स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३०६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि सांबादित्यमनुत्तमम् ॥
तस्मादुत्तरभागे तु सर्वपातकनाशनम् ॥ १ ॥
यत्र सांबस्तपस्तप्त्वा ह्याराध्य च दिवाकरम् ॥
प्राप्तवान्सुन्दरं देहं सहस्रांशुप्रसादतः ॥ २ ॥
यदा रोषेण संशप्तः पित्रा जांबवतीसुतः ॥
आराधयामास तदा विष्णुं कमललोचनम् ॥ ३ ॥
अनुग्रहार्थं शापस्य सांबो जांबवतीसुतः ॥
प्रसन्नवदनो भूत्वा विष्णुः प्रोवाच तं प्रति ॥ ४ ॥
गच्छ प्राभासिके क्षेत्रे ब्रह्मभागमनुत्तमम् ॥
ऋषितोयातटे रम्ये ब्राह्मणैरुपशोभिते ॥ ५ ॥
तत्राऽहं सूर्यरूपेण वरं दास्यामि पुत्रक ॥
इत्युक्तः स तदा सांबो विष्णुना प्रभविष्णुना ॥ ६ ॥
गतः प्राभासिके क्षेत्रे रम्ये शिवपुरे शिवे ॥
तत्राराध्य परं देवं भास्करं वारितस्करम् ॥ ७ ॥
प्रसादयामास तदा स्तुत्वा स्तोत्रैरनेकधा ॥ ८ ॥
प्रत्युवाच रविः सांबं प्रसन्नस्ते स्तवेन वै ॥
शीघ्रं गच्छ नरश्रेष्ठ ऋषितोयातटे शुभे ॥ ९ ॥
इत्युक्तः स तदाऽऽगत्य ऋषितोयातटं शुभम् ॥
नारदो यत्र ब्रह्मर्षिस्तपस्तप्यति चैव हि ॥ 7.1.306.१० ॥
तत्र गत्वा हरेः सूनुरुन्नतस्थानवासिनः ॥
आसन्ये ब्राह्मणास्तान्स इदं वचनमब्रवीत् ॥ ११ ॥
॥ सांब उवाच ॥ ॥
एष वै ब्रह्मणो भागः प्रभासे क्षेत्र उत्तमे ॥
अत्र वै ब्राह्मणा ये तु ते वै श्रेष्ठाः स्मृता भुवि ॥ १२ ॥
भवतां वचनाद्विप्राः सूर्यमाराधयाम्यहम् ॥
मम वै पूर्वमादिष्टं स्थानमेतच्च विष्णुना ॥ १३ ॥
॥ विप्रा ऊचुः ॥ ॥
सिद्धिस्ते भविता सांब आराधय दिवाकरम् ॥
इत्युक्तः स तदा विप्रैः प्रविष्टोऽथ प्रभाकरम्॥ १४ ॥
नित्यमाराधयामास सांबो जांबवतीसुतः ॥
तपोनिष्ठं च तं दृष्ट्वा विष्णुः कारुणिको महान् ॥ १५ ॥
इदं वै चिन्तयामास पुत्रवात्सल्यसंयुतः ॥
यथैश्वर्यप्रदो रुद्रो यथा विष्णुश्च मुक्तिदः ॥ १६ ॥
यज्ञैरिष्टो हि देवेन्द्रो यथा स्वर्गप्रदः स्मृतः ॥
शुद्धिकर्तृ यथा तोयं मृत्तिकाभस्मसंयुतम् ॥
दहनात्मा यथा वह्निर्विघ्नहर्त्ता गणेश्वरः ॥ १७ ॥
स्वच्छंदभारतीदाने यथा ब्रह्मसुता नृणाम् ॥
तथाऽऽरोग्यप्रदाता च नान्यो देवो दिवाकरात् ॥ १८ ॥
अनेकधाऽऽराधितोऽपि स देवो भास्करः शुचिः ॥
न ददाति वरं यत्तु तन्मे शापस्य कारणात् ॥ १९ ॥
एवं संचिन्त्य भगवान्विष्णुः कमललोचनः ॥
सूर्यरूपं समाश्रित्य तस्य तुष्टो जनार्दनः ॥ 7.1.306.२० ॥
योऽपरनारायणख्यस्तस्यैव सन्निधौ स्थितः ॥
प्रत्यक्षः स ततो विष्णुः सूर्यरूपी दिवाकरः ॥
उवाच परमप्रीतो वरदः पुण्यकर्मणाम् ॥ २१ ॥
अलं क्लेशेन ते सांब किमर्थं तप्यसे तपः ॥
प्रसन्नोऽहं हरेः सूनो वरं वरय सुव्रत ॥ २२ ॥
॥ सांब उवाच ॥ ॥
निर्मलस्त्वत्प्रसादेन कुष्ठमुक्तकलेवरः ॥
भवानि देवदेवेश प्रत्यक्षाऽम्बरभूषण ॥
अस्मिन्स्थाने स्थितो रम्ये नित्यं सन्निहितो भव ॥ २३ ॥
॥ सूर्य उवाच ॥ ॥
अधुना निर्मलो देहस्तव सांब भविष्यति ॥ इहागत्य नरो यस्तु सप्तम्यां रविवासरे ॥
उपवासपरो भूत्वा रात्रौ जागरणे स्थितः ॥ २४ ॥
अष्टादशानि कुष्ठानि पापरोगास्तथैव च ॥
कदाचिन्न भविष्यन्ति कुले तस्य महात्मनः ॥ २५ ॥
कृत्वा स्नानं नरो यस्तु भक्तियुक्तो जितेन्द्रियः ॥
पूजयेद्रविवारेण सांबादित्यं महाप्रभम् ॥
स रोगहीनो धनवान्पुत्रवाञ्जायते नरः ॥ २६ ॥
तस्यैव पूर्वदिग्भागे किञ्चिदीशानमाश्रितम् ॥
कुंडं पापहरं पुण्यं स्वच्छोदपरि पूरितम्॥ २७ ॥
तत्र स्नात्वा च् विधिवत्कुर्याच्छ्राद्धं विचक्षणः ॥
भोजयेद्ब्राह्मणान्यस्तु सांबादित्यं प्रपूजयेत् ॥ २८ ॥
सर्वकामसमृद्धात्मा सूर्य लोके महीयते ॥ २९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्य माहात्म्यवर्णनंनाम षडुत्तरत्रिशततमोध्यायः ॥ ३०६ ॥