स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३४६अ

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं वै हाटकेश्वरम् ॥
नलेश्वरात्पूर्वभागे शतधन्वंतरद्वये ॥ १ ॥
अगस्त्याम्रवनंनाम तत्र स्थाने तु संस्थितम् ॥
चिंतामणेस्तु पूर्वेण ईशाने त्रिशतंधनुः ॥
तत्र पूर्वं तपस्तप्तमगस्त्येन महात्मना ॥ २ ॥
॥ देव्युवाच ॥ ॥
कस्मिन्काले महादेव सर्वं विस्तरतो वद ॥ ३ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
पुरा दैत्यगणा रौद्रा बभूवुर्वरवर्णिनि ॥
कालकेया इति ख्यातास्त्रैलोक्योच्छेदकारकाः ॥ ४ ॥
अथ ते निहताः सर्वे विष्णुना प्रभविष्णुना ॥
दैत्यसूदननाम्ना तु प्रभासक्षेत्रवासिना ॥ ५ ॥
कृत्वा व्याघ्रस्य रूपं तु नाम्ना चक्रमुखीति च ॥
हता वै तेन रूपेण ततोऽभूद्दैत्यसूदनः ॥ ६ ॥
हतशेषाः समुद्रांते प्रविष्टा भयविह्वलाः ॥
ततस्ते मंत्रयामासुः पीड्यंते देवताः कथम् ॥७॥
हन्यंतां धर्मिणो येऽत्र विद्यंते धर णीतले ॥
तपःस्वाध्यायनिरता यज्ञदानरताश्च ये ॥ ५ ॥
अथ ते समयं कृत्वा रात्रौ निष्क्रम्य सागरात् ॥
निर्जघ्नुस्तापसांस्तत्र यज्ञदानरतान्प्रिये ॥ ९ ॥
प्रभासे तु महादेवि तत्र द्वादशयोजने ॥
वसिष्ठस्याश्रमे तत्र महर्षीणां महात्मनाम् ॥ 7.1.346(2).१० ॥
भक्षितानि सहस्राणि पंच सप्त च तापसान् ॥
शतानि पंच रैभ्यस्य विश्वामित्रस्य षोडश ॥ ११ ॥
च्यवनस्य च सप्तैव जाबालेर्द्विशतं मुनेः ॥
वालखिल्याश्रमे पुण्ये षट्छतानि दुरात्मभिः ॥ १२ ॥
यत्र क्वचिद्भवेद्यज्ञस्तत्र गत्वा निशागमे ॥
यज्ञदानसमायुक्तानृत्विजो भक्षयंति च ॥ १३ ॥
ततो भयाकुलाः सर्वे बभूवुर्जगती तले ॥
न च कश्चिद्विजानाति दैत्यानां तु विचेष्टितम् ॥ १४ ॥
रात्रौ स्वपंति मुनयः सुखशय्यागताश्च ते ॥
प्रभाते त्वध्वरे तेषामस्थिसंघाश्च केवलम् ॥१५॥
ततो धर्मक्रियास्त्यक्ता भूतले सर्वमानवैः ॥
निःस्वाध्यायवषट्कारं भूतलं समपद्यत ॥ १६ ॥
अथान्ये तापसा रात्रौ संयुताश्च च धृतायुधाः ॥
अथोच्छेदं गते धर्मे पीडितास्त्रिदिवौकसः ॥ १७ ॥
किमेतदिति जल्पंतो ब्रह्माणं शरणं गताः ॥
भगवंस्तापसाः सर्वे तथा ये ज्ञानशीलिनः ॥ १८ ॥
भक्ष्यन्ते केनचिद्रात्रौ मृत्युमेव प्रयान्ति च ॥
नष्टधर्मक्रियाः सर्वे भूतले प्रपितामह ॥ १९ ॥
यो धर्ममाचरेदह्नि स रात्रौ मृत्युमेति च ॥
न स्वाध्यायवषट्कारं समस्ते भूतले विभो ॥ 7.1.346(2).२० ॥
धर्माभावाद्वयं सर्वे संदेहं परमं गताः ॥
तेषां तद्वचनं श्रुत्वा ध्यात्वा देवः पितामहः ॥
अब्रवीत्त्रिदशान्सर्वान्सन्देहं परमं गतान् ॥ २१ ॥
कालेया इति विख्याता दानवा रौद्रकारिणः ॥
ते समुद्रं समासाद्य तापसान्भक्षयंति च ॥ २२ ॥
युष्माकं च विनाशाय ते न शक्या निषूदितुम् ॥
यतध्वमेषां नाशाय नो चेन्नाशो भविष्यति ॥ २३ ॥
व्रजध्वं भूतले शीघ्रमगस्त्यो यत्र तिष्ठति॥
व्रतचर्यारतो नित्यं प्रभासे क्षेत्र उत्तमे ॥ २४ ॥
स शक्तः सागरं पातुं मित्रावरुणसंभवः ॥
प्रसाद्यश्च स युष्माभिः समुद्रं पिब सत्तम ॥ २५ ॥
ततस्तथा कृते तेन ते सर्वे दानवाधमाः ॥
वध्या युष्माकं भविष्यंति एवं च त्रिदिवेश्वराः ॥ २६ ॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्ताः सुराः सर्वे ब्रह्मणा लोककारिणा ॥
प्रभासं क्षेत्रमासाद्य अगस्त्यं शरणं गताः ॥ २७ ॥
