स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३३४

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
भगवन्देवदेवेश संसारार्णवतारक ॥ पृच्छामि त्वामहं भक्त्या किञ्चित्कौतूहलात्पुनः ॥ १ ॥
यत्त्वया कथितं देव तलस्वामिमहोदयम् ॥
किं तत्र कारणं देव तलो येन निपातितः ॥ २ ॥
कोऽसौ तलः समाख्यातः किंवीर्यः किंपरायणः ॥
कस्मात्स्थानात्समुत्पन्नः कथं जातश्च मे वद ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि रहस्यं पापनाशनम् ॥
यन्न कस्यचिदाख्यातं तत्ते वक्ष्याम्य शेषतः ॥ ४ ॥
देवा अपि न जानंति तलसोत्पत्तिकारणम् ॥
पूर्वं कृतयुगे देवि गोविन्देति प्रकीर्तितः ॥ ५ ॥
त्रेतायां वामनः स्वामी स्तुतिस्वामी तृतीयके ॥
कलौ युगे महादेवि तलस्वामी प्रकीर्तितः ॥ ६ ॥
तथा तप्तोदकस्वामी तस्य नामांतरं प्रिये ॥
अधुना संप्रवक्ष्यामि तलोत्पत्तिं तव प्रिये ॥ ७ ॥
आसीन्महेन्द्रनामा च दानवो रौद्ररूपधृक् ॥
कोटिवर्षाणि तेनैव तपस्तप्तं पुरा प्रिये ॥ ८ ॥
स तपोबलमाविष्टो जिग्ये देवान्सवासवान् ॥
जित्वा देवांस्ततः सर्वांस्ततः काले समागतः ॥ ९ ॥
युद्धं स प्रार्थयामास मया सार्द्धं सुभीषणम् ॥
ततोऽभवन्महायुद्धं ब्रह्माण्डक्षयकारकम् ॥ 7.1.334.१० ॥
ततः कोपान्महायुद्धे मम देहाद्वरानने ॥
ज्वाला तत्र समुत्पन्ना तन्मध्ये स तलोऽभवत् ॥ ११ ॥
तेन दृष्टो महेन्द्रोऽसौ गर्जन्गिरिगुहाश्रयः ॥ १२ ॥
कथं गर्जसि हे मूढ युद्धं कुरु मया सह ॥
इत्युक्ते तत्र देवेशि तेन युद्धमवर्तत ॥ १३ ॥
तत्र प्रवर्त्तिते युद्धे तलमाहेन्द्रयोस्तयोः ॥ १४ ॥
रुद्रवीर्यस्य युक्तेन तलेनोदारकर्मणा ॥
मल्लयुद्धेन बलिना महेन्द्रो विनिपातितः ॥ १५ ॥
ततस्तं पतितं दृष्ट्वा विस्मयं स तलो गतः ॥
गतप्राणं तदा ज्ञात्वा हर्षान्नृत्यमथाकरोत् ॥ १६ ॥
तस्मिन्संनृत्यमाने तु सर्वे स्थावरजंगमम् ॥
चकंपे तु वरारोहे प्रभावात्तस्य वीर्यतः ॥ १७ ॥
ततो भारभराकान्ता धरणी तलपीडिता ॥
अतीवभयसंत्रस्ताः सदेवासुरमानुषाः ॥ १८ ॥
क्षुभिता गिरयः सर्वे विद्रुताश्च महार्णवाः॥
तरवो निधनं जग्मुर्नद्यो वाहांश्च तत्यजुः॥१९॥
गतप्रभावाः सूर्याद्या ज्योतींषि न विरेजिरे॥
त्रैलोक्यं व्याकुलीभूतं तलनृत्यप्रभावतः ॥ 7.1.334.२० ॥
ततो देवगणाः सर्वे शरणं रुद्रमाययुः ॥
वृत्तं यथावत्कथितं ततो रुद्र उवाच तान् ॥२१॥
अवध्यो मे तलो देवाः पुत्रत्वे हि प्रतिष्ठितः ॥
एवमुक्त्वा हृषीकेशं प्रभासक्षेत्रवासिनम् ॥ २२ ॥
स्तुतिस्वामीतिनामानं स्थितं दुर्वाससः पुरः ॥
प्रभासक्षेत्रसामीप्ये पूर्वभागे प्रतिष्ठितम् ॥ २३ ॥
तप्तोदकुंडसामीप्ये तत्र गच्छत भोः सुराः ॥
कल्पेकल्पे तु तेनैव विध्यतेऽसौ हि दानवः ॥ २४ ॥
एवमुक्ते तदा देवाः प्रभासं क्षेत्रमागताः ॥
तत्र ते विबुधा जग्मुर्यत्र तप्तोदकाधिपः ॥ २५ ॥
दृष्ट्वा नारायणं तत्र देवाः श्रद्धासमन्विताः ॥
