स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३१९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि ह्युन्नतस्थानमुत्तमम् ॥
तस्यैवोत्तरदिग्भाग ऋषितोयातटे शुभे ॥ १ ॥
एतत्स्थानं महादेवि विप्रेभ्यः प्राददां बलात् ॥
सर्वसीमासमायुक्तं चंडीगणसुरक्षितम् ॥ २ ॥
॥ देव्युवाच ॥ ॥
कथमुन्नतनामास्य बभूव सुरसत्तम ॥
कथं त्वया बलाद्दत्तं कियत्सीमासमन्वितम् ॥ ३ ॥
एतत्सर्वं ममाचक्ष्व संक्षेपान्नातिविस्तरात् ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
यां श्रुत्वा मानवो देवि मुच्यते सर्वपातकैः ॥ ५ ॥
एतत्सर्वं पुरा प्रोक्तं स्थानसंकेतकारणम् ॥
तृतीये ब्रह्मणः कुंडे सृष्टिसंक्षेपसूचके ॥ ६ ॥
तथापि ते प्रवक्ष्यामि संक्षेपाच्छुणु पार्वति ॥ ७ ॥
उन्नामितं पुनस्तत्र यत्र लिंगं महोदये ॥
तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम्॥ ८ ॥
अथवा चोन्नतं द्वारं पूर्वं प्राभासिकस्य वै ॥
तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम् ॥ ९ ॥
विद्यया तपसा चैव यत्रोत्कृष्टा महर्षयः ॥
तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम् ॥ 7.1.319.१० ॥
यदा देवकुले विप्रा मूलचंडीशसंज्ञकम् ॥
प्रसाद्य च महादेवं पुनः प्राप्ता महोदयम् ॥ ११ ॥
षष्टिवर्षसहस्राणि तपस्तेपुर्महर्षयः ॥
ध्यायमाना महेशानमनादिनिधनं परम् ॥ १२ ॥
तेषु वै तप्यमानेषु कोटिसंख्येषु पार्वति ॥
ऋषितोयातटे रम्ये पवित्रे पापनाशने ॥
भिक्षुर्भूत्वा गतश्चाहं पुनस्तत्रैव भामिनि ॥ १३ ॥
त्रिकालं दर्शिभिस्तत्र दोषरागविवर्जितैः ॥
तपस्विभिस्तदा सर्वैर्लक्षितोऽहं वरानने ॥ १४ ॥
दृष्टमात्रस्तदा विप्रैर्विरराम महेश्वरः ॥
क्व यासि विदितो देव इत्युक्त्वानुययुर्द्विजाः ॥ १५ ॥
यावदायांति मुनय ईशेशेति प्रभाषकाः ॥
धावमानाः स्वतपसा द्योतयन्तो दिशोदश ॥ १६ ॥
लिंगमेव प्रपश्यंति न पश्यंति महेश्वरम् ॥ १७ ॥
येये च ददृशुर्लिंगं मूलचण्डीशसंज्ञकम् ॥
तदा च मुनयः सर्वे सदेहाः स्वर्गमाययुः ॥ १८ ॥
यदा त्रिविष्टपं व्याप्तं दृष्टं वै शतयज्वना ॥
आयांति च तथैवान्ये मुनयस्तपसोज्वलाः ॥ १९ ॥
एतदंतरमासाद्य समागत्य महीतले ॥
लिंगमाच्छादयामास वज्रेणैव शतक्रतुः ॥ 7.1.319.२० ॥
अष्टादशसहस्राणि मुनीनामूर्ध्वरेतसाम् ॥
स्थितानि न तु पश्यंति लिंगमेतदनुत्तमम् ॥ २१ ॥
शक्रस्तु सहसा दृष्टो वज्रेणैव समन्वितः ॥
यावद्वदंति शापं ते तावन्नष्टः पुरंदरः ॥ २२॥
दृष्ट्वा तान्कोपसंयुक्तान्भगवांस्त्रिपुरांतकः ॥
उवाच सांत्वयन्देवो वाचा मधुरया मुनीन् ॥ २३ ॥
कथं खिन्ना द्विजश्रेष्ठाः सदा शांतिपरायणाः ॥
प्रसन्नवदना भूत्वा श्रूयतां वचनं मम ॥ २४ ॥
भवद्भिर्ज्ञानसंयुक्तैः स्वर्गः किं मन्यते बहु ॥
यत्रैके वसवः प्रोक्ता आदित्याश्च तथा परे ॥२५ ॥
