स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३३६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गोष्पदं तीर्थमुत्तमम् ॥
यत्र श्राद्धं नरः कृत्वा गयासप्तगुणं फलम्॥
लभते नात्र संदेहो यदि श्रद्धा दृढा भवेत् ॥ १ ॥
यत्र श्राद्धं पृथुः कृत्वा पितरं पापयोनितः ॥ उद्दधार महादेवि वेनंनाम महाप्रभुम् ॥ ॥ २ ॥
॥ देव्युवाच ॥ ॥
कस्मिन्स्थाने स्थितं तीर्थमुत्पत्तिस्तस्य कीदृशी ॥
कथं स वेनराजो वा उद्धृतः पापयोनितः ॥ ३ ॥
गयासप्तगुणं पुण्यं कथं तत्र प्रजायते ॥
श्राद्धस्य किं विधानं तु के मंत्रास्तत्र के द्विजाः ॥
एतन्मे कौतुकं देव यथावद्वक्तुमर्हसि ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
इदं रहस्यं देवेशि यत्त्वया परिपृच्छितम्॥
अप्रकाश्यमिदं तीर्थमस्मिन्पापयुगे प्रिये ॥ ५ ॥
तथापि संप्रवक्ष्यामि तव स्नेहात्सुरेश्वरि ॥
न पापिन इदं ब्रूयान्नैव तर्करताय वै ॥ ६ ॥
न नास्तिकाय देवेशि न सुवर्णेतराय च ॥
अस्ति देवि महासिद्धा पुण्या न्यंकुमती नदी ॥ ७ ॥
मर्यादार्थं मयाऽऽनीता क्षेत्रस्यास्य महेश्वरि॥
संस्थिता पापशमनी पर्णादित्याच्च दक्षिणे॥ ८ ॥
नारायणगृहात्सौम्ये नातिदूरे व्यवस्थिता॥
तस्या मध्ये महादेवि तीर्थं त्रैलोक्यविश्रुतम् ॥ ९ ॥
गोष्पदं नाम विख्यातं कोटिपापहरं नृणाम्॥
गोष्पदस्य समीपे तु नातिदूरे व्यवस्थितः ॥ 7.1.336.१० ॥
अनन्तो नाम नागेन्द्रः स्वयंभूतो धरातले ॥
तस्य तीर्थस्य रक्षार्थं विष्णुना सन्नियोजितः ॥ ११ ॥
कांक्षंति पितरः पुत्रान्नरकादतिभीरवः ॥
गंता यो गोष्पदे पुत्रः स नस्त्राता भविष्यति ॥
गोष्पदे च सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ॥ १२ ॥
पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किं न दास्यति ॥
अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलांजलिम् ॥
प्रभासक्षेत्रमासाद्य गोष्पदे तीर्थ उत्तमे ॥ १३ ॥
अपि स्यात्स कुलेऽस्माकं खड्गमांसेन यः सकृत् ॥
श्राद्धं कुर्यात्प्रयत्नेन कालशाकेन वा पुनः ॥ १४ ॥
अपि स्यात्स कुलेऽस्माकं गोष्पदे दत्तदीपकः ॥
आकल्पकालिका दीप्तिस्तेनाऽस्माकं भविष्यति ॥ १५ ॥
गोष्पदे चान्नशता यः पितरस्तेन पुत्रिणः ॥
दिनमेकमपि स्थित्वा पुनात्यासप्तमं कुलम् ॥ ॥ १६ ॥
पिण्डं दद्याच्च पित्रादेरात्मनोऽपि स्वयं नरः ॥
पिण्याकेंगुदकेनापि तेन मुच्येद्वरानने ॥ १७ ॥
ब्रह्मज्ञानेन किं योगैर्गोग्रहे मरणेन किम् ॥
किं कुरुक्षेत्रवासेन गोष्पदे यदि गच्छति ॥ १८ ॥
सकृत्तीर्थाभिगमनं सकृत्पिण्डप्रपातनम् ॥
दुर्ल्लभं किं पुनर्नित्यमस्मिंस्तीर्थे व्यवस्थितम्॥ १९ ॥
अर्द्धकोशं तु तत्तीर्थं तदर्द्धार्द्धं तु दुर्ल्लभम् ॥
तन्मध्ये श्राद्धकृत्पुण्यं गयासप्तगुणं लभेत् ॥ 7.1.336.२० ॥
श्राद्धकृद्गोष्पदे यस्तु पितॄणामनृणो हि सः ॥
पदमध्ये विशेषेण कुलानां शतमुद्धरेत् ॥ २१ ॥
गृहाच्चलितमात्रस्य गोष्पदे गमनं प्रति ॥
स्वर्गारोहणसोपानं पितॄणां तु पदेपदे ॥ २२ ॥
पायसेनैव मधुना सक्तुना पिष्टकेन च ॥
चरुणा तंदुलाद्यैर्वा पिंडदानं विधीयते ॥ २३ ॥
गोप्रचारे तु यः पिण्डा ञ्छमीपत्रप्रमाणतः ॥
कन्दमूलफलाद्यैर्वा दत्त्वा स्वर्गं नयेत्पितॄन् ॥ २४ ॥
गोष्पदे पिण्डदानेन यत्फलं लभते नरः ॥
न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ॥ २५ ॥
अथातः संप्रवक्ष्यामि सम्यग्यात्राविधिं शुभम् ॥
यात्राविधानं च तथा सम्यक्छ्रद्धान्विता शृणु ॥ ॥ २६ ॥
यदि तीर्थं नरो गच्छेद्गयाश्राद्धफलेप्सया ॥
तथाविधविधानेन यात्रा कुर्याद्विचक्षणः ॥ २७ ॥
ब्रह्मचारी शुचिर्भूत्वा हस्तपादेषु संयतः ॥
श्रद्धावानास्तिको भावी गच्छेत्तीर्थं ततः सुधीः ॥ २८ ॥
न नास्तिकस्य संसर्गं तस्मिंस्तीर्थे नरश्चरेत् ॥
सर्वोपस्करसंयुक्तः श्राद्धार्ह द्रव्यसंयुतः ॥
गच्छेत्तीर्थं साधुसंगी गयां मनसि मानयन् ॥ २९ ॥
एवं यस्तु द्विजो गच्छेत्प्रतिग्रहविवर्जितः ॥
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्य संशयम्॥ 7.1.336.३० ॥
तत्र स्नात्वा न्यंकुमत्यां सिद्धये पितृमुक्तये ॥
स्नात्वाथ तर्प्पणं कुर्याद्देवादीनां यथाविधि ॥ ३१ ॥
ब्रह्मादिस्तंबपर्यंता देवर्षि मनुमानवाः ॥