तुष्टुवुः परया भक्त्या देवदेवं जनार्द्दनम्॥ २६ ॥
वैकुंठ त्राहि नो देवांस्तलेनोच्चाटिता वयम् ॥
महेन्द्रक्रोधसंभूतरुद्रतेजोद्भवेन वै ॥ २७ ॥
अस्माभी रुद्रसामीप्ये कार्यं सर्वं निवेदितम् ॥
ततः प्रस्थापिताः सर्वे रुद्रेण परमेष्ठिना ॥
तव पार्श्वे महादेव नस्त्वं देव गतिर्भव ॥ २८ ॥
इति श्रुत्वा वचस्तेषां देवदेवो जनार्द्दनः ॥
दानवस्यवधार्थाय देवानां रक्षणाय च ॥
चक्रे यत्नं महाबाहुः प्रभासक्षेत्रवल्लभः ॥ २९ ॥
समाहूय तदा दैत्यं प्रभासक्षेत्रमध्यतः ॥
युद्धं चक्रे ततो देवि विश्वप्रलयकारकम् ॥7.1.334.३० ॥
ततस्तु देवाः सर्वे च स्वसैन्यपरिवारिताः ॥
चक्रुर्युद्धं च दैत्येन सुमहल्लोमहर्षणम् ॥ ३१ ॥
ततः पर्वतसंकाशं दृष्ट्वा दैत्यं महाबलम् ॥
उवाच चपलापांगो गरुडकृतवाहनः ॥ ३२ ॥
अहो दैत्य महाबाहो मल्लयुद्धं ददस्व मे ॥
त्वद्बाहुयुगलं दृष्ट्वा न युद्धे वांछितं मम ॥ ३३ ॥
नारायणवचः श्रुत्वा करमुद्यम्य दानवः ॥
अभ्यधावत्तदा दैत्यः कालान्तकसमप्रभः ॥ ३४ ॥
ततः प्रवर्तितं युद्धमन्योन्यं जयकांक्षिणोः ॥
जंघाभ्यां पादबन्धेन बाहुभ्यां बाहुबंधनम् ॥ ३५ ॥
कंठेन बन्धयन्कंठमुदरेणोदरं तथा ॥ एतस्मिन्नन्तरे देवाः सभयाः संबभूविरे ॥ ३६ ॥
ततः पीडासमाक्रांतो विष्णुः संस्मरते हरम् ॥
तत्क्षणादागतो रुद्रः किं करोमि महाबलः ॥ ३७ ॥ ॥
॥ विष्णुरुवाच ॥ ॥
श्रांतोऽहं देवदेवेश मल्लयुद्धेन शंकर ॥
तप्तोदकं कुरुष्वेह श्रमनाशाय सांप्रतम् ॥ ३८ ॥
ततस्तलं हनिष्यामि क्षण मात्रेण भैरवम् ॥ ३९ ॥
॥ ईश्वर उवाच ॥ ॥
आदौ कृतयुगे कृष्ण उमया यत्कृतं पुरा ॥
ऋषीणां श्रमनाशार्थं तप्तोदं तत्र निर्मितम् ॥ 7.1.334.४० ॥
तद्दैत्यपापमाहात्म्यात्पुनः शीतलतां गतम् ॥
पुनस्तदुष्णतां नीतं ततः कल्पांतसंस्थितौ ॥ ४१ ॥
एवमुक्त्वा तदा देवं वीक्षांचक्रे महेश्वरः ॥
तृतीय लोचनेनैव ज्वालामालोपशोभिना ॥ ४२ ॥
तेन ज्वालासमूहेन व्याप्तं कुण्डं चतुर्दिशम् ॥
तप्तोदकुण्डमभवत्तेन ख्यातं धरातले ॥ ४३ ॥
ततो नारायणेनेह क्षालितं गात्रसुत्तमम्॥
क्षालनात्तस्य देवस्य श्रमो नाशमुपागमत् ॥ ४४ ॥
ततस्तुष्टमना देवस्तीर्थानां दशकोटिकाः ॥
स स्मृत्वा तत्र विधिवत्क्षिप्त्वा स्नात्वा वरानने ॥ ४५ ॥
ततश्चक्रे महायुद्धं तलेनातिभयंकरम् ॥
जघान स तलं दैत्यं मुष्टिघातेन मस्तके ॥ ४६ ॥
तस्मिन्प्रवृत्ते तुमुले तु युद्धे चकंपिरे भूभिसमेतलोकाः ॥
वित्रस्तदेवा न दिशो विरेजुर्महांधकारावृतमूर्छितं जगत् ॥ ४७ ॥
नष्टाश्च सिद्धा जगतोऽस्य शांतिं करोतु वै पापविनाशनो हरिः ॥
त्राहीति देवेशि महर्षिसंघा भूतानि भीतानि तथा वदन्ति ॥४८॥
ततो वै मल्लयुद्धेन पातितो भुवि दानवः॥
कंठमाक्रम्य पादेन खङ्गेन परिपीडितः ॥ ४९ ॥
हास्यं चकार दैत्योऽथ विष्णुनाऽऽक्रांतकंधरः ॥
तमाह पुण्डरीकाक्ष किमेतद्धास्यकारणम् ॥7.1.334.५०॥
वृद्धौ हर्षमवाप्नोति क्षये भवति दुःखितः ॥
