सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः ०१

विकिस्रोतः तः
स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः ०१
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →

॥ श्रीगणेशाय नमः ॥

श्रीसरस्वत्यै नमः ॥

॥ अथ श्रीस्कादे महापुराणे सप्तमे प्रभासखण्डे द्वितीयं श्रीवस्त्रापथक्षेत्रमाहात्म्यं प्रारभ्यते ॥ ॥

॥ ईश्वर उवाच ॥ ॥
अथ ते संप्रवक्ष्यामि क्षेत्रगर्भं महोदयम् ॥
तद्वस्त्रापथमाहात्म्यं यत्र रैवतको गिरिः ॥ १ ॥
दामोदरं रैवतके भवं वस्त्रापथे तथा ॥
एतद्रैवतकं क्षेत्रं वस्त्रापथमिति स्मृतम् ॥ २ ॥
सुवर्णरेवा यत्रस्था नदी पातकनाशनी ॥
यत्र साक्षात्स्थितः कृष्णो दामोदर इति स्मृतः ॥ ३ ॥
यत्र स्थितं मृगीकुण्डं महापातकनाशनम् ॥
सकृच्छ्राद्धे कृते यत्र कल्पकोटिसहस्रकम् ॥
पितॄणां जायते तृप्तिरपुनर्भवकांक्षिणी ॥ ४ ॥
॥ देव्युवाच ॥ ॥
भगवन्विस्तराद्ब्रूहि दामोदरमहोदयम् ॥
क्षेत्रगर्भस्य माहात्म्यं कर्णिकारूपसंस्थितम् ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि दामोदरहरिं प्रति ॥
इतिहासं पुराख्यातमृषिभिः कल्पवासिभिः ॥ ६ ॥
गंगातीरे शुभे रम्ये पुण्ये जनपदाकुले ॥
ऋषिभिः सेविते नित्यं स्वर्गमार्गप्रदे ध्रुवम् ॥ ७ ॥
तत्र ज्ञानविदो विप्रा यजंति विविधैर्मखैः ॥
ऋषयः सांख्ययोगेन दानेनैवेतरे जनाः ॥ ८ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा स्वर्गमभीप्सवः ॥
सेवंते तज्जलं दिव्यं देवानामपि दुर्लभम् ॥ ९ ॥
तत्र राजा गजोनाम बली सर्वजनाधिपः ॥
गंगाजलाभिषेकार्थं त्यक्वा राज्यं जगाम ह ॥ 7.2.1.१० ॥
भार्या तस्य सती साध्वी पुत्रिणी रूपसंयुता ॥
साऽप्ययात्सह तेनैव भर्त्रा वै भर्तृवत्सला ॥ ११ ॥
संगता नाम नाम्ना च दक्षा दाक्षायणी यथा ॥
एवं निवसतोस्तत्र वर्षाणामयुतं गतम् ॥ १२ ॥
आजगाम ऋषिस्तत्र भद्रोनाम महायशाः ॥
सहितो बहुभिर्विप्रैर्जपहोमपरायणैः ॥ १३ ॥
त्यक्त्वा संसारमार्गं तु स्वर्गमार्गजिगीषवः ॥
गंगानिषेवणं कृत्वा स्फोटयित्वाऽऽत्मजं मलम् ॥ १४ ॥
जलं दत्त्वा तु भूतेभ्यः पूजयित्वा जनार्द्दनम्॥
यावद्यांति नदीतीर ऋषयो भद्रकादयः ॥
तावत्पश्यंति राजानं गजं वरगजोपमम् ॥१५॥
तेनैव दृष्टा मुनयो राज्ञा निहतकल्मषाः ॥
सप्तर्षयो यथा स्वर्गे सुरराजेन धीमता ॥१६॥
तमृषिं स च संप्रेक्ष्य पदानि दश पंच च ॥
आगच्छन्त्वत्र पूजार्हा भवतो मम मन्दिरम्॥ १७ ॥
पश्यंतु संगतां सर्वे मम भार्यां यशस्विनीम् ॥
तस्याः पूजां समादाय यो मार्गो मनसि स्थितः ॥ १८ ॥
