स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३१२

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तस्मादुत्तरदिग्भागे धनुषामष्टभिः प्रिये ॥
बकुलस्वामिनं सूर्यं तं पश्येद्दुःखनाशनम् ॥ १ ॥
रविवारेण सप्तम्यां कुर्याज्जागरणं नरः ॥
सर्वान्कामानवाप्नोति सूर्यलोके महीयते ॥ ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये बकुलस्वामिमाहात्म्यवर्णनंनाम द्वाद शोत्तरत्रिशततमोऽध्यायः ॥ ३१२ ॥