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥ ३२ ॥
एवं संतर्प्य विधिना कृत्वा होमादिकं नरः ॥
श्राद्धं सपिण्डकं कुर्यात्स्वतंत्रोक्तविधानतः ॥ ३३ ॥
आमन्त्र्य ब्राह्मणांस्तत्र शास्त्रजान्दोषवर्जितान् ॥
एवं कृतोपचारस्तु इमं मन्त्रमुदीरयेत् ॥ ३४ ॥
कव्यवाडनलः सोमो यमश्चैवार्यमा तथा ॥
अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ॥
आगच्छन्तु महाभागा युष्माभी रक्षिता स्त्विह ॥ ३५ ॥
मदीयाः पितरो ये च कुले जाताः सनाभयः ॥
तेषां पिण्डप्रदाताऽहमागतोऽस्मिन्पितामहाः ॥ ३६ ॥
एवमुक्त्वा महादेवि इमं मन्त्रमुदीरयेत् ॥ ३७ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ॥
माता पितामही चैव तथैव प्रपितामही ॥ ३८ ॥
मातामहः प्रमाता च तथा वृद्धप्रमातृकः ॥
तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ ३९ ॥
ॐ नमो भानवे भर्त्रेऽब्जभौमसोमरू पिणे ॥
एवं नत्वाऽर्चयित्वा तु इमां स्तुतिमथो पठेत् ॥ 7.1.336.४० ॥
तत्र गोष्पदसामीप्ये चरुणा सुशृतेन च ॥
पितॄणामनाथानां च मंत्रैः पिंडांश्च निर्वपेत् ॥ ४१ ॥
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ॥
रौरवे चांधतामिस्रे कालसूत्रे च ये गताः ॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ॥ ४२ ॥
अनेकयातनासंस्थाः प्रेतलोकेषु ये गताः ॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ४३ ॥
पशुयोनिगता ये च ये च कीटसरी सृपाः ॥
अथवा वृक्षयोनिस्थास्तेभ्यः पिंडं ददाम्यहम् ॥४४॥
असंख्या यातनासंस्था ये नीता यमशासकैः॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ४५ ॥
येऽबांधवा बांधवा ये येऽन्यजन्मनि बांधवाः ॥
ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा ॥ ४६ ॥
ये केचित्प्रेतरूपेण वर्त्तंते पितरो मम ॥
ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा ॥ ४७ ॥
दिव्यांतरिक्षभूमिस्थपितरो बांधवादयः ॥
मृताश्चासंस्कृता ये च तेषां पिंडोस्तु मुक्तये ॥ ॥ ४८ ॥
पितृवंशे मृता ये च मातृवंशे तथैव च ॥
गुरुश्वशुरबंधूनां ये चान्ये बांधवा मृताः ॥ ४९ ॥
ये मे कुले लुप्तपिंडाः पुत्रदारविवर्जिताः ॥
क्रियालोपगता ये च जात्यंधाः पंगवस्तथा ॥ 7.1.336.५० ॥
विरूपा आमगर्भा येऽज्ञाता ज्ञाताः कुले मम ॥
तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम्॥ ॥५१॥
प्रेतत्वात्पितरो मुक्ता भवंतु मम शाश्वतम् ॥
यत्किंचिन्मधुसमिश्रं गोक्षीरं घृतपायसम् ॥५२॥
अक्षय्यमुपतिष्ठेत्त्वत्त्वस्मिंस्तीर्थे तु गोष्पदे॥
स्वाध्यायं श्रावयेत्तत्र पुराणान्यखिलान्यपि ॥ ५३ ॥
ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च॥
ऐंद्राणि सोमसूक्तानि पावमानीश्च शक्तितः ॥ ॥ ५४ ॥
बृहद्रथंतरं तद्वज्ज्येष्ठसाम सरौरवम्॥
तथैव शांतिकाध्यायं मधुब्राह्मणमेव च ॥५५॥
मंडलं ब्राह्मणं तत्र प्रीतकारि च यत्पुनः ॥
विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत्॥५६॥
एवं न्यंकुमतीमध्ये गोष्पदे तीर्थ उत्तमे ॥
दत्त्वा पिंडांश्च विधिवत्पुनर्मंत्रमिमं पठेत् ॥ ५७ ॥
साक्षिणः संतु मे देवा ब्रह्माद्या ऋषिपुंगवाः ॥
मयेदं तीर्थमासाद्य पितॄणां निष्कृतिः कृता ॥५८॥
आगतोऽस्मि इदं तीर्थं पितृकार्ये सुरोत्तमाः ॥
भवंतु साक्षिणः सर्वे मुक्तश्चाहमृणत्रयात्॥ ५९ ॥
एवं प्रदक्षिणीकृत्य गोष्पदं तीर्थमुत्तमम् ॥
विप्रेभ्यो दक्षिणां दत्त्वा नद्यां पिंडान्विसर्जयेत् ॥ 7.1.336.६० ॥
गोदानं तत्र देयं तु तद्वत्कृष्णाजिनं प्रिये ॥
अष्टकासु च वृद्धौ च गयायां मृतवासरे ॥ ६१ ॥
अत्र मातुः पृथक्छ्राद्धमन्यत्र पतिना सह ॥
वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम्॥ ६२ ॥
गयावदत्रैव पुनः श्राद्धं कार्यं नरोत्तमैः ॥
तस्माद्गुप्तगया प्रोक्ता इयं सा विष्णुना स्वयम् ॥ ६३ ॥
गंधदानेन गंधाप्तिः सौभाग्यं पुष्पदानतः ॥
धूपदानेन राज्याप्तिर्दीप्तिर्दीपप्रदानतः ॥ ६४ ॥
ध्वजदानात्पापहानिर्यात्राकृद्ब्रह्मलोकभाक् ॥
श्राद्धपिंडप्रदो लोके विष्णुर्नेष्यति वै पितॄन्॥ ६५ ॥
एकं यो भोजयेत्तत्र ब्राह्मणं शंसितव्रतम्॥
गोप्रचारे महातीर्थे कोटिर्भवतिभोजिता ॥ ६६ ॥
