स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३३७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि नारायणगृहं परम् ॥
गोष्पदाद्दक्षिणे भागे सागरस्य तटे शुभे ॥ १ ॥
न्यंकुमत्याः समीपे तु सर्वपातकनाशने ॥
तत्रकल्पांतरस्थायी स्वयं तिष्ठति केशवः ॥ २ ॥
पितॄणामुद्धरणार्थाय ह्यस्मिन्रौद्रे कलौ युगे ॥
यदा दैत्यविनाशं स कुरुते भगवान्हरिः ॥ ३ ॥
विश्रामार्थं तदा तत्र गृहे तिष्ठति नित्यशः ॥
नारायणगृहं तेन विख्यातं जगतीतले ॥ ४॥
कृते जनार्दनोनाम त्रेतायां मधुसूदनः ॥
द्वापरे पुण्डरीकाक्षः कलौ नारायणः स्मृतः ॥ ५ ॥
एवं चतुर्युगे प्राप्ते पुनःपुनररिन्दम ॥
कृत्वा धर्मव्यवस्थानं तत्स्थानं प्रतिपद्यते ॥ ६ ॥
एकादश्यां निराहारो यस्तं देवं प्रपश्यति ॥
स पश्यति ध्रुवं स्थाने प्रत्यानन्तं हरेः पदम् ॥ ७॥
तेन पीतानि वस्त्राणि देयानि द्विजपुंगवे ॥
स्नानं श्राद्धं च कर्तव्यं सम्यग्यात्राफलेप्सुभिः ॥ ८ ॥
इति ते कथितं महाप्रभावं हरिसंकेतनिकेतनोद्भवम् ॥
शृणुते वा प्रयतस्तु यः सुधीः पठते वा लभते स सद्गतिम् ॥ ९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये नारायणगृहमाहात्म्यवर्णनंनाम सप्तत्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३७ ॥