स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३५२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि भल्लतीर्थमनुत्तमम् ॥
तस्याश्च पश्चिमे भागे यत्र विष्णुश्चतुर्भुजः ॥ १ ॥
यत्र त्यक्तं शरीरं तु विष्णुना प्रभविष्णुना ॥
तस्मिन्मित्रवने रम्ये योजनार्द्धार्द्धविस्तृते ॥ २ ॥
युगेयुगे महादेवि कल्पमन्वतरादिषु ॥
तत्रैव संस्थितिर्विष्णोर्नान्यत्र च रतिर्भवेत् ॥ ३ ॥
क्षेत्राणामादिक्षेत्रं तु वैष्णवं तद्विदुर्बुधाः॥
तिस्रः कोट्यर्द्धकोटिश्च तीर्थानां प्रवराणि च॥ ४ ॥
दिवि भुव्यंतरिक्षे च तानि तत्रैव भामिनि॥
तत्र मूर्तिमती गंगा स्वयमेव व्यवस्थिता ॥ ५ ॥
विष्णोः संप्लवनार्थाय प्राणिनां च हिताय वै ॥
गंगा गया कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ ६ ॥
पुरी द्वारवतीं त्यक्त्वा अत्रैव वसते हरिः ॥
तस्यौर्ध्वदैहिकं देवि प्रकरोमि युगेयुगे ॥ ७ ॥
नभस्ये द्वादशीयोगे तत्र गत्वा स्वयं प्रिये ॥
करोमि तद्विधानेन तत्र ब्राह्मणपुंगवैः ॥ ८ ॥
तत्र दत्त्वा तु दानानि विधिवद्वेदपारगे ॥
तत्रैव द्वादशीयोगे स्नात्वा चैव विधानतः ॥ ९ ॥
सन्तर्प्य च पितॄन्भक्त्या मुच्यते सर्वपातकैः ॥
तत्र विष्णुं तु संपूज्य कृत्वा जागरणं निशि ॥ 7.1.352.१० ॥
दीपादिदानं कृत्वा तु कृतकृत्योऽभिजायते ॥ ११ ॥
अथ तस्य प्रवक्ष्यामि पुरावृत्त महं प्रिये ॥
संहृत्य यादवान्सर्वान्वासुदेवः प्रतापवान् ॥ १२ ॥
दुर्वाससाऽनुलिप्तेन पायसेन पदस्तले ॥
वज्रांगभूतदेहस्तु सर्वव्यापी जनार्द्दनः ॥ ॥ १३ ॥
गत्वा तीरे समुद्रस्य समाधिस्थो बभूव ह ॥
सर्वस्रोतांसि संयम्य निवेश्यात्मानमात्मनि ॥ १४ ॥
एतस्मिन्नंतरे प्राप्तो बाणहस्तो जराभिधः ॥
दाशपुत्रोऽतिकृष्णांगो मत्स्यघाती च पापकृत् ॥ १५ ॥
तेन दृष्टस्ततो दूरान्निषादात्मसमुद्भवः ॥
विष्णोः पदं मृगं मत्वा शरं तस्य मुमोच ह ॥ १६ ॥
ततोऽसौ पश्यते यावद्गत्वा तस्य च संनिधौ ॥
चतुर्बाहुं महाकायं शंखचक्रगदाधरम् ॥ १७ ॥
पुरुषं नीलमेघाभं पुडरीकनिभे क्षणम् ॥
तं दृष्ट्वा भयभीतस्तु वेपमानः कृतांजलिः ॥
अब्रवीन्न मया ज्ञातस्त्वं विभो दिव्यरूपधृक् ॥ १८ ॥
अज्ञानात्त्वं मया विद्धस्त्वत्पदाग्रे सुरोत्तम ॥
क्षन्तुमर्हसि मे नाथ न त्वं क्रोद्धुमिहार्हसि ॥ १९ ॥
॥ विष्णुरुवाच ॥ ॥
शापस्यांतोद्य मे भद्र शरपातात्कृतस्त्वया ॥
तस्मात्त्वं मत्प्रसादेन स्वर्गं गच्छ महाद्युते ॥ 7.1.352.२० ॥
ये चान्ये मामिहागत्य द्रक्ष्यंति हि नरोत्तमाः ॥
ते यास्यंति परं स्थानं यत्राहं नित्यसंस्थितः ॥ २१ ॥
भल्लेनाहं यतो विद्धस्त्वया पादतले शुभे ॥
भल्लतीर्थमिति ख्यातं ततो ह्येतद्भविष्यति ॥ २२ ॥
हरिक्षेत्रमिति प्रोक्तं पूर्वं स्वायंभुवेऽन्तरे ॥ २३ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्त्वांतर्दधे विष्णुर्लुब्धकोऽपि दिवं गतः ॥
येऽत्र स्नानं करिष्यंति भक्त्या परमया युताः ॥
विष्णुलोकं गमिष्यंति प्रीत्या ते मत्प्रसादतः ॥ २४ ॥
येऽत्र श्राद्धं करिष्यंति पितृभक्तिपरायणाः ॥
तृप्तिं तेषां गमिष्यंति पितरश्चैव तर्पिताः ॥ २५ ॥
तस्मात्सर्वप्रयत्नेन प्राप्य तत्क्षेत्रमुत्तमम् ॥
दृश्यो देवश्चतुर्बाहुः स्नात्वा तीर्थे तु भल्लके ॥ २६ ॥
मद्भक्तिबलदर्पिष्ठा मत्प्रियं न नमंति ये ॥
वासुदेवं न ते ज्ञेया मद्भक्ताः पापिनो हि ते॥२७॥
मद्भक्तोऽपि हि यो भूत्वा भुंक्त एकादशीदिने॥
मल्लिंगस्यार्चनं कार्यं न तेन पापबुद्धिना॥२८॥
या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा॥
न तां चोपोषयेद्यस्तु स पापिष्ठतराधिकः॥२९॥
तद्वत्स द्वादशीयोगे भल्लतीर्थस्य संनिधौ॥
यस्तु मां पूजयेद्भक्त्या नारी वाऽपि नरोऽपि वा ॥
तस्य जन्मसहस्राणि गृहभंगो न जायते॥7.1.352.३०॥
इत्येतत्कथितं देवि माहात्म्यं पापनाशनम्॥
भल्लतीर्थस्य विष्णोस्तु सर्व पातकनाशनम् ॥३१॥
तत्र विष्णोस्तु सांनिध्ये वायव्ये कुम्भमुत्तमम्॥
भल्लतीर्थं तु विख्यातं यत्र भल्लहतो हरिः ॥३२॥
तत्र देयानि वासांसि पदं गावो विधानतः ॥
देयानि विप्रमुख्येभ्यः सम्यग्यात्राफलेप्सुभिः॥३३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भल्लतीर्थमाहात्म्यवर्णनंनाम द्विपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥३५२॥