इति संक्षेपतः प्रोक्तस्तत्र श्राद्धविधिस्तव ॥
अथ ते कथयिष्यामि इतिहासं पुरातनम् ॥ ६७ ॥
वेनस्य राज्ञश्चरितं पृथोश्चैव महात्मनः ॥
यथा तत्राभवन्मुक्तिस्तस्य चांडालयोनितः ॥
तत्सर्वं शृणु देवेशि सम्यक्छ्रद्धासमान्विता ॥ ६८ ॥
पिशुनाय न पापाय नाशिष्यायाहिताय च ॥
कथनीयमिदं पुण्यं नाव्रताय कथंचन ॥ ६९ ॥
स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदेन संमितम् ॥
रहस्यमृषिभिः प्रोक्तं शृणुयाद्योऽनसूयकः ॥ 7.1.336.७० ॥
यश्चैनं श्रावयेन्मर्त्यः पृथो र्वैन्यस्य संभवम् ॥
ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताऽकृते ॥७१॥
गोप्ता धर्मस्य राजाऽसौ बभौ चात्रिसमप्रभः ॥
अत्रिवंशसमुत्पन्नो ह्यंगो नाम प्रजापतिः ॥ ७२ ॥
तस्य पुत्रोऽभवेद्वेनो नात्यर्थं धार्मिकस्तथा ॥
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः॥७३ ॥
समातामह दोषेण तेन कालात्मकाननः ॥
स धर्मं पृष्ठतः कृत्वा पापबुद्धिरजायत ॥ ७४ ॥
स्थितिमुत्थापयामास धर्मोपेतां सनातनीम् ॥
वेदशास्त्राण्यतिक्रम्य ह्यधर्म निरतोऽभवत् ॥ ७५ ॥
निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रशासति ॥
डिंडिमं घोषयामास स राजा विषये स्वके ॥ ७६ ॥
न दातव्यं न यष्टव्यं मयि राज्यं प्रशासति ॥
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ ७७॥
अहमीड्यश्च पूज्यश्च सर्वयज्ञैर्द्विजोत्तमैः ॥
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि ॥७८॥
तमतिक्रांतमर्यादं प्रजापीडनतत्परम् ॥
ऊचुर्महर्षयः क्रुद्धा मरीचिप्रमुखास्तदा ॥७९॥
माऽधर्मं वेन कार्षीस्त्वं नैष धर्मः सनातनः ॥
अत्रेर्वंशे प्रसूतोऽसि प्रजापतिरसंशयम् ॥ 7.1.336.८० ॥
पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः ॥
तांस्तथावादिनः सर्वान्ब्रह्मर्षीनब्रवीत्तदा ॥ ८१ ॥
वेनः प्रहस्य दुर्बुद्धिरिदं वचनकोविदः ॥
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ॥ ८२ ॥
वीर्यश्रुततपःसत्यैर्मयान्यः कः समो भुवि ॥
मदात्मानो न नूनं मां यूयं जानीथ तत्त्वतः ॥ ८३ ॥
प्रभवं सर्वलोकानां धर्माणां च विशेषतः॥
इत्थं देहेन पृथिवीं भावेन यजनेन च ॥ ८४ ॥
सृजेयं च ग्रसेयं च नात्र कार्या विचारणा ॥
यदा न शक्यते स्तंभान्मत्तश्चैव विमोहितः ॥ ८५ ॥
अनुनेतुं नृपो वेनस्तत्र क्रुद्धा महर्षयः ॥
आथर्वणेन मंत्रेण हत्वा तं ते महाबलम् ॥ ८६ ॥
ततोऽस्य वामबाहुं ते ममंथुर्भृशकोपिताः ॥
तस्माच्च मथ्यमानाद्वै जज्ञे पूर्वमिति श्रुतिः ॥ ८७ ॥
ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चापि तदा प्रिये ॥
स भीतः प्राञ्जलिश्चैव तस्थिवान्संमुखे प्रिये ॥ ८८ ॥
तमात्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल ॥
निषादो वंशकर्ता वै तेनाभूत्पृथुविक्रमः ॥ ८९ ॥
धीवरानसृजच्चापि वेनपापसमुद्भवान् ॥
ये चान्ये विन्ध्यनिलयास्तथा वै तुंबराः खसाः ॥ 7.1.336.९० ॥
अधर्मे रुचयश्चापि वर्द्धिता वेनपापजाः ॥
पुनर्महर्षयस्तेथ पाणिं वेनस्य दक्षिणम् ॥९१॥
अरणीमिव संरब्धा ममंथुर्जात मन्यवः ॥
पृथुस्तस्मात्समुत्पन्नः कराज्ज्वलनसंनिभः ॥ ९२ ॥
पृथोः करतलाच्चापि यस्माजातस्ततः पृथुः ॥
दीप्यमानश्च वपुषा साक्षादग्निरिव ज्वलन् ॥ ९३ ॥
धनुराजगवं गृह्य शरांश्चाशीविषोपमान् ॥
खङ्गं च रक्षन्रक्षार्थं कवचं च महाप्रभम् ॥ ९४ ॥
तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः ॥
संबभूवुर्महादेवि वेनश्च त्रिदिवं गतः ॥ ९५ ॥
ततो नद्यः समुद्राश्च रत्नान्यादाय सर्वशः ॥
अभिषेकाय ते सर्वे राजानमुपतस्थिरे ॥ ॥ ९६ ॥
पितामहश्च भगवानृषिभिश्च सहामरैः ॥
स्थावराणि च भूतानि जंगमानि च सर्वशः ॥ ९७ ॥
समागम्य तदा वैन्यमभ्यषिंचन्नराधि पम् ॥
सोऽभिषिक्तो महातेजा देवैरंगिरसादिभिः ॥ ९८ ॥
अधिराज्ये महाभागः पृथुर्वैन्यः प्रतापवान् ॥
पित्रा न रंजिताश्चास्य प्रजा वैन्येन रंजिताः ॥ ९९ ॥
ततो राजेति नामास्य अनुरागादजायत ॥
आपः स्तस्तंभिरे चास्य समुद्रमभियास्यतः ॥ 7.1.336.१०० ॥
पर्वताश्चापि शीर्यंते ध्वजसंगोऽपि नाऽभवत् ॥
अकृष्टपच्या पृथिवी सिध्यंत्यन्नानि चिंतया ॥
सर्वकामदुघा गावः पुटकेपुटके मधु ॥ १०१ ॥
