स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३४५

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं वै हाटकेश्वरम् ॥
जरद्गवात्पूर्वभागे धनुषां षष्टिभिस्त्रिभिः ॥ १ ॥
नाम्ना नलेश्वरं देवि स्थापितं तु नलेन वै ॥
दमयन्तीयुतेनैव ज्ञात्वा क्षेत्रं तदुत्तमम् ॥ २ ॥
तं दृष्ट्वा मानवो देवि पूजयित्वा विधानतः ॥ कलिभिर्मुच्यते जंतुर्द्यूते च विजयी भवेत् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नलेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४५ ॥