तं गच्छध्वं महाभागाः पुण्याः पुण्यमभीप्सवः ॥
एवमुक्तास्तु ते राज्ञा ऋषयः कौतुकान्विताः ॥
आजग्मुर्मंदिरं शुभ्रं पुरंदरपुरोपमम् ॥ १९ ॥
आसनानि विचित्राणि दत्त्वा तेषां मनस्विनी ॥
संगता राजराजेन सार्द्धमग्रे व्यवस्थिता ॥7.2.1.२०॥
कृत्वा करपुटं राजा ऋषीणां पुण्यकर्मणाम् ॥
बभाषे वचनं राजा भद्रो भद्रं सुसंगतम्॥२१॥
वसुधा वसुसंपूर्णा मंडिता नगरी पुरी ॥
पर्वतैश्च समुद्रैश्च सरिद्भिश्च सरोवरैः ॥२२॥
ग्रामैश्चतुष्पथैर्घोरैर्गोकुलैराकुलीकृता ॥
नररत्नैरश्वरत्नैर्गजरत्नैस्तु संकुला ॥ २३ ॥
दुस्त्यजा भोगभोक्तृणां परं ज्ञानमजानताम् ॥
संसारेऽत्र महाघोरे पुनरावृत्तिकारिणि ॥ २४ ॥
पतंति पुरुषा भद्र पत्राणीव पुनःपुनः ॥
कृतेन येन विप्रेंद्र स्वर्गं प्राप्नोति निर्मलम् ॥
दानेन तपसा चैव तत्त्वमा चक्ष्व सुव्रत ॥ २५ ॥
॥ भद्र उवाच ॥ ॥
तीर्थानि तोयपूर्णानि देवाः पाषाणमृन्मयाः ॥
आत्मस्थं ये न पश्यंति ते न पश्यंति तत्परम् ॥ २६ ॥
संति तीर्थान्यनेकानि पुण्यान्यायतनानि च ॥
पुण्यतोया पवित्रश्च सरितः सागरास्तथा ॥
बहुपुण्यप्रदा पृथ्वी स्थानेस्थाने पदेपदे ॥ २७ ॥
यद्यस्ति तव राजेंद्र ज्ञानं ज्ञानवतां वर ॥
विष्णुं जिष्णुं हृषीकेशं शंखिनं गदिनं तथा ॥ २८ ॥
चतुर्भुजं महाबाहुं प्रभासे दैत्यसूदनम् ॥
वाराहं वामनं चैव नारसिंहं बलार्जुनम् ॥ २९ ॥
रामं रामं च रामं च पुरुषोत्तममेव च ॥
पुंडरीकेक्षणं चैव गदापाणिं तथैव च ॥ 7.2.1.३० ॥
राघवं शक्रदमनं गोविंदं बहुपुण्यदम् ॥
जयं च भूधरं चैव देवदेवं जनार्द्दनम् ॥ ३१ ॥
सुरोत्तमं श्रीधरं च हरिं योगीश्वरं तथा ॥
कपिलेशं भूतनाथं श्वेतद्वीपपतिं हरिम् ॥ ३२ ॥
बदर्याश्रमवासौ च नरनारायणौ तथा ॥
पद्मनाभं सुनाभं च हयग्रीवं विशां पते ॥ ३३ ॥
द्विजनाथं धरानाथं खड्गपाणिं तथैव च ॥
दामोदरं जलावासं सर्वपापहरं हरिम् ॥३४॥
एतान्येव हि स्थानानि देवदेवस्य चक्रिणः ॥
गच्छते यत्र तत्रैव मुच्यते सर्वपातकैः ॥ ३५ ॥
गंगा च यमुना चैव तथा देवी सरस्वती ॥
दृषद्वती गोमती च तापी कावेरिणी तथा ॥ ३६ ॥ । ।
नर्मदा शर्मदा चैव नदी गोदावरी तथा ॥
शतद्रुश्च तथा विंध्या पयोष्णी वरदा तथा ॥ ३७ ॥
चर्मण्वती च सरयूर्गंडकी चंडपापहा ॥
चंद्रभागा विपाशा च शोणश्चैव पुनःपुनः ॥ ३८ ॥
एताश्चान्याश्च बहवो हिमवत्प्रभवाः शुभाः ॥
तासु स्नातो नरः स्वर्गं याति पातकवर्जितः ॥ ३९ ॥
वनानि नंदनादीनि पर्वता मंदरादयः ॥
नामोच्चारेण येषां हि पापं याति रसातले ॥7.2.1.४० ॥