तस्मिन्नेव तदा काले पुन र्जज्ञेऽथ मागधः ॥
सामगेषु च गायत्सु स्रुग्भांडाद्वैश्वदेविकात् ॥ १०२ ॥
सामगेषु समुत्पन्नस्तस्मान्मगध उच्यते ॥
ऐंद्रेण हविषा चापि हविः पृक्तं बृहस्पतिः ॥ १०३ ॥
यदा जुहाव चेंद्राय ततस्ततो व्यजायत ॥
प्रमादस्तत्र संजज्ञे प्रायश्चित्तं च कर्मसु ॥ १०४ ॥
शेषहव्येन यत्पृक्तमभिभूतं गुरोर्हविः ॥
अधरोत्तरस्वारेण जज्ञे तद्वर्णवैकृतम् ॥१०५॥
यज्ञस्तस्यां समभवद्ब्राह्मण्यां क्षत्रयोनितः ॥
ततः पूर्वेण साधर्म्यात्तुल्यधर्माः प्रकीर्त्तिताः॥ ॥ १०६ ॥
मध्यमो ह्येष तत्त्वस्य धर्मः क्षत्रोपजीवनम् ॥
रथनागाश्वचरितं जघन्यं च चिकित्सितम् ॥ १०७ ॥
पृथोः कथार्थं तौ तत्र समा हूतौ महर्षिभिः ॥
तावूचुर्मुनयः सर्वे स्तूयतामिति पार्थिवः ॥ १०८ ॥
कर्मभिश्चानुरूपो हि यतोयं पृथिवीपतिः ॥
तानूचतुस्तदा सर्वानृषींश्च सूतमागधौ ॥ १०९ ॥
आवां देवानृषींश्चैव प्रीणयाव स्वकर्मभिः ॥
न चास्य विद्वो वै कर्म न तथा लक्षणं यश ॥ 7.1.336.११० ॥
स्तोत्रं येनास्य संकुर्वो राज्ञस्तेजस्विनो द्विजाः ॥
ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति ॥१११॥
यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः ॥
तानि गीतानि बद्धानि स्तुवद्भिः सूतमागधैः ॥ ११२ ॥
ततः श्रुतार्थः सुप्रीतः पृथुः प्रादात्प्रजेश्वरः ॥
अनूपदेशं सूताय मागधान्मागधाय च ॥ १ १३॥
तदादि पृथिवीपालाः स्तूयन्ते सूतमागधैः ॥
आशीर्वादैः प्रशंस्यंते सूतमागधबंदिभिः ॥ ११४ ॥
तं दृष्ट्वा परमं प्रीताः प्रजा ऊचुर्महर्षयः ॥
एष वो वृत्तिदो वैन्यो विहितोऽथ नराधिपः ॥ ११५ ॥
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः ॥
त्वं नो वृत्तिविधातेति महर्षिवचनात्तथा ॥ ॥ ११६ ॥
सोऽभीहितः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥
धनुर्गृहीत्वा बाणांश्च वसुधामार्दयद्बली ॥ ११७ ॥
ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥
तां धेनुं पृथुरादाय द्रवन्तीमन्वधावत ॥ ११८ ॥
सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ॥
ददर्श चाग्रतो वैन्यं कार्मुकोद्यतपाणिनम् ॥ ११९ ॥
ज्वलद्भिर्विशिखैस्तीक्ष्णैर्दीप्ततेजःसमन्वितैः ॥
महायोगं महात्मानं दुर्द्धर्षममरैरपि ॥ 7.1.336.१२० ॥
अलभंती तु सा त्राणं वैन्यमेवाभ्यपद्यत ॥
कृतांजलिपुटा देवी पूज्या लोकैस्त्रिभिस्सदा ॥१२१॥
उवाच चैनं नाधर्म्यं स्त्रीवधं परिपश्यसि ॥
कथं धारयिता चासि प्रजा राजन्मया विना ॥ १२२ ॥
मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् ॥
मदृते तु विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥ १२३ ॥
स मां नार्हसि हंतुं वै श्रेयश्चेत्त्वं चिकीर्षसि ॥
प्रजानां पृथिवीपाल शृणुष्वेदं वचो मम ॥१२४॥
उपायतः समारब्धाः सर्वे सिध्यंत्युपक्रमाः ॥
हत्वा मां त्वं न शक्तो वै प्रजाः पालयितुं नृप ॥ १२५ ॥
अनुकूला भविष्यामि त्यज कोपं महाद्युते ॥
अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिगता अपि ॥ ॥१२६॥
एकस्मिन्निधनं प्राप्ते पापिष्ठे क्रूरकर्मणि ॥
बहूनां भवति क्षेमस्तत्र पुण्यप्रदो वधः ॥
सत्येवं पृथिवीपाल धर्म्मं मा त्यक्तुमर्हसि ॥१२७॥
एवंविधं तु तद्वाक्यं श्रुत्वा राजा महाबलः ॥
क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ १२८ ॥
एकस्यार्थे च यो हन्यादात्मनो वा परस्य वा ॥
एकं वापि बहून्वापि कामतश्चास्ति पातकम् ॥ १२९ ॥
यस्मिंस्तु निधनं प्राप्ता एधन्ते बहवः सुखम् ॥
तस्मिन्हते च भूयो हि पातकं नास्ति तस्य वै ॥ 7.1.336.१३० ॥
सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे ॥
यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥ १३१ ॥
त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम्॥
आत्मानं पृथुकृत्वेह प्रजा धारयितास्म्यहम् ॥१३२॥
सा त्वं वचनमास्थाय मम धर्मभृतांवरे॥
सञ्जीवय प्रजा नित्यं शक्ता ह्यसि न संशयः ॥ १३३ ॥
दुहितृत्वं हि मे गच्छ एवमेतन्महच्छरम् ॥
नियच्छे त्वद्वधार्थं च प्रयुक्तं घोरदर्शनम् ॥
प्रत्युवाच ततो वैन्यमेवमुक्ता महासती ॥ १३४ ॥
सर्वमेतदहं राजन्विधास्यामि न संशयः ॥
