स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३१७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवीं कंटकशोषिणीम् ॥
उत्तरेण देवकुलाद्दक्षिणेनोन्नतात्स्थितात् ॥ १ ॥
तस्योत्पत्तिं प्रवक्ष्यामि शृणु ह्येकमनाः प्रिये ॥
उन्नताद्दक्षिणे भागे यजंते द्विजसत्तमाः ॥ २ ॥
भृगुरत्रिर्मरीचिश्च भरद्वाजोऽथ कश्यपः ॥
कण्वो मंकिश्च सावर्णिर्जातूकर्ण्यस्तथैव च ॥ ३ ॥
वत्सश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥
मनुर्यमोंऽगिरा विष्णुः शातातपपराशरौ ॥ ४ ॥
शांडिल्यः कौशिकश्चैव गौतमो गार्ग्य एव च ॥
दाल्भ्यश्च शौनकश्चैव शाकल्यो गालवस्तथा ॥ ५ ॥
जाबालिर्मुद्गलश्चैव ऋष्यशृंगो विभांडकः ॥
विश्वामित्रः शतानंदो जह्नुर्विश्वावसुस्तथा ॥ ६ ॥
एते चान्ये च मुनयो यजंते विविधैर्मखैः ॥
यज्ञवाटं च निर्माय ऋषितोयातटे शुभे ॥ ७ ॥
देवगन्धर्वनृत्यैश्च वेणुवीणानिनादितम् ॥
वेदध्वनितघोषेण यज्ञहोमाग्निहोत्रजैः ॥ ८ ॥
धूपैः समावृतं सर्वमाज्यगंधिभिरर्चितम् ॥
शोभितं मुनिभिर्दिव्यैश्चातुर्वेद्यैर्द्विजोत्तमैः ॥ ९ ॥
एवंविधं प्रदेशं तु दृष्ट्वा दैत्या महाबलाः ॥
समुद्रमध्यादायाता यज्ञविध्वंसहेतवे ॥ 7.1.317.१० ॥
मायाविनो महाकायाः श्यामवर्णा महोदराः ॥
लंबभ्रूश्मश्रुनासाग्रा रक्ताक्षा रक्तमूर्धजाः ॥ ११ ॥
यज्ञं समागताः सर्वे दैत्याश्चैव वरानने ॥
तान्दृष्ट्वा मुनयः सर्वे रौद्ररूपान्भयंकरान् ॥ १२ ॥
केचिन्निपतिता भूमौ तथान्ये ऽग्नौ स्रुचीकराः ॥
पत्नीशालां समाविष्टा हविर्धानं तथा परे ॥ १३ ॥
ऋत्विजस्तु सदोमध्ये स्थिता वाचंयमास्तथा ॥ १४ ॥
एवं देवि यदा वृत्तं मुनीनां च महात्मनाम् ॥
तदाध्वर्युर्महातेजा धैर्यमालम्ब्य सादरः ॥ १५ ॥
अग्निहोत्रं हविष्यं च हविर्विन्यस्य मन्त्रवित् ॥
सुसमिद्धं जुहावाग्निं रक्षसां नाशहेतवे ॥ १६ ॥
हुते हविषि देवेशि तत्क्षणादेव चोत्थिता ॥
शक्तिः शक्तित्रिशूलाढ्या चर्महस्ता महोज्ज्वला ॥ १७ ॥
तया ते निहता दैत्या यज्ञविध्वंसकारिणः ॥
ततस्तां विविधैः स्तोत्रैर्मुनयस्तुष्टुवुस्तदा ॥ १८ ॥
प्रसन्ना भूयसी देवी तानृषीन्प्रत्युवाच ह ॥
वरं वृणुध्वं मुनयो दास्यामि वरमुत्तमम्॥ १९ ॥
॥ ऋषय ऊचुः ॥ ॥
कृतं वै सकलं कार्यं यज्ञा नो रक्षितास्त्वया ॥
यदि देयो वरोऽस्माकं त्वया चासुरमर्द्दिनि ॥ 7.1.317.२० ॥
अस्मिन्स्थाने सदा तिष्ठ मुनीनां हितकाम्यया ॥
कंटकाः शोषिता दैत्यास्तेन कंटकशोषिणी ॥
अद्यप्रभृति नामास्तु तेन देवि सदा त्विह ॥ २१ ॥
॥ ईश्वर उवाच ॥ ॥
एवं भविष्यतीत्युक्त्वा सा देव्यन्तर्हिता तदा ॥
अष्टम्यां वा नवम्यां वा पूजयिष्यति मा नवः ॥ २२ ॥
राक्षसेभ्यः पिशाचेभ्यो भयं तस्य न जायते ॥
प्राप्नुयात्परमां सिद्धिं मानवो नात्र संशयः ॥ २३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कंटकशोषणीमाहात्म्यवर्णनंनाम सप्तदशोत्तरत्रिशततमोऽध्यायः ॥३१७॥ ॥