इत्येषा लौकिकी गाथा तत्ते दैत्य विपर्ययः ॥५१॥
इत्युक्तस्तु तदा दैत्यः प्रत्युवाच जनार्द्दनम् ॥
अग्निष्टोमादिभिर्यज्ञैवेदाभ्यासैरनेकधा ॥ ५२ ॥
नित्योपवासनियमैः स्नानदानैर्जपादिभिः ॥
निर्मलैर्योगयुक्तैश्च प्राप्यते यत्परं पदम् ॥ ५३ ॥
तन्मया दुष्टभावेन प्राप्तं विष्णोः परं पदम् ॥
इत्युक्ते भगवान्विष्णुर्वरदानपरोऽभवत् ॥ ५४ ॥
उवाच परमं वाक्यं तलं दैत्याधिनायकम् ॥
वरं वरय दैत्येंद्र यत्ते मनसि संस्थितम् ॥ ५५ ॥
इति विष्णोर्वचः श्रुत्वा प्रार्थयामास दानवः ॥
ममाख्या वर्त्तते लोके तथा कुरु महीधर ॥ ५६ ॥
मार्गमासे तु शुक्लायामेकादश्यां समाहितः ॥
यस्त्वां पश्यति भावेन तस्य पापं विनश्यतु ॥ ५७ ॥
एवं भविष्यतीत्युक्त्वा देवो हर्षमुपागतः ॥
नानादुंदुभयो नेदुः पुष्पवर्षं पपात च ॥ ५८ ॥
विष्णोर्मूर्ध्नि महाभागे लोकाः स्वस्था बभूविरे ॥
ततो देवगणाः सर्वे नृत्यंति च मुदान्विताः ॥
वदंति हर्षसंयुक्ता नारायणपरायणाः ॥ ५९ ॥
एतत्तीर्थं महातीर्थं सर्वपापप्रणाशनम् ॥
श्रमापनोदनं विष्णोर्ब्रह्महत्यादिशोधनम् ॥7.1.334.६०॥
स्थितो नारायणस्तत्र भैरवस्तत्र शंकरः ॥
क्षेत्रपालस्वरूपेण कालमेघेति विश्रुतः ॥ ६१ ॥
तस्य यात्राविधिं वक्ष्ये गत्वा तत्र शुचिर्नरः ॥
स्मरेद्विष्णुं महादेवि तलस्वामीति यः श्रुतः ॥ ६२ ॥
स्तुयाद्विष्णुं महादेवि इदं विष्णुऋचा प्रिये ॥
सहस्रशीर्षामंत्रेण तर्पणादि प्रकारयेत् ॥ ६३ ॥
एवं स्नात्वा विधानेन दत्त्वा चार्घ्यं जनार्द्दने ॥
संपूज्य गंधपुष्पैश्च वस्त्रैः पुष्पानुलेपनैः ॥ ६४ ॥
मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत् ॥
कर्पूरोशीरमिश्रेण मृगनाभियुतेन च ॥ ६५ ॥
वस्त्रैः संवेष्टयेत्पश्चाद्दद्यान्नैवेद्यमुत्तमम् ॥
धर्मश्रवणसंयुक्तं कार्यं जागरणं ततः ॥ ६६ ॥
वृषभस्तत्र दातव्यः सुवर्णं वस्त्रयुग्मकम् ॥ ।
विप्राय वेदयुक्ताय श्रोत्रियाय प्रदापयेत् ॥ ६७ ॥
उपवासं ततः कुर्यात्तस्मिन्नहनि भामिनि ॥
रुक्मिणीं च प्रपश्येत नमस्कृत्य जनार्द्दनम् ॥ ६८ ॥
एवं कृत्वा नरो भक्त्या लभते जन्मजं फलम् ॥
सर्वेषामेव यज्ञानां दानानां लभते फलम् ॥ ६९ ॥
तथा च सर्वतीर्थानां व्रतानां लभते फलम् ॥
उद्धरेत्तु पितुर्वर्गं मातृवर्गं तथैव च ॥ 7.1.334.७० ॥
जन्मप्रभृतिपापानां कृतानां नाशनं भवेत् ॥
न दुःखं च न दारिद्र्यं दुर्भगत्वं न जायते ॥ ७१ ॥
सप्त जन्मांतरं यावत्तलस्वामिप्रदर्शनात् ॥
सुवर्णानां सहस्रेण ब्राह्मणे वेदपारगे ॥
दत्तेन यत्फलं देवि तत्कुण्डे स्नानतो लभेत् ॥ ७२ ॥
एवं तलस्वामिचरित्रमुत्तमं श्रुतं पुरा सिद्धमहर्षिसंघैः ॥
श्रुत्वा प्रभावं तलदेवसन्निधौ प्राप्नोति सर्वं मनसा यदीप्सितम् ॥ ७३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तलस्वामिमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरत्रिशततमो ऽध्यायः ॥ ३३४ ॥