स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३३८

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देविकातटसंस्थितम् ॥
जालेश्वरेति विख्यातं सुरासुरनमस्कृतम् ॥ १ ॥
मन्वन्तरे चाक्षुषे च सम्प्राप्ते द्वापरे युगे ॥
नाम्ना जालेश्वरं लिंगं देविकातटसंस्थितम् ॥ २ ॥
पूज्यते नागकन्याभिर्न तत्पश्यंति मानवाः ॥
महा तेजोमणिमयं चंद्रबिंबसमप्रभम् ॥
स्मरणात्तस्य देवस्य ब्रह्महत्या प्रणश्यति ॥ ३ ॥
॥ देव्युवाच ॥ ॥
कथं जालेश्वरं नाम कस्मिन्काले बभूव तत् ॥ ४ ॥
साधुभिः सह संवासात्के गुणाः परिकीर्त्तिताः ॥
के लोकाः कानि पुण्यानि तत्सर्वं शंस मे प्रभो ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
अत्रैवोदाहरंतीममितिहासं पुरातनम् ॥
नाभागस्य च संवादमापस्तंबतपोनिधेः ॥ ६ ॥
महर्षिरात्मवान्पूर्वमापस्तंबो द्विजाग्रणीः ॥
उपावसन्सदा रम्भो बभूव भगवांस्तदा ॥ ७ ॥
नित्यं क्रोधं च लोभं च मोहं द्रोहं विसृज्य सः ॥
देविकासरितो मध्ये विवेश सलिलाशये ॥ ८ ॥
क्षेत्रे प्राभासिके रम्ये सम्यग्ज्ञात्वा शिवप्रिये ॥
तत्रास्य वसतः कालः समतीतो महांस्तदा ॥ ९ ॥
परेण ध्यानयोगेन स्थाणुभूतस्य तिष्ठतः ॥
ततः कदाचिदागत्य तं देशं मत्स्यजीविनः ॥ 7.1.338.१० ॥
प्रसार्य सुमहज्जालं सर्वे चाकर्षयन्बलात् ॥
अथ तं च महामत्स्यं निषादा बलदर्पिताः ॥ ११ ॥
तस्मादुत्तारयामासुः सलिलाद्ब्रह्मनंदनम् ॥
तं दृष्ट्वा तपसा दीप्तं कैवर्त्ता भयविह्वलाः ॥
शिरोभिः प्रणिपत्योच्चैरिदं वचनमब्रुवन् ॥ १२ ॥ ॥
निषादा ऊचुः ॥ ॥
अज्ञानात्कृतपापानामस्माकं क्षन्तुमर्हसि ॥
किं वा कार्यं प्रियं तेऽद्य तदाज्ञापय सुव्रत ॥ १३ ॥
स मुनिस्तन्महद्दृष्ट्वा मत्स्यानां कदनं कृतम्॥
कृपया परयाविष्टो दाशान्प्रोवाच दुःखितः ॥ १४ ॥
केन मे स्यादुपायो हि सर्वे स्वार्थे बत स्थिताः ॥
ज्ञानिनामपि यच्चेतः केवलात्महिते रतम् ॥ १५ ॥
ज्ञानिनोपि यदा स्वार्थमाश्रित्य ध्यानमास्थिताः ॥
दुःखार्त्तानीह सत्त्वानि क्व यास्यंति सुखं ततः ॥ १६ ॥
योऽभिवांछति भोक्तुं वै दुःखान्येकांततो जनः ॥
पापात्पापतरं तं हि प्रवदंति मुमुक्षवः ॥ १७ ॥
को नु मे स्यादुपायो हि येनाहं दुःखितात्मवान्॥
अंतः प्रविष्टः सत्त्वानां भवेयं सर्वदुःखभुक् ॥ १८ ॥
यन्ममास्ति शुभं किचित्तदेनानुपगच्छतु ॥
यत्कृतं दुष्कृतं तैश्च तदशेषमुपेतु माम् ॥ १९ ॥
