेशनाम चक्रे पृथुः स्वयम् ॥ २२८ ॥
वस्त्रापथे देववरो भवः स्थितो दामोदरो रैवतके व्यवस्थितः ॥
अंबेतिदेवी गिरिमूर्ध्नि संस्थिता देवाश्च सर्वे परितः प्रतिष्ठिताः ॥ २२९ ॥
क्षेत्राधिपास्तीर्थवरस्य रक्षका देवेन मुक्ता भवसंनिधानतः ॥
पश्यंति ये देववरं भवाभिधं मुच्यंति ते यांति दिवं नरा भुवः ॥ 7.2.9.२३० ॥
वस्त्रापथस्य क्षेत्रस्य भवस्य च मया तव ॥
उत्पत्तिः कथिता राजन्किमन्यच्छ्रोतुमिच्छसि ॥ २३१ ॥
शृणोति पठते यश्च कथां चेमां समंततः ॥
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ २३२ ॥
ब्रह्मघ्नश्च सुरापश्च भ्रूणहा गुरुतल्पगः ॥
स्वर्णरेखाजले स्नातो मुच्यते सर्वपातकैः ॥ २३३ ॥
ये च कीटपतंगाद्याः स्वर्णरेखा जले मृताः ॥
सर्वपातकनिर्मुक्तास्ते प्रयांति सुरालयम् ॥ १३४ ॥
स्वर्णरेखाजले स्नात्वा संध्यां श्राद्धं करोति यः ॥
वस्त्रापथे भवं पूज्य ब्रह्मलोकं स गच्छति ॥ २३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे वस्त्रापथक्षेत्रमाहात्म्ये भवोत्पत्तिवृत्तांत वर्णनंनाम नवमोऽध्यायः ॥ ९ ॥