स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३२३

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततः पश्येन्महादेवि तस्य दक्षिणतः स्थितम् ॥
क्षेमेश्वरेति विख्यातमृषितोयातटे स्थितम् ॥ १ ॥
भूतीश्वरेति नामास्य पूर्वं च परिकीर्तितम् ॥
क्षेमेशेति कलौ देवि तस्य नाम प्रकीर्तितम् ॥२॥
तं दृष्ट्वा पूजयित्वा च मुक्तः स्यात्सर्वकिल्बिषैः ॥३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेमेश्वरमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२३ ॥