दृष्ट्वांधान्कृपणान्व्यंगाननाथान्रोगिणस्तथा ॥
दया न जायते यस्य स रक्ष इति मे मतिः ॥ 7.1.338.२० ॥
प्राणसंशयमापन्नान्प्राणिनो भयविह्वलान् ॥
यो न रक्षति शक्तोपि स तत्पापं समश्नुते ॥ २१ ॥
आहुर्जनानामार्त्तानां सुखं यदुपजायते ॥
तस्य स्वर्गोऽपवर्गो वा कलां नार्हति षोडशीम् ॥ ॥ २२ ॥
तस्मान्नैतानहं दीनांस्त्यक्त्वा मीनान्सुदुःखितान् ॥
पदमात्रं तु यास्यामि किं पुनस्त्रिदशालयम् ॥ २३ ॥
॥ ईश्वर उवाच ॥ ॥
निशम्यैतदृषेर्वाक्यं दाशास्ते जातसंभ्रमाः ॥
यथावृत्तं तु तत्सर्वं नाभागाय न्यवेदयन् ॥ २४ ॥
नाभागोऽपि ततः श्रुत्वा तं द्रष्टुं ब्रह्मनन्दनम् ॥
त्वरितः प्रययौ तत्र सामात्यः सपुरोहितः ॥ २५ ॥
स सम्यक्पूजयित्वा तं देवकल्पमुनिं नृपः ॥
प्रोवाच भगवन्ब्रूहि किं करोमि तवाज्ञया ॥२६॥ ॥
॥ आपस्तंब उवाच ॥ ॥
श्रमेण महताविष्टाः कैवर्त्ता दुःखजीविनः ॥
मम मूल्यं प्रयच्छेति यद्योग्यं मन्यसे नृप ॥ २७ ॥
॥ नाभाग उवाच ॥ ॥
सहस्राणां शतं मूल्यं निषादेभ्यो ददाम्यहम् ॥
निग्रहाख्यस्य भगवन्यथाह ब्रह्मनंदनः ॥ २८ ॥
॥ आपस्तंब उवाच ॥ ॥
नाहं शतसहस्रैश्च नियम्यः पार्थिव त्वया ॥
सदृशं दीयतां मूल्यममात्यैः सह चिंतय ॥ २९ ॥
॥ नाभाग उवाच ॥ ॥
कोटिः प्रदीयतां मूल्यं निषादेभ्यो द्विजोत्तम ॥
यद्येतदपि ते मूल्यं ततो भूयः प्रदीयते ॥ 7.1.338.३० ॥ ॥
आपस्तंब उवाच ॥ ॥
नार्हं मूल्यं च मे कोटिरधिकं वापि पार्थिव ॥
सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिंतय ॥ ३१ ॥
॥ नाभाग उवाच ॥ ॥
अर्द्धराज्यं समस्तं वा निषादेभ्यः प्रदीयताम् ॥
एतन्मूल्यमहं मन्ये किं वाऽन्यन्मन्यसे द्विज ॥ ३२ ॥
॥ आपस्तंब उवाच ॥ ॥
अर्धराज्यसमस्तं वा नाहमर्हामि पार्थिव ॥
सदृशं दीयतां मूल्यमृषिभिः सह चिंतय ॥ ३३ ॥
महर्षेस्तद्वचः श्रुत्वा नाभागः स विषादवान् ॥
चिन्तयामास दुःखार्तः सामात्यः सपुरोहितः ॥ ३४ ॥
ततः कश्चिदृषिस्तत्र लोमशस्तु महातपाः ॥
नाभागमब्रवीन्मा भैस्तोषयिष्यामि तं मुनिम् ॥ ३५ ॥
॥ नाभाग उवाच ॥ ॥
ब्रूहि मूल्यं महाभाग मुनेरस्य महात्मनः ॥
परित्रायस्व मामस्मात्सज्ञातिकुलबांधवम् ॥ ३६ ॥
निर्दहेद्भगवान्रुद्रस्त्रैलोक्यं सचराचरम्॥
किं पुनर्मानुषं हीनमत्यंतवि षयात्मकम् ॥ ३७ ॥
॥ लोमश उवाच ॥ ॥
त्वमीड्यो हि महाराज जगत्पूज्यो द्विजोत्तमः ॥
गावश्च दिव्यास्तस्माद्गौर्मूल्यमम्यै प्रदीयताम्॥ ३९ ॥
