स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २९४

विकिस्रोतः तः

॥ ईश्वर उवाच ॥
ततो गच्छेन्महादेवि कौबेरात्पूर्वसंस्थितम् ॥
गव्यूतिपंचके देवि पुष्करंनाम नामतः ॥
यत्र सिद्धो महादेवि कैवर्तो मत्स्यघातकः ॥ १ ॥
॥ देव्युवाच ॥ ॥
सविस्तरं मम ब्रूहि कथं स सिद्धिमाप वै ॥
कथयस्व प्रसादेन देवदेव महेश्वर ॥ २ ॥
॥ ॥ ईश्वर उवाच ॥ ॥
शृणु त्वं यत्पुरावृत्तं देवि स्वारोचिषेंतरे ॥
आसीत्कश्चिद्दुराचारः कैवर्तो मत्स्यघातकः ॥ ३ ॥
स कदाचिच्चरन्पापः पुष्करे तु जगाम वै ॥
ददर्श शांकरं वेश्म लतापादपसंकुलम् ॥ ४ ॥
स माघमासे शीतार्त्तः क्लिन्नजालसमन्वितः ॥
प्रासादमारुरोहार्त्तः सूर्यतापजिघृक्षया ॥ ५ ॥
ततः स क्लिन्नजालं तच्छोषणाय रवेः करैः ॥
प्रासादध्वजदंडाग्रे संप्रसारितवांस्तदा ॥ ६ ॥
ततः प्रासादतो देवि जाड्यात्संपतितः क्रमात् ॥
स मृतः सहसा देवि तस्मिन्क्षेत्रे शिवस्य च ॥ ७ ॥
जालं तस्य प्रभूतेन जीर्णकालेन यत्तदा ॥
ध्वजा बद्धा यतो जालैः प्रासादे सा शुभेऽभवत् ॥ ८ ॥
ततोऽसौ ध्वजमाहात्म्याज्जातोऽवन्यां नराधिपः ॥
ऋतध्वजेति विख्यातः सौराष्ट्रविषये सुधीः ॥
स हि स्फूर्जद्ध्वजाग्रेण रथेन पर्यटन्महीम् ॥ ९ ॥
कामभोगाभिभूतात्मा राज्यं चक्रे प्रतापवान् ॥
ततोऽसौ भवने शंभोर्ददौ शोभासमन्विताम् ॥
ध्वजां शुभ्रां विचित्रां च नान्यत्किंचिदपि प्रभुः ॥ 7.1.294.१० ॥
ततो जातिस्मरो राजा प्रभासक्षेत्रमागतः॥
तत्रायतनं ध्वजाजालसमन्वितम्॥११॥
अजोगन्धस्य देवस्य पूर्वमाराधितस्य च ॥
प्रासादं कारयामास शिवोपकरणानि च॥१२॥
नित्यं पूजयते भक्त्या तल्लिंगं पापनाशनम् ॥
दशवर्षसहस्राणि राज्यं चक्रे महामनाः ॥ १३ ॥
तल्लिंगस्य प्रभावेन ततः कालाद्दिवं गतः ॥
तस्मात्तत्र प्रयत्नेन गत्वा लिंगं प्रपूजयेत् ॥ १४ ॥
स्नात्वा पश्चिमतः कुण्डे पुष्करे पापतस्करे ॥
यत्र ब्रह्माऽयजत्पूर्वं यज्ञैर्विपुलदक्षिणैः ॥ १५ ॥
समाहूय च तीर्थानि पुष्करात्तत्र भामिनि ॥
तस्मिन्कुण्डे तु विन्यस्य अजोगन्ध समीपतः ॥
प्रतिष्ठाप्य महालिंगमजोगन्धेति नामतः ॥ १६ ॥
त्रिपुष्करे महादेवि कुण्डे पातकनाशने ॥
सौवर्णं कमलं तत्र दद्याद्ब्राह्मणपुंगवे ॥ १७ ॥
देवं संपूज्य विधिवद्गन्धपुष्पाक्षतादिभिः ॥
मुच्यते पातकैः सर्वैः सप्तजन्मार्जितैरपि ॥ १८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्कर माहात्म्येऽजोगन्धेश्वरमाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरद्विशततमोऽध्यायः ॥ २९४ ॥