वत्सं तु मम संयुक्ष्व क्षरेयं येन वत्सला ॥ १३५ ॥
समां च कुरु सर्वत्र मां त्वं सर्वभृतां वर ॥
यथा विस्यन्दमानाहं क्षीरं सर्वत्र भावये ॥१३६॥
॥ ईश्वर उवाच ॥ ॥
तत उत्सारयामास शिलाजालानि सर्वशः॥
धनुष्कोट्या ततो वैन्यस्तेन शैला विवर्द्धिताः ॥१३७॥
मन्वतरेष्वतीतेषु चैवमासीद्वसुन्धरा ॥
स्वभावेनाभवत्तस्याः समानि विषमाणि च ॥१३८॥
न हि पूर्वनिसर्गे वै विषमं पृथिवीतलम्॥
प्रविभागः पुराणां च ग्रामाणां चाथ विद्यते ॥ १३९ ॥
न सस्यानि न गोरक्षं न कृषिर्न वणिक्पथः ॥ 7.1.336.१४० ॥
चाक्षुषस्यांतरे पूर्वमासीदेतत्पुरा किल ॥
वैवस्वतेऽन्तरे चास्मिन्सर्वस्यैतस्य संभवः ॥
समत्वं यत्रयत्रासीद्भूमेः कस्मिंश्चिदेव हि॥१४१॥
तत्रतत्र प्रजास्ता वै निवसन्ति स्म सर्वदा ॥
आहारः फलमूलं तु प्रजानामभवत्किल ॥ १४२ ॥
कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम ॥
वैन्यात्प्रभृतिलोकेऽस्मिन्सर्वस्यैतस्य संभवः ॥१४३॥
संकल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरम् ॥
पृथुर्दुदोह सस्यानि स्वहस्ते पृथिवीं ततः ॥१४४॥
सस्यानि तेन दुग्धा वै वेन्येनेयं वसुन्धरा ॥
मनुं वै चाक्षुषं कृत्वा वत्सं पात्रे च भूमये ॥ १४५ ॥
तेनान्नेन तदा ता वै वर्त्तयन्ते सदा प्रजाः ॥
ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥१४६॥
वत्सः सोमस्ततस्तेषां दोग्धा चापि बृहस्पतिः ॥
पात्रमासन्हि च्छन्दांसि गायत्र्यादीनि सर्वशः ॥ १४७ ॥
क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम्॥
पुनस्ततो देवगणैः पुरंदरपुरोगमैः ॥ १४८ ॥
सौवर्णं पात्रमादाय दुग्धेयं श्रूयते मही ॥
वत्सस्तु मघवा चासीद्दोग्धा च सविताऽभवत् ॥ १४९ ॥
क्षीरमूर्जामधु प्रोक्तं वर्तंते तेन देवताः ॥
पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥ ॥ 7.1.336.१५० ॥
राजतं पात्रमादाय स्वधा त्वक्षय्यतृप्तये ॥
वैवस्वतो यमस्त्वासीत्तेषां वत्सः प्रतापवान् ॥ १५१ ॥
अंतकश्चाभवद्दोग्धा पितृणां भगवा न्प्रभुः ॥
असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥ १५२ ॥
आयसं पात्रमादाय बलमाधाय सर्वशः ॥
विरोचनस्तु प्राह्लादिस्तेषां वत्सः प्रतापवान् ॥ १५३ ॥
ऋत्विग्द्विमूर्द्धा दैत्यानां दोग्धा तु दितिनन्दनः ॥
मायाक्षीरं दुदोहासौ दैत्यानां तृप्तिकारकम् ॥ १५४ ॥
तेनैते माययाऽद्यापि सर्वे मायाविदोऽसुराः ॥
वर्त्तयंति महावीर्यास्तदेतेषां परं बलम्॥ १५५ ॥
नागैश्च श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् ॥
अलाबुपात्रमादाय विषं क्षीरं तदा महत् ॥ १५६ ॥
तेषां वै वासुकिर्दोग्धा काद्रवेयो महायशाः ॥
नागानां वै महादेवि सर्पाणां चैव सर्वशः ॥१५७॥
तेन वै वर्त्तयन्त्युग्रा महाकाया विषोल्बणाः ॥
तदाहारास्तदाचारास्तद्वीर्यास्तदपाश्रयाः ॥ १५८ ॥
आमपात्रे पुनर्दुग्धा त्वंतर्द्धानमियं मही ॥
वत्सं वैश्रवणं कृत्वा यक्षपुण्यजनैस्तथा ॥ १५९ ॥
दोग्धा रजतनागस्तु चिन्तामणिचरस्तु यः ॥
यक्षाधिपो महातेजा वशी ज्ञानी महातपाः ॥ 7.1.336.१६० ॥
तेन ते वर्त्तयं तीति यक्षा वसुभिरूर्जितैः ॥
राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा ॥ १६१ ॥
ब्रह्मोपेन्द्रस्तु दोग्धा वै तेषामासीत्कुबेरतः ॥
वत्सः सुमाली बलवान्क्षीरं रुधिरमेव च ॥१६२॥
कपालपात्रे निर्दुग्धा त्वंतर्द्धानं तु राक्षसैः ॥
तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः ॥१६३॥
पद्मपत्रेषु वै दुग्धा गंधर्वाप्सरसां गणैः ॥
वत्सं चैत्ररथं कृत्वा शुचिगन्धान्मही तदा ॥ १६४ ॥
तेषां वत्सो रुचिस्त्वासीद्दोग्धा पुत्रो मुनेः शुभः ॥
शैलैस्तु श्रूयते देवि पुनर्दुग्धा वसुंधरा ॥ १६५ ॥
तदौषधीर्मूर्तिमती रत्नानि विविधानि च ॥
वत्सस्तु हिमवांस्तेषां दोग्धा मेरुर्महागिरिः ॥ १६६ ॥
पात्रं शिलामयं ह्यासीत्तेन शैलाः प्रतिष्ठिताः ॥
श्रूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा ॥ १६७ ॥
पालाशं पात्रमादाय च्छिन्नदग्धप्ररोहणम् ॥
दोग्धा तु पुष्पितः शालः प्लक्षो वत्सो यशस्विनि ॥
सर्वकामदुघा दोग्धा पृथिवी भूतभाविनी ॥ १६८ ॥
सैषा धात्री विधात्री च धरणी च वसुन्धरा ॥
दुग्धा हितार्थं लोकानां पृथुना इति नः श्रुतम् ॥ १६९ ॥
चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ॥
आसीदियं समुद्रांता मेदिनीति परिश्रुता॥7.1.336.१७०॥
मधुकैटभयोः पूर्वं मेदोमांसपरिप्लुता ॥
वसुन्धारयते यस्माद्वसुधा तेन कीर्तिता ॥ १७१ ॥
ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ॥
दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः ॥ १७२ ॥
प्रथिता प्रविभक्ता च शोभिता च वसुन्धरा ॥
दुग्धा हि यत्नतो राज्ञा पत्तनाकरमालिनी ॥ १७३ ॥
एवं प्रभावो राजासीद्वैन्यः स नृपसत्तमः ॥
ततः स रंजयामास धर्मेण पृथिवीं तदा ॥ १७४ ॥
ततो राजेति शब्दोऽथ पृथिव्यां रंजनादभूत् ॥
स राज्यं प्राप्य वैन्यस्तु चिंतयामास पार्थिवः ॥ १७५ ॥
पिता मम ह्यधर्मिष्ठो यज्ञाद्युच्छित्तिकारकः॥
कस्मिन्स्थाने गतश्चासौ ज्ञेयं स्थानं कथं मया ॥ १७६ ॥
कथं तस्य क्रिया कार्या हतस्य ब्राह्मणैः किल ॥
कथं गतिर्भवेत्तस्य यज्ञदानक्रियाबलात् ॥ १७७ ॥
इत्येव चिंतया तस्य नारदोभ्याजगाम ह ॥
तस्यैवमासनं दत्त्वा प्रणिपत्य च पृष्टवान् ॥ १७८ ॥
भगवन्सर्वलोकस्य जानासि त्वं शुभाशुभम् ॥
पिता मम दुराचारो देवब्राह्मणनिंदकः ॥ १७९ ॥
स्वकर्मणा हतो विप्रैः परलोकमवाप्तवान् ॥
कस्मिंस्थाने गतस्तातः श्वभ्रं वा स्वर्गमेव च ॥ 7.1.336.१८० ॥
ततोऽब्रवीन्नारदस्तु ज्ञात्वा दिव्येन चक्षुषा ॥
शृणु राजन्महाबाहो यत्र तिष्ठति ते पिता ॥ १८१ ॥
अत्र देशो मरुर्नाम जलवृक्षविवर्जितः ॥
तत्र देशे महारौद्रे जनकस्ते नरोत्तम ॥ १८२ ॥
म्लेच्छमध्ये समुत्पन्नो यक्ष्मी कुष्ठसमन्वितः ॥
उच्छिष्टभोजी म्लेच्छानां कृमिभिः संयुतो व्रणैः ॥ ॥ १८३ ॥
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥
हाहाकारं ततः कृत्वा मूर्छितो निपपात ह ॥१८४ ॥
चिंतयामास दुःखार्तः कथं कार्यं मया भवेत् ॥
इत्येवं चिंतयानस्य मतिर्जाता महात्मनः ॥
पुत्रः स कथ्यते लोके पितरं त्रायते तु यः ॥ १८५ ॥
स कथं तु मया तातः पापान्मुक्तो भविष्यति ॥
एवं संचिंत्य स ततो नारदं पर्यपृच्छत ॥ १८६ ॥
भगवन्कथितं सर्वं पितुर्मम विचेष्टितम् ॥
केन तस्य भवेन्मुक्तिः कर्मणा द्विजसत्तम ॥
व्रतैर्दानैस्तपोभिर्वा तीर्थानां यात्रया वद ॥ १७७ ॥
॥ नारद उवाच ॥ ॥
गच्छ राजन्प्रधानानि तीर्थानि मनुजेश्वर ॥
पितरं तेषु चानीय तस्माद्राजन्मरुस्थलात् ॥ १८८ ॥
यत्र देवाः सप्रभावास्तीर्थानि विमलानि च ॥
तत्र गच्छ महाराज तीर्थयात्रां कुरु प्रभो ॥ १८९ ॥
एवं ह्यवितथं विद्धि मोक्षस्ते भविता पितुः ॥
तच्छ्रुत्वा वचनं राजा नारदस्य महात्मनः ॥
सचिवे भारमाधाय स्वराजस्य जगाम ह ॥ 7.1.336.१९० ॥
स गत्वा मरुभूमिं तु म्लेच्छमध्ये ददर्श ह ॥
कुष्ठरोगेण महता क्षयेण च समावृतम् ॥ १९१ ॥
गव्यूतिमात्रं तत्रैव शून्यं मानुषवर्जितम् ॥
एवं दृष्ट्वा स राजा तु संतप्तो वाक्यमब्रवीत् ॥ १९२ ॥
हे म्लेच्छ रोगिपुरुषं स्वगृहं च नयाम्यहम् ॥
तत्राहमेनं निरुजं करोमि यदि मन्यथ ॥ १९३ ॥
ज्ञात्वेति सर्वे ते म्लेच्छाः पुरुषं तं दयापरम् ॥
ऊचुः प्रणतसर्वांगाः शीघ्र नय जगत्पते ॥
अस्मद्भाग्यवशान्नाथ त्वमेवात्र समागतः ॥ १९४ ॥
दुर्गंधोपहता लोकास्त्वया नाथ सुखीकृताः ॥
तत आनाय्य पुरुषाञ्छिबिकावाहनोचितान् ॥ १९५ ॥
ततः श्रुत्वा तु वचनं तस्य राज्ञो दयावहम् ॥
प्रापुस्तीर्थान्यनेकानि केदारादीनि कोटिशः ॥ १९६ ॥
यत्रयत्र स गच्छेत वैन्यो वेनेन संयुतः ॥
तत्र तत्रैव तीर्थानामाक्रंदः श्रूयते महान्॥ ॥ १९७ ॥
हा दैव रिपुरायाति अस्माकं नाशहेतवे ॥
अधुना क्व गमिष्याम इति चिंता पुनःपुनः॥१९८॥
दर्शनेनापि तस्यैव हाहाकारं विधाय वै॥ ।
पलायंते च तीर्थानि देवा नश्यंति तत्क्षणात् ॥१९९॥
एवं वर्षत्रयं राजा तीर्थयात्रां चकार वै ॥
न तस्य मुक्तिर्ददृशे ततः शोकमगात्परम् ॥7.1.336.२००॥
ततस्तु प्रेरिता भृत्याः कुरुक्षेत्रे महाप्रभे ॥
यदि वापि पुनस्तत्र पापमुक्तिर्भवेत्ततः ॥ २०१ ॥
गृहीत्वा शिबिकां स्कन्धे कुरुक्षेत्रे गताः प्रिये ॥
तत्र नीत्वा स्थाणुतीर्थमवतार्य च ते गताः ॥ २०२ ॥
ततः स राजा मध्याह्ने चिकीर्षुः स्नानमादरात् ॥
तस्यैव तु पितुस्तत्र तथा दानानि षोडश ॥ २०३ ॥
ब्राह्मणेभ्यस्तथा दित्सुः श्रद्धावान्भावतत्परः ॥
