स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३३९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कूपं त्रैलोक्यविश्रुतम् ॥
देविकायास्तटे रम्ये हुंकारेणैव पूर्यते ॥ १ ॥
ततोऽधस्तात्पुनर्याति सलिलं तत्र भामिनि ॥
तण्डीनाम पुरा प्रोक्तो देविकातटमास्थितः ॥ २ ॥
तपस्तेपे महादेवि शिवभक्तिपरायणः ॥
तस्यैवं तप्यमानस्य तस्मिन्देशे वरानने ॥ ३ ॥
आजगाम मृगो वृद्धस्तं देशमन्ध दृक्प्रिये ॥
स पपात महागर्ते अगाधे जलवर्जिते ॥ ४ ॥
तं दृष्ट्वा कृपयाविष्टः स मुनिर्मौनमास्थितः ॥
हुंकारं कुरुते तत्र भूयोभूयश्च भामिनि ॥ ५ ॥
अथ हुंकारशब्देन तस्य गर्तः प्रपूरितः ॥
ततो मृगो विनिष्क्रांतः कृच्छ्रेण सलिलात्प्रिये ॥ ६ ॥
मानुषं रूपमाश्रित्य तमृषिं पर्यपृच्छत ॥
विस्मयं परमं गत्वा काम्यदं कर्मणः फलम् ॥ ७ ॥
मृगत्वे पतितश्चात्र नरो भूत्वा विनिर्गतः ॥
सोऽब्रवीत्तस्य माहात्म्यं सलिलस्य द्विजोत्तमः ॥ ८ ॥
अतोऽहं नरतां प्राप्तो नान्यदस्तीह कारणम् ॥
ततस्तत्सलिलं भूयः प्रविष्टं धरणीतले ॥ ९ ॥
ततो हुंकृतवान्भूयः स ऋषिः कौतुकान्वितः ॥
आपूरितः पुनः कूपः सलिलेन पुरा यथा ॥ 7.1.339.१० ॥
ततः स कृतवान्स्नानं तथा च पितृतर्पणम्॥
मत्वा तीर्थवरं तत्र ततः प्राप्तः परां गतिम् ॥ ११ ॥
अद्यापि हुंकृते तस्मिन्सलिलौघः प्रवर्तते ॥
तत्र गत्वा नरो भक्त्या अपि पापरतोऽपि यः ॥ १२ ॥
न मानुष्यं पुनर्जन्म प्राप्नोति जगतीतले ॥
तत्र स्नात्वा शुचिर्भूत्वा यः श्राद्धं कुरुते नरः ॥ १३ ॥
मुच्यते सर्वपापेभ्यः पितृलोके महीयते ॥
कुलानि तारयेत्सप्त अतीताऽनागतानि च ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये हुंकारकूपमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ॥ ३३९ ॥ ॥ छ ॥