रुद्रसंज्ञास्तथा चैके ह्यश्विनावपि चापरौ ॥
एतेषामधिपः कश्चिदेक इन्द्रः प्रकीर्तितः ॥ २६ ॥
स्वपुण्यसंख्यया प्राप्ते यस्माद्विभ्रश्यते नरैः ॥
एवं दुःखसमायुक्तः स्वर्गो नैवेष्यते बुधैः ॥ २७ ॥
एतस्मात्कारणाद्विप्राः कुरुध्वं वचनं मम ॥
गृह्णीध्वं नगरं रम्यं निवासाय महाप्रभम् ॥ २८ ॥
हूयंतामग्निहोत्राणि देवताः सर्वदा द्विजाः ॥
इज्यंतां विविधैर्यागैः क्रियतां पितृपूजनम् ॥ २९ ॥
आतिथ्यं क्रियता नित्यं वेदाभ्यासस्तथैव हि ॥ 7.1.319.३० ॥
एवं हि कुर्वतां नित्यं विना ज्ञानस्य संचयैः ॥
प्रसादान्मम विप्रेन्द्राः प्रांते मुक्तिर्भविष्यति ॥ ३१ ॥
॥ ऋषय ऊचुः ॥ ॥
असमर्थाः परित्राणे जिताहारास्तपोन्विताः ॥
नगरेणेह किं कुर्मस्तव भक्तिमभीप्सवः ॥ ॥ ३२ ॥
॥ ईश्वर उवाच ॥ ॥
भविष्यति सदा भक्तिर्युष्माकं परमेश्वरे ॥
गृह्णीध्वं नगरं रम्यं कुरुध्वं वचनं मम ॥ ३३ ॥
इत्युक्त्वा भगवान्देव ईषन्मीलितलोचनः ॥
सस्मार विश्वकर्माणं सर्वशिल्पवतां वरम् ॥ ३४ ॥
स्मृतमात्रो विश्वकर्मा प्रांजलिश्चाग्रतः स्थितः ॥
आज्ञापयतु मां देवो वचनं करवाणि ते ॥ ३५ ॥
॥ ईश्वर उवाच ॥ ॥
नगरं क्रियतां त्वष्टर्विप्रार्थं सुंदरं शुभम् ॥ ३६ ॥
इत्युक्तो विश्वकर्मा स भूमिं वीक्ष्य समंततः ॥
उवाच प्रणतो भूत्वा शंकरं लोकशंकरम् ॥ ३७ ॥
परीक्षिता मया भूमिर्न युक्तं नगरं त्विह ॥
अत्र देवकुलं साक्षाल्लिंगस्य पतनं तथा ॥ ३८ ॥
यतिभिश्चात्र वस्तव्यं न युक्तं गृहमेधिनाम् ॥ ३९ ॥
त्रिरात्रं पंचरात्रं वा सप्तरात्रं महेश्वर ॥
पक्षं मासमृतुं वापि ह्ययनं यावदेव च ॥
पुत्रदारयुतैस्तीर्थे वस्तव्यं गृहमेधिभिः ॥ 7.1.319.४० ॥
वसत्यूर्ध्वं तु षण्मासाद्यदा तीर्थे गृहाधिपः ॥
अवज्ञा जायते तस्य मनश्चापल्यभावतः ॥
तदा धर्माद्विनश्यंति सकला गृहमेधिनः ॥ ४१ ॥
इत्युक्तः स तदा देवस्तेन वै विश्वकर्मणा ॥
पुनः प्रोवाच तं तस्य प्रशस्य वचनं शिवः ॥ ४२ ॥
रोचते मे न वासोऽत्र विप्राणां गृहमेधिनाम् ॥
यत्र चोन्नामितं लिंगमृषितोयातटे शुभे ॥
तत्र निर्मापय त्वष्टर्नगरं शिल्पिनां वर ॥ ४३ ॥
तस्य तद्वचनं श्रुत्वा विश्वकर्मा त्वरान्वितः ॥
गत्वा चकार नगरं शिल्पिकोटिभिरावृतः ॥ ४४ ॥
उन्नतं नाम यल्लोके विख्यातं सुरसुन्दरि ॥
ततो हृष्टमना भूत्वा विलोक्य नगरं शिवः ॥
आहूय ब्राह्मणान्सर्वानुवाचानतकन्धरः ॥४५ ॥
इदं स्थानं वरं रम्यं निर्मितं विश्वकर्मणा ॥
ग्रामाणां च सहस्रैस्तु प्रोक्तं सर्वासु दिक्षु च॥४६ ॥
नगरात्सर्वतः पुण्यो देशो नग्नहरः स्मृतः ॥
अष्टयोजनविस्तीर्ण आयामव्यासतस्तथा ॥ ४७ ॥
नग्नो भूत्वा हरो यत्र देशे भ्रांतो यदृच्छया ॥
तं नग्नहरमित्याहुर्देशं पुण्यतमं जनाः ॥ ४८ ॥
पूर्वे तु शांकरी चाऽऽर्या पश्चिमे न्यंकुमत्यपि ॥
उत्तरे कनकनंदा दक्षिणे सागरावधिः ॥