ततो वायुश्चांतरिक्ष इदं वचनमब्रवीत् ॥ २०४ ॥
मा तात साहसं कुर्यास्तीर्थं रक्ष प्रयत्नतः ॥
अयं पापेन घोरेण समंतात्परिवेष्टितः ॥ २०५ ॥
वेदनिन्दासमाचारो ब्रह्महत्याशतैर्युतः ॥
सोऽयं पापो दुराचारस्तीर्थं नाशं नयिष्यति ॥ २०६ ॥
मा तीर्थं नाशय विभो महदेनो भविष्यति ॥
एतद्वायोर्वचः श्रुत्वा दुःखेन महतार्दितः ॥
उवाच शोकसंतप्तः पितुर्दुःखेन दुःखितः ॥ २०७ ॥
हा दैवेति च चुक्रोश ऊर्द्ध्वबाहुः पुनःपुनः ॥
एष घोरेण पापेन अतीव परिवेष्टितः ॥ २०८ ॥
यदनेनापि तीर्थेन शुद्धः कर्त्तुं न शक्यते ॥
प्रायश्चित्तं करिष्येऽहं पितुरर्थे न संशयः ॥ २०९ ॥
एवं तस्य वचः श्रुत्वा दयां कृत्वा महीयसीम् ॥
अन्तरिक्षभवां वाचं खेचराः पुनरब्रुवन् ॥ 7.1.336.२१० ॥
भोभो राजन्नृपश्रेष्ठ त्यक्त्वा शोकं वचः शृणु ॥
येन ते जनकस्यास्य भवेत्पापक्षयो महान् ॥ २११ ॥
अस्ति क्षेत्रं महासिद्धं प्रभासमिति विश्रुतम् ॥
सर्वपापप्रशमनं महापातकनाशनम् ॥ २१२ ॥
ब्रह्मतत्त्वं हरितत्त्वं रुद्रतत्त्वं तृतीयकम् ॥
तस्मिन्नेव महाक्षेत्रे प्रभासे शंकरप्रिये ॥ २१३ ॥
शाक्तेयं यदि वा चांद्रं सौरं सारस्वतं तथा ॥
आग्नेयं वारुणं चापि स्मृतं क्षेत्रमनुत्तमम् ॥ २१४ ॥
ब्रह्माण्डे यानि तीर्थानि पुरा क्षेत्राणि यानि तु ॥
प्रभासमागमिष्यन्ति संप्राप्ते तु कलौ युगे ॥ २१५ ॥
अष्टौ कोटिसहस्राणि अष्टौ कोटिशतानि च ॥
क्षेत्रं रक्षंति तत्रस्थाः प्रभासं शांकरा गणाः ॥ २१६ ॥
इयं सरस्वती पुण्या सर्वत्रैव हि विद्यते ॥
पञ्चस्रोताः प्रभासे तु दुष्प्राप्या त्रिदशैरपि ॥ २१७ ॥
तस्या यत्पञ्चमं स्रोतन्यंकुमत्यास्तटानि च ॥
तस्य मध्ये स्थितं तीर्थं गोष्पदेति च विश्रुतम् ॥ २१८ ॥
तत्र प्रेतशिला मध्ये प्रेतानां मुक्तिदायिका ॥
यत्र प्रेताः पुरा मुक्ता अष्टाविंशतिकोटयः ॥ २१९ ॥
पापिनां मुक्तिदं तीर्थमाद्या रुद्रगया स्मृता ॥
तदस्मिन्गोष्पदंनाम कलौ ख्यातं धरातले ॥ 7.1.336.२२० ॥
यदा क्षीरोदमथनान्निःसृता लोकमातरः ॥
तदा देवैः समेतास्तु आगतास्तीर्थसन्निधौ ॥ २२१ ॥
पदं तत्र निमग्नं च नन्दायाश्च शिलातले ॥
शिलां खुरांकितां दृष्ट्वा जानुदेशांकितां तथा ॥ २२२ ॥
विस्मिताः सर्वदेवा वै पप्रच्छुर्गां च नन्दिनीम् ॥
किमेतद्दृश्यते देवि पदं प्रेतशिलातले ॥
कथं तु खेदः सञ्जातश्चास्माकं स्खलनं कथम्॥ २२३ ॥
॥ नन्दिन्युवाच ॥ ॥
इदं मम पदं देवाः शिलासंस्थं विराजते ॥
गगनांगणभूमिस्थं चन्द्रबिंबमिवापरम्॥ २२४ ॥
अद्यप्रभृति भो देवास्त्रैलोक्ये सचराचरे ॥
गोष्पदंनाम विख्यातं लोके ख्यातिं गमिष्यति ॥ २२५ ॥
अत्रागत्य नरो यस्तु स्नानं श्राद्धं करिष्यति ॥
गयासप्तगुणंतस्य फलं देवा भविष्यति ॥ २२६ ॥
न वारो न च नक्षत्रं न कालस्तत्र कारणम्॥
यदैव दृश्यते तीर्थं तदा पर्वसहस्रकम् ॥ २२७ ॥
अथवा पर्वकांक्षा चेत्तानि मे शृणुपार्वति ॥
अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे ॥ २२८ ॥
अमावास्याष्टकायां च कृष्णपक्षे विशेषतः ॥
आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे ॥ २२९ ॥
गजच्छाया व्यतीपाते वैधृते धृतचामरे ॥
वैशाखस्य तृतीयायां नवम्यां कार्तिकस्य तु ॥ 7.1.336.२३० ॥
पञ्चदश्यां च माघस्य नभस्ये च त्रयोदशीम् ॥
युगादयः स्मृता ह्येतास्तस्मिन्काले च वा पुनः ॥ २३१ ॥
मन्वन्तरादौ कार्यं च तत्र श्राद्धं विजानता ॥
आश्वयुक्छुक्लनवमी द्वादशी कार्तिके तथा ॥२३२॥
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा ॥ २३३ ॥
आषाढस्यापि दशमी माघमासस्य सप्तमी ॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ॥ २३४ ॥
कार्तिकी फाल्गुनी चैव ज्यैष्ठी पञ्चदशी तथा ॥
मन्वन्तरादयश्चैता दत्तस्या क्षयकारिकाः ॥ २३५ ॥
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च ॥
पञ्चमी चैत्रमासस्य तस्यैवांत्या तथा परा ॥ २३६ ॥
शुक्ला त्रयो दशी माघे कार्तिकस्य तु सप्तमी ॥
नवमी मार्गशीर्षस्य सप्तैताः कल्पकादिमाः ॥ २३७ ॥
कल्पतृप्तिर्भवेच्छ्राद्धे कल्पादौ तु कृते पुरा ॥
इत्येवमुक्त्वा सा नन्दा देवानां प्रतिनन्दिनी ॥
अन्तर्द्धानं जगामाशु दीपो वातहतो यथा ॥२३८॥
