स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २९८

विकिस्रोतः तः

ईश्वर उवाच ॥ ॥
ऋषितोयापश्चिमे तु तत्र गव्यूतिमात्रतः ॥
संगालेश्वरनामास्ति सर्वपातकनाशनः ॥ १ ॥
गुप्तस्तत्र प्रयागश्च देवो वै माधवस्तथा ॥
जाह्नवी यमुना चैव देवी तत्र सरस्वती ॥ २ ॥
अन्यानि तत्र तीर्थानि बहूनि च वरानने ॥
स्नात्वा दृष्ट्वा पूजयित्वा मुक्तः स्यात्सर्वकिल्बिषैः ॥ ३ ॥
॥ पार्वत्युवाच ॥ ॥
कथय त्वं महेशान सर्वदेवनमस्कृत ॥
तीर्थराजः प्रयागस्तु कथं विष्णुः सनातनः ॥ ४ ॥
कथं गंगा च यमुना तथा देवी सरस्वती ॥
अन्यान्यपि बहून्येव तीर्थानि वृषभध्वज ॥ ५ ॥
समायातानि तत्रैव संगालेश्वरसंनिधौ ॥
संगालेशेति किं नाम ह्येतन्मे वद कौतुकम् ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
पुरा वै लिंगपतने सर्वदेवसमागमे ॥
सार्धत्रितयकोटीनि पुण्यानि सुरसुन्दरि ॥ ७ ॥
तीर्थानि तीर्थराजोऽयं प्रयागः समुपस्थितः ॥
आत्मानं गोपयामास तीर्थकोटिभिरावृतम् ॥ ८ ॥
ततस्तत्र समायाता ब्रह्मविष्णुपुरोगमाः ॥
विबुधास्तीर्थराजं तं ददृशुर्दिव्यचक्षुषा ॥ ९ ॥
तीर्थकोटिभिराकीर्णं पवित्रं पापनाशनम् ॥
लिंगस्य पतनं श्रुत्वा महादुःखेन संवृताः ॥ 7.1.298.१० ॥
स्थिताः सर्वे तदा देवि ब्रह्माद्याः सुरसत्तमाः ॥ ११ ॥
एतस्मिन्नेव काले तु देवो रुद्रः सनातनः ॥
निरानंदः समायातो वाक्यमेतदुवाच ह ॥ १२ ॥
शृणुध्वं वचनं देवा ब्रह्मविष्णुपुरोगमाः ॥
ऋषिशापान्निपतितं मम लिंगमनुत्तमम् ॥
तस्माल्लिंगं पूजयत सर्व कामार्थसिद्धये ॥१३ ॥
एवमुक्त्वा महादेवो देशे तस्मिन्स्थितः प्रिये ॥
ब्राह्मं च वैष्णवं रौद्रं तत्र कुण्डत्रयं स्मृतम् ॥ १४ ॥
चतुर्थं त्रिसंगमाख्यं नदीनां यत्र संगमः ॥
गंगायाश्च सरस्वत्याः सूर्यपुत्र्यास्तथैव च ॥ १५ ॥
कोटिरेका च तीर्थानां ब्रह्मकुण्डे व्यवस्थिता ॥
तथा च वैष्णवे कुण्डे कोटिरेका प्रकीर्तिता ॥ १६ ॥
सार्धकोटिस्तु संप्रोक्ता शिवकुण्डे प्रकीर्तिता ॥
पश्चिमे ब्रह्मकुण्डं च पूर्वे वै वैष्णवं स्मृतम् ॥ १७ ॥
मध्यभागे स्थितं यच्च रुद्रकुण्डं प्रकीर्तितम् ॥
कुण्डमध्याद्विनिर्गत्य यत्र गंगा वरानने ॥ १८ ॥
सूर्यपुत्र्या समेता च तत्त्रिसंगम उच्यते ॥
अनयोरंतरे सूक्ष्मे तत्र गुप्ता सरस्वती ॥ १९ ॥
एषु सन्निहितो नित्यं प्रयागस्तीर्थनायकः ॥
अत्रागत्य नरो यस्तु माघमासे वरानने ॥ 7.1.298.२० ॥
स्नायात्प्रभातसमये मकरस्थे रवौ प्रिये ॥
किञ्चिदभ्युदिते सूर्ये शृणु तस्य च यत्फलम् ॥ २१ ॥
आद्येनैकेन स्नानेन पापं यन्मनसा कृतम्॥
व्यपोहति नरः सम्यक्छ्रद्धायुक्तो जितेन्द्रियः ॥ २२ ॥
वाचिकं तु द्वितीयेन कायिकं तु तृतीयकात् ॥
संसर्गजं चतुर्थेन रहस्यं पञ्चमेन तु ॥ २३ ॥
उपपातकानि षष्ठेन स्नानेनैव व्यपोहति॥२४॥
अभिषेकेण कुण्डानां सप्तकृत्वो वरानने॥
महांति चैव पापानि क्षाल्यंते पुरुषैः सदा॥२५॥
यः स्नाति सकलं मासं प्रयागे गुप्तसंज्ञके ॥
ब्रह्मादिभिर्न तद्वक्तुं शक्यते कल्पकोटिभिः ॥ २६ ॥
यानि कानि च तीर्थानि प्रभासे संति भामिनि ॥
तेभ्योऽतिवल्लभं तीर्थं सर्वपापप्रणाशनम् ॥ २७ ॥
एषां संरक्षणार्थाय मया वै तत्र मातरः ॥
पूजनीयाः प्रयत्नेन नैवेद्यैर्विविधैः शुभैः ॥ २८ ॥
कृष्णपक्षे चतुर्दश्यां श्रद्धायुक्तेन चेतसा ॥
तासामनुचरा देवि भूतप्रेताश्च कोटिशः ॥ २९ ॥
तेषां भयविनाशाय ता मातॄश्च प्रपूजयेत् ॥
अस्मिंस्तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥7.1.298.३०॥
यः कश्चित्कुरुते श्राद्धं पितॄनुद्दिश्य भक्तितः ॥
उद्धरेच्च पितुर्वर्गं मातुर्वर्गं नरोत्तमः ॥३१॥
वृषभस्तत्र दातव्यः सम्यग्यात्राफलेप्सुभिः ॥
एवं यः कुरुते यात्रां तस्य फलमनन्तकम् ॥ ३२ ॥
एवं गुप्तप्रयागस्य माहात्म्यं कथितं तव ॥
श्रुत्वाभिनन्द्य पुरुषः प्राप्नुयाच्छंकरालयम् ॥ ३३ ॥
 इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुप्तप्रया गमाहात्म्यवर्णनंनामाष्टनवत्युत्तरद्विशततमोऽध्यायः ॥ २९८ ॥