॥ गज उवाच ॥ ॥
भद्रं हि भाषितं भद्र आख्यानममृतोपमम् ॥
पृच्छामि सर्वधर्मज्ञ त्वामहं किंचिदेव हि ॥ ४१ ॥
यस्मिन्मासे दिने यस्मिंस्तीर्थे यस्मिन्क्रमान्नरैः ॥
अक्षयं सेव्यते स्वर्गस्तन्ममाचक्ष्व सुव्रत ॥ ४२ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ॥
अक्षयो येन वै स्वर्गस्तन्मे गदितुमर्हसि ॥ ४३ ॥
॥ भद्र उवाच ॥ ॥
श्रूयतां राजशार्दूल कथां कथयतो मम ॥
यां श्रुत्वा मुच्यते पापान्नरो नरवरोत्तम ॥ ४४ ॥
ऋषीणां कथितं पूर्वं नारदेन महात्मना ॥ ४५ ॥
एवं पृष्टश्च तैः सर्वैर्नारदो मुनिसत्तमः ॥
कथयामास संहृष्टो मेघदुदुभिनिस्वनैः ॥ ४६ ॥
रम्ये हिमवतः पृष्ठे समवाये मया श्रुतम्॥
तदहं तव वक्ष्यामि श्रोतुकामं नरर्षभ ॥ ४७ ॥
तीर्थान्येव हि सर्वाणि पुनरावर्त्तकानि तु ॥
अक्षयाँल्लभते लोकांस्तत्तीर्थं कथयामि ते ॥ ४८ ॥
मार्गशीर्षे कान्यकुब्ज उषित्वा राजसत्तम ॥
न शोचति नरो नारी स्वर्गं याति परावरम् ॥४९॥
पौषस्य पौर्णमासी या यदि सा क्रियतेऽर्बुदे ॥
वर्षाणामर्बुदं स्वर्गे मोदते पितृभिः सह ॥7.2.1.५०॥
माघ्यां यदि गयाश्राद्धं पितॄणां यच्छते नरः ॥
त्रयाणामपि देवानां चतुर्थः स प्रजायते ॥५१॥
फाल्गुन्यां हिमवत्पृष्ठे वसन्नेकां निशां नरः ॥
स याति परमं स्थानं यत्र देवो जनार्द्दनः ॥ ५२ ॥
चैत्र्यां श्राद्धं प्रभासे तु ये कुर्वंति मनीषिणः ॥
न ते मर्त्त्या भवन्तीह कुलजैः सह सत्तमाः ॥ ५३ ॥
चतुर्भुजे तु वैशाख्यां ये कुर्वंति जलप्रिये ॥
तथावंत्यां नरः कश्चित्स याति परमां गतिम् ॥ ५४ ॥
ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां श्राद्धं च त्रितकूपके ॥
कुर्युर्युगानि ते त्रीणि वसंति नाकसद्मनि ॥ ५५ ॥
यो व्रजेशवने नद्यां दिनानि नव पंच च ॥
तिष्ठते च नरः स्वर्गं वैकुण्ठमभिगच्छति ॥ ५६ ॥
श्रावणस्य तु मासस्य पूर्णायां पूर्वसागरे ॥
स्नानं दानं जपं श्राद्धं नरः कुर्वन्न शोचति ॥ ५७ ॥
तथा भाद्रपदे क्षेत्रे प्रभासे शशिभूषणम् ॥
पूजयित्वा नरो लिंगं देवलिंगी भवेत्ततः ॥ ५८ ॥
आश्विने चंद्रभागायां श्राद्धं स्नानं करोति यः ॥
स्थानं युगसहस्राणां कृतं तेन त्रिविष्टपे ॥ ५९ ॥
अष्टाक्षरैश्चतुर्बाहुं ध्यायंति मुनिसत्तमाः ॥
बहुनाऽत्र किमुक्तेन गजाहं प्रवदामि ते ॥ 7.2.1.६० ॥

दामोदरकुण्ड

दामोदरसमं तीर्थं न भूतं न भविष्यति ॥
मासानां कार्त्तिकः श्रेष्ठः कार्त्तिके भीष्मपंचकम् ॥ ६१ ॥
तत्रापि द्वादशी श्रेष्ठा राजन्दामोदरे जले ॥
किमन्यैर्बहुभिस्तीर्थेः कि क्षेत्रैः कि महावनैः ॥