एतदंतरमासाद्य देशो नग्नहरः स्मृतः ॥ ४९ ॥
अष्टयोजनमानेन आयामव्यासतस्तथा ॥
प्रोक्तोऽयं सकलो देश उन्नतेन समं मया ॥ 7.1.319.५० ॥
गृह्यतां नगरश्रेष्ठं प्रसीदध्वं द्विजोत्तमाः ॥
अत्र भक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥ ५१ ॥
इत्युक्तास्ते तदा सर्वे विप्रा ऊचुर्महेश्वरम् ॥ ५२ ॥
॥ विप्रा ऊचुः ॥ ॥
ईश्वराज्ञा वृथा कर्तुं न शक्या परमात्मनः ॥
तपोऽग्निहोत्रनिष्ठानां वेदाध्ययनशालिनाम् ॥५३॥
अस्माकं रक्षिता कोऽस्ति कलिकाले च दारुणे ॥
को दाताऽऽरोग्यदः कश्च को वै मुक्तिं प्रदास्यति ॥ ५४ ॥
॥ ईश्वर उवाच ॥ ॥
महाकाल स्वरूपेण स्थित्वा तीर्थे महोदये ॥
नाशयिष्यामि शत्रून्वः सम्यगाराधितो ह्यहम् ॥ ५५ ॥
उन्नतो विघ्नराजस्तु विघ्नच्छेत्ता भविष्यति ॥
गणनाथस्वरूपोऽयं धनदो निधीनां पतिः ॥ ५६ ॥
युष्मभ्यं दास्यति द्रव्यं सम्यगाराधितोऽपि सः ॥
आरोग्यदायको नित्यं दुर्गादित्यो भविष्यति ॥ ५७ ॥
महोदयं महानन्ददायकं वो भविष्यति ॥
सम्यगाराधितो ब्रह्मा सर्वकार्येषु सर्वदा ॥
सर्वान्कामांश्च मुक्तिं च युष्मभ्यं संप्रदास्यति ॥ ५८ ॥
॥ विप्रा ऊचुः ॥ ॥
यदि तीर्थानि तिष्ठंति सर्वाणि सुरसत्तम ॥
संगालेश्वरतीर्थे च तथा देवकुले शिवे ॥ ॥ ५९ ॥
कलावपि महारौद्रे ह्यस्माकं पावनाय वै ॥
स्थातव्यं तर्हि गृह्णीमो नान्यथा च महेश्वर ॥ 7.1.319.६० ॥
स तथेति प्रतिज्ञाय ददौ तेभ्यः पुरं वरम् ॥
सप्तभौमैः शशांकाभैः प्रासादैः परिभूषितम् ॥
नानाग्रामसमायुक्तं सर्वतः सीमयान्वितम् ॥ ६१ ॥
॥ सूत उवाच ॥ ॥
एवं तेभ्यो हि नगरं दत्त्वा देवो महेश्वरः ॥
ददर्श विश्वकर्माणं प्राञ्जलिं पुरतः स्थितम् ॥ ६२ ॥
॥ विश्वकर्मोवाच ॥ ॥
विलोक्यतां महादेव नगरं नगरोपमम् ॥
सौवर्णस्थलमारुह्य निर्मितं त्वत्प्रसादतः ॥ ६३ ॥
विश्वकर्मवचः श्रुत्वा भगवांस्त्रिपुरान्तकः ॥
समारुरोह स्थलकं सह सर्वैर्महर्षिभिः ॥ ६४ ॥
नगरं विलोकयामास रम्यं प्राकारमण्डितम् ॥
ऋषयस्तुष्टुवुः सर्वे तत्रस्थं त्रिपुरान्तकम् ॥
तानुवाच महादेवो वृणुध्वं वरमुत्त मम्॥ ६५ ॥
॥ ऋषय ऊचुः ॥ ॥
यदि तुष्टो महादेव स्थलकेश्वरनामभृत् ॥
अवलोकयंश्च नगरं सदा तिष्ठ स्थले हर ॥ ६६ ॥
इत्युक्तस्तैस्तदा देवः स्थलकेऽस्मिन्सदा स्थितः ॥
कृते रत्नमयं देवि त्रेतायां च हिरण्मयम् ॥ ६७ ॥
रौप्यं च द्वापरे प्रोक्तं स्थलमश्ममयं कलौ ॥
एवं तत्र स्थितो देवः स्थलकेश्वरनामतः ॥ ६८ ॥
सदा पूज्यो महादेव उन्नतस्थानवासिभिः ॥
माघे मासि चतुर्दश्यां विशेषस्तत्र जागरे ॥ ६९ ॥
इत्येतत्कथितं देवि ह्युन्नतस्य महोद्यम् ॥
श्रुतं पापहरं नॄणां सर्वकामफलप्रदम् ॥ 7.1.319.७० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थानमाहात्म्यवर्णनंनामैकोनविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३१९ ॥