स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २९७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ देव्युवाच ॥ ॥
देवदेव जगन्नाथ संसारार्णवतारक ॥
सविस्तरं तु मे ब्रूहि ऋषितोयामहोदयम् ॥ १ ॥
ऋषितोयेति तन्नाम कथं ख्यातं धरातले ॥
कथं सा पुनरायाता देवदारुवने शुभे ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि सावधाना वचो मम ॥
माहात्म्यमृषितोयायाः सर्वपातकनाशनम् ॥ ३ ॥
देवदारुवने पुण्य ऋषयस्तपसा युताः ॥
निवसंति वरारोहे शतशोथ सहस्रशः ॥ ४ ॥
तेषां निवसतां तत्र बहुकालो गतः प्रिये ॥
पुत्रपौत्रैः प्रवृद्धास्ते दारुकं व्याप्य संस्थिताः ॥ ८५ ॥
ते सर्वे चिंतयामासुः समेत्य च परस्परम् ॥
सरस्वती महापुण्या शिरस्याधाय वाडवम् ॥ ६ ॥
प्रभासं चिरकालेन क्षेत्रं चैव गमिष्यति ॥
वापीकूपतडागादि मुक्त्वा सागरगामिनीम् ॥ ७ ॥
नाह्लादं कुरुते चेतः स्नानदानजपेषु च ॥
ब्रह्माणं प्रार्थयिष्यामो गत्वा ब्रह्मनिकेतनम् ॥ ८ ॥
॥ ईश्वर उवाच ॥ ॥
एवं निमन्त्र्य ते सर्वे ऋषयस्तपसोज्ज्वलाः॥
गतास्ते ब्रह्मलोकं तु द्रष्टुं देवं पितामहम् ॥
तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्माणं कमलोद्भवम् ॥ ९ ॥
॥ ऋषय ऊचुः ॥ ॥
नमः प्रणवरूपाय विश्व कर्त्रे नमोनमः ॥
तथा विश्वस्य रक्षित्रे नमोऽस्तु परमात्मने ॥ 7.1.297.१० ॥
तथा तस्यैव संहर्त्रे नमो ब्रह्मस्वरूपिणे ॥
पितामह नमस्तुभ्यं सुरज्येष्ठ नमोऽस्तु ते ॥ ११ ॥
चतुर्वक्त्र नमस्तुभ्यं पद्मयोने नमोऽस्तु ते ॥
विरंचये नमस्तुभ्यं विधये वेधसे नमः ॥ १२ ॥
चिदानन्द नमस्तुभ्यं हिरण्यगर्भ ते नमः ॥
हंसवाहन ते नित्यं पद्मासन नमोऽस्तुते ॥ १३ ॥
एवं संस्तुवतां तेषामृषीणामूर्ध्वरेतसाम् ॥
उवाच परमप्रीतो ब्रह्मा लोक पितामहः ॥ १४ ॥
स्वागतं वै द्विजश्रेष्ठा युष्माकं कृतवानहम् ॥
स्तोत्रेणानेन दिव्येन वृणुध्वं वरमुत्तमम् ॥ १५ ॥
॥ ऋषय ऊचुः ॥ ॥
अभिषेकाय नो देव नदी पापप्रणाशिनी ॥
विलोक्यते सुरश्रेष्ठ देहि नो वरमुत्तमम् ॥ १६ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्तस्तैस्तदा ब्रह्मा मुनिभिस्तपसोज्ज्वलैः ॥
वीक्षांचक्रे तदा सर्वा मूर्तिमत्यश्च निम्नगाः ॥ १७ ॥
गङ्गा च यमुना चैव तथा देवी सरस्वती ॥
चन्द्रभागा च रेवा च शरयूर्गंडकी तथा ॥ १८ ॥
तापी चैव वरारोहे तथा गोदावरी नदी ॥
कावेरी चन्द्रपुत्री च शिप्रा चर्मण्वती तथा ॥ १९ ॥
सिन्धुश्च वेदिका चैव नदाः सर्वे वरानने ॥
मूर्तिमत्यः स्थिताः सर्वाः पवित्राः पापनाशिनी ॥ 7.1.297.२० ॥
दृष्ट्वा पितामहः सर्वा गत्वरा धरणीं प्रति ॥
देवदारुवने रम्ये प्रभासे क्षेत्र उत्तमे ॥
कमण्डलौ कृता दृष्टिर्विविशुस्ताः कमण्डलुम् ॥ २१ ॥ ।
। ब्रह्मोवाच ॥ ॥
धृताः सर्वा महापुण्या नद्यो ब्रह्मकमण्डलौ॥
प्रविष्टाः पृथिवीं यांतु ऋषीणामनुकम्पया ॥ २२ ॥
प्रहिणोमि यद्येकां च ह्यन्या रुष्यति मे द्विजाः ॥
तस्मात्सर्वाः प्रमोक्ष्यामि कमण्डलुकृतालयाः ॥ २३ ॥
॥ ईश्वर उवाच ॥
ततो ब्रह्मा मुमोचाऽथ तत्रस्थाश्च महापगाः ॥
मुक्त्वा ब्रह्मा मुनीन्सर्वान्प्रोवाचेदं पुनःपुनः ॥ २४ ॥
ऋषिभिः प्रार्थ्यमानेन नद्यो मुक्ता मया यतः ॥
तोयरूपा महावेगा अभिषेकाय सत्वराः ॥ २५ ॥
ऋषितोयेति नाम्ना सा भविष्यति धरातले ॥
ऋषीणां वल्लभा देवी सर्वपातकनाशिनी ॥ २६ ॥
॥ ईश्वर उवाच ॥ ॥
एवं देवि समायाता देवदारुवने नदी ॥
ऋषितोयेति विख्याता पवित्रा च वरानने ॥ २७ ॥
तूर्यदुंदुभिनिर्घोषैर्वेदमङ्गलनिःस्वनैः ॥
समुद्रं प्रापिता देवी ऋषिभिर्वेदपारगैः ॥ २८ ॥
सर्वत्र सुलभा देवी त्रिषु स्थानेषु दुर्लभा ॥
महोदये महातीर्थे मूलचंडीशसन्निधौ ॥ २९ ॥
समुद्रेण समेता तु यत्र सा पूर्ववाहिनी ॥
यत्रर्षितोया लभ्येत तत्र किं मृग्यते परम् ॥7.1.297.३०॥
मनुष्यास्ते सदा धन्यास्तत्तोयं तु पिबंति ये ॥
अस्थीनि यत्र लीयंते षण्मासाभ्यन्तरेण तु ॥ ३१ ॥
प्रातःकाले वहेद्गंगा सायं च यमुना तथा ॥ ३२ ॥
नदीसहस्रसंयुक्ता मध्याह्ने तु सरस्वती ॥
अपराह्णे वहेद्रेवा सायाह्ने सूर्यपुत्रिका ॥ ३३ ॥
एवं जानन्नरो यस्तु तत्र स्नान विचक्षणः ॥
आचरेद्विधिना श्राद्धं स तस्याः फलभाग्भवेत् ॥ ३४ ॥
एवं संक्षेपतः प्रोक्तमृषितोयामहोदयम् ॥
सर्वपापहरं नृणां सर्वकामफलप्रदम् ॥ ३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितोयामाहात्म्यवर्णनंनाम सप्तनवत्युत्तरद्विशततमोऽध्यायः ॥ २९७ ॥