दामोदरे नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥ ६२ ॥
॥ गज उवाच ॥ ॥
भद्र भद्रं त्वया प्रोक्तं रसायनमिवापरम् ॥
भूयोऽहं श्रोतुमिच्छामि तीर्थस्यास्य महाफलम् ॥ ६३ ॥
के देशाः किं प्रमाणं तु का नदी केः च पर्वताः ॥
जना वसंति के तत्र ऋषयः के तपस्विनः ॥ ६४ ॥
॥ भद्र उवाच ॥ ॥
पृथिवी वसुसंपूर्णा सागरेण तु वेष्टिता ॥
मंडिता नगरैर्ग्रामैः सुरैः परपुरंजय ॥ ६५ ॥
वाराणसी प्रभासं च संगमं सितकृष्णयोः ॥
एवं साराणि तीर्थानि यस्मान्मृत्युहराणि च ॥ ६६ ॥
दामोदरेति ये नूनं स्मरंतो यत्र तत्र हि॥
ते वसंति हरेर्गेहं न सरंति कदाचन ॥ ६७ ॥
सोमनाथस्य सान्निध्य उदयन्तो गिरिर्महान् ॥
तस्य पश्चिमभागे तु रैवतक इति स्मृतः ॥ ६८ ॥
वाहिनी वहते तत्र नदी कांचनशेखरात् ॥
धातवस्तत्र ते रक्ताः श्वेता नीलास्तथाऽसिताः ॥ ६९ ॥
पाषाणाः कुञ्जराकाराश्चान्ये सैरिभसन्निभाः ॥
चणकाकृतयश्चान्ये अन्ये गोक्षुरकप्रभाः ॥ 7.2.1.७० ॥
वृक्षा वल्ल्यश्च गुल्माश्च संतानाः संत्यनेकशः ॥
सर्वं तत्कांचनमयं मूलं पुष्पं फलं दलम् ॥ ७१ ॥
न हि पश्यति पापात्मा मुक्तः पापेन पश्यति ॥
सेव्यते स गिरिर्नित्यं धातुवादपरैर्नरैः ॥ ७२ ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः शूद्रानुगैर्बहिः ॥
पक्षिणस्तत्र बहवः शिवाशिवगिरस्तदा ॥ ७३ ॥
हंससारसचक्राह्वाः शुककोकिलबर्हिणः ॥
मृगाश्च वानरेन्द्राश्च हंसा व्याघ्रास्तथैव च ॥ ७४ ॥
तत्तीर्थस्य प्रभावेन न दुष्टान्याचरंति ते ॥
कालेन मृत्युमायांति पशुपक्षिसरीसृपाः ॥ ७८५ ॥
सर्वे विमानमारूढा गच्छन्ति हरिमन्दिरम्॥
वायुना पातितं यत्र पत्रपुष्पफलादिकम् ॥ ७६ ॥
तस्या नद्या जलं स्पृष्ट्वा सर्वं वै मुक्तिमाप्नुते ॥
सा नदी पृथिवीं भित्त्वा पातालादागता नृप ॥ ७७ ॥
पूर्वं पन्नगराजस्तु तेन मार्गेण चागतः ॥
स्नातुं दामोदरे तीर्थे यममृत्युप्रघातिनि ॥ ७८ ॥
स्वर्गादागत्य चन्द्रोऽपि यष्टुं यज्ञं सुपुष्कलम् ॥
यक्ष्मरोगाद्विनिर्मुक्तो गतः स्वर्गं निरामयः ॥ ७९ ॥
बलिना चैव दानानि दत्तान्यागत्य कार्तिके ॥
हरिश्चन्द्रेण विधिना नलेन नहुषेण च ॥ 7.2.1.८० ॥
नाभागेनांबरीषाद्यैः कृतं कर्म सुदुष्करम् ॥
दत्त्वा दानान्यनेकानि गजा गावो हया रथाः ॥ ८१ ॥
अनडुत्कांचना भूमिं रत्नानि विविधानि च ॥
छत्राणि विप्रमुख्येभ्यो यानानि चैव वाससी ॥ ८२ ॥
अन्नानि रसमिश्राणि दत्त्वा दामोदराग्रतः ॥
गतास्ते विष्णु भुवनं नागच्छंति महीतले ॥ ८३ ॥
पत्रं पुष्पं फलं तोयं तस्मिंस्तीर्थे ददाति यः ॥