तच्छ्रुत्वा वचनं राजा सामात्यः सपुरोहितः ॥
हर्षेण महताविष्टः प्रोवाचेदं वचोमुनिम् ॥ ३९ ॥
उत्तिष्ठोत्तिष्ठ भगवन्क्रीत एव न संशयः ॥
एतद्योग्यतमं मूल्यं भवतो मुनिसत्तम ॥ 7.1.338.४० ॥
॥ आपस्तंब उवाच ॥ ॥
उत्तिष्ठाम्येष सुप्रीतः सम्यक्क्रीतोऽस्मि पार्थिव ॥
गोभ्यो मूल्यं न पश्यामि पवित्रं परमं भुवि ॥ ४१ ॥
गावः प्रदक्षिणीकार्याः पूजनीयाश्च नित्यशः ॥
मंगलायतनं देव्यः सृष्टा ह्येताः स्वयंभुवा॥ ॥ ४२ ॥
अग्न्यगाराणि विप्राणां देवतायतनानि च ॥
यद्गोमयेन शुद्ध्यंति किंभूतमधिकं ततः ॥४३॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च ॥
गवां पंच पवित्राणि पुनंति सकलं जगत् ॥४४॥
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ॥
गावो मे ह्रदये चैव गवां मध्ये वसाम्यहम ॥४५॥
एवं जपन्नरो मंत्रं त्रिसंध्यं नियतः शुचिः ॥
मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति ॥ ४६ ॥
तृणाहारपरा गावः कर्त्तव्या भक्तितोऽन्वहम्॥
अकृत्वा स्वयमाहारं कुर्वन्प्राप्नोति दुर्गतिम् ॥ ४७ ॥
तेनाग्नयो हुताः सम्यक्पितरश्चापि तर्पिताः ॥
देवाश्च पूजितास्तेन यो ददाति गवाह्निकम्॥४८॥
मन्त्रः ॥
सौरभेयी जगत्पूज्या देवी विष्णुपदे स्थिता ॥
सर्वमेव मया दत्तं प्रतीच्छतु सुतोषिता॥४९॥
रक्षणाद्बालपुत्राणां गवां कण्डूयनात्तथा ॥
क्षीणार्तरक्षणाच्चैव नरः स्वर्गे महीयते । 7.1.338.५० ॥
आदिर्गावो हि मर्त्यस्य मध्ये चांते प्रकीर्तिताः ॥
रक्षंति तास्तु देवानां क्षीराज्यममृतं सदा ॥ ५१ ॥
तस्माद्गावः प्रदातव्याः पूजनीयाश्च नित्यशः ॥
स्वर्गस्य संगमा ह्येताः सोपानमिव निर्मिताः ॥ ५२ ॥
एतच्छ्रुत्वा निषादास्ते गवां माहात्म्यमुत्त मम् ॥
प्रणिपत्य महात्मानमापस्तंबमथाब्रुवन् ॥ ५३ ॥
॥ निषादा ऊचुः ॥ ॥
संभाषो दर्शनं स्पर्शः कीर्तनं स्मरणं तथा ॥
पावनानि किलैतानि साधूनामिति च श्रुतम् ॥ ५४ ॥
संभाषो दर्शनं चैव सहास्माभिः कृतं त्वया ॥
कुरुष्वानुग्रहं तस्माद्गौरेषा प्रतिगृह्यताम् ॥ ५५ ॥
॥ आपस्तंब उवाच ॥ ॥
एता वः प्रतिगृह्णामि गां यूयं मुक्तकिल्विषाः ॥
निषादा गच्छत स्वर्गं सह मत्स्यैर्जलोद्धृतैः ॥५६॥
प्राणिनां प्रीतिमुत्पाद्य निन्दिते नापि कर्मणा ॥
नरकं यदि पश्यामि वत्स्यामि स्वर्ग एव तत् ॥ ५७ ॥
यन्मया सुकृतं किञ्चिन्मनोवाक्कायकर्मभिः ॥
कृतं स्यात्तेन दुःखार्ताः सर्वे यांतु शुभां गतिम् ॥ ५८ ॥
