स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३०४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गंगां त्रिपथगामिनीम् ॥
संगालेशादथैशान्यां धनुषां सप्तके स्थिताम्॥ १ ॥
तस्यां त्रिनेत्रा मत्स्याः स्युर्नित्यमांभसिकाः प्रिये ॥
कलौयुगेऽपि दृश्यंते सत्यंसत्यं मयोदितम् ॥ २ ॥
तस्यां स्नात्वा महादेवि मुच्यते पञ्चपातकैः ॥ ३ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा विस्मिता गिरिजा सती ॥
उवाच तं द्विजश्रेष्ठाः प्रचलच्चंद्रशेखरम् ॥४॥
॥ पार्वत्युवाच ॥ ॥
कथं तत्र समायाता गंगा त्रिपथगामिनी ॥
कथं त्रिनेत्राः संजाता मत्स्या आंभसिकाः शिव ॥ ५ ॥
एतद्विस्तरतो ब्रूहि यद्यहं ते प्रिया विभो ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि यदि पृच्छसि मां शुभे ॥
आस्तिकाः श्रद्दधानाश्च भवंतीति मतिर्मम ॥ ७॥
यदा शप्तो महादेवो ह्यज्ञानतिमिरावृतैः ॥
ऋषिभिः कोपयुक्तैश्च कस्मिंश्चित्कारणांतरे ॥ ८ ॥
तदा ते मुनयः सर्वे शप्तं ज्ञात्वा महेश्वरम् ॥
निरानंदं जगत्सर्वं दृष्ट्वा चात्मानमेव च ॥ ९ ॥
आराध्य परमेशानं दधतं गजरूपकम् ॥
उन्नतं स्थानमानीय सानंदं चक्रिरे द्विजाः ॥ 7.1.304.१० ॥
ततः प्रभृति सर्वे ते शिवद्रोहकरं परम् ॥
आत्मानं मेनिरे नित्यं प्रसन्नेऽपि महेश्वरे ॥ ११ ॥
महोदयान्महातीर्थं सर्व आगत्य सत्वरम् ॥
तपस्तेपुर्महाघोरं संगालेश्वरसन्निधौ ॥ १२ ॥
संगालेश्वरनामानं सर्वे पूज्य यथाविधि ॥
भृगुरत्रिस्तथा मंकिः कश्यपः कण्व एव च ॥ १३ ॥
गौतमः कौशिकश्चैव कुशिकश्च महातपाः ॥
शूकरोऽथ भरद्वाजो भार्गविश्च महातपाः ॥ १४ ॥
जातूकर्ण्यो वसिष्ठश्च सावर्णिश्च पराशरः ॥
शांडिल्यश्च पुलस्त्यश्च वत्सश्चैव महातपाः ॥ १५ ॥
एते चान्ये च बहवो ह्यसंख्याता महर्षयः ॥ १६ ॥
संगालेश्वरमासाद्य प्रभासे पापनाशने ॥
तपः कुर्वंति सततं प्रतिष्ठाप्य महेश्वरम् ॥ १७ ॥
ततः कालेन महता ते सर्वे मुनिपुंगवाः ॥
ध्यानात्त्रिलोचनस्यैव अदृष्टे तु महेश्वरे ॥ १८ ॥
त्रिनेत्रत्वमनुप्राप्तास्तपोनिष्ठास्तपोधनाः ॥
परस्परं वीक्षमाणास्त्रिनेत्रस्याभिशंकया ॥ १९ ॥
स्तुवंति विविधैः स्तोत्रैर्मन्यमाना महेश्वरम् ॥
ज्ञात्वा ध्यानेन देवस्य त्रिनेत्रत्वमुपागताः ॥ 7.1.304.२० ॥
चकुरुग्रं तपस्ते तु पूजां देवस्य शूलिनः ॥
तेषु वै तप्यमानेषु कृपाविष्टो महेश्वरः ॥ २१ ॥
उवाच तान्मुनीन्सर्वाञ्छृणुध्वं वरमुत्तमम्॥
प्रसन्नोऽहं मुनिश्रेष्ठास्तपसा पूजयापि च ॥ २२ ॥
॥ ऋषय ऊचुः ॥ ॥
यदि प्रसन्नो देवेश वरं नो दातुमर्हसि ॥
गंगामानय वेगेन ह्यभिषेकाय नो हर ॥ २३ ॥
तस्यां कृताभिषेकास्तु तव द्रोहकरा वयम् ॥
अज्ञानभावात्पूतत्वं यास्यामः पृथिवीतले ॥ २४ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
यूयं पवित्रकरणाः पावनानां च पावनाः ॥
गंगां चैवानयिष्यामि युष्माकं चित्ततुष्टये ॥ २५ ॥
पावित्र्याद्भवतां जातं त्रैनेत्र्यं मुनिसत्तमाः ॥
एवमुक्त्वा ततः शंभुर्ध्यानस्तिमितलोचनः ॥
सस्मार क्षणमात्रेण गंगां मीनकुलावृताम् ॥ २६ ॥
स्मृतमात्रा तदा देवी गंगा त्रिपथगामिनी ॥
भित्वा भूमितलं प्राप्ता तत्र मीनकुलावृता ॥ २७ ॥
ऋषिभिश्च यदा दृष्टा गंगा मीनयुता शुभा ॥
दृष्टमात्रास्तु ते मत्स्यास्त्रिनेत्रत्वमुपागताः ॥ २८ ॥
॥ ईश्वर उवाच ॥ ॥
युष्माकं दर्शनाद्विप्रास्त्रिनेत्रत्वमुपागताः ॥
एतन्निदर्शनं सर्वं लोकानां च प्रदर्शनम् ॥ २९ ॥ ॥।
॥ ऋषय ऊचुः ॥ ॥
अस्मिन्कुंडे महादेव मत्स्यानां संततिः सदा ॥
त्रिनेत्रा त्वत्प्रसादेन भूयात्सर्वा युगेयुगे ॥ 7.1.304.३० ॥
अस्मिन्कुंडे समागत्य नरः स्नानं करोति यः ॥
ददाति हेम विप्राय गाश्च वस्त्रं तथा तिलान् ॥ ३१ ॥
अमावास्यां विशेषेण त्रिनेत्रः स प्रजायताम् ॥
एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो हरः ॥ ३२ ॥
ब्राह्मणास्तुष्टिसंयुक्ता गताः सर्वे महोदयम् ॥ ३३ ॥
एतत्ते कथितं देवि गंगामाहात्म्यमुत्तमम् ॥
श्रुतं पापप्रशमनं सर्वकामफलप्रदम् ॥ ३४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरसमीपवर्ति गंगामाहात्म्यवर्णनंनाम चतुरुत्तरत्रिशततमोऽध्यायः ॥ ३०४