द्विजानां भक्तिसंयुक्तः स याति जलशायिनम् ॥ ८४ ॥
प्रकृतिं चापि यो दद्यान्मुष्टिं वाथ क्षुधार्थिने ॥
विमानवरमारूढः स सोमं प्रति गच्छति ॥ ८५ ॥
दामोदराग्रतः कृत्वा पर्वतानन्नसंभवान् ॥
पूजितान्फलपुष्पैश्च दीपं दद्यात्सवर्त्तिकम् ॥ ८६ ॥
अवाप्य दुष्करं स्थानं कुलानां तारयेच्छतम् ॥
चतुरंगुलमात्रेपि दत्ते दामोदराग्रतः ॥ ८७ ॥
दाने युगसहस्राणि स्वर्गलोके महीयते ॥
मा गच्छ हिमवत्पृष्ठं मलयं मा च मन्दरम् ॥ ८८ ॥
गच्छ रैवतकं शैलं यत्र दामोदरः स्थितः ॥
कृत्वा मासोपवासं तु द्विजो दामोदराग्रतः ॥ ८९ ॥
न निवर्तति कालेन दामोदरपुरं व्रजेत् ॥
करोत्यनशनं यश्च नरो नार्यथवा पुनः ॥
सर्व लोकानतिक्रम्य स हरेर्गेहमाप्नुयात् ॥ 7.2.1.९० ॥
विघ्नानि तत्र तिष्ठन्ति नित्यं पञ्चशतानि च ॥
धर्मविध्वंसकर्तॄणि नरस्तत्र न गच्छति ॥ ९१ ॥
प्रद्युम्नबलशैनेयगदाचक्रादिभिः सदा ॥
शतलक्षप्रमाणैस्तु सेव्यते स गिरिर्महान् ॥ ९२ ॥
क्रीडंति नार्यस्तेषां हि नित्यं दामोदराग्रतः ॥
सुचन्द्रवदना गौर्यः श्यामाश्चैव सुमध्यमाः ॥ ९३ ॥
नितंबिन्यः सुकेशाश्च शुभ्राः स्वायतलोचनाः ॥
सुगंडा ललिताश्चैव सुकक्षाः सुपयोधराः ॥ ९४ ॥
शोभमानाः सुजंघाश्च सुपादाः सुन्दरांगुलीः ॥
राजपुत्र्यो गिरौ तस्मिन्हसंति च रमंति च ॥ ९५ ॥
कौसुंभं पादयुगले कुंकुमं पीतकंचुकम्॥
ब्राह्मणीभ्यो ददन्तीह स्पर्द्धमानाः पृथक्पृथक् ॥ ९६ ॥
भक्ष्यं भोज्यं च पेयं च लेह्यं चोष्यं च पिच्छिलम् ॥
तांबूलं पुष्पसंयुक्तं कार्तिके हरिवासरे ॥ ९७ ॥
दृष्ट्वा तु रेवतीकुंडं प्रदद्यात्फलमुत्तमम् ॥
पुत्रिणी ऋद्धिसंपन्ना सुभगा जायते सती ॥ ९८ ॥
एवं कृत्वा तु सा रात्रि नीयते निद्रया विना ॥
वेदघोषैः सुपुण्यैस्तु भारताख्यानवाचनैः ॥ ९९ ॥
हुंकृतैस्तलशब्दैश्च तालशब्दैः पुनःपुनः ॥
देशभाषाविभाषिण्यो रामामण्डलमध्यतः ॥
हास्यनृत्यसमायुक्ता राजन्दामोदराग्रतः ॥ 7.2.1.१०० ॥
पञ्चपाषाणकं हर्म्यं यः करोति शिवालयम् ॥
पंचवर्षसहस्राणि स्वर्ग लोके महीयते ॥ १०१ ॥
दशपाषाणसंयुक्तं कृत्वा दामोदराग्रतः ॥
दशवर्षसहस्राणि स्वर्गे हल्लति मल्लति ॥ १०२ ॥
शतपाषाणकं हर्म्यं यः करोति महन्नृप ॥
मन्दिरं सुन्दरं शुभ्रं स याति हरिमन्दिरम् ॥ १०३ ॥
कृत्वा साहस्रिकं चैत्यं बहुरूपसमन्वितम् ॥
सर्वाँल्लोकानतिक्रम्य परं ब्रह्माधिगच्छति ॥ १०४ ॥
पंचवर्णध्वजं दद्याद्दामोदरगृहोपरि ॥
तं तु प्रमाणवर्षाणि दिव्यानि स दिवं व्रजेत् ॥ १०५ ॥
तस्य गव्यूतिमात्रेण क्षेत्रं वस्त्रापथं शुभम् ॥
