स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३००

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
तस्यैवोत्तरदिग्भागे किञ्चिद्वायव्यसंस्थितम् ॥
संगालेश्वरनामास्ति सर्वपातकनाशनम् ॥ १ ॥
तत्र ब्रह्मा च विष्णुश्च लिंगस्याराधनोद्यतौ ॥
शक्रश्चैव महातेजा लिंगं पूजितवान्प्रिये ॥ २ ॥
वरुणो धनदश्चैव धर्मराजोऽथ पावकः ॥
आदित्यैर्वसुभिश्चैव लोकपालैः समंततः ॥ ३ ॥
आराधितं महालिंगं संगालेश्वरनामभृत् ॥
पूजयित्वा तु ते सर्वे दृष्ट्वा माहात्म्यमुत्तमम् ॥ ४ ॥
ऊचुश्च सहसा देवि परमानंदसंयुताः ॥
देवानां निवहैर्यस्मात्समागत्य प्रतिष्ठितम् ॥
संगालेश्वरनामास्य भविष्यति धरातले ॥ ५ ॥
संगालेश्वरनामानं पूजयिष्यंति मानवाः ॥
न तेषामन्वये कश्चिन्निर्धनः संभविष्यति ॥ ६ ॥
गोसहस्रस्य दत्तस्य कुरुक्षेत्रे च यत्फलम् ॥
तत्फलं समवाप्नोति संगालेश्वरदर्शनात् ॥ ७ ॥
अमावास्यां च संप्राप्य स्नानं कृत्वा विधानतः ॥
यः करोति नरः श्राद्धं पितॄणां रोषवर्जितः ॥
पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ॥ ८ ॥
अर्धक्रोशं च तत्क्षेत्रं समंतात्परिमण्डलम् ॥
सर्वकामप्रदं नृणां सर्वपातकनाशनम् ॥ ९ ॥
अस्मिन्क्षेत्रे महादेवि जीवा उत्तममध्यमाः ॥
कालेन निधनं प्राप्तास्तेऽपि यांति परां गतिम् ॥7.1.300.१०॥।
गृहीत्वानशनं ये तु प्राणांस्त्यक्ष्यंति मानवाः ॥
निश्चयं ते महादेवि लीयंते परमेश्वरे ॥११॥
गवा हता द्विजहता ये च वै दंष्ट्रिभिर्हता॥
आत्मनो घातका ये तु सर्पदष्टाश्च ये मृताः ॥ १२ ॥
शय्यायां विगतप्राणा ये च शौचविवर्जिताः ॥
अस्मिंस्तीर्थे महापुण्ये अपुनर्भवदायके॥ १३ ॥
दत्तैः षोडशभिः श्राद्धैर्वृषोत्सर्गे कृते पुनः ॥
विधिवद्भोजितैर्विप्रैर्भवेन्मुक्तिर्न संशयः ॥ १४ ॥
एवमुक्त्वा सुराः सर्वे गतवंतस्त्रिविष्टपम् ॥ १५ ॥
संगालेश्वरमाहात्म्यं संक्षेपात्कथितं तव ॥
श्रुतं हरति पापानि दुःखशोकांस्तथैव च ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरमाहात्म्यवर्णनंनाम त्रिशततमोऽध्यायः ॥ ३०० ॥