॥ देवा ऊचुः ॥ ॥
रक्षरक्ष द्विजश्रेष्ठ त्रैलोक्यं संशयं गतम् ।।
कालकेयैः प्रतिध्वस्तं समुद्रं समुपाश्रितैः ॥ २८ ॥
तं शोषय द्विजश्रेष्ठ हितार्थं त्रिदिवौकसाम् ॥
नान्यः शक्तः पुमान्कश्चित्कर्तुमीदृक्क्रिया विभो ॥ २९ ॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्तः सुरगणैरगस्त्यो मुनिपुङ्गवः ॥
जगाम त्रिदशैः सार्धं समुद्रं प्रति हर्षितः ॥ 7.1.346(2).३० ॥
गीयमानस्तु गंधर्वैः स्तूयमानस्तु किन्नरैः ॥
श्लाघ्यमानस्तु विबुधैर्वाक्यमेतदुवाच ह ॥ ३१ ॥
एष त्रैलोक्यरक्षार्थं शोषयामि महार्णवम् ॥
द्रक्ष्यध्वं कौतुकं देवाः समीनमकरैर्महत् ॥ ३२ ॥
एवमुक्त्वा द्विजश्रेष्ठो ह्यगस्त्यो भगवान्मुनिः ॥
गंडूषमकरोत्सर्वं सागरं सरितांपतिम् ॥ ३३ ॥
पीते तत्र महासिन्धावगत्स्ये न महात्मना ॥
दानवा भयसंत्रस्ता इतश्चेतश्च बभ्रमुः ॥ ३४ ॥
वध्यमानाः सुरैस्तत्र शस्त्रैः सुनिशितैस्तथा ॥
कांतारमन्ये गच्छंतः पलायनपरायणा ॥ ३५ ॥
हतभूयेषु दैत्येषु विदार्य धरणीतलम् ॥
पातालं विविशुस्तूर्णं रुधिरेण परिप्लुताः ॥ ३६ ॥
अथोचुस्त्रिदशा हृष्टा अगस्त्यं मुनिसत्तमम् ॥
सिद्धं नो वांछितं सर्वं पूर्यतां सागरः पुनः ॥ ३७ ॥
॥ अगस्त्य उवाच ॥ ॥
जीर्णं तोयं मया देवास्तथैवामेध्यतां गतम् ॥
उत्पत्स्यति रघूणां हि कुले नृपतिसत्तमः ॥ ३८ ॥
भगीरथेति विख्यातः सर्वशस्त्रभृतां वरः ॥
स ज्ञातिकारणादेव गंगां तत्रानयिष्यति ॥ ३९ ॥
ब्रह्मलोकात्सरिच्छ्रेष्ठां तया पूर्णो भविष्यति॥
एवमुक्त्वा सुरैः सार्द्धं स्वस्थानं चागमन्मुनिः ॥ 7.1.346(2).४० ॥
ततः स्वमाश्रमं प्राप्तं देवा वाक्यमथाबुवन् ॥
अनेन कर्मणा ब्रह्मन्परितुष्टा वयं मुने ॥ ४१ ॥
किं कुर्मो ब्रूहि तेऽभीष्टं यद्यपि स्यात्सुदुर्लभम् ॥ ४२ ॥
॥ अगस्त्य उवाच ॥ ॥
यावद्ब्रह्मसहस्राणि पंचविंशतिकोटयः ॥
वैमानिको भविष्यामि दक्षिणांबरमूर्द्धनि ॥ ४३ ॥
अत्रागत्य नरो यस्तु ममाश्रमपदे शुभे ॥
हाटकेश्वरसांनिध्ये प्रभासक्षेत्र उत्तमे ॥ ४४ ॥
स्नानमाचरते सम्यक्स यातु परमां गतिम् ॥
पातालादवतीर्णं तं लिंगरूपं महेश्वरम् ॥ ४५ ॥
मया तपः प्रभावेन स्थापितं यः प्रपूजयेत् ॥
दिनेदिने भवेत्तस्य गोशतस्य फलं ध्रुवम् ॥ ४६ ॥
लोपामुद्रासहायं मां यो मर्त्यः संप्रपूजयेत् ॥
अर्घ्यं दद्याद्विधानेन काश पुष्पैः समाहितः ॥ ४७ ॥
प्राप्ते शरदि काले च स यातु परमां गतिम् ॥
लोपामुद्रासहायं मां हाटकेश्वरसंयुतम् ॥ ४८ ॥
अयने चोत्तरे पूज्य गोलक्ष फलमाप्नुयात् ॥
यः श्राद्धं कुरुते चात्र अयने चोत्तरे द्विजः॥
भूयात्तस्य फलं कृत्स्नं गयाश्राद्धस्य सत्तमाः ॥ ४९ ॥
॥ ईश्वर उवाच ॥ ॥
बाढमित्ये व ते चोक्त्वा सर्वे देवाः सवासवाः॥
स्वस्थानं तु गताः सर्वे संहृष्टमनसस्तदा ॥7.1.346(2).५०॥
तस्मात्सर्वप्रयत्नेन प्राप्ते शरदि मानवः॥
अगस्त्यस्याश्रमं गत्वा हाटकेशं प्रपूजयेत् ॥ ५१ ॥
अगस्त्येश्वरनामानं कल्पलिंगं सुरप्रियम् ॥
यश्चैतच्छुणुयाद्भक्त्या ऋषेस्तस्य विचेष्टितम्॥
अहोरात्रकृतात्पापात्तत्क्षणा देव मुच्यते ॥ ५२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये हाटकेश्वरमाहात्म्य वर्णनंनाम षट्चत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४६(?) ॥