यद्दृष्ट्वा सर्वपापानि विलीयन्ते बहूनि च ॥ १०६ ॥
राजंस्तत्पदमायाति यद्गत्वा न निवर्त्तते ॥
पूजयित्वा भवं देवं भवसंभवनाशनम् ॥ १०७ ॥
नरो नारी नृपश्रेष्ठ शिवलोके महीयते ॥
तच्छ्रुत्वा वचनं तस्य भद्रस्य च सुभाषितम् ॥ १०८ ॥
आगतः कार्तिकीं कर्त्तुं देवे दामोदरे ततः ॥
ऋग्यजुःसामसंयुक्तैर्ब्राह्मणैर्ब्रह्मवित्तमैः ॥ १०९ ॥
क्षत्रियैः क्षत्रधर्मज्ञैर्वैश्यैर्दानपरायणैः ॥
सह शूद्रैः समायातस्तस्मिंस्तीर्थे गजो नृपः ॥ 7.2.1.११० ॥
दत्त्वा दानान्यनेकानि हुत्वा हविर्हुताशने ॥
अग्निष्टोमादिकान्यज्ञान्हयमेधादिकान्बहून् ॥
चकार विधिवद्राजा गजस्तत्र समाहितः ॥ १११ ॥
ततश्च न्यवसत्तत्र तपः कर्तुं सहर्षिभिः ॥
ऊर्द्ध्वपादाः स्थिता विप्राः पीत्वा धूममधोमुखाः ॥
शुष्कपत्राशनाश्चान्ये अन्ये वै फलभोजनाः ॥ ११२ ॥
मूलानि चान्ये भक्षंति अन्ये वार्यंशना द्विजाः ॥
आलोकंति स्वमन्ये च तथान्ये जलशायिनः ॥ ११३ ॥
पञ्चाग्निसाधकाश्चान्ये शिलाचूर्णस्य भक्षकाः ॥
जपंति चान्ये संशुद्धा गायत्रीं वेदमातरम् ॥
सावित्रीं मनसा चान्ये देवीमन्ये सरस्वतीम्॥ ११४ ॥
सूक्तानि हि पवित्राणि ब्रह्मणा निर्मितानि च ॥
अन्येऽवसंस्तदा तत्र द्वादशाक्षरचिन्तकाः ॥ ११५ ॥
आलोक्य सर्वशास्त्राणि विचार्य च पुनःपुनः ॥
इदमेव सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ११६ ॥
आराधितः सुदुष्पारे भवे भगवतो विना ॥
तथा नान्यो महादेवात्पतन्तं योऽभिरक्षति ॥ ११७ ॥
गतागतानि वर्तंते चंद्रसूर्यादयो ग्रहाः ॥
अद्यापि न निवर्तंते द्वादशाक्षरचिंतकाः ॥ ११८ ॥।
येऽक्षरा ऋषयश्चान्ये देवलोकजिगीषवः ॥
प्राप्नुवंति ततः स्थानं दग्धबीजं च तत्तथा ॥ ११९ ॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ 7.2.1.१२० ॥
एकभक्तं तथा नक्तमयाच्यमुषितं तथा॥
एवमादीनि चान्यानि कृत्वा दामोदराग्रतः ॥
कृतकृत्या भवंतीह यावदाभूतसंप्लवम्॥ १२१ ॥
स राजा ऋषिभिः सार्द्धं यावत्तिष्ठति तत्र वै ॥
विमानानि सहस्राणि तावत्तत्रागतानि च ॥ १२२ ॥
गंधर्वाप्सरस्तत्र सिद्धचारणकिन्नराः ॥
सर्वे विमानमारूढाः शतशोऽथ सहस्रशः ॥ १२३॥
सर्वैर्जनपदैः सार्द्ध स राजा भार्यया सह ॥
गतो विमानमारूढो यत्तत्पदमनामयम् ॥ १२४ ॥
य इदं पठते नित्यं शृणुयाद्वाऽपि मानवः ॥
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति ॥ १२५ ॥
 इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये दामोदरमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