ततस्तस्य प्रसादेन महर्षेर्भावितात्मनः ॥
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं गताः ॥ ५९ ॥
तान्दृष्ट्वा व्रजतः स्वर्गं समत्स्यान्मत्स्यजीविनः ॥
सामात्यभृत्यो नृपतिर्विस्मयादिदमब्रवीत् ॥ 7.1.338.६० ॥
सेव्याः श्रेयोऽर्थिभिः सन्तः पुण्यतीर्थे जलोपमाः ॥
क्षणो पासनमप्यत्र न येषां निष्फलं भवेत् ॥ ६१ ॥
सद्भिः सह सदासीत सद्भिः कुर्वीत सत्कथाम् ॥
सतां व्रतेन वर्तेत नासद्भिः किञ्चिदाचरेत् ॥ ६२ ॥
सतां समागमादेते समत्स्या मत्स्यजीविनः ॥
त्रिविष्टपमनुप्राप्ता नराः पुण्यकृतो यथा ॥ ६३ ॥
आपस्तंबो मुनिस्तत्र लोमशश्च महामनाः ॥
वरैस्तं विविधैरिष्टैश्छंदयामासतुर्नृपम्॥ ६४ ॥
ततः स वरयामास धर्मबुद्धिं सुदुर्लभाम् ॥
तथेति चोक्त्वा तौ प्रीत्या तं नृपं वै शशंसतुः ॥ ६५ ॥
अहो धन्योऽसि राजेन्द्र यत्ते धर्मपरा मतिः ॥
धर्मः सुदुर्लभः पुंसां विशेषेण महीक्षिताम् ॥ ६६ ॥
यदि राजा मदाविष्टः स्वधर्मं न परि त्यजेत् ॥
ततो जगति कस्तस्मात्पुमानभ्यधिको भवेत् ॥ ६७ ॥
ध्रुवं जन्म सदा राज्ञां मोहश्चापि सदा ध्रुवः ॥
मोहाद्ध्रुवश्च नरको राज्यं निन्दन्त्यतो बुधाः ॥ ६८ ॥
राज्यं हि बहु मन्यंते नरा विषयलोलुपाः ॥
मनीषिणस्तु पश्यन्ति तदेव नरकोपमम् ॥ ६९ ॥
तस्माल्लोकद्वयध्वंसी न कर्त्तव्यो मदस्त्वया ॥
यदीच्छसि महाराज शाश्वतीं गतिमात्मनः ॥ 7.1.338.७० ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्त्वा तौ महात्मानौ जग्मतुः स्वं स्वमाश्रमम् ॥
नाभागोऽपि वरं लब्ध्वा प्रहृष्टः प्राविशत्पुरम् ॥ ७१ ॥
एतत्ते कथितं देवि प्रभावं देविकोद्भवम् ॥
ऋषिणा स्थापितश्चापि भवो जाले श्वरस्तदा ॥ ७२ ॥
जाले निपतितो यस्माद्दाशानामृषिसत्तमः ॥
जालेश्वरेति नामासौ विख्यातः पृथिवीतले ॥ ७३ ॥
तत्र स्नात्वा महादेवि जालेश्वरसमर्चनात् ॥
आपस्तंबश्च नाभागो निषादा मत्स्यजीविनः ॥ ७४ ॥
मत्स्यैः सह गताः स्वर्गं देविकायाः प्रभावतः ॥
चैत्रस्यैव तु मासस्य शुक्लपक्षे त्रयोदशीम् ॥ ७५ ॥
दद्यात्पिण्डं पितृभ्यो यस्तस्यांतो नैव विद्यते ॥
गोदानं तत्र देयं तु ब्राह्मणे वेदपारगे ॥
श्रोतव्यं चैव माहात्म्यं द्रष्टव्यो जालकेश्वरः ॥ ७६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविका नदीमाहात्म्ये जालेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३८ ॥ छ ॥