स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३३३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
बलभद्राच्च पूर्वेण स्थिता चासीत्सरिद्वरा ॥
दुर्वासेश्वरनामेति बललिंगं प्रतिष्ठितम् ॥ १ ॥
सर्वपापप्रशमनं दृष्टं सर्वसुखावहम्॥
स्नात्वा चास्य त्वमावास्यां पिंडदानं ददाति यः ॥ २ ॥
कल्पकोटिशतं साग्रं पितॄणां तृप्तिमावहेत् ॥
दुर्वासेश्वरनामानं तत्र पूज्य विधानतः ॥ ३ ॥
कोटियज्ञफलं प्राप्य सर्वान्कामा नवाप्नुयात्॥
तत्र लिंगान्यनेकानि ऋषिभिः स्थापितानि तु ॥ ४ ॥
दृष्ट्वा स्पृष्ट्वा पूजयित्वा मुक्तः स्यात्सर्वकिल्बिषैः ॥
इत्येतत्कथितं देवि क्षेत्राद्यं तं यथाक्रमम् ॥ ५ ॥
भद्रायाः पश्चिमात्पूर्वं यथानुक्रममादितः ॥
श्रुतं पापोपशमनं कोटियज्ञफलप्रदम् ॥ ६ ॥
अथ क्षेत्रस्य परिधिस्थानं मधुमतीति च ॥
तस्मान्नैर्ऋत्यदिग्भागे स्थानं खंडघटेति च ॥ ७ ॥
तत्र पिंगेश्वरो देवः समुद्रतटसन्निधौ ॥
कूपानां सप्तकं तत्र पितॄणां यत्र पाणयः ॥
दृश्यंतेऽद्यापि देवेशि यत्र पर्वणिपर्वणि ॥ ८ ॥
तत्र श्राद्धं नरः कृत्वा गयाकोटिगुणं फलम् ॥
लभते नाऽत्र सन्देहः सोमामा यदि जायते ॥ ९ ॥
तत्रैव नातिदूरे तु भद्रायाः संगमः स्मृतः ॥
पश्चिमात्संगमात्पूर्वः संगमः समुदाहृतः ॥ 7.1.333.१० ॥
यत्पुण्यं लभते देवि पूर्व पश्चिमसंगमे ॥
गंगासागरयोस्तत्र तद्भद्रासंगमे लभेत् ॥ ११ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तप्तोदकस्वामिमाहात्म्ये मधुमत्यां पिंगेश्वरभद्रामाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३३ ॥ ॥