इतीदं कौतुकं दृष्ट्वा सर्वे देवाः सवासवाः ॥
ब्रह्मर्षयो देवर्षयः श्लोकं पौराणिकं जगुः ॥ २३९ ॥
अहो तीर्थस्य माहात्म्यं नन्दायास्तपसो बलम् ॥
सकृच्छ्राद्धेन दत्तेन गयासप्तगुणं फलम् ॥ 7.1.336.२४० ॥
एवमुक्त्वा ततोदेवाश्चक्रुः श्राद्धादिकां क्रियाम्॥
यथोक्तं फलमापुस्ते नंदिन्या पूर्वभाषितम् ॥ २४१ ॥
इत्थं त्वमपि राजेन्द्र गच्छ शीघ्रं हि गोष्पदम्॥
तत्र श्राद्धादिकं कृत्वा लप्स्यसे फलमीप्सितम् ॥ २४२ ॥
अयं ते जनको राजन्पापिनां प्रवरः स्मृतः ॥
नान्यैस्तीर्थशतैः शक्यः प्रोद्धर्तुं गोष्पदं विना ॥ २४३ ॥
तस्माद्व्रज महाराज मा कार्षीस्त्वं विलंबनम् ॥
एवं श्रुत्वा तदा राजा प्रभासं क्षेत्रमागतः ॥२४४॥
तत्र स्थानस्थितान्विप्रांस्तीर्थमाहात्म्यकोविदान्॥
अग्रेकृत्य महाराजो ययौ न्यंकुमतीं नदीम् ॥ २४५ ॥
तै राज्ञो दर्शितं तीर्थं पदं प्रेतशिलास्थितम् ॥
तद्दृष्ट्वा विमलं तीर्थं विस्मयोत्फुल्ललोचनः ॥
चक्रे कुण्डानि वेदीश्च मण्डपान्यज्ञसिद्धये ॥ २४६ ॥
ततो यज्ञः समारब्धो विधिवद्भूरिदक्षिणः ॥
प्रत्यक्षं पितर स्तस्य बभूवुर्ज्वलनप्रभाः ॥ २४७ ॥
ततः श्रद्धां समास्थाय श्राद्धैर्यज्ञैर्महोदयम् ॥
ते चाब्रुवन्वचस्तुष्टाः पितरो राजसत्तमम् ॥ २४८ ॥
धन्योऽसि राजन्पुण्योऽसि वयं धन्यतरास्त्वया ॥
यदत्र तीर्थे श्राद्धेन उद्धृता भवता वयम् ॥ २४९ ॥
एवमुक्त्वा ततः सर्वे वेनेन पितरः सह ॥
विमानवरसंस्थाश्च जग्मुस्ते त्रिदिवालयम् ॥ 7.1.336.२५० ॥
गच्छन्नुवाच वेनस्तं राजानं पृथुवक्षसम् ॥
राजञ्जन्मानि चत्वारि अभूवं चान्यजन्मनि ॥ २५१ ॥
कुष्ठी पापो दुराचारश्चांडालोच्छिष्टभुक्तथा ॥
सोऽहं पापविनिर्मुक्तो गच्छामि त्रिदिवालयम् ॥ २५२ ॥
तद्गच्छ त्वं महाभाग राज्यं भुंक्ष्व चिराय च ॥
कृतं ते सकलं कार्यं पुत्रेण क्रियते च यत् ॥ २५३ ॥
एवं श्रुत्वा तदा राजा मुमुदे ज्ञातिसंयुतः ॥
ब्राह्मणान्हर्षयामास दानैर्भूकांचनादिभिः ॥ २५४ ॥
न तदस्ति जगत्यस्मिंस्तत्र यन्न ददौ नृपः ॥
दृष्ट्वा प्रभावं तीर्थस्य प्रत्यक्षं पितृदर्शनम् ॥२५५॥
एवं राजा स कृत्वा तु स्वकीयं स्थान माययौ ॥
भुक्त्वा भूमिं तु सकलां प्रेत्य स्वर्गं समाप्तवान् ॥ २५६ ॥
एवं प्रभावं तत्क्षेत्रं प्रभासं पापनाशनम् ॥
यस्मिन्नायांति तीर्थानि देवास्तिष्ठंति कोटिशः ॥ २५७ ॥
प्रभासं क्षेत्रमासाद्य योन्यत्तीर्थं हि मार्गते ॥
स करस्थं समुत्सृज्य कूर्परेण समालिहेत् ॥ २५८ ॥
अब्रुवन्पितरश्चैनां गाथां पौराणिकीं प्रिये ॥
गयां गंतुं न शक्नोति यदि पुत्रः कथंचन ॥
तदा यत्नेन गंतव्यं गोष्पदं तीर्थमुत्तमम् ॥ २५९ ॥
कन्दैर्मूलैः फलैर्वापि पिण्याकेंगुदकेन वा ॥
अपि नः स कुले भूयाद्योऽत्र श्राद्धं प्रदास्यति ॥ 7.1.336.२६० ॥
तत्र स्नात्वा प्रयत्नेन ब्राह्मणान्वेदवित्तमान् ॥
आमंत्र्य विधिवच्छ्राद्धे भोजयित्वा प्रयत्नतः ॥
पिंडदानं तु कर्त्तव्यं पितृणां तृप्तिमिच्छताम् ॥२६१॥
 न तिथिर्न च नक्षत्रं पर्व मासादिकं न हि ॥
सर्वदा तत्र गंतव्यं श्रद्धा युक्तेन चेतसा ॥ २६२ ॥
न कालनियमस्तत्र प्रमाणं दर्शनं यतः ॥
तत्राक्षयतृतीयायां दुर्ल्लभं गमनं प्रिये ॥ २६३ ॥
कार्त्तिक्यां माघसप्तम्यां पद्मके वाऽथ पर्वणि ॥२६४॥
हिरण्यदानं गोदानं वस्त्रं रूप्यं घृतं तिलाः ॥
दातव्यास्तत्र युक्तेन पितॄणां तृप्तिमिच्छता ॥ २६५ ॥
एवं ते कथितं देवि तीर्थगुह्यं महोदयम् ॥
न कथ्यं दुष्टबुद्धीनां पापिनां क्रूरचेतसाम् ॥२६६॥
श्रद्धायुक्ताय दातव्यं पितृभक्तिरताय च ॥
श्राद्धकाले विशेषेण पठे द्भक्त्या पुराणवित् ॥ २६७ ॥
पितॄणां जायते तृप्तिस्तेन द्वादशवार्षिकी ॥
श्रोतव्यं प्रयतैर्नित्यं नरैर्नरकभीरुभिः ॥
पठितव्यं सदा भक्त्या विप्राणां भुंजता पुरः ॥ २६८ ॥
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ॥
श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदंति ॥२६९॥
इदं रहस्य यशसो निधानमिदं पितॄणामतिवल्लभं च ॥
इदं च वेदेष्वमृताय नित्यमिदं महापापहरं च पुंसाम् ॥ 7.1.336.२७० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीनदीमाहात्म्ये गोष्पदतीर्थमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३६ ॥