स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३०५
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्याः पूर्वेण संस्थितम्॥
नारदादित्यनामानं जरादारिद्र्यनाशनम् ॥ १ ॥
पश्चिमे मूलचंडीशाद्धनुषां च शतत्रये ॥
आराध्य नारदो देवि भास्करं वारितस्करम् ॥
जरा निर्मुक्तदेहस्तु तत्क्षणात्समपद्यत ॥२ ॥
॥ देव्युवाच ॥ ॥
कथं जरामनुप्राप्तो नारदो मुनिपुंगवः ॥
कथमाराधितः सूर्य एतन्मे वद शंकर ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
यदा द्वारवतीं प्राप्तो नारदो मुनिपुंगवः ॥
सर्वे दृष्टास्तदा तेन विष्णोः पुत्रा महाबलाः ॥ ४ ॥
तद्राजकुलमध्ये तु क्रीडमाना परस्परम् ॥ आयांतं नारदं दृष्ट्वा सर्वे विनयसंयुताः ॥ ५ ॥
नमश्चक्रुर्यथान्यायं विना सांबं त्वरान्विताः ॥
अविनीतं तु तं दृष्ट्वा कथयामास नारदः ॥ ६ ॥
शरीरमदमत्तोऽसि यस्मात्सांब हरेः सुत ॥
अचिरेणैव कालेन शापं प्राप्स्यसि दारुणम् ॥ ७॥
॥ सांब उवाच ॥ ॥
नमस्कारेण किं कार्यमृषीणां च जितात्मनाम्॥
आशीर्वादेन तेषां च तपोहानिः प्रजायते ॥ ८ ॥
मुनीनां यः स्वभावो हि त्वयि लेशो न नारद ॥
विद्यते ब्रह्मणः पुत्र उच्यते किमतः परम्॥ ९ ॥
न कलत्रं न ते पुत्रा न च पौत्रप्रपौत्रकाः ॥
न गृहं नैव च द्वारं न हि गावो न वत्सकाः ॥ 7.1.305.१० ॥
ब्रह्मणो मानसः पुत्रो ब्रह्मचर्ये व्यवस्थितः ॥
अयुक्तं कुरुते नित्यं कस्मात्प्रकृतिरीदृशी ॥ ११ ॥
युद्धं विना न ते सौख्यं सौख्यं न कलहं विना ॥
यादृशस्तादृशो वापि वाग्वादोऽपि सदा प्रियः ॥ १२ ॥
स्नानं संध्या जपो होमस्तर्पणं पितृदेवयोः ॥
नारदः कुरुते चान्यदन्यत्कुर्वंति ब्राह्मणाः ॥ १३ ॥
कौमारेण तु गर्विष्ठो यस्मान्मां शापयिष्यसि ॥
तस्मात्त्वमपि विप्रर्षे जरायुक्तो भविष्यसि ॥ १४ ॥
एवं शप्तस्तदा देवि नारदो मुनिपुंगवः ॥
एकान्ते निर्मले स्थाने कंटकास्थिविवर्जिते ॥ १५ ॥
कृष्णाजिनपरिच्छिन्ने ह्युपविष्टो वरासने ॥
ऋषितोया तटे रम्ये प्रतिष्ठाप्य महामुनिः ॥ १६ ॥
सूर्यस्य प्रतिमां रम्यां सर्वदारिद्र्यनाशिनीम् ॥
तुष्टाव विविधैः स्तोत्रैरादित्यं तिमिरापहम् ॥ १७ ॥
नमस्त ऋक्स्वरूपाय साम्नां धामग ते नमः ॥
ज्ञानैकरूपदेहाय निर्धूततमसे नमः ॥ १८ ॥
शुद्धज्योतिःस्वरूपाय निर्मूर्तायामलात्मने ॥
वरिष्ठाय वरेण्याय सर्वस्मै परमात्मने ॥ १९ ॥
नमोऽखिलजगद्व्यापिस्वरूपानंदमूर्तये ॥
सर्वकारणपूताय निष्ठायै ज्ञानचेतसाम् ॥ 7.1.305.२० ॥
नमः सर्वस्वरूपाय प्रकाशालक्ष्यरूपिणे ॥
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥ २१ ॥
॥ ईश्वर उवाच ॥ ॥
एवं संस्तुवतस्तस्य पुरतस्तस्य चेतसा ॥
प्रादुर्बभूव देवेशि जगच्चक्षुः सनातनः ॥
उवाच परमं प्रीतो नारदं मुनिपुंगवम् ॥ २२ ॥
॥ सूर्य उवाच ॥ ॥
वरं वरय विप्रर्षे यस्ते मनसि वर्तते ॥
तुष्टोऽहं तव दास्यामि यद्यपि स्यात्सुदुर्लभम् ॥ २३ ॥
॥ नारद उवाच ॥
कुमार वयसा युक्तो जरायुक्तकलेवरः ॥
प्रसादात्स्यां हि ते देव यदि तुष्टो दिवाकर ॥ २४ ॥
सप्तम्यां रविवारेण यस्त्वां पश्यति मानवः ॥
तस्य रोग भयं माऽस्तु प्रसादात्तिमिरापह॥ २५ ॥
॥ ईश्वर उवाच ॥ ॥
एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो रविः ॥
इत्येतत्कथितं देवि माहात्म्यं सकलं तव ॥
नारदादित्यदेवस्य सर्वपातकनाशनम्॥ २६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारदादित्यमाहात्म्यवर्णनंनाम पञ्चोत्तरत्रिशततमोऽध्यायः ॥ ३०५ ॥