स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३२७

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो महोदयं गच्छेत्तस्मादीशानसंस्थितम् ॥ १ ॥
विधिना तत्र यः स्नाति तर्पयेत्पितृदेवताः ॥
प्रतिग्रहकृताद्दोषान्न भयं तस्य विद्यते ॥ २ ॥
महोदयं महानन्ददायकं च द्विजन्मनाम् ॥
प्रतिग्रहप्रसक्तानां विषयासक्तचेतसाम् ॥
तेषामपि ददेन्मुक्तिं तेन ख्यातं महोदयम् ॥ ३ ॥
तस्य वै रक्षणार्थाय महाकालस्य चोत्तरे ॥
नियुक्ताश्च महादेवि मातरस्तत्र संस्थिताः ॥
तस्मिन्स्नात्वा नरः पूर्वं मातॄस्ताश्च प्रपूजयेत् ॥ ४ ॥
एवं देवि मया ख्यातं महोदयमहोदयम् ॥
सर्वपापहरं नृणामभिषेकाच्च मुक्तिदम् ॥ ५ ॥
अर्धक्रोशे च तत्तीर्थं समंतात्परिमंडलम् ॥
एतन्मध्यं महासारं सदैव मुनिवल्लभम् ॥ ६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये महोदयमाहात्म्यवर्णनंनाम